सुभाषितरत्नकरण्डकथा · श्लोक 161-180
संमानयन्ति गुरवो गुणवन्तम् आर्यं तेजस्विनो ऽपि धनिनो ऽपि मनस्विनो ऽपि ।
तस्मान् नरो नरपतेर् अपि यः सकाशात् संमानम् इच्छति स रक्षतु शीलम् एव
लोके सुखं विषयजं सभयं सवैरं धर्मात्मनः कृतमतेः सुखम् उत्तमं तु ।
तस्मान् नरः सुखम् उदारम् अहार्यम् आर्यं यः प्राप्तुम् इच्छति स रक्षतु शीलम् एव
यो भ्रष्टशीलविनयस्य विनाशकाले त्रासः समाविशति शीलवतो न सो ऽस्ति ।
तस्मात् प्रहृष्टविनयः परलोकम् अन्ते यो गन्तुम् इच्छति स रक्षतु शीलम् एव
शीलेन निश्चयदृढेन दिवं प्रयाति नात्मक्लमेन न कुदृष्टिकृतैर् विमार्गैः ।
तस्माद् ऋते ऽपि वनवासम् ऋते ऽपि लिङ्गं यः स्वर्गम् इच्छति स रक्षतु शीलम् एव
शीलं विनाशहरणावरणादिरक्षा शीलं धनं परमम् आर्यम् अहार्यम् अन्यैः ।
शीलं स्थिरं व्युपशमे ऽप्य् अनुगामि मित्रं शीलं विभूषणम् ऋते ऽपि विभूषणेभ्यः
न ह्य् अस्ति शीलसदृशं हितकारि मित्रं स्निग्धाशयो न खलु शीलसमो ऽस्ति बन्धुः ।
माता पिता च तनयाय विधातुम् इच्छेद् यः शीलम् ऊर्जितफलं हितम् आदधातु
॥ इति शीलकथा ॥
xxइव्. क्षान्तिकथा
सर्वम् एतत् सुचरितं दानं सुगतपूजनम् ।
कृतं कल्पसहस्रैर् यत् प्रतिघः प्रतिहन्ति तत्
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात् क्षान्तिं प्रयत्नेन भावयेद् विविधैर् नयैः
मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते
न द्विषन्तः क्षयं यान्ति यावज्जीवम् अपि घ्नतः ।
क्रोधम् एकं तु यो हन्यात् तेन सर्वद्विषो हताः
विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा ।
दहत्य् आत्मानम् एवादौ परं धक्ष्यति वा न वा
जरा रूपवतां क्रोधः तमश् चक्षुष्मताम् अपि।
वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत्
मत्कर्मचोदिता ह्य् एते जाता मय्य् अपकारिणः ।
येन यास्यन्ति नरकान् मयैवैते हता ननु
एतान् आश्रित्य मे पापं क्षीयते क्षमतो बहु ।
माम् आश्रित्य तु यान्त्य् एते नरकान् दीर्घवेदनान्
अहम् एवापकार्य् एषां ममैते चोपकारिणः ।
कस्माद् विपर्ययं कृत्वा खलचेतः प्रकुप्यसि
मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यसि ।
द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम्
॥ इति क्षान्तिकथा ॥
xxव्. वीर्यकथा
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस् तरति वीर्यमहाप्लवेन ।
नैवास्ति तज् जगति वस्तु विचिन्त्यमानं नावाप्नुयाद् यद् इह वीर्यरथाधिरूढः
युद्धेषु यत् करितुरङ्गपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु ।
हत्वा रिपूञ् जयम् अनुत्तमम् आप्नुवन्ति विस्फूर्जितं तद् इह वीर्यमहाभटस्य
अम्भोनिधीन् मकरवृन्दविघट्टिताम्बूत्तुङ्गाकुलाकुलतरङ्गविभङ्गभीमान् ।
वीर्येण गोष्पदम् इव प्रविलङ्घ्य शूराः कुर्वन्त्य् अनर्घगुणरत्नधनार्जनानि
रागादीन् उरगान् इवोग्रवपुषो विष्कम्भवीर्यान्विताः
शीलं सज्जनचित्तनिर्मलतरं सम्यक् समादापयन् ।
मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विता
मोदन्ते सुरसुन्दरीभुजलतापाशोपगूढाश् चिरम्
मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0