सुभाषितरत्नकोश · अध्याय 13
कुन्दस्यापि न पूजन-व्यतिकरे नाप्य् आत्मनो मण्डने व्यापारे ऽपि तथा प्रहेणक-विधेर् नार्घन्ति बद्धादराः
नार्यः कुन्द-चतुर्थिका-महसम् आरम्भाभिषेके यथा हूतानङ्गम् उलूलु-काकल-रवैः प्रीणन्ति यूनां मनः ॥
दुर्लक्ष्या स्याद् दमनक-वने धूम-धूम्रे पतन्ती कारीषाग्नेः पटमय-गृहा वाम-लीलां तनोति
प्रादुर्भावं तिरयति रवेर् अध्वगानाम् इदानीं सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी ॥
पूषा प्रातर् गगन-पथिकः प्रस्थितः पूर्व-शैलात् सूची-भेद्य-प्रबल-महिका-जाल-कन्थावृताङ्गः
रात्रिं सर्वां हुतवह-परिष्वङ्ग-भाजो ऽपि मन्ये जाड्याबद्धान् त्वरयितुम् अयं द्राङ् न शक्नोति पादान् ॥
पान्थस्यारात् क्षणम् इव गतेर् मन्दिमानं दिशन्ति प्रत्यूषेषु प्रतनु-सलिलोद्गीर्ण-बाष्प-प्रवाहाः
वारां पूर्णा इव सचकिता वार-पारीण-दृष्टेर् दूरोत्ताना अपि शिखरिणां निर्झर-द्रोणि-मार्गाः ॥
दूर-प्रोषितकैर् अवाकर-परीहासाः स्व-कान्ताश्मसु प्रालेय-स्नपितेषु मुक्त-सलिलोत्पाद-स्पृहा-केलयः
क्षीयन्ते सुरतान्तरे ऽपि न दृशां पात्रीकृतां कामिभिः सौभाग्यापगमाद् इवेन्दु-महसां लावण्य-शून्याः श्रियः ॥
हंसैर् जर्जर-रूक्ष-पक्ष-मलिनैर् नक्तं दिवान्तर्-बहिस् तिष्ठद्भिः परिवार्य बन्धुभिर् इव स्निग्धैः कृतावेक्षणम्
प्रत्यासीदति वल्लभे जलरुहां क्षामायमाण-द्युतौ बाष्पान् उज्झति वारि वारि-रुहिणी-नाशाद् इवोपार्जितान् ॥
धन्यानां नव-पूग-पूरित-मुख-श्यामाङ्गनालिङ्गन् प्राप्तानेक-सुख-प्रमोद-वपुषां रम्यस् तुषारागमः
अस्माकं तु विदीर्ण-दण्डित-पटी-प्रच्छादितोद्घाटित क्रोड-स्वीकृत-जानु-वेपथुमतां चेतः परं सीदति ॥
कम्पन्ते कपयो भृशं जल-कृशं गोजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो ऽपि नैवोज्झति
शीतार्ति-व्यसनातुरः पुनर् अयं दीनो जनः कूर्ववत् स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति ॥
इदानीम् अर्घन्ति प्रथम-कलम-च्छेद-मुदिता नवाग्रान्न-स्थाले परिमल-मुचो हालिक-गृहाः
उदञ्चद्-दोर्-वल्ली-वलित-वलयाभिर् युवतिभिर् गृहीत-प्रोत्क्षिप्त-भ्रमित-मसृणोदीर्ण-मुसलाः ॥
पाक-क्षाम-तिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः श्यामत्वं फल-पीड्यमान-कुसुमान् आपद्यते सर्षपान्
वायुर् व्यस्त-शणस् तुषार-कणवान् अभ्येति कम्प-प्रदः पान्थैः शुष्क-विवाद-बद्ध-कलहैः पुण्याग्निर् आसेव्यते ॥
सिद्धार्थाः फल-सूचि-बन्ध-गुरुभिर् लोलन्त्य् अमी पल्लवैर् उच्छिन्दन्त्य् अध एव बन्धुरतया कोली-फलान्य् अर्भकाः
पाक-प्रश्लथ-पत्र-कोष-दलनव्यक्ताङ्कुर-ग्रन्थयो निष्ठीवन्त्य् अपि हस्त-यन्त्र-कलिताः पुण्ड्रेक्ष-यष्ट्यो रसम् ॥
व्यथित-वनिता-वक्त्रौपम्यं बिभर्ति निशापतिर् गलित-विभवस्याझेवाद्य द्युतिर् मसृणा रवेः
अभिनव-वधू-रोष-स्वादुः करीष-तनूनपाद् असरल-जनाशेल्ष-क्रूरस् तुषार-समीरणः ॥
वारं वारं तुषारानिल-तुलित-पलालोष्मणां पामराणां दण्ड-व्याघट्टनाभिः क्रम-पिहित-रुचौ बोध्यमाने कृशानौ
उद्धूमैर् बीज-कोषोच्चटन-पटु-रवैः सर्षप-क्षोद-कूटैः कोणे कोणे खलानां परिसर-स-कटुः कीर्यते को ऽपि गन्धः ॥
नष्ट-प्रायाः प्रलयमहिका-जुष्ट-जीर्णैः प्रतानैर् बीजान्य् एवोन्मद-पर-भृतालोचनापाटलानि
उत्पाकत्वाद् विघटित-शमी-कोष-संदर्शितानि व्याकुर्वन्ति स्फुट-सहचरी-वीरुधः कृष्णलानाम् ॥
शुक-स्निग्धैः पत्रैर् युवति-कर-दीर्घैः किशलयैः फलिन्यो राजन्ते हिम-समय-संवर्धित-रुचः
मनोज्ञा मञ्जर्यो हरित-कपिशैः पांसु-मुकुलैः स्फुटन्ति प्रत्यङ्गं पटु-परिमलाहूत-मधुपाः ॥
माषीणं मुषितं यवेषु यवस-श्यामा च्छविः शीर्यते ग्रामान्ताश् च मसूर-धूसर-भुवः स्मेरं यमानी-वनम्
पुष्पाढ्याः शत-पुष्पिकाः फल-भृतः सिद्ध्यन्ति सिद्धार्थकाः स्निग्धाः वास्तुक-वास्तवः स्तवकित-स्तम्बा च कुस्तुम्बिनी ॥
पुरः पाण्डु-प्रायं तद्-अनु कपिलिम्ना कृत-पदं ततः पाकोत्सेकाद् अरुण-गुण-संसर्गित-वपुः
शनैः शोषारम्भे स्थपुट-निज-विष्कम्भ-विषमं वने वीतामोदं बदरम् अरसत्वं कलयति ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0