सुभाषितरत्नकरण्डकथा · श्लोक 41-60
रूपं वीर्यं च शिल्पं च विहाय विवशा नराः ।
परलोकम् इतो यान्ति कर्मवायुभिर् ईरिताः
पुण्यं त्व् एकम् इहात्यन्तम् अनुगामि सुखोदयम् ।
पुण्यम् अन्यैर् अहार्यत्वाद् धनानां प्रवरं धनम्
ये मेरुम् अपि वेगेन विकिरन्ति दिशो दश ।
ते ऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः
संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा।
पुण्यं न क्लेदम् आयाति चतुःसागरवारिणा
प्रदीप्तकिरणाङ्गारैः सप्तभिर् भास्करानलैः ।
क्षितौ वा दह्यमानायां पुण्यम् एकं न दह्यते
॥ इति पुण्यकथा ॥
वि. बिम्बकथा
आढ्यो निर्नष्टशोकः क्षतसकलकलिर् लोचनानन्दपात्रं
सौभाग्यश्रीनिधानं समुपचितबलाक्रान्तगात्रो यशस्वी।
तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाश्वो
व्यक्तो धीमान् प्रदाता भवति भगवतो बुद्धबिम्बं विधाय
यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा
तत्कर्तुर् दिवि भूतले च नियतं तावन्ति राज्यान्य् अपि ।
रूपारूप्यसमाधिसंपद् अखिलं भुक्त्वा च सर्वं सुखम्
अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदम्
द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर् लक्षितचक्रवर्ती ।
भवेज् जिनो ऽन्ते जितदोषशत्रुः ताथागतीं यः प्रतिमां विधत्ते
इन्द्रियाणाम् अवैकल्यं स्त्रीत्वदुर्गतिदूरता ।
जन्म मानुष्यकं वंश उच्चैर् आदेयवाक्यता
जातिः श्रुतिः स्मृतिर् धैर्यम् अभिवाञ्छितसंपदः ।
स्थानेष्व् अभिनिवेशश् च रागादिभिर् अबाधना
संबोधिर् इति जायन्ते विशेषाः साधुसंमताः ।
विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां सदा
न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म ।
न चापि वैकल्यम् इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति
॥ इति बिम्बकथा ॥
विइ. स्नानकथा
नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर्
यो वा पूजां करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः ।
मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु-
व्याप्तायां स्नाति सो ऽन्ते सकलकलिमलक्षालितो याति मोक्षम्
दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां
जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्याम् ।
मन्दाकिन्यां सुरौघाः प्रतिदिनम् उदकक्रीडया यद् रमन्ते
नानागन्धोदकेन स्नपनफलम् इदं बुद्धभट्टारकस्य
मृगमदचन्दनं विधुसुकुङ्कुमसेव्यरसं
सुरभिमनोरमासितसितारुणपीतरुचि ।
स्नपनम् इदं य एव विदधाति मुनेर् मनुजः
स भवति वीतमानसमलो जगुर् अस्तमलाः
॥ इति स्नानकथा ॥
विइइ. कुङ्कुमादिकथा
मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां
यत् स्फीतस्फुटपङ्कजां सुरपतिर् मन्दाकिनीं गाहते ।
कान्ताभिः स्मरविह्वलाभिर् असकृल् लोकोत्तमायादरात्
तद् गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात् फलम्
यद् राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः
कर्पूरामोदवद्भिर् मलयजसुरभिश्लेषशीतैर् युतायाम् ।
गङ्गायाम् अङ्गसौख्यं परमम् अनुभवन् मोदते सुन्दरीभिस्
तत् त्यागात् कुङ्कुमादेर् गुणमणिनिधये बुद्धभट्टारकाय
मृदङ्गवीणापटहप्रदानैः कृत्वा तु पूजां सुगतोत्तमानाम् ।
शृणोति शब्दान् सुरमानुषाणां श्रोत्रं च दिव्यं लभते विशिष्टम्
॥ इति कुङ्कुमादिकथा ॥
इx. छत्त्रकथा
गजतुरगपदातिस्यन्दनैः सप्तरत्नैर्
व्रजति सुतसहस्रैर् व्योम्नि यच् चक्रवर्ती ।
शशधरपरिवेषच्छत्त्ररुद्दार्कपादस्
तद् अपि फलम् उदारं छत्त्रदानात् प्रसूतम्
वाचालप्रचलालिचक्रचरणव्यालोलपुष्पोत्करं
नानावर्णसुगन्धिभूरिकुसुमन्यासेन चित्रीकृतम् ।
छत्त्रं चारुविचित्रपत्तसहितं चैत्याय यो यच्छति
प्राप्नोति क्षितिपार्चितं स हि चतुर्द्वीपेश्वरत्वं ध्रुवम्
मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0