भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 16

16.1*(384)

यासां सत्य् अपि सद्-गुणानुसरणे दोषानुबन्धः सदा याः प्राणान् वरम् अर्पयन्ति न पुनः संपूर्ण-दृष्टिं प्रिये
अत्यन्ताभिमते ऽपि वस्तुनि विधिर् यासां निषेधात्मकस् तास् त्रैलोक्य-विलक्षण-प्रकृतयो वामाः प्रसीदन्तु वः ॥

16.2*(385)

कण्ठे मौक्तिक-मालिका स्तन-तटे कार्पूर-मध्यं रजः सान्द्रं चन्दनम् अङ्गके वलयिता पाणौ मृणाली-लता
तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहितः ॥

16.3*(386)

लीला-स्खलच्-चरण-चारु-गतागतानि तिर्यग्-विवर्तित-विलोचन-वीक्षितानि
वाम-भ्रुवां मृदु च मञ्जु च भाषितानि निर्मायम् आयुधम् इदं मकर-ध्वजस्य ॥

16.4*(387)

दृष्टा काञ्चन-यष्टिर् अद्य नगरोपान्ते भ्रमन्ती मया तस्याम् अद्भुतम् पद्मम् एकम् अनिशं प्रोत्फुल्लम् आलोकितम्
तत्रोभौ मधुपौ तथोपरि तयोर् एकोष्टमी-चन्द्रमास् तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥

16.5*(388)

मध्ये हेम-लतं कपित्थ-युगलं प्रादुर्बभूव क्रम प्राप्तौ ताल-फल-द्वयं तद् अनु तन् निःसन्धि भाव-स्थितम्
पश्चाद् तुल्य-समुन्नति-व्यतिकरं सौवर्ण-कुम्भ-द्वया कारेण स्फुटम् एव तत्-परिणतं क्वेदं वदामोद्भुतम् ॥

16.6*(389)

स्मित-ज्योत्स्ना-लिप्तं मृगमद-मसी-पत्र-हरिणं मुखं तन्-मुग्धाया हरति हरिणाङ्कस्य लडितम्
क्व चन्द्रे सौन्दर्यं तद्-अधर-रुचिः सातिशयिनी क्व बालायास् ते क्व चटुल-कटाक्षा नय-मुषः ॥

16.7*(390)

आश्चर्यम् ऊर्जितम् इदं किम् उ किं मदीयश् चित्त-भ्रमो यद् अयम् इन्दुर् अनम्बरे ऽपि
तत्रापि कापि ननु चित्र-परम्परेयम् उज्जृम्भितं कुवलय-द्वितयं यद् अत्र ॥

16.8*(391)*

निज-नयन-प्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पले ऽपि विमृशति करम् अर्पयितुं कुसुमलावी ॥

16.9*(392)*

यौवन-शिल्पि-सुकल्पित-नूतन-तनु-वेश्म विशति रति-नाथे ।
लावण्य-पल्लवाङ्गौ मङ्गल-कलशौ स्तनाव् अस्याः ॥

16.10*(393)

एकम् एव बलिं बद्ध्वा जगाम हरिर् उन्नतिम्
अस्यास् त्रिवलि-बन्धेन सैव मध्यस्य नम्रता ॥

16.11*(394)

रोमावली कनक-चम्पक-दाम-गौर्या लक्ष्मीं तनोति नव-यौवन-संभृत-श्रीः
त्रैलोक्य-लब्ध-विजयस्य मनोभवस्य सौर्वर्ण-पट्ट-लिखितेव जय-प्रशस्तिः ॥

16.12*(395)

दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः
विरूपाक्षस्य जयिनीस् ताः स्तुवे वाम-लोचनाः ॥

16.13*(396)

सो ऽयम् अभ्युदितः पश्य प्रियाया मुख-चन्द्रमाः
यस्य पार्वण-चन्द्रेण तुल्यतैव हि लाञ्छनम् ॥

16.14*(397)

विधायापूर्व-पूर्णेन्दुम् अस्या मुखम् अभूद् ध्रुवम्
धाता जिनासनाम्भोज विनिमीलन-दुःस्थितः ॥

16.15*(398)

मैकं तमः-स्तबकम् ऊर्ध्वम् अपाकृथास् त्वम् एणं त्यजास्य विमले नयने गृहाण
लोलालकं तरल-वीक्षितम् आयताक्ष्याः साक्षान् मुखं यदि भवान् अनुकर्तु-कामः ॥

16.16*(399)

एतस्मिन् अवदात-कान्तिनि कुच-द्वन्द्वे कुरङ्गी-दृशः संक्रान्त-प्रतिबिम्बम् ऐन्दवम् इदं द्वेधा विभक्तं वपुः
आनन्दोत्तरलस्य पुष्प-धनुषस् तत्-काल-नृत्योत्सव प्राप्ति-प्रोद्यत-कांस्य-ताल-युगल-प्रायं समालोक्यते ॥

16.17*(400)

घनाव् ऊरू तस्या यदि यदि विदग्धो ऽयम् अधरः स्तन-द्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते
हतौ रम्भा-स्तम्भौ हतम् अहह बन्धूक-कुसुमं हतौ हेम्नः कुम्भाव् अहह विहतः पार्वण-शशी ॥

16.18*(401)

यद् अपि विबुधैः सिन्धोर् अन्तः कथंचिद् उपार्जितं तद् अपि सकलं चारु-स्त्रीणां मुखेषु विभाव्यते
सुर-सुमनसः श्वासामोदे शशी च कपोलयोर् अमृतम् अधरे तिर्यग्-भूते विषं च विलोचने ॥

16.19*(402)

तरल-नयना तन्वङ्गीयं पयोधर-हारिणी रचन-पटुना मन्ये धात्रा शशि-द्रव-निर्मिता
भवतु महिमा लावण्यानाम् अयं कथम् अन्यथा विगलित-तनुर् लेखाशेषः कथं च निशाकरः ॥

16.20*(403)

सो ऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं स्वच्छन्द-च्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके
एतत्-साधन उत्सहेत स जगज् जेतुं कथं मन्मथस् तस्यामोघम् अमूर् भवन्ति नहि चेद् अस्त्रं कुरङ्गी-दृशः ॥

16.21*(404)*

गुरुतां जघन-स्तनयोः स्रष्टुर् मुष्ट्योन्नमय्य तुलितवतः ।
मग्नाङ्गुलि-सन्धि-त्रय-निर्गत-लावण्य-पङ्क्तिला त्रिवली ॥

16.22*(405)

असारं संसारं परिमुषित-रत्नं त्रिभुवनं निरालोकं लोकं मरण-शरणं बान्धव-जनम्
अदर्पं कन्दर्पं जन-नयन-निर्माणम् अफलं जगज् जीर्णारण्यं कथम् असि विधातुं व्यवसितः ॥

16.23*(406)

त्वद्-गण्ड-स्थल-पाण्डु देहि लवलं देहि त्वद्-ओष्ठारुणं बिम्बं देहि नितम्बिनि त्वद्-अलक-श्यामं च मे जाम्बवम्
इत्य् अक्षुण्ण-मनोज्ञ-चाटु-जनित-व्रीडः पुरन्ध्री-जना धन्यानां भवनेषु पञ्जर-शुकैर् आहारम् अभ्यर्थ्यते ॥

16.24*(407)

दूर्वा-श्यामो जयति पुलकैर् एष कान्तः कपोलः कस्तूरीभिः किम् इह लिखितो द्राविडः पत्र-भङ्गः
प्रत्यग्राणि प्रिय-कर-रुह-क्रीडितान्य् एव मुग्धे शोभा-भाञ्जि स्तन-कलशयोस् तन्वि हारो ऽपि भारः ॥

16.25*(408)

जनः पुण्यैर् यायाज् जलधि-जल-भावं जल-मुचं तथावस्थं चैनं विदधति शुभैः शुक्ति-वदने
ततस् तां श्रेयोभिः परिणतिम् असौ विन्दति यया रुचिं तन्वन् पीन-स्तनि हृदि तवायं विलसति ॥

16.26*(409)

न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं न बन्धूकस्येदं मुकुलम् अधरस् तद्द्युति-धरः
ममाप्य् एषा भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते कृतं यत्नैर् एभ्यो विरम विरमेत्य् अञ्जलिर् अयम् ॥

16.27*(410)

मनसिज-विजयास्त्रं नेत्र-विश्राम-पात्रं तव मुखम् अनुकर्तुं तन्वि वाञ्छा द्वयोश् च
इति जनित-विरोधाद् भूत-कोपाद् इवायं हरति तुहिन-रश्मिः पङ्कजानां विकाशम् ॥

16.28*(411)

चेतो-भुवो रचित-विभ्रम-संविधानं नूनं न गोचरम् अभूद् दयिताननं वः
तत्-कान्ति-संपदम् अवाप्स्यत चेच् चकोराः पानोत्सवं किम् अकरिष्यत चन्द्रिकासु ॥

16.29*(412)

यद् गीयते जगति शस्त्र-हता व्रजन्ति नूनं सुरालयम् इति स्फुटम् एतद् अद्य
सूच्यग्र-मात्र-परिखण्डित-विग्रहेण प्राप्तं यतः स्तन-तटं तव कञ्चुकेन ॥

16.30*(413)

अनेन कुम्भ-द्वय-संनिवेश संलक्ष्यमाणेन कुच-द्वयेन
उन्मज्जता यौवन-वारणेन वापीव तन्वङ्गि तरङ्गितासि ॥

16.31*(414)

सत्यं शरैः सुमनसां हृदयं तवैतल् लोलाक्षि निर्भरम् अपूरि मनोभवेन
आमोदम् उल्बणम् अकृत्रिमम् उद्वहन्ति श्वासाः स्वभाव-सुभगं कथम् अन्यथैते ॥

16.32*(415)

सुतनु भव-गभीरं गर्तम् उत्पाद्य नाभीम् अध उपरि निधाय स्तम्भिकां रोम-राजीम्
स्तन-युग-भर-भङ्गाशङ्कितेनेव धात्रा त्रिवलि-वलय-बद्धं मध्यम् आलोकयामः ॥

16.33*(416)

मुहुः शस्त्र-च्छेदैर् मुहुर् असम-पाषाण-कषणैर् मुहुर् ज्योतिः-क्षेपैः पयसि परितापैः प्रतिमुहुः
तद् एवं तन्वङ्ग्याः कथम् अपि नितम्ब-स्थलम् इदं मया लब्धं पुण्यैर् इति रणति काञ्ची-परिकरः ॥

16.34*(417)*

गुण-वृद्धिर् वर्ण-लोप-द्वन्द्व-निपातोपसर्ग-संकीर्णा ।
दुर्घट-पटवाक्यार्था व्याकरण-प्रक्रियेवासौ ॥

16.35*(418)*

नयन-च्छलेन सुतनोर् वदन-जिते शशिनि कुल-विभौ क्रोधात् ।
नासानाल-निबद्धं स्फुटितम् इवेन्दीवरं द्वेधा ॥

16.36*(419)

चक्षुर् मेचकम् अम्बुजं विजयते वक्त्रस्य मित्रं शशी भ्रू-सूत्रस्य सनाभि मन्मथ-धनुर् लावण्य-पुण्यं वपुः
रेखा कापि रद-च्छदे च सुतनोर् गात्रे च तत् कामिनीं एनां वर्णयिता स्मरो यदि स चेद् वैदर्भ्यम् अभ्यस्यति ॥

16.37*(420)

चण्डीश-दर्प-दलनात् प्रभृति स्मरस्य वाम-भ्रुवां वदनम् एव हि राजधानी
निःशङ्कम् अङ्कुरित-पुष्पित-कान्ति-काशे तत्राधुना तुहिन-धाम्नि मृगाश् चरन्ति ॥

16.38*(421)

लावण्य-कान्ति-परिपूरित-दिङ्-मुखे ऽस्मिन् स्मेरे ऽधुना तव मुखे तरलायताक्षि
क्षोभं यद् एति न मनाग् अपि तेन मन्ये सुव्यतम् एव जल-राशिर् अयं पयोधिः ॥

16.39*(422)

अधीराक्ष्याः पीन-स्तन-कलसम् आस्कन्दसि मुहुः क्रमाद् ऊरु-द्वन्द्वं कलयसि च लावण्य-ललितम्
भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहृति-कलाम् अये वीणा-दण्ड प्रकटय फलं कस्य तपसः ॥

16.40*(423)

न तावद् बिम्बोष्ठि स्फुरितनवरागो ऽयम् अधरो न चामी ते दन्ताः सुदति जित-कुन्देन्दु-महसः
इमां मन्ये मुद्राम् अतनुतर-सिन्दूर-सुभगां इदं मुक्ता-रत्नं मदन-नृपतेर् मुद्रितम् इव ॥

16.41*(424)

इमौ रम्भा-स्तम्भौ द्विरद-पति-कुम्भ-द्वयम् इदं तद् एतद् लीलाब्जं शरद्-अमृत-रश्मिः स्फुटम् अयम्
किम् अङ्गे तन्वङ्ग्याः कलयति जगत् कान्तम् अधिकं यद् एतस्यां शश्वत् परवशम् इवोन्मत्तम् इव च ॥

16.42*(425)

जनानन्दश् चन्द्रो भवति न कथं नाम सुकृती प्रयातोवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम्
भ्रुवोर् लीलां बालः शिर्यम् अलिक-पट्टस्य तरुणो मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥

16.43*(426)

लावण्य-सिन्धुर् अपरैव हि केयम् अत्र यत्रोत्पलानि शशिना सह संप्लवन्ते
उन्मज्जति द्विरद-कुम्भ-तटी च यत्र यत्रापरे कदल-काण्ड-मृणाल-दण्डाः ॥

16.44*(427)

इयं गेहे लक्ष्मीर् इयम् अमृत-वर्तिर् नयनयोः असाव् अस्याः स्पर्शो वपुषि बलहश् चन्दन-रसः
अयं कण्ठे बाहुः शिशिर-मसृणो मौक्तिक-रसः किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः ॥

16.45*(428)

नितम्ब-श्रीः कं न स्वगत-मित-यानं जनयति स्तनाभोगो मुग्धे हृदयम् अपरस्यापि हरति
तवाक्ष्णो ऽपभ्रष्टं स्मर-जर-शरेन्दीवर-दलं मुखं तद् यस्येन्दुः प्रथम-लिखन-प्रोञ्छन-पदम् ॥

16.46*(429)

स-जन्मानौ तुल्याव् अभिजन-भुवाजन्म च सह प्रवृद्धौ नाम्ना च स्तन इति समानाव् उदयिनौ
मिथः सीमा-मात्रे यद् इदम् अनयोर् मण्डलवतोर् रपि स्पर्धा युद्धं तद् इह हि नमस्यः कटिनिमा ॥

16.47*(430)

शृङ्गार-द्रुम-मञ्जरी सुख-सुधा-सर्व-स्व-निक्षेप-भूः सर्गाभ्यास-फलं विधेर् मधु-मयी वर्तिर् जगच्-चक्षुषाम्
लीला-निर्झरिणी मनोज-नृपतेर् लावण्य-सिन्धोर् इयं वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्य-सीमा-स्थली ॥

16.48*(431)

किम् इयम् अमृत-वर्तिः किं नु लावण्य-सिन्धुः किम् अथ नलिन-लक्ष्मीः किं नु शृङ्गार-वल्ली
इति नव-हरिणाक्ष्याः कान्तिम् आलोकयन्तो जगद् अखिलम् असारं भारम् आलोचयामः ॥

16.49*(432)

स्मित-ज्योत्स्ना-धौतं स्फुरद्-अधर-पत्रं मृगदृशां मुखाब्जं चेत् पीतं तद् अलम् इह पीयूष-कथया
अहो मोहः को ऽयं शतमख-मुखानां सुमनसां यद् अस्यार्थे ऽत्यर्थं जलधि-मथनायासम् अविशन् ॥

16.50*(433)

एतद् लोचनम् उत्पल-भ्रम-वशात् पद्म-भ्रमाद् आननं भ्रान्त्या बिम्ब-फलस्य चाजनि दधद् वामाधरो वेधसा
तस्याः सत्यम् अनङ्ग-विभ्रम-भुवः प्रत्यङ्गम् आसङ्गिनी भ्रान्तिर् विश्व-सृजो ऽपि यत्र कियती तत्रास्मद्-आदेर् मतिः ॥

16.51*(434)

आनील-चूचुक-शिलीमुखम् उद्गतैक रोमावली-विपुल-नालम् इदं प्रियायाः
उत्तुङ्ग-संगत-पयोधर-पद्म-युग्मं नाभेर् अधः कथयतीव महा-निधानम् ॥

16.52*(435)

यन्-नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव प्राप्तिर् यस्य यद्-अङ्ग-सङ्ग-विधिना किं यन् न निह्नूयते
अन्तः किं च सुधा-सपत्नम् अनिशं जागर्ति यद्-रागिणां विस्रम्भास्पदम् अद्भुतं किम् अपि तत्-कान्तेति तत्त्वान्तरम् ॥

16.53*(436)

तन्वङ्ग्याः स्तन-युग्मेन मुखं न प्रकटीकृतम्
हाराय गुणिने स्थानं न दत्तम् इति लज्जया ॥

16.54*(437)

हन्तु नाम जगत् सर्वम् अविवेकि कुच-द्वयम्
प्राप्र-श्रवणयोर् अक्ष्णोर् न मुक्तं जन-मारणम् ॥

16.55*(438)

तन्वङ्गीनां स्तनौ दृष्ट्वा शिरः कम्पायते युवा
तयोर् अन्तर-संलग्नां दृष्टिम् उत्पाटयन्न् इव ॥

16.56*(439)

शिखरिणि क्व नु नाम कियच् चिरं किम् अभिधानम् असाव् अकरोत् तपः
तरुणि येन तवाधर-पाटलं दशति बिम्ब-फलं शुक-शावकः ॥

16.57*(440)

याता लोचन-गोचरं यदि विधेर् एणेक्षणा सुन्दरी नेयं कुङ्कुम-पङ्क-पिञ्जर-मुखी तेनोज्झिता स्यात् क्षणम्
नाप्य् आमीलित-लोचनस्य रचनाद् रूपं भवेद् ईदृशं तस्मात् सर्वम् अकर्तृकं जगद् इदं श्रेयो मतं सौगतम् ॥

16.58*(441)

व्यर्थं विलोक्य कुसुमेषुम् असुव्यये ऽपि गौरी-पतीक्षण-शिखि-ज्वलितो मनोभूः
रोषाद् वशीकरणम् अस्त्रम् उपाददे यत् सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥

16.59*(442)

आरब्धे दयिता-मुख-प्रतिसमे निर्मातुम् अस्मिन् अपि व्यक्तं जन्म-समान-काल-मिलिताम् अंशु-च्छटां वर्षति
आत्म-द्रोहिणि रोहिणी-परिवृढे पर्यङ्क-पङ्केरुहः संकोचाद् अतिदुःस्थितस्य न विधेस् तच् छिल्पम् उन्मीलितम् ॥

16.60*(443)

अनेन रम्भोरु भवन्-मुखेन तुषार-भानोस् तुलया जितस्य
ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमान-खण्डाः ॥

16.61*(444)

गोत्रे साक्षाद् अजनि भगवान् एष यत् पद्मयोनिः शय्योत्थायं यद् अखिल-महः प्रीणयन्ति द्विरेफान्
एकाग्रां यद् दधति भगवत्य् उष्ण-भानौ च भक्तिं तत् प्रापुस् ते सुतनु वदनौपम्यम् अम्भोरुहाणि ॥

16.62*(445)

कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो-नीतास् तथा कण्टकाः
इत्य् आकृष्ट-शिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं यत्-पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् ॥

16.63*(446)

सा रामणीयक-निधेर् अधिदेवता वा सौन्दर्य-सार-समुदाय-निकेतनं वा
तस्याः सखे नियतम् इन्दु-सुधामृणाल ज्योत्स्नादि कारणम् अभून् मदनश् च वेधाः ॥

16.64*(447)

उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् अनाकाशे को ऽयं गलित-हरिणः शीत-किरणः
सुधा-बद्ध-ग्रासैर् उपवन-चकोरैर् अनुसृतां किरन् ज्योत्स्नाम् अच्छां नव-लवल-पाक-प्रणयिनीम् ॥

16.65*(448)

चन्द्रो जडः कदल-काण्डम् अकाण्ड-शीतम् इन्दीवराणि च विसूत्रित-विभ्रमाणि
येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिकां क्वचिद् अशीत-रुचिः प्रसूते ॥

16.66*(449)

अलीक-व्यामुक्त-प्रचुर-कबरी-बन्धनम् इषाद् उदञ्चद्-दोर्-वल्ली-द्वय-धृत-परीवेश-निहितः
अयं जृम्भारम्भ-स्फटिक-शुचि-दन्तांशु-निचयो मुखेन्दुर् गौराङ्ग्या गलित-मृग-लक्ष्मा विजयते ॥

16.67*(450)

रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः संद्न्धत्तां धनुर् उज्झतु क्षणम् इतो भ्रू-वल्लिम् उल्लासय
किं चान्तर् निहितानुराग-मधुराम् अव्यक्त-वर्ण-क्रमां मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेरी-भ्रमः ॥

16.68*(451)

पाणौ पद्म-धिया मधूक-कुसुम-भ्रान्त्या तथा गण्डयोर् नीलेन्दीवर-शङ्कया नयनयोर् बन्धूक-बुद्ध्याधरे
लीयन्ते कबरीषु बान्धव-जन-व्यामोह-जात-स्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥

16.69*(452)

दृष्टाः शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयो रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ता-फलैः
यत् तु प्रोज्झित-लाञ्छने हिम-रुचाव् उन्निद्रम् इन्दीवरं संसक्तं च मिथो रथाङ्ग-मिथुनं तत् कुत्र दृष्टं पुनः ॥

16.70*(453)

अन्योन्योपमितं युगं निरुपमं ते ऽयुग्मम् अङ्गेषु यत् सो ऽयं सिक्थकम् आस्य-कान्ति-मधुनस् तन्वङ्गि चन्द्रस् तव
त्वद्-वाचां स्वर-मात्रिकां मद-कलः पुंस्कोकिलो घोषयत्य् अभ्यासस्य किम् अस्त्य् अगोचरम् इति प्रत्याशया मोहितः ॥

16.71*(454)

लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दं वसतो जनस्य हृदये चिन्ता-ज्वरो निर्मितः
एषापि स्व-गुणानुरूप-रमणाभावाद् वराकी हता को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥

16.72*(455)

किं कौमुदीः शशिकलाः सकला विचूर्ण्य संयोज्य चामृत-रसेन पुनः प्रयत्नात्
कामस्य घोर-हर-हूङ्कृति-दग्ध-मूर्तेः संजीवनौषधिर् इयं विहिता विधात्रा ॥

16.73*(456)

अस्याः सर्ग-विधौ प्रजापतिर् अभूच् चन्द्रो नु कान्ति-प्रदः शृङ्गारैक-रसः स्वयं तु मदनो मासः स पुष्पाकरः
वेदाभ्यास-जडः कथं नु विषय-व्यावृत्त-कौतूहलो निर्मातुं प्रभवेन् मनोहरम् इदं रूपं पुराणो मुनिः ॥

16.74*(457)

तद्-वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् तच् चक्षुर् यदि हारितं कुवलयैस् तच् चेत् स्मितं का सुधा
धिक् कन्दर्प-धनुर्-भ्रुवौ च यदि ते किं वा बहु ब्रूमहे यत् सत्यं पुनरुक्त-वस्तु-विमुखः सर्ग-क्रमो वेधसः ॥

16.75*(458)

तस्या मुखस्यायत-लोचनायाः कर्तुं न शक्तः सदृशं प्रियायाः
इतीव शीत-द्युतिर् आत्म-बिम्बं निर्माय निर्माय पुनर् भिनत्ति ॥

16.76*(459)

तुलितस् त्वन्-मुखेनायं यद् उन्नमति चन्द्रमाः
अवनम्र-मुखि व्यक्तम् एतेनैवास्य लाघवम् ॥

16.77*(460)

तस्पस्यतीव चन्द्रो ऽयं त्वन्-मुखेन्दु-जिगीषया
कृशः शम्भु-जटाजूट तटिनी-तटम् आश्रितः ॥

16.78*(461)

तव तन्वि स्तनव् एतौ कुर्वाते विग्रहं गुरुम्
अन्योन्य-मण्डलाक्रान्तौ नष्ट-सन्धी नृपाव् इव ॥

16.79*(462)

प्रायः स्तन-तटी-भूमिः प्रकाम-फल-दायिनी
यस्याम् अग्रे करं दत्त्वा योज्यते नख-लाङ्गलम् ॥

16.80*(463)

अमीषां मण्डलाभोगः स्तनानाम् एव शोभते
येषाम् उपेत्य सोत्कम्पा राजानो ऽपि कर-प्रदाः ॥

16.81*(464)

लक्ष्मीं वक्षसि कौस्तुभ-स्तवकिनि प्रेम्णा करोत्य् अच्युतो देहार्धे वहति त्रिपिडप-गुरुर् गौरीं स्वयं शङ्करः
शङ्के पङ्कज-संभवस् तु भगवान् अद्यापि बाल्यावधिः सर्वाङ्ग-प्रणयां प्रियां कलयितुं दीर्घं तपस् तप्यते ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc