शृङ्गारतिलक · अध्याय 3
विकृताङ्ग-वचः-कृत्य वेषेभ्यो जायते रसः
हास्योऽयं हास-मूलत्वात् पात्र-त्रय-गतो यथा ॥
किञ्चिद्-विकसितैर् गण्डैः किञ्चिद् विस्फारितेक्षणैः
किञ्चिद्-लक्ष्य-द्विजैः सोऽयम् उत्तमानां भवेद् यथा ॥
पाणौ कङ्कणम् उत्फणः फणिपतिर् नेत्रं ज्वलत्-पावकं कण्ठः कुण्ठित-काल-कूट-कुटिलो वस्त्रं गजेन्द्राजिनम्
गौरी-लोचन-लोभनाय सुभगो वेषो वरस्येति मे गण्डोल्लास-विभावितः पशुपतेर् हासोद्गमः पातु वः ॥
मध्यमानां भवत्य् एष विवृतानन-पङ्कजः
नीचानां निपतद्-बाष्पः श्रूयमाण-ध्वनिर् यथा ॥
मुग्धे त्वं सुभगे न वेत्सि मदन-व्यापारम् अद्यापि तं नूनं ते जलजैषिणायम् अलिना दृष्टो न भर्ताधरः
सख्यैवं हसितं वधूं प्रति तथा सानन्दम् आविर्भवद् वक्त्रान्तर्गत-सीधु-वास-रसिकैर् भृङ्गैर् यथा धावितम् ॥
त्यक्त्वा गुञ्ज-फलानि मौक्तिकमयी भूषा स्तनेष्व् आहिता स्त्रीणां कष्टम् इदं कृतं सरसिजं कर्णे न बर्हि-च्छदम्
इत्थं नाथ तवारिधाम्नि शवरैर् आलोक्य चित्र-स्थितिं बास्पार्द्रीकृत-लोचनैः स्फुट-रवं दारैः समं हस्यते ॥
अस्मिन् सखी-कराघात नेत्रोल्लासाङ्ग-वर्तनम्
नासाकपोल-विस्पन्दो मुख-रागश् च जायते ॥
शोकात्मा करुणो ज्ञेयः प्रिय-भृत्य-धन-क्षयात्
तत्रेत्थं नायको दैव हतः स्याद् दुःख-भाजनम् ॥
भर्ता संगर एव मृत्यु-वसतिं प्राप्तः समं बन्धुभिर् यूनां कामम् इयं दुनोति च मनो वैधव्य-भावाद् वधूः
बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्-वैरि-सीमन्तिनी ॥
भूपातो दैव-निन्दा च रोदनं दीन-निःस्वनः
शरीर-ताडनं मोहो वैवर्ण्यं चात्र जायते ॥
क्रोधात्मको भवेद् रौद्रः प्रतिशत्रून् अमर्षतः
रक्षः-प्रायो भवेद् अत्र नायकोऽत्युग्र-विग्रहः ॥
यः प्राणापहतिः कृता मम पितुः क्षुद्रैर् युधि क्षत्रियै रामोऽहं रमणीर् विहाय बलवन् निःशेषम् एषां हठात्
भास्वत्-प्रौढ-कुठार-कोटि-घटना-काण्ड-त्रुटत्-कन्धरा स्रोतोऽन्तः-स्रुत-विस्र-शोणित-भरैः कुर्यां क्रुधां निर्वृतिम् ॥
मुखरागायुधोत्क्षेप स्वेद-कम्पाधर-ग्रहाः
शक्ति-शंसा कराघातो भ्रुकुटी चात्र जायते ॥
उत्साहात्मा भवेद् वीरो दया-दानाजि-पूर्वकः
त्रिविधो नायकस् तत्र जायते सत्त्व-संयुतः ॥
गाम्भीर्यौदार्य-सौन्दर्य शौर्य-धैर्यादि-भूषितः
आवर्जित-जनो जन्य निर्व्यूढ-प्रौढ-विक्रमः ॥
अयि विहङ्ग वराक कपोतकं विमृज धेहि धृतिं मम मेदसा
शिबिर् अहं भवता विदितो न किं सकल-सत्त्व-समुद्धरण-क्षमः ॥
सुखितोऽसि हरे नूनं भुवन-त्रय-मात्र-लब्धि-तोषेण
बलिर् अर्थितदोऽस्मि यतो न याचितः किंचिद् अप्य् अधिकम् ॥
यत्रैरावण-दन्त-तीव्र-मुसलैर् एरण्ड-काण्डायितं वज्रेणापि विकीर्ण-वह्निततिना मार्णालनालायितम्
मद्-वक्षस्य् अवलम्ब्य किंचिद् अधुना तद् विस्मृतं वज्रिणा युद्धं यद्य् अवलम्बते स तु पुनः सज्जोऽस्म्य् अहं रावणः ॥
धृति-गर्वौद्धत्य-मति-स्मृति-रोमाञ्चा भवन्ति चामुष्मिन् &
विविधा वाक्य-क्षेपाः सोत्साहामर्ष-वेगाश् च ॥
भयानको भय-स्थायि भावोऽसौ जायते रसः
शब्दादेर् विकृताद् वोढं बाल-स्त्री-नीच-नायकः ॥
श्रुत्वा तूर्य-निनादं द्वारे भय-चकित-ललित-बाहु-लतः &
धन्यस्य लगति कण्ठे मुग्ध-शिशुर् धूलि-धूसरितः ॥
प्रणय-कलह-सङ्गान् मन्युभाजा निरस्तः प्रकटित-चटु-कोटिः पाद-पद्मानतोऽपि
नव-जलधर-गर्जेर् भीतयासौ कयाचित् त्रुटित-तरल-हारं सस्वजे प्राणनाथः ॥
कम्पोपरुद्ध-सर्वाङ्गैर् गलत्-स्वेदोद-बिन्दुभिः
त्वद्-आरब्धैर् मही-नाथ वैरिभिर् वनितायितम् ॥
वैवर्ण्यम् अश्रु संत्रासो हस्त-पादादि-कम्पनम्
स्वेदास्य-शोष-दिक्-प्रेक्षा संभ्रमाश् च प्रकीर्तिताः ॥
जुगुप्सा-प्रकृतिर् ज्ञेयो बीभत्सोऽहृद्य-दर्शनात्
श्रवणात् कीर्तनाद् वापि पूत्य् आदि-विषयाद् यथा ॥
लुठत्-कृमि-कलेवरं स्रवद्-असृग्-वसावासितं विशीर्ण-शव-संतति-प्रसरद्-उग्र-गन्धान्वितम्
भ्रमत्-प्रचुर-पत्रिकं त्रिक-विवर्ति-नृत्य-क्रिया प्रवीण-गुण-कौणपं परिबभौ परेताजिरम् ॥
नासाप्रच्छादनं वक्त्र कूणनं गात्र-संवृतिः
निष्ठीवनादि चात्र स्याद् उद्वेगाद् उत्तमेष्व् अपि ॥
विस्मयात्माद्भुतो ज्ञेयो रसो रस-विचक्षणैः
मायेन्द्रजाल-दिव्य-स्त्री विपिनाद्य्-उद्भवो यथा ॥
सत्यं हृता त्वया हंस वनितानाम् इयं गतिः
भ्रमन्त्य् एतास् तथाप्य् एतद् इन्द्रजालं तद् अद्भुतम् ॥
गद्गदः साधुवादश् च स्वेदः पुलक-वेपथू
दृष्टेर् निशलतारत्वं विकासश् चात्र जायते ॥
सम्यग् ज्ञानोद्भवः शान्तः समत्वात् सर्व-जन्तुषु
गतेच्छो नायकस् तत्र तमोराग-परिक्षयात् ॥
धनम् अहरहर् दत्तं स्वीयं यथार्थितम् अर्थिने कृतम् अरिकुलं नारी-शेषं स्व-खड्ग-विजृम्भितैः
प्रणयिनि जने रागोद्रिक्ते रतिर् विहिता चिरं किम् अपरम् अतः कर्तव्यं नस् तनाव् अपि नादरः ॥
निरालम्बं मनो ह्य् अत्र बाढम् आत्मनि तिष्ठति
सुखे नेच्छा तथा दुःखेऽप्य् उद्वेगो नात्र जायते ॥
अष्टाव् अमी रसाः पूर्वं ये प्रोक्तास् तत्र निश्चितम्
प्रत्यनीकौ रसौ द्वौ द्वौ तत्-सम्पर्कं विवर्जयेत् ॥
शृङ्गार-बीभत्स-रसौ तथा वीर-भयानकौ
रौद्राद्भुतौ तथा हास्य करुणौ वैरिणौ मिथः ॥
हास्यो भवति शृङ्गारात् करुणो रौद्र-कर्मतः
अद्भुतश् च तथा वीराद् बीभत्साच् च भयानकः ॥
यौ जन्य-जनकाव् एतौ रसाव् उक्तौ मनीषिभिः
युक्त्या कृतोऽपि संभेदस् तयोर् बाढं न दुष्यति ॥
केचिद् रस-विभागेषु भावाः पूर्वं प्रदर्शिताः
स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास् ते कृतिनां मताः ॥
रत्यादय इमे भावा रसाभिप्राय-सूचकाः
पञ्चाशत्-स्थायि-संचारि सात्त्विकास् तान् निबोधत ॥
शृङ्गारादि-रसेष्व् एव भावा रत्यादयः स्मृताः
प्रत्येकं स्थैर्यतोऽन्ये च तर्यस्त्रिंशच्-चराः स्मृताः ॥
प्रायोऽनवस्थिते चित्ते भावाः संकीर्ण-संभवाः
बाहुल्येन निगद्यन्ते तथाप्य् एते यथा स्थिताः ॥
शङ्कासूया भयं ग्लानिर् व्याधिश् चिन्ता स्मृतिर् धृतिः
औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादो मदस् तथा ॥
विषादो जडता निद्रा [अ]वहित्थं चापलं स्मृतिः
इति भावाः प्रयोक्तव्या शृङ्गारे व्यभिचारिणः ॥
श्रमश् चपलता निद्रा स्वप्नो ग्लानिस् तथैव च
शङ्कासूयावहित्थं च हास्ये भावा भवन्त्य् अमी ॥
दैन्यं चिन्ता तथा ग्लानिर् निर्वेदो जडता-स्मृतिः
व्याधिश् च करुणे ज्ञेया भावा भाव-विशारदैः ॥
हर्षोऽसूया तथा गर्व उत्साहो मद एव च
चापल्यम् उग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥
अमर्षः प्रतिबोधश् च वितर्कोऽथ मतिर् धृतिः
क्रोधोऽसूयाश्रु संमोह आवेगो रोमहर्षणम् ॥
गर्वो मदस् तथोग्रत्वं भावा वीरे भवन्त्य् अमी
संत्रासो मरणं चैव वचनीयं भयानके ॥
अपस्मारो विषादश् च भयं वेगो मतिर् मदः
उन्मादश् चेति विज्ञेया भावा बीभत्स-संभवाः ॥
आवेगो जडता मोहो विस्मयो हर्षणं मतिः
इति भावान् निबध्नन्ति रसेऽस्मिन्न् अद्भुते बुधाः ॥
एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः
सात्त्विकास् तु भवन्त्य् एते सर्वे सर्व-रसाश्रयाः ॥
या नृत्य-गीत-प्रमदोपभोग वेषाङ्ग-सङ्कीर्तन-चारु-बन्धा
माधुर्य-युक्ताल्प-समास-रम्या वाणी स्मृतासाव् इह कैशिकीति ॥
शृङ्गार-हास्य-करुण रसानां परिवृद्धये
एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर् यथा ॥
सौन्दर्यं शश-लाञ्छनस्य कविभिर् मिथ्यैव तद् वर्ण्यते सौभाग्यं क्व नु पङ्कजस्य रजनी-संभोग-भग्न-त्विषः
इत्य् आलोच्य चिराय चारु रुचि-मन्त्रस्यत्-कुरङ्गी-दृशो वीक्षेते नव-यौवनोन्नत-मुखौ मन्ये स्तनावाननम् ॥
हस्तेषुः कुसुमायुधस्य ललितं राग-श्रियो लोचनं सौभाग्यैक-गृहं विलास-निकषो वैदग्ध्य-सिद्धि-ध्वजः
साक्षीदं मद-बान्धवस्य निभृतं कस्यापि लीला-निधेः कक्षान्तर्-नख-मण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥
समुल्लसत्-काञ्चन-कुण्डलोज्ज्वल प्रभापि तापाय बभूव येष्व् अलम्
विलासिनी-रम्य-मुखाम्बुजन्मसु प्रजज्वलुस् तेष्व् अकृशाः कृशानवः ॥
या चित्र-युद्ध-भ्रम-शस्त्र-पात मायेन्द्रजाल-प्लुति-लाङ्घिताढ्या
ओजस्वि-गुर्व्-अक्षर-बन्ध-गाढा ज्ञेया बुधैः सारभटीति वृत्तिः ॥
रौद्रे भयानके चैव बीभत्से च विचक्षणैः
काव्य-शोभाकरी वृत्तिर् इयम् इत्थं प्रयुज्यते ॥
शस्त्रोद्दारित-कुम्भि-कुम्भ-विगलद्-रक्ताक्त-मुक्ता-फलं स्फार-स्फूर्जित-कान्ति-कल्पित-बृहच्-चञ्चच्-चतुष्कायितम्
क्रोधोद्धावित-धीर-धोरण-लसअत्-खड्गाग्रम् उग्राग्रहं युद्धं सिद्ध-वधू-गृहीत-सुभटं जातं तदा दुर्धरम् ॥
नायं गर्जि-रवो गभीर-परुषं तूर्यं तदीयं त्व् इदं नैते भीम-भुजङ्ग-भोग-रुचयो मेघा इमे तद्-रजाः
इत्थं नाथ नवाम्बु-वाह-समये त्वत्-सैन्य-शङ्काकुला म्लायद्-वक्त्र-रुचो विरोधि-वनितास्त्रस्यन्ति नश्यन्ति च ॥
पिबन्न् असृक् स्वदन् मांसम् आकर्षन्न् अन्त्र-मालिकाम्
कबन्ध-सङ्कुले क्रोष्टा भ्रमत्य् एष महा-रणे ॥
हर्ष-प्रधानाधिक-सत्त्व-वृत्तिस् त्यागोत्तरोदार-वचो-मनोज्ञा
आश्चर्य-संपत्-सुभगा च या स्यात् सा सात्वती नाम मतात्र वृत्तिः ॥
नातिगूढार्थ-संपत्तिः श्रव्य-शब्द-मनोरमा
वीरे रौद्रेऽद्भुते शान्ते वृत्तिर् एषा मता यथा ॥
लक्ष्म्यास् त्वं जनको निधिश् च पयसां निःशेष-रत्नाकरो मर्यादा-निरतस् त्वम् एव जलधे ब्रूतेऽत्र कोऽन्यादृशम्
किं त्व् एकस्य गृहं गतस्य बडवा-वह्नेः सदा तृष्णया क्लान्तस्योदर-पूरणेऽपि न सहो यत् तन् मनाङ् मध्यमम् ॥
स्फारितोत्कट-कठोर-तारकाकीर्ण- वह्नि-कण-संततिः क्रुधा &
दुर्निमित्त-तडिद्-आकृतिर् बभौ दृष्टिर् इष्ट-समरांशु-मालिनः ॥
अत्यद्भुतं नराधिप तव कीर्तिर् धवलयन्त्य् अपि जगन्ति &
रक्तान् करोति सुहृदो मलिनयति च वैरि-वदनानि ॥
निवृत्त-विषयासङ्ग मधुना सुचिराय मे
आत्मन्य् एव समाधानं मनः केवलम् इच्छति ॥
प्रधान-पुरुष-प्राया सद्-वक्रोक्ति-निरन्तरा
भारतीयं भवेद् वृत्तिर् वीरहास्याद्भुताश्रया ॥
जन्म-देह-वध-बन्धनादिकं तुल्यम् एतद् इतरैः समं सताम्
यत् तथापि विपुलाचलाः श्रियः साहसैक-परतात्र कारणम् ॥
यशोदाकृत-रक्षस्य शासितुर् भुवन-द्रुहाम्
बाल्ये निभृत-गम्भीरो हरेर् हासः पुनातु वः ॥
निर्भयोऽप्य् एष भूपालस् तद् ददाति द्विषां युधि
असत् तेषु यशः शुभ्रम् आदत्ते चेदम् अद्भुतम् ॥
इत्य् आदि रम्याः प्रविलोक्य वृत्तीर् दृष्ट्वा निबन्धांश् च महा-कवीनाम्
आलोक्य वैचित्र्यम् इदं विदध्यात् काव्यं कविः सज्जन-चित्त-चौरम् ॥
विरसं प्रत्यनीकं च दुःसन्धान-रसं तथा
नीरसं पात्र-दुष्टं च काव्यं सद्भिर् न शस्यते ॥
विहाय जननी-मृत्यु शोकं मुग्धे मया सह
यौवनं मानय स्पष्टम् इत्यादि विरसं मतम् ॥
प्रबन्धे नीयते यत्र रस एको निरन्तरम्
महतीं वृद्धिम् इच्छन्ति नीरसं तच् च केचन ॥
नख-क्षतोच्छलत्-पूति प्लुत-गण्ड-स्थलं रतौ
पिबामि वदनं तस्याः प्रत्यनीकं तद् उच्यते ॥
ताम् एवानुचितां गच्छ ज्वलिता त्वत्-कृते तु या
किं ते कृत्यं मया धूर्त दुःसन्धान-रसं त्व् इदम् ॥
दुर्जनो दयितः कामं मनो म्लानं मनोभवः
कृशो वियोग-तप्तायास् तस्या इत्य् आदि नीरसम् ॥
मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ
कुल-स्त्री सर्वदा धृष्टा पात्र-दुष्टं त्व् इदं मतम् ॥
अन्येष्व् अपि रसेष्व् एते दोषा वर्ज्या मनीषिभिः
यत् सम्पर्कान् न यात्य् एव काव्यं रस-परम्पराम् ॥
इति मया कथितेन पथामुना रस-विशेषम् अशेषम् उपेयुषा
ललित-पादपदासदलङ्कृतिः कृत-धियाम् इह वाग्वनितायते ॥
शृङ्गार-तिलको नाम ग्रन्थोऽयं ग्रथितो मया
व्युत्पत्तये निषेवन्तु कवयः कामिनश् च ये ॥
कान्या काव्य-कथा कीदृग् वैदग्धी को रसागमः
किं गोष्ठी-मण्डनं हन्त शृङ्गार-तिलकं विना ॥
त्रिपुर-वधाद् एव गताम् उल्लासम् उमां समस्त-देव-नताम् &
शृङ्गार-तिलक-विधिना पुनर् अपि रुद्रः प्रसादयति ॥
मूल पाठ: Śṛṅgāratilaka · Edition: Kavyamala (1st series), vol. III (Calcutta, 1887), pp. 111-152. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0