भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 14

14.1*(323)

अयं स भुवन-त्रय-प्रथित-संयमी शङ्करो बिभर्ति वपुषाधुना विरह-कातरः कामिनीम्
अनेन किल निर्जिता वयम् इति प्रयायाः करं करेण परिलालयञ् जयति जात-हासः स्मरः ॥

14.2*(324)

भ्रू-शार्ङ्गाकृष्ट-मुक्ताः कुवलय-मधुप-स्तोम-लक्ष्मी-मुषो ये क्षेपीयाः कृष्णसारा नर-हृदय-भिदस् तारव-क्रूर-शल्याः
ते दीर्घापाङ्ग-पुङ्खाः स्मित-विष-विषमाः पक्ष्मलाः स्त्री-कटाक्षाः पायासुर् वो ऽतिवीर्यास् त्रिभुवन-जयिनः पञ्चबाणस्य बाणाः ॥

14.3*(325)

मनसि कुसुम-बाणैर् एक-कालं त्रिलोकीं कुसुम-धनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः
इति वितत-विचित्राश्चर्य-संकल्प-शिल्पो जयति मनसिजन्मा जन्मिभिर् मानिताज्ञः ॥

14.4*(326)

शत्रुः कारणं मन्मनो ऽपि भगवान् वामाङ्ग-नित्याङ्गनः स्वर्-लोकस्य सुधैक-पान-चषको मित्रं च तारा-पतिः
चुम्बन्तो जगतां मनः सुमनसो मर्म्-अस्पृशः सायकाः दाराः प्रीति-रती इति क्व महिमा कामस्य नालौकिकः ॥

14.5*(327)

कुल-गुरुर् अबलानां केलि-दीक्षा-प्रदाने परम-सुहृद्-अनन्ङ्गो रोहिणी-वल्लभस्य
अपि कुसुम-पृषत्कैर् देव-देवस्य जेता जयति सुरतलीला-नाटिका-सूत्र-धारः ॥

14.6*(328)

वन्दे देवम् अनङ्गम् एव रमणी-नेत्रोत्पल-च्छद्मना पाशेनायत-शालिना सुनिविडं संयम्य लोक-त्रयम्
येनासाव् अपि भस्म-लाञ्छित-तनुर् देवः कपाली बलात् प्रेम-क्रुद्धनगात्मजाङ्घ्रि-विनति-क्रीडा-व्रते दीक्षितः ॥

14.7*(329)*

स जयति संकल्प-भवो रति-मुख-शत-पत्र-चुम्बन-भ्रमरः ।
यस्यानुरक्त-ललना-नयनान्त-विलोकितं वसतिः ॥

14.8*(330)

अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः
शरीरम् अक्षतं कृत्वा भिनत्त्य् अन्तर्गतं मनः ॥

14.9*(331)

धनुर् माला मौर्वी क्वणद्-अलिकुलं लक्ष्यम् अबला मनो-भेद्यं शब्द-प्रभृतय इमे पञ्च-विशिखाः
इयां जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः स वः कामः कामान् दिशतु दयितापाङ्ग-वसतिः ॥

14.10*(332)

जयति स मद-लेखोच्छृङ्खल-प्रेम-रामा ललित-सुरत-लीला-दैवतं पुष्प-चापः
त्रिभुवन-जय-सिद्ध्यै यस्य शृङ्गार-मूर्तेर् उपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि ॥

14.11*(333)

याच्यो न कश्चन गुरुः प्रतिमा च कान्ता पूजा विलोकन-विगूहन-चुम्बनानि
आत्मा निवेद्यम् इतर-व्रत-सार-जेत्रीं वन्दामहे मकर-केतन देव दीक्षाम् ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc