सुभाषितरत्नकोश · अध्याय 19
प्रौढ-प्रेम-रसान् नितम्ब-फलकाद् विश्रंसिते ऽप्य् अंशुके काञ्ची-दाम-मणि-प्रभाभिर् अनु चारब्धे दुकूलान्तरे
कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् ॥
रूढे रति-व्यतिकरे करणीय-शेषम् आयास-भाजि दयिते मुहुर् आतुरायाः
प्रत्यक्षरं मदन-मन्थरम् अर्थयन्त्याः किं किं न हन्त हृदयङ्गमम् अङ्गनायाः ॥
रतान्त-श्रान्तायाः स्तन-जघन-संदानित-दृशि स्मरावेश-व्यग्रे दवयति दुकूलं प्रणयिनि
क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रिय-दृशोः क्षणं विन्यस्यन्त्यार् जगद् अपि न मूल्यं मृगदृशः ॥
तैस् तैर् विजृम्भित-शतैर् मदनोपदेशैर् मुग्धा विधाय लडितानि च तानि तानि
अङ्के निलीय कमितुः शिथिलाङ्ग-मुद्रा निद्राति नाल्प-तपसः फल-संपद् एषा ॥
यद् व्रीडा-भर-भुग्नम् आस्य-कमलं यच् चक्षुर् अत्युल्लसत्-द् पक्ष्म-श्रेणि यद् अङ्गम् अङ्गज-मनो-राज्य-श्रियाम् आश्रयः
यद् वर्धिष्णु मनोभव-प्रनयिता यन् मन्द-मन्यु-ग्रहस्ः तेनैवेह मनो हरत्य् अधरित-प्रौढा नवोढा न किम् ॥
स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् तत्-साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम्
यद् बाला बलवन् मनोभव-भय-भ्रश्यत्-त्रपं सत्रपा तत्-कालोचित-नर्म-कर्म दयितादम्यास्यम् अभ्यस्यति ॥
समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि
तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् इदं रम्यं वाम्यं मदन-विवशाया मृगदृशः ॥
इदम् अमृतम् अमेयं सेयम् आनन्द-सिन्धुर् मधु-मधुरम् अपीदं किंचिद् अन्तर् धुनोति
यद् अयम् उदय-लीला-लालसानां वधूनां रति-विनिमय-भाजां केलिभिर् याति कालः ॥
को ऽसौ सुन्दरि पुष्प-सायक-सखः सौभाग्य-वारां-निधः को ऽसाव् इन्दुमुखि प्रसन्न-हृदयः कः कुम्भि-कुम्भ-स्तनि
यस्मिन् विस्मयनीय-तप्त-तपसे स्वैरं समुच्छृङ्खला विश्राम्यन्ति तव स्मर-ज्वर-हराः कन्दर्प-केलि-श्रियः ॥
आत्ते वाससि रोद्धुम् अक्षमतया दोः-कन्दलीभ्यां स्तनौ तस्योरः-स्थलम् उत्तरीय-विषये सद्यो मया सञ्जितम्
श्रोणीं तस्य करे ऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो मज्जन्तीम् उदतारयन् मनसिजो देवः स मूर्च्छा-गुरुः ॥
यद् एतद् धन्यानाम् उरसि युवती-सङ्ग-समये समारूढं किंचित् पुलकम् इदम् आहुः किल जनाः
मतिस् त्व् एषास्माकं कुच-युग-तटी-चुम्बक-शिला निवेशाद् आकृष्टः स्मर-शर-शलाकोत्कर इव ॥
अंसाकृष्ट-दुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् आकृष्टे जघनांशुके कृतम् अधः संसक्तम् ऊरु-द्वयम्
नाभी-मूल-निबद्ध-चक्षुषि तया ब्रीडानताङ्ग्या प्रिये दीपः फूत्कृति-वात-वेपित-शिखः कर्णोत्फलेनाहतः ॥
जिह्रेमि जागर्ति गृहोपकण्ठे सखी-जनो वल्लभ-कौतुकेन
तद्-अंशुका-क्षेपम् अधीर-पाणे विमुञ्च काञ्ची-मणयो रणन्ति ॥
कान्ते तल्पम् उपागते विगलिता नीवी स्वयं तत्-क्षणात् तद्-वासः श्लथ-मेखला-गुण-धृतं किंचिन् नितम्बे स्थितम्
एतावत् सखि वेद्मि केवलम् अहं तस्याङ्ग-सङ्गे पुनः को ऽसौ कास्मि रतं तु किं कथम् इति स्वल्पापि मे न स्मृतिः ॥
अतिप्रौढा रात्रिर् बहल-शिख-दीपः प्रभवति प्रियः प्रेमारब्ध-स्मर-विधि-रसज्ञः परम् असौ
सखि स्वैरं स्वैरं सुरतम् अकरोद् व्रीडित-वपुः यतः पर्यङ्गो ऽयं रिपुर् इव कडत्-कार-मुखरः ॥
धन्यासि यत् कथयसि प्रिय-संगमेन नर्म-स्मितं च वदनं च रसं च तस्य
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिद् अपि स्मरामि ॥
जयति समर-तान्तान् दोलना-पाण्ड-गण्ड स्थल-कृत-निज-वास-खेद-पूरानुजन्मा
श्लथ-तनु-भुज-बन्ध-प्राप्र-दीर्घ-प्रसारो मुख-परिमल-मुग्धः कान्तयोः श्वासवातः ॥
मनोजन्म-प्रौढ-व्यतिकर-शतायास-विधिषु प्रियः प्रायो मुग्धो झगिति कृत-चेतो-भव-विधिः
सहूङ्कारोज्जृम्भा स्मर-परवशा कान्त-विमुखं मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढ-युवती ॥
नव-नव-रहो-लीलाभ्यास-प्रपञ्चित-मन्मथ व्यतिकर-कला-कल्लोलान्तर्-निमग्न-मनस्कयोः
अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुताः मुकुलित-दृशोर् उद्भिद्यन्ते न चेद् विरह-त्विषः ॥
तस्यापाङ्ग-विलोकितस्य मधुर-प्रोल्लासितार्ध-भ्रुवस् तस्य स्मेर-शुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया
भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो नाधन्यः कुरुते प्ररूढ-पुलकैर् आतिथ्यम् अङ्गैर् जनः ॥
समाकृष्टं वासः कथम् अपि हठात् पश्यति तदा क्रमाद् ऊरु-द्वन्द्वं जरठ-शर-गौरं मृग-दृशः
तया दृष्टिं दत्त्वा महति मणि-दीपे निपुणया निरुद्धं हस्ताभ्यां झगिति निज-नेत्रोत्पल-युगम् ॥
अनल्पं संतापं शमयति मनोजन्म-जनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति
तद् एवं को ऽप्य् ऊष्मा रमण-परिरम्भोत्सव-मिलत् पुरन्ध्री-नीरन्ध्र-स्तन-कलश-जन्मा विजयते ॥
नाधन्यान्वि-परीत-मोहन-रस-प्रेङ्खन्-नितम्ब-स्थली लोलद्-भूषण-किङ्किणी-कल-रव-व्यामिश्र-कण्ठ-स्वनम्
संरम्भ-श्लथ-केश-बन्ध-विगलन्-मुक्ता-कलाप-द्रुत छ्वास-च्छेद-तरङ्गित-स्तन-युगं प्रीणाति शृङ्गारिणी ॥
सीत्कारवन्ति दर-मीलित-लोचनानि रोमाञ्च-मुञ्चि मकर-केतु-निकेतनानि
एणी-दृशां मकर-केतु-निकेतनानि वन्दामहे सुरत-विभ्रम-चेष्टितानि ॥
मुहुर् व्रीडावत्याः प्रतिहसितवत्याः प्रतिमुहुर् मुहुर् विश्रान्ताया मुहुर् अभिनिविष्ट-व्यवसितेः
श्रमाम्भोभिस् तम्यत्-तिलक-मलिका-घूर्ण-दलकं मुखं लीलावत्या हरति विपरीत-व्यतिकरे ॥
आस्तां दूरेण विश्लेषः प्रियाम् आलिङ्गतो मम
स्वेदः किं न सरिन्नाथो रोमाञ्चः किं न पर्वतः ॥
चिरारूढ-प्रेम-प्रणय-परिहासेन हृतया तद्-आरब्धं तन्व्या न तु यद् अबलायाः समुचितम्
अनिर्व्यूढे तस्मिन् प्रकृति-सुकुमाराङ्ग-लतया पुनर् लज्जालोलं मयि विनिहितं लोचन-युगम् ॥
नख-दशन-निपात-जर्जराङ्गी रति-कलहे परिपीडिता प्रहारैः
सपदि मरणम् एव सा तु यायाद् यदि न पिबेद् अधरामृतं प्रियस्य ॥
मुग्धे तवास्मि दयिता दयितो भव त्वम् इत्य् उक्तया न हि न हीति शिरो ऽवधूय
स्वस्मात् करान् मम करे वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥
पततु तवोरसि सततं दयिता-धम्मिल्ल-मल्लिका-प्रकरः ।
रति-रस-रभस-कच-ग्रह-लुलितालक-वल्लरी-गलितः ॥
आवृण्वाना झगिति जघनं मद्-दुकूलाञ्चलेन प्रेङ्खत्-क्रीडाकुलित-कबरी-बन्धन-व्यग्र-पाणिः
अर्धोच्छ्वास-स्फुट-नख-पदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्य-स्मृति-नत-मुखी मोहनान्ते मया सा ॥
हरति रति-विमर्दे लुप्त-पात्राङ्कुरत्वात्द् प्रकट-नख-पदाङ्कः किं च रोमाञ्च-मुद्रः
हरिण-शिशु-दृशो ऽस्या मुग्ध-मुग्धं हसन्त्याः परिणत-शर-काण्ड-स्निग्ध-पाण्डुः कपोलः ॥
कर-किसलयं धूत्वा धूत्वा विलम्बित-मेखला क्षिपति सुमनो-माला-शेषं प्रदीप-शिखां प्रति
स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला सुरत-विरतौ रम्यं तन्वी पुनः पुनर् ईक्षितुम् ॥
विश्रान्तिं नूपुरे याते श्रूयते रसना-ध्वनिः
प्रायः कान्ते रति-श्रान्ते कामिनी पुरुषायते ॥
भावोद्गाढम् उपोढ-कम्प-पुलकैर् अङ्गैः समालिङ्गितं रागाच् चुम्बितम् अप्य् उपेत्य वदनं पीतं च वक्त्रामृतम्
जल्पन्त्यैव मुहुर् ननेति निभृतं प्रध्वस्त-चारित्रया निःशेषेण समापितो रति-विधिर् वाचा तु नाङ्गीकृतः ॥
यत् पीन-स्तन-भार-लालस-लसद्-वासः स्फुरद्-गण्डया तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते
तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् चेतो-हारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा ॥
न बत विधृतः काञ्ची-स्थाने करः श्लथ-वाससि प्रहितम् असकृद् दीपे चक्षुर् घन-स्थिर-तेजसि
कुच-कलशयोर् ऊढः कम्पस् तया मम संनिधौ मनसिज-रुजो भावैर् उक्ता वचोभिर् अपह्नुताः ॥
हर्षाश्रु-दूषित-विलोचनया मयाद्य किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम्
रोमाञ्च-कञ्चुक-तिरस्कृत-देहया वा ज्ञातानि तानि परिरम्भ-सुखानि किं वा ॥
स कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता यतो मां स्पृष्ट्वैव स्नपयति करं स्वेद-पयसा
विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने व्युदञ्चद्-रोमाञ्च-स्थगित-वपुर् आलिङ्गति समाम् ॥
किम् अपि किम् अपि मन्दं मन्दम् आसत्ति-योगाद् अविचलित-कपोलं जल्पतोश् च क्रमेण
अशिथिल-परिरम्भ-व्यापृतैकैक-दोष्णोर् अविदित-गत-यामा रात्रिर् एव व्यरंसीत् ॥
दाक्षिण्याद् अभिमानतो रस-वशाद् विश्राम-हेतोर् मम प्रागल्भ्यात् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम्
निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् ततस् तारकैः स-व्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः ॥
वलित-मनसोर् अप्य् अन्योन्यं समावृत-भावयोः पुनर् उपचित-प्राय-प्रेम्णोः पुनस् त्रप-माणयोः
इह हि निविड-व्रीडानङ्ग-ज्वरातुर-चेतसोर् नव-तरुणयोः को जानीते किम् अद्य फलिष्यति ॥
द्रष्टुं केतक-पत्र-गर्भ-सुभगाम् ऊरु-प्रभाम् उत्सुकस् तत्-संवाहन-लीलया च शनकैर् उत्क्षिप्त-चण्डातकः
लज्जा-मुग्ध-विलोचन-स्मित-सुधा-निर्धौत-बिम्बाधरं कम्प-प्रश्लथ-बाहु-बन्धनम् असाव् आलिङ्गितो बालया ॥
निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां दीर्घापाङ्ग-सरित्-तरङ्ग-तरलं शय्याम् अनुप्रेषितम्
उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते घूर्णन्ती किल सापि हूङ्कृतवती शून्यं सखी दक्षिणा ॥
दृष्ट्वैकासन-संस्ह्तिते प्रियतमे पश्चाद् उपेत्यादराद् एकस्या नयने पिद्याय विहित-क्रीडानुबन्ध-च्छलः
ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसाम् अन्तर्-हास-लसत्-कपोल-फलकां धूर्तो ऽपरां चुम्बति ॥
कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः
बहिर् व्याजामर्ष-प्रसर-परुषान्तर्-गत-रसा निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते ॥
आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं केलि-द्यूत-विधौ पणं प्रियतमे कान्तां पुनः पृच्छति
अन्तर्-गूढ-विगाढ-संभ्रम-रस-स्फारी-भवद्-गण्डया तूष्णीं शारि-विसारणाय निहितः खेदाम्बु-गर्भः करः ॥
आश्लेष-चुम्बन-रतोत्सव-कौतुकानि क्रीडा दुरोत्दर-पणः प्रतिभूर् अनङ्गः
भोगः स यद्यपि जये च पराजये च यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥
कलह-कलया यत् संवृत्यै त्रपावनतानना पिहित-पुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम्
दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुक-सन्धयः ॥
रति-पति-धनुर्-ज्या-टङ्कारो मद-द्विप-डिण्डिमः स-पुलक-जल-प्रेम-प्रावृट्-पयोधर-गर्जितम्
निधुवन-युधस् तूर्यातोद्यं जहार नत-भ्रुवां जघन-सरसी-हंस-स्वानः श्रुतिं रसना-रवः ॥
युगलम् अगलत् तर्षोत्कर्षे तरूत्पल-गौरयोः पटु-विघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति
श्रुति-कुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना ज्वलति रसना-रोचिर् दीपे तद् आप निरर्थताम् ॥
दशन-दशनैर् ओष्ठो मम्लौ न पल्लव-कोमलो व्यसहत नख-च्छेदानङ्गं शिरीष-मृदु-च्छवि
न भुज-लतिका-गाढाश्लेषैः श्रमं ललिता ययुर् युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् ॥
किम् उपगमिता भर्त्रा तप्त-द्विलोह-वेदकतां उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मर-सायकैः
विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो न पति-भुजयोर् निष्यन्दान्तः प्रिया निरवीयत ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0