भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 22

22.1*(700)

तापस् तत्-क्षण-माहितासु विसिनीष्व् अङ्गार-कारायते बाष्पः पाण्डु-कपोलयोर् उपरि वै कुल्याम्बु-पूरायते
किं चास्या मलय-द्रुम-द्रव-भरैर् लिम्पामि यावत् करं तावच् छ्वास-समीरण-व्यतिकरैर् उद्धूलित्र् आसीत् करः ॥

22.2*(701)

देवेन प्रथमं जितो ऽसि शशभृल्-लेख-भृतानन्तरं बुद्धेनोद्धत-बुद्धिना स्मर ततः कान्तेन पान्थेन मे
त्व्यक्त्वा तान् बत हंसि माम् अपि कृशां बालाम् अनाथां स्त्रियं धिक् त्वा धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् शरान् ॥

22.3*(702)

कर्णे यन् न कृतं सखीजन-वचो यन् नादृता बन्धु-वाक् यत्-पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहृतः
तेनेन्दुर् दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्प-शतायते विसलताहारो ऽपि भारायते ॥

22.4*(703)

आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः
मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वा वियोगिन्य् अपि ॥

22.5*(704)

वत्से नैते पयोदाः सुरपति-करिणो नो बकाः कर्ण-शङ्काः सौदामिन्यो ऽपि नैताः कनक-मयम् इदं भूषणं कुम्भ-पीठे
नैतत् तोयं नभस्तः पतति मद-जलं श्वास-वातावधूतं तत् किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृड् इत्य् अश्रु-पातैः ॥

22.6*(705)

नाकानोकह-संभवैः सखि सुधाच्योतल्लवैः पल्लवैः पल्यङ्कं क्षण-मात्रम् आस्तृणु विधुं गण्डोपधानीकुरु
नो चेत् स्नेह-रसावसेक-विकसज्-ज्वालावली-दारुणो दारूणीव न मे विरंस्यति दहन्न् अङ्गान्य् अनङ्गानलः ॥

22.7*(706)

असौ गतः सौगत एव यस्मात् कुर्यान् निरालम्बनतां ममैव
सखि प्रियस् ते क्षणिकः किम् अन्यन् निरात्मकः शून्यतमः स वन्द्यः ॥

22.8*(707)

पूर्णं कपोल-तलम् अश्रु-जलैर् यद् अस्या यद् धूसरं वदन-पङ्कजम् आयताक्ष्याः
अर्धावदग्ध-गलद्-अङ्ग-रसावसिक्तम् अर्द्रेन्धनं तद् इव भस्म-कणानुयातम् ॥

22.9*(708)

अयं धारावाहस्तडिद् इयम् इयं दग्ध-करका स चायं निर्घोषः स च रव-वशो भेक-निचयः
इतीव प्रत्यङ्ग-प्रथित-मदनाग्निं कृश-तनुर् घन-श्वासोत्क्षेपैर् ज्वलयति मुहुर् मृत्यु-वशिनी ॥

22.10*(709)

परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस् तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम्
इदं व्यस्त-न्यासं श्लथ-भुज-लताक्षेप-वलनैः कृशाङ्ग्याः संतापं वदति विसिनी-पत्र-शयनम् ॥

22.11*(710)

मनो-रागस् तीव्रं व्यथयति विसर्पन्न् अविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयान् इत इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥

22.12*(711)

एतस्याः विरह-ज्वरः करतल-स्पर्शैः परीक्ष्य न यः स्निग्धेनापि जनेन दाह-भयतः प्रस्थं पचः पाथसाम्
निःशक्तीकृत-चन्दनौषधि-विधाव् तस्मिंश् चमत्-कारिणो लाज-स्फोटम् अमी स्फुटन्ति मणयो विश्वे ऽपि हार-स्रजाम् ॥

22.13*(712)

यत् तादी-दल-पाक-पाण्डु वदनं यन् नेत्रयोर् दुर्दिनं गण्डः पाणिनिषेवणाच् च यद् अयं संक्रान्त-पञ्चाङ्गुलिः
गौरी क्रुध्यतु वर्तते यदि न ते तत् को ऽपि चित्ते युवा धिग् धिक् त्वां सह-पांशु-खेलन-सखी-लोके ऽपि यन् निह्नवः ॥

22.14*(713)

केयूरीकृत-कङ्कणावलिर् असौ कर्णान्तिकोत्तंसित व्यालोलालक-पद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति
यावत् किंचिद् उदन्तम् आत्मकम् इतुस् तावत् स एवेत्य् अथ व्रीडा-वक्रित-कण्ठ-नालम् अबला कैः कैर् न भिन्ना रसैः ॥

22.15*(714)

प्रिय-विरह-महोष्मामर्मराम् अङ्ग-लेखाम् अपि हतक-हिमांशो मा स्पृश क्रीडयापि
इह हि तव लुठन्तः प्लोष-पीडां भजन्ते दर-जठर-मृणाली-काण्ड-मुग्धा मयूखाः ॥

22.16*(715)

यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत्
एकाधीनं कथयति मनस् तावद् एषा दशा ते कोसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥

22.17*(716)

निकामं क्षामाङ्गी सरस-कदली-गर्भ-सुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सव-करी
अवस्थाम् आपन्ना मदन-दहनोद्दाह-विधुराम् इयं नः कल्याणी रमयति मतिं कल्पयति च ॥

22.18*(717)

निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव क्षेमं ते सखि निर्वृते न तु समं कान्तेन यूयं गताः
किं चान्यत् प्रिय-संगमे ऽद्य चलितो गच्छन् विपद्-वत्सलो मूर्च्छा-विस्मृति-वेदना-परिजनो दृष्टो ऽस्मदीयो न वा ॥

22.19*(718)

मध्ये सद्म समुद्गता तद् अनु च द्वारान्तरालं गता निर्याताथ कथंचिद् अङ्गणम् अपि प्रेयांस् तु नालोकितः
हंहो वायस राजहंस शुक हे हे सारिके कथ्यतां का वार्तेति मृगीदृशो विजयते बाष्पान्तरायं वचः ॥

22.20*(719)

दर-दलित-हरिद्रा-ग्रन्थि-गौरे शरीरे स्फुरति विरह-जन्मा को ऽप्य् अयं पाण्डु-भावः
बलवति सति यस्मिन् सार्धम् आवर्त्य हेम्ना रजतम् इव मृगाक्ष्याः कल्पितान्य् अङ्गकानि ॥

22.21*(720)

प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव
निर्लज्जा हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः ॥

22.22*(721)

बाष्पं चक्षुषि नाञ्जनं कर-तले वक्त्रं न लीलाम्बुजं गण्डे पाण्डुरिमा न पत्र-मकरी श्वासा मुखे न स्मितम्
इत्थं यस्य वियोग-योग-विधुरं मुग्धे तवेदं वपुर् नो जाने कतमः स पुष्प-धनुषा नीतः प्रसाद-श्रियम् ॥

22.23*(722)

कस्माद् इदं नयनम् अस्तमिताञ्जन-श्रि विश्रान्त-पत्र-रचनौ च कुतः कपोलौ
शृङ्गार-वारि-रुह-कानन-राज-हंसि कस्मात् कृशासि विरसासि मलीमसासि ॥

22.24*(723)

अरतिर् इयम् उपैति मां न निद्रा गणयति तस्य गुणान् मनो न दोषान्
विरमति रजनी न सङ्गम् आशा व्रजति तनुस् तनुतां न चानुरागः ॥

22.25*(724)

असाव् अहं लोह-मयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः
आकर्षक-द्रावक-चुम्बकेषु नैको ऽप्य् असौ भ्रामक इत्य् अवैहि ॥

22.26*(725)

नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो नोपालम्भ-पदानि वाप्य् अकरुणे तत्राभिधेयानि ते
प्रष्टव्यः शिवमालि केवलम् असौ कच्चिद् भवद्-गोचरे नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति ॥

22.27*(726)

स्वप्ने ऽपि प्रिय-संगम-व्यसनिनी शेते न निद्रागमश् चित्रेणालिखितुं तम् इच्छति यदि स्वेदः सपत्नी-जनः
मुग्धेयं कुरुते ऽथ तद्-गुण-कथां मन्युर् गिराम् अर्गलः प्रायः पुण्य-दिनानुभाव-वलनाद् आशंसितं सिध्यति ॥

22.28*(727)

व्योम-श्री-हृदयैक-मौक्तिक-लते मातर् बलाकावलि ब्रूयास् तं जनम् आदरः खलु महान् प्राणेषु कार्यस् त्वया
एतां म्लानिम् उपागतां स्रजम् इव त्यक्त्वा तनुं दुर्वहाम् एषाहं सुखिनी भवामि न सहे तीव्रां वियोग-व्यथाम् ॥

