भाषा

ENहिગુ
ग्रंथ पाठ

श्रीघनाचारसंग्रह · अध्याय 3.1

3.1.1

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावो नाम द्वितीयो ऽध्यायः ॥
तृतीयो ऽध्यायः
श्रामणेरभावोपायः
1 प्राणिवधविरतिशिक्षापदं
संवरत्यागः
सकलेन शरीरेण शरीरान्यतरेण वा ।
पञ्चशाखादिनिर्वृत्तं न हन्यात् प्राणिनं [यतिः]

3.1.2

मृत्योर्वर्ण न भाषेत शस्त्रहारं न चैषयेत् ।
वधकेन न चित्तेन मारणाय नियोजयेत्

3.1.3

विरेकवमनालेपविषशस्त्राभिसंस्कृति ।
न कुर्यात् प्राणिघाताय न च गर्भस्य शातनं

3.1.4

निमित्तं न व्रती कुर्यात् स्वप्नोलूकादिवाशितैः ।
[दौःशीलं] (वापि कार्यं न) दानशीलफलाप्तिभिः

3.1.5

मध्यपश्चात्पुरोगेषु यत्रैव वधकं मनः ।
[तं पुरुषं] ध्नतो हिंसा नान्यमित्याह सर्ववित्

3.1.6

कूटावमार्थावष्टम्भवेताला[द्य]भिसंस्कृति ।
अवपयञ्च कुर्यान्न मारणाय शरीरिणां

3.1.7

तस्करा[द्य]हिसेनाभ्यः यत्र मार्गे भयं[भवेत्] ।
तत्पन्थानं न नाशाय देहिनां कथयेद्यतिः

3.1.8

भुजगावर्तकाभ्यां च यत्र तीर्थे[भयं भवेत्] ।
[नदीप्रतरणार्थाय] तत्तीर्थं न प्रकाशयेत्

3.1.9

किञ्चिद् भूपतये मा दास्त्वं वरं जीवितं त्यज ।
इति बद्धायुक्ते ऽयुक्तं वचनं न वदेद् [यतिः]

3.1.10

भुजग [व्याडयक्षे]भ्यः यद्विहारे[भयं भवेत्] ।
तद्वधकाभिप्रायेणागन्तुकाय न चोद्दिशेत्

3.1.11

व्याघ्रादिव्यपदेशेन शत्रुं हन्याद् हि यः शठः ।
विहारादाशु[निर्द्वारं] घट्टनीयः स चेल्लकैः

3.1.12

तथा कार्यं यथैको ऽपि नानिर्जीवेच्च कश्चन ।
अधर्म्या न क्रिया कार्या संस्मृत्य क्रकचोपमं

3.1.13

वधश्च श्रामणेरा ये घातयितुं वधीकृताः ।
युगपत् तत्प्रयोगे ते नाशनीया विहारतः

3.1.14

उपक्रमो नृसंज्ञा च नरो वधकचेतना ।
जीवितस्य क्षयश्चेति पञ्चांगानि नृघातने

3.1.15

श्रामणेरेण नाशाय विषशस्त्रादि यत्[कृतं] ।
म्रियते नरस्तेनैवासौ तदासंवरी भवेत्

3.1.16

अवक्रीतादिरज्ञानात् मनुष्यं मारयन् खलु ।
संवरक्षोभलाभी स [यतिर्] नोन्मत्तादिकः

3.1.17

दुष्कृतानि
कायमैत्रादि सत्त्वेषु यतिना कार्यं सर्वदा ।
यस्मात् कारुणिकैरुक्तं तस्मात्[सत्त्वान्न पीडयेत्]

3.1.18

न सत्त्वान् पीडयेद्दारुरज्वयश्चर्मबन्धनैः ।
जलानलप्रवेशानुत्यागादौ न नियोजयेत्

3.1.19

कृमिगोरूप[कादीनां] मिथ्याजीवश्च हिंसनं ।
कर्षणे[हि] भवेद्यस्मात् तस्मात्[तद्]दूरतो त्यजेत्

3.1.20

नांकयेद् गोमहिष्यादि नासिकां नास्य वेधयेत् ।
[यतिश्च विविधान् सत्त्वान्] वेत्रादिना न ताडयेत्

3.1.21

उद्दिश्य यत् कृतं मांसव्यञ्जनं [खादतो] यतेः ।
निघृणं जायते चित्तं तस्मात्तन्नैव भक्षयेत्

3.1.22

ज्ञेयं तु त्रिभिराकारैरीक्षितश्रुतशंकितैः ।
ईक्षितं यत् स्वयं दृष्टं श्रुतं प्रत्यायितोदितं

3.1.23

गृहाबद्धमृगादीनां श्रृंगपक्षादिदर्शनात् ।
आशंकोत्पद्यते [तत्र] ममोद्दिश्य हता न वा

3.1.24

पृष्टो दाता वदेदेवं त्वन्निमित्तममी हता ।
तस्मिन् गृहे न भुञ्जीत विरतः प्राणिनां वधात्

3.1.25

श्येनकादिहता वै[ते] शालियवमुद्गभक्षणात् ।
मातापित्रोश्च यज्ञस्य कृते दोषो ऽस्ति नाश्नतां

3.1.26

एकं श्रीघनमुद्दिश्य मांसं मत्स्यादिकं कृतं ।
अन्येषां श्रामणेराणां तद्भोगाय न कल्पते

3.1.27

नादेयादिजलं जानन् नापि पिबेत् सजन्तुकं ।
जन्तवो ऽभिमताः सूक्ष्मास् त्रसिकोर्मिकिरादयः

3.1.28

वारि[पूत्या]यधिष्ठेयः करको [हि] सखल्लकः ।
विघातपरिहारार्थं कोशो ऽन्तशः सुवाससः

3.1.29

दिव्यनेत्रान्धयोर्नेष्टं जलस्य प्रत्यवेक्षणं ।
हस्तांगुष्ठाग्रकावर्तदर्शिनो न निवार्यते

3.1.30

लोचनविभ्रमो मा भूदिति पश्येन्न तच्चिरं ।
कल्पमात्रं न वै कुर्यात् मायाशाठयसमन्वितः

3.1.31

येनान्तरेण षष्टयब्दः परिभ्रम्यते कुञ्जरः ।
शकटं वंशपूर्णं वा स कालः सलिलेक्षणे

3.1.32

ऊर्ध्वाधोमध्यमास्तिस्त्रः सलिलस्यापि भूमयः ।
याया भूः शुद्धिमायाति कार्यं कुर्यात्तया[यतिः]

3.1.33

यत्राधः प्राणका यान्ति स्थूलाः करतलाहताः ।
[ग्राह्यं] तदुदकं [स्राव्यं] पंचांगुलिकया न चेत्

3.1.34

भवेयुरुदके यस्मिन् करे लग्ना[श्च] प्राणिनः ।
न तत्र पाणिपादास्यवस्त्रादि क्षालयेद्यतिः

3.1.35

कुले गतेन प्रष्टव्यं जलं [हि] स्रावितं न वा ।
नेति चेत् संज्ञिको वाच्यः स्रावयेत्यितरो न तु

3.1.36

[किन्तु] स्राव्यं जलं पात्रे कृत्वात्मीये सजन्तुकं ।
[पृष्ट्वा] यस्तदानीतं मुञ्चेत् तत्रैव [स] स्वयं

3.1.37

सप्ताहं वा[तथा] यत्र पानीयमवतिष्ठति ।
विहारे वा कटाहादौ स्थापयेत् तदशुष्यति

3.1.38

प्रवृष्टे वा [यतिर्] देवे स्वच्छनीरौघवाहिनि ।
निम्नगानां पतिं पातं गच्छतेति विसर्जयेत्

3.1.39

सुदीर्घतलिकावक्त्ररज्जुद्वया[व]बद्धया ।
घटिकयोदकं मुञ्चेदधस्तादुदके ऽध्वगः

3.1.40

घटिकात्रितयं वीक्ष्य मार्गगेणोदपानतः ।
परिशुद्धाश्चेत् पेयं जलं तत् स्राव्यमन्यथा

3.1.41

न रज्जुघटिकादानं शस्तं सप्राणके जले ।
पिबेति वक्तुं दातुं वा न जातु क्षमते यतिः

3.1.42

सजन्तुकं तडागादि न परेषामुच्चैर्वदेत् ।
[कृत्यं] कुरु समीक्ष्येति पृष्टः प्रतिवदेत्परान्

3.1.43

उपाध्याये ऽपि वक्तव्यं सप्राणकमिदं न वा ।
तडागादीति [वै] शाठयं कर्त्तव्यं [यतिना] न [तु]

3.1.44

वृक्षसेको न दातव्यो ऽपरिशुद्धेन वारिणा ।
उपाध्यायादिकस्नानं कर्त्तव्यं च तथैव न

3.1.45

मस्तुकाञ्जिकसौवीरमण्डदण्डाहतादिकं ।
न पिबेत् न यतिर्दद्यात् परस्मै न भुवि त्यजेत्

3.1.46

समत्कुणं यच्छयनमातपे तन्न शोषयेत् ।
न हिमे कर्दमे वा[पि] शीतोष्णवारिणि क्षिपेत्

3.1.47

नवकर्म स नो कुर्यात् सजन्तुकेन [वारिणा] ।
दिनान्तं स्रावयित्वा तद् धार्यं [त्रिकोण]खल्लकं

3.1.48

भृतकं शिक्षयेदेवं वधान त्वं त्रिकोणकं ।
कपात्[तत्] स्रावयोत्क्षिप्य खल्लकं च विमोचय

3.1.49

त्रिकोणसप्तकेनाम्भः स्राव्यं खल्लकेन तत् ।
[प्रतिकूप्यथ] कार्या[वा] त्यक्त्वा देशान्तरं [व्रजेत्]

3.1.50

अभूत्वा सम्भवन्त्येते भूत्वा यान्ति भवान्तरं ।
नवकर्म तदा कार्य यथोक्तविधिकारिणा

3.1.51

सत्पटाबद्धमञ्चादेरुच्छीदच्चतुरांगुलात् ।
नद्यादौ जलमालोक्य कार्यं च नवकर्मणि

3.1.52

छिद्रकर्णद्वयासक्तसूत्रबद्धद्विदण्डकं ।
धारणपात्रकं दध्यात् खल्लकस्य बहिर्[यतिः]

3.1.53

कृपापरीतचित्तेन स्वादु वारि सजन्तुकं ।
क्षारे ऽम्भसि न मोक्तव्यमनापत् मृष्टसंज्ञिनः

मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc