भाषा

ENहिગુ
ग्रंथ पाठ

शृङ्गारतिलक · अध्याय 1

1.1

शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिर् उत्फणी च भय-कृन् मूर्त्याद्भुतस् तुङ्गया
रौद्रो दक्ष-विमर्दने च हसकृन् नग्नः प्रशान्तश् चिराद् इत्थं सर्व-रसाश्रयः पशुपतिर् भूयात् सतां भूतये ॥

1.2

आख्यात-नाम-रचना-चतुरस्र-सन्धि सद्-वाग्-अलङ्कृति-गुणं सरसं सुवृत्तम्
आसेदुषाम् अपि दिवं कवि-पुङ्गवानां तिष्ठत्य् अखण्डम् इह काव्य-मयं शरीरम् ॥

1.3

काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः कश्चिद् गुणो भवति यद्यपि सम्प्रतीह
कृपां तथापि सुजनार्थम् इदं यतः किं यूकाभयेन परिधान-विमोक्षणं स्यात् ॥

1.4

सानन्द-प्रमदा-कटाक्ष-विशिखैर् येषां न भिन्नं मनो यैः संसार-समुद्र-पात-विधुर् एष्व् अन्येषु पोतयितम्
यैर् निःसीम-सरस्वती-विलसितं द्वित्रैः पदैः संहृतं तेषाम् अप्य् उपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥

1.5

प्रायो नाट्यं प्रति प्रोक्ता भरताद्यै रस-स्थितिः
यथामति मयाप्य् एषा काव्यं प्रति निगद्यते ॥

1.6

यामिनीवेन्दुना मुक्ता नारीव रमणं विना
लक्ष्मीर् इव ऋते त्यागान् नो वाणी भाति नीरसा ॥

1.7

सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश् चातुरी स्वे हर्म्ये कुल-कन्यकेव लभते जातैर् गुणैर् गौरवम्
दुष्प्रापः स तु कोऽपि कोविद-पतिर् यद् वाग्-रस-ग्राहिणां पुण्य-स्त्रीव कलाकलाप-कुशला चेतांसि हर्तुं क्षमा ॥

1.8

तस्माद् यत्नेन कर्तव्यं काव्यं रस-निरन्तरम्
अन्यथा शास्त्र-विद् गोष्ठ्यां तत् स्याद् उद्वेग-दायकम् ॥

1.9

शृङ्गार-हास्य-करुणा रौद्र-वीर-भयानकाः
बीभत्साद्भुत-शान्ताश् च नव काव्ये रसाः स्मृताः ॥

1.10

रतिर् हासश् च शोकश् च क्रोधोत्साहौ भयं तथा
जुगुप्साविस्मय-शमाः स्थायि-भावाः प्रकीर्तिताः ॥

1.11

निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः
आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥

1.12

व्रीडा चपलता हर्ष आवेगो जडता तथा
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥

1.13

सुप्तं प्रबोधोऽमर्षश् चाप्य् अवहित्था तथोग्रता
मतिर् व्याधिस् तथोन्मादस् तथा मरणम् एव च ॥

1.14

त्रासश् चैव वितर्कश् च विज्ञेया व्यभिचारिणः
त्रयस्त्रिंशद् इमे भावाः प्रयान्ति च रस-स्थितिम् ॥

1.15

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर-भङ्गोऽथ वेपथुः
वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥

1.16

भावा एवातिसम्पन्नाः प्रयान्ति रसताम् अमी
यथा द्रव्याणि भिन्नानि मधुरादि-रसात्मनाम् ॥

1.17

सम्भवन्ति यथा वृक्षे पुष्प-पत्र-फलादयः
तद्वद् रसेऽपि रुचिरा विशेषा भाव-रूपिणः ॥

1.18

प्रायो नैकरसं काव्यं किञ्चिद् अत्रोपलभ्यते
बाहुल्येन भवेद् यस् तु स तद्-वृत्त्या निगद्यते ॥

1.19

कैशिक्य्-आरभटी चैव सात्वती भारती तथा
चतस्रो वृत्तयो ज्ञेया रसावस्थान-सूचकाः ॥

1.20

धर्माद् अर्थोऽर्थतः कामः कामात् सुख-फलोदयः
साधीयान् एष तत्-सिद्ध्यै शृङ्गारो नायको रसः ॥

1.21

चेष्टा भवति पुं-नार्योर् या रत्य्-उत्थातिरिक्तयोः
संयोगो विप्रलम्भश् च शृङ्गारो द्विविधो मतः ॥

1.22

संयुक्त्योश् च संयोगो विप्रलम्भो वियुक्तयोः
प्रच्छन्नश् च प्रकाशश् च पुनर् एष द्विधा यथा ॥

1.22a

मदन-कुञ्जर-कुम्भ-तटोपमे स्तन-युगे परितः स्फुरिताङ्गुलिम्
सकरज-क्षत-वामम् अपि प्रिया दयित-पाणिम् अमन्यत दक्षिणम् ॥

1.22b

सन्तप्तः स्म्र-संनिवेश-विवशैः श्वासैर् मुहुः पञ्चमो द्गारावर्तिभिर् आपतद्भिर् अभितः सिक्तश् च नेत्राम्बुभिः
एतस्याः प्रिय-विप्रयोग-विधुरस् त्यक्त्वाधरो रागितां सम्प्रत्य् उद्धत-वह्नि-वारि-विषमं मन्ये व्रतं सेवते ॥

1.22c

कान्ते विचित्र-सुरत-क्रम-बद्ध-राग् सङ्केतकेऽपि मृग-शावक-लोचनायाः
तत्-कूजितं किम् अपि येन तदीय-तल्पं नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥

1.22d

किञ्चिद् वक्रित-कण्ठ-कन्दल-दलत्-पीन-स्तनावर्तन व्यायां चित-कञ्चुकं मृग-दृशस् तस्यास् तद्-आलोकितम्
वाचस् ताश् च विदग्ध-भाव-चतुराः स्फारीभवन् मन्मथा हंहो मानस किं स्मरस्य् अभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥

1.23

त्यागी कुलीनः कुशलो रतेषु कल्पः कलावित् तरुणो धनाढ्यः
भव्यः क्षमावान् सुभगोऽभिमानी स्त्रीणाम् अभीष्टस् त्व् इह नायकः स्यात् ॥

1.24

तस्यानुकूल-दक्षिण-शठ-धृष्टा इत्थम् अत्र चत्वारः &
भेदाः क्रिययोच्यन्ते तद्-उदाहृतयश् रमणीयाः ॥

1.25

अतिरक्ततया नार्या सदा त्यक्त-पराङ्गनः &
सीतायां रामवत् सोऽयम् अनुकूलः स्मृतो यथा ॥

1.25a

अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्त्रा गतिर् उद्धतं न हसितं नैवास्ति कश्चिन् मदः
किं त्व् अन्येऽपि जना वदन्ति सुभगोऽप्य् अस्याः प्रियो नान्यतो दृष्टिं निःक्षिपतीति विश्वम् इयता मन्यामहे दुःखितम् ॥

1.26

यो गौरवं भयं प्रेम सद्-भावं पूर्व-योषिति
न मुञ्चत्य् अन्य-चित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥

1.26a

सैवास्य प्रणतिस् तद् एव वचनं ता एव केलि-क्रिया भीतिः सैव तद् एव नर्म-मधुरं पूर्वानुरागोचितम्
कान्तस्याप्रिय-कारिणीति भवती तं वक्ति दोषाबिलं किं स्याद् इत्थम् अहर्निशं सखि मनो दोलायते चिन्तया ॥

1.27

प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम्
ज्ञातापराध-चेष्टश् च कुटिलोऽसौ शठो यथा ॥

1.27a

सहज-तरले आवां तावद्-बहु-श्रुति-शालिनौ पुनर् इह युवां सत्यं शिष्टं तद् अत्र कृतागसि
प्रणयिनि पुनर् युक्तं रन्तुं न वेति बतावयो र्ध्रुवम् उपगते कर्णौ प्रष्टुं कुरङ्ग-दृशौ दृशौ ॥

1.27b

कोपात् किञ्चिद् उपानतोऽपि रभसाद् आकृष्य केशेष्व् अलं नीत्वा मोहन-मन्दिरं दयितया हारेण बह्वा दृढम्
भूयो यास्यसि तद्-गृहान् इति मुहुः कण्ठारुद्धाक्षरं जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद् रहस् ताड्यते ॥

1.28

निःशङ्कः कृत-दोषोऽपि विलक्षस् तर्जितोऽपि नो
मिथ्या-वाग्-दृष्ट-दोषोऽपि धृष्टोऽसौ कथितो यथा ॥

1.28a

जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं मृद्-गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन्
आलीनां पुरतो दधाति शिरसा पाद-प्रहारांस् ततो नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥

1.28b

धिक् त्वाम् धूर्त गत-त्रप प्रणयिनी सैव त्वयाराध्यता यस्याः पाद-तलाहतिं तव हृदि व्याख्यात्य् असौ यावकः
इत्य् उक्तोऽपि न नाम मुञ्चति यदा पादाव् अयं दुर्जनो मिथ्यावाद-विचक्षणः किम् अपरं कुर्यां वयस्ये तदा ॥

1.29

गूढ-मन्त्रः शुचिर् वाग्मी भक्तो नर्म-विचक्षणः
स्यान् नर्म-सचिवस् तस्य कुपितस्-स्त्री-प्रसादकः ॥

1.30

पीठ-मर्दो विटश् चेति विदूषक इति त्रिधा
स भवेत् प्रथमस् तत्र नायिका-नायकानुगः ॥

1.31

एकविद्यो विटः प्रोक्तः क्रीडा-प्रायो विदूषकः
स्व-वपुर्-वेष-भाषाभिर् हास्यकारी च नर्मवित् ॥

1.32

एषां प्रबन्ध-विषयो व्यवहारः प्रायशो भवेत् प्रचुरः &
प्रत्येकम् उदाहृतस् तथापि काश्चिन् निगद्यन्ते ॥

1.32a

विमुञ्चामुं मानं सफलय वचः साधु सुहृदां मुधा सन्तापेन ग्लपयसि किम् अङ्गं स्मर-भुवा
प्रियं पाद-प्रान्त-प्रणतम् अधुना मानय भृशं न मुग्धे प्रेत्येतुं प्रभवति गतः काल-हरिणः ॥

1.32b

प्रणयिनि भृशं तस्मिन् मानं मनस्विनि मा कृथाः किम् अपरम् इतो युक्तायुक्तैर् विना ह्य् अमुना तव
अयम् अपि भवेत् सम्प्रत्य् अपि क्षयानल-संनिभः सरस-विसिनी-कन्द-च्छेद-च्छविर् मृग-लाञ्छनः ॥

1.32c

दूरात् कन्दलितैर् हृदि प्रविततैः कण्ठे लुठद्भिर् हठा वक्त्रे सङ्कट-नासिका-तरलितैर् निर्यद्भिर् अत्यूष्मभिः
निःश्वासैः पृथु-मन्मथोत्थ-दवथुर् व्यक्तं तवावेदितो म्थ्यालम्बित-सौष्ठवेन किम् अतः कोपेन कान्तं प्रति ॥

1.33

स्वकीया परकीया च सामान्य-वनिता तथा
कलाकलाप-कुशलास् तिस्रस् तस्येह नायिकाः ॥

1.34

पौराचाररता साध्वी क्षमार्जव-विभूषिता
मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥

1.35

मुग्धा नव-वधूस् तत्र नव-यौवन-भूषिता
नवानङ्ग-रहस्यापि लज्जा-प्राय-रतिर् यथा ॥

1.35a

गतं कर्णाभ्यर्णे प्रसरति तथाप्य् अक्षि-युगलं कुचौ कुम्भारम्भौ तद् अपि चिबुकोत्तम्भन-रुची
नितम्ब-प्राग्-भारो गुरुर् अपि गुरुत्वं मृगयते कथंचिन् नो तृप्तिस् तरुणिमनि मन्ये मृग-दृशः ॥

1.35b

यथा रोमाञ्चोऽयं स्तन-भुवि लसत्-स्वेद-कणिको यथा दृष्टिस् तिर्यक् पतति सहसा सङ्कुचति च
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादित-रसं न मध्यस्थं चेतः प्रगुण-रमणीयं न च दृढम् ॥

1.35c

विरम नाथ विमुञ्च ममाञ्चलं शमय दीपम् इयं समया सखी
इति नवोढ-वधू-वचसा युवा मुदम् अगाद् अधिकां सुअरताद् अपि ॥

1.36

स-कम्पा चुम्बने वक्त्रं हरत्य् एषोपगूहिता
परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥

1.36a

अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पते च प्रकामम्
वदति च यद् अलक्ष्यं किञ्चिद् उक्तापि भूयो रमयति सुतरां तच्-चित्तम् अन्तर् नवोढा ॥

1.37

मुग्धाम् आवर्जयत्य् एष मृदूपायेन सान्त्वयन्
नातिभीतिकरैर् भावऐर् निबन्धैर् बाल-भीषकैः ॥

1.37a

सरति सरस्-तीराद् एषा भ्रमद्-भ्रमरावली सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया
इति निगदिते किञ्चिद् भीत्या विवर्तित-कन्धरा वदन-कमले भर्त्रा बाला चिरं परिचुम्बिता ॥

1.38

अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये
रोदित्य् अस्याग्रतः स्वल्पम् अनुनीता च तुष्यति ॥

1.38a

मन्यौ कृते प्रथमम् एव विकारम् अन्यं नो जानती नव-वधू रुदती परं सा
धूर्तेन लोचन-जलं परिमृज्य गाढं संचुम्ब्य चाधर-दले गमिता प्रसादम् ॥

1.39

आरूढ-यौवना मध्या प्रादुभूत-मनोभवा
प्रगल्भ-वचना किञ्चिद् विचित्र-सुरता यथा ॥

1.39a

तरत्-तारं चक्षुः क्षपयति मुनीनाम् अपि दृशः कुच-द्वन्द्वाक्रान्तं हृदयम् अहृदः कान्न कुरुते
गतिर् मन्दीभूता हरति गमनं मन्मथवता महो तन्व्यास् तुल्यं तरुणिमनि सर्वं विजयते ॥

1.39b

दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्य-भाजो गिरः पाणिः कुन्तल-मालिका-विरचने त्यक्तान्य-कार्य-ग्रहः
वक्षः संव्रियते पुनः पुनर् इदं भारालसं गम्यते जाता सुभ्रु मनोरमा तव दशा कस्माद् अकस्माद् इयम् ॥

1.39c

सुभग कुरवकस् त्वं नो किम् आलिङ्गनोक्तिः किम् उ मुखमदिरेच्छुः केसरो नो हृदिस्थः
त्वयि नियतम् अशोके युज्यते पादघातः प्रियम् इति परिहासात् पेशलं काचिद् ऊचे ॥

1.39d

कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या चातुर्यम् उद्धत-मनोभवया रतेषु
तत्-कूजितान्य् अनुवदद्भिर् अनेक-वारं शिष्यायितं गृह-कपोत-शतैर् यथास्याः ॥

1.40

गाढं व्याप्रियते कान्तं इबतीव रताव् इयम्
विशतीव तद्-अङ्गेषु मुह्यतीव सुखे यथा ॥

1.40a

कृत्वानेक-विधां रसेन सुरते केलिं कथञ्चिच् चिरा त्प्राप्तान्तः सुख-मीलिताक्षि-युगला स्विद्यत् कपोल-स्थली
सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज द्गाढानङ्ग-विमर्द-निःसह-वपुर्-निद्रां सहैवागतः ॥

1.41

सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात् कृतागसम्
मध्या रोदित्य् उपालम्भैर् अधीरा परुषं यथा ॥

1.41a

उपेत्य तां दृढ-परिरम्भ-लालस श्चिराद् अभूः प्रमुपित-चारु-चन्दनः
धृताञ्जनः सपदि तद्-अक्षि-चुम्बना दिहैव ते प्रिय विदिता कृतार्थता ॥

1.41b

यत्रार्कायितम् इन्दुना सरसिजैर् अङ्गार-पुञ्जायितं क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैर् अलातायितम्
कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना धिक् त्वां धूर्त विनिर्यद्-अश्रुर् अबला मोहं रुदन्ती गता ॥

1.41c

सार्धं मनोरथ-शतैस् तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम-भाव-रम्या
अस्माकम् अस्ति न हि कश्चिद् इहावकाशस् तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥

1.42

लब्धायतिः प्रगल्भा स्यात् समस्त-रति-कोविदा
आक्रान्त-नायिका बाढं विराजद्-विभ्रमा यथा ॥

1.42a

सेयं परङ्गिनी मृणाल-लतिकाम् आदाय यस्याः प्रियो हारं मे कुरुते पयोधर-तटे प्रत्यग्र-तारा-रुचम्
बन्धूकं च तद् एतद् आलि विदलद् यत् तेन सीमन्तितं सर्वाशा-विजिगीषु-पुष्प-धनुषो बाण-श्रियं धास्यति ॥

1.42b

यत्र स्वेद-लवैर् अलं व्लुलितैर् व्यालुप्यते चन्दनं स्वच्छन्दैर् मणितैश् च यत्र रणितं निह्नूयते नूपुरम्
यत्रायान्त्य् अचिरेण सर्व-विषयाः कामं तद्-एकाग्रतां सख्यस् तत्-सुरतं भणामि रतये शेषा तु लोक-स्थितिः ॥

1.42c

स्वामिन् भङ्गुरयालकं स-तिलकं भालं विलासिन् कुरु प्राणेश त्रुटितं पयोधर-तटे हारं पुनर् योजय
इत्य् उक्त्वा सुरतावसान-सुखिता सम्पूर्ण-चद्न्रानना स्पृष्टा तेन तथेति जात-पुलका प्राप्ता पुनर् मोहनम् ॥

1.42d

मधुर-वचनैः स-भ्रू-भङ्गैः कृताङ्गुलि-तर्जनै रलस-वलितैर् अङ्ग-न्यासैर् महोत्सव-बन्धुभिः
असकृद् असकृत् स्फार-स्फारैर् अपाङ्ग-विलोकितै स्त्रिभुवन-जये सा पञ्चेषोः करोति सहायताम् ॥

1.43

निराकुला रताव् एषा द्रवतीव प्रियाङ्गके
कोऽयं कास्मि रतं किं वा न वेत्ति च रसाद् यथा ॥

1.43a

धन्यास् ताः सखि योषितः प्रियतमे सर्वाङ्ग-लग्नेऽपि याः प्रागल्भ्यं प्रथयन्ति मोहन-विधाव् आलम्ब्य धैर्यं महत्
अस्माकं तु तदीय-पाणि-कमलेऽप्य् उन्मोचयत्य् अंशुकं कोऽयं का वयम् अत्र किं नु सुरतं नैव स्मृतिर् जायते ॥

1.44

कृत-दोषेऽपि साधीरा तस्मिन् नाद्रियते रुषा
आकार-संवृतिं चापि कृत्वोदास्ते रतौ यथा ॥

1.44a

यद् वाचः प्रचुरोपचार-चतुरा यत् सादरं दूरतः प्रत्युत्थानम् इदं स्वहस्त-निहितं यद्-भिन्नम् अप्य् आसनम्
उत्पश्यामि यद् एवम् एव च मुहुर् दृष्टिं सखी-संमुखीं तच् छङ्के तव पङ्कजाक्षि बलवान् कोऽप्य् अप्रसादो मयि ॥

1.44b

यत् पाणिर् न निवारितो निवसन-ग्रन्थिं सौमुद्ग्रन्थय न्भ्रू-भेदो न कृतो मनाग् अपि मुहुर् यत्-खण्ड्यमानेऽधरे
यन् निःशङ्कम् इवार्पितं वपुर् अहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूल-विधिना तेनैव मन्युर् महान् ॥

1.45

मध्या प्रतिभिनत्त्य् एनं सोल्लुण्ठं साधु-भाषितैः
अधीरा पुरुषैर् हन्ति सन्तर्ज्य दयितं यथा ॥

1.45a

कृतं मिथ्या-जल्पैर् विरम विदितं कामुक चिरात् प्रियां ताम् एवोच्चैर् अभिसर यदीयैर् नख-पदैः
विलासैश् च प्राप्तं तव हृदि पदं रग-बहुलैर् मया किं ते कृत्यं ध्रुवम् अकुटिलाचार-परया ॥

1.45b

सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च
आलीनां पुर एव निह्नुति-परः कोपाद् रणन्-नूपुरं मानिन्या चरण-प्रहार-विधिना प्रेयान् अशोकीकृतः ॥

1.46

एकाकारा मता मुग्धा पुनर्भूश् च यतोऽनयोः
अतिसूक्ष्मतया भेदः कविभिर् न प्रदर्शितः ॥

1.47

मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते
एका ज्येष्ठा कनिष्ठान्या नायक-प्रणयं प्रति ॥

1.48

उपरोधात् तथा स्नेहात् सानुरागोऽपि नायकः
चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥

1.48a

त्वद्-अक्षिणी कुवलय-बुद्धिर् अत्यली रुणध्म्य् अहं तद् इति निमीय लोचने
ततो भृशं पुलकित-गण्ड-मण्डलां युवा परां निभृतम् अचुम्बद् अङ्गनाम् ॥

1.49

सम्पत्तौ च विपत्तौ च मरणेऽपि न मुञ्चति
या स्वीया तां प्रति प्रेम जायते पुण्य-कारिणः ॥

1.50

अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये
दर्शनाच् छ्रवणाद् वापि कामार्ते भवतो यथा ॥

1.50a

किम् अपि ललितैः स्निग्धैः किञ्चित् किम् अप्य् अतिकुञ्चितैः किम् अपि वलितैः कन्दर्पेषून् हसद्भिर् इवेक्षणैः
अभिमत-मुखं वीक्षां चक्रे नवाङ्गनया तथा ललित-कुशलोऽप्य् आलीलोको यथातिविसिस्मये ॥

1.50b

निशमय्य बहिर् मनोहरं स्वरम् ऐक्षिष्ट तथापरा या &
तिल-मात्रकम् अप्य् अभून् नहि श्रवेणेन्दीवर-लोचनानन्तरम् ॥

1.50c

कस्याश्चित् सुभग इति श्रुतश् चिरं यस् तं दृष्ट्वाधिगत-रतेर् निर्मीलिताक्ष्याः
निस्पन्दं वपुर् अवलोक्य सौविदल्लाः सन्तेपुर् विधुरधियो निशान्त-वध्वाः ॥

1.50d

कार्श्य-जागर-तापान्यः करोति श्रुतोऽप्य् अलम्
तम् एव दुर्लभं कान्तं चेतः कस्माद् दिदृक्षसे ॥

1.51

साक्षाच् चित्रे तथा स्वप्ने तस्य स्याद् दर्शनं त्रिधा
देशे काले च भङ्ग्या च श्रवणं चास्य तद् यथा ॥

1.51a

सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन व्यापारोच्छलद्-अच्छ-मोहन-जला जायन्त एणीदृशः
प्रेयान् कोऽप्य् अपरोऽयम् अत्र सुकृती दृष्टेऽपि यस्मिन् वपुः स्वेदोज्जृम्भण-कम्प-साध्वस-मुखैः प्राप्नोति काञ्चिद् दृशाम् ॥

1.51b

चित्रं चित्र-गतोऽप्य् एष ममालि मदनोपमः
समुन्मूल्य बलाल् लज्जाम् उत्कण्ठयति मानसम् ॥

1.51c

मुग्धा स्वप्न-समागते प्रियतमे तत्-पाणि-संस्पर्शना द्रोमाञ्चार्चितया शरीर-लतया संसूच्य कोपात् किल
मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता सचिन्तम् असकृत् संशोचिता प्रत्युत ॥

1.51d

स्फार-स्फुरत्-प्रदीपं सौधं मधु सोत्पलं कलं गीतम्
प्रिय-सखि सकलम् इदं तव सफलं खलु यदि भवेत् सोऽत्र ॥

1.51e

विकसति कैरव-निकरे सरति च सरसी-समीरणो सुतनु &
चम्बत्य् अम्बरम् इन्दौ तव तेन विना रतिः कीदृक् ॥

1.51f

अजननिर् अस्तु दृशोस् तव कुचयोर् अभव-निरलं भवतु &
यदि दृश्यते न स युवा निर्भरम् आलिङ्ग्यते नो वा ॥

1.52

द्रष्टुं वक्तुं च नो कन्या रक्ता शक्नोत्य् अमुं स्फुटम्
पश्यन्तम् अभिजल्पन्तं विविक्तेऽपि ह्रिया यथा ॥

1.52a

कामं न पश्यति दिदृक्षत एव भूम्ना नोक्तापि जल्पति विवक्षति चादरेण
लज्जा-स्मर-व्यतिकरेण मनोऽधिनाथे बाला रसान्तरम् इदं ललितं बिभर्ति ॥

1.53

विज्ञात-नायिका-चित्ता सखी वदति नायकम्
नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥

1.53a

कण्टकित-तनु-शरीरा लज्जा-मुकुलायमान-नयनेयम् &
तव कुमुदिनीव वाञ्छति नृ-चन्द्र बाला कर-स्पृशम् ॥

1.53b

सन्तापयन्ति शिशिरांशु-रुचो यद् एते संमोहयन्ति च विनिद्र-सरोज-वाताः
यत् खिद्यते तनुर् इयं च तद् एष दोषः सख्यास् तवैव सुतनु प्रचुर-त्रपायाः ॥

1.54

अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्ष्यते
दूराद् आलोकयत्य् एव सखीं स्वजनि निर्भरम् ॥

1.55

निर्निमित्तं हसन्ती च सखीं वदति किंचन
सव्याजं सुन्दरं किञ्चिद् गात्रम् आविष्करोति च ॥

1.56

सख्यादि स्थापितां मालां काञ्च्यादि रचयेत् पुनः
चेष्टां च कुरुते रम्याम् अङ्ग-भङ्गैः शुभैर् यथा ॥

1.56a

अभिमुख-गते यस्मिन्न् एव प्रिये बहुशो वद त्यवनत-मुखं तूष्णीम् एव स्थितं मृग-नेत्रया
अथ किल वलल्-लीलालोकं स एष तथेक्षितः कथम् अपि यथा दृष्टा मन्ये कृतं श्रुति-लङ्घनम् ॥

1.56b

तिर्यग्-वर्तित-गात्र-यष्टि-विषमोद्वृत्त-स्तनास्फालन त्रुट्यन्-मौक्तिक-मालया स-पुलक-स्वेदोल्लसद्-गण्डया
दूराद् एव विलोकयेत्य् अभिमते तद् वक्त्र-दत्तेक्षणं दुर्वार-स्मरया तया सहचरी गाढं समालिङ्गिता ॥

1.56c

अनिमित्तं यद् विहसति निष्कारणम् एव यत् सखीं वदति &
दयितं विलोक्य तद् इयं शंसति तद् अधीनम् आत्मानम् ॥

1.56d

प्रादुष्यद्-रुज-मूल-कान्ति-ललिताम् उद्यम्य दोर्-वल्लरीं वल्गत्-पीन-पयोधर-स्थल-लुलन्-मुक्तावली-सुन्दरम्
अङ्गुल्या प्रचलत्-कराग्र-वलय-स्वानोपहूत-स्मरं तन्व्याः कुञ्चित-लोचनं विजयते तत्-कर्ण-कण्डूयनम् ॥

1.57

स्रहोऽवतंसं रशनां च किञ्चि प्रियं समालोक्य समासजन्ती
पुनस्तरां सा सुहृदो ददाति प्रत्यङ्गम् आवासम् इव स्मरस्य ॥

1.57a

व्याजृम्भणोन्नमित-दन्त-मयूख-जाल व्यालम्बि-मौक्तिक-गुणं रमणे मुदेव
ऊर्ध्वं मिलद्-भुज-लता-वलय-प्रपञ्च सत्-तोरणं हृदि विशत्य् अपरा व्युदासे ॥

1.58

अन्योढापि करोत्य् एव सर्वम् उद्धत-मन्मथा
दुरवस्था पुनः कान्तम् अभियुङ्क्ते स्वयं यथा ॥

1.a

उल्लङ्घ्याॡ सखी-वचः समुचिताम् उत्सृज्य लज्जाम् अलं हित्वा भीतिभरं निरस्य च निजं सौभाग्य-गर्वं मनाक्
आज्ञां केवलम् एव मन्मथ-गुरोर् आदाय नूनं मया त्वं निःशेष-विलासि-वर्ग-गणना-चूडामणे संश्रितः ॥

1.59

चक्षुर् मीलति सानन्दं नितम्बः प्रस्रवत्य् अपि
वेपते च तनुस् तन्वी तस्यास् तद्-दर्शने यथा ॥

1.59a

मीलन् मन्थर-चक्षुषा परिपतत् काञ्ची-ग्रह-व्यग्रया गाडानन्ङ्ग-भर-स्रवत्रवनया कम्पोपरुद्धाङ्गया
सर्वाङ्गं चटुकारकोऽप्य् अबलया सङ्केतके कौतुका दास्तां रन्तुम् अहो निरीक्षितुम् अपि प्रेयान् न सम्भावितः ॥

1.60

नाभियुङ्क्ते स्वयं कन्त्या मुग्धत्वाद् दुःस्थितापि तम्
तद्-अवस्थां तु कान्ताय तत्-सखी कथयेद् यथा ॥

1.60a

निःश्वासेषु स्खलति कदली-बीजनं ताप-सम्प न्नेत्राम्भोभिश् छम् इति पतितैः सिच्यते च स्तनान्तः
तस्याः किञ्चित् सुभग तद् अभूत् तानवं त्वद्-वियोगे येनाकस्माद् वलय-पदवीम् अङ्गुलीयं प्रयाति ॥

1.61

अनन्य-शरणा स्वीया धनाहार्या पराङ्गना
अस्यास् तु केवलं प्रेम तेनैषा रागिणां मता ॥

1.62

सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छति
निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्य् अपि ॥

1.63

तत्-स्वरूपम् इदं प्रोक्तं कैश्चिद् ब्रूमो वयं पुनः
वर्णयन्त्य् अनया युक्त्या तासाम् अप्य् अनुरागिताम् ॥

1.64

शृङ्गाराभास एतासु न शृङ्गारः कदाचन
तद्-व्यापारोऽथवा तासां स्मरः किं भक्षितो बकैः ॥

1.65

तस्मात् तासाम् अपि क्वापि रागः स्यात् किं नु सर्वथा
धनार्थं कृत्रिमैर् भावैर् ग्राम्यं व्यामोहयन्ति ताः ॥

1.66

लिङ्गी प्रच्छन्न-कामश् च नरंमन्यश् च षण्डकः
सुख-प्राप्त-धनो मूर्खः पितृ-वित्तेन गर्वितः ॥

1.67

इत्य् आदीन् प्रथमं ग्राम्यान् ज्ञात्वाकृष्य च तद्-धनम्
अपूर्वा इव मुञ्चन्ति तान् एतास् तापयन्ति च ॥

1.68

किन्तु तासां कलाकेलि कुशलानां मनोरमम्
विस्मारितापर-स्त्रीकं सुरतं जायते यथा ॥

1.68a

गाढालिङ्गन-पीडित-स्तन-तटं स्विद्यत्-कपोल-स्थलं सन्दष्टाधर-मुक्त-सीत्कृतम् अतिभ्राम्यद्-भ्रु-नृत्यत्-करम्
चाटु-प्राय-वचो-विचित्र-भणितैर् यातै रुतैश् चाङ्कितं वेश्यानां धृति-धाम पुष्प-धनुषः प्राप्नोति धन्यो रतम् ॥

1.69

ईर्ष्या कुल-स्त्रीषु न नायकस्य निःशङ्क-केलिर् न पराङ्गनासु
वेश्यासु चैतद् द्वितयं प्ररूढं सर्वस्वम् एतास् तद् अहो स्मरस्य ॥

1.70

कुप्यत् पिनाकि-नेत्राग्नि ज्वाला-भस्मीकृतः पुरा
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥

1.71

आनन्दयन्ति युक्त्या तां सेविता घ्नन्ति चान्यथा
दुर्विज्ञेयाः प्रकृत्यैव तस्माद् वेश्या विषोपमाः ॥

1.72

स्वाधीन-पतिकोत्का च तथा वासक-सज्जिका
सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका ॥

1.73

प्रोषित-प्रेयसी चैवं नायिकाः पूर्व-सूचिताः
ता एवात्र भवन्त्य् अष्टाव् अवस्थाभिः पुनर् यथा ॥

1.74

यस्या रति-गुणाकृष्टः पतिः पार्श्वं न मुञ्चति
विचित्र-विभ्रमासक्ता स्वाधीन-पतिका यथा ॥

1.74a

लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं तिलकम् अलिके कुर्वन् गण्डाद् उदस्यति कुन्तलान्
इति चटु-शतैर् वारं वारं वपुः परितः स्पृशन् विरह-विधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥

1.75

उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः
तस्यानागमने हेतुं चिन्तयन्त्य् आकुला यथा ॥

1.75a

किं रुद्धः प्रियया कयाचिद् अथवा सख्या तयोद्वेजितः किं वा कारण-गौरवं किम् अपि यन् नाद्यागतो वल्लभः
इत्य् आलोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश् च पुष्प-स्रजः ॥

1.76

भवेद् वासक-सज्जासौ सज्जिताङ्गरतालया
निशित्यागमनं भर्तुर् द्वारेक्षण-परा यथा ॥

1.76a

दृष्ट्वा दर्पण-मण्डले निज-मुखं भूषां मनोहारिणीं दीपार्चिः-कपिशं च मोहन-गृहं त्रस्यात्-कुरङ्गी-दृशा
एवं नौ सुरतं भविष्यति चिराद् अद्येति सानन्दया मन्दं कान्त-दिदृक्षयातिललितं द्वारे दृग्-आरोपित्ं ॥

1.77

निरस्तो मन्युना कान्तो नमन्न् अपि यया पुनः
दुःस्थिता तं विना साति सन्धिताभिमता यथा ॥

1.77a

यत्-पाद-प्रणतः प्रियः परुषया वाचा स निर्वारितो यत्-सख्या न कृतं वचो जडतया यन्-मन्युर् एको धृतः
पापस्यास्य फलं तद् एतद् अधुना यच् चन्दनेन्दु-द्युति प्रालेयाम्बु-समीर-पङ्कज-विसैर् गात्रं मुहुर् दह्यते ॥

1.78

प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः
यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥

1.78a

यत् सङ्केत-गृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं तच् छून्यं सुचिरं निषेव्य सुदृशा पश्चाच् च भग्नाशया
स्थानोपासन-सूचनाय विगलत्-सान्द्राञ्जनैर् लोचनैर् भूमाव् अक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥

1.79

कुतश्चिन् नागतो यस्या उचिते वासके प्रियः
तद्-अनागम् असन्तप्ता खण्डिता सा मता यथा ॥

1.79a

सोत्कण्ठं रुदितं सकम्पम् असकृद् यातं स-बाष्पं चिरं चक्षुर् दिक्षु निवेशितं स-करुणं सख्या समं जल्पितम्
नागच्छत्य् उचितेऽपि वासक-विधौ कान्ते समुद्विग्नया तत् तत् किंचिद् अनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥

1.80

या निर्लज्जीकृता बाढं मदने मदनेन च
अभियाति प्रियं साभि सारिकेति मता यथा ॥

1.80a

नो भीतं तडितो दृशा जलमुचा तद्-दर्शनाकाङ्क्षया नो गर्जिर् गणिता भृशं श्रुति-मुखं तद्-वाचि संचिन्त्य च
धारापातसमुद्भवा न च मता पीडा तद्-आलिङ्गनं वाञ्छन्त्या दयिताभिसारण-विधौ तन्व्या परं तत्-परम् ॥

1.81

कुतश्चित् कारणाद्यस्याः पतिर् देशान्तरं गतः
दत्त्वावधिं भृशार्ता सा प्रोषित-प्रेयसी यथा ॥

1.81a

उत्क्षिप्यालक-मालिकां विलुलिताम् आपाण्डु-गण्ड-स्थला द्विश्लिष्यद्-वलय-प्रपात-भयतः प्रोद्यम्य किञ्चित् करौ
द्वार-स्तम्भ-निषण्ण-गात्र-लतिका केनापि पुण्यात्मना मार्गालोकन-दत्त-दृष्टिर् अबला तत्-कालम् आलिङ्ग्यते ॥

1.82

निःश्वास-सन्ताप-सखी-वचोर्ति चिन्ताश्रु-पातादि-युताः सखेदाः
वाच्या प्रलब्धागत-भर्तृकोत्का तिसन्धिताः खण्डितया सहात्र ॥

1.83

विचित्र-मण्डना हृष्टा भवेत् स्वाधीन-भर्तृका
तथा वासक-सज्जापि सा किं त्व् आगन्तुक-प्रिया ॥

1.84

कुलजान्याङ्गना वेश्या त्रिधा स्याद् अभिसारिका
यथैवोक्तास् तथैवान्याः स्वाधीन-पतिकादयः ॥

1.85

कुलजा संवृता त्रस्ता सव्रीडा च द्रुतं व्रजेत्
नायकं पर-नारी च समन्ताद् अनवेक्षिता ॥

1.86

सखी-युक्ता मदाधिक्यात् स्फारिताक्षी न शङ्किता
स-शब्दाभरणा कामं वेश्या सरति नायकम् ॥

1.87

त्रयोदश-विधा स्वीया द्विविधा च पराङ्गना
एका वेश्या पुनश् चाष्टाव् अवस्था-भेदतोऽत्र ताः ॥

1.88

पुनश् च तास् त्रिधा सर्वा उत्तमा मध्यमाधमा
इत्थं शतत्रयं तासाम् अशीतिश् चतुर्-उत्तरा ॥

1.89

दोषानुरूप-कोपा या [अ]नुनीता च प्रसीदति
रज्यते च भृशं नाथे गुण-हार्योत्तमेति सा ॥

1.89a

कान्ते किं कुपितासि कः पर-जने प्राणेश कोपो भवेत् कोऽयं सुभ्रु परस् त्वम् एव दयिते दासोऽस्मि कस् ते परः
इत्य् उक्त्वा प्रणतः प्रियः क्षितितलाद् उत्थाप्य सानन्दया नेत्राम्भः-कणिकाङ्किते स्तन-तटे तन्व्या समारोपितः ॥

1.90

दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति
प्रयाति करुणाद् रागं मध्यमा सा मता यथा ॥

1.90a

विस्फार-स्फुरिताधरापि विकसद्-गण्ड-स्थल-प्रस्खल द्घर्माम्भः-कणिकापि भङ्गुरतर-भ्रू-भेद-भूषाप्य् अलम्
पादान्तः-प्रणते प्रिये प्रकटयत्य् अन्तः प्रसादं प्रिया केशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥

1.91

या कुप्यति विना दोषं स्निह्यत्य् अनुनयं विना
निर्हेतुक-प्रवृत्तिश् च चल-चित्तापि साधमा ॥

1.91a

यत्राधः-कृत-काम-कार्मुक-कथो भ्राम्यद्-भुवोर् विभ्रमः सद्यः प्रोद्गत-चन्द्रकान्ति-जयिनी यस्मिन् कपोल-च्छविः
यत्र स्वेद-कणावलुप्त-महिमा हारोऽप्य् उरोज-स्थले कोऽयं मानिनि मत्-प्रणाम-विमुखः प्रत्यग्र-मान-ग्रहः ॥

1.92

जाति-काल-वयोवस्था भाव-कन्दर्प-नायकैः
इतरा पय् असङ्ख्याः स्युर् नोक्ता विस्तर-भीतितः ॥

1.93

इत्य् आदि सकलं ज्ञात्वा स्वयं चालोक्य तद्-विदाम्
कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥

1.94

रोमाञ्च-वेपथु-स्तम्भ स्वेद-नेत्राम्बु-विभ्रमाः
वाच्याः संयोग-शृङ्गारे कविना नायिकाश्रिताः ॥

1.95

सम्बन्धि-मित्र-द्विज-राज-तीक्ष्ण वर्णाधिकानां प्रमदा न गम्याः
व्यङ्गास् तथा प्रव्रजिता विभिन्न मन्त्राश् च धर्मार्थ-मनोभव-ज्ञैः ॥

1.96

अनेन मार्गेण विशेष-रम्यं सम्भोग-शृङ्गारम् इमं वितन्वन्
भवेत् कविर् भाव-रसानुरक्तो विदग्ध-गोष्ठी-वनिता-मनोज्ञैः ॥

मूल पाठ: Śṛṅgāratilaka · Edition: Kavyamala (1st series), vol. III (Calcutta, 1887), pp. 111-152. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc