भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 18

18.1*(535)

लावण्येन पिधीयतेङ्गतनिमा संद्न्धार्यते जीवितं त्वद्-ध्यानैः सततं कुरङ्गक-दृशः किन्त्व् एतद् आस्ते नवम्
निःश्वासैः कुच-कुम्भ-पीठ-लुठन-प्रत्युद्गमान् मांसलैः श्यामीभूत-कपोलम् इन्दुर् अधुना यत् तन् मुखं स्पर्धते ॥

18.2*(536)

सोद्वेगा मृग-लाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे त्रस्ता कोकिल-कूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः
इत्थं दुःसह-दाह-दायिनि धृत-द्वेषापि पुष्पायुधे मुग्धा सा सुभगे त्वयि प्रतिमुहुः प्रेमाधिकं पुष्यति ॥

18.3*(537)

विलिम्पन्त्य् एतस्मिन् मलय-जरसार्द्रेण महसा दिशं चक्रं चन्द्रे सुकृतमय तस्या मृग-दृशः
दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठ-कुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥

18.4*(538)

अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः पाथोनिधिः कुसुम-चाप-भृतो विकारः
प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डाल-चन्द्र-धवलासु निशासु तस्याः ॥

18.5*(539)

वक्त्रेन्दोर् न हरन्ति बाष्प-पयसां धारा-मनोज्ञां श्रियं निःश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम्
तस्यास् त्वद्-विरहे विपक्व-लवली-लावण्य-संवादिनी छाया कापि कपोलयोर् अनुदिनं तस्याः परं शुष्यति ॥

18.6*(540)

तापो ऽम्भः प्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितः श्वासानर्तित-दीप-वर्ति-लतिकाः पाण्डिम्नि मग्नं वपुः
किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्-वर्त्म-वातायने हस्त-च्छत्र-निरुद्ध-चन्द्र-महसस् तस्याः स्थितिर् वर्तते ॥

18.7*(541)

चन्द्रं चन्दन-कर्दमेन लिखितं सा मार्ष्टि दष्टाधरा वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस् ताङ्गुलीः
कामः पुष्प-शरः किलेति सुमनो-वर्गं लुनीते च यत् तत् कां सा सुभग त्वया वरत्-तनुर् बातूलतां लम्भिता ॥

18.8*(542)

वपुः शारङ्गाक्ष्यास् तद् अविरल-रोमाञ्च-निचयं त्वयि स्वप्नावाप्ते स्नपयति परः खेद-विसरः
बलाकर्ष-त्र्युट्यद्-वलयज-कडत्कार-निनदैर् विनिद्रायाः पश्चाद् अनवरत-बाष्पाम्बु-निवहाः ॥

18.9*(543)

नो शक्या गदितुं स्मरानल-दशा यास्यास् त्वयि प्रस्थिते पत्रैः सास्र-सखी-जनोपरचिते तल्पे लुठन्त्या मुहुः
यद् लिप्तं कुच-चन्दनेन सुतनोर् अद्यापि चन्द्र-च्छलाच् छ्वासोड्डीन-विशुष्क-पाण्डु-बिसिनी-पत्रं दिवि भ्राम्यति ॥

18.10*(544)*

प्रकटयति क्षण-भङ्गं पश्यति सर्वं जगद् गतं शून्यम् ।
आचरति स्मृति-बाह्यं जाता सा बौद्ध-बुद्धिर् इव ॥

18.11*(545)

त्वद्-अर्थिनी चन्दन-भस्म-दिग्धा ललाट-लेखाश्रु-जलाभिषिक्ता
मृणाल-चीरं दधती स्तनाभ्यां स्मरोपदिष्टं चरति व्रतं सा ॥

18.12*(546)

ये निर्दहन्ति दशन-श्वसितावलोकैः क्रूरं द्वि-जिह्व-कुटिलाः क्व विलासिनस् ते
भीष्मोष्मभिः स्मरण-मात्र-विषैस् तवेयम् अव्याल मारयति कापि भुजङ्ग-भङ्गिः ॥

18.13*(547)

स्वेदापूर-विलुप्त-कुङ्कुम-रसाश्लेषाविल-प्रच्छदात् तल्पाद् व्यक्त-मनोभवानल-शिखालीढाद् इवाशङ्किता
सा बाला बलवन्-मृगाङ्क-किरणैर् उत्पादितान्तर्-ज्वरा त्वत्-संकल्प-जडे त्व-अङ्क-शयने निद्रा-सुखं वाञ्छति ॥

18.14*(548)

धूमेनेव हते दृशौ विसृजतो बाष्पं प्रवाह-क्षम कथोत्फेणम् इवात्त-चन्दन-रसं स्वेदं वपुर् मुञ्चति
अन्तःप्रज्वलितस्य काम-शिखिनो दाहार्जितैर् भस्मभिः श्वासा-वेग-विनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति ॥

18.15*(549)

अत्रैव स्वयम् एव चित्र-फलके कम्प-स्खलल्-लेखया संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान्
बाष्प-व्याकुलम् ईक्षितः सपुलकं चूताङ्कुरैर् अर्चितो मूर्ध्ना च प्रणतः सखीषु मदन-व्याजेन चापह्नुतः ॥

18.16*(550)

सा सुन्दरी तव वियोग-हुताशने ऽस्मिन्न् अभ्युक्ष्य बाष्प-सलिलैर् निज-देह-हव्यम्
जन्मान्तरे विरह-दुःख-विनाश-कामा पुंस्कोकिलाभिहिति-मन्त्र-पदैर् जुहोति ॥

18.17*(551)

सुभग सुकृत-प्राप्यो यद्यप्य् असि त्वम् असाव् अपि प्रिय-सहचरी नाधन्यानाम् उपैति विधेयताम्
तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं प्रणय-मधुरः सद्-भावो वां चिराय विवर्धताम् ॥

18.18*(552)

दोलालोलाः श्वसन-मरुतश् चक्षुषी निर्झराभे तस्याः शुष्यत्-तगर-सुमनः-पाण्डुरा गण्ड-भित्तिः
तद्-गात्राणां किम् इव हि बहु ब्रूमहे दुर्बलत्वं येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी ॥

18.19*(553)

अस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि
आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आपद्यते पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी ॥

18.20*(554)

विषं चन्द्रालोकः कुमुद-वन-वातो हुतवहः क्षत-क्षारो हारः स खलु पुट-पाको मलयजः
अये किंचिद् वक्रे त्वयि सुभग सर्वे कथम् अमी समं जातास् तस्याम् अहह विपरीत-प्रकृतयः ॥

18.21*(555)

त्वां चिन्ता-परिकल्पितं सुभग सा संभाव्य रोमाञ्चिता शून्यालिङ्गन-संचलद्-भुज-युगेनात्मानम् आलिङ्गति
किं चान्यद्-विरह-व्यथा-प्रणयिणीं संप्राप्य मूर्च्छां चिरात् प्रत्युज्जीवति कर्ण-मूल-पठितैस् त्वन्-नाम-मन्त्राक्षरैः ॥

18.22*(556)*

गाढाव् अधः-कृत-बलि-त्रितयौ सुसङ्ग तुङ्गौ स्तनाव् इति तयोस् तलम् आर्तम् आगात् ।
तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषून्त रक्षतः प्रविशतो विमुखो ऽथ वा क्व ॥

18.23*(557)

मृग-शिशु-दृशस् तस्यास् तापं कथं कथयामि ते दहन-पतिता दृष्टा मूर्तिर् मया न हि वैधवी
इति तु नियतं नारी-रूपः स लोक-दृशां प्रियस् तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते ॥

18.24*(558)*

पुनरुक्तावधि-वासरम् एतस्याः कितव पश्य गणयन्त्याः ।
इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc