सुभाषितरत्नकोश · अध्याय 25
निःशेष-च्युत-चन्दनः स्तन-तटो निर्यात-रागो ऽधरो नेत्रे दूरम् अनञ्जने जल-लव-प्रस्यन्दिनी ते तनुः
आशा-च्छेदिनि दूति बान्धव-जनस्याज्ञात-पीडागमे वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥
किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना
सव्रणा एव शोभन्ते शूराधर-पयोधराः ॥
साधु दूति पुनः साधु कर्तव्यं किम् अतः परम्
यन् मद्-अर्थे विरुग्णासि दन्तैर् अपि नखैर् अपि ॥
विहारः कण्ठ-देशस् ते दूति प्रव्रजितासि किम्
अधरो वीत-रागस् ते कषाये तव लोचने ॥
दूति किं तेन पापेन शास्त्रातिक्रम-कारिणा
पञ्च पञ्चनखा भक्ष्याः षष्ठी त्वं येन खादिता ॥
नायातः सामदानाभ्याम् इति भेदे ऽपि दर्शिते
साधु यद् दुर्विनीतस्य त्वया दण्डो निपातितः ॥
अनेन वीत-रागेण बुद्धेनेवाधरेण ते
दूति विर्व्याजम् आख्याता सर्व-वस्तुषु शून्यता ॥
पार्श्वान्भ्यां स-प्रहाराभ्याम् अधरे व्रज-खण्डिते
दूति संग्राम-योग्यासि न योग्या दूत-कर्मणि ॥
त्वया दूति कृतं कर्म यत् तद् अन्येन दुष्करम्
शरणागत-विध्वंसी छिद्रान्वेषी निपातितः ॥
क्षामा तनुर् गतिः खिन्ना नेत्रे व्यालोल-तारके
वाग् अस्पृष्टा श्लथं वासो दूति त्वं ज्वरितासि किम् ॥
रजन्याम् अन्यस्यां सुरत-परिवर्ताद् अनुचितं मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा
त्वया प्रीत्यानीतं स्व-निवसन-दानात् पुनर् इदं कुतस् त्वादृग् दूति स्खलित-शमनोपाय-निपुणा ॥
नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् तत् किं कोपनया त्वया स्व-दशनैर् अग्राधरः खण्डितः
स्वेदाम्भः-कण-दायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां को लोकस्य सखि स्वभाव-कुटिलस्यान्तर्गतं ज्ञास्यति ॥
रोमाञ्चं वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता दृष्टिस् ते भ्रमति प्रकम्प-चपले व्यक्तं च ते शीत्कृतम्
तं लब्ध्वा खलु बन्धकीव सुरत-व्यापार-दक्षं जनं किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः ॥
श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः
स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् दूति म्लान-सरोरुह-द्युति-मुषः स्वौष्ठस्य किं वक्ष्यसि ॥
अधरेणोन्नति-भाजा भुजङ्ग-परिपीडितेन ते दूति ।
संक्षोभितं मनो मे जलनिधिर् इव मन्द-रागेण ॥
सद्-भावोपगता सम-प्रणयिनी दाराः परस्येति वा दूते राग-पराभवः क्रियत इत्य् एतन् न मीमांसितम्
येनाम्भोरुह-संनिभस्य वदनस्यापाण्डुता ते कृता दूति भ्रष्ट-गुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः ॥
स्व-कार्य-बुद्ध्यैव सदा मद्-अर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या
त्वया फलेनैव विभावितो ऽयं मया सहाभिन्न-शरीर-वादः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0