भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकरण्डकथा · श्लोक 61-80

61

हेमच्छत्त्रतिरस्कृतार्ककिरणाः श्रीमद्विनीतद्विप-
स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः ।
चातुर्द्वीपकचक्रवर्त्यवनिपा यद् यान्ति खे लीलया
तत् ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात् फलम्

62

॥ इति छत्त्रकथा ॥
x. धात्वारोपणकथा
पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि
प्रकाशितयशा भवत्य् अखिलसत्त्वधात्वाश्रयः ।
समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो
जिनप्रतिकृतौ जनेन यदि धातुर् आरोप्यते

63

शाक्रीं समन्ताद् अधिगम्य लक्ष्मीं द्वीपांश् च भुक्त्वा चतुरो नरेन्द्राः ।
अन्ते विशुद्धं पदम् आप्नुवन्ति धातोः समारोपणतो जिनस्य

64

दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा
मर्त्या यन् मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः ।
पृथ्वीं यच् चापि राजा जलनिधिवसनां पालयंश् चक्रवर्ती
तत् सर्वं बुद्धबिम्बे भवति तनुभृतां धातुम् आरोप्य भक्त्या

65

॥ इति धात्वारोपणकथा ॥
xइ. मण्डलकथा
भवति कनकवर्णः सर्वरोगैर् विमुक्तः सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः । धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति

66

ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर् विमुक्ताः ।
बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि

67

दानं गोमयम् अम्बुना च सहितं शीलं च संमार्जनं
क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्यं क्रियोत्थापनम् ।
ध्यानं तत्क्षणम् एकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला
एताः पारमिताः षड् एव लभते कृत्वा मुनेर् मण्डलम्

68

दिव्यैः सुखैः सकलभोगवरैश् च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः ।
पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर् गणस्य विविधैर् वसुधां विचित्र्य

69

॥ इति मण्डलकथा ॥
xइइ. भोजनकथा
कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां
स्वाडुस्पर्शसुखां सुराः सुरपुरे यद् देववृन्दारकैः ।
भास्वत्काञ्चनभाजनेषु निहिताम् अश्नन्ति दिव्यां सुधां
तद् बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात् फलम्

70

मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने
क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् ।
स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं
प्राप्तः सर्वरसाग्रभोगवशितां सो ऽप्य् अन्नदानोदयात्

71

संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तम् ।
आयुर् बलं वर्णम् उदाररूपं प्राप्नोति विद्वान् अशनप्रदानात्

72

निर्जित्य शत्रून् बलवीर्ययुक्तान् लक्ष्मीं समासाद्य च ये नरेन्द्राः ।
स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद् धि सदा तद् एतत्

73

॥ इति भोजनकथा ॥
xइइइ. पानकथा
प्रेङ्खन्नीलसरोजगर्भम् अमलं यत् पद्मरागारुणं
काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु ।
किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते
संगीतध्वनिसंगतं नरवरैस् तत् पानदानात् फलम्

74

यद् वैडूर्येन्द्रनीलप्रवरमणिचितैर् भाजनैः शातकौम्भैर्
देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्षःस्थलाभिः ।
पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति
प्रोक्तं प्राज्ञैः फलं तद् गुणनिचितगणे पानदानस्य रम्यम्

75

यत् पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि
श्लेश्माघातोग्रवातप्रशमनचतुरं पिप्फलीखण्डचूर्णम् ।
ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद्
दत्त्वा संघाय भक्त्यामरभवनगतो दिव्यम् आप्नोति पानम्

76

मधुमधुरम् उदारम् आदरेण प्रवरगणाय ददाति पानकं यः ।
दिवि भुवि सकले स पानम् अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतम्

77

श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले ।
संसारपर्वतदरीतटवाससंस्थास् ते प्राप्नुवन्ति सततं मधुरं सुपानम्

78

॥ इति पानकथा ॥
xइव्. वस्त्रकथा
ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितोज्ज्वलवस्त्रमालाम् ।
यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्य् अभिमतप्रवराम्बराणि

79

यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति ।
स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षम्

80

दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै
रक्तैर् अन्यैश् च रम्यैः सुरुचिरवसनैश् चीवरैश् चारुमालाः ।
दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो
ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः

मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc