भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 27

27.1*(858)

निद्रान्धानां दिनमणि-कराः कान्तिम् अम्भोरुहाणां उच्चित्यैते बहु-गुणम् इवाबिभ्रतः शोणिमानम्
चक्राङ्काणाम् अविरल-जलैर् आर्द्र-विश्लेष-भाजां वक्षः-स्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः ॥

27.2*(859)

दावास्त्र-शक्तिर् अयम् एति च शीत-भावं भास्वान् ज्वलन्ति हृदयानि च कोक-यूनाम्
किं ब्रूमहे ऽभ्युदयते च जगत्-पिधानं ध्वान्तं भवन्ति च विशुद्ध-दृशो दिवान्धाः ॥

27.3*(860)

उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत्
पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमः-स्तोम-लीला धरित्री ॥

27.4*(861)

चूडा-रत्नैः स्फुरद्भिर् विषधर-विवराण्य् उज्ज्वलान्य् उज्ज्वलानि प्रेक्ष्यन्ते चक्रवाकी-मनसि निविशते सूर्य-कान्तात् कृशानुः
किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा संघट्टोत्पिष्ट-संध्या-कण-निकर-परिस्पर्धिनो भान्ति दीपाः ॥

27.5*(862)

पटु-कटु-कोष्मभिः कटक-धातु-रसस्य गिरेः कुहर-कटाहकेषु रवि-धामभिर् उत्क्वथतः
उपरि-भराद् इवोत्सलितया छटया गगनं प्रति-नव-संध्यया सपदि संवलितं शुशुभे ॥

27.6*(863)

अस्तं भास्वति लोक-लोचन-कलालोके गते भर्तरि स्त्री-लोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः
अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्ष-माला दिशो मन्ये खञ्जन-कण्ठ-कोमल-तमः-कृष्णाजिनं बिभ्रति ॥

27.7*(864)

यावद् भास्कर-केसरी प्रवितत-ज्योतिः-सटा-भासुरो हत्वा वासर-वारणं वन-दरीम् अस्ताचलस्यास्थितः
तावत् संतम-साच्छ-भल्ल-परिषत्-संध्यास्त्रम् आपीयते कुम्भ-भ्रंश-विकीर्ण-मौक्तिक-रुचो राजन्त्य् अमूस् तारकाः ॥

27.8*(865)

अस्त-व्यास्तान् क्रम-तत-गतीन् पत्रि-माला-तरङ्गान् वेणी-दण्डान् इव धृतवती मुक्त-संध्याङ्ग-रागा
ध्वान्त-म्लानांशुक-परिचय-च्छन्न-लावण्य-शोच्या द्यौः प्रत्यग्र-द्युमणि-विरहाद् वान्तम् अक्ष्णोर् न याति ॥

27.9*(866)

परावृत्ता गावस् तरुषु वयसां कूजति कुलं पिशाचीनां चेतः स्पृशति गृह-कृत्य-प्रवणता
अयं नन्दी संध्या-समय-कृत-कृत्य-व्यवसितिस् त्रि-नेत्राभिप्राय-प्रतिसदृशम् उन्मार्ष्टि मुरजान् ॥

27.10*(867)

उत्सर्पद्-धूम-लेखा-त्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता
खेदेनेवानतासु स्खलद्-अलि-रसनास्व् अब्जिनी-प्रेयसीषु प्रायः संध्यातपाग्निं विशति दिनपतौ दह्यते वासर-श्रीः ॥

27.11*(868)

प्रारब्धो मणि-दीप-यष्टिषु वृथा पातः पतङ्गैर् इतोअः गन्धान्धैर् अभितो मधुव्रत-कुलैर् उत्पक्ष्मभिः स्थीयते
वेल्लद्-बाहु-लता-विलोक-वलय-स्वानैर् इतः सूचित व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् ॥

27.12*(869)

व्रजति कलित-स्तोकालोको नवीन-जवारुण च्छवि-रविर् असौ स्वेच्छा-दृश्यौ दिशं भृशम् अप्-पतेः
ककुभि ककुभि प्राप्ताहाराः कुलायमही-रुहां शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्त्रिणः ॥

27.13*(870)

काल-व्याल-हतं वीक्ष्य पतन्तं भानुम् अम्बरात्
ओषधीशं समादाय धावतीव पितृ-प्रसूः ॥

27.14*(871)

जगन्-नेत्र-ज्योतिः पिबति शनकैर् अन्ध-तमसं कुलायैर् आकृष्टाः क्षण-विरत-कूजा बलि-भुजः
तथोलूकः स्तोक-व्यपगत-भयः कोटर-मुखाद् वपुर् मग्न-ग्रीवो डमरितशिराः पश्यति दिशः ॥

27.15*(872)

तारा-प्ररोह-धवलोत्कट-दन्त-पङ्क्तेर् ध्वान्ताभिनील-वपुषो रजनी-पिशाच्याः
जिह्वेव सार्द्र-रुधिरारुण-सूर्य-मांस ग्रासार्थिनी नभसि विस्फुरति स्म संध्या ॥

27.16*(873)

स्नातीव मन्दर-नगो ऽस्तमिते ऽद्य् मित्रे सिन्धूद्वृतेन्दु-कलश-स्खलद्-अंशु-तोयैः
एतज् जगन्-नयन-हारि घनं तमो ऽस्य पृष्ठे श्रियं वितत-कुन्तलवत् तनोति ॥

27.17*(874)

पृथु-गगन-कबन्ध-स्कन्ध-चक्रं किम् एतत् किम् उ रुधिर-कपालं काल-कापालिकस्य
ललल-भरितम् अन्तः किं नु तार्क्ष्याण्ड-खण्डं जनयति हि वितर्कान् सान्ध्यम् अर्कस्य बिम्बम् ॥

27.18*(875)

याते भास्वति वृद्ध-सारस-शिरः-शोणेस्त-शृङ्गाश्रयं व्यालिप्तं तिमिरैः कठोर-बलि-भुक्-कण्ठाभिनीलैर् नभः
माहेन्द्री दिग् अपि प्रसन्न-नलिना चन्द्रोदयाकाङ्क्षिणी भात्य् एषा चिर-विप्रयुक्त-शवरी-गण्डावपाण्डु-च्छविः ॥

27.19*(876)*

अतिहरित-पत्र-परिकर-संपन्न-स्पन्दनैक-विटपस्य ।
घन-वासनैर् मयूखैः कुसुम्भ-कुसुमायते तरणिः ॥

27.20*(877)*

दिनमणिर् अनर्घ-मूल्यो दिन-वणिजार्घ-प्रसारितो जगति ।
अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः ॥

27.21*(878)

निर्यद्-वासर-जीव-पिण्ड-करणिं बिभ्रत् कवोष्णैः करैर् माञ्जिष्ठं रवि-बिम्बम् अम्बर-तलाद् अस्ताचले लुण्ठति
किं च स्तोक-तमः-कलाप-कलना-श्यामायमानं मनाग् धूम-ध्याम-पुराण-चित्र-रचना-रूपं जगज् जायते ॥

27.22*(879)

घर्म-त्विषि स्फुरित-रत्न-शिला-क्रमेण मेरोर् नितम्ब-कटकान् अवगाहमाने
वल्गत्-तुरङ्ग-खुर-चूर्णित-पद्म-राग धूलीव वात-वलितोल्लसति स्म संध्या ॥

27.23*(880)*

अस्ताद्रि-शिरो-विनिहित-रवि-मण्डल-सरस-याव-घट्टाङ्कम् ।
नयतीव काल-कौलः क्वापि नभः-सैरिभं सिद्ध्यै ॥

27.24*(881)

प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथु-केसरैर् विरल-विरलैर् अन्तः-पत्रैर् मनाङ् मिलितं ततः
तद्-अनु वलना-मात्रं किंचिद् व्यधायि बहिर् दलैर् मुकुलन-विधौ वृद्धाब्जानां बभूव कदर्थना ॥

27.25*(882)

दग्ध-ध्वान्त-दिनस्य घर्म-दिन-कृत्-संवृत्त-सप्तार्चिषा तप्ताङ्गार-गुरूच्चय-श्रियम् अयं बध्नाति संध्या-तपः
निर्वाणाज् जल-विप्रकीर्ण-निवह-श्यामत्वम् आतन्वते प्राग्-विप्लुष्ट-तमो-गुरोर् अभिनवास् तस्यास् तमिस्र-त्विषः ॥

27.26*(883)*

अस्तोपधान-विनिहित-रवि-बिम्ब-शिरो-निकुञ्चित-दिग्-अङ्गः ।
वस्ते ऽन्धकार-कम्बलम् अमर-शयने दिनाध्वन्यः ॥

27.27*(884)

नृत्य-श्रमात् कर-नखोदर-पीतवान्तैः स्वेदार्द्र-भस्म-मय-बिन्दुभिर् इन्दु-गौरैः
संत्यज्य तारकितम् एतद् इति प्रवादं व्योमाङ्गणं गणय चित्रितम् ईश्वरेण ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc