भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 1

1.1*(2)

आबाहूद्गत-मण्डलाग्र-रुचयः संनद्ध-वक्षः-स्थलाः सोष्माणो व्रणिनो विपक्ष-हृदय-प्रोन्माथिनः कर्कशाः
उत्सृष्टाम्बर-दृष्ट-विग्रह-भरा यस्य स्मराग्रेसरा मारा मार-वधू-स्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः ॥

1.2*(3)

नम्राः पाद-नखेषु यस्य दशसु ब्रह्मेश-कृष्णास्त्रय स्ते देवाः प्रतिबिम्बनास् त्रिदशतां सुव्यक्तम् आपेदिरे
स त्रैलोक्य-गुरुः सुदुस्तर-भवाकूपार-पारङ्गतो मार-व्यूह-जय-प्रगल्भ-सुभटः शास्ता तव स्तान् मुदे ॥

1.3*(4)

काम-क्रोधौ द्वयम् अपि यदि प्रत्यनीकं प्रसिद्धं हत्वानङ्गं किम् इव हि रुषा साधितं त्र्य्-अम्बकेन
यस् तु क्षान्त्या शमयति शतं मन्मथादीन-रातीन् कल्याणं वो दिशतु स मुनि-ग्रामणीर् अर्क-बन्धुः ॥

1.4*(5)

श्रेयांसि वः स सुगतः कुरुताद् अपार संसार-सागर-समुत्तरणैक-सेतुः
दुर्वार-मार-परिवार-बलावलेप कल्पान्त-संतत-पयः-प्रसरैर् अहार्यः ॥

1.5*(6)

शास्ता समस्त-भुवनं भगवान् अपायात् पायाद् अपास्त-तिमिरो मिहिरोपमेयः
संसार-भित्ति-भिदुरो भव-कन्द-कन्दु कन्दर्प-दर्प-दलन-व्यसनी मुनीन्द्रः ॥

1.6*(7)

कारुण्यामृत-कन्दली-सुमनसः प्रज्ञा-वधू-मौक्तिक ग्रीवालंकरण-श्रियः शम-सरित्-पूरोच्छलच्-छीकराः
ते मौलौ भवतां मिलन्तु जगती-राज्याभिषेकोचित स्रग्-भेदा अभय-प्रदान-चरण-प्रेङ्खन्-नखाग्रांशवः ॥

1.7*(8)

शीलाम्भः-परिषेक-शीतल-दृढ-ध्यानालवाल-स्फुरद् दान-स्कन्ध-महोन्नतिः पृथुतर-प्रज्ञोल्लसत्-पल्लवः
देयात् तुभ्यं अवार्थ-वीर्य-विटपः क्षान्ति-प्रसूनोद्गमः सुच्छायः षड्-अभिज्ञ-कल्प-विटपी-संबोध-बीजं फलम् ॥

1.8*(9)

एकस्यापि मनो-भुवस् तद्-अबलापाङ्गैर् जगन्-निर्जये कामं निह्नुत-सर्व-विस्मय-रस-व्यक्ति-प्रकारा वयम्
यस् त्व् एनं सबलं च जेतुम् अभितस् तत्-कम्प-मात्रं भ्रुवो र्नारेभे सुगतस् तु तद्-गुण-कथा स्तम्भाय नः केवलम् ॥

1.9*(10)

प्रत्येकानन्त-जाति-प्रतिवपुर् अमितावृत्तिजन्मारिजैर् नो भोक्तृ-व्रातोज्झिहीर्षा-फल-निलय-महा-पौरुषस्यापि शास्तुः
के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् यो भस्मासीत् कटाक्ष-ज्वलन-कणिकया द्राग् उमा-कामुकस्य ॥

1.10*(11)

पायाद् वः समयः स मार-जयिनो बन्ध्यायितास्त्रोत्करः क्रोधाद् यत्र तद्-उत्तमाङ्ग-कवलोन्मीलन्-महा-विक्रमः
आसीद् अद्भुत-मौलिर् अत्र-मिलितां व्यात्तानन-च्छायिकाम् आलोक्यात्मन एव मार-सुमटः पर्यस्त-धैर्योदयः ॥

1.11*(12)

खेला-चञ्चल-संचरन्-निज-पद-प्रेङ्खोल-लीला-मिलत् सद्यः-सान्द्र-पराग-राग-रचितापूर्व-प्रसून-श्रियः
आश्लिष्यन्-मधु-लम्पटालि-निवहस्योच्चैर् मिथश् चुम्बनैर् व्याकोषः कुसुमाञ्जलिर् दिशतु वः श्रेयो निजायार्पितः ॥

1.12*(13)

दरोन्मुक्तारक्त-स्फुरद्-अधर-वीथी-क्रम-वमन् मयूखान्तर्-मूर्च्छद्-द्युति-दशनम् उद्देश-वशिनः
सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञान-रजनी व्यवच्छेदोद्गच्छन् महिम-घन-संध्यातप इव ॥

1.13*(14)

कन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्-रागया वृद्धत्वं वर-योषितो ऽनयद् इति त्रासाकुल-स्वान्तया
मारस्यापि शरैर् अभेद्य-हृद् इति श्रद्धाभर-प्रह्वया पायाद् वः स्फुट-बाष्प-कम्प-पुलकं रत्या जिनो वन्दितः ॥

1.14*(15)

पादाम्भोज-समीप-सन्निपतित-स्वर्णाथ-देह-स्फुरन् नेत्र-स्तोमतया परिस्फुट-मिलन्-नीलाब्ज-पूजा-विधिः
वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत्-प्रभा-पल्लव प्रत्युन्मीलद्-अपूर्व-चीवर-पटः शाक्यो मुनिः पातु वः ॥

1.15*(16)

क एकस् त्वं पुष्पायुध मम समाधि-व्ययविधौ सुपर्वाणः सर्वे यदि कुसुम-शस्त्रास् तद् अपि किम्
इतीवैनान् नूनं य इह सुमनो ऽस्त्रत्वम् अनयत् स वः शास्ता शस्त्रं दिशतु दश-दिङ्-मार-विजयी ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc