भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 15

15.1*(334)

भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः स्तनाभोगो ऽव्यक्तं तरुणिम-समारम्भ-समये
इदानीम् बालायाः किम् अमृत-मयः किम् मधु-मयः किम् आनन्दः साक्षात् ध्वनति मधुरः पञ्चम-लयः ॥

15.2*(335)

उन्नालालक-भञ्जनानि कबरी-पाशेषु शिक्षा-रसो दन्तानां परिकर्म नीवि-नहनं भ्रू-लास्य-योग्याग्रहः
तिर्यग्-लोचन-चेष्टितानि वचसि च्छेकोक्ति-संक्रान्तयः स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलि-क्रमः ॥

15.3*(336)

विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा तथापि प्रागल्भ्यं किम् अपि चतुरं लोचन-युगे
यद् आदत्ते दृश्याद् अखिलम् अपि भाव-व्यतिकरं मनो-वृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् ॥

15.4*(337)

एतद् दधाति नव-यौवन-नर्तकस्य कश्मीरज-च्छुरित-तालक-युग्मल-क्ष्मीम्
मध्ये समुच्छ्वसित-वृत्ति मनाग् उपान्ते लब्धात्म-सीम कुच-कुड्मल-युग्मम् अस्याः ॥

15.5*(338)*

यौवन-नगरारम्भे रामा-हृदय-स्थलीषु कुसुमेषोः ।
मकर-पताकेवेयं राजति रोमावली रम्या ॥

15.6*(339)

चलित-शिशु-दशानां यौवनारम्भ-रेखा परिचय-परिचुम्बत्-प्रेम-कौतूहलानाम्
उचित-सहज-लज्जा-दुर्बला बालिकानां गुरु-जन-भय-भाजां के ऽपि ते भ्रू-विलासाः ॥

15.7*(340)

नैतत् समुन्नमित-चूचुक-मुद्रम् अन्तः संक्रान्त-सीम-कुच-कोरक-चक्रम् अस्याः
संकेतिताङ्ग-नव-यौवन-नाटकस्य कश्मीरज-च्छुरित-नूतन-कांस्य-तालम् ॥

15.8*(341)

नितम्बः संवादं मसृण-मणि-वेद्या मृगयते मनाग् गण्डः पाण्डुर् मधु-मुकुल-लक्ष्मीं तुलयति
विशन्त्यास् तारुण्यं घुसृण-घन-लावण्य-पयसि प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते ॥

15.9*(342)

उद्भिन्न-स्तन-कुड्मल-द्वयम् उरः किंचित् कपोल-स्थलीं लिम्पत्य् एव मधूक-कान्तिर् अधरः संमुग्ध-लक्ष्मी-मयः
प्रत्यासीदति यौवने मृग-दृशः किं चान्यद् आविर्भवल् लावण्यामृत-पङ्क-लेप-लडह-च्छायं वपुर् वर्तते ॥

15.10*(343)

गेहाद् बहिर् विरम चापलम् अस्तु दूरम् अद्यापि शैशव-दशा-लडितानि तानि
आप्यायमान-जघन-स्थल-पीड्यमानम् अर्धोरुकं त्रुटति पुत्रि तव क्षणेन ॥

15.11*(344)

प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः
इत्य् अन्यो मधुरः स को ऽपि शिशुता-तारुण्ययोर् अन्तरे वर्तिष्णोर् मृग-चक्षुषो विजयते द्वैविध्य-मुग्धो रसः ॥

15.12*(345)

नितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते समन्तात् साभोगं न च कुच-विभागाञ्चितम् उरः
दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते ॥

15.13*(346)

शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिः नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम्
प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः ॥

15.14*(347)

दृष्टिः शैशव-मण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते
नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्ब-स्थली तन्व्याः स्वीकृत-मन्मथं विजयते नेत्रैकपेयं वपुः ॥

15.15*(348)

आकण्ठार्पित-कञ्चुकाञ्चलम् उरो हस्ताङ्गुली-मुद्रणा मात्रा-सूत्रित-हास्यम् आस्यम् अलसाः पञ्चालिका-केलयः
तिर्यग्-लोचन-चेष्टितानि वचसां छेकोक्ति-संक्रान्तयस् तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलि-क्रमः ॥

15.16*(349)

दोर्-मूलावधि-सूत्रित-स्तनम् उरः स्निह्यत्-कटाक्षे दृशाव् ईषत्-ताण्डव-पण्डिते स्मित-सुधा-च्छेकोक्तिषु भ्रू-लते
चेतः कन्दलित-स्मर-व्यतिकरं लावण्यम् अङ्गैर् वृतं तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः ॥

15.17*(350)

वारं वारम् अनेकधा सखि मया चूत-द्रुमाणां वने पीत-कर्ण-दरी-प्रणाल-वलितः पुंस्कोकिलानां ध्वनिः
तस्मिन्न् अद्य पुनः श्रुति-प्रणयिनि प्रत्यङ्गम् उत्कम्पितं तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम ॥

15.18*(351)

दरोत्तानं चक्षुः कलित-विरलापाङ्ग-वलनं भविष्यद्-विस्तारि-स्तन-युगल-गर्भालसम् उरः
नितम्बे संक्रान्ताः कतिपय-कला गौरव-जुषो वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृग-दृशः ॥

15.19*(352)

गणित-गरिमा श्रोणिर् मध्यं निबद्ध-वलि-त्रयं हृदयम् उदयल्-लज्जं सज्जच्-चिरन्तन-चापलम्
मुकुलित-कुचं वक्षश् चक्षुर् मनाग्-वृत-वक्रिम क्रम-परिगलद्-बाल्यं तन्व्या वपुस् तनुते श्रियम् ॥

15.20*(353)

बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणै रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन्
स्निह्यत्-तारम् अथान्य-दृष्टि-विरहे यः संमुखं वीक्षितो नम्रः स्मेर-मुखी-भवन्न् इति वयः-सन्धि-श्रियालिङ्गितः ॥

15.21*(354)

माध्यस्थ्यं च समस्त-वस्तुषु परिप्रश्ने शिरो-घूर्णनं प्रेयस्यां परम् अर्पितान्तर-बहिर्-वृत्ति-प्रपञ्च-क्रमः
किं चापि स्फुट-दृष्टि-विभ्रम-कला-निर्माण-शिक्षा-रसः प्रत्यङ्गं स्मर-केलि-मुद्रितम् अहो बाला वयो-विभ्रमे ॥

15.22*(355)

पद्भ्यां मुक्तास् तरल-गतयः संश्रिता लोचनाभ्यां श्रोणी-बन्धस् त्यजति तनुतां सेवते मध्य-देशः
धत्ते वक्षः कुच-सचिवताम् अद्वितीयत्वम् आस्यं तद्-गात्राणां गुण-विनिमयः कल्पितो यौवनेन ॥

15.23*(356)

बाल्यं यद् अस्यास् त्रिवली-तटिन्यास् तटे विनष्टं सह चापलेन
तद्-अर्थम् उत्थापित-चारु-चैत्य कल्पौ स्तनौ पाण्डुतरौ तरुण्याः ॥

15.24*(357)

तदात्व-प्रोन्मीलन्-म्रदिम-रमणीयात् कठिनतां निचित्य प्रत्यङ्गाद् इव तरुण-भावेन घटितौ
स्तनौ संबिभ्राणाः क्षण-विनय-वैजात्य-मसृण स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः ॥

15.25*(358)

भ्रू-लीला चतुरा त्रिभाग-वलिता दृष्टिर् गतिर् मन्थरा विस्रब्धं हसितं कपोल-फलके वैदग्ध्य-वक्रं वचः
नोद्दिष्टं गुरुणा न बन्धु-कथितं दृष्टं न शास्त्रे क्वचिद् बालायाः स्वयम् एव मन्मथ-कला-पाण्डित्यम् उन्मीलति ॥

15.26*(359)

लावण्यामृत-सान्द्र-सिन्धु-लहरी-संसिक्तम् अस्या वपुर् जातस् तत्र नवीन-यौवन-कला-लीलालता-मण्डपः
तत्रायं स्पृहणीय-शीतलतर-च्छायासु सुप्तोत्थितः संमुग्धो मधु-बान्धवः स भगवान् अद्यापि निद्रालसः ॥

15.27*(360)

भ्रुविर् लीलैवान्या दर-हसितम् अभ्यस्यति मुखं दृशोर् वक्रः पन्थास् तरुणिम-समारम्भ-सचिवः
इदानीम् एतस्याः कुवलय-दृशः प्रत्यहम् अयं नितम्बस्याभोगो नयति मणि-काञ्चीम् अधिकताम् ॥

15.28*(361)

मध्यं बद्ध-वलि-त्रयं विजयते निःसन्धि-बन्धोन्नमद् विस्तारि-स्तन-भार-मन्थरम् उरो मुग्धा कपोल-श्रियः
किं चामुग्ध-विलोल-नीरज-दृशस् तारुण्य-पुण्यातिथेर् अस्याः कुङ्कुम-पङ्क-लेप-नडह-च्छायं वपुर् वर्तते ॥

15.29*(362)

समस्तं विज्ञाय स्मर-नरपतेश् चारु-चरितं चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव
प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रह-भरः परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् ॥

15.30*(363)

उत्खेलत्-त्रिवली-तरङ्ग-तरला रोमावली-शैवल स्रग्-वलिर् युवती ध्रुवं जन-मनो-निर्वाण-वाराणसी
एतस्या यद् उरस्-तटी-परिसरे यद् बाल्य-चापल्ययोः स्थाने यौवन-शिल्पि-कल्पित-चिता-चैत्य-द्वयं दृश्यते ॥

15.31*(364)

स्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं तथा मध्यो भागस् त्रिवलि-वलयेभ्यः स्पृहयति
नितम्बे च स्वैरं विलसति विलास-व्यसनिता मृगाक्ष्याः प्रत्यङ्गं कृत-पदम् इवानङ्ग-लडितम् ॥

15.32*(365)

यत् प्रत्यङ्गं स्फुटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां क्षोभं धत्ते यद् अपि बहलः स्निग्ध-लावण्य-पङ्कः
उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् तन् मन्ये ऽस्या स्मर-गज-युवा गाहते हृत्-तडागम् ॥

15.33*(366)

कृत-निभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम्
नव-निधुवन-क्रीडारम्भ-प्रकम्प-विवर्तिनीं अनुभव-मृदू-भूत-त्रासां मनः स्मरति प्रियाम् ॥

15.34*(367)

स्मितं किंचिन्-मुग्धं तरल-मधुरो दृष्टि-विभवः परिस्पन्दो वाचाम् अभिनव-विलासोक्ति-सरसः
गतीनाम् आरम्भः किसलयित-लीला-परिमलः स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः ॥

15.35*(368)*

अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा ।
बालानां प्रणयि-जने भावः को ऽप्य् एष नैक-रसः ॥

15.36*(369)

प्रगल्भानाम् अन्ते निवसति शृणोति स्मर-कथां स्वयं तत्-तच्-चेष्टा-शतम् अभिनयेनार्पयति च
स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं यथैवेयं बाला हरति च तथैवेयम् अधिकम् ॥

15.37*(370)

अन्योन्यान्तर-निर्गताङ्गुलि-दल-श्रेणी-भवन्-निश्चल ग्रन्थि-प्रग्रथितं कर-द्वयम् उपर्य् उत्तानम् आविभ्रता
सेयं विभ्रम-तोरण-प्रणयिना जृम्भाभरोत्तम्भिते नोच्चैर् बाहु-युगेन शंसति मनोजन्म-प्रवेशोत्सवम् ॥

15.38*(371)

स एष यौवनाचार्यः सिद्धये स्मर-भूभुजः
प्रियायां बलिम् उद्दिश्य तनोति स्तन-मण्डलम् ॥

15.39*(372)

बिभ्रत्या वपुर् उन्नमत्-कुच-युगं प्रादुर्भवद्-विभ्रमं बालाया लसद्-अङ्ग-सन्धि-विरमद्-बाल्यं वलद्-भ्रू-लतम्
अन्तर् विस्फुरति स्मरो बहिर् अपि व्रीडा समुन्मीलते स्वैरं लोचन-वक्रिमा विलसति श्रीः काचिद् उज्जृम्भते ॥

15.40*(373)

सुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम्
रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनां अपि च किम् अपि व्रीडां क्रीडासखीम् इव मन्यते ॥

15.41*(374)

यद् अन्योन्य-प्रेम-प्रवण-युवती-मन्मथ-कथा समारम्भे स्तम्भीभवति पुलकैर् अञ्चित-तनुः
तथा मन्ये धन्यं परम-सुरत-ब्रह्म-निरतं कुरङ्गाक्षी दीक्षा-गुरुम् अकृत कञ्चित् सुकृतिनम् ॥

15.42*(375)

तरन्तीवाङ्गानि स्फुरद्-अमल-लावण्य-जलधौ प्रथिम्नः प्रागल्भ्यं स्तन-जघनम् उन्मुद्रयति च
दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः ॥

15.43*(376)

गतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम्
विलोक-भ्रू-वल्ली-चलन-लय-लोलं च नयनं क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् ॥

15.44*(377)*

हरतितरां जन-हृदयं कलिकोपगता लता च दयिता च ।
यदि पुनर् अतनु-शिलीमुख-समाकुला किं न पर्याप्तम् ॥

15.45*(378)

धृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत् पुलकम् इव यत् प्राप्तोच्छ्वास-व्युदस्त-मिथो ऽन्तरम्
अतिगत-सखी-हस्तोन्मान-क्रमं दिवस-क्रमैर् इदम् अनुभवद्-वाञ्छा-पूर्ति-क्षमर्द्धि कुच-द्वयम् ॥

15.46*(379)*

स्तन-तटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।
इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति ॥

15.47*(380)

मात्रा-नर्तन-पण्डित-भ्रु वदनं किंचित्-प्रगल्भे दृशौ स्तोकोद्भेद-निवेशित-स्तनम् उरो मध्यं दरिद्राति च
अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः सत्यङ्कार इव स्मरैक-सुहृदा तद् यौवनेनार्पितम् ॥

15.48*(381)*

अयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः ।
कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥

15.49*(382)

स्खलति वयसि बाले निर्जिते राजनीव स्फुरति रति-निधाने यौवने जेतरीव
मद-मदन-विवृद्धि-स्पर्धयेवाबलानां किम् अपि वपुषि लीला-कुड्मलानि स्फुटन्ति ॥

15.50*(383)

दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रू-लास्य-लीला-सखम्
सत्या न प्रकृतौ गुरः शिशुतया प्रस्थान-दत्तार्घया काप्य् अन्या हरिणी-दृशः परिणतिः कन्दर्प-मुद्राङ्किता ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc