सुभाषितरत्नकोश · अध्याय 24
दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मिन् गृहे दास्यसि प्रायो नैव शिशोः पिताद्य विरसाः कौपीरपः पास्यति
एकाकिन्य् अपि यामि तद् वरम् इतः स्रोतस् तमालाकुलं नीरन्ध्रास् तनुम् आलिखन्तु जठर-च्छेदानल-ग्रन्थयः ॥
तेषां गोप-वधू-विलास-सुहृदां राध-रहः-साक्षिणां क्षेमं भद्र कलिन्द-राज-तनया-तीरे लता-वेश्मनाम्
विच्छिन्ने स्मर-तल्प-कल्पन-विधि-च्छेदोपयोगे ऽधुना ते जाने जरठी-भवन्ति विगलन् नील-त्विषः पल्लवाः ॥
सिक-तिल-तलाः सान्द्र-च्छायास् तटान्त-विलम्बिनः शिशिर-मरुतां लीला-वासाः क्वणज्-जल-रङ्कवः
अविनयवती-निर्विच्छेद-स्मर-व्यय-दायिनः कथय मुरले केनामी ते कृता निचुल-द्रुमाः ॥
पान्थ स्वैर-गतिं विहाय झटिति प्रस्थानम् आरभ्यताम् अत्यन्तं करि-शूकराहित्-गवयिर् भीमं पुरः काननम्
चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी ॥
विटपिनि शिशिर-च्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः ।
अतरु-रवारिर् अतः परम् असम-शिला-दुर्गमो मार्गः ॥
अम्बा शेते ऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो निःशेषागार-कर्म-श्रम-शिथिल-तनुर् कुब्म्ह-दासी तथेह
अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राण-नाथा पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृति-व्याज-पूर्वम् ॥
स्मर-विवशया किंचिन् मिथ्या-निषेध-मनोज्ञया दिशि दिशि भयाद् भूयो भूयः प्रवर्तित-नेत्रया
कुवलय-दृशा शून्ये दैवाद् अतर्कित-लब्धया निभृत-निभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् ॥
व्यपेत-व्याहारं गत-विविध-शिल्प-व्यतिकरं कर-स्पर्शारम्भ-प्रगलित-दुकूलान्त-शयनम्
मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः-प्रेषित-दृशोर् अहल्या-सुत्राम्णोः क्षणिकम् इव तत्-संगतम् अभूत् ॥
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास् ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते ॥
क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे
एकाकिनी वद कथं न बिभेषि बाले नन्व् अस्ति पुङ्खित-शरो मदनः सहायः ॥
उदेति यस्यां न निशाकरो रिपुस् तिथिर् नु का पुण्यवतीभिर् आप्यते
इतीव दुष्ट्या परिदेविते मुहुः कुहू कुहूर् इत्य् अलम् आह कोकिलः ॥
मातर् गेहिनि यद्य् अयं हत-शुकः संवर्धनीयस् मया लौहं पञ्जरम् अस्य दुर्णयवतो गाढां तदा कारय
अद्यैनं वदरी-निकुञ्ज-कुहरे लीनम् प्रचण्डोरगे कर्षन्त्या मम तावद् अङ्ग-लिखनैर् एवापद् एषा गता ॥
ध्वस्तं केन विलेपनं कुच-युगे केनाञ्जनं नेत्रयो रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः
तेनाशेष-जनौघ-कल्मषम् उषा नीलाब्ज-भासा सखि किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव ॥
आकृष्यादाव् अमन्द-ग्रहमलकचयं वक्त्रम् आसज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् दत्त-गाढाङ्ग-सङ्गः
बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपा-कृत् ॥
आमोदिना समधुना परिधूसरेण सव्याकुल-भ्रमवता पतता पुरस्तात्
आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण ॥
पान्थे पद्मसरो ऽन्तशाद्वल-भुवि न्यस्याञ्चलं शायिनि त्वं श्रान्तास्यवहं च वर्त्म वसति-ग्रामो न वेलाप्य् अगात्
उत्तान-द्विगुणासमञ्जस-मिलज्-जानूदरास्तांशुक स्तोकोन्मीलद्-असञ्जितोरु वयम् अप्य् एकाकिनः किं त्व् इदम् ॥
इन्दुर् यत्र न निन्द्यते न मधुरं दूती-वचः श्रूयते नालापा निपतन्ति बाष्प-कलुषा नोपैति कार्श्यं तनुः
स्वाधीनामनुकूलिनीं स्व-गृहिणीम् आलिङ्ग्य यत् सुप्यते तत् किं प्रेम गृहाश्रम-व्रतम् इदं कष्टं समाचर्यते ॥
प्रणय-विशदां वक्त्रे दृष्टिं ददाति विशङ्किता घटयति घनं कण्ठाश्लेषं सकम्प-पयोधरा
वदति बहुशो गच्छामीति प्रयत्न-धृताप्य् अहो रमयतितरां संकेतस्था तथापि हि कामिनी ॥
दुर्दिन-निशीथ-पवने निःसंचारासु नगर-वीथीषु ।
पत्यौ विदेशयाते परं सुखं जघन-चपलायाः ॥
मार्गे पङ्किनि तोयदान्ध-तमसे निःशब्द-संचारकं गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम्
आजानुऊद्धृत-नूपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छ्राल् लब्ध-परिस्थितिः स्व-भवने पन्थानम् अभ्यस्यति ॥
बिभ्राणार्द्र-नख-क्षतानि जघने नान्यत्र गात्रे भयान् नेत्रे चुम्बन-पाटले च दधती निद्रालसे निव्रणे
स्वं संकेतम् अदूरम् एव कमितुर् भ्रू-संज्ञया शंसती सिद्धिं याति विटैक-कल्प-लतिका रण्डा न पुण्यैर् विना ॥
अद्य स्वां जननीम् अकारण-रुषा प्रातः सुदूरं गतां प्रत्यानेक्तुम् इतो गतो गृह-पतिः श्रुत्वैव मध्यं-दिने
पङ्गुत्वेन शरीर-जर्जरतया प्रायः स लक्ष्याकृतिर् दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥
वस्त्र-प्रोत-दुरन्त-तनू पुर्मुखाः संयम्य नीवी-मणीन् उद्गाढांशुक-पल्लवेन निभृतं दत्ताभिसार-क्रमाः
एताः कुन्तल-मल्लिका-परिमल-व्यालोल-भृङ्गावली झङ्कारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गी-दृशः ॥
पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं जनश् छिद्रान्वेषी प्रणयि-वचनं दुष्परिहरम्
अतः काचित् तन्वी रति-विदित-संकेत-गतये गृहाद् वारं वारं निरसरद् अथ प्राविशद् अथ ॥
उदेष्यत्-पीयूष-द्युति-रुचि-कणार्द्राः शशि-मणि स्थलीनां पन्थानो घन-चरण-लाक्षा-लिपि-भृतः
चकोरैर् उड्डीनैर् झटिति कृत-शङ्काः प्रतिपदं पराञ्चः संचारान-विनयवतीनां विवृणुते ॥
मलयज-पङ्क-लिप्त-तनवो नव-हार-लता-विभूषिताः सिततर-दन्त-पत्र-कृत-वक्त्र-रुचो रुचिरामलांशुकाः
शशभृति वितत-धाम्नि धवलयति धराम् अविभाव्यतां गताः प्रिय-वसतिं व्रजन्ति सुखम् एव मिथो निरस्त-भियो ऽभिसारिकाः ॥
निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्त-मुग्धा ।
पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं वाञ्छन्ति वारि-दानाम् ॥
कृत्वा नूपुर-मूकतां चरणयोः संयम्य नीवी-मणीन् उद्दाम-ध्वनि-पिण्डितान् परिजने किंचिच् च निद्रायिते
कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधि-प्रेरितः काश्मीरी-कुच-कुम्भ-संभ्रम-हरः शीतांशुर् अभ्युद्यतः ॥
उरसि निहितस् तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ
प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥
अनुमतम् इवानेतुं जोषं तमी-तमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः शिर्याङ्कुरिताञ्जनाः
मदन-हुत-भुग्-धूम-च्छायैः पटैर् असितैर् वृताः प्रययुर् अरसद्-भूषैर् अङ्गैः प्रियानभिसारिकाः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0