सुभाषितरत्नकोश · अध्याय 12
यात्रा-लग्नं तुहिन-मरुतां बान्धवः कुन्द-लक्ष्याः कालं सो ऽयं कमल-सरसां संपदः काल-दूतः
निद्रा-व्याजाज् जडिम-विधुरा यत्र गाढे ऽपि मन्तौ वामाः कण्ठ-ग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते ॥
अग्रे श्यामल-बिन्दु-बद्ध-तिलकैर् मध्ये ऽपि पाकान्वय प्रौढी-भूत-पटोल-पाटलतरैर् मूले मनाग् बभ्रुभिः
वृन्ते कर्कश-कीर-पिच्छ-हरिभिः स्थूलैः फलैर् बन्धुराः संप्रत्य् उत्सुकयन्ति कस्य न मनः पूग-द्रुमाणां छटाः ॥
दलानां मूलेषु स्तिमित-पतितं केसर-रजः समीरो नेदानीं हरति हरिताल-द्युति-हरम्
कुमुद्वत्याः कोषे मधु शिशिर-मिश्रं मधुलिहो लिहन्ति प्रत्यूषे विरस-विरसं मन्द-रुचयः ॥
आवाति स्फुटित-प्रियङ्गु-सुरभिर् नीहार-वारि-च्छलात् स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्न-वह्नि-च्छटाः
प्रातः कुन्द-समृद्धि-दर्शन-रस-प्रीति-प्रकर्षोल्लसन् मालाकार-वधू-कपोल-पुलक-स्थैर्य-क्षमो मारुतः ॥
गर्वायन्ते पलालं प्रति पथिक-शतैः पामराः स्तूयमाना गोपान् गो-गर्भिनीनां सुखयति बहलो रात्रि-रोमन्थ-बाष्पः
प्रातः पृष्ठावगाढ-प्रथम-रवि-रुचिर् ग्राम-सीमोपशल्ये शेते सिद्धार्थ-पुष्प-च्छदन-चित-हिम-क्लिन्न-पक्ष्मा महोक्षः ॥
कटु-मधुराण्य् आमोदैः पर्णैर् उत्कीर्ण-पत्र-भङ्गानि ।
दमनक-वनानि संप्रति काण्डैर् एकान्त-पाण्डूनि ॥
लघुनि तृण-कुटीरे क्षेत्र-कोणे यवानां नव-कलम-पलाल-स्रस्तरे सोपधाने
परिहरति सुषुप्तं हालिक-द्वन्द्वम् आरात् स्तन-कलश-महोष्माबद्ध-रेखस् तुषारः ॥
क्षेत्रोपान्त-पलायमान-शशक-द्वन्द्वं परीक्ष्यापरान् आहूयातिरसेन कर्षक-जनान् आबद्ध-कोलाहलाः
हस्तारोपित-दात्र-रज्जु-लगुडैर् वृद्धैर् अवृद्धैः सह त्यक्त्वा शालि-चिकर्तिषाम् इत इतो धावन्त्य् अमी पामराः ॥
कृत्वा पृष्ठतरे पटच्-चरम् अथ ज्योतिः-प्रतङ्काङ्कयोः ऊर्वोर् अन्तरयोर् निषेदुषि करौ कृत्वा कुकूलानले
पार्श्वौ कम्प-जडौ पिधाय कफणि-द्वन्द्वेन रोमाञ्चिता प्रातर् नो न च सायम् अद्य जरती गेहोदरं मुञ्चति ॥
धूम-प्रायः प्रति-मुहुर् अतिक्षोभनोद्वान्त-तेजाः कारीषाग्निः सततम् ऋतुना सेव्यतां नीयमानः
बाहु-क्षेपात् स्तन-परिसराद् अस्त-लीलांशुकाभिः घोष-स्त्रीभिर् दिवस-विरतौ भाति निर्विश्यमानः ॥
आभोगिनः किम् अपि संप्रति वासरान्ते संपन्न-शालि-खल-पल्लवितोपशल्याः
ग्रामास् तुषार-भर-बन्धुर-गोमयाग्नि धूमावली-वलय-मेखलिनो हरन्ति ॥
मूले हरिन्ति किंचित् पार्श्वे पीतानि लोहितान्य् अग्रे ।
मधुर-सुरभीणि संप्रत्य् अगाढ-पाकानि बदराणि ॥
भद्रं ते सदृशं यद्-अध्वग-शतैः कीर्ति-स्तवोद्घुष्यते स्थाने रूपम् अनुत्तमं सुकृतिना दानेन कर्णो जितः
इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः पान्थेनैक-पलाल-मुष्टि-रुचिना गर्वायते हालिकः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0