सुभाषितरत्नकोश · अध्याय 20
राजन्ति कान्त-नखर-क्षतयो मृगाक्ष्या लाक्षा-रस-द्रव-मुचः कुचयोर् उपान्ते
अन्तः-प्रवृद्ध-मकर-ध्वज-पावकस्य शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥
जयन्ति कान्ता-स्तन-मण्डलेषु विटार्पितान्य् आर्द्र-नख-क्षतानि
लावण्य-संभार-निधान-कुम्भे मुद्राक्षराणीव मनोभवस्य ॥
क्वचित् ताम्बूलाङ्कः क्वचिद् अगरु-पङ्काङ्क-मलिनः क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तक-पदः
वली-भङ्गाभोगेष्व् अलक-पतिताकीर्ण-कुसुमः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छद-पटः ॥
पीन-तुङ्ग-कठिन-स्तनान्तरे कान्त-दत्तम् अबला नख-क्षतम्
आवृणोति विवृणोति चेक्षते लब्ध-रत्नम् इव दुःखितो जनः ॥
उषसि गुरु-समक्षं लज्जमाना मृगाक्षीर् अतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते
तिरयति शिशु-लीलानर्तन-च्छद्म-ताल प्रचल-वलय-मालास्फाल-कोलाहलेन ॥
प्रदोषे दम्पत्योर् निज-रुचि-विभिन्ने प्रणयिनोर् विभिन्ने संपन्ने घन-तिमिर-संकेत-गहने
रतौत्सुक्यात् ताम्यत्-तरल-मनसोः पर्यवसिते कृतार्थत्वे ऽन्योन्यं तद् अनु विदितौ किं न कुरुताम् ॥
पश्यसि नख-संभूतां रेखां वरतनु पयोधरोपान्ते ।
किं वाससा स्तनान्तं रुणत्सि हिम-रुचि-कृते वच्मि ॥
यद् रात्रौ रहसि व्यपेत-विनयं दृष्टं रसात् कामिनोर् अन्योन्यं शयनीयम् ईहित-रस-व्याप्ति-प्रवृत्त-स्पृहम्
तत् सानन्द-मिलद्-दृशोः कथम् अपि स्मृत्वा गुरूणां पुरोअः हासोद्भेद-निरोध-मन्थर-मिलत्-तारं कथंचित् स्थितम् ॥
किं भूषणेन रचितेन हिरण्मयेन किं रोचनादि-रचितेन विशेषकेण
आर्द्राणि कुङ्कुम-रुचीनि विलासिनीनाम् अङ्गेषु किं नख-पदानि न मण्डलानि ॥
दम्पत्योर् निशि जल्पतोर् गृह-शुकेनाकर्णितं यद्-वचस् तत् प्रातर् गुरु-सन्निधौ निगदतस् तस्योपहारं वधूः
कर्णालंकृति-पद्म-राग-शकलं विन्यस्य चञ्चू-पुटे व्रीडार्ता प्रकरोति दाडिम-फल-व्याजेन वाग्-बन्धनम् ॥
प्रयच्छाहारं मे यदि तव रहो-वृत्तम् अखिलं मया वाच्यं नोच्चैर् इति गृह-शुके जल्पति शनैः
वधू-वक्त्रं व्रीडाभर-नमितम् अन्तर् विहसितं हरत्य् अर्धोन्मीलन्-नलिन-मलिनावर्जितम् इव ॥
नख-क्षतं यन् नव-चन्द्र-सन्निभं स्थितं कृशाङ्गि स्तन-मण्डले तव
इदं तरीतुं त्रिवली-तरङ्गिणीं विराजते पञ्च-शरस्य नौर् इव ॥
हंहो कान्त रहो-गतेन भवता यत्-पूर्वम् आवेदितं निर्भिन्ना तनुर् आवयोर् इति मया तज्-जातम् अद्य स्फुटम्
कामिन्या स्मर-वेदनाकुल-दृशा यः केलि-काले कृतः सो ऽत्यर्थं कथम् अन्यथा दहति माम् एष त्वद्-ओष्ठ-व्रणः ॥
अभिमुख-पतयालुभिर् ललाट-श्रम-सलिलैर् अविधौत-पत्र-लेखः ।
कथयति पुरुषायितं वधूनां मृदित-हिम-द्युति-दुर्मनाः ॥
नख-पद-वलिनाभीसन्धि-भागेषु लक्ष्यः क्षतिषु च दशनानाम् अङ्गनायाः स-शेषः
अपि रहसि कृतानां वाग्-विहीनो ऽपि जातः सुरत-विलसितानां वर्णको वर्णको ऽसौ ॥
नव-नख-पदम् अङ्गं गोपयस्य् अंशुकेन स्थगयसि पुनर् ओष्ठं पाणिना दन्द-दष्टम्
प्रतिदिशम् अपर-स्त्री-संग-शंसी विसर्पन् नव-परिमल-गन्धः केन शक्यो वरीतुम् ॥
काश्मीर-पङ्क-खचित-स्तन-पृष्ठ-ताम्र पट्टावकीर्ण-दयितार्द्र-नख-क्षताली
एणीदृशः कुसुम-चाप-नरेन्द्र-दत्ता जैत्र-प्रशस्तिर् इव चित्र-लिपिर् विभाति ॥
अधरः पद्मरागो ऽयम् अनर्घः स-व्रणो ऽपि ते
मुग्धे हस्तः किम्-अर्थो ऽयम् अपार्थ इह दीयते ॥
दर-म्लानं वासो लुलित-कुसुमालंकृति शिरः श्लथालोकं चक्षुः सरस-नख-लेखाङ्कितम् उरः
लसत्-काञ्ची-ग्रन्थि-स्फुरद्-अरुण-रत्नांशु जघनं प्रियाङ्गोन्मृष्टाङ्ग्या विषम् इदम् इयद् भावक-नृणाम् ॥
प्रत्यूषे गुरु-सन्निधौ गृह-शुके तत्-तद्-रहो-जल्पितं प्रस्तोतुं परिहास-कारिणि पदैर् अर्धोदितैर् उद्यते
क्रीडा-शारिकया निलीय निभृतं त्रोतुं त्रपार्तां वधूं प्रारब्धः सहसैव संभ्रम-करो मार्जार-गर्जा-रवः ॥
तल्पे चम्पक-कल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं तत्-किञ्जल्क-चयं न पश्यसि कुचोपान्ते विमर्दारुणम्
आः किं छद्म-विदग्ध-मानिनि मयि ब्रूषे पुरो-भागिनि क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः ॥
इतः पौरस्त्यायां ककुभि विवृणोति क्रम-दलत् तमिस्रा-मर्माणं किरण-कणिकाम् अम्बर-मणिः
इतो निष्क्रामन्ती नव-रति-गुरोः प्रोञ्छति वधूः स्व-कस्तूरी-पत्राङ्कुर-मकरिका-मुद्रितम् उरः ॥
प्रभाते पृच्छन्तीर् अनुरहसि-वृत्तं सहचरीर् नवोढा न व्रीडा-मुकुलित-मुखीयं सुखयति
लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् चमत्कारो गूढं करज-पदम् आसां कथयति ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0