सुभाषितरत्नकोश · अध्याय 23
गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं श्वसितम् अधिकं किं त्व् एतत् स्यात् किम् अन्यद् अतो ऽथ वा
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललित-मधुरास् ते ते भावाः क्षिपन्ति च धीरताम् ॥
वारं वारं तिरयति दृशोर् उद्गमं बाष्प-पूरस् तत्-संकल्पोपहति-जडिम स्तम्भम् अभ्येति गात्रम्
सद्यः स्विद्यन्न् अयम् अविरतोत्कम्प-लोलाङ्गुलीकः पाणिर् लेखा-विधिषु नितरां वर्तते किं करोमि ॥
उन्मीलन्-मुकुल-कराल-कुन्द-कोष प्रश्च्योतद्-घन-मकरन्द-गन्ध-गर्भः
ताम् ईषत्-प्रचल-विलोचनां नताङ्गीम् आलिङ्गन् पवन मम स्पृशाङ्गम् अङ्गम् ॥
दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चते चेतनाम्
ज्वलति च तनूम् अन्तर्-दाहः करोति न भस्मसात् प्रहरति विधिर् मर्म-च्छेदी न कृन्तति जीवितम् ॥
नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे यत् पर्याकुल-लोचनो ऽसि करुणं कूजन् दिशः पश्यसि
दैवेनान्तरित-प्रियो ऽसि हरिण त्वं चापि किं यच् चिरं प्रदद्रि प्रतिकन्दरं प्रतिनदि प्रयूषरं भ्राम्यसि ॥
कस्राघातैः सुरभिर् अभितः सत्वरं ताडनीयः गाढाम्रेडं मलय-मरुतः शृङ्खलादाम दत्त
कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णी-कुरुत च शिला-पट्टके पिष्ट-पेषम् ॥
ह्रिया संसक्ताङ्गं तद्-अनु मदनाज्ञा-प्रशिथिलं सनाथं माञ्जिष्ठ-प्रसर-कृश-रेखैर् नख-पदैः
घनोरु-प्राग्-भारं निधि-मुखम् इवामुद्रितम् अहो कदा नु द्रक्ष्यामो विगलित-दुकूलं मृग-दृशः ॥
एते चूत-महीरुहो ऽप्य् अविरलैर् धूमायिताः षट्पदैर् एते प्रज्वलिताः स्फुटत्-किसलयोद्भेदैर् अशोक-द्रुमाः
एते किंशुक-शाखिनो ऽपि मलिनैर् अङ्गारिताः कुड्मलैः कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥
सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लाला-स्रवः सर्वं नैतद् इहास्ति तत् कथम् असौ पान्थस् तपस्वी मृतः
आ ज्ञातं मधुलम्पटैर् मधुकरैर् आबद्ध-कोलाहले नूनं साहसिकेन चूत-मुकुले दृष्टिः समारोपिता ॥
मनसिशय कृशाङ्ग्याः स्वान्तम् अन्तर्-निशातैर् इषुभिर् अशनि-कल्पैर् मा वधीस् त्वं ममेव
अपि ननु शशलक्ष्मन् मा मुचस् त्वं च तस्यां अकरुण-किरणोल्काः कन्दली-कोमलायाम् ॥
चक्षुश्-चुमब-विघ्निताधर-सुधा-पानं मुखं शुष्यति द्वेष्टि स्वं च कच-ग्रह-व्यवहित-श्रोणी-विहारः करः
निद्रे किं विरतासि तावद् अघृणे यावन् न तस्याश् चिरात् क्रीडन्ति क्रमशः कृशीकृत-रुषः प्रत्यङ्गम् अङ्गानि मे ॥
जाने सा गगन-प्रसून-कलि-केवात्यन्तम् एवासती तत्-संभोग-रसाश् च तत्-परिमलोल्लासा इवासत्तमाः
स्वप्नेन द्विषतेन्द्र-जालम् इव मे संदर्शिता केवलं चेतस् तत्-परिरम्भणाय तद् अपि स्फीत-स्पृहं ताम्यति ॥
द्यूते पणः प्रणय-केलिषु कण्ठ-पाशः क्रीडा-परिश्रम-हरं व्यजनं रतान्ते
शय्या-निशीथ-कलहेषु मृगेक्षणायाः प्राप्तं मया विधि-वशाद् इदम् उत्तरीयम् ॥
देशैर् अन्तरिता शतैश् च सरिताम् उर्वी-भृतां काननैर् यत्नेनापि न याति लोचन-पथं कान्तेति जानन्न् अपि
उद्ग्रीवश् चरणार्ध-रुद्ध-वसुधः कृत्वाश्रु-पूर्णां दृशं ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते ॥
प्रौढानङ्ग-रसाविलाकुल-मनाङ् न्यञ्चत्-तिरो-घूर्णित स्निग्धाह्लादि मदान्धम् अध्वनि तया यच् चक्षुर् आन्दोलितम्
तेनास्माकम् इयं गतिर् मतिर् इयं संवृत्तिर् एवंविधा तापो ऽयं तनुर् ईदृशी स्थितिर् इयं तस्या अपीति श्रुतिः ॥
स एवायं देशः सर इव विलूनाम्बुज-वनं तनोत्य् अन्तस् तापं नभ इव विलीनामृत-रुचि
वियोगे तन्वङ्ग्याः कलयति स एवायम् अधुना हिमर्तुर् नैदाघीम् अहह विषमां तापन-रुजम् ॥
सृष्टा वयं यदि ततः किम् इयं मृगाक्षी सेयं वयं यदि ततः किम् अयं वसन्तः
सो ऽप्य् अस्तु नाम जगतः प्रतिपक्ष-भूतश् चूत-द्रुमः किम् इति निर्मित एष धात्रा ॥
ते बाणाः किल चूत-कुड्मल-मयाः पौष्पं धनुस् तत् किल क्रुद्ध-त्र्यम्बक-लोचनाग्नि-शिखया कामो ऽपि दग्धः किल
किं ब्रूमो वयम् अप्य् अनेन हतकेनापुङ्ख-मग्नैः शरैर् विद्धा एव न चेदृशः परिकरस्यैवं-विधा वेदना ॥
रक्तस् त्वं नव-पल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् त्वाम् आयान्ति शिलीमुखाः स्मर-धनुर्-मुक्तास् तथा माम् अपि
कान्तापाद-तलाहतिस् तव मुदे तद्वन् ममाप्य् आवयोः सर्वं तुल्यम् अशोक केवलम् अहं धात्रा स-शोकः कृतः ॥
आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम
कष्टं काम निरायुधो ऽसि भवता जेतुं न शक्यो जनो दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु ॥
विलीयेन्दुः साक्षाद् अमृत-रसवापी यदि भवेत् कलङ्गस् तत्रत्यो यदि च विकचेन्दीवर-वनम्
ततः स्नान-क्रीडा-जनित-जड-भावैर् अवयवैः कदाचिन् मुञ्चेयं मदन-शिखि-पीडा-परिभवम् ॥
यदि क्षामा मूर्तिः प्रतिदिवसम् अश्रूणि दृशि चेत् श्रुतौ दूती-वक्त्रं यदि मृगदृशो भूषण-धिया
इदं चास्मत्-कर्णे यदि भवति केनापि कथितं तद् इच्छामः सङ्गाद् विरह-भरम् एकत्र वसतौ ॥
तव कुसुम-शरत्वं शीत-रश्मित्वम् इन्दोर् द्वयम् इदम् अयथार्थं दृश्यते मद्-विधेषु
विसृजति हिम-गर्भैर् अग्निम् इन्दुर् मयूखैस् त्वम् अपि कुसुम-बाणान् वज्र-सारी-करोषि ॥
संभूयैव सुखानि चेतसि परं भूमानम् आतन्वते यत्रालोक-पथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः
यद् बालेन्दु-कलोदयाद् अवचितैः सारैर् इवोत्पादितं तत् पश्येयम् अनङ्ग-मङ्गल-गृहं भूयो ऽपि तस्या मुखम् ॥
शरान् मुञ्चत्य् उच्चैर् मनसिज-धनुर् मक्षि-करवा रुजन्तीमे भासः किरति दहनाभा हिमरुचिः
जितास् तु भ्रू-भङ्गार्चन-वदन-लावण्य-रुचिभिः सरोषा नो जाने मृगदृशि विधास्यन्ति किम् अमी ॥
अपि स दिवसः किं स्याद् यत्र प्रिया-मुख-पङ्कजे मधु मधुकरीवास्मद्-दृष्टिर् विकासिनि पास्यति
तद् अनु च मृदु-स्निग्धालाप-क्रमाहित-नर्मणः सुरत-सचिवैर् अङ्गैः सङ्गो ममापि भविष्यति ॥
सा लम्बालकम् आननं नमयति प्रद्वेष्ट्य् अयं मां शशी नैवोन्मुञ्चति वाचम् अञ्चित-कला विघ्नन्ति मां कोकिलाः
भ्रू-भङ्गं कुरुते न सा धृत-धनुर् मथ्नाति मां मन्मथः को वा ताम् अबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् ॥
बाणान् संहर मुञ्च कार्मुक-लतां लक्ष्यं तव त्र्यम्बकः के नामात्र वयं शिरीष-कलिका-कल्पं यदीयं मनः
तत्-कारुण्य-परिग्रहात् कुरु दयाम् अस्मिन् विधेये जने स्वामिन् मन्मथ तादृशं पुनर् अपि स्वप्नाद्भुतं दर्शय ॥
विवेकाद् अस्माभिः परम-पुरुषाभ्यास-रसिकैः कथंचिन् नीयन्ते रति-रमण-बाणैर् अपि हतैः
प्रियाया बालत्वाद् अभिनव-वियोगात् तव तनोर् न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः ॥
स्खलल्-लीलालापं विनिपतित-कर्णोत्पल-दलं श्रम-स्वेद-क्लिन्नं सुरत-विरति-क्षाम-नयनम्
कचाकर्ष-क्रीडा-सरल-सुरल-श्रेणी-सुभगं कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः ॥
अहम् इव शून्यम् अरण्यं वयम् इव तनुतां गतानि तोयानि ।
अस्माकम् इवोच्छ्वासा दिवसा दीर्घाश् च तप्ताश् च ॥
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्ण-रूपेव च प्रत्युप्तेव च वज्र-लेप-घटितेवान्तर्-निखातेव च
सा नश् चेतसि कीलितेव विशिखैश् चेतो-भुवः पञ्चभिश् चिन्ता-संतति-तन्तु-जाल-निविडस्यूतेव लग्ना प्रिया ॥
नेत्रेन्दीवरिणी मुखाम्बु-रुहिणी भ्रू-वल्लि-कल्लोलिनी बाहु-द्वन्द्व-मृणालिनी यदि वधूर् वापी पुनः सा भवेत्
तल्-लावण्य-जलावगाहन-जडैर् अङ्गैर् अनङ्गानल ज्वाला-जाल-मुचस् त्यजेयम् असमाः प्राण-च्छिदो वेदनाः ॥
प्रहर्ता क्वानङ्गः स च कुसुम-चापो ऽल्प-विशिखश् चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः
इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे रुदाम् आविर्भावाद् अनुभव-विरोधः शमयति ॥
अन्तर्-निबद्ध-गुरु-मन्यु-परम्पराभिर् इच्छोचितं किम् अपि वक्तुम् अशक्नुवत्याः
अव्यक्त-हूङ्कृति-चलत्-कुच-मण्डलायास् तस्याः स्मरामि मुहुर् अर्ध-विलोकितानि ॥
भ्रश्यद्-विवक्षितम् असंफलद्-अक्षरार्थम् उत्कम्पमान-दशन-च्छदम् उच्छ्वसन्त्या
अद्य स्मरामि परिमृज्य पटाञ्चलेन नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् ॥
दग्ध-प्ररूढ-मदन-द्रुम-मञ्जरीति लावण्य-पङ्क-पटलोद्गत-पद्मिनीति
शीतांशु-बिम्ब-गलितामृत-निर्मितेति बालाम् अबाल-हरिणाङ्क-मुखीं स्मरामि ॥
मधूद्गार-स्मेर-भ्रमर-भर-हूङ्कार-मुखरं शरं साक्षान् मीन-ध्वज-विजय-चाप-च्युतम् इव
निलीयान्योन्यस्मिन् उपरि सहकाराङ्कुर-मयी समीक्षन्ते पक्ष्मान्तर-तरल-तारा विरहिणः ॥
सा न चेन् मृग-शावाक्षी किम् अन्यासां कथाव्ययः
कला न यदि शीतांशोर् अम्बरे कति तारकाः ॥
उपरि घनं घन-पटलं दूरे कान्ता तद् एतद् आपतितम् ।
हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि ॥
स्थगितं नवाम्बुवाहैर् उत्तानास्यो विलोकयन् व्योम ।
संक्रमयतीव पथिकस् तज्-जल-निवहं स्व-लोचनयोः ॥
ते जङ्घे जघनं च तत् तद् उदरं तौ च स्तनौ तत् स्मितं सूक्तिः सा च तद् ईक्षणोत्पल-युगं धम्मिल्ल-भारः स च
लावण्यामृत-बिन्दु-वर्षि वदनं तच् चैवम् एणीदृशस् तस्यास् तद् वयम् एकम् एवम् असकृद् ध्यायन्त एवास्महे ॥
यदि शशधरस् त्वद्-वक्त्रेण प्रसह्य तिरस्कृतस् तद् अयम् अदयो मह्यं मुग्धे किम् एवम् असूयति
यद् अमृत-रसासारस्रुद्भिर् धिनोत्य् अखिलं जगज् ज्वलयति तु माम् एभिर् वह्नि-च्छटा-कटुभिः करैः ॥
लीला-ताण्डवित-भ्रुवः स्मित-सुधा-प्रस्यन्द-भाजो दलन् नीलाब्ज-द्युति-निर्भरा दर-वलत्-पक्ष्मावली-चारवः
प्राप्तास् तस्य वियोगिनः स्मृति-पथं खेदं समातन्वते प्रेमार्द्राः सुदृशो विकुञ्चन-तति-प्रेङ्खत्-कटाक्षा दृशः ॥
विस्फाराग्रास् तरल-तरलैर् अंशुभिर् विस्फुरन्तस् तासां तासां नयनम् असकृन् नैपुणाद् वञ्चयित्वा
मुक्तास् तन्व्या मसृण-परुषास् ते कटाक्ष-क्षुरप्राश् छिन्नं छिन्नं हृदयम् अदयैश् छिद्यते ऽद्यापि यैर् मे ॥
श्यामां श्यामलिमानम् आनयत भोः सान्द्रैर् मसी-कूर्चकैस् तन्त्रं मन्त्रम् अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम्
चन्द्रं चूर्णयत क्षणाच् च कणशः कृत्वा शिला-पट्टके येन द्रष्टुम् अहं क्षमे दश दिशस् तद् वक्त्र-मुद्राङ्किताः ॥
तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते जानाम्य् अक्षय-सायकं कमल-भूः कामान्तरं निर्ममे
यस्यामीभिर् इतस् ततश् च विशिखैर् आपुङ्ख-मग्नात्मभिर् जातं मे विदलत्-कदम्ब-मुकुल-स्पष्टोपमानं मनः ॥
सूतिर् दुग्ध-समुद्रतो भगवतः श्री-कौस्तुभौ सोदरौ सौहार्दं कुमुदाकरेषु किरणाः पीयूष-धारा-किरः
स्पर्धा ते वदनाम्बुजैर् मृग-दृशां तत्-स्थाणु-चूडामणे हंहो चन्द्र कथं नु मुञ्चसि मयि ज्वाला-मुचो वेदनाः ॥
अयि पिबत चकोराः कृत्स्नम् उन्नामि-कण्ठ-क्रम-सरलित-चञ्चच्-चञ्चवश् चन्द्रिकाम्भः ।
विरह-विधुरितानां जीवित-त्राण-हेतोर् भवति हरिण-लक्ष्मा येन तेजो-दरिद्रः ॥
शीतांशुर् विष-सोदरः फण-भृतां लीलास्पदं चन्दनं हाराः क्षार-पयोमुचः प्रिय-सुहृत्-पङ्केरुहं भास्वतः
इत्य् एषां किम् इवास्तु हन्त मदन-ज्योतिर्-विघाताय यद् बाह्याकार-परिभ्रमेण तु वयं तत्त्व-त्यजो वञ्चिताः ॥
व्यजन-मरुतः श्वास-श्रेणीम् इमाम् उपचिन्वते मलयज-रसो धारा-बाष्पं प्रपञ्चयितुं प्रभुः
कुसुम-शयनं कामास्त्राणां करोति सहायतां द्वि-गुण-हरिमा मारोन्माथः कथं नु विरंस्यति ॥
हारो जलार्द्र-शयनं नलिनी-दलानि प्रालेय-शीकर-मुचस् तुहिनाद्रि-वाताः
यस्येन्धनानि सरसान्य् अपि चन्दनानि निर्वाणम् एष्यति कथं स मनोभवाग्निः ॥
मन्दादरः कुसुम-पत्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रम् अद्य
हार-प्रकाण्ड-सरलाः कथम् अन्यथामी श्वासाः पर्वर्तित-दुकूल-दशाः सरन्ति ॥
अकृत-प्रेमैव वरं न पुनः संजात-विघटित-प्रेमा ।
उद्धृत-नयनस् ताम्यति यथा हि न तथेह जातान्धः ॥
स्वप्न प्रसीद भगवन् पुनर् एक-वारं संदर्शय प्रियतमां क्षण-मात्रम् एव
दृष्ट्वा सती निविड-बाहु-नबन्ध-लग्नं तत्रैव मां नयति सा यदि वा न याति ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0