भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 11

11.1*(266)

ऐन्द्रं धनुः पाण्डु-पयो-धरेण शरद् दधानार्द्र-नख-क्षताभम्
प्रसादयन्ती स-कलङ्कम् इन्दुं तापं रवेर् अभ्यधिकं चकार ॥

11.2*(267)

यद्यप्य् अहं शशिमुखि विमलाम्बर-श्रीर् बन्दूक-पुष्प-रुचिराधर-पल्लवापि
धिङ् मां तथापि गलितोरु-पयोधरत्वाद् इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥

11.3*(268)

ते हंसातिथि-वत्सला जलरुहां कालेन पीतायुषां संजीवौषधयो जरा जलमुचाम् एते शरद्-वासराः
येष्व् अभ्यागत-खञ्जरीट-शबलास् तोयापसार-क्रम स्तोक-स्तोक-तरङ्गितान्त-पुलिनाः कर्षन्ति नद्यो मनः ॥

11.4*(269)

धूम्रैः पक्ष-पुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः
मङ्गल्यं च कलङ्क-पल्लव-सखं स्मेरानना शर्वरी ज्योत्स्ना-तर्पण-गौरम् इन्दु-कलशं व्योमाङ्गने न्यस्यति ॥

11.5*(270)

दधति धवलाम्भोद-च्छायां सित-च्छद-पङ्क्तयो दिवि पयसि च श्वेताम्भोज-भ्रमं प्रतिमा-शतैः
विदधति न चेद् उत्कण्ठार्द्रं शरन् मणि-नूपुर ध्वनित-मधुरोत्ताल-स्निग्धैर् मनः क्वणितोर्मिभिः ॥

11.6*(271)

घनैः शेफालीनां हृदय-निविडाश्लिष्ट-वसुधैः प्रसूनैर् उन्नालैः पुलकिततरोद्यान-तरवः
निशान्ताः प्रीणन्ति प्रमद-कुररोद्गीत-रभसो नभस्वद्-व्याधूत-स्फुट-कुमुद-गन्ध-प्लुत-दिशः ॥

11.7*(272)

रजः-पात-ज्ञानां कुमुद-सुमनो-मण्डल-भुवि स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुङ्कृतिम् इयम्
स्थिरे यूनां मान-ग्रह-परिभवे मूर्च्छति घनो द्विरेफाचार्याणां मधु-मद-पटीयान् कलकलः ॥

11.8*(273)

अधः पश्यन् पार्श्व-द्वय-वलित-साचीकृत-शिराः शनैः पक्ष-स्थैर्याद् दिवि मसृण-चक्राकृति-गतिः
चिराच् चिल्लस् तिर्यक्-त्वरिततरम् आहार-निपुणो निपत्यैवाकस्माच् चल-चरण-मूर्धं प्रपतति ॥

11.9*(274)

दूरोत्पुच्छः सलय-चरणो लम्ब-लोलत्-पतत्तूः कण्टेनोच्चैर् मद-कल-रुत-स्तोक-वाचाल-चञ्चुः
हर्षाश्रूर्मि-स्तिमित-नयन-न्यस्त-सोत्कण्ठ-दृष्टेः कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ॥

11.10*(275)

तोयान्तर्-लीन-मीन-प्रचय-विचय-नव्यापृत-त्रोटि-कोटि प्राग्-भाग-प्रह्व-कङ्कावलि-धवल-रुचः पर्यटत्-खञ्जरीटाः
कूजत्-कादम्बराजी-पिहित-परिसराः शारदीनां नदीनां तीरान्ता मञ्जु-गुञ्जन्-मद-कलकुरब-श्रेणयः प्रीणयन्ति ॥

11.11*(276)

तीक्ष्णं रविस् तपति नीच इवाचिराढ्यः शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः
तोयं प्रसीदति मुनेर् इव धर्म-चिन्ता कामी दरिद्र इव शोषम् उपैति पङ्कः ॥

11.12*(277)

संतापिनी सम-दहंस-कलाभिलापा प्रालेय-धाम-धवलाम्बरम् आदधाना
आपाण्डु-पीवर-पयोधरम् उद्वहन्ती काचिद् वधूर् विरहिणीव शरद् विभाति ॥

11.13*(278)

शनैः शान्ताकूताः सित-कल-धर-च्छेद-पुलिनाः पुरस्ताद् आकीर्णाः कल-विरुतिभिः सारस-कुलैः
चिताश् चित्राकारैर् निशि विकचन-क्षत्र-कुमुदैर् नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥

11.14*(279)

आपीन-प्रविसारितोरु-विकटैः पश्चार्ध-भागैर् गुरुर् वेल्लत्-पीवर-कम्बलालस-रसद्-गम्भीर-घण्टाकुलः
ग्रामान्तेषु नवीन-सस्य-हरितेषूद्दाम-चन्द्रातप स्मेरासु क्षणदासु धेन-धवली-वर्गः परिक्रामति ॥

11.15*(280)

पृष्ठेषु शङ्ख-शकल-च्छविषु च्छदानां राजीभिर् अङ्कितम् अलक्तक-लोहिताभिः
गो-रोचना-हरित-बभ्रु बहिः पलाशम् आमोदते कुमुदम् अम्भसि पल्वलस्य ॥

11.16*(281)

सान्द्र-स्थूल-नलोपरोध-विषमाः शङ्क्यावताराः पुरः तोयोत्तीर्ण-निवृत्त-नक्र-जठर-क्षुण्ण-स्थली-बालुकाः
व्यक्त-व्याघ्र-पदाङ्क-पङ्क्ति-निचितोन्मुद्रार्द्र-पङ्कोदरास् संत्रासं जनयन्ति कुञ्ज-सरितः काचाभह्नीलोदकाः ॥

11.17*(282)

इक्षु-त्वक्-क्षोद-साराः शकट-सरणयो धीर-धूली-पताकाः पाक-स्वीकार-नम्रे शिरसि निविशते शूक-शालेः शुकाली
केदारेभ्यः प्रणालैः प्रविशति शफरी-पङ्क्तिर् आधारम् आराद् अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्ष-पालम् ॥

11.18*(283)

सद्यः-स्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः कच्छान्ताः काश-तूलैः पवन-वश-गतैर् मेष-यूथोपमेयाः
नद्यः प्रत्यग्र-तीरोपनति-सरभसैः खञ्जनैः साञ्जनाक्षा हंसाः कंसारि-देह-त्विषि गगन-तले शङ्ख-शोभां वहन्ति ॥

11.19*(284)

हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् अन्यः को ऽपि कषाय-कण्ठ-लुठनाद् आघर्घरो निस्वनः
ते संप्रत्य् अकठोर-वारण-वधूदन्ताङ्कुर-स्पर्धिनो निर्याताः कमलाकरेषु बिसिनी-कन्दाग्रिम-ग्रन्थयः ॥

11.20*(285)

वराहानाक्षेप्तुं कलम-कवल-प्रत्यभिमुखान् इदानीं सीमानः प्रति विहित-मञ्चाः स्वपतिभिः
कपोतैः पोतार्थं कृत-निविड-नीडा विटपिनः शिवाभिर् वल्मीकाः खर-नखर-खातोदर-मृदः ॥

11.21*(286)

लाला-कल्पैस् त्रिदश-करिणां दिग्-वधू-हास-भूतैर् अध्व-श्रान्त-प्रवहण-हरित्-फेन-शङ्कां दिशद्भिः
वातोदस्तैः शशधर-कला-कोमलैर् इन्द्र-तूलैर् लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः ॥

11.22*(287)

हार-च्छायां वहति कुचयोर् अन्तराले मृणाली कर्णोपान्ते नव-कुवलयैर् अच्युतः कर्णिकार्थः
या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धु-जीवैर् वेशः शोभां दिशति परमाम् आर्तवः शालि-गोप्याः ॥

11.23*(288)

दूरापाय-प्रकट-विटपाः पर्यटत्-खञ्जरीट क्रान्त-प्रान्ताः प्रसभ-विलसद्-राजहंसावतंसाः
अद्यानन्दं दधति विचरच्-चक्रवाकोपचञ्चु ग्रास-त्रास-प्रचल-शफर-स्मेर-नीरास् तटिन्यः ॥

11.24*(289)

उन्मग्न-चञ्चल-वनानि वनापगानाम् आश्यानसैकत-तरङ्ग-परम्पराणि
निम्नावशिष्ट-सलिलानि मनो हरन्ति रोधांसि हंस-पद-मुद्रित-कर्दमानि ॥

11.25*(290)

व्याली-विमर्द-विगलज्-जल-कोटराणि शाखा-विलम्बि-मृत-शैवल-कन्दलानि
दूरीभवन्ति सरितां तट-काननानि पूर्व-प्रवाह-महिमानम् उदाहरन्ति ॥

11.26*(291)*

तृण-राज-पाक-सौरभ-सुगन्धयः परिणताशवो दिवसाः ।
आद्य-कुलोपनिमन्त्रण-सुहित-द्विज-दुःसहोष्माणः ॥

11.27*(292)*

आढ्यान् निवापलम्भो निकेत-गामी च पिच्छिलः पन्थाः ।
द्वयम् आकुलयति चेतः स्कन्धावार-द्विजातीनाम् ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc