श्रीघनाचारसंग्रह · अध्याय 3.5
5 सुरामैरेयमद्यपानविरतिशिक्षापदं
मद्यं सुरा च मैरेयं प्रमादस्यास्पदं यतः ।
न परस्मै[हि] तद्देयं न च पेयं श्वमूत्रवत
वल्कलैः सगुडैः काचिदपरा केवलेन च ।
पिष्टकिण्वजलैरेभिरपि संचीयते सुरा
मैरेयं गुडधात्र्यम्बुधातकीसंस्कृतं हि यत् ।
कुशाग्रेणापि तत् पातुं यतीनां न प्रकल्पते
कोद्रवान्नं न भुञ्जीत तत्पलाले च न स्वपेत् ॥
पीतं सत मदयेद् यच्च पातव्यं तदपीह न
मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0