श्रीघनाचारसंग्रह · अध्याय 3.2
2 अदत्तादानविरतिशिक्षापदं
संवरत्यागः
कालिकं [यामिकं] यावज्जीविकं सर्पिरादिकं ।
पारिहार्यमनाधेयं कल्प्याकल्प्यमकल्पिकं
पृथिव्युदकद्विचतुष्पदापदकपादप ।
तद्गतं च यतिः किञ्चिन्नाददीत परस्वकं
कार्षापणचतुर्भागं तदर्धमथवा धनं ।
स्तेयचित्तो हरन्नन्यैर् नाशनीयो[यतिर्] लघु
वाटाद्धृते गजे पादैश् चतुर्भिरयतिश् च्युते ।
निष्क्रान्ते संवृतद्वाराद् द्विपहृत्स्याद् यतिः [खलु]
गुल्फाबद्धेक्षदण्डारे दूराकृष्टे महीतलात् ।
संवरभंग उत्क्षिप्ते पञ्जराद्गजवद्द्विजे
देशान्नयेद् हि सन्देशद्रविणं च सञ्चारयेत् ।
अंगात् स्तैन्येन चित्तेन संवरघूतमाप्नुते
मृतो ऽसौ मत्वा श्रुत्वैवाध्वगाद् वै ब्रह्मचारिणः ।
सीमान्तस्थायिने दत्वा गृह्णन् स्यादयतिर्यतिः
यद्वित्तं श्रामणेरस्य मृतस्य निर्वृतार्हतः ।
उपाध्यायस्य प्राप्नोति तदित्येवं जगौ मुनिः
हर्त्तुरिष्टां दिशं यायाद् व्रती चेद् हस्तिनं हरेत् ।
असौ हर्त्ता व्रती चौरः करिपे हृतसंज्ञिनि
पूजाचीवरमालान्तद्वयस्य खलु मोचनात् ।
अवनौ तच्च्युतौ सत्यां भ्रश्यते संवराद् [यतिः]
क्षिप्तं मौक्तिकहारादि गृहीत्वा तद् महाकुलात् ॥
न्यस्य प्रसेविकायां च सहायेन च हारयन्
जटालेनाथवा वत्स हरन् कि संवरच्युतः ।
कि पादच्युतिमात्रेण ह्युपचारव्यतिक्रमे
रात्रौ गोशकटाश्वादीन् कश्चिद् वध्नाति चेद् यतिः ।
एतानेते हरिष्यन्ति तत् किं स्याच्च्युतसंवरः
ऋजुके कीलके बन्धे कठिने हार[कं] हरन् ।
उत्क्षेपणे च चौरः स्यात् कुटिले शिथिले न तु
छिद्रयित्वा घटं सर्पिः क्षौद्रं तैलं जलं हरन् ।
यतिः पूरस्य विच्छेदे संवरक्षोभमाप्नुते
वण्टयमाणे गृहे भ्रात्रोर्भागादेकस्य लिप्सया ।
बालमात्रं भूमिं यतिः स्यात् क्षतसंवरः
तस्करोपात्तपात्रादि निराशः पुनराददन् ।
संवराद् भ्रश्यते हीतोतरस्त्वाप्नोति नापदं
मित्रभावेन लब्धं स्याद् दत्तं गोपादिभिश्[च]वा ।
तदा [तद्] आददानस्य यतेर्नापत्तिरिष्यते
भयोपदर्शनं कार्यं पात्रचीवरमुक्तये ।
राजनि न वदेद् गत्वैभिश्चौरैर् मुषिता वयं
निष्कासयस्युपाध्यायाचार्याणां यत्तदावथोः ।
तदित्युक्त्वा हरेदेकः स्यातां द्वावपि तस्करौ
स्वद्रव्यं स्तैन्यचित्तेनापहरन्तायिमौ यती ।
भागार्धेनायतिस्त्वेको निष्कासितार्धेनेतरः
दास्यामस्ते समं तिष्ठ द्वारे कुर्याम चौरिकां ।
इत्युक्तकृत आपत्तिः सहैव चौरचेल्लकैः
उषित्वागन्तुके याते विस्मृत्य पात्रचीवरं ।
आगत्य यो यतिस्तच्चेद् गोपयेच्चौर एव सः
एवमावासिका सर्वे भवन्ति क्षतसंवराः ।
स एव यदि संस्मृत्य नयतीह न किल्विषी
अन्येन स्तेयचित्तेन पात्रमन्यस्य चेद् यतिः ।
आनाययति स ततो दोषवान् भवति व्रती
यावत् पूजा मुनेस्तावत् संघस्यापि प्रवर्तते ।
इति यो ऽन्यस्य दत्ते स भवति क्षतसंवरः
लिखित्वोद्धारकं ग्राह्यं मिथः स्तूपाच्च संघतः ।
कर्मादाने च वक्तव्यमियत् नोक्तकृतो ऽन्यथा
स्वांशमुक्तहरश्चौरो[यत्योर]मध्ये तयोर्द्वयोः ।
दास्यामीति च विश्वासं कृत्वा प्राप्नोति नापदं
लभसे त्वं लभे चाहं यं लाभं तदावयोः ।
इति लाभे समुत्पन्ने ततो ऽर्धेन [स] तस्करः
दक्षिणादेशने ऽप्येवं पांशुकूलिकयोर्द्वयोः ।
भिनत्ति यः क्रियाकारं ततः स च्युतसंवरः
उपकार्यपकारिभ्यश्चान्नपानादि सांघिकं ।
विहारस्वामिराजादिचौरादिभ्यो यथाक्रमं
श्रीघनेभ्यो ऽपि दातव्यं प्रातराशादि सांघिकं ।
आलेपनादि कुर्वन्ति विहारे यदि नान्यथा
सीमान्तस्थायिने दत्वा भिक्षूपस्थानकारिणे ।
दारकप्रस्थव्याजेन गृह्णीयात्तण्डुलादिकं
अत्यक्ताशो[हि]गृह्णीयात् नष्टं स्वपात्रचीवरं ।
मत्वैवं नष्टपात्रादिराशां नैव त्यजेद् [यतिः]
स्वाध्यायाध्ययनोद्देशं कृत्वा ये संघशीलकं ।
क्रियाकारं न कुर्वन्ति ते जिनोदितलंघिनः
पताकालक्षणं स्तूपान्न ग्राह्यं यतिना[खलु] ।
प्रांशुकूलमिति ग्राह्यमनिलोद्धूतपातितं
शुल्ककृत्यं परद्रव्यं न नयेत् नापि नाययेत ।
शुल्कप्रदानमोक्षार्थोपायं नोपदिशेद् यतिः
रत्नं दत्वा यतिभ्यः प्राक् पश्चात् मार्गयते वणिक् ।
विसंवादयसीत्येवं दातव्यं परिभाष्य तत्
नास्ति शुल्कं मुनेरेवं व्रतिनां पारिभोगिके ।
क्रयविक्रयकृद्दद्यात् शुल्कमन्यत्र वस्तुनि
वर्षावासिकलाभो [हि] देयो वर्षोषितस्य च ।
जीवितब्रह्मचर्यस्य ययोर्नाशस्तयोरपि
प्राक्प्रागुपगतैः कार्या वर्षावासिकयाचना ।
पश्चादुपगतैः पश्चात् संघे युगपदेव च
पुनर्गृह्णाति दीक्षां यो वस्तुकर्मजुगुप्सया ।
भिक्षुभावं परित्यज्य तस्मै चाप्याह सर्ववित्
अवर्षोषितविभ्रान्तकुदृष्टिमृतकास्[तथा] ।
देशान्तरगता लाभं नार्हन्ति पंचपुद्गलाः
अमुष्मै देयमित्येवं लाभोत्पन्ने यतौ मृते ।
दातव्यो नियतं तस्मै स विकल्पितभिक्षवे
देशान्तरगतस्यापि स्थापयेत् कल्पमन्दिरे ।
त्रये कुर्वन्ति चानर्थं तेभ्यो देयंबुधर्न हि
आच्छादं चीवरं मूल्यं दास्यामीति चतुष्पदैः ।
आप्नोति सम्मुखीभूतान् लाभो नेतरेषु च
वर्षावासिकलाभश्च वर्षोषितस्य [गच्छति] ।
तदेतरस्य दोषो न गृह्णतो दायकेच्छया
कालिको यामिको यावज्जीविकः साप्ताहिकः ।
मृतक्षुद्रपरिष्कारनैत्यकाकालचीवरं
कुटीप्रतिष्ठाजात्यादिसम्बोध्यादिमहोद्भवः ।
प्राप्नोति दशधा लाभः सम्मुखीभूतपुद्गलान्
अनाधेयं [गुरुद्रव्यं] सांघिकं शयनासनं ।
विक्रेतव्यं न भोक्तव्यं कृत्वा पौद्गलिकं न च
चातुर्दिशाय बुद्धाय सम्मुखीभूतसांघिके
यतिर्द्रव्यान्तरे दत्ते तत्र तत्रोपनामयेत्
तूष्णीं दत्वा गते देयं बुद्धे मुक्ताफलादिकं ।
चातुर्दिक्सम्मुखीभूते शयनासनमंशुकं
पृथु द्रव्यं परोपात्तं तत्संज्ञी स्तेयचेतना ।
स्थानच्युतिश्च पंचांगैर्युक्तश्चेदयतिर्भवेत्
दत्तस्वकापरोपात्तसंज्ञी चान्यो ऽपि संवरी ।
न तावत्कालिकं स्वांशाद् गृह्णन् जहाति संवरं
आदायादत्तमुत्प्लुत्य खं गत्वाशाचतुष्टयं ।
तत्रैव पुनरासीनो भवति क्षतसंवरः
अवक्रीतादिरज्ञानात् परद्रव्यं हरन् खलु ।
संवरक्षोभलाभी स यतिर्नोन्मत्तादिकः
मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0