सुभाषितरत्नकरण्डकथा · श्लोक 121-140
अश्वैर् विचित्रैः सततं वहन्ति सुवर्णपत्त्रच्छुरितैर् नरेन्द्राः ।
ऋद्ध्या च गच्छन्ति सुदूरदेशं यानप्रदानात् तु तद् एव मर्त्याः
हारार्धहारैः कटकैर् उपेताः क्रीडन्ति देवेषु मनोज्ञवर्णाः ।
सार्धं हि यत् तत् त्रिदशाधिपेन निःसङ्गदानात् प्रवदन्ति सन्तः
भीतान् समाश्वासयते सदैव धीमान् नरो वाक्प्रतिपादनेन ।
सर्वैर् न मारैः परिभूयते ऽसौ वाक्यं च नित्यं मधुरं शृणोति
यद् अर्हयन्तीह जिनस्य वाक्यैः क्लेशारिभङ्गैर् भुवि धर्मधातुम् ।
संसारसौख्यं त्व् अनुभूय सर्वं धर्मेश्वरत्वं प्रवरं लभन्ते
प्रतिश्रयं ते प्रदिशन्ति सन्तः सर्वत्र काले श्रमपीडितानाम् ।
ते यान्ति नाकं सततं प्रहृष्टाः शक्रेण सार्धं च सदा रमन्ते
ये रोपयन्तीह सुकाननानि वृक्षांश् च पुष्पाणि च गन्धवन्ति ।
च्युत्वापि ते यान्ति दिवं मनुष्या उद्यानमालाद्युपभोगयुक्ताः
कुर्वन्ति सेतुं विषमे प्रदेशे पानीयमध्ये ऽपि च ये मनुष्याः ।
स्वर्गं सदा भोगसमन्वितं हि यान्त्य् उत्तमं ते वरहेमगात्राः
वापीतडागानि सुशोभनानि कृत्वा नराः स्वर्गम् अवाप्नुवन्ति ।
इहैव लोके च मनुष्यभूता राज्यानि रम्याणि सुखावहानि
कूपान् मठान् सत्त्वसमाश्रयांश् च वातातपत्राणनिमित्तभूतान् ।
ये कारयन्ति प्रवरान् मनुष्यास् ते देवभूताः सुखिनो भवन्ति
छत्त्राणि ये वा प्रतिपादयन्ति सूर्यांशुतापेन सुदुःखितेषु ।
छत्त्रोपगास् ते जितशत्रुसंघा भवन्ति नित्यं वरसौख्ययुक्ताः
पादाश्रयं चित्रम् उपानहौ च सर्वेषु सत्त्वेषु दिशन्ति भक्त्या ।
यानोत्तमैस् ते सुचिरं प्रयान्ति देवेषु मर्त्येसु सदोपपन्नाः
शंसन्ति ये जिनवरं गुणकीर्तनेन कायप्रणामक्रियया च गुरूंश् च सर्वान् ।
संमाननां गुरुकुलात् समवाप्नुवन्ति जातिं तथैव वचनप्रतिसंविदं च
मृदङ्गवीणापटहादिभिर् ये कुर्वन्ति पूजां सुगतोत्तमानाम् ।
मनुष्यभूताः सुमनोज्ञवाक्याः शृण्वन्ति शब्दान् सुमनोज्ञरूपान्
यष्टिं समारोपयति प्रहृष्टश् छत्त्रं च घण्टां सुगतस्य चैत्ये ।
छत्त्रावलीं वा कुरुते स तेन लक्ष्मीं समाप्नोति नरो विशालाम्
मनुष्यभूतो भुवि यः समन्ताद् ईशत्वम् आप्नोति बलेन युक्तः ।
केयूरमुक्ताभरणैर् उपेतो भूमिप्रदानात् तद् उशन्ति सन्तः
बिम्बं करोति प्रवरं जिनस्य स्तूपं च वा छत्त्रवरैर् उपेतम् ।
धातुं समारोपयतीह यश् च स्वर्गं समाप्नोति नरस् तु तेन
ये बुद्धम् उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि ।
पुष्पं फलं भोजनपानकं वा यच्छन्ति ते राजबलं लभन्ते
दीपान् उदारान् विविधांश् च गन्धान् पुष्पाणि धूपं गुडपानकं वा ।
दिशन्ति संघस्य तथा च हेम भवन्ति ते देवसुखेन युक्ताः
स्तूपाङ्गनं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः ।
निर्माल्यम् एभ्यश् च समुद्वहन्ति ते हेमवर्णाः सुदृशो भवन्ति
उज्ज्वालिकां ये प्रदिशन्ति सद्भ्यः शीतागमे वस्त्रम् अथापि गेहम् ।
पानं विचित्रं वरकन्यकां वा ते जन्मभूमौ सुखिनो भवन्ति
मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0