सुभाषितरत्नकोश · अध्याय 21
मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति मय्य् एव धिक्-कृतिर् अनेक-मुखी सखीनाम्
आकार-मात्र-मसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति ॥
वलतु तरला दृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यन्तु कञ्चुकम्
तद् अपि न मया संभाष्यो ऽसौ पुनर् दयितः शठः स्फुटति हृदयं मौनेनान्तर् न मे यदि तत्-क्षणात् ॥
तद् एवाजिह्माक्षं मुखम् अविषदास् ता गिर इमाः स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम्
यद् उक्तं प्रत्युक्तं तद् अपटु शिरः कम्पन-परं प्रिया मानेनाहो पुनर् अपि कृता मे नव-वधूः ॥
यदि विनिहिता शून्या दृष्टिः किम् उ स्थिर-कौतुका यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः
यदि नियमितं ध्याने चक्षुः कथं पुलकोद्गमः कृतम् अभिनयैर् दृष्टो मानः प्रसीद किम् उच्यताम् ॥
एकत्रासन-संस्थितिः परिहता प्रतुद्गमाद् दूरतस् ताम्बूलानयन-च्छलेन रभसाशेल्षो ऽपि संविघ्नितः
आलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥
तद्-वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस् तस्यालाप-कुतूहलाकुलतरे श्रोत्रे निरुद्धे मया
हस्ताभ्याम् अपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति सहसा यत् कञ्चुके सन्धयः ॥
दूराद् उत्सुकम् आगते विवलितं संभाषिणि स्फारितं संश्लिष्यत्य् अरुणं गृहीत-वसने किंचिन् नत-भ्रू-लतम्
मानिन्याश् चरणानति-व्यतिकरे बाष्पाम्बु-पूर्णेक्षणं चक्षुर् जातम् अहो प्रपञ्च-चतुरं जातागसि प्रेयसि ॥
वचो-वृतिर् मा भूद् वलतु च न वा वक्त्रम् अभितो न नाम स्याद् बाष्पागमम् अविषदं लोचन-युगम्
समाश्वासस् तेन प्रणत-शिरसः पत्युर् अभवत् प्रिया प्रौढ-क्रोधाप्य् अपहृतवती यन् न चरणौ ॥
किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् ते ऽपराधः
आगस्कारिण्य् अहम् इह यया जीवितं तद्-वियोगे भर्तृ-प्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥
यद् गम्यं गुरु-गौरवस्य सुहृदो यस्मिन् लभन्ते ऽन्तरं यद्-दाक्षिण्य-रसाद् भिया च सहसा नर्मोपचाराण्य् अपि
यल् लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययः तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् ॥
भ्रू-भेदो रचितः चिरं नयनयोर् अभ्यस्तम् आमीलनं रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः
धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया बद्धो मान-परिग्रहे परिकरः सिद्धिस् तु दैव-स्थिता ॥
तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं ततो नु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा
इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं मयाप्तं प्राणानां कुलिश-कठिनानां फलम् इदम् ॥
यदा त्वं चन्द्रो ऽभूर् अविकल-कला-पेशल-वपुस् तदाहं जाता द्राक् शशधर-मणीनां प्रतिकृतिः
इदानीम् अर्कस् त्वं खर-रुचि समुत्सारित-रसः किरन्ती कोपाग्नीन् अहम् अपि रवि-ग्राव-घटिता ॥
कोपो यत्र भ्रू-कुटि-रचना निग्रहो यत्र मौनं यत्रान्योन्य-स्मितम् अनुनयो यत्र दृष्टिः प्रसादः
तस्य प्रेम्णस् तद् इदम् अधुना वैषमं पश्य जातं त्वं पादान्ते लुठसि नहि मे मन्यु-मोक्षः खलायाः ॥
शठान्यस्याः काञ्ची-मणि-रणितम् आकर्ण्य सहसा समाश्लिष्यन्न् एव प्रशिथिल-भुज-ग्रन्थिर् अभवः
तद् एतत् क्वाचक्षे घृत-मधु-मय त्वन्-मृदु-वचो विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति ॥
मुग्धासि नायम् अपराध्यति मैवम् आलि केयं रुषा परुषिता लिखिताप्य् अनेन
केलि-स्खलद्-वसनम् उत्पुलकाङ्ग-भङ्गम् उत्तुङ्ग-पीन-कुचम् आलिखिता त्वम् एव ॥
पाणौ शोणतले तनूदरि दर-क्षामा कपोल-स्थली विन्यस्ताञ्जन-दिग्ध-लोचन-जलैः किं म्लानिमानीयते
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् उन्मीलन्-नव-मालती-परिमलः किं तेन विस्मर्यते ॥
कोपः सखि प्रियतमे ननु वञ्चनैव तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः
प्राणेश्वरश् चरणयोः पतितस् तवायं संभाष्यतां विकसता नयनोत्पलेन ॥
बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि
तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥
गत-प्राया रात्रिः कृश-तनु शशी शीर्यत इव प्रदीपो ऽय निद्रा-वशम् उपगतो घूर्णत इव
प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो कुच-प्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् ॥
गतो दूरं चन्द्रो जठर-लवली-पाण्डर-वपुर् दिशः किंचित् किंचित् तरणि-किरणैर् लोहित-रुचः
इदं निद्रा-च्छेदे रसति सरसं सार-सकुलं चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेम-लडितम् ॥
मया तावद्-गोत्र-स्खलित-हतकोपान्तरितया न रुद्धो निर्गच्छन्न् अयम् इति विलक्षः प्रियतमः
अयं त्वाकूतज्ञः परिणति-परामर्श-कुशलः सखी लीको ऽप्य् आसील् लिखित इव चित्रेण किम् इदम् ॥
भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः
तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां प्रकृति-चपले का नः पीडा गते हत-जीविते ॥
असद्-वृत्तो नायं न च सखि गुणैर् एष रहितः प्रियो मुक्ताहारस् तव चरण-मूले निपतितः
गृहाणैनं मुग्धे व्रजतु तव कण्ठ-प्रणयिताम् उपायो नास्त्य् अन्यो हृदय-परितापोपशमने ॥
अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस् त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः
समाकृष्टा ह्य् एते विरह-दहनोद्भासुर-शिखाः स्व-हस्तेनाञ्गारास् तद् अलम् अधुनारण्य-रुदितैः ॥
मा रोदीः सखि नश्यद्-अन्धतमसं पश्याम्बरं ज्योत्स्नया शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः
कः कोपावसरः प्रसीद रहसि स्वेदाम्भसं बिन्दवो लुम्पन्तु स्तन-पत्र-भग्गम् अकरीः सौधा-गुरु-श्यामलाः ॥
मा रोदीः जर-पल्लव-प्रणयिनीं कृत्वा कपोल-स्थलीं मा भङ्गीः परिखेद-साक्षिभिर् इव श्वासैर् मुखेन्दोः श्रियम्
मुग्धे दग्ध-गिरः स्खलन्ति शतशः किम् कुप्यसि प्रेयसि प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि ॥
यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी कपोल-व्यासङ्गं कुच-कलशम् अस्याः कलयति
ततः श्रोणी-बिम्बं व्यवसित-विलासं तद् उचितं स्वभाव-स्वच्छानां विपद् अपि सुखं नान्तरयति ॥
पक्ष्मान्तः स्खलिताः कपोल-फलके लोलं लुठन्तः क्षणं धारालास् तरलोच्छलत्-तनु-कणाः पीन-स्तनास्फालनात्
कस्माद् ब्रूहि तवाद्य कण्ठ-विगलन्-मुक्तावली-विभ्रमं बिभ्राणा निपतन्ति बाष्प-पयसां प्रस्यन्दिनो बिन्दवः ॥
कपोले पत्राली करतल-निरोधेन मृदिता निपीतो निःश्वासैर् अयम् अमृत-हृद्यो ऽधर-रसः
मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तन-तटं प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् ॥
धिक् धिक् त्वाम् अयि केन दुर्मुखि कृतं किं किं न काय-व्रतं द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः
स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यतां अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति ॥
स्फुटतु हृदयं कामं कामं करतु तनुं तनुं न सखि चटुल-प्रेम्णा कार्यं पुनर् दयितेन मे
इति सरभसं मानाटोपाद् उदीर्य वचस् तया रमण-पदवी सारङ्गाक्ष्या स-शङ्कितम् ईक्षिता ॥
एकस्मिन् शयने पराङ्-मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम्
दम्पत्योः शनकैर् अपाङ्ग-वलनान् मिश्री-भवच्-चक्षुषोर् भग्नो मानकलिः सहास-रभसं व्यासक्त-कण्ठ-ग्रहम् ॥
कन्दर्प-कन्दलि सलीक-दृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्याम्
पश्य प्रसीद चरमाचल-चूल-चुम्बि बिम्बं विधोर् लवल-पाण्डु-रसस् तम् एति ॥
अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति
समानाभिज्ञानं कथम् इतरथा पश्यति पुरो भवान् एकस् तस्याः प्रतिकृति-मयीर् एव रमणीः ॥
प्रिये मौनं मुञ्च श्रुतिर् अमृत-धारां पिबतु मे दृशाव् उन्मील्येतां भवतु जगद् इन्दीवर-मयम्
प्रसीद प्रेमापि प्रशमयतु निःशेषम् अधृतीर् अभूमिः कोपानां ननु निरपराधः परिजनः ॥
कोपस् त्वया यदि कृतो मयि पङ्कजाक्षि सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत्
आश्लेषम् अर्पय मद्-अर्पित-पूर्वम् उच्चैर् उच्चैः समर्पय मद्-अर्पित-चुम्बनं च ॥
सखि कलितः स्खलितो ऽयं हेयो नैव प्रणाम-मात्रेण ।
चिरम् अनुभवतु भवत्या बाहु-लता-बन्धनं धूर्तः ॥
जाते केलि-कलौ कृते कमितरि व्यर्थानुनीतौ चिरान्द् माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि
माया-स्वापम् उपेत्य तन्-निपुणया निद्रान्ध्यम् आचेष्टितं मान-म्लानिर् अभून् न येन च न चाप्य् आसीद् रहःक्-हण्डनम् ॥
कथंचिन् नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तद्-अनु च निशायाम् इव शनैः
स्मित-ज्योत्स्नारम्भ-क्षपित-विरह-ध्वान्त-निवहोअः मुखेन्दुर् मानिन्याः स्फुरति कृत-पुण्यस्य सुरते ॥
मान-व्याधि-निपीडिताहम् अधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखी-जनो ऽस्ति चतुरो यो मां बलान् नेष्यति
मानी सो ऽपि जनो न लाघव-भयाद् अभ्येति मातः स्वयं कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया ॥
यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः
दृष्टे धूर्त-विचेष्टिते तु दयिते तस्मिन् अवश्यं मम स्वेदाम्भः-प्रतिरोधि-निर्भरतर-स्मेरं मुखं जायते ॥
दृष्टा मुष्टिभिर् आहता हृदि नखैर् आचोटिता पार्श्वयोर् आकृष्टा कबरीषु गाढम् अधरे शीत्कुर्वती खण्डिता
त्वत्-कृत्यं त्वद्-अगोचरे ऽपि हि कृतं सर्वं मयैवाधुना माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव ॥
सुतनु जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित् कोप एवं विधो ऽभूत्
इति निगदति नाथे तिर्यग्-आमीलिताक्ष्या नयन-जलम् अनल्पं मुक्तम् उक्तं न किंचित् ॥
चेतस्य् अङ्कुरितं विसारिणि दृशोर् द्वन्द्वे द्विपत्रायितं प्रायं पल्लवितं वचस्य् उपचितं प्रौढं कपोल-स्थले
तत्-तत्-कोप-विचेष्टिते कुसुमितं पादानते तु प्रिये मानिन्यां फलितं तु मान-तरुणा पर्यन्त-बन्ध्यायितम् ॥
कियन्-मात्रं गोत्र-स्खलनम् अपराद्धं चरणयोश् चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि
रुषं मुञ्चामुञ्च प्रियम् अनुगृहानायतिहितं शृणु त्वं यद् ब्रूमः प्रिय-सखि न माने कुरु मतिम् ॥
दैवाद् अयं यदि जनो विदितो ऽपराधी दासोचितैः परिभवैर् अयम् एव शास्यः
एषा कपोल-फलके ऽगरु-पत्र-वल्ली किं पीड्यते सुतनु बाष्प-जल-प्रणालैः ॥
कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते तत् क्वासे कम् उपैमि जङ्गम-वने को माम् इहाश्वासयेत्
इत्य् उक्त्वाश्रु-गलन्-मुखी विट-सखी ध्वस्ता विशन्ती गृहं धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता ॥
कपोलं पक्ष्मभ्यः कलयति कपोलान् कुच-तटं कुचान् मध्यं मध्यान् नव-मुदित-नाभी-सरसिजम्
न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं यद् अस्याः प्रत्यङ्गं नयन-जल-बिन्दुर् विहरति ॥
विकिर नयने मन्द-च्छायं भवत्व् असितोत्पलं वितर दयिते हास-ज्योत्स्नां निमीलतु पङ्कजम्
वद सुवदने लज्जा-मूका भवन्तु शिखण्डिनः परपरिभवो मान-स्थानैर् न मानिनि सह्यते ॥
अयं धूर्तो मायाविनयमधुराद् अस्य वचसः सखि प्रत्येषि त्वं प्रकृति-सरले पश्यसि न किम्
कपोले यल्-लाक्षा-बहल-रस-राग-प्रणयिनीम् इमां धत्ते मुद्राम् अनतिचिर-वृत्तान्त-पिशुनाम् ॥
अप्राप्त-केलि-सुखयोर् अतिमान-रुद्ध संधानयो रहसि जात-रुषोर् अकस्मात्
यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं भावाः प्रसाद-पिशुनाः क्षपयन्ति निद्राम् ॥
श्रवसि न कृतास्ते तावन्तः सखी-वचन-क्रमाश् चरण-पतितोङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः
कठिन-हृदये मिथ्या-मौन-व्रत-व्यसनाद् अयं परिजन-परित्यागोपायो न मान-परिग्रहः ॥
न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम्
इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः शते ऽपि प्रश्नानां यद् अभिदुर-मुद्रोधर-पुटः ॥
तत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् आलिङ्गने ऽपि न निषधति चुम्बने ऽपि
किं तु प्रसादन-भयाद् अतिनिह्नुतेन कोपेन को ऽपि निहितो ऽद्य रसावतारः ॥
आश्लेषेण पयोधर-प्रणियिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधर-बद्ध-तृष्णम् अधरं निर्भर्त्सयन्त्या मुखम्
ऊर्वोर् गाढ-निपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः ॥
दीर्घोच्छ्वास-विकम्पिताकुल-शिखा यत्र प्रदीपाः कुले दृष्टिर् यत्र च दीर्घ-जागर-गुरुः कोपे मदीये तव
विस्रम्भैक-रस-प्रसाद-मधुरा यत्र प्रवृत्ताः कथास् तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् ॥
परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ भजन्ते विज्ञानं न तु गिरम् अनूरोध-विधयः
मनस्विन्याः स्वैरं प्रसरति निशा-सीम-समये मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः ॥
अद्योद्यान-गृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तो ऽयम् अशोक-दोहद-विधौ पादः क्वणन्-नूपुरः
तावत् किं कथयामि केलि-पटुना निर्गत्य कुञ्जोदराद् अज्ञातोपनतेन तेन सहसा मूर्ध्नैव संभावितः ॥
सखि स सुभगो मन्द-स्नेहो मयीति न मे व्यथा विधि-परिणतं यस्मात् सर्वो जनः सुखम् अश्नुते
मम तु मनसः संतापो ऽयं प्रिये विमुखो ऽपि यत् कथम् अपि हत-व्रीडं चेतो न याति विरागिताम् ॥
भ्रू-भङ्गे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते कार्कश्यं गमिते ऽपि चेतसि तनू-रोमाञ्चम् आलम्बते
रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥
प्रेयान् सो ऽयम् अपाकृतः स-शपथं पादानतः कान्तया द्वित्राण्य् एव पदानि वास-भवनाद् यावन् न यात्य् आत्मना
तावत् प्रत्युत पाणि-संपुट-लसन्-नीवी-निबन्धं धृतो धावित्व् एव कृत-प्रणामकम् अहो प्रेम्णो विचित्रा गतिः ॥
गते प्रेमा-बन्धे प्रणय-बहु-माने विगलिते निवृत्ते सद्-भावे जन इव जने गच्छति पुरः
तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस् तांश् च दिवसान् न जाने को हेतुर् दलति शतधा यन् न हृदयम् ॥
सुतनु नितम्बस् तव पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा ।
मध्यः सवलिर् इदानिं मान्धाता कुच-तटः क्रियताम् ॥
दृष्टे लोचनवन्-मनाङ्-मुकुलितं पार्श्व-स्थिते वक्त्रवन् न्यग्-भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति
नीवी-बन्धवदागतं शिथिलतां संभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पाद-स्पृशि प्रेयसि ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0