भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 17

17.1*(465)

दत्त्वा वाम-करं नितम्ब-फलके लीलावलन्-मध्यया व्यावृत्त-स्तनम् अङ्ग-चुम्बि-चिबुकं स्थित्वा तया मां प्रति
अन्तर्-विस्फुरद्-इन्द्रनील-मणिमन्-मुक्तावलीम्-आंसलाः स-प्रेम प्रहिताः स्मर-ज्वर-मुचो द्वित्राः कटाक्ष-च्छटाः ॥

17.2*(466)

आकर्णान्त-विसर्पिणः कुवलय-च्छाया-मुषश् चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं संभ्रमेणामुना
मुग्धे केवलम् एतद् आहित-नखोत्खाताङ्कम् उत्पांशुलं बाह्वोर् मूलम् अलीक-मुक्त-कबरी-बन्ध-च्छलाद् दर्शितम् ॥

17.3*(467)

तरत्-तारं तावत् प्रथमम् अथ चित्रार्पितम् इव क्रमाद् एवापाङ्गे सहजम् इव लीला-मुकुलितम्
ततः किंचित् फुल्लं तद् अनु घन-बाष्पाम्बु-लहरी परिक्षामं चक्षुः पततु मयि तस्या मृग-दृशः ॥

17.4*(468)

लीला-ताण्डवित-भ्रु विभ्रम-वलद् वक्त्रं कुरङ्गीदृशा साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति
नीलाब्ज-व्यतिमिश्र-केतक-दल-द्राघीयसीनां स्रजां सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्ष-च्छटाः ॥

17.5*(469)

दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते
निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुम् एवेहते जाता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥

17.6*(470)

तद्-व्रीडाभर-भुग्नम् आस्य-कमलं विन्यस्य जानूपरि प्रोद्यत्-पक्ष्म-निरीक्षितं विजयते स-प्रेम वाम-भ्रुवः
हास्य-श्री-लव-लाञ्छिता च यद् असाव् अस्याः कपोल-स्थली लोलल्-लोचन-गोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥

17.7*(471)

बिसक-वलन-लीला-मग्न-पूर्वार्ध-कायं कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः
विरत-चरित-तार-स्फार-नेत्रं यद् अस्याश् चकितम् इह न दृष्टं मूढ तद् वञ्चितो ऽसि ॥

17.8*(472)

अयं लोलन्-मुक्तावलि-किरण-माला-परिकरः स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथ-सुहृत्
विशालः श्यामायाः स्खलित-घन-नीलांशुक-वृतिः स्तनाभोगः स्निह्यन्-मसृण-घुसृणालेप-सुभगः ॥

17.9*(473)

मन्ये हीनं स्तन-जघनयोर् एकम् आशङ्क्य धात्रा प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः
लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुलीनां आमग्नानां त्रिवलि-वलय-च्छद्मना भान्ति मुद्राः ॥

17.10*(474)

यत्रैतन् मृगनाभि-पत्र-तिलकं पुष्णाति लक्ष्म-श्रियं यस्मिन् हास-मयो विलिम्पति दिशो लावण्य-बालातपः
तन् मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता तारैकावलि-मण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् ॥

17.11*(475)

वक्त्राम्बुजं भुज-मृणाल-लतं प्रियाया लावण्य-वारि वलि-वीचि वपुस् तडागम्
तत्-प्रेम-पङ्क-पतितो न समुज्जिहीते मच्-चित्त-कुञ्जर-पतिः परिगाहमानः ॥

17.12*(476)

कृच्छ्रेणोरु-युगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्ब-स्थले मध्ये ऽस्यास् त्रिवली-विभङ्ग-विषमे निष्पन्दताम् आगता
मद्-दृष्टिस् तृषितेव संप्रति शनैर् आरुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुर् ईक्षते जल-लव-प्रस्यन्दिनी लोचने ॥

17.13*(477)

अलम् अतिचपलत्वात् स्वप्न-मायोपमत्वाद् परिणति-विरसत्वात् संगमेन प्रियायाः
इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा ॥

17.14*(478)

नपुंसकम् इति ज्ञात्वा तां प्रति प्रहितं मनः
रमते तच् च तत्रैव हताः पाणिनिना वयम् ॥

17.15*(479)

हारो ऽयं हरिणाक्षीणां लुठति स्तन-मण्डले
मुक्तानाम् अप्य् अवस्थेयं के वयं स्मर-किङ्कराः ॥

17.16*(480)

सा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्ध-वदनेति मुहुर् मुहुर् मे
कान्ताम् अयं विरहिणीम् अनुरन्तु-कामः कामातुरो जपति मन्त्रम् इवान्तरात्मा ॥

17.17*(481)

सा बाला वयम् अप्रगल्भ-मनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत् पयोधर-युगं धत्ते सखेदा वयम्
साक्रान्ता जघन-स्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैर् अन्य-जनाश्रितैर् अपटवो जाताः स्म इत्य् अद्भुतम् ॥

17.18*(482)

अलस-वलित-मुग्ध-स्निग्ध-निष्पन्द-मन्दैर् अधिक-विकसद्-अन्तर्-विस्मय-स्मेर-तारैः
हृदयम् अशरणं मे पक्ष्म-लाक्ष्याः कटाक्षैर् अपहृतम् अपविद्धं पीतम् उन्मूलितं च ॥

17.19*(483)

यान्त्या मुहुर् वलित-कन्धरम् आननं तद् आवृत्त-वृन्त-शतपत्र-निभं वहन्त्या
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥

17.20*(484)

परिच्छेद-व्यक्तिर् भवति न पुरस्थे ऽपि विषये भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभाव-विरमम्
न संताप-च्छेदो हिम-सरसि वा चन्द्रमसि वा मनो निष्ठा-शून्यं भ्रमति च किम् अप्य् आलिखति च ॥

17.21*(485)

परिच्छेदातीतः सकल-वचनानाम् अविषयः पुनर्-जन्मन्य् अस्मिन् अनुभव-पथं यो न गतवान्
विवेक-प्रध्वंसाद् उपचित-महामोह-गहनो विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते ॥

17.22*(486)

गच्छन्त्या मुहुर् अर्पितं मृगदृशा तार-स्फुरद्-वीक्षणं प्रान्त-भ्राम्यद्-असञ्जित-भ्रु यद् इदं किं तन् न जानीमहे
क्वापि स्वेद-समुच्चयः स्नपयति क्वापि प्रकमोद्गमः क्वाप्य् अङ्गेषु तुषानल-प्रतिसमः कन्दर्प-दर्प-क्रमः ॥

17.23*(487)*

अमृत-सिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुत-वीक्षितैः ।
अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् ॥

17.24*(488)

सा नेत्राञ्जनतां पुनर् व्रजति मे वाचाम् अयं विभ्रमः प्रत्यासन्न-कर-ग्रहेति च करी हस्तोदरे शायितः
एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे निर्माणं वपुषो ममोरु-तपसस् तस्याश् च वाम-भ्रुवः ॥

17.25*(489)

नूनम् आज्ञा-करस् तस्याः सुभ्रुवो मकर-ध्वजः
यतस् तन्-नेत्र-सञ्चार सूचितेषु प्रवर्तते ॥

17.26*(490)

आदौ विस्मय-निस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैः व्रीडा-नम्रम् अथ क्षणं प्रविकसत्-तारं दिदृक्षा-रसैः
आकृष्टं सहजाभिजात्य-कलनात् प्रेम्णा पुरः प्रेरितं चक्षुर् भूरि कथं कथंचिद् अगमत् प्रेयांसम् एणीदृशः ॥

17.27*(491)*

गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः ।
चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥

17.28*(492)

अयं ते विद्रुम-च्छायो मरु-देश इवाधरः
करोति कस्य नो मुग्धे पिपासा-तरलं मनः ॥

17.29*(493)

अस्यास् तुङ्गम् इव स्तन-द्वयम् इदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि
अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्ध-स्वभावश् चिरं प्रेम्णा मन्-मुख-चन्द्रम् ईक्षित एव स्मेरेव वक्तीति च ॥

17.30*(494)

स्वच्छन्दं स्व-गृहाङ्गणं भ्रमति सा मद्-दर्शनाद् लीयते धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते
अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते नीतो दूरम् अहं तया दयितया सामान्य-लोकाद् अपि ॥

17.31*(495)

स खलु सुकृति-भाजाम् अग्रणीः सो ऽतिधन्यः विनिहित-कुच-कुम्भा पृष्ठतो यन् मृगाक्षी
बहलतर-नखाग्र-क्षोद-विन्यस्त-मार्गे शिरसि टसिति लिक्षां हन्ति हूङ्कार-गर्भम् ॥

17.32*(496)*

अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् ।
मोहं च मुहुः कुरुते विषम-विषं वीक्षितं तस्याः ॥

17.33*(497)

मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे कान्ता-पयोधर-युगे रति-खेद-खिन्नः
वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती धन्यः क्षपाः क्षपयति क्षण-लब्ध-निद्रः ॥

17.34*(498)

धिक् तस्य मूढ-मनसः कुकवेः कवित्वं यः स्त्री-मुखं च शशिनं च समीकरोति
भ्रू-भङ्ग-विभ्रम-विलास-निरीक्षितानि कोप-प्रसाद-हसितानि कुतः शशाङ्के ॥

17.35*(499)

तावज् जरा-मरण-बन्धु-वियोग-शोक संवेग-भिन्न-मनसाम् अपवर्ग-वाञ्छा
यावन् न वक्र-गतिर् अञ्जन-नील-रोचिर् एणीदृशां दशति लोचन-दन्त-शूकः ॥

17.36*(500)

सा यैर् दृष्टा न वा दृष्टा मुषिताः समम् एव ते
हृतं हृदयम् एकेषाम् अन्येषां चक्षुषः फलम् ॥

17.37*(501)

सा बालेति मृगेक्षणेति विकसत्-पद्माननेति क्रम प्रोन्मीलत्-कुच-कुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि
मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेम-प्रमादास्पदम् ॥

17.38*(502)

अवचनं वचनं प्रिय-संनिधा वनवलोकनम् एव विलोकनम्
अवयवावरणं च यद् अञ्चल व्यतिकरेण तद्-अङ्ग-समर्पणम् ॥

17.39*(503)

अलस-वलितैः प्रेमार्द्रार्द्रैर् मुहुर् मुकुली-कृतैः क्षणम् अभिमुखैर् लज्जालोलैर् निमेष-पराङ्मुखैः
हृदय-निहितं भावाकूतं वमद्भिर् इवेक्षणैः कथय सुकृती को ऽयं मुग्धे त्वयाद्य विलोक्यते ॥

17.40*(504)

यदि सरोजम् इदं क्व निशि प्रभा यदि निशापतिर् अह्नि कुतो नु सः
रचयतोभय-धर्मि तवाननं प्रकटितं विधिना बहु नैपुणम् ॥

17.41*(505)

अभिमुखे मयि संवृतम् ईक्षितं हसितम् अन्य-निमित्त-कथोदयम्
विनय-वारित-वृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः ॥

17.42*(506)

को ऽसौ कृती कथय को मदनैक-बन्धुर् उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम्
नीलाब्ज-कर्बुरित-मध्य-विनिद्र-कुन्द दामाभिराम-रुचिभिस् तरलैः कटाक्षैः ॥

17.43*(507)

गुरुणा स्तन-भारेण मुख-चन्द्रेण भास्वता
शनैश्चराभ्यां पादाभ्यां रेजे ग्रह-मयीव सा ॥

17.44*(508)

अलस-वलितैः प्रेमार्द्रार्द्रैर् निमेष-पराङ्मुखैः क्षणम् अभिमुखं लज्जा-लोलैर् मुहुर् मुकुलीकृतैः
हृदय-निहितं भावाकूतं वमद्भिर् इवेक्षणैः कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते ॥

17.45*(509)

उपरि कबरी-बन्ध-ग्रन्थेर् अथ ग्रथिताङ्गुरीन् निज-भुज-लते तिर्यक् तन्व्या वितत्य विवृत्तया
विवृत-विलसद्-वामापाङ्ग-स्तनार्ध-कपोलया कुवलय-दल-स्रक्-संदिग्ध-श्रियः प्रहिता दृशः ॥

17.46*(510)

साकूतं दयितेन सा परिजनाभ्याशे समालोकिता स्वाकूत-प्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम्
वैदर्भाक्षर-गर्भिणीं गिरम् उदीर्यान्यापदेशाद् शिशुं प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि ॥

17.47*(511)

व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया स्वप्न-भ्रान्ति-परिप्लुतेन मनसा गाढं समालिङ्गति
दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता तन्व्य्-अङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने ॥

17.48*(512)

आयाते दयिते मरुस्थल-भुवाम् उत्प्रेक्ष्य दुर्लङ्घ्यतां गेहिन्या परितोष-बाष्प-तरलाम् आसज्य दृष्टिं मुखे
दत्त्वा पीलु-शमीकरीर-कवलान् स्वेनाञ्चलेनादरा दामृष्टं करभस्य केसर-सटाभारावलग्नं रजः ॥

17.49*(513)

दर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा
आसीद् विवृत्त-वदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥

17.50*(514)

दूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीय-पानोचितो रूपालोकन-विस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः
रोमाञ्चो ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपां अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपा-पालिकाम् ॥

17.51*(515)

चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव मृशसि मृदु कर्णान्तिक-गतः
करं व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरं वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥

17.52*(516)

स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव
मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी सर्वं तत् किल मत्-परायणम् अहो कामः स्वतां पश्यति ॥

17.53*(517)

वक्त्र-श्री-जित-लज्जितेन्दु-मलिनं कृत्वा करे कन्दुकं क्रीडा-कौतुक-मिश्र-भावम् अनया ताम्रं वहन्त्य् आननम्
भृङ्गाग्र-ग्रह-कृष्ट-केतक-दल-स्पर्धावतीनां दृशां दीर्घापाङ्ग-तरङ्गणैक-सुहृदाम् एषो ऽस्मि पात्रीकृतः ॥

17.54*(518)

तरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं स्फुटीकुरु रद-च्छदं व्रजतु विद्रुमः श्वेतताम्
मनाग् वपुर् अपावृणु स्पृशतु काञ्चनं कालिकां उदञ्चय निजाननं भवतु च द्वि-चन्द्रं नभः ॥

17.55*(519)

एको जयति सद्-वृत्तः किं पुनर् द्वौ सुसंहतौ
किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् ॥

17.56*(520)

प्रणाली-दीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः कटाक्ष-व्याक्षेपाः शिशु-शफर-फाल-प्रतिभुवः
दधानाः सर्वस्वं कुसुम-धनुषो ऽस्मान् प्रति सखे नवं नेत्राद्वैतं कुवलय-दृशः संनिदधति ॥

17.57*(521)

भवन-भुवि सृजन्तस् तार-हारावतारान् दिशि दिशि विकिरन्तः केतकानां कुटुम्बम्
वियति च रचयन्तश् चन्द्रिकां दुग्ध-मुग्धां प्रतिनयन-निपाताः सुभ्रुवो विभ्रमन्ति ॥

17.58*(522)

यत् पश्यन्ति झगित्य् अपाङ्ग-सरणि-द्रोणी-जुषा चक्षुषा विङ्खन्ति क्रम-दोलितोभय-भुजं यन् नाम वाम-भ्रुवः
भाषन्ते च यद् उक्तिभिः स्तवकितं वैदग्ध्य-मुद्रात्मभिस्ः तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः ॥

17.59*(523)

क्रम-सरलित-कण्ठ-प्रक्रमोल्लासितोरस् तरलित-बलि-रेखा-सूत्र-सर्वाङ्गम् अस्याः
स्थित-मति-चिरम् उच्चैर् अग्रपादाङ्गुलीभिः कर-कलित-सखीकं मां दिदृक्षोः स्मरामि ॥

17.60*(524)

स्मर-शरधि-सकाशं कर्ण-पाशं कृशाङ्गी रय-विगलित-ताडीपत्र-ताडङ्कम् एकम्
वहति हृदय-चोरं कुङ्कुम-न्यास-गौरं वलयितम् इव नालं लोचनेन्दीवरस्य ॥

17.61*(525)

चेलाञ्चलेन चल-हार-लता-प्रकाण्डैर् वेणी-गुणेन च बलाद् वलयी-कृतेन
स्वेच्छाहित-भ्रमरक-भ्रमि-मण्डलीभिर् अन्यं रसं रचयतीव चिरं नत-भ्रूः ॥

17.62*(526)

अमन्द-मणि-नूपुर-क्वणत-चारु-चारी-क्रमं झणज्-झणित-मेखला-स्खलित-तार-हार-च्छटम्
इदं तरल-कङ्कणावलि-विशेष-वाचालितं मनो हरति सुभ्रुवः किम् अपि कन्दुक-क्रीडितम् ॥

17.63*(527)

सा दुग्ध-मुग्ध-मधुर-च्छवि-रङ्ग-यष्टिस् ते लोचने तरुण-केतक-पत्र-दीर्घे
कम्बोर् विडम्बन-करश् च स एव कण्ठः सैवेयम् इन्दु-वदना मदनायुधाय ॥

17.64*(528)

क्व पातव्या ज्योत्स्नामृत-भवन-गर्भापि तृषितैर् मृणाली-तन्दूभ्यः सिचय-रचना कुत्र भवतु
क्व वा पारीमेयो बत बकुल-दाम्नां परिमलः कथं स्वप्नः साक्षात् कुवलय-दृशं कल्पयतु ताम् ॥

17.65*(529)

रसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा मधुरम् अधिकं चूतस्यापि प्रसन्न-रसं फलम्
सकृद् अपि पुनर् मध्यस्थः सन् रसान्तर-विज्जनो वदतु यद् इहान्यत् स्वादु स्यात् प्रियारदन-च्छदात् ॥

17.66*(530)

कुवलय-वनं प्रत्याख्यातं नवं मधु निन्दितं हसितम् अमृतं हन्त स्वादोः परं रस-संपदः
विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनां अलस-मधुरैर् लीला-तन्त्रैस् तयार्ध-विलोकितैः ॥

17.67*(531)

चञ्चच्-चोलाञ्चलानि प्रतिसरण-रय-व्यस्त-वेणीनि बाहोः विक्षेपाद् दक्षिणस्य प्रचलित-वलयास्फाल-कोलाहलानि
श्वास-त्रुट्यद्-वचांसि द्रुतम् इतर-करोत्क्षिप्त-लोलालकानि स्रस्त-स्रञ्जि प्रमोदं दधति मृगदृशां कन्दुक-क्रीडितानि ॥

17.68*(532)

प्रहर-विरतौ मध्ये वाह्नस् ततो ऽपि परे ऽथवा किम् उत सकले जाते वाह्नि-प्रिय त्वम् इहैष्यसि
इति दिन-शत-प्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्प-गलज्-जलैः ॥

17.69*(533)

कल्याणं परिकल्प्यतां पिक-कुले रोहन्तु वाञ्चाप्तयोअः हंसानाम् उदयो ऽस्तु पूर्ण-शशिनः स्ताद् भद्रम् इन्दीवरे
इत्य् उद्बाष्प-वधू-गिरः प्रतिपदं संपूरयन्त्य् आन्तिके कान्तः प्रस्थिति-कल्पितोपकरणः सख्या भृशं वारितः ॥

17.70*(534)

सामान्य-वाचि पदम् अप्य् अभिधीयमानं मां प्राप्य जातम् अभिधेय-विशेष-निष्ठम्
स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं ताम् एव वाम-नयनां विषयी-करोति ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc