सुभाषितरत्नकोश · अध्याय 28
किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैः तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः
किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः ॥
निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः
ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगद् लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः ॥
द्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः सान्ध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम्
शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी ॥
चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः
विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि संप्रत्ययः ॥
घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति काष्ठानाम् ।
छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि ॥
रहः-संकेत-स्थो घनतम-तमः-पुञ्ज-पिहित वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि
स-डत्काराद् अल्पाद् अपि निभृत-संप्राप्त-रमणी भ्रम-भ्राम्यद्-बाहुर् दम-दमिकयोत्ताम्यति युवा ॥
हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां ग्रस्तं हन्त निशाचरैर् इव तमः-स्तोभैः समस्तं जगत्
कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीत-द्युतिर् ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पाताल-गर्भाद् इव ॥
उत्सारितो हसित-दीधितिभिः कपोलाद् एकावलीभिर् अवधूत इव स्तनेभ्यः
अङ्गेष्व् अलब्ध-परिभोग-सुखो ऽन्धकारो गृह्णाति केश-रचनासु रुषेव नारीः ॥
व्योम्नस् तापिच्छ-गुच्छावलिभिर् इव तमो-वल्लरीभिर् व्रियन्ते पर्यन्ताः प्रान्त-वृत्त्या पयसि वसुमती नूतने मज्जतीव
वात्यासंवेग-विष्वग्-वितत-वलयित-स्फीत-धूम्याप्रकाशं प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥
अत्युत्सार्य बहिर्-विटङ्ग-वडभी-गण्ड-स्थल-श्यामिकां भिन्नाभिन्न-गवाक्ष-जाल-विरल-च्छिद्रैः प्रदीपांशवः
आरूढस्य भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः कराल-विरल-श्मश्रू-प्ररोहा इव ॥
तनु-लग्ना इव ककुभः क्ष्मा-वलयं चरण-चार-मात्रम् इव ।
वियद् इव चालिक-दघ्नं मुष्टि-ग्राह्यं तमः कुरुते ॥
उत्तंसः केकि-पिच्छैर् मरकत-वलय-श्यामले दोः-प्रकाण्डे हारः सारेन्द्र-नीलैर् मृगमद-रचितो वक्त्र-पत्र-प्रपञ्चः
नीलाब्जैः शेखर-श्री-रसित-वसनता चेत्य् अभीकाभिसारे संप्रत्य् एणेक्षणानां तिमिर-भर-सखी वर्तते वेश-लीला ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0