सुभाषितरत्नकरण्डकथा · श्लोक 141-160
दीर्घायुर् एव भुवि सर्वरुजा विमुक्तः प्राप्नोति सौक्ःयम् अतुलं सततं प्रहृष्टः ।
देवोद्भवानि विविधानि सुखानि भुङ्क्ते प्राणातिपातविरतः खलु यस् तु विद्वान्
दृष्ट्वा परस्य विभवं न करोति चौर्यं गुप्तिं च यः प्रकुरुते परिरक्षणार्थम् ।
प्राप्नोत्य् असौ द्रविणसंपदम् अप्रमेयां सर्वैस् तु तस्करनृपादिशतैर् अहार्याम्
दारान् परस्य परिवर्जयतीह यो ऽसौ दारान् असौ लभत एव मनोज्ञरूपान् ।
शत्रूद्भवो न हि जनस्य कदा चिद् एव लोकस्य वै भवति विश्वसनीय एव
नीलोत्पलस्यैव यथा हि गन्धो मनोज्ञरूपः सततं प्रवाति ।
तद्वन् मनुष्यस्य हि वाति गन्धो मुखाद् असत्यं तु न वक्ति यश् च
सन्मित्रसम्धिं नृपतेश् च पूजां भक्त्यान्वितं पुत्रकलत्रभृत्यम् ।
भोगान् उदारान् सुखम् अप्रमेयं प्राप्नोति नित्यं पिशुनाद् विमुक्तः
आनन्दशब्दं मधुरं शृणोति वाक्यानि नित्यं सुमनोज्ञकानि ।
देवेषु मर्त्येषु च जायते ऽसौ पारुष्यवाक्याद् विरतो नरो यः
धर्मार्थसत्यनिरता खलु यस्य वाणी लोके सदा प्रियतमा भवतीह नित्यम् ।
संपूजनां स लभते बहुरत्नजातैर् यायाच् च्युतो विबुधलोकम् अनन्तसौख्यम्
स तीव्ररागो भवतीह नैव भोगैर् उदारैः सततं च युक्तः ।
आदेयवाक्यः पृथुकीर्तियुक्तः परस्वतृष्णाविरतो हि यो वै
प्रासादिकत्वं लभते स नित्यं स्फीतं सुखं राज्यधनादि लोके ।
ब्रह्मत्वम् आसादयतीह सम्यङ् मैत्रस्य चित्तस्य वशान् मनुष्यः
स्वर्गापवर्गं समवाप्तुकामैर् नरैस् तु नित्यं समुपार्जनीया ।
अस्तित्वदृष्टिः परमा हि यस्मात् सर्वस्य सा वै कुशलस्य मूलम्
श्रद्धानिराकृतमतेर् न विरोहतीह पुण्यं ह्य् उदारभुवनत्रयसौख्यकारि ।
तस्मान् नरेण विदुषा सततं निषेव्या श्रद्धा समस्तगुणरत्ननिधानभूता
श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर् निवेश्या ।
श्रद्धाकरेन रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः
भ्रष्टो यथाधिपत्याद् ऐश्वर्यफलानि न ह्य् अवाप्नोति ।
श्रद्धेन्द्रियविभ्रष्टो न तथार्यफलान्य् अवाप्नोति
तस्मान् नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु ।
निःशेषदोषशमनाय न चान्यद् अस्ति श्रद्धा यथा दहति दोषगणं समस्तम्
दीनाः कुवासवो मूढाः कपालाङ्कितपाणयः ।
दर्शयन्त्य् एव लोकस्य ह्य् अदातुः फलम् ईदृशम्
दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः
शश्वत् क्षुद्विहता भ्रमन्ति यद् अमी देहीति बाहूच्छ्रिताः ।
दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्य् अपि
प्रायो ऽल्पं सकृद् अप्य् अमीभिर् अशनम् दत्तं न कस्मै चन
सूचीमुखाः कुहरनेत्रविशुष्कगात्राः केशाम्बरा रविकरैः परिपीतभासः ।
प्रेताः सदा सलिललालसया यद् आर्तास् तत् पानदानविकलस्य फलं वदन्ति
दानं सर्वसुखं महाभयहरं भाग्यं महच् चार्थदं
नानाकारविशालकौशलपदं सर्वैर् गुणालंकृतम् ।
तस्माद् दानम् अनेकदोषशमनं संसारघोरापहं
क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर् नरा यत्नतः
॥ इति विचित्रकथा ॥
संग्रहश्लोकाः
पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः ।
बिम्बं स्नानं तथा गन्धश् छत्त्रं धातोश् च रोपणम् ॥ 1 ॥
मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् ।
प्रणामोज्ज्वालिकादीपविहारशयनासनम् ॥ 2 ॥
क्षेत्रं विचित्रं चैवान्त इत्य् एता बहुधा भृशम् ।
कथा द्वाविंशतिः प्रोक्ता भूयो दानस्य वर्णने ॥ 3 ॥
xxइइइ. शीलकथा
यथाम्बुपूर्णः सभुजङ्गमो ह्रदः प्रफुल्लशाखश् च सकण्टको द्रुमः ।
श्रुतेन वित्तेन कुलेन चान्वितस् तथाविधः शीलपराङ्मुखो जनः
वरं दरिद्रो ऽपि सुशीलवान् भवेन् न चार्थवान् अप्य् अनलंकृतो गुणैः ।
दरिद्रभावे ऽपि हि सज्जनः स्तुतो रसो गुणानाम् अमृताद् विशिष्यते
मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0