श्रीघनाचारसंग्रह · अध्याय 3.4
4 मृषावादविरतिशिक्षापदं
प्रत्येकबुद्धसंबुद्धतच्छिष्यज्ञानदर्शनं ।
ममास्तीति ब्रुवन् मिथ्या नाश्यो ऽन्यत्राभिमानतः
ज्ञानं सत्याभिसंबोधिरभिज्ञाः पंच दर्शनं ।
धर्मान्वयादिकज्ञानांगीकरणे क्षमो न सः
आर्यम्लेच्छवचोलेखलिप्या [च] हस्तमुद्रया ।
ज्ञानादि प्रतिजानीते बोद्धव्यमपि तन्मृषा
वृक्षमूले ऽहमेकाकी विहरामि रमे [गृहे] ।
समाहितं च मे चित्तं न च वाच्यमतीन्द्रियं
बुद्धादीनां वदेद् वर्णमात्मनो न कथंचन ।
परकीयं गुणं पृष्टो ब्रूयात्तत्संमुखं न तु
दृष्टं श्रुतं मतं यद्यद् विज्ञातं चैव तद् वदेत् ।
[श्रीघनो] वैपरीत्येन गदन्मिथ्याभिधायकः
वस्तु चालीकसंज्ञी च चित्तं विनिहितं [तथा] ।
मृषासंज्ञी वदेद्वाचं पंचांगो ऽनृतवादिकः
चतुस्त्रिद्वयेक[कै] रंगैर्युक्तो यो ऽत्र मृषां वदेत ।
अन्यैः स यतिभिर्ज्ञेयो मृषावादीति [श्रीघनः]
अभूतेनानिदानेन यतिः [प्राणिवधादिना] ।
ध्वंसनच्यावनाकूतः संमुखं न च चोदयेत्
क्षुद्रापत्तिनिमित्तेन लेशमात्रेण तेन वा ।
श्रामणेरो[हि] प्रत्यक्षं [श्रीघनान्] न क्षिपेत् परान्
जातिलिंगक्रियावादैर् हीनमध्योत्तमैर्व्रती ।
जिह्मनिष्प्रतिभानार्थं न प्राणान् जातु चोदयेत्
उपक्लेशगदाक्रोशापत्त्याद्यैर्हि यतिं व्रती ।
आशयेन पुरोक्तेन ब्रूयान्नैव कदाचन
भेदं यास्यति सो ऽन्येन संधास्यति मया सह ।
यतिर जात्यादिवादेन पैशुन्यं न समाचरेत्
मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0