सुभाषितरत्नकोश · अध्याय 26
रुद्धे वायौ निषिद्धे तमसि शुभ-वशोन्मीलितालोक-शक्तिः कस्मान् निर्वाण-लाभी न भवतु परम-ब्रह्मवद् वीक्ष्य दीपः
निद्राण-स्त्री-नितम्बाम्बर-हरण-रणन्-मेखलाराव-धावत् कन्दर्पानद्ध-बाण-व्यतिकर-तरलं कामिनं यामिनीषु ॥
अतिपीतां तमो-राजीं तनीयान् सोढुम् अक्षमः
वमतीव शनैर् एष प्रदीपः कज्जल-च्छलात् ॥
निर्वाण-गोचर-गतो ऽपि मुहुर् प्रदीपः किं वृत्तकं तरुणयोः सुरतावसाने
इत्य् एवम् आकलयितुं सकलङ्क-लज्जद् उद्ग्रीविकाम् इव ददाति रति-प्रदीपः ॥
बालां कृशाङ्गीं सुरतानभिज्ञां गाढं नवोढाम् उपगूढवन्तम्
विलोक्य जामातरम् एष दीपो वातायते कम्पम् उपैति भीतः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0