22.29*(728)

आदृष्टि-प्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्व् अहः-परिणतौ ध्वान्ते समुत्सर्पति
यान्त्यैव स्व-निवेशनं प्रतिपथं पान्थ-स्त्रियास्मिन् क्षणे मा भूद् आगत इत्य् अमन्द-वलितोद्ग्रीवं मुहुर् वीक्षितम् ॥

22.30*(729)

श्वासास् ताण्डवितालकाः करतले सुप्ता कपोल-स्थली नेत्रे बाष्प-तरङ्गिनी परिणतः कण्ठे कलः पञ्चमः
अङ्गेषु प्रथम-प्रबुद्ध-फलिनी लावण्य-संपादिनी पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथा-गोचरम् ॥

22.31*(730)

स्मित-ज्योत्स्नादानाद् उपकुरु चकोर-प्रणयिनीर् विधेहि भ्रू-लीलां स्मरतु धनुषः पञ्च-विशिखः
अपि स्तोकोन्निद्रैर् नयन-कुमुदैर् मोदय दिशोअः विशेषास् ते मुग्धे दधतु कृतिनां चेतसि पदम् ॥

22.32*(731)

किम् इति कबरी यादृक् तादृग् दृशौ किम् अकज्जले मृगमद-मसी-पत्र-न्यासः स किं न कपोलयोः
अयम् असमयं किं च क्लाम्यत्य् असंस्मरणेन ते शशिमुखि सखी-हस्त-न्यस्तो विलास-परिच्छदः ॥

22.33*(732)

वारं वारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यताम् इत्य् उद्गम्य सुमन्द-बाहु-लतिकाम् उत्थापयन्त्या रुषा
संक्रान्तैर् वलयैर् अलंकृत-गलो युष्मद्-वियोगोचितां तन्वङ्ग्याः प्रकटीकरीति तनुताम् अङ्गे भ्रमन् वायसः ॥

22.34*(733)

पक्ष्माग्र-ग्रथिताश्रु-बिन्दु-विसरैर् मुक्ता-फल-स्पर्धिभिः कुर्वन्त्या हर-हास-हारि हृदये हारावली-भूषणम्
बाले बाल-मृणाल-नाल-वलयालंकार-कान्ते करे विन्यस्याननम् आयताक्षि सुकृती को ऽयं त्वया स्मर्यते ॥

22.35*(734)

दहति विरहेष्व् अङ्गान् ईर्ष्यां करोति समागमे हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम्
क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः ॥

22.36*(735)

को ऽसौ धन्यः कथय सुभगे कस्य गङ्गा-सरय्वोस् तोयास्फाल-व्यतिकर-खणत्-कारि कङ्कालम् आस्ते
यं ध्यायन्त्याः सुमुखि लिखितं कज्जल-क्लेद-भाञ्जि व्यालुम्पन्ति स्तन-कलसयोः पत्रम् अश्रूण्य् अजस्रम् ॥

22.37*(736)

त्वच्-छेषेण च्छुरित-करया कुङ्कुमेनादधत्या शोण-च्छायां भवन-बिसिनी-हंसके कौतुकिन्या
कोक-भ्रान्ति-क्षण-विरहिणीयन् मयाकारि हंसी तस्यैतन् मे फलम् उपनतं नाथ यत् ते वियोगः ॥

22.38*(737)

श्वासोत्कम्प-तरङ्गिणि स्तन-तटे धौताञ्जन-श्यामलाः कीर्यन्ते कणशः कृशाङ्गि किम् अमी बाष्पाम्भसां बिन्दवः
किं चाकुञ्चित-कण्ठ-रोध-कुटिलाः श्रोत्रामृत-स्यन्दिनोअः हूङ्काराः कल-पञ्चम-प्रणयिनस् त्रुट्यन्ति निर्यान्ति च ॥

22.39*(738)

इदानीं तीव्राभिर् दहन इव भाभिः परिगतोअः ममाश्चर्यं सूर्यः किम् उ सखि रजन्याम् उदयते
अयं मुग्धे चन्द्रः किम् इति मयि तापं प्रकटयत्य् अनाथानां बाले किम् इह विपरीतं न भवति ॥

22.40*(739)

मा मुञ्चाग्नि-मुचः करान् हिमकर प्राणाः क्षणं स्थीयतां निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव
स्वप्नासादित-संगमे प्रियतमे सानन्दम् आलिङ्गिते स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टा-रसः ॥

22.41*(740)

दिशतु सखि सुखं ते पञ्चबाणः स साक्षाद् अनयन-पथ-वर्ती यस् त्वयालेखि नाथः
तरलित-कर-शाखा-मञ्जरीकः शरीरे धनुषि च मकरे च स्वस्थ-रेखा-निवेशः ॥

22.42*(741)

कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया
अक्ष्णोर् बाष्प-चयं निगृह्य कथम् अप्य् आलोकितः केवलं किंचित्-कुड्मल-कोटि-भिन्न-शिखरश् चूत-द्रुमः प्राङ्गणे ॥

22.43*(742)

उच्छूनारुणम् अश्रु-निर्गम-वशाच् चक्षुर् मनाङ् मन्थरं सोष्म-श्वास-कदर्थिताधर-रुचिर् व्यस्तालका भ्रू-भुवः
आपाण्डुः कर-पल्लवे च निभृतं शेते कपोल-स्थली मुग्धे कस्य तपः-फलं परिणतं यस्मै तवेयं दशा ॥

22.44*(743)

केन प्राप्तो भुवन-विजयः कः कृती कः कलावान् केनाव्याजं स्मर-चरणयोर् भक्तिर् आपादिता च
यं ध्यायन्ती सुतनु बहुल-ज्वाल-कन्दर्प-वह्नि प्रोद्यद्-भस्म-प्रचय-रचितापाण्डिमानं दधासि ॥

22.45*(744)

दग्धव्येयं नव-कमलिनी-पल्लवोत्सङ्ग-शय्या तप्ताङ्गर-प्रकर-विकरैः किं धुतैस् ताल-वृन्तैः
तत्रैवास्तां दहति नयने चन्द्रवच् चन्दनाम्भः सख्यस् तोयेन्धन इव शिखी विप्रतीपो ऽयम् आधिः ॥

22.46*(745)

सौधाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं द्वारात् त्रस्यति चित्र-केलि-सदसो वेशं विषं मन्यते
आस्ते केवलम् अब्जिनी-किसलय-प्रस्तारि-शय्या-तले संकल्पोपनत-त्वद्-आकृतिर् असायत् तेन चित्तेन सा ॥

22.47*(746)

अन्तस् तारं तरलित-तलाः स्तोकम् उत्पीड-भाजः पक्षाग्रेषु ग्रथित-पृषतः कीर्ण-धाराः क्रमेण
चित्तातङ्कं निज-गरिमतः सम्यग् आसूत्रयन्तो निर्यान्त्य् अस्याः कुवलय-दृशो बाष्प-वारां प्रवाहाः ॥

22.48*(747)

मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान् मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन
वारां पूरः कथम् अपरथा स्फार-नेत्र-प्रणाली वक्त्रोद्वान्तस् त्रिवलि-विपिने सारणी-साम्यम् एति ॥

22.49*(748)

उन्मील्याक्षि सखीर् न पश्यसि न चाप्य् उक्ता ददास्य् उत्तरं नो वेत्सीदृशम् अत्र नेदृशम् इमां शून्याम् अवस्थां गता
तल्पादृश्य-करङ्क-पञ्जरम् इदं जीवेन लिप्तं मनाङ् मुञ्चन्ती किम् उ कर्तुम् इच्छसि कुरु प्रेमान्य-देश-गते ॥

22.50*(749)

किं वातेन विलङ्घिता न न महा-भूतार्दिता किं न न भ्रान्ता किं न न संन्निपात-लहरी-प्रच्छादिता किं न न
तत् किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं दृष्टः किं कथम् अप्य् अकारण-रिपुः श्री-भोज्य-देवो ऽनया ॥

22.51*(750)

कुचौ धत्तः कम्पं निपतति कपोलः करतले निकामं निःश्वासः सकलम् अलकं ताण्डवयति
दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्प-सलिलं प्रपञ्चो ऽयं किंचित् तव सखि हृदि-स्थं कथयति ॥

22.52*(751)

त्यजसि न शयनीयं नेक्षसे स्वाम् अवस्थां विशदयसि न केशान् आकुल-ग्रन्थि-बन्धान्
किम् अपि सखि कुरु त्वं देह-यात्रानुरूपं शतम् इह विरहिण्यो नेदृशं क्वापि दृष्टम् ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc