भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकरण्डकथा · श्लोक 21-40

21

॥ इति दुर्लभमानुष्यकथा ॥
इव्. दानकथा
अन्नपानशयनासनसंपद् रत्नमाल्यवसनाभरणानि ।
कीर्तिर् उत्तमगुणाश् च युवत्यो दानतः कथितम् एतद् अशेसम्

22

आज्ञादीप्तिर् भोगसंपत् प्रकृष्टा रूपौदार्यं वर्णमाधुर्यम् ओजः ।
वाक्सौभाग्यं कान्तिर् आरोग्यम् आयुस् तत् तद् दानाद् इष्टम् इष्टं फलं च

23

अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं
सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः ।
भोज्यं रत्नानि हाराः पुरनगरमहीं कुङ्कुमं देवलोकः
संबुद्धत्वं च बुद्धैः कथितम् इह फलं दानकल्पद्रुमस्य

24

यन् नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश्
चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः ।
दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास्
तन् मात्सर्यकपाटपाटनपटोर् दानस्य विस्फूर्जितम्

25

अश्वैश् चामरभारनामितशिरोरूपैः खलीनोन्मुखैर्
नागैर् भिन्नमदैश् च यन् नरवरा गच्छन्ति छत्त्रोच्छ्रयैः ।
भृत्यैः साभरणैः कृताञ्जलिपुटैर् अभ्यर्च्यमानाः सदा
तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम्

26

हारैर् वज्रविचित्रहेमवलयैर् यत् पार्थिवा भूषिताः
केयूरैर् मुकुटैश् च रत्नखचितैः सिंहासनस्थाः सदा ।
मध्ये ऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस्
तद् दानस्य फलं वदन्ति मुनयः शार्दूलविक्रीडितम्

27

प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते
वीणावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते ।
यच् छक्रो रमते शचीसहचरो योषित्सहस्राकुले
तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम्

28

दाता प्रियत्वम् उपयाति जनस्य शश्वत् संसेव्यते च बःउभिः समुपेत्य सद्भिः ।
कीर्तिश् च दिक्षु विसरत्य् अमलं यशो ऽस्य तत् तत् पदं समुपयाति विशारदो ऽसौ

29

भेदात् कायस्य देवेष्व् अविकलविविधोत्तप्तभोगास्पदेषु
प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु ।
उद्यानेषु प्रकामं सुचिरम् अतिसुखं नन्दनादिष्व् अखिन्नः
प्राप्नोत्य् उत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात्

30

दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं
दानं मत्सरलोभदोषरजसः प्रक्षालणं चेतसः ।
संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं
दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम्

31

श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः
कर्णासन्नविशालचारुनयनाः केशान्तसक्तस्रजः ।
यद् दास्यं स्वयम् अङ्गनाः सुकृतिनाम् आयान्ति पीनोरवस्
तन् माहात्म्यम् उवाच संभृतफलं दानस्य शौद्धोदनिः

32

पर्यस्यत्सहकारभङ्गसुरभि प्रेङ्खन्निमग्नोत्पलं
श्रीमत्काञ्चनभाजने विनिहुतं बन्धूकताम्रं मधु ।
कामिन्या शपथोपनीतम् असकृद् यत् पीयते कामिना
हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः

33

इति दानगुणान् निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नम् ।
त्रिभवोग्रमहाभये नराणां न हि दानात् परम् अस्ति बन्धुर् अन्यः

34

॥ इति दानकथा ॥
व्. पुण्यकथा
यद् दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा ।
तत् पुण्यशिल्पिकृतम् एव वदन्ति सन्तः कल्याणकारिपुरुषस्य न पुण्यतुल्यम्

35

अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर् नागाश्वपत्तिरथसंक्षुभितैर् बलौघैः ।
उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति

36

कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः ।
यत् के चिद् एव पुरुषाः श्रियम् उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतज्ञता सा

37

आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर् व्याधिभयं न चास्ति ।
धनं प्रभूतं परिवारसंपद् भवन्ति पुण्यस्य महाविपाकाः

38

यच् चक्रवर्ती प्रवरैस् तु रत्नैः सहस्रपुत्रैश् च समन्वितो ऽपि
समुद्रसीमां बुभुजे धरित्रीं तत् पुण्यरत्नस्य फलं विशालम्

39

विचित्रपद्मासनमध्यसंस्थितः सुरासुरेन्द्रादिनमस्कृतः सदा ।
यद् ब्रह्मलोकं त्व् अभिभूय तेजसा ब्रह्मा सदा भाति तद् एव पुण्यतः

40

यद् देवनागासुरसिद्धसंघैर् गन्धर्वयक्षोत्तमकिन्नरैश् च ।
संपूज्यते देवगुरुः सदैव तत् पुण्यरत्नस्य फलं विशालम्

मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc