भाषा

ENहिગુ
ग्रंथ पाठ

शृङ्गारतिलक · अध्याय 2

2.1

विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच् चतुर्विधः &
पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥

2.2

दम्पत्योर् दर्शनाद् एव समुत्पन्नानुरागयोः &
ज्ञेयः पूर्वानुरागोऽयम् अप्राप्तौ च दशा यथा ॥

2.2a

किं चन्दनैर् रचयसे नु मृणाल-शय्यां मा मा ममालि कुरु कोमल-ताल-वृन्तम्
मुञ्चाग्रहं विकच-पङ्कज-योजनेषु तत्-सङ्गमः परम् अपाकुरुते स्मराग्निम् ॥

2.2b

यत् सारैर् इव पङ्कजस्य घटितं यच् चन्द्र-गर्भाद् इव प्रोत्कीर्णं यद् अनङ्ग-सायक-शिखाभासेव संवर्धितम्
यत् संसिच्य सुधा-रसैर् इव रतेर् आस्थान-भूमीकृतं तद् भूयोऽपि कदा सरोरुह-दृशः पश्यामि तस्या मुखम् ॥

2.3

मृणाल-कदली-चन्द्र चन्दनाम्बु-रुहादिकम्
तत्रानयोः स्मरातङ्क शान्तये नैव सेवितम् ॥

2.4

आलोकालाप-संरूढ रागाकुलित-चेतसोः
तयोर् भवेद् असंप्राप्तौ दशावस्थः स्मरो यथा ॥

2.5

अभिलाषोऽथ चिन्ता स्यात् स्मृतिश् च गुण-कीर्तनम्
उद्वेगोऽथ प्रलापः स्याद् उन्मादो व्याधिर् एव च ॥

2.6

जडता मरणं चैव दशमं जायते ध्रुवम्
असंप्राप्तौ भवन्त्य् एतास् तयोर् दश दशा यथा ॥

2.7

व्यवसायो भवेद् यत्र बाढं तत्-सङ्गमाशया
सङ्कल्पाकुल-चित्तत्वात् सोऽभिलाषः स्मृतो यथा ॥

2.7b

प्रविशति यथा गेहेऽकस्माद् बहिश् च विचेष्टते वदति च यथा सख्या सार्धं सहासम् इहोत्सुका
दयित-वदनालोके मन्दं यथा च चलत्य् असौ मृग-दृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥

2.8

कथं स वल्लभः प्राप्यः किं कुर्याम् अस्य सिद्धये
कथं भवेद् असौ वश्य इति चिन्ता मता यथा ॥

2.8a

सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन् पुनः कोऽप्य् अन्योऽस्ति गुरुर् न चातिनिपुणाः सख्योऽस्य संबोधने
संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां बध्नन्त्या न गतं स्थितं न च गलद्-वासो न वा संवृतम् ॥

2.9

द्वेषो यत्रान्य-कार्येषु तद्-एकाग्रं च मानसम्
श्वासैर् मनोरथैश् चापि चेष्टास् ताः स्मरणं यथा ॥

2.9a

इन्दुं निन्दति पद्म-कन्दल-दलैस् तल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेय-धारा-गृहे
श्वासैः केवलम् एव खेदित-तनुर् ध्यायत्य् असौ बालिका यत् तत् कोऽपि युवा ध्रुवं स्मर-सुहृच्-चेतस्य् अमुषाः स्थितः ॥

2.10

सौन्दर्य-हसितालापैर् नास्त्य् अन्यस् तत्-समो युवा
इति वाणी भवेद् यत्र तद् इत्थं गुण-कीर्तनम् ॥

2.10a

तद्-वक्त्रं हसितेन्दु-मण्डलम् इति स्फारं तद्-आलोकितं सा वाणी जित-काम-कार्मुक-रवा सौन्दर्यम् एतस्य तत्
इत्थं संततम् आलि वल्लभतम-ध्यान-प्रसक्तात्मनश् चेतश् चुम्बित-काल-कूटम् इव मे कस्माद् इदं मुह्यति ॥

2.11

यस्मिन् रम्यम् अरम्यं वा न च हर्षाय जायते
प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥

2.11a

अग्न्य्-आकारं कलयसि पुरश् चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिर-मरुता दह्यसे पद्मिनीव
प्राणान् धत्से कथम् अपि बलाद् गच्छतः शल्य-तुल्यां स्तत् केनासौ सुतनु जन्तिओ मान्मथस् ते विकारः ॥

2.12

बम्भ्रमीति मनो यस्मिन् रत्यौत्सुक्याद् इतस् ततः
वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥

2.12a

इत्थं तेन निरीक्षितं न च मयाप्य् एवं समालोकितस् तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया
तत् सत्यं कथयालि किं स सुभगः कुप्येन् न मह्यं गत इत्य् उक्त्वा सुदृशा कयापि वलित-ग्रीवं दृशौ स्फारिते ॥

2.13

श्वास-प्ररोदनोत्कम्प वसुधोल्लेखनैर् अपि
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥

2.13a

देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्य् उच्चकैः किंचिद् ध्यायति निश्चला च बलवद् रोमाञ्चिता कम्पते
रोदित्य् अङ्ग-गतां विलोक्य सुचिरं वीणाम् अपि व्यापृता स्वल्पैर् एव दिनैर् इयं वर-तनुः केनापि संशिक्षिता ॥

2.14

सन्ताप-वेदना-प्रायो दीर्घ-श्वास-समाकुलः
तनूकृत-तनुर् व्याधिर् अष्टमोऽयं स्मृतो यथा ॥

2.14a

तापः शोषित-चन्दनोदक-रसः श्वासा विकीर्णोत्पलाः कर्पूराभिभव-प्रचण्ड-पटिमा गण्ड-स्थले पाण्डिमा
म्लायद्-बाल-मृणाल-नाल-ललिता प्राप्ता तनुस् तानवं तन्व्-अङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्य् एष कष्ट-क्रमः ॥

2.15

अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः
श्वासाः समधिकाः कार्श्यं जडतेयं मता यथा ॥

2.15a

दृष्टिर् निश्चलतारकाधर-दलं श्वासैः कृतं धूषरं प्राप्तं वासर-चन्द्र-बिम्ब-पदवीं वक्त्रं विनष्टा स्मृतिः
हुंकारः परम् एक एव वचन-स्थाने स्थितः सांप्रतं मन्येऽस्याः कुसुमायुधः स-शिबिरः प्रत्यङ्गम् आवासितः ॥

2.16

उपायैर् विविधैर् नार्या यदि न स्यात् समागमः
कन्दर्प-शर-भिन्नाया मरणं जायते ततः ॥

2.17

पुंसोऽपि हि भवन्त्य् एता दशावस्था मनोभवात्
मरणं किं त्व् असौन्दर्यात् तयोः कैश्चिन् न बध्यते ॥

2.18

अन्ये तद् अपि बध्नन्ति प्रत्युज्जीवन-काङ्क्षया
वृत्तानुवादे तच्-छस्तम् उत्पाद्ये प्रायशो नहि ॥

2.19

एकस्मिंस् तु मृतेऽप्य् अन्यो यदि जीवेत् कथंचन
का स्नेह-गणना तत्र म्रियते चेन् न सङ्गमः ॥

2.20

पूर्वं नारी भवेद् रक्ता पुमान् पश्चात् तद् इङ्गितैः
ततः संभोग-लीलेति स्वभाव-सुभगा स्थितिः ॥

2.21

अन्यथापि न दोषः स्याद् यदि प्रेम समं द्वयोः
रक्तापरक्ता वृत्तिश् चेच् छृङ्गाराभास एव सः ॥

2.22

अयं च प्रायशस् तज्-ज्ञैर् इत्थं हास्येषु बध्यते
निर्द्रव्येण मया सार्धं वेश्ये मानय यौवनम् ॥

2.23

अनुरक्तो भवेद् यस्यां नायकस् तत्-सखी-जनम्
साम्ना मानेन दानेन बाढम् आवर्जयत्य् असौ ॥

2.24

तस्याग्रे तत्-कथां कुर्वन् स्वाभिप्रायं प्रकाशयेत्
तद्-अभावे प्रयुञ्जीत काश्चित् प्रव्रजितादिकाः ॥

2.25

तद्-द्वारेण समाख्यात स्वभावो ज्ञात-तन्-मनाः
उपचारैः परैर् लेखैः साधयेत् ताम् अतन्द्रितः ॥

2.26

ततो दृष्ट्वा विविक्ते ताम् इन्द्रजाल-कलादिभिः
प्रयोगैर् ललितैः स्वैरं विस्मयं परमं नयेत् ॥

2.27

धात्री-सखी-वेश्मनि रात्रि-चारे महोत्सवे तीव्रतमे भये च
निमन्त्रेण व्याधि-मिषेण शून्ये गेहे तयोर् नूतन-सङ्गमः स्यात् ॥

2.28

यदा रागो गुरुः सा च लभ्यते नैव याचिता
क्षीणोपायस् तदा कन्यां नायकः साधयेद् इति ॥

2.29

पर-स्त्री-गमनोपायः कविभिर् नोपदिश्यते
सुन्दरं किन्तु काव्याङ्गम् एतत् तेन निदर्श्यते ॥

2.30

वामता दुर्लभत्वं च स्त्रीणां या च निवारणा
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥

2.31

बहु-मानाद् भयाद् वापि नृणाम् अन्यत्र योषिति
प्रच्छन्न-कामितं रम्यं सताम् अपि भवेद् यथा ॥

2.31a

जीर्णं तार्ण-कुटीरकं निवसनं तल्पीकृतं स्थण्डिले नीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः
गच्छामीति वदत्य् असाव् अपि मुहुः शङ्काकुला केवलं चेतश् चित्रम् अहो तथापि रमते संकेतके कामिनाम् ॥

2.32

स मानो नायिका यस्मिन्न् ईर्ष्यया नायकं प्रति
धत्ते विकारम् अन्य-स्त्री सङ्ग-दोष-वशाद् यथा ॥

2.32a

किंचिद् बाष्प-जलावलेप-ललिते नेत्रे समाकुञ्चिते रागो विस्फुरणानुबन्ध-रुचिरः संदर्शितो गण्डयोः
कम्पश् चाधर-पल्लवे विरचितः कामं कुरङ्गीदृशा नो जाने किम् अयं प्रिये प्रकटितः कोपोऽभिलाषोऽथवा ॥

2.33

स प्रायशो भवेद् त्रेधा कामिनीनां प्रियं प्रति
अवेक्ष्य दोषम् एतस्य गरीयान् मध्यमो लघुः ॥

2.34

पर्तिनार्यां गते कान्ते स्वयं दृष्टे नखाङ्किते
तद्-वासो-दर्शने गोत्र स्खलिते च गुरुर् यथा ॥

2.34a

बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्ड-स्थले शोणिमा यातस् तिर्यग् अमू दृशौ च बलवद् भ्रू-युग्मअम् उद्भ्राम्यति
इत्थं चण्डि तथा तवैष रुचिरः कोप-क्रमो जृम्भते जातोऽयं प्रणतीर् अपास्य सुतराम् एतद्-दिदृक्षुर् यथा ॥

2.35

दृष्टे प्रियतमे रागाद् अन्यया सह जल्पति
सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥

2.35a

वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमै र्विश्रान्तं कुत एव लोल-नयने किं लोहिते लोचने
स्वेदः किं नु घनस्तनि स्तन-तटे मुक्ता-फलानां तुलां धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्य् आगसः ॥

2.36

सविलासं स्फुरच्-चक्षुः वीक्षमाणे परां प्रिये
किंचिद् अन्य-मनस्केन जायते स लघुर् यथा ॥

2.36a

माम् एव ताडय नितम्बिनि यद्य् अकस्मात् कोपो भवेत् तव मुखं तु निजं किम् एतत्
आनीयते शशधरानुकृतिं कपोल पालीप्लुतेन घन-कज्जल-नेत्र-वारा ॥

2.37

देश-काल-बलात् कोपः प्रायशः सर्व-योषिताम्
जायते सुख-साध्योऽयं कृच्छ्र-साध्यश् च कामिभिः ॥

2.38

प्रज्वलितोज्ज्वल-दीपं रति-गृहम् इन्दूज्ज्वलं च सौधतलम् &
मधु-विधुरी-कृत-मधु-कर-मधुरध्व-निबोधितं च कमल-वनम् ॥

2.39

इत्य्-आदिषु प्रदेशेषु मानिनी-नाम-संशयम्
मन्युर् गुरुतरो ऽप्य् आशु सुख-साध्यो भवेद् यथा ॥

2.40

मधु-समय-शश-धरोदय-कन्दर्प-मदाधिकेषु कालेषु &
मानो मनस्विनीनाम् अतिसुखसाध्यो भवेद् भूम्ना ॥

2.41

दूती-जनस्य परतो लघुर् अपि दोषो गुरूयते प्रायः &
अभिनव-दोषावसारे तथैव वनिता-जनस्य यथा ॥

2.42

साम दानं च भेदः स्याद् उपेक्षा प्रणतिस् तथा
तथा प्रसङ्ग-विध्वंसो दण्डः शृङ्गार-हानये ॥

2.43

तस्याः प्रसादने सद्भिर् उपायाः षट् प्रकीर्तिताः
सुन्दरास् ते निदर्श्यन्ते सहोदाहृतिभिर् यथा ॥

2.44

अविनीतो ऽपि पाल्यो ऽहं त्वया सुभ्रु क्षमाभृता
इति वाणी भवेद् यत्र तत्सामेति निगद्यते ॥

2.45

अलंकारादिकं दद्यान् नायको यत्र तुष्टये
उद्दिश्य कारणं किंचिद् दानं लुब्धासु तद् यथा ॥

2.46

यस्मिन् परिजनं तस्याः समावर्ज्य प्रसादतः
तेनैव लभते कान्तां कान्ता-भेदः स उच्यते ॥

2.47

प्रसादन-विधिं त्यक्त्वा वाक्यैर् अन्यार्थ-सूचकैः
यस्मिन् प्रसाद्यते योषिद् उपेक्षा सा मता यथा ॥

2.47a

एतत् किं ननु कर्ण-भूषण-मयं हारः सुकाञ्ची नवा बद्धा काचिद् इयं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः
प्रत्यङ्गं स्पृशतेति तत्-क्षण-भवद्-रोमाञ्च-मालाञ्चिता तन्वी मानम् उपेक्षयैव शनकैर् धूर्तेन संमोचिता ॥

2.48

केवलं दैन्यम् आलम्ब्य पाद-पातान्नतिर् मता
अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद् यथा ॥

2.49

अकस्माज् जायते यत्र भय-हर्षादि-भावना
सोऽयं प्रसङ्ग-विध्वंसः कोप-भ्रंशात्मको यथा ॥

2.49a

कथं ममोरसि कृत-पक्ष-निःस्वनः शिलीमुखोऽपतद् इति जल्पति प्रिये
निवृत्य किं किम् इदम् इति ब्रुवाणया स-साध्वसं कुपितम् अलोकि कान्तया ॥

2.50

यथोत्तरं वलीयांस इत्य् उपायाः प्रसादने
आद्यास् त्रयो घनं कार्या विदग्धैः पश्चिमाः क्वचित् ॥

2.51

नातिखेदयितव्योऽयं प्रियः प्रमदया क्वचित्
मानश् च विरलः कार्यः प्रणामोत्सव-सिद्धये ॥

2.52

इत्य् उपायान् प्रयुञ्जीत नायिकापि प्रियं प्रति
कुलजा नेर्ष्यते किं तु तत्रान्यत्-कारणं भवेत् ॥

2.53

स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना
तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः ॥

2.54

प्रिय-सुभग-दयित-वल्लभ-नाथ-स्वामीश-कान्त-चन्द्र-मुखाः &
दयित मनोरम रमणी-जीवित इत्य् आदि नाम स्यात् ॥

2.55

प्रीतौ भर्तरि सुदृशाम् अप्रीतौ पुनर् अमूनि शठ-धृष्टौ &
निर्लज्ज-दुराचारौ निष्ठुर-दुःशीलवानादि ॥

2.56

गर्वाद् व्यसन-त्यागाद् विप्रिय-करणाच् च निष्ठुरालापात् &
लोभाद् अतिप्रवासात् स्त्रीणां द्वेष्यः प्रियो भवति ॥

2.57

पर-देशं व्रजेद् यस्मिन् कुतश्चित् कारणात् प्रियः
स प्रवास इति ख्यातः कष्टावस्थो द्वयोर् अपि ॥

2.57a

दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताः कच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥

2.57b

कामं कर्ण-कटुः कुतोऽतिमधुरः केका-रवः केकिनां मेघाश् चामृत-धारिणोऽपि विहिताः प्रायो विष-स्यन्दिनः
उन्मीलन्-नव-कन्दलावलिर् असौ सह्याप्य् असह्यायते तत् किं यद् विपरीतम् अत्र न कृतं तस्या वियोगेन मे ॥

2.58

कार्श्य-जागर-मालिन्य चिन्ताद्यं यत्र जायते
अवस्था विविधाः स्त्रीणां मृत्युश् चेद् अवधेः परः ॥

2.58a

अद्यैव यत् प्रतिपद्-उद्गत-चन्द्र-लेखा सख्यं त्वया वपुर् इदं गमितं वराक्याः
कृष्णे गते कुसुम-सायक तत् प्रभाते बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥

2.58b

निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः सार्धं लोचन-वारिणा विगलितं यत् प्राक्तनं मे सुखम्
प्राणाशा तनुताम् उपैति च मुहुर् नूनं तनु-स्पर्धया कन्दर्पः परम् एक एव विजयी यातेऽपि कान्ते स्थितः ॥

2.58c

नीरागोऽधर-पल्लवोऽतिमलिना वेणी दृशौ नाञ्जिते म्लायद्-बाल-मृणालिका-धवलताम् आलम्बतेऽङ्ग-च्छविः
इत्थं सुभ्रु विसंस्थुलापि विरह-व्यापाद् विमर्दाद् इयं सख्येव स्थिर-शोभया दृढतरं प्रत्यङ्गम् आलिङ्गिता ॥

2.58d

किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठु-रुचिः &
येन सखि वल्लभाम् अपि न स्मरति स मां विदेश-रुचिः ॥

2.58e

प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस
अवधि-दिवसः पूर्णः सख्यो विमुञ्चत तत्-कथां हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥

2.59

इत्य् आदि-विरहावस्थाः पुंसोऽपि हि भवन्ति ताः
कन्दर्प-शर-पाताद्या मा भूवन् वैरिणाम् अपि ॥

2.60

यत्रैकस्मिन् विपन्नेऽन्यो मृतकल्पोऽपि तद्-गतम्
नायकः प्रलपेत् प्रेम्णा करुणोऽअसौ स्मृतो यथा ॥

2.60a

दग्धा स्निग्ध-वधू-विलास-कदली वीणा समुन्मूलिता पीता पञ्चम-काकली-कवलिता शीत-द्यूतेः कौमुदी
प्लुष्टाः स्पष्ट्मनेक-रत्न-निवहा नालं रतेः केवलं कन्दर्पं हरता हरेण भुवनं निःसारम् एतत् कृतम् ॥

2.60b

वक्त्रं चन्द्रमसा दृशौ मृग-गणैः केशाः कलापि-व्रजैर् मातङ्गैः स्तन-मण्डलं भुज-युगोल्लासो मृणालैर् अपि
सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा सर्वैर् निष्करुणैर् हृता ध्रुवम् अहो दैवेन किंचिन् न मे ॥

2.60c

इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् &
मूर्च्छां हरामि सा तव गत-पुण्या नयन-सलिलेन ॥

2.60d

पाशो विपाशित उपाहित एष सान्द्रः कर्पूर-रेणुर् उपगूढम् उरो नताङ्गि
पापेन येन गमितेति दशाम् अमुष्मिन् मूर्छा-विराम-ललितं मयि धेहि चक्षुः ॥

2.61

ग्लानो मुक्ताश्रुर् उद्विग्नः स्रस्ताङ्गो मुक्त-चेतनः
स-चिन्तो दैन्य-भाग् अस्मिन्न् एवं प्रायो जनो भवेत् ॥

2.62

केषांचित् करुण-भ्रान्तिः कारुण्याद् अत्र जायते
एतस्य मिथुनावस्थां विस्मृत्य रति-मूलजाम् ॥

2.63

स्त्री-पुंसयोर् भवेद् एष सापेक्षः संगमे पुनः
शृङ्गार-वचन-प्रायः करुणः स्यात् स चान्यथा ॥

2.64

तस्माच् छृङ्गार एवायं करुणेनानुमोदितः
सौन्दर्यं सुतरां धत्ते निबद्धो विरलं बुधैः ॥

2.65

कारुर् दासी नटी धात्री प्रातिवेश्या च शिल्पिनी
बाला प्रव्रजिता चेति स्त्रीनां ज्ञेयः सखीजनः ॥

2.66

कला-कौशलम् उत्साहो भक्तिश् चित्तज्ञता स्मृतिः
माधुर्यं नर्म-विज्ञानं वाग्मिता चेति तद्-गुणाः ॥

2.67

विनोदो मण्डनं शिक्षो [उ]पालम्भोऽथ प्रसादनम्
सङ्गमो विरहाश्वासः सखी-कर्मेति तद् यथा ॥

2.67a

मया कोऽयं मुग्धे कथय लिखितः सत्वर-सखी वचः श्रुत्वेत्य् उच्चैर् विनिहित-दृशा चित्र-फलके
न वक्तुं तन्वङ्ग्या शकितम् अथ चोद्दाम-विदलत् कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥

2.67b

प्रत्यङ्गं प्रति कर्म नर्म-परया कृत्वाधिरूढं स्मरा दौत्सुक्यं प्रविलोक्य मोहन-विधौ चातुर्यम् आलोक्य च
सद्यो यावक-मण्डनं न रचितं पादे कुरङ्गी-दृशा स्मेरान्ता विशद-च्छदे च शयने दृष्टिः समारोपिता ॥

2.67c

नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद् बाढं क्रियते यद् अस्य रुचितं चाटूच्चकैस् तन्यते
सख्या मुग्ध-वधूर् इयं रति-विधौ यत्नेन संशिक्षिता न्रिभ्रान्तं गुरुणा पुनः शत-गुणं पुष्पेषुणा कारिता ॥

2.67d

सुभग भगवता हृद्ये तस्या ज्वलत्-स्मर-पावकेऽप्य् अभिनिवेशता प्रेमाधिक्यं चिरात् प्रकटीकृतम्
तव तु हृदये शीतेऽप्य् एवं सदैव सुखाप्तये मम सहचरी सा निःस्नेहा मनाग् अपि न स्थिता ॥

2.67e

कोऽयं विमुञ्च कुरु नाथ वचो मदीयम् आश्वासय स्मर-कृशानु-कृशां कृशाङ्गीम्
एकाकिनी कठिन-तारक-राज-कान्त्या पञ्चत्वम् आशु ननु यास्यति सा वराकी ॥

2.67f

अमुं दधेऽंशुकम् अहम् अत्र पादपे युवाम् अलं निभृतम् इहैव तिष्ठताम्
रहः-स्थयोर् इदम् अभिधाय कामिनोः स्वयं ययौ निपुण-सखी लतान्तरम् ॥

2.67g

स्फुरति यद् इदम् उच्चैर् लोचनं तन्वि वामं स्तन-तटम् अपि धत्ते चारु-रोमाञ्च-मालाम्
कलयति च यद्-अन्तः-कम्पतामूरु-काण्डं ननु वदति तद् अद्य प्रेयसा संगमं ते ॥

2.68

इत्य् आदि विविधं सख्यो व्यापारं कुर्वते सदा
योषितां मन्त्र-सर्वस्व निधान-कलशोपमाः ॥

2.69

इत्थं विरचनीयोऽयं शृङ्गारः कविभिः सदा
अनेन रहितं काव्यं प्रायो नीरसम् उच्यते ॥

2.70

इत्थं विचार्य प्रचुर-प्रयोगा न्योऽमुं निबध्नाति रसं रसज्ञः
तत्-काव्यम् आरोप्य पदं विदग्ध वक्त्रेषु विश्वं परिबम्भ्रमीति ॥

मूल पाठ: Śṛṅgāratilaka · Edition: Kavyamala (1st series), vol. III (Calcutta, 1887), pp. 111-152. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc