भाषा

ENहिગુ
ग्रंथ पाठ

श्रीघनाचारसंग्रह · अध्याय 3.3

3.3.1

3 मैथुनविरतिशिक्षापदं
संवरत्यागः
नृस्त्रीपण्डकविण्मूत्रवक्त्ररन्ध्रेंऽगजात[कं] ।
क्षिप्त्वा निगमयेत् स्वादं स [यतिः] क्षतसंवरः

3.3.2

मानुषाऽमानुषास्ते तु तिर्यञ्चश्च नरादयः ।
मृताः सुप्ताश्च जाग्रन्तो ज्ञेया [हि] मैथुनाश्रयाः

3.3.3

हस्तिनीमादितः [कृत्वा] यावत् कुक्कुटजाति[कां] ।
क्षुद्रिकां महतीं गच्छन्[स यतिश्] च्यवते व्रतात्

3.3.4

दुष्कृतानि
रक्तः सन् न स्त्रियं पश्येत् शब्दमाकर्णयेन्न च ।
निर्वस्त्रः सन् न चोपेयादंगजात न निर्भुजेत्

3.3.5

भित्तिद्वये कृतां शुष्कां क्लिन्नां संयोज्य [कोटरीं] ।
[विप्रतिपत्तितो] नाश्यः संग्रहे सति नान्यदा

3.3.6

अध ऊर्ध्वं त्रिखण्डाया विनीलाध्मातिकां च न ।
न चास्थिसंकलां यायात् नाभ्यक्तां रुधिरादिभिः

3.3.7

सितास्थिसंकलां शैलदारुपुस्तमयीं[यतिः] ।
न च गच्छेत् स्त्रियं यो ऽत्र विरतो मैथुनात्सदा

3.3.8

ध्यानमिद्धगतं मत्तमभिभूतं च निद्रया ।
विक्षिप्तं वेदनातुन्नं गृहीत्वाभिनिषीदति

3.3.9

आदिमध्यावसानेषु स्वादयेत् ध्यानव्युत्थितः ।
विहाराद् घट्टनीयः सो ऽभावे तु स्वादनस्य न

3.3.10

नानाव्यंजन[को]पेतरसशाल्युपभोगवत् ।
आस्वादना च तैलाच्छशौण्डासवपानवत्

3.3.11

अनास्वादो युवग्रीवामृतकुक्कुरबन्धवत् ।
विज्ञेयः सुकुमारस्य प्रदीप्तलोहस्पर्शवत्

3.3.12

अवक्रीतादि[रज्ञानात्] ।
[आपत्तिभाग् यतिर्नैवोन्मत्तविक्षिप्तचेतसः]

3.3.13

रागा[मनुष्यसंयोगात्] प्रगुणीभूतांगजात[कं] ।
न स्पृशेत् शुक्रमोक्षार्थं स पृथिव्यादिधातुभिः

3.3.14

तिर्यक्[प्रमत्त]संयोगात् शुक्रमुक्तिर्भवेद् यदि ।
[स्व]मानसं यतिगर्हेत् कृतं मे नु विरूपकं

3.3.15

मज्जजक्षरणं यस्य यतेः स्वप्नेषु जायते ।
स्वप्नशुक्रविनिर्मुक्तौ तद्दोषो न मनागपि

3.3.16

रागाविष्टेन चित्तेन नारीं न श्रीघनः स्पृशेत् ।
[अन्यं स्पृशेत्तथारूपं नापि च] पुंनपुंसकं

3.3.17

स्तनकक्षौष्ठनाभ्यूरुपार्श्व कुक्षिमलभ्रमान् ।
संरक्तः [सन्] यतिः स्त्रीणां न निन्देत् न च संस्तुयात्

3.3.18

यद्यद् वदेत् स्त्रियं[तावत्] कर्तुकामो यथा यथा ।
तत्तत् तथा तथा ब्रूयात् श्रीघनो नान्तिके स्त्रियाः

3.3.19

अग्रा भवति सा योषिद् या मां परिचरेद् रहः ।
लाभिनी चायुरादीनां व्याधिहीना यशस्विनी

3.3.20

इत्यादि न वचो ब्रूयाद् रागाग्निप्लुष्टमानसः ।
पुरस्ताच्छ्रोघनः स्त्रीणां पुनपुंसकयोस्तथा

3.3.21

विवाहावाहयोर्दौत्यं न कुर्यात् श्रामणेरकः ।
[न च कुर्यात् तथारूपनिमित्तमपि दौत्यकं]

3.3.22

दापयेयमिमां श्राद्धां तथास्मै दारिकामिति ।
अर्थसंस्यन्दनासूत्रं घटते न [स] भाषितुं

3.3.23

बीजार्थं न व्रती दद्यात् [स्वयमेव] गवादिकं ।
एतानेव परेभ्यो ऽपि कदाचिन्न [हि] प्रार्थयेत्

3.3.24

तुल्यमेतासु त्वं तिष्ठ मा स्त्रिया चैकया वस ।
इत्येवं हि बहुस्त्रीकं पुरुषं न यतिर्वदेत्

मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc