भाषा

ENहिગુ
ग्रंथ पाठ

श्रावकभूमि · भाग 2140

(इ)-च्-इइल्-13-अ-(6) म्स्.63ब्1र्,स्ह्.156-19, प्.75अ4, द्.63अ6, न्.66अ6, चो.67ब्3, छ्.421च्26
कथम् अल्पेच्छो भवति । यावद्भिर् गुणैः समन्वागतो भवत्य् अल्पेच्छताम् आदिं कृत्वा, तैः परतो ज्ञातुं न समन्वेषते, कश्चिन् मे परे न जानीयुः, "अल्पेच्छ" इति वा, "एवंगुणयुक्त" इति । एवम् अल्पेच्छो भवति ॥
(इ)-च्-इइल्-13-अ-(7) म्स्.63ब्2म्,स्ह्. 157-1, प्.75अ6, द्.63अ7, न्.66अ7, चो.67ब्5, छ्.421च्28
कथं संतुष्टो भवति । इतरेतरेण चीवरपिण्डपातेन शयनासनेन तुष्टो भवति, संतुष्टः । सो ऽलब्ध्वा चीवरं लूहं वा प्रणीतं वा नोत्कण्ठति, न परितस्यति । लब्ध्वा च पुनर् अरक्तः परिभुङ्क्ते ऽसक्त इति विस्तरेण पूर्ववत् । यथा चीवरम् एवं पिण्डपातः शयनासनम् । एवं संतुष्टो भवति ॥
(इ)-च्-इइल्-13-अ-(8) म्स्.63ब्3म्,स्ह्. 157-7, प्.75अ8, द्.63ब्2, न्.66ब्2, चो.67ब्6, छ्.422अ5
कथं सुपोषो भव्ति । आत्मास्यैकः पोष्यो भवति । न तु परे, तद्यथा दारका वा मनुष्या वेति, ये वा पुनर् अन्ये ऽपि के चिद् । येषाम् अर्थाय यान् पर्येष्टिम् आपद्येत, परे चैनं दायकदानपतयो दुष्पोष्यम् इति पश्येरन् । एवं सुपोषो भवति ॥
(इ)-च्-इइल्-13-अ-(9) म्स्.63ब्4ल्,स्ह्.157-12, प्.75ब्2, द्.63ब्3, न्.66ब्3, चो.68अ1, छ्.422अ7
कथं सुभरो भवति । अल्पेनापि यापयति । लूहेनापि यापयति । एवं सुभरो भवति ॥
(इ)-च्-इइल्-13-अ-(10) म्स्.63ब्4म्,स्ह्.157-14, w.* 82-1, प्.75ब्3, द्.63ब्3, न्.66ब्4, चो.68अ1, छ्.422अ9 कथं धुतगुणसमन्वागतो भवति । प्राप्तपिण्डपातिको भवति, सावदानपिण्डपातिकः । एकासनिकः । खलुपश्चाद्भक्तिकः । त्रैचीवरिकः । नामतिकः । पांसुकूलिकः । आरण्यकः । वृक्षमूलिकः । आभ्यवकाशिकः । श्माशानिकः । नैषद्यिकः । )याथासंस्तरिकः । त एते पिण्डपातं चीवरं शयनासनम् आरभ्य द्वादशका धुतगुणा भवन्ति त्रयोदशका वा ।
तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति, प्राप्तपिण्डपातिकः सावदानपिण्डपातिकश् च ॥
(इ)-च्-इइल्-13-अ-(10)-इ म्स्.-,स्ह्. 158-7, प्.75ब्5, द्.63ब्6, न्.66ब्6, चो.68अ4, छ्.422अ15
तत्र प्राप्तपिण्डपातिकः कतमः । [ऽद्रिस् पऽइ ख्यिम् दग् नस्] यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते ॥
(इ)-च्-इइल्-13-अ-(10)-इइ म्स्.63ब्5र्, स्ह्.158-7,w.*82-13,प्.75ब्7,द्.63ब्6, न्.66ब्7,चो.68अ4,छ्.422अ 17
सावदानपिण्डपातिकः कतमः । वेश्मानुवेश्य कुलानि भिक्षित्वा पर्यटित्वा यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते । नो त्व् उच्चैः शुण्डां प्रणिधाय कुलान्य् उपसंक्रामति । "अतो ऽहं लप्स्ये प्रणीतं खादनीयम् भोजनीयं यावदाप्तम्" ।
तत्र पिण्डपातिकत्वम् अविशेषेणारभ्य द्वादश भवन्ति प्रभेदं पुनर् आरभ्य त्रयोदश ॥
(इ)-च्-इइल्-13-अ-(10)-इइइ म्स्.63ब्6र्, स्ह्.158-14, प्.76अ1, द्.64अ1, न्.67अ2, चो.68अ6, छ्.422अ21
तत्रैकासनिकत्वं कतमत् । एकस्मिन्न् आसने निषण्णो यावत् परिभोक्तव्यं तावत् परिभुङ्क्ते । व्युत्थितश् च पुनस् तस्माद् आसनान् न परिभुङ्क्ते । इदम् उच्यते एकासनिकत्वम् ॥
(इ)-च्-इइल्-13-अ-(10)-इव् म्स्.63ब्7म्,स्ह्.158-18, प्.76अ2, द्.64अ2, न्.67अ3, चो.68अ7, छ्.422अ23
खलुपश्चाद्भक्तिकत्वं कतमत् । भोजनार्थं निषण्णस् तावन् न परिभुङ्क्ते, यावत् सर्वभोजनं प्रतीच्छति, यावता जानाति शक्ष्यामि यापयितुम् । यतश् च पुनर् जानीते "न मे ऽत उत्तरि भोजनेन कृत्यं ( श्भ् इ 278 ) भविष्यती"ति, ततः सर्वं परिगृह्यारभते परिभोक्तुम् । एवं खलुपश्चाद्भक्तिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-व् म्स्.64अ1म्,स्ह्.159-2, प्.76अ4, द्.64अ3, न्.67अ4, चो.68ब्1, छ्.422अ28
कथं त्रैचीवरिको भवति । त्रिभिश् च चीवरैर् यापयति, सांघाटिना, उत्तरासंगेन, अन्तर्वासेन च । त्रयाणां चीवराणाम् अतिरेकम् उत्तरं न धारयति । एवं त्रैचीवरिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-वि म्स्.64अ1र्,स्ह्.159-6, प्.76अ5, द्.64अ5, न्.67अ6, चो.68ब्2, छ्.422ब्2
कथं नामतिको भवति । यत् किंचिच् चीवरं धारयति त्रिचीवरं वा, अतिरेकचीवरं वा । सर्वं तद् और्णिकं धारयति । न त्व् अन्यत् । एवं नामतिकं धारयति ॥
(इ)-च्-इइल्-13-अ-(10)-विइ म्स्.64अ2म्,स्ह्.159-10, प्.76अ6, द्.64अ5, न्.67अ6, चो.68ब्3, छ्.422ब्5
कथं पांसुकूलिको भवति । यच् चीवरं परैर् मुक्तं भवत्य् उच्छिष्टं छोरितं रथ्यायां वा, वीथ्यां वा, चत्वरे वा, श्र्ङ्गाटके वा, पथि वा, उत्पथे वा, उच्चारसंसृष्टं वा प्रस्रावसंसृष्टं वा, उच्चारप्रस्रावपूयरुधिरखेटप्रक्षितं वा । ततो यद् अशुचि तद् अपनीय, सारम् आदाय, शोधयित्वा सीवित्वा विवर्णीकृत्य धारयति । एवं पांसुकूलिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-विइइ म्स्.64अ3म्,स्ह्.159-17, प्.76ब्1, द्.64अ6, न्.67ब्1, चो.68ब्5, छ्.422ब्9
कथम् आरण्यको भवति । अरण्यवनप्रस्थानि प्रान्तानि शयनासनान्य् अध्यावसति, यानि व्यवकृष्टानि ग्रामनिगमानाम् । एवम् आरण्यको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-इx म्स्.64अ3र्,स्ह्. 159-20, प्.76ब्2, द्.64अ7, न्.67ब्1, चो.68ब्6, छ्.422ब्12
कथं वृक्षमूलिको भवति । वृक्षमूले वासं कल्पयति वृक्षमूलं निश्रित्य । एवं वृक्समूलिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-x म्स्.64अ[मर्गिन्],स्ह्. 160-3, प्.76ब्3, द्.64ब्1, न्.67ब्2, चो.68ब्6, छ्.422ब्14
कथम् आभ्यवकाशिको भवति । अभ्यवकाशे वासं कल्पयति, अनवच्छन्ने विवृते देशे । एवम् आभ्यवकाशिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-xइ म्स्.64अ[मर्गिन्],स्ह्. 160-6, प्.76ब्3, द्.64ब्1, न्.67ब्3, चो.68ब्7, छ्.422ब्15
कथं श्माशानिको भवति । श्मशाने वासं कल्पयति, यत्र मृतमृतो जनकायो ऽभिनिर्ह्रियते । एवं श्माशानिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-xइइ म्स्.64अ4ल्,स्ह्. 160-9, प्.76ब्4, द्.64ब्2, न्.67ब्3, चो.68ब्7, छ्.422ब्17
कथं नैषद्यिको भवति । मञ्चे वा पीठे वा तृणसंस्तरे वा निषद्यया कालम् अतिनामयति । नो तु मञ्चं वा पीठं वा कुड्यं वा वृक्षमूलं वा तृणसंस्तरं वा निश्रित्य पृष्ठं वा पार्श्वं वा ददाति । एवं नैषद्यिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-xइइइ म्स्.64अ5ल्,स्ह्.160-15, प्.76ब्5, द्.64ब्3, न्.67ब्4, चो.69अ1, छ्.422ब्21
कथं याथासंस्तरिको भवति । यस्मिन् तृणसंस्तरे वा पर्णसंस्तरे वा शय्यां कल्पयति । तृणसंस्तरं वा पर्णसंस्तरं वा सकृद् यथैव संस्तृतं भवति तथैव शय्यां कल्पयति । नो तु पुनर् विकोपयत्य् अभिसंस्करोति च । एवं याथासंस्तरिको भवति ॥
(इ)-च्-इइल्-13-अ-(10)-अ म्स्.64अ5र्,स्ह्.160-20,w.82-18,**82-29, प्.76ब्7, द्.64ब्4, न्.67ब्5, चो.69अ2, छ्.422ब्24
केनैते धुतगुणा उच्यन्ते । तद्यथा, ऊर्णा वा कर्पासं वा यस्मिन् समये धुतं भवति संकृत्तं विचूर्णं तस्मिन् समये मृदु च भवति लघु च कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा तूलाभिनिर्हारे वा ।

एवम् एवेहैकत्यस्य पिण्डपातपातरागेण पिण्डपाते चित्तं सक्तं भवति संसक्तं, चीवररागेण चीवरे चित्तम् सक्तं भवति संसक्तम्, शयनासनरागेण शयनासने चित्तं सक्तं भवति संसक्तम् । स एभिर् धुतगुणैर् विशोधयत्य् ऋजूकरोति, मृदु कर्मण्यम् आर्जवम् आस्रवं विधेयम्, यदुत ब्रह्मचर्यवासाय ।

तेनोच्यन्ते धुतगुणा इति ॥
(इ)-च्-इइल्-13-अ-(10)-ब् म्स्.64ब्2म्, स्ह्.161-9,प्.77अ3, द्.64ब्7, न्.68अ2, चो.69अ5, छ्.422च्4
तत्र पिण्डपातरागो द्विविधो ऽन्तरायः । प्रणितभोजनरागः प्रभूतभोजनरागश् च । तत्र प्रणीतभोजनरागस्य प्रहाणाय पिण्डपातिकः । प्रभूतभोजनरागस्य प्रहाणायैकासनिकः खलुपश्चाद्भक्तिकश् च भवति ।
चीवररागो त्रिविधो ऽन्तरायः । प्रभूतचीवररागश् चीवरे मृदुसंस्पर्शरागः प्रणीतचीवररागश् च । तत्र प्रभूतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति । चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय पांशुकूलिको भवति ।
शयनासनरागश् चतुर्विधो ऽन्तरायः । तद्यथा संसर्गरागः, प्रतिश्रयरागः, पार्श्वसुखशयनसुखरागः, आस्तरणप्रत्यास्तरणोपच्छादनरागः । तत्र संसर्गरागस्य प्रहाणायारण्यको भवति । प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिक आभ्यवकाशिकः श्माशानिको भवति । अपि च श्माशानिकत्वं मिथुनरागस्य प्रहाणाय भवति । पार्श्वसुखशयनसुखरागस्य प्रहाणाय नैषद्यिको भवति । आस्तरणप्रत्यास्तरणोपच्छादनरागस्य प्रहाणाय याथासंस्तरिको भवति । एवं ( श्भ् इ 286 ) धुतगुणसमन्वागतो भवति ॥
(इ)-च्-इइल्-13-अ-(11) म्स्.64ब्5ल्, स्ह्.162-7, प्.77ब्3, द्.65अ5, न्.68अ7, चो.69ब्4, छ्.422च्18
कथं प्रासादिको भवति । प्रासादिकेनाभिक्रमप्रतिक्रमेण समन्वागतो भवति, आलोकितव्यवलोकितेन संमिञ्जितप्रसारितेन सांघाटीचीवरपात्रधारणेन । एवं प्रासादिको भवति ॥
(इ)-च्-इइल्-13-अ-(12) म्स्.64ब्5र्,स्ह्.162-11, प्.77ब्4, द्.65अ6, न्.68ब्1, चो.69ब्5, छ्.422च्20
कथं मात्रज्ञो भवति । इह श्राद्धा ब्राह्मणगृहपतयो स्वर्थं प्रवारयन्ति, यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । तत्र प्रतिग्रहे मात्रां जानाति एवं मात्रज्ञो भवति ॥
(इ)-च्-इइल्-13-अ-(13) म्स्.65अ1ल्,स्ह्.162-15, प्.77ब्6, द्.65अ7, न्.68ब्3, चो.69ब्6, छ्.422च्22
कथं सत्पुरुषधर्मसमन्वागतो भवति । उच्चकुलप्रव्रजितो वा सन्न् आढ्यकुलप्रव्रजितो वाभिरूपो वा दर्शनीयः प्रासादिको बहुश्रुतो वाक्करणेनोपेतः । अन्यतमान्यतमस्य वा ज्ञानमात्रकस्य दर्शनमात्रकस्पर्शविहारमात्रकस्य लाभी सन्न् एतेन नात्मानम् उत्कर्षयति परांश् च पंसयति । [छोस् दङ् र्जेस् सु म्थुन् पऽइ छोस् ऽबऽ źइग् ब्स्ग्रुब् पर् ब्य ब खो न यिन् पर् रिग् नस् ।] नान्यत्र ( श्भ् इ 288 ) धर्मानुधर्मप्रतिपन्नो भवति । एवं सत्पुरुषधर्मसमन्वागतो भवति ॥
(इ)-च्-इइल्-13-अ-(14) म्स्.65अ2म्,स्ह्.162-22, प्.78अ1, द्.65ब्2, न्.68ब्5, चो.70अ1, छ्.422च्28
कथं पण्डितलिङ्गसमन्वागतो भवति । कर्मलक्षणो बालः कर्मलक्षणः पण्डितः । यथा कथम् इति । बालो दुश्चिन्तितचिन्ती भवति, दुर्भाषितभासी दुष्कृतकर्मकारी । पण्डितः पुनः सुचिन्तितचिन्ती भवति, सुभाषितभाषी सुकृतकर्मकारी । एवं पण्डितलिङ्गसमन्वागतो भवति ॥
(इ)-च्-इइल्-13-अ-(15) म्स्.65अ3म्,स्ह्.163-6, प्.78अ4, द्.65ब्4, न्.68ब्7, चो.70अ3, छ्.423अ4
कथं क्षमो भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । ताडितो न प्रतिताडयति । भण्डितो न प्रतिभण्डयति । स चायुष्मान् क्षमो भवति शीतस्योष्णस्य जिघत्सायाः पिपासाया दंशमशकवातातपसरीसृपसंस्पर्शाणाम्, परतो दुरुक्तानां दुरागतानां वचनपथानाम् । शारीरिकाणां वेदनानां दुःखानां तीव्राणां खराणां कटुकानाम् अमन-आपानां प्राणहारिणीनां क्षमो भवत्य् अधिवासनजातीयः । एवं क्षमो भवति ॥
(इ)-च्-इइल्-13-अ-(16) म्स्.65अ4र्,स्ह्.163-15, प्.78अ7, द्.65ब्6, न्.69अ2, चो.70अ5, छ्.423अ9
कथम् सूरतो भवति । यथापि तन् मैत्रेण कायकर्मणा समन्वागतो भवति, मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुर् अन्तिके विज्ञानां च सब्रह्मचारिणाम् । साधारणपरिभोगी च भवति, अप्रतिभोगी च भवत्य् अप्रतिगुप्तभोजी, लाभैर् धार्मिकैर् धर्मप्रतिलब्धैः, ( श्भ् इ 290 ) पात्रगतैः पात्रपर्यापन्नैः। शीलसामान्यगतश् च भवति, दृष्टिसामान्यगतश् च । स एभिः षड्भिः संरञ्जनीयैर् धर्मैः समन्वागतः प्रियकरणैर् गुरुकरणैर् अविवादकरणैः, सुखसंवास्यो भवति, अविहेठनजातीयः । अभिनन्दन्ति चैनं विज्ञाः सब्रह्मचारिण एकव्यवसायम् । एवम् सूरतो भवति ॥
(इ)-च्-इइल्-13-अ-(17) म्स्.65अ6र्,स्ह्. 164-3, प्.78ब्3, द्.66अ2, न्.69अ5, चो.70ब्5, छ्.423अ18
कथं पेशलो भवति । विगतभृकुटिर् भवत्य् उत्तानमुखवर्णः, स्मितपूर्वंगमः, पूर्वाभिभाषी, प्रियवादी, संग्रहशीलः, शुद्धसन्तानः । एवं पेशलो भवति ॥
(इ)-च्-इइल्-13-ब् म्स्.65अ7म्,स्ह्. 164-6, प्.78ब्5, द्.66अ3, न्.69अ6, चो.70ब्3, छ्.423अ20
स एभिर् धर्मैः समन्वागतो धर्मकामो भवति, गुणकामः । न इआभसत्कारकीर्तिश्लोककामः । न समारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति, नाप्य् अपवादिकया । असन्तं धर्मं न समारोपयति । सन्तं धर्मं नापवदति । स "यत् तद् भवति कवितं कावेयं चित्राक्षरं चिह्नपदव्यञ्जनं लोकायतप्रतिसंयुक्तम्, तन् निरर्थकम्" इति विदित्वा, आरात् परिवर्जयति, न तेनेयते, न तेन प्रीयते ।
न चोत्सदं पात्रचीवरं धारयति । गृहस्थैः सार्धं संसर्गं परिवर्जयति क्लेशवर्धनम् । आर्यैः सह संसर्गं करोति ज्ञानविशोधकम् । न च मित्रकुलानि करोति प्रतिगृह्णाति । "मा मे ततो निदानं भविष्यत्य् अनेकपर्यायेण व्याक्षेपाद् व्यापारो वा तेषां वा पुनर् विपरिणामाद् अन्यथीभावाद् उत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा" इति ।
उत्पन्नोत्पन्नांश् च क्लेशोपक्लेशान् नाधिवासयति, प्रजहति, विनोदयति, व्यन्तीकरोति । "मा मे ऽतोनिदानम् उत्पद्यते दृष्टधार्मिकं वा दुःखं सांपरायिकं वे"ति ।
श्रद्धादेयं च न विनिपातयति, अच्युतशीलः, अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते । न च श्रद्धादेयं प्रतिक्षिपति । न शिक्षां प्रत्याख्याति ।
आत्मदोषान्तरस्खलितगवेषी वा भवति । प्रतिच्छन्नकल्याणो विवृतपापकः । परदोषान्तरस्खलितेषु नाभोगः । संचिन्त्य चापत्तिर् नापद्यते जीवितहेतोर् अपि । आपन्नश् च लघु लघ्व् एव यथाधर्मं ( श्भ् इ 294 ) प्रतिकरोति । इतिकरणीयेषु च दक्षो भवत्य् अनलसः स्वयंकारी । न परतः कायपरिचर्यां पर्येषते ।
बुद्धानां च बुद्धश्रावकाणां चाचिन्त्यम् अनुभावं, गम्भीरां च देशनाम् अधिमुच्यते, न प्रतिक्षिपति, "तथागता एव जानकाः पश्यकाः, नाहम्" इति विदित्वा, न च स्वयंदृष्टिपरामर्शस्थायी भवत्य् असमञ्जसग्राही दुःप्रतिनिःसर्गमन्त्री ।

स एभिर् गुणैर् युक्त एवंविहारी एवंशिक्षमाणः श्रमणालंकारेणालंकृतः शोभते । तद्यथा कश् चिद् एव पुरुषो युवा मण्डनजातीयः कामोपभोगी स्नातानुलिप्तो ऽवदातवस्त्रप्रावृतो विविधैर् भूषणैर् अलंकृतः शोभते, तद्यथा हर्षैर् वा केयूरैर् वाङ्गुलिमुद्रिकया वा जातरूपरजतमालया वा । एवम् एव स एभिर् विविधैः श्रमणालंकारैर् गुणैर् अलंकृतो भासते तपति विरोचते । तस्माच् छ्रमणालंकार इत्य् उच्यते । अयम् उच्यते श्रमणालंकारः ॥
॥ उद्दानम् ॥
श्राद्धाशठो ऽल्पाबाधवीर्यं प्रज्ञाल्पेच्छता संतुष्टिः ।
सुपोषता सुभरता धुतप्रासादिकमात्रता ।
सत्पुरुषः पण्डितलिङ्गं च क्षान्तिः सौरत्यपेशला ॥ [1]
स्याद् आत्मपरसंपत्तिच्छन्दः शीलेन्द्रियस् तथा ।
भोजनं चैव जागर्या संप्रजानद्विहारिता ॥ [2]
तथा कल्याणमित्रः सद्धर्मश्रवणचिन्तना ।
अनन्तरायस् त्यागश् च अलंकारेण पश्चिमः ॥ [3]
लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च ।
तयोश् चैव हि संभारो भूमिर् नैष्क्रम्यसंज्ञिता ॥ [4]
॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानम् ॥
(इइ)-अ-इ म्स्.66अ2ल्, स्ह्.169-1, w.83-13, प्.80अ2, द्.67अ4, न्.70ब्2, चो.71ब्2, छ्.424अ1
तत्र कति पुद्गला ये ऽस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्तितायां निष्क्रामन्ति । कथं च पुद्गलानां व्यवस्थानं भवति । कतमद् आलम्बनम् । कतमो ऽववादः । कतमा शिक्षा । कतमे शिक्षानुलोमिका धर्माः । कतमो योगभ्रंशः । कतमे योगाः । कतमो मनस्कारः । कतमद् योगकरणीयम् । कति योगाचाराः । कतमा योगभावना । कतमद् भावनाफलम् । कति पुद्गलपर्यायाः । कति माराः । कति मारकर्माणि । कथम् आरम्भो विफलो भवति ॥

(इइ)-अ-इइ-1-अ म्स्.66अ3र्, स्ह्.169-14, w.84-1, प्.80अ7, द्.67अ7, न्.70ब्5, चो.71ब्7, छ्.424अ17
तत्र पुद्गला अष्टाविंशतिः । कतमे ऽष्टाविंशतिः । तद्यथा मृद्विन्द्रियः । तीक्ष्णेन्द्रियः । उत्सदरागः । उत्सदद्वेषः । उत्सदमोहः । उत्सदमानः । उत्सदवितर्कः । समप्राप्तः । मन्दरजस्कजातीयः । प्रतिपन्नकः । फलस्थः । श्रद्धानुसारी । धर्मानुसारी । श्रद्धाधिमुक्तः । दृष्टिप्राप्तः । कायसाक्षी । सप्तकृद्भवपरमः । कुलंकुलः । एकवीचिकः । अन्तरापरिनिर्वायी । उपपद्यपरिनिर्वायी । अनभिसंस्कारपरिनिर्वायी । साभिसंस्कारपरिनिर्वायी । ऊर्ध्वंस्रोता । ( श्भ् इइ 4 ) समयविमुक्तः । अकोप्यधर्मा । प्रज्ञाविमुक्तः । उभयतोभागविमुक्तश् चेति ॥
(इइ)-अ-इइ-1-अ-(1) म्स्.66अ5म्, स्ह्.170-7, प्.80ब्4, द्.67ब्4, न्.71अ2, चो.72अ4, छ्.424अ25
तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य मृदूनीन्द्रियाणि धन्धवाहीनि मन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् । स पुनर् द्विविधो वेदितव्यः । आदित एव मृद्विन्द्रियगोत्रो परिभावितेन्द्रियश् च ॥
(इइ)-अ-इइ-1-अ-(2) म्स्.66अ6ल्, स्ह्.170-12, प्.80ब्6, द्.67ब्5, न्.71अ3, चो.72अ5, छ्.424अ28
तीक्ष्णेन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य तीक्ष्णानीन्द्रियाण्य् अधन्धवाहीनि भवन्त्य् अमन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् । स पुनर् द्विविधो वेदितव्यः । आदित एव तीक्ष्णेन्द्रियगोत्रः परिभावितेन्द्रियश् च ॥
(इइ)-अ-इइ-1-अ-(3) म्स्.66अ6र्, स्ह्.170-17, प्.80ब्7, द्.67ब्6, न्.71अ5, चो.72अ6, छ्.424ब्4
रागोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वम् अन्यासु जातिषु राग आसेवितो भावितो बहुलीकृतः, स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि तीव्ररागश् च भवत्य् आयतरागश् च । अयम् उच्यते रागोत्सदः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(4) म्स्.66अ7म्, स्ह्.171-1, प्.81अ1, द्.67ब्7, न्.71अ6, चो.72ब्1, छ्.424ब्8
द्वेषोत्सदः पुद्गलः कतमः । येन पुद्गलेन द्वेषः पूर्वम् अन्यासु ( श्भ् इइ 6 ) जातिष्व् आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश् च भवत्य् आयतद्वेषश् च । अयम् उच्यते द्वेषोत्सदः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(5) म्स्.66अ8ल्, स्ह्.171-6, प्.81अ3, द्.68अ1, न्.71अ7, चो.72ब्2, छ्.424ब्11
मोहोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वम् अन्यासु जातिषु मोह आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि मोहनीये वस्तुनि तीव्रमोहश् च भवत्य् आयतमोहश् च । अयम् उच्यते मोहोत्सदः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(6) म्स्.66ब्1ल्, स्ह्.171-11, प्.81अ5, द्.68अ3, न्.71ब्2, चो.72ब्3, छ्.424ब्15
मानोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वम् अन्यासु जातिषु मान आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन च प्रत्ययेनैतर्हि मननीये वस्तुनि तीव्रमानश् च भवत्य् आयतमानश् च । अयम् उच्यते मानोत्सदः पुद्गलः॥
(इइ)-अ-इइ-1-अ-(7) म्स्.66ब्1र्, स्ह्.171-16, प्.81अ7, द्.68अ4, न्.71ब्3, चो.72ब्4, छ्.424ब्18
वितर्कोत्सदः पुद्गलः कतमः । येन पुद्गलेन पूर्वम् अन्यासु जातिषु वितर्क आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेनैव प्रत्ययेनैतर्हि वितर्कस्थानीये वस्तुनि तीव्रवितर्कश् च भवत्य् आयतवितर्कश् च । अयम् उच्यते वितर्कोत्सदः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(8) म्स्.66ब्2र्, स्ह्.171-21, प्.81ब्1, द्.68अ5, न्.71ब्4, चो.72ब्6, छ्.424ब्22
समप्राप्तः पुद्गलः कतमः । येन पुद्गलेन पूर्वम् अन्यासु जातिषु रागो द्वेषो मोहो मानो वितर्को नासेवितो भावितो बहुलीकृतः । न चैते धर्मा आदीनवतो दृष्टा विदूषिताः संतीरिताः । स तेन हेतुना तेन प्रत्ययेन रञ्जनीये वा वस्तुनि द्वेषणीये मोहनीये मन्यनीये वितर्कनीये न तीव्ररागो भवति नाप्य् आयतरागः । न चास्य न समुदाचरति रागो यदुत तेन वस्तुन । यथा राग एवं द्वेषो मोहो मानो वितर्कः । अयम् उच्यते समप्राप्तः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(9) म्स्.66ब्4ल्, स्ह्.172-8, प्.81ब्5, द्.68ब्2, न्.72अ1, चो.73अ2, छ्.424ब्29
मन्दरजस्कः पुद्गलः कतमः । येन पुद्गलेन पूर्वम् अन्यासु जातिषु न राग आसेवितो भावितो बहुलीकृतः । आदीनवतश् च बहुलं दृष्टो भवति विदूषितः संतीरितः । स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि समवहिते संमुखीभूते ऽधिमात्रे प्रचुर उल्बणे धन्धं रागम् उत्पादयति । मध्ये परीत्ते नैवोत्पादयति । यथा राग एवं द्वेषो मोहो मानो वितर्को वेदितव्यः । अयम् उच्यते मन्दरजस्कः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(10) म्स्.66ब्5र्, स्ह्.172-17, प्.82अ1, द्.68ब्4, न्.72अ3, चो.73अ5, छ्.424च्5
प्रतिपन्नकः पुद्गलः कतमः । आह । प्रतिपन्नकाः पुद्गलाश् चत्वारः । कतमे चत्वारः । तद्यथा स्रोत-आपत्तिफलप्रतिपन्नकः, सकृदागामिफलप्रतिपन्नकः, अनागामिफलप्रतिपन्नकः, अर्हत्त्वफलप्रतिपन्नकश् च । अयम् उच्यते प्रतिपन्नकः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(11) म्स्.66ब्6र्, स्ह्.173-2, प्.82अ3, द्.68ब्5, न्.72अ5, चो.73अ6, छ्.424च्8
फलस्थः पुद्गलः कतमः । आह । स्रोत-आपन्नः, सकृदागामी, अनागामी, अर्हन् । अयम् उच्यते फलस्थः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(12) म्स्.66ब्7ल्, स्ह्.175-1, प्.82अ5, द्.68ब्7, न्.72अ6, चो.73ब्1, छ्.424च्11
श्रद्धानुसारी पुद्गलः कतमः । यः पुद्गलः परतो ऽववादानुशासनीं पर्येषते । तद्बलेन च प्रतिपद्यते यदुत फलस्याधिगमाय । नो तूद्गृहीतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयम् एव शक्तो भवति प्रतिबलस् तान् धर्मान् भावनाकारेणानुसर्तुम् । नान्यत्र पुद्गलानुसारिण्या श्रद्धया प्रतिपद्यते । तस्माच् छ्रद्धानुसारीत्य् उच्यते ॥
(इइ)-अ-इइ-1-अ-(13) म्स्.66ब्8म्, स्ह्.175-8, प्.82अ8, द्.69अ2, न्.72ब्1, चो.73ब्3, छ्.424च्16
धर्मानुसारी पुद्गलः कतमः । यः पुद्गलो यथाश्रुतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयम् एव शक्तो भवति प्रतिबलस् तान् धर्मान् भावनाकारेणानुसर्तुम् । नो तु परतो ऽववादानुशासनीं पर्येषते, यदुत फलस्याधिगमाय । अयम् उच्यते धर्मानुसारी पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(14) म्स्.67अ1म्, स्ह्.175-14, प्.82ब्2, द्.69अ3, न्.72ब्3, चो.73ब्4, छ्.424च्20
श्रद्धाधिमुक्तः पुद्गलः कतमः । आह । स एव श्रद्धानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलम् अधिगच्छति स्पर्शयति साक्षात्करोति परतो ऽववादानुशासनीम् आगम्य, तस्मिन् समये श्रद्धाधिमुक्त इत्य् उच्यते ॥
(इइ)-अ-इइ-1-अ-(15) म्स्.67अ2ल्, स्ह्.176-4, प्.82ब्4, द्.69अ4, न्.72ब्4, चो.73ब्6, छ्.424च्23
दृष्टिप्राप्तः पुद्गलः कतमः । आह । स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलम् अधिगच्छति स्पर्शयति साक्षात्करोति परतो नाववादानुशासनीम् आगम्य, तस्मिन् समये दृष्टिप्राप्त इत्य् उच्यते ॥
(इइ)-अ-इइ-1-अ-(16) म्स्.67अ2र्, स्ह्.177-3, प्.82ब्5, द्.69अ5, न्.72ब्5, चो.73ब्7, छ्.424च्25

कायसाक्षी पुद्गलः कतमः । यो ऽयं पुद्गलो ऽनुलोमप्रतिलोमम् अष्टौ विमोक्षान् समापद्यते व्युत्तिष्ठते च । कायेन च साक्षात्कृत्य बहुलं विहरति । न च सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति । अयम् उच्यते कायसाक्षी पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(17) म्स्.67अ3म्, स्ह्.177-8, w.84-25, प्.82ब्7, द्.69अ7, न्.72ब्7, चो.74अ1, छ्.424च्27
सप्तकृद्भवपरमः पुद्गलः कतमः । यो ऽयं पुद्गलस् त्रयाणाम् संयोजनानां प्रहाणात् सत्कायदृष्टेः शीलव्रतपरामर्शस्य विचिकित्सायाः स्रोत-आपन्नो भवति । अविनिपातधर्मा नियतः संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाव्य संसृत्य दुःखस्यान्तं करोति । अयम् उच्यते सप्तकृद्भवपरमः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(18) म्स्.67अ4म्, स्ह्.178-1, प्.83अ2, द्.69ब्2, न्.73अ2, चो.74अ3, छ्.425अ2
कुलंकुलः पुद्गलः कतमः । [स्म्रस् प । रिग्स् नस् रिग्स् सु स्क्ये ब नि ग्ञिस् ते । ल्हऽइ रिग्स् नस् रिग्स् सु स्क्ये ब दङ् । मिऽइ रिग्स् नस् रिग्स् सु स्क्ये बऽओ ॥ दे ल ल्हऽइ रिग्स् नस् रिग्स् सु स्क्ये ब नि । ल्ह र्नम्स् क्यि रिग्स् नस् रिग्स् सु म्त्स्हम्स् स्ब्यर् źइङ् । ऽखोर् नस् स्दुग् ब्स्ङल् म्थर् ब्येद् प गङ् यिन् पऽओ । दे ल मिऽइ रिग्स् नस् रिग्स् सु स्क्ये ब नि । मि र्नम्स् क्यि रिग्स् नस् रिग्स् सु म्त्स्हम्स् स्ब्यर् źइङ् । ऽखोर् नस् स्दुग् ब्स्ङल् म्थर् ब्येद् प गङ् यिन् प स्ते] । उभाव् अपि स्रोत-आपन्नौ पुद्गलौ वेदितव्यौ ॥
(इइ)-अ-इइ-1-अ-(19) म्स्.67अ4र्, स्ह्.178-3, प्.83अ5, द्.69ब्4, न्.73अ4, चो.74अ6, छ्.425अ6
तत्रैकवीचिकः पुद्गलः कतमः । यस्य सकृदागामिनः पुद्गलस्यानागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानाम् अधिमात्रमध्यक्लेशाः प्रहीणा भवन्ति । मृदुकाश् चैके ऽवशिष्टा भवन्ति । सकृच् च कामावचरदेवभवम् अभिनिर्वर्त्य तत्रैव परिनिर्वाति । न पुनः सकृद् आगच्छतीमं लोकम् । अयम् उच्यत एकवीचिकः पुद्गलः ॥

(इइ)-अ-इइ-1-अ-(20) म्स्.67अ5र्, स्ह्.178-10, प्.83अ7, द्.69ब्5, न्.73अ6, चो.74अ7, छ्.425अ11
अन्तरापरिनिर्वायी पुद्गलः कतमः । आह । अन्तरापरिनिर्वायिणः पुद्गलास् त्रयः । एको ऽन्तरापरिनिर्वायी पुद्गलश् च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले ऽन्तराभवम् अभिनिर्वर्तयति । अभिनिर्वृत्ते समकालम् एव परिनिर्वाति । तद्यथा परीत्तः शकलिकाग्निर् उत्पन्न एव परिनिर्वाति ।
द्वितीयो ऽन्तरापरिनिर्वायी पुद्गलो ऽन्तराभवम् अभिनिर्वर्तयति । अभिनिर्वृत्ते ऽन्तराभवे तत्रस्थ एव कालान्तरेण परिनिर्वाति । नो तु येनोपपत्तिभवस् तेनाद्याप्य् उपनतो भवति । तद्यथा, अयोगुडानां वायःस्थालानां वा दीप्ताग्निसंप्रतप्तानाम् अयोघनैर् हन्यमानानाम् अयःप्रपाटिकोत्पतत्य् एव परिनिर्वाति ।
तृतीयो ऽन्तरापरिनिर्वायी पुद्गलो ऽन्तराभवम् अभिनिर्वर्त्य येनोपपत्तिभवस् तेनोपनमति । उपनतश् च पुनर् अनुपपन्न एव परिनिर्वाति । तद्यथायस्प्रपाटिकोत्पत्य पृथिव्याम् अपतितैव परिनिर्वाति ।
त इमे त्रयो ऽन्तरापरिनिर्वायिणः पुद्गला एकध्यम् अभिसंक्षिप्यान्तरापरिनिर्वायी पुद्गल इत्य् उच्यते ॥
(इइ)-अ-इइ-1-अ-(21) म्स्.67ब्2म्, स्ह्.180-13, प्.83ब्7, द्.70अ4, न्.73ब्5, चो.74ब्6, छ्.425अ22
उपपद्यपरिनिर्वायी पुद्गलः कतमः । य उपपन्नमात्र एव परिनिर्वाति । अयम् उच्यत उपपद्यपरिनिर्वायी पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(22) म्स्.67ब्2र्, स्ह्.180-15, प्.84अ1, द्.70अ5, न्.73ब्6, चो.74ब्7, छ्.425अ24
अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । 13) यो ऽनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति । अयम् उच्यते ऽनभिसंस्कारपरिनिर्वायी पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(23) म्स्.67ब्3ल्, स्ह्.181-3, प्.84अ2, द्.70अ6, न्.73ब्7, चो. 75अ1, छ्.425अ27
साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । यो ऽभिसंस्कारेण प्रयत्नेन खेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति । अयम् उच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(24) म्स्.67ब्3र्, स्ह्.181-7, प्.84अ4, द्.70अ7, न्.74अ1, चो. 75अ3, छ्.425अ29
ऊर्ध्वंस्रोताः पुद्गलः कतमः । यः पुद्गलो ऽनागामी प्रथमे ध्यान उपपन्नः स न तत्रस्थ एव परिनिर्वाति । अपि तु तस्माच् च्यवित्वोत्तरोत्तरम् उपपत्त्यायतनम् अभिनिर्वर्तयन् यावद् अकनिष्ठान् वा देवान् गच्छति, नैवसंज्ञानासंज्ञायतनं वा । अयम् उच्यत ऊर्ध्वंस्रोताह् पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(25) म्स्.67ब्4र्, स्ह्.182-6, प्.84अ6, द्.70ब्2, न्.74अ3, चो. 75अ4, छ्.425ब्5
समयविमुक्तः पुद्गलः कतमः । यो मृद्विन्द्रियगोत्रः पुद्गलो लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते । चेतयति वा मरणाय । अनुरक्षते वा विमुक्तिम् । अत्यर्थाप्रमादचर्याम् अनुयुक्तो भवति, यदुतैताम् एवापरिहाणिम् अधिपतिं कृत्वा । तन्मात्रो वास्य कुशलपक्षो भवति, नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्तानाम् अत्ययाद् अत्यर्थं विशेषाय परैति । यावन् न तीव्रम् अभियोगं करोति । अयम् उच्यते समयविमुक्तः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(26) म्स्.67ब्6ल्, स्ह्.183-1, प्.84ब्2, द्.70ब्4, न्.74अ6, चो. 75अ7, छ्.425ब्11
अकोप्यधर्मा पुद्गलः कतमः । एतद्विपर्ययेणाकोप्यधर्मा पुद्गलो वेदितव्यः ॥
(इइ)-अ-इइ-1-अ-(27) म्स्.67ब्6म्, स्ह्.183-3, प्.84ब्3, द्.70ब्5, न्.74अ6, चो. 75अ7, छ्.425ब्12
प्रज्ञाविमुक्तः पुद्गलः कतमः । यः पुद्गलः सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति । नो त्व् अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति । अयम् उच्यते प्रज्ञाविमुक्तः पुद्गलः ॥
(इइ)-अ-इइ-1-अ-(28) म्स्.67ब्7ल्, स्ह्.183-7, प्.84ब्4, द्.70ब्6, न्.74ब्1, चो.75ब्1, छ्.425ब्15
उभयतोभागविमुक्तः पुद्गलः कतमः । यः पुद्गलः सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति । अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति । तस्य क्लेशावरणाच् च चित्तं मुक्तं भवति, विमोक्षावरणाच् च । अयम् उच्यत उभयतोभागविमुक्तः पुद्गलः ॥
(इइ)-अ-इइ-2-अ म्स्.68अ1म्, स्ह्.184-1, w.85-5, प्.84ब्6, द्.70ब्7, न्.74ब्2, चो.75ब्3, छ्.425ब्20
पुद्गलव्यवस्थानं कतमत् । एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् । कतमैर् एकादशभिः । तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन, प्रणिधानप्रभेदेन, प्रतिपत्प्रभेदेन, मार्गफलप्रभेदेन, प्रयोगप्रभेदेन, समापत्तिप्रभेदेन, उपपत्तिप्रभेदेन, परिहाणिप्रभेदेन, आवरणप्रभेदेन च ॥
-इइ-2-अ-(1) म्स्.68अ2ल्, स्ह्.184-7, प्.85अ1, द्.71अ2, न्.74ब्4, चो.75ब्5, छ्.425ब्25
इन्द्रियप्रभेदेन तावत् । मृद्विन्द्रियतीक्ष्णेन्द्रियपुद्गलयोर् व्यवस्थानम् ॥
-इइ-2-अ-(2) म्स्.68अ2ल्, स्ह्. 184-9, प्.85अ2, द्.71अ3, न्.74ब्5, चो.75ब्5, छ्.425ब्27
निकायप्रभेदेन सप्तविधं पुद्गलव्यवस्थानम् । भिक्षुर् भिक्षुणी शिक्षमाणा श्रामणेरः श्रामणेर्य् उपासक उपासिका च ॥
-इइ-2-अ-(3) म्स्.68अ2म्, स्ह्. 184-12, प्.85अ3, द्.71अ3, न्.74ब्6, चो.75ब्6, छ्.425च्1
तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानम् । यो ऽयं रागोत्सदः पुद्गलः स रागचरितः । यो द्वेषोत्सदः स द्वेषचरितः । यो मोहोत्सदः स मोहचरितः । यो मानोत्सदः स मानचरितः । यो वितर्कोत्सदः स वितर्कचरितः । यः समप्राप्तः स समभागचरितः ।
यो मन्दरजस्कः स मन्दचरितो वेदितव्यः ॥
-इइ-2-अ-(3)-इ म्स्.68अ3म्, स्ह्.185-1, प्.85अ6, द्.71अ5, न्.75अ1, चो.76अ1, छ्.425च्8
तत्र रागचरितस्य पुद्गलस्य कतमानि लिङ्गानि । इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रञ्जनीये वस्तुनि घनम् अधिमात्रं रागपर्यवस्थानम् उत्पादयति । कः पुनर् वादो मध्यप्रणीते । तच् च पुना रागपर्यवस्थानं संतत्या चिरकालम् अवस्थापयति । दीर्घकालम् अनुबद्धो भवति ।
तेन पर्यवस्थानेन रञ्जनीयैर् धर्मैर् अभिभूयते । नो तु शक्नोति रञ्जनीयान् धर्मान् अभिभवितुम् । स्निग्धेन्द्रियश् च भवत्य् अखरेन्द्रियः, अकर्कशेन्द्रियः, अपरुषेन्द्रियः । नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन वाचा दुर्विवेज्यश् च भवति दुःसंवेज्यश् च । हीनाधिमुक्तिकश् च भवति । दृढकर्मान्तः । स्थिरकर्मान्तः । दृढव्रतः । स्थिरव्रतः । सहिष्णुश् च भवत्य् उपकरणेषु परिष्कारेषु लोलुपजातीयस् तद्गुरुकश् च, सौमनस्यबहुलश् च भवत्य् आनन्दीबहुलो विगतभृकुटिर् उत्तानमुखवर्णः स्मितपूर्वंगमः । इत्य् एवंभागीयानि रागचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥
-इइ-2-अ-(3)-इइ म्स्.68अ6ल्, स्ह्.185-17, प्.85ब्6, द्.71ब्4, न्.75अ6, चो.76अ6, छ्.425च्19

तत्र द्वेषचरितस्य पुद्गलस्य लिङ्गानि कतमानि । इह द्वेषचरितः पुद्गलो ( श्भ् इइ 26 ) द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं प्रभूतं प्रतिघपर्यवस्थानम् उत्पादयति । कः पुनर् वादो मध्याधिमात्रेण । तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं संततिम् अवस्थापयति । चिरकालम् अनुबद्धो भवति । प्रतिघपर्यवस्थानेन स द्वेषणीयैर् धर्मैर् अभिभूयते । नो तु द्वेषणीयान् धर्माञ् छक्नोत्य् अभिभवितुम् । रूक्षेन्द्रियश् च भवति । खरेन्द्रियः कर्कशेन्द्रियः परुषेन्द्रियश् च भवति । अत्यर्थं च परेषां विहेठनजातीयो भवति यदुत कायेन वाचा । सुविवेज्यश् च भवति सुसंवेज्यः । ध्वाङ्क्षो भवति मुखरः, प्रगल्भः, अनधिमुक्तिबहुलः । न दृढकर्मन्तो न स्थिरकर्मन्तो न दृढव्रतो न स्थिरव्रतः । दौर्मनस्यबहुलश् च भवत्य् उपायासबहुलः । अक्षमो भवत्य् असहिष्णुः, विलोमनजातीयः, अप्रदक्षिणग्राही दुष्प्रत्यानेयजातीयः, उपनाहबहुलः । क्रूराशयश् चण्डश् च भवत्य् आदाशी प्रत्यक्षरवादी सो ऽल्पमात्रम् अप्य् उक्तः सन्न् अभिषज्यते, कुप्यति, व्यापद्यते मद्गुः प्रतितिष्ठति कोपं संजनयति । विकृतभृकुटिश् च भवति । अनुत्तानमुखवर्णः, परसंपत्तिद्वेष्टा, ईर्ष्याबहुलः । इत्य् एवंभागीयानि द्वेषचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥
-इइ-2-अ-(3)-इइइ म्स्.68ब्1र्, स्ह्.186-16, प्.86अ7, द्.72अ3, न्.75ब्6, चो.76ब्5, छ्.426अ4
तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि । इह मोहचरितः पुद्गलो मोहस्थानीये वस्तुनि परीत्ते घनं प्रभूतं मोहपर्यवस्थानम् उत्पादयति । प्राग् एव मध्याधिमात्रे । दीर्घं च कालं तस्य मोहपर्यवस्थानस्य संततिम् अवस्थापयति । तेन च अनुबद्धो भवति । स मोहनीयैर् धर्मैर् अभिभूयते । नो तु मोहनीयान् धर्माञ् छक्नोत्य् अभिभवितुम् । धन्धेन्द्रियश् च भवति । जडेन्द्रियश् च भवति, मन्देन्द्रियश् च शिथिलकायकर्मान्तः, शिथिलवाक्कर्मान्तः, दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो ऽनुत्थानसंपन्नः, मन्दभाषी, दुर्मेधः, मुषितस्मृतिः, असंप्रजानद्विहारी, वामग्राही, दुर्विवेज्यः, दुःसंवेज्यः, हीनाधिमुक्तिकः । जड एडमूको हस्तसंवाचिकः । अप्रतिबलः सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् । प्रत्ययहार्यश् च भवति परहार्यः परप्रणेयः । इत्य् एवंभागीयानि मोहचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥
-इइ-2-अ-(3)-इव् म्स्.68ब्4म्, स्ह्.187-13, प्.86ब्7, द्.72ब्1, न्.76अ5, चो.77अ4, छ्.426अ16
तत्र कतमानि मानचरितस्य पुद्गलस्य लिङ्गानि । इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्ते ऽपि घनं प्रभूतम्ं मानपर्यवस्थानम् उत्पादयति । कः पुनर् वादो मध्याधिमात्रे । तस्य च मानपर्यवस्थानस्य ( श्भ् इइ 30 ) दीर्घकालं संततिम् अवस्थापयति । तेन चानुबद्धो भवति । स मानस्थानीयैर् धर्मैर् अभिभूयते । नो तु मानस्थानीयान् धर्माञ् छक्नोत्य् अभिभवितुम् । उद्धतेन्द्रियश् च भवत्य् उन्नतेन्द्रियश् च कायमण्डनानुयोगम् अनुयुक्तश् च भवति। अधिमात्रम् उन्नतां च वाचं भाषते नावनताम् । मातापितृज्ञातिगुरुस्थानीयानां च न कालेन कालं यथानुरूपाम् अपचितिं कर्ता भवति । स्तब्धो भवति, अप्रणतकायो नाभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्मशीलः । आत्मप्रग्राहको भवत्य् आत्मोत्कर्षपरपंसकः । लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः । उत्प्लावनाभाण्डो दुर्विवेज्यश् च भवति दुःसंवेज्यः । उदाराधिमुक्तिश् च भवति । मन्दकारुण्यः । अधिमात्रं चात्मसत्त्वजीवपोषपुरुषपुद्गलदृष्टिमन्युबहलो भवति, उपनाही च । इत्य् एवंभागीयानि मानचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥
-इइ-2-अ-(3)-व् म्स्.68ब्8र्, स्ह्.188-15, प्.87अ7, द्.72ब्7, न्.76ब्4, चो.77ब्3, छ्.426ब्1

तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि । इह वितर्कचरितः पुद्गलो वितर्कस्थानीये वस्तुनि परीत्ते ऽपि घनं प्रभूतं वितर्कपर्यवस्थानम् उत्पादयति । कः पुनर् वादो मध्याधिमात्रे । तच् च पर्यवस्थानं दीर्घकालम् अवस्थापयति । तेन चानुबद्धो ( श्भ् इइ 32 ) भवति । स वितर्कस्थानीयैर् धर्मैर् अभिभूयते । नो तु वितर्कस्थानीयान् धर्माञ् छक्नोत्य् अभिभवितुम् । अस्थिरेन्द्रियश् च भवति चपलेन्द्रियश् चञ्चलेन्द्रियो व्याकुलेन्द्रियः । त्वरितकायकर्मान्तस् त्वरितवाक्कर्मान्तः । दुर्विवेज्यो दुःसंवेज्यः । प्रपञ्चारामः प्रपञ्चरतः । काङ्क्षाबहुलो विचिकित्साबहुलः । छन्दिकश् च भवत्य् अस्थिरव्रतो ऽनिश्चितव्रतः । अस्थिरकर्मान्तो ऽनिश्चितकर्मान्तः । शंकाबहुलः प्रमुषितस्मृतिः । विवेकानभिरतो विक्षेपबहुलः । लोकचित्रेषु छन्दरागानुसृतः, दक्षो ऽनलस उत्थानसंपन्नः । इत्य् एवंभागीयानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ।
इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ॥
-इइ-2-अ-(4) म्स्.69अ3ल्, स्ह्.189-11, प्.87ब्8, द्.73अ6, न्.77अ3, चो.78अ2, छ्.426ब्14
तत्र81 प्रणिधानप्रभेदेन पुद्गलव्यवस्थानम् । अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः, अस्ति प्रत्येकबुद्धयाने, अस्ति महायाने । तत्र यो ऽयं पुद्गलः श्रावकयाने कृतप्रणिधानः स स्याच् छ्रावकगोत्रः, स्यात् प्रत्येकबुद्धगोत्रः, स्यान् महायानगोत्रः । तत्र यो ऽयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सो ऽपि स्यात् प्रत्येकबुद्धगोत्रः, स्याच् छ्रावकगोत्रः, स्यान् महायानगोत्रः । तत्र यो ऽयं पुद्गलो महायाने कृतप्रणिधानः सो ऽपि स्याच् छ्रावकगोत्रः, स्यात् प्रत्येकबुद्धगोत्रः, स्यान् महायानगोत्रः ।
तत्र यो ऽयं श्रावकगोत्रः पुद्गलः प्रत्येकायां बोधाव् अनुत्तरायां वा सम्यक्संबोधौ कृतप्रणिधानः, स श्रावकगोत्रत्वाद् अवश्यम् अन्ते काले ( श्भ् इइ 34 ) तत्प्रणिधानं व्यावर्त्य श्रावकयानप्रणिधान एवावतिष्ठते । एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः ।
तत्र भवत्य् एषां पुद्गलानां प्रणिधानसंचारः प्रणिधानव्यतिकरः । नो तु गोत्रसंचारः, गोत्रव्यतिकरः । अस्मिंस् त्व् अर्थे श्रावकयानप्रणिधानाः श्रावकगोत्राश् चैते पुद्गला वेदितव्याः । एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ॥
-इइ-2-अ-(5) म्स्.69अ6ल्, स्ह्.190-8, छोइ.162-6, प्.88ब्1, द्.73ब्5, न्.77ब्2, चो.78ब्1, छ्.426च्2
कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति । एषां यथोद्दिष्टानां यथापरिकीर्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर् निर्याणं भवति । कतमाभिश् चतसृभिः । अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा। अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा । अस्ति प्रतिपत् सुखा धन्धाभिज्ञा । अस्ति प्रतिपत् सुखा क्षिप्राभिज्ञा ।
तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपद् इयम् उच्यते दुःखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपद् इयम् उच्यते दुःखा क्षिप्राभिज्ञा । तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपद् इयम् उच्यते सुखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपद् इयम् उच्यते सुखा क्षिप्राभिज्ञा । एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ।
-इइ-2-अ-(6) म्स्.69अ8म्, स्ह्.190-22, प्.88ब्7, द्.74अ1, न्.77ब्6, चो.78ब्5, छ्.426च्13
तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् । तद्यथा चतुर्णां प्रतिपन्नकानां स्रोत-आपत्तिफलप्रतिपन्नकस्य, सकृदागामिफलप्रतिपन्नकस्य, अनागामिफलप्रतिपन्नकस्य, अर्हत्त्वफलप्रतिपन्नकस्य । ( श्भ् इइ 36 ) चतुर्णां च फलस्थानां, स्रोत-आपन्नस्य, सकृदागामिनो, ऽनागामिनो, ऽर्हतश् च । ये प्रतिपन्नकमार्गे वर्तन्ते ते प्रतिपन्नकास् तेषां प्रतिपन्नकमार्गेण व्यवस्थानम् । ये तत्फलश्रामण्यफलव्यवस्थितास् तेषां मार्गफलव्यवस्थानम् । एवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति ॥
-इइ-2-अ-(7) म्स्.69ब्1र्, स्ह्.191-10, प्.89अ4, द्.74अ5, न्.78अ3, चो.79अ2, छ्.426च्22
कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा श्रद्धानुसारिधर्मानुसारिणा । नो यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः स श्रद्धानुसारी । यो धर्मेषु अपरप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी । एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति ॥
-इइ-2-अ-(8) म्स्.69ब्2र्, स्ह्.191-15, प्.89अ6, द्.74अ7, न्.78अ5, चो.79अ3, छ्.426च्27
तत्र कथम् समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा कायसाक्ष्य् अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति । न च सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्तो भवति । रूपी रूपाणि पश्यति । अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति । शुभं विमोक्षं ( श्भ् इइ 38 ) कायेन साक्षात्कृत्वोपसंपद्य विहरति । अकाशानन्त्यायतनम्, विज्ञ् स्नानन्त्यायतनम्, आकिञ्चन्यायतनम्, नैवसंज्ञानासंज्ञायतनम्, )संज्ञावेदयितनिरोधम् अनुलोमप्रतिलोमं समापद्यते च, व्युत्तिष्ठते च । एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ॥
-इइ-2-अ-(9) म्स्.69ब्4ल्, स्ह्.192-3, प्.89ब्3, द्.74ब्3, न्.78ब्1, चो.79अ7, छ्.427अ6
कथम् उपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्य, अन्तरापरिनिर्वायिणः, उपपद्यपरिनिर्वायिणः, अनभिसंस्कारपरिनिर्वायिणः, साभिसंस्कारपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश् च । एवम् उपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ॥
-इइ-2-अ-(10) म्स्.69ब्5ल्, स्ह्.192-7, प्.89ब्6, द्.74ब्5, न्.78ब्3, चो.79ब्2, छ्.427अ10
कथं परिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा समयविमुक्तस्यार्हतो यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय । अपरिहाणिप्रभेदेन पुनर् व्यवस्थानम् । अकोप्यधर्मकस्यार्हतो यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय । एवम् अपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति ॥
-इइ-2-अ-(11) म्स्.69ब्6ल्, स्ह्.192-13, प्.90अ1, द्.74ब्7, न्.78ब्5, चो.79ब्4, छ्.427अ14
तत्र कथम् आवरणप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः । तत्र प्रज्ञाविमुक्तो ऽर्हन् क्लेशावरणविमुक्तः, न समापत्त्यावरणात् । उभयतोभागविमुक्तस् त्व् अर्हन् क्लेशावरणाच् च विमुक्तः समापत्त्यावरणाच् च । तस्माद् उभयतोभागविमुक्त ( श्भ् इइ 40 ) इत्य् उच्यते । एवम् आवरणप्रभेदेन पुद्गलव्यवस्थानं भवति ॥
-इइ-2-ब् म्स्.69ब्7ल्, स्ह्.192-19, प्.90अ4, द्.75अ2, न्.79अ1, चो.79ब्6, छ्.427अ20
एभिः प्रभेदैर् यथोद्दिष्टैर् यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् ॥
(इइ)-अ-इइ-3 म्स्.69ब्7म्, स्ह्.192-21, स.4-2, w.86-1, प्.90अ5, द्.75अ3, न्.79अ2, चो.79ब्7, छ्.427अ22

तत्रालम्बनं कतमत् । आह । चत्वार्य् आलम्बनवस्तूनि । कतमानि चत्वारि । व्याप्य् आलम्बनम्, चरितविशोधनम् आलम्बनम्, कौशल्यालम्बनम्, क्लेशविशोधनं चालम्बनम् ॥
-इइ-3-अ-(1) म्स्.69ब्7र्, स्ह्.193-4, स.4-6, प्.90अ6, द्.75अ4, न्.79अ3, चो.80अ1, छ्.427अ24
तत्र व्याप्य् आलम्बनं कतमत् । आह । तद् अपि चतुर्विधम् । तद्यथा अविकल्पं प्रतिबिम्बम्, निर्विकल्पं प्रतिबिम्बं, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश् च ॥
-इइ-3-अ-(1)-इ म्स्.69ब्8म्, स्ह्.193-7, स.4-10, प्.90अ8, द्.75अ5, न्.79अ4, चो.80अ2, छ्.427अ27
तत्र सविकल्पं प्रतिबिम्बं कतमत् । यथापीहैकत्यः सद्धर्मश्रवणं वाववादानुशासनीं वा निश्रित्य, दृष्टं वा, श्रुतं वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं प्रतिबिम्बम् समाहितभूमिकैर् विपश्यनाकारैर् विपश्यति, विचिनोति, प्रविचिनोति, परिवितर्कयति, परिमीमांसां आपद्यते ।
तत्र ज्ञेयं वस्तु । तद्यथाशुभा वा, मैत्री वा, इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर् वा, स्कन्धकौशल्यं वा, धातुकौशल्यम् आयतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यम्, अधोभूमीनाम् औदारिकत्वं, उपरिभूमीनां शान्तत्वं, दुःखसत्यम्, समुदयसत्यं, निरोधसत्यं, मार्गसत्यम् । इदम् उच्यते ज्ञेयं वस्तु ।
तस्यास्य ज्ञेयवस्तुनो ऽववादानुशासनीं वागम्य, सद्धर्मश्रवणम् वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तान् एव धर्मान् ( श्भ् इइ 44 ) अधिमुच्यते तद् एव ज्ञेयं वस्त्व् अधिमुच्यते । तस्य तस्मिन् समये प्रत्यक्षानुभाविक इवाधिमोक्षः प्रवर्तते ज्ञेयवस्तुनि । न तज् ज्ञेयं वस्तु प्रत्यक्षीभूतं भवति समवहितं संमुखीभूतम् । न च पुनर् अन्यत् तज्जातीयं द्रव्यम् । अपि त्व् अधिमोक्षानुभवः स तादृशो मनस्कारानुभवः समाहितभूमिकः, येन तस्य ज्ञेयस्य वस्तुनो ऽनुसदृशं तद् भवति प्रतिभासम् । येन तद् उच्यते ज्ञेयवस्तुसभागं प्रतिबिम्बम् इति । यद् अयं योगी सन्तीरयंस् तस्मिन् प्रकृते ज्ञेये वस्तुनि परीक्ष्ये गुणदोषावधारणं करोति । इदम् उच्यते सविकल्पं प्रतिबिम्बम् ॥
-इइ-3-अ-(1)-इइ म्स्.70अ4ल्, स्ह्. 194-21, स.6-4, w.86-9, प्.91अ4, द्.75ब्5, न्.79ब्5, चो.80ब्3, छ्.427ब्15
निर्विकल्पं प्रतिबिम्बं कतमत् । इहायं योगी प्रतिबिम्ननिमित्तम् उद्गृह्य न पुनर् विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसाम् आपद्यते । अपि तु तद् एवालम्बनम् अमुक्तो शमथाकारेण तच् चित्तं शमयति । यदुत नवाकारया चित्तस्थित्याध्यात्मम् एव चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समाधत्ते । तस्य तस्मिन् समये निर्विकल्पं ( श्भ् इइ 46 ) तत् प्रतिबिम्बम् आलम्बनं भवति । यत्रासाव् एकांशेनैकाग्रां स्मृतिम् अवस्थापयति, तद् आलम्बनम् । नो तु विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसाम् आपद्यते ।
तच् च प्रतिबिम्बं प्रतिबिम्बम् इत्य् उच्यते । [तिङ् ङे ऽद्zइन् ग्यि म्त्स्हन् म दङ् । तिङ् ङे ऽद्zइन् ग्यि स्प्योद् युल् ग्यि युल् दङ् । तिङ् ङे ऽद्zइन् ग्यि थब्स् दङ् । तिङ् ङे ऽद्zइन् ग्यि स्गो दङ् । यिद् ल ब्येद् पऽइ र्तेन् दङ् । नङ् दु र्नम् पर् र्तोग् पऽइ लुस् दङ् । स्नङ् ब्र्ञन् źएस् क्यङ् ब्य स्ते] । इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि ॥
-इइ-3-अ-(1)-इइइ म्स्.70अ6ल्, स्ह्.195-13, स.7-6, प्.91ब्3, द्.76अ3, न्.80अ3, चो,81अ1, छ्.427ब्28
वस्तुपर्यन्तता कतमा । यालम्बनस्य यावद्भाविकता यथावद्भाविकता च ।
तत्र यावद्भाविकता कतमा । यस्मात् परेण नास्ति रूपस्कन्धो वा, वेदनास्कन्धो वा, संज्ञास्कन्धो वा, संस्कारस्कन्धो वा, विज्ञानस्कन्धो वेति सर्वसंस्कृतवस्तुसंग्रहः पञ्चभिर् धर्मैः । सर्वधर्मसंग्रहो धातुभिर् आयतनैः सर्वज्ञेयवस्तुसंग्रहश् चार्यसत्यैः । इयम् उच्यते यावद्भाविकता ।
तत्र यथावद्भाविकता कतमा । यालम्बनस्य भूतता तथता । चतसृभिर् युक्तिभिर् युक्त्युपेतता । यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या, धर्मतायुक्त्या च । इति या चालम्बनस्य यावद्भाविकता या च ( श्भ् इइ 48 ) यथावद्भाविकता तद् एकध्यम् अभिसंक्षिप्य वस्तुपर्यन्ततेत्य् उच्यते ॥
-इइ-3-अ-(1)-इव् म्स्.70ब्1र्, स्ह्.196-12, स.8-8, प्.92अ1, द्.76अ7, न्.80ब्1, चो.81अ5, छ्.427च्8
तत्र कार्यपरिनिष्पत्तिः कतमा । यद् अस्य योगिन आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयाच् छमथविपश्यनाया यह् प्रतिबिम्बालम्बनो मनस्कारः स परिपूर्यते । तत्परिपूर्याश् चाश्रयः परिवर्तते । सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते । आश्रयपरिवृत्तेश् च प्रतिबिम्बम् अतिक्रम्य तस्मिन्न् एव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनम् उत्पद्यते । प्रथमध्यानसमापत्तुः प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुश् चतुर्थध्यानलाभिनश् चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिञ्चन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस् तैइआभिनस् तद्गोचरे । इयम् उच्यते कार्यपरिनिष्पत्तिः ॥

तान्य् एतानि भवन्ति चत्वार्य् आलम्बनवस्तूनि सर्वत्रगानि सर्वेष्व् आलम्बनेष्व् अनुगतानि । अतीतानागतप्रत्युत्पन्नैः सम्यक्सम्बुद्धैर् देशितानि । तेनैतद् व्याप्य् आलम्बनम् इत्य् उच्यते ।
अपि चैतद् आलम्बनम् शमथपक्ष्यं विपश्यनापक्ष्यं सर्ववस्तुकम् भूतवस्तुकं, हेतुफलवस्तुकं च । तेन तद् व्यापीत्य् उच्यते । यत् तावद् त् आह "सविकल्पं प्रतिबिम्बम्" इतीदम् अत्र विपश्यनपक्ष्यस्य । यत् पुनर् आह "निर्विकल्पं प्रतिबिम्बम्" इतीदम् अत्र शमथपक्ष्यस्य । यत् पुनर् आह "वस्तुपर्यन्तते" तीदम् अत्र सर्ववस्तुकताया भूतवस्तुकतायाश् च । यद् आह "कार्यपरिनिष्पत्तिर्" इतीदम् अत्र हेतुफलसंबन्धस्य ॥
-इइ-3-अ-(2)-इ म्स्.70ब्5र्, स्ह्.197-17, स.9-13, w.86-32, प्.92ब्5, द्.77अ1, न्.81अ3, चो.81ब्7, छ्.427च्27
यथोक्तं भगवतायुष्मन्तं रेवतम् आरभ्य ।
"एवम् अनुश्रूयते", आयुष्मान् रेवतो भगवन्तं प्रश्नम् अप्राक्षीत् ।
"कियति, भदन्त, भिक्षुर् योगी योगाचार आलम्बने चित्तम् उपनिबध्नाति. कतमस्मिन्न् आलम्बने चित्तम् उपनिबध्नाती"ति । "कथं पुनर् आलम्बने चित्तम् उपनिबद्धं सूपनिबद्धं भवति" ॥
-इइ-3-अ-(2)-इइ-(अ) म्स्.70ब्6म्, स्ह्. 198-4, स.10-4, w.ऽ86-37, प्.92ब्8, द्.77अ2, न्.81अ4, चो.82अ2, छ्.428अ3
भगवान् आह । "साधु, साधु, रेवत, साधु खलु त्वं रेवत, एतम् अर्थं पृच्छसि । तेन हि शृणु साधु च सुष्ठु च मनसिकुरु, भाषिष्ये । इह, रेवत, भिक्षुर् योगी योगाचारश् चरितं वा विशोधयितुकामः, कौशल्यं वा कर्तुकामः, आस्रवेभ्यो वा चित्तं विमोचयितुकामः, अनुरूपे चालम्बने चित्तम् उपनिबध्नाति, प्रतिरूपे च सम्यग् एव चोपनिबध्नाति, तत्र चानिराकृतध्यायी भवति ।
कथम् अनुरूप आलम्बने चित्तम् उपनिबध्नाति । सचेद् रेवत, भिक्षुर् योगी योगाचारो रागचरित एव सन्न् अशुभालम्बने चित्तम् उपनिबध्नाति । एवम् अनुरूप आलम्बने चित्तम् उपनिबध्नाति, द्वेषचरितो वा पुनर् मैत्र्याम् । मोहचरितो वेदंप्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो वा धातुप्रभेदे । सचेद् रेवत, स भिक्षुर् योगी योगाचारो वितर्कचरित एव सन्न् आनापानस्मृतौ ( श्भ् इइ 52 ) चित्तम् उपनिबध्नाति । एवं सो ऽनुरूप आलम्बने चित्तम् उपनिबध्नाति ।
सचेत् स रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूध आत्मसत्त्वजीवजन्तुपोषपुद्गलवस्तुसंमूढः स्कन्धकौशल्ये चित्तम् उपनिबध्नाति । हेतुसंमूधो धातुकौशल्ये, प्रत्ययसंमूध आयतनकौशल्ये, अनित्यदुःखानात्मसंमूढः प्रतीत्यसमुत्पादस्थानास्थानकौशल्ये, कामधातोर् वा वैराग्यं कर्तुकामः, कामानाम् औदारिकत्वे रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्तुकामो रूपाणाम् औदारिकत्व आरूप्यशान्ततायां च चित्तम् उपनिबध्नाति । सर्वत्र वा सत्कायान् निर्वेत्तुकामः, विमोक्तुकामः, दुःखसत्ये समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तम् उपनिबध्नाति । एवं हि, रेवत, भिक्षुर् योगी योगचारो ऽनुरूप आलम्बने चित्तम् उपनिबध्नाति ॥
-इइ-3-अ-(2)-2-इइ-(ब्) म्स्.71अ5म्, स्ह्.199-(9), स.11-13, प्.93ब्7, द्.77ब्5, न्.82अ1, चो.82ब्5, छ्.428अ28
कथं च रेवत, भिक्षुर् योगी योगाचारः प्रतिरूप आलम्बने चित्तम् उपनिबध्नाति । इह रेवत, भिक्षुर् यद् यद् एव ज्ञेयं वस्तु विचेतुकामो भवति, प्रविचेतुकामः परिवितर्कयितुकामः परिमीमांसयितुकामः, तच् च तेन पूर्वम् एव दृष्टं वा भवति, श्रुतं वा मतं वा विज्ञातं वा । स तद् एव दृष्टम् अधिपतिं कृत्वा श्रुतं मतं विज्ञातम् अधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेण मनसिकरोति । विकल्पयत्य् अधिमुच्यते । स न तद् एव ज्ञेयं वस्तु समवहितं संमुखीभूतं पश्यत्य् अपि तु तत्प्रतिरूपकम् अस्योत्पद्यते तत्प्रतिभासं वा, ज्ञानमात्रं वा, दर्शनमात्रं वा, प्रतिस्मृतमात्रं वा यदालम्बनम् अयं भिक्षुर् योगी योगाचारः कालेन कालं चित्तम् संशमयति, कालेन कालम् अधिप्रज्ञे धर्मविपश्यनायां ( श्भ् इइ 54 ) योगं करोति । एवं हि स रेवत, भिक्षुर् योगी योगाचारः प्रतिरूप आलम्बने चित्तम् उपनिबध्नाति ॥
-इइ-3-अ-(2)-2-इइ-(च्) म्स्.71अ7र्, स्ह्.199-(19), स.12-13, प्.94अ6, द्.78अ3, न्.82अ6, चो.83अ3, छ्.428ब्10
कथं च रेवत, भिक्षुर् योगी योगाचारः सम्यग् एवालम्बने चित्तम् उपनिबध्नाति । सचेद् अयं रेवत, भिक्षुर् योगी योगाचार आलम्बने चित्तम् उपनिबध्नाति यावद् अनेन ज्ञेयं ज्ञातव्यं भवति, तच् च यथाभूतम् अविपरीतम् । एवं हि, रेवत, भिक्षुर् योगी योगाचारः सम्यग् एवालम्बने चित्तम् उपनिबध्नाति ॥
-इइ-3-अ-(2)-2-इइ-(द्) म्स्.71अ8म्, स्ह्.200-2, स.13-6, प्.94ब्1, द्.78अ5, न्.82ब्1, चो.83अ5, छ्.428ब्15
कथं च रेवत, भिक्षुर् योगी योगाचारो ऽनिराकृतध्यायी भवति । सचेत् स रेवत, भिक्षुर् योगी योगाचार एवम् आलम्बने सम्यक् प्रयुज्यमानः सातत्यप्रयोगी च भवति सत्कृत्यप्रयोगी च कालेन च कालं शमथनिमित्तं भावयति प्रग्रहनिमित्तम् उपेक्षानिमित्तम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेर् आश्रयपरिशुद्धिम् अनुप्राप्नोति स्पर्शयति साक्षात्करोति । ज्ञेयवस्तुप्रत्यवेक्षतया चालम्बनपरिशुद्धिं रागविरागाच् चित्तपरिशुद्धिम् अविद्याविरागाज् ज्ञानपरिशुद्धिम् अधिगच्छति स्पर्शयति साक्षात्करोति । एवं हि, स रेवत, भिक्षुर् ( श्भ् इइ 56 ) योगी योगाचारो ऽनिराकृतध्ययी भवति ।
यतश् च रेवत, भिक्षुर् अस्मिन्न् आलम्बने चित्तम् उपनिबध्नाति, एवं चालम्बने चित्तम् उपनिबध्नाति, एवम् अस्य तच् चित्तम् आलम्बने सूपनिबद्धं भवति" ॥
-इइ-3-अ-(3)-इ म्स्.71ब्2र्, स्ह्.200-18, स.13-6, प्.94ब्7, द्.78ब्2, न्.82ब्6, चो.83ब्3, छ्.428ब्27
तत्र गाथा ।
निमित्तेषु चरन् योगी सर्वभूतार्थवेदकः ।
बिम्बध्यायी साततिकः पारिशुद्धिं निगच्छति ॥
तत्र यत् तावद् आह "निमित्तेषु चरन् योगी"त्य् अनेन तावच् छमथनिमित्ते प्रग्रहनिमित्त उपेक्षानिमित्ते सततकारिता सत्कृत्यकारिता चाख्याता । यत् पुनर् आह "सर्वभूतार्थवेदक" इत्य् अनेन वस्तुपर्यन्तताख्याता । यत् पुनर् आह "बिम्बध्यायी साततिक" इत्य् अनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बम् आख्यातम् । यत् पुनर् आह "पारिशुद्धिं निगच्छती"त्य् अनेन कार्यपरिनिष्पत्तिर् आख्याता ॥
पुनर् अपि चोक्तं भगवता ।
चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसम् ।
ध्यायी निपकः प्रतिस्मृतो भुङ्क्ते प्रीतिसुखं निरामिषम् ॥
तत्र यत् तावद् आह "चित्तनिमित्तस्य कोविद" इत्य् अनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बं निमित्तशब्देनाख्यातम्, वस्तुपर्यन्तता कोविदशब्देन । यत् पुनर् आह "प्रविवेकस्य च विन्दते रसम्" इत्य अनेनालम्बने सम्यक् ( श्भ् इइ 58 ) प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता । यत् पुनर् आह "ध्यायी निपकः प्रतिस्मृत" इत्य् अनेन शमथविपश्यनाया भावनासातत्यम् आख्यातम् । यत् पुनर् आह "भुङ्क्ते प्रीतिसुखं निरामिषम्" इत्य् अनेन कार्यपरिनिष्पत्तिर् आख्याता ।

तद् एवं सत्य् एतद् व्याप्य् आलम्बनम् आप्तागमविशुद्धं वेदितव्यं युक्तिपतितं च । इदम् उच्यते व्याप्य् आलम्बनम् ॥
-इइ-3-ब् म्स्.71ब्6र्, स्ह्.202-3, प्.95ब्2, द्.79अ2, न्.83अ6, चो.83अ3, छ्.428च्18
तत्र चरितविशोधनम् आलम्बनं कतमत् । तद्यथा, अशुभा, मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः, धातुप्रभेदः, आनापानस्मृतिश् च ॥
-इइ-3-ब्-(1)-इ
तत्राशुभा कतमा । आह । षड्विधाशुभा । तद्यथा प्रत्यशुभता, दुःखाशुभता, अवराशुभता, आपेक्षिक्य् अशुभता, क्लेशाशुभता, प्रभंगुराशुभता च ॥
-इइ-3-ब्-(1)-इ-(अ) म्स्.72अ1ल्, स्ह्.203-1, प्.95ब्5, द्.79अ5, न्.83ब्1, चो.84अ5, छ्.428च्22
तत्र प्रत्यशुभता कतमा । आह । प्रत्यशुभताध्यात्मम् उपादाय बहिर्धा चोपादाय वेदितव्या ॥
-इइ-3-ब्-(1)-इ-(अ)
तत्राध्यात्मम् उपादाय । तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, ( श्भ् इइ 60 ) मलं, त्वक्, मांसं, अस्थि, स्नायु, सिरा, )वृक्का, हृदयं, प्लीहकं, क्लोमम्, अन्त्राणि, अन्त्रगुणः, आमाशयं, पक्वाशयं, यकृत्, पुरीषम्, अश्रु, स्वेदः, खेटः, शिङ्घाणकं, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितम्, मस्तकं, मस्तकलुङ्गं, प्रस्रावः ॥
-इइ-3-ब्-(1)-इ-(अ) म्स्.7232ल्, स्ह्.203-11, प्.96अ2, द्.79अ7, न्.83ब्5, चो.84ब्1, छ्.428च्28
तत्र बहिर्धोपादायाशुभा कतमा । तद्यथा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितं वा, विलोहितकं वा, विक्षिप्तकं वा, अस्थि वा, शङ्कलिका वा, अस्थिशङ्कलिका वा, उच्चारकृतं वा, प्रस्रावकृतं वा, खेटकृतं वा, शिङ्घाणककृतं वा, रुधिरम्रक्षितं वा, पूयम्रक्षितं वा, गूथकठिइइअं वा, स्यन्दनिका वा । इत्य् एवंभागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या । या चाध्यात्मम् उपादाय या च बहिर्धोपादायाशुभता, इयम् उच्यते प्रत्यशुभता ॥
-इइ-3-ब्-(1)-इ-(ब्)
तत्र दुःखाशुभता कतमा । यद् दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते कायिकचैतसिकम् असातं वेदयितं वेदनागतम् इयम् उच्यते दुःखाशुभता ॥
-इइ-3-ब्-(1)-(च्) म्स्.72अ4ल्, स्ह्.204-6, प्.96अ7, द्.79ब्4, न्.84अ2, चो.84ब्5, छ्.429अ7

तत्रावराशुभता कतमा । यत् सर्वनिहीनं वस्तु, सर्वनिहीनो धातुस् तद्यथा कामधातुः, यस्मात् पुनर् हीनतरश् चावरतरश् च प्रतिक्रुष्टतरश् चान्यो धातुर् नास्ति । इयम् उच्यत अवराशुभता ॥
-इइ-3-ब्-(1)-इ-(द्)
तत्रापेक्षिक्य् अशुभता कतमा । तद्यथा तद् एकत्यं वस्तु शुभम् अपि सद् अन्यच् छुभतरम् अपेक्ष्याशुभतः ख्याति । तद्यथारूप्यान् अपेक्ष्य रूपधातुर् अशुभतः ख्याति । सत्कायनिरोधं निर्वाणम् अपेक्ष्य यावद् भवाग्रम् अशुभत्वे संख्यां गच्छति । इयम् एवंभागीयापेक्षिक्य् अशुभता ॥
-इइ-3-ब्-(1)-(ए) म्स्.72अ5म्, स्ह्.204-16, प्.96ब्4, द्.79ब्7, न्.84अ5, चो.85अ1, छ्.429अ15
तत्र क्लेशाशुभता कतमा । त्रैधातुकावचराणि सर्वाणि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि क्लेशाशुभतेत्य् उच्यते ॥
-इइ-3-ब्-(1)-इ-(f)
तत्र प्रभंगुराशुभता कतमा । या पञ्चानाम् उपादानस्कन्धानाम् अनित्यता, अध्रुवता, अनाश्वासिकता, विपरिणामधर्मता । इयम् उच्यते प्रभंगुराशुभता ।
इतीयम् अशुभता रागचरितस्य विशुद्धय आलम्बनम् ॥
-इइ-3-ब्-(1 )-इइ म्स्.72अ6म्, स्ह्.204-21, प्.96ब्7, द्.80अ1, न्.84अ7, चो.85अ3, छ्.429अ19
तत्र रागस् तद्यथा अध्यात्मं कामेषु कामच्छन्दः कामरागः, बहिर्धा कामेषु मैथुनच्छन्दो मैथुनरागः, विषयच्छन्दो विषयरागः, ( श्भ् इइ 64 ) रूपच्छन्दो रूपरागः, सत्कायच्छन्दः सत्कायरागश् चेत्य् अयं पञ्चविधो रागः । तस्य पञ्चविधस्य रागस्य प्रहाणाय प्रतिविनोदनायासमुदाचाराय षड्विधाशुभतालम्बनम् ॥
-ल्।-3-ब्-(1)-इइ-(अ)
तत्राध्यात्मम् उपादाय प्रत्यशुभतालम्बनेनाध्यात्मं कामेषु कामच्छन्दात् कामरागाच् चित्तं विशोधयति ॥
-इइ-3-ब्-(1 )-इइ-(ब्)-1,-2,-3,-4 म्स्.72अ7र्, स्ह्.205-9, प्.97अ3, द्.80अ4, न्.84ब्3, चो.85अ7, छ्.429अ25
तत्र बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा कामेषु मैथुनच्छन्दाद् मैथुनरागाच् चतुर्विधा रागप्रतिसंयुक्ताद् वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच् चित्तं विशोधयति ।
तत्र यदा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितकं वा मनसिकरोति, तदा वर्णरागाच् चित्तं विशोधयति ।
यदा पुनर् विलोहितकं मनसिकरोति, तदा संस्थानरागाच् चित्तं विशोधयति ।
यदा पुनर् अस्थि वा शङ्कलिकां वास्थिशङ्कलिकां वा मनसिकरोति, तदा स्पर्शरागाच् चित्तं विशोधयति ।
यदा विक्षिप्तकं मनसिकरोति, तदोपचाररागाच् चित्तं विशोधयति ।
एवं स मैथुनरागाच् चित्तं विशोधयति ॥
-इइ-3-ब्-(1)-इइ-(ब्)-1ऽ,-2ऽ,-3ऽ,-4ऽ म्स्.72ब्1र्, स्ह्.205-20, प्.97ब्1, द्.80ब्1, न्.84ब्7, चो.85ब्4, छ्.429ब्6
अत एव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिवपथिकासु व्यवस्थापिता । या यैवानेन शिवपथिका दृष्टा भवति । एकाहमृता वा सप्ताहमृता वा काकैः कुररैः खाद्यमाना गृध्रैः श्वभिः सृगालैः ।
तत्र तत्रेमम् एव कायम् उपसंहरति । अयम् अपि मे काय एवंभावी, एवंभूतः, एवंधर्मताम् अनतीतः इति । अनेन तावद् विनीलकम् उपादाय यावद् विखादितकम् आख्यातम् ।
यत् पुनर् आह "यानेन शिवपथिका दृष्टा भवति । अपगतत्वङ्मांसशोणितस्नायूपनिबद्धे"त्य् अनेन विलोहितकम् आख्यातम् ।
यत् पुनर् आह । "यान्य् एव शिवपथिकास्थानानि दृष्टानि भवन्ती"ति [देस् नि रुस् गोङ् दङ् । केङ् रुस् दङ् । रुस् पऽइ केङ् रुस् ब्स्तन् तो ।]
यत् पुनर् आह । "[देस् लग् पऽइ रुस् प दग् क्यङ् लोग्स् शिग् । र्कङ् पऽइ रुस् प दग् क्यङ् लोग्स् शिग् । लोङ् बुऽइ रुस् प दग् क्यङ् लोग्स् शिग् । पुस् मोऽइ रुस् प दग् क्यङ् लोग्स् शिग् (द्., चो. अद्द् ल) । र्त्सिब् लोग्स् क्यि रुस् प दग् दङ् । द्पुङ् पऽइ रुस् प दग् दङ् । लग् ङर् ग्यि रुस् प दङ्] । पृष्ठीवंशः, हनुचक्रम्, दन्तमाला, शिरःकपालं, तथा भिन्नप्रतिभिन्नानि, एकवार्षिकाणि द्विवार्षिकाणि यावत् सप्तवार्षिकाणि श्वेतानि शंखनिभानि, कपोतवर्णानि पांसुचूर्णव्यतिमिश्राणि दृष्टानि भवन्ती"त्य् अनेन विक्षिप्तकम् आख्यातम् । एवं प्रत्यशुभतालम्बनेन बहिर्धोपादाय चतुर्विधा रागप्रतिसंयुक्ताद् मैथुनरागाच् चित्तं विशोधयति ॥
-इइ-3-ब्-(1)-इइ-च्,-द्,-ए म्स्.72ब्4र्, स्ह्.206-19, प्.98अ3, द्.81अ1, न्.85अ7, चो.86अ3, छ्.429ब्24
तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च विषयप्रतिसंयुक्तात् कामरागाच् चित्तं विशोधयति ।
तत्रोपेक्षाशुभतालम्बनेन रूपरागाच् चित्तं विशोधयति" ।
तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन चा भवाग्रम् उपादाय सत्कायछन्दरागाच् चित्तं विशोधयति ।
इदं तावद् रागचरितस्य चरितविशोधनम् आलम्बनम् । संभवं प्रत्य् एतद् उच्यते । सर्वं सर्वाकारम् अशुभतालम्बनं संगृहीतं भवति । अस्मिंस् त्व् अर्थे प्रत्यशुभतैवाभिप्रेता । तदन्या त्व् अशुभता तदन्यस्यापि चरितस्य विशुद्धय आलम्बनम् ॥
-इइ-3-ब्-(2) म्स्.72ब्6म्, स्ह्.207-7, मै.277, प्.98अ8, द्.81अ4, न्.85ब्4, चो.86अ7, छ्.429च्3
तत्र मैत्री कतमा । यो मित्रपक्षे वा, अमित्रपक्षे वा, उदासीनपक्षे वा, हिताध्याशयम् उपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः समाहितभूमिकः । तत्र यो मित्रपक्षो ऽमित्रपक्ष उदासीनपक्षश् चेदम् आलम्बनम् । तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिको ऽयम् आलम्बक इति । यच् चालम्बनं यश् चालम्बकस् तद् एकध्यम् अभिसंक्षिप्य मैत्रीत्य् उच्यते ॥
तत्र यत् तावद् आह "मैत्रीसहगतेन चित्तेने"त्य् अनेन तावत् त्रिषु पक्षेषु मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे हिताध्याशय आख्यातः ।
यत् पुनर् आह "अवैरेणासपत्नेनाव्याबाधेने"त्य् अनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणम् आख्यातम् । तत्रावैरतया हिताध्याशयः, ( श्भ् इइ 70 ) सा पुनर् अवैरता द्वाभ्यां पदाभ्याम् आख्याता, असपत्नतया, अव्याबाधतया च । तत्राप्रत्यनीकभावस्थानार्थेनासपत्नता । अपकाराविचेष्टनार्थेनाव्याबाधता ।
यत् पुनर् आह । "विपुलेन महद्गतेनाप्रमाणेने"त्य् अनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा ।
यत् पुनर् आह । "अधिमुच्य स्फरित्वोपसंपद्य विहरती"त्य् अनेन सुखोपसंहारायाधिमोक्षः समाहितभूमिक आख्यातः स पुनर् एष सुखोपसंहारो हिताध्याशयपरिगृहीत आधिमोक्षिकमनस्कारानुगतः ।
अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे सुखकामे वेदितव्यः ।
यस् तु दुःखितो वादुःखितो वा पुनर् मित्रपक्षो ऽमित्रपक्ष उदासीनपक्षो वा । तत्र यो दुःखितः स करुणाया आलम्बनम् । यः सुखितः स मुदिताया आलम्बनम्, इयम् उच्यते मैत्री ।
तत्र व्यापादचरितः पुद्गलो मैत्रीं भावयन् सत्त्वेषु यो व्यापादस् तं प्रतनूकरोति । व्यापादाच् चित्तं परिशोधयति ॥
-इइ-3-ब्-(3) म्स्.73अ4म्, स्ह्. 210-3, प्.99अ7, द्.81ब्7, न्.86अ7, चो.87अ3, छ्.430अ4

तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः । यत् त्रिष्व् अध्वसु संस्कारमात्रं धर्ममात्रं वस्तुमात्रं हेतुमात्रं फलमात्रं युक्तिपतितं यदुतापेक्षायुक्त्या कार्यकरणयुक्त्योपपत्तिसाधनयुक्त्या धर्मतायुक्त्या च, धर्माणाम् एव धर्माहारकत्वं निष्कारकवेदकत्वं च । इदम् उच्यत ( श्भ् इइ 72 ) इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनम् । यद् आलम्बनं मनसिकुर्वन् मोहाधिकः पुद्गलो मोहचरितो मोहं प्रजहाति तनूकरोति मोहचरिताच् चित्तं विशोधयति ॥
-इइ-3-ब्-(4) म्स्.73अ5ल्, स्ह्.211-1, प्.99ब्3, द्.82अ3, न्.86ब्3, चो.87अ6, छ्.430अ12
तत्र धातुप्रभेदः कतमः । तद्यथा षड्धातवः पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुश् च ॥
-इइ-3-ब्-(4)-इ म्स्.73अ6म्, स्ह्.211-4, प्.99ब्4, द्.82अ3, न्.86ब्4, चो.87अ6, छ्.430अ13
तत्र पृथिवीधातुर् द्विविधः । आध्यात्मिको बाह्यश् च ।
तत्राध्यात्मिको यद् अस्मिन् काये ऽध्यात्मं प्रत्यात्मं खक्खटम् खरगतम् उपगतम् उपादत्तम् ।
बाह्यः पुनः पृथिवीधातुर् यद् बाह्यं खक्खटं खरगतम् अनुपगतम् अनुपादत्तम् ।
स पुनर् आध्यात्मिकपृथिवीधातुः कतमः । तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, मलं, त्वक्, मांसम्, अस्थि, स्नायु, सिरा, वृक्का, हृदयं, प्लीहकं, क्लोमकम्, अन्त्राणि, अन्त्रगुणाः, आमाशयः, पक्वाशयः, यकृत्, पुरीषम् । अयम् उच्यत आध्यात्मिकः पृथिवीधातुः ।
स पुनर् बाह्यः पृथिवीधातुः कतमः । काष्ठानि वा, लोष्टानि वा, शर्करा वा, कठिइइआ वा, वृक्षा वा, पर्वताग्रा वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः । अयम् उच्यते बाह्यः पृथिवीधातुः ॥
-इइ-3-ब्-(4)-इइ म्स्.73ब्1र्, स्ह्.213-2, प्.100अ2, द्.82अ7, न् 87अ1, चो.87ब्3, छ्.430अ21
अब्धातुः कतमः । अब्धातुर् द्विविधः । आध्यात्मिको बाह्यश् च ।
तत्राध्यात्मिको ऽब्धातुः " कतमः । यद् अध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतम् आपो ऽब्गतम् उपगतम् उपादत्तम् । तद्यथा अश्रु, स्वेदः, खेतः, शिंघाणकः, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकम्, मस्तकलुंगम्, प्रस्रावः । अयम् उच्यत आध्यात्मिको ऽब्धातुः ।
बाह्यो ऽब्धातुः कतमः । यद् बाह्यम् आपो ऽब्गतम्, स्नेहः स्नेहगतम् अनुपगतम् अनुपादत्तम् । तत् पुनर् उत्सो वा, सरांसि वा, तडागा वा, नद्यो वा, प्रस्रवणानि वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः । अयम् उच्यते बाह्यो ऽब्धातुः ॥
-इइ-3-ब्-(4)-इइइ म्स्.73ब्3म्, स्ह्.214-3, प्.100अ7, द्.82ब्3, न्.87अ4, चो.87ब्6, छ्.430ब्1
तेजोधातुः कतमः । तेजोधातुर् द्विविध आध्यात्मिको बाह्यश् च ।
तत्राध्यात्मिकस् तेजोधातुः कतमः । यद् अध्यात्मं प्रत्यात्मं तेजस् तेजोगतम् ऊष्मोष्मागतम् उपगतम् उपादत्तम् । तद्यथा यद् अस्मिन् काये तेजो येनायं काय आतप्यते, संतप्यते, परितप्यते । येन चाशितपीतखादितस्वादितं सम्यक् सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वाज् ज्वारितो ज्वारित इति संख्यां गच्छति । अयम् उच्यत आध्यात्मिकस् तेजोधातुः ।
बाह्यस् तेजोधातुः कतमः । यद् बाह्यं तेजस् तेजोगतम् ऊष्मोष्मागतम् अनुपगतम् अनुपादत्तम् । तत् पुनर् यन् मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषन्ते । यद् उत्पन्नं ग्रामम् अपि दहति, ( श्भ् इइ 76 ) ग्रामप्रदेशम् अपि, नगरं वा, नगरप्रदेशं वा, जनपदं वा, जनपदप्रदेशं वा, द्वीपं वा, कक्षं वा, दावं वा, काष्ठं वा, तृणं वा, गोमयं वा दहन् परैतीति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः । अयम् उच्यते बाह्यस् तेजोधातुः ॥
-इइ-3-ब्-(4)-इव् म्स्.73ब्6ल्, स्ह्.215-7, w.87-20, प्.100ब्6, द्.82ब्7, न्.87ब्2, चो.88अ4, छ्.430ब्11
तत्र वायुधातुः कतमः । वायुधातुर् द्विविधः, आध्यात्मिको बाह्यश् च ।
तत्राध्यात्मिको वायुधातुर् यद् अप्य् अध्यात्मं प्रत्यात्मं वायुर् वायुगतं लघुत्वं समुदीरणत्वम् उपगतम् उपादत्तम् । स पुनः कतमः । सन्त्य् अस्मिन् काय ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः, कुक्षिशया वायवः, पृष्ठिशया वायवः वाय्वष्ठीला वायवः, क्षुरकपिप्पलकशस्त्रका वायवः, विषूचिका वायवः, आश्वासप्रश्वासा वायवः, अङ्गप्रत्यङ्गानुसारिणो वायवः । अयम् उच्यत आध्यात्मिको वायुधातुः ।
बाह्यो वायुधातुः कतमः । यद् बाह्यं वायुर् वायुगतं लघुत्वं, समुदीरणत्वम् अनुपगतम् अनुपादत्तम् । स पुनः कतमः । सन्ति बहिर्धा पूर्वा वायवः, दक्षिणा वायवः, उत्तरा वायवः, पश्चिमा वायवः, सरजसो वायवः, अरजसो वायवः, परीत्ता महद्गता वायवः, विश्वा वायवः, वैरम्भा वायवः, वायुमण्डलकवायवः । भवति च समयो यस्मिन् महान् वायुस्कन्धः समुदागतो वृक्षाग्रान् अपि ( श्भ् इइ 78 ) पातयति, कुड्याग्रान् अपि पातयति, पर्वताग्रान् अपि पातयति । पातयित्वा निरुपादानो निर्गच्छति । यं सत्त्वाश् चीवरकर्णकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः । अयम् उच्यते बाह्यो वायुधातुः ॥
-इइ-3-ब्-(4)-व् म्स्.74अ2र्, स्ह्.217-1, प्.101अ7, द्.83अ7, न्.88अ1, चो.88ब्3, छ्.430ब्26
आकाशधातुः कतमः । यच् चक्षुःसौषिर्यं वा, श्रोत्रसौषिर्यं वा, घ्राणसौषिर्यं वा, मुखसौषिर्यं वा, कण्ठसौषिर्यं वेति, येन वाभ्यवहरति, यत्र वाभ्यवहरति, येन वाभ्यवह्रियते, अधोभागेन प्रघरतीति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः । अयम् उच्यत आकाशधातुः ॥
-इइ-3-ब्-(4)-वि म्स्.74अ3र्, स्ह्.218-6, प्.101ब्1, द्.83ब्1, न्.88अ3, चो.88ब्4, छ्.430ब्28
विज्ञानधातुः कतमः । यच् चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् । तत् पुनश् चित्तं मनो विज्ञानं च । अयम् उच्यते विज्ञानधातुः ॥
-इइ-3-ब्-(4)ऽ म्स्.74अ4ल्, स्ह्.218-9, प्.101ब्2, द्.83ब्2, न्.88अ4, चो.88ब्4, छ्.430च्1
तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसिकुर्वन् काये पिण्डसंज्ञां विभावयति, अशुभसंज्ञां च प्रतिलभते, न च पुनस् तेनोन्नतिं गच्छति, मानं प्रतनूकरोति । तस्माच् चरिताच् चित्तं ( श्भ् इइ 80 ) विशोधयति । अयम् उच्यते धातुप्रभेदः । मानचरितस्य पुद्गलस्य चरितविशोधनम् आलम्बनम् ॥
-इइ-3-ब्-(5) म्स्.74अ5ल्, स्ह्.219-1, w.88-15, प्.101ब्5, द्.83ब्4, न्.88अ6, चो.88ब्7, छ्.430च्5
तत्रानापानस्मृतिः कतमा । आश्वासप्रश्वासालम्बना स्मृतिर् इयम् उच्यत आनापानस्मृतिः ॥
-इइ-3-ब्-(5)-इ-(अ) म्स्.74अ5म्, स्ह्.220-1, w.*86-16, प्. 101 ब्6, द्.83ब्4, न्.88अ6, चो. 89अ1, छ्.430च्7
तत्र द्वाव् आश्वासौ । कतमौ द्वौ । आश्वासो ऽन्तराश्वासश् च । द्वौ प्रश्वासौ । कतमौ द्वौ । प्रश्वासो ऽन्तरप्रश्वासश् च ।
तत्राश्वासो यः प्रश्वाससमनन्तरम् अन्तर्मुखो वायुः प्रवर्तते यावन् नाभीप्रदेशात् ।
तत्रान्तराश्वासो य उपरते ऽस्मिन्न् आश्वासे न तावत् प्रश्वास उत्पद्यते, यदन्तराले विश्रामस्थानसहगत इत्वरकालीनस् तदनुसदृशो वायुर् उत्पद्यते । अयम् उच्यते ऽन्तराश्वासः ।
यथाश्वासो ऽन्तराश्वासश् चैवं प्रश्वासो ऽन्तरप्रश्वासश् च वेदितव्यः ।

तत्रायं विशेषो बहिर्मुखो वायुः प्रवर्तत इति वक्तव्यम्, नाभीदेशम् उपादाय, यावन् मुखाग्रान् नासिकाग्रात्, ततो वा पुनर् बहिः ॥
-इइ-3-ब्-(5)-इ-(ब्) म्स्.74अ7र्, स्ह्.220-15, w.88-38, प्.102अ3, द्.84अ1, न्.88ब्3, चो.89अ5, छ्.430च्16
द्वाव् आश्वासप्रश्वासनिदानौ । कतमौ द्वौ । तदाक्षेपकं च कर्म, नाभीप्रदेशसौषिर्यं च, ततो वा पुनर् उत्तरि यत् कायसौषिर्यम् ॥
-इइ-3-ब्-(5)-इ-(च्) म्स्.74ब्1ल्, स्ह्.221-1, w.89-4, प्.102अ4, द्.84अ2, न्.88ब्4, चो.89अ6, छ्.430च्18
द्वाव् आश्वासप्रश्वासयोः संनिश्रयौ । कतमौ द्वौ । कायश् चित्तं च । तत् कस्य हेतोः । कायसंनिश्रिताश् चित्तसंनिश्रिताश् चाश्वासप्रश्वासाः प्रवर्तन्ते । ते च यथायोगं सचेत् कायसंनिश्रिता एव प्रवर्तेरन्, असंज्ञिसमापन्नानां, निरोधसमापन्नानाम् असंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् । सचेच् चित्तसंनिश्रिता एव प्रवर्तेरन्, तेनारूप्यसमापन्नोपपन्नानाम् सत्त्वानां प्रवर्तेरन् ।
सचेत् कायसंनिश्रिताश् चित्तसंनिश्रिताः प्रवर्तेरंस् ते च न यथायोगं, तेन चतुर्थध्यानसमापन्नोपपन्नानाम् सत्त्वानां कललगतानां चार्बुदगतानां पेशीगतानाम् सत्त्वानां प्रवर्तेरन् । न च प्रवर्तन्ते । तस्माद् आश्वासप्रश्वासाः कायसंनिश्रिताश् चित्तसंनिश्रिताश् च प्रवर्तन्ते ते च यथायोगम् ॥

-इइ-3-ब्-(5)-इ-(द्) म्स्.74ब्3म्, स्ह्.221-16, w.90-1, प्.102ब्3, द्.84अ6, न्.89अ2, चो.89ब्3, छ्.430च्26
द्वे आश्वासप्रश्वासयोर् गती । कतमे द्वे । आश्वासयोर् अधोगतिः, प्रश्वासयोर् ऊर्ध्वगतिः ॥
-इइ-3-ब्-(5)-इ-(ए) म्स्.74ब्3र्, स्ह्.221-18, w.90-4, प्.102ब्4, द्.84अ7, न्.89अ3, चो.89ब्4, छ्.430च्28
द्वे आश्वासप्रश्वासयोर् भूमी । कतमे द्वे । औदारिकं च सौषिर्यं, सूक्ष्मं च सौषिर्यम् ।
तत्रौदारिकं सौषिर्यं नाभीप्रदेशम् उपादाय यावन् मुखनासिकाद्वारम् । मुखनासिकाद्वारम् उपादाय यावन् नाभीप्रदेशसौषिर्यम् ।
सूक्ष्मसौषिर्यं कतमत् । सर्वकायगतानि रोमकूपानि ॥
-इइ-3-ब्-(5)-इ-(f) म्स्.74ब्4म्, स्ह्.222-3, w.90-15, प्.102ब्6, द्.84ब्2, न्.89अ4, चो.89ब्6, छ्.431अ3
चत्वार्य् आश्वासप्रश्वासानां पर्यायनामानि । कतमानि चत्वारि । वायवः, आनापानाः, आश्वासप्रश्वासाः, कायसंस्काराश् चेति । तत्रान्यैर् वायुभिः ( श्भ् इइ 84 ) साधारणं पर्यायनामैकं यदुत वायुर् इति । असाधारणानि तदन्यानि त्रीणि ॥
-इइ-3-ब्-(5)-इ-(ग्) म्स्.74ब्5ल्, स्ह्.222-8, w.*90-19, प्.102ब्8, द्.84ब्3, न्.89अ6, चो.89ब्7, छ्.431अ6
द्वाव् अपक्षालाव् आश्वासप्राश्वासप्रयुक्तस्य । कतमौ द्वौ । अतिशिथिलप्रयोगता च, अत्यवष्टब्धप्रयोगता च ।
तत्रातिशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति, बहिर्धा वा विक्षिप्यते । तथात्यवष्टब्धप्रयुक्तस्य कायवैषम्यम् वोत्पद्यते चित्तवैषम्यं वा ।
कथं कायवैषम्यम् उत्पद्यते । बलाभिनिग्रहेणाश्वासप्रश्वासान् अभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते । ये ऽस्य तत्प्रथमतस् तेषु तेष्व् अङ्गप्रत्यङ्गेषु स्फुरन्ति । ये स्फुरका इत्य् उच्यन्ते । ते पुनः स्फुरका वायवो विवर्धमाना रुजका भवन्ति । ये ऽस्य तेषु तेष्व् अङ्गप्रत्यङ्गेषु रुजाम् उत्पादयन्ति । इदम् उच्यते कायवैषम्यम् ।
कथं चित्तवैषम्यम् उत्पद्यते । चित्तं वास्य विक्षिप्यते । प्रगाढेन वा दौर्मनस्योपायासेनाभिभूयते । एवं चित्तवैषम्यम् उत्पद्यते ॥
-इइ-3-ब्-(5)-इइ म्स्.75अ1म्, स्ह्.223-1, w.90-24, प्.103अ6, द्.84ब्7, न्.89ब्3, चो.90अ5, छ्.431अ17
अस्याः खल्व् आनापानस्मृतेः पञ्चविधः परिचयो वेदितव्यः । तद्यथा गणनापरिचयः स्कन्धावतारपरिचयः प्रतीत्यसमुत्पादावतारपरिचयः सत्यावतारपरिचयः षोडशाकारपरिचयश् च ॥
-इइ-3-ब्-(5)-इइ-(अ) म्स्.75अ2ल्, स्ह्.223-5, w.90-31, प्.103अ8, द्.85अ2, न्.89ब्5, चो.90अ6, छ्.431अ21
तत्र गणनापरिचयः कतमः । समासतश् चतुर्विधो गणनापरिचयः ( श्भ् इइ 86 ) । तद्यथैकैकगणना, द्वयैकगणना, अनुलोमगणना, प्रतिलोमगणना च ॥
-इइ-3-ब्-(5)-इइ-(अ)-(1) म्स्.75अ2र्, स्ह्.223-8, प्.103ब्1, द्.85अ3, न्.89ब्6, चो.90अ7, छ्.431अ24
तत्रैकैकगणना कतमा । यदाश्वासः प्रविष्टो भवति, तदाश्वासप्रश्वासालम्बनोपनिबद्धया स्मृत्यैकम् इति गणयति । यदाश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति तदा द्वितीयं गणयति, एवं यावद् दश गणयति । एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा । इयम् उच्यत एकैकगणना ॥
-इइ-3-ब्-(5)-इइ-(अ)-(2) म्स्.75अ3र्, स्ह्.223-14, प्.103ब्4, द्.85अ4, न्.89ब्7, चो.90ब्2, छ्.431अ28
द्वयैकगणना कतमा । यदाश्वासः प्रविष्टो भवति निरुद्धश् च प्रश्वास उत्पन्नो भवति निर्गतश् च, तदैकम् इति गणयति । अनेन गणनायोगेन यावद् दश गणयति । इयम् उच्यते द्वयैकगणना । आश्वासं च प्रश्वासं चेदं द्वयम् एकध्यम् अभिसंक्षिप्यैकम् इति गणयति, तेनोच्यते द्वयैकगणना ॥
-इइ-3-ब्-(5)-इइ-(अ)-(3) म्स्.75अ4र्, स्ह्.223-20, प्.103ब्6, द्.85अ6, न्.90अ2, चो.90ब्4, छ्.431ब्3
अनुलोमगणना कतमा । अनयैवैकैकगणनया द्वयैकगणनया वानुलोमं यावद् दश गणयति । इयम् उच्यते ऽनुलोमगणना ॥
-इइ-3-ब्-(5)-इइ-(अ)-(4) म्स्.75अ5ल्, स्ह्.224-2, प्. 103ब्7, द्.85अ6, न्.90अ3, चो.90ब्4, छ्.431 ब्6
प्रतिलोमगणना कतमा । प्रतिलोमं दश उपादाय नवाष्टौ सप्त षट् पञ्च यावद् एकं गणयति । इयम् उच्यते प्रतिलोमगणना ।
यदा स एकैकगणनां निश्रित्य द्वयैकगणनां वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति, न चास्यान्तराच् चित्तं विक्षिप्यते, अविक्षिप्तचित्तश् च गणयति, तदास्योत्तरगणनाविशेषो व्यपदिश्यते ॥
-इइ-3-ब्-(5)-इइ-(अ)-(5) म्स्.75अ6ल्, स्ह्.224-10, प्.104अ2, द्.85ब्1, न्.90अ5, चो.90ब्6, छ्.431ब्12
कतमो गणनाविशेषः । एकैकगणनया वा, द्वयैकगणनया वा, द्वयम् एकं कृत्वा गणयति । तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं ( श्भ् इइ 88 ) भवति, एकैकगणनया पुनर् आश्वासः प्रश्वासश् " चैकं भवति । एवं यावद् दश गणयति । एवम् उत्तरोत्तरवृद्ध्या यावच् छतम् अप्य् एकं कृत्वा गणयति । तदा शतैकगणनयानुपूर्वेण यावद् दश गणयति । एवम् अस्य गणनाप्रयुत्कस्य यावद् दशैकं कृत्वा गणयति । यावच् च दश परिपूरयति । तया दशैकगणनया न चास्यान्तराच् चित्तं विक्षिप्यते । इयता तेन गणनापरिचयः कृतो भवति ।
तस्य च गणनाप्रयुक्तस्य सचेद् अन्तराच् चित्तं विक्षिप्यते, तदा पुनः प्रतिनिवर्त्यादितो गणयितुम् आरभते ऽनुलोमं वा, प्रतिलोमं वा । यदा चास्य गणनापरिचयात् तच् चित्तं स्वरसेनैव वाहिमार्गसमारूढम् आश्वासप्रश्वासालम्बनोपनिबद्धम् अव्यवच्छिन्नं निरन्तरं, प्रवर्तमान आश्वासे प्रवृत्तिग्राहकम्, निरुद्ध आश्वासे निवृत्तिग्राहकं प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर् निवृत्तिग्राहकम् आश्वासशून्यावस्थाग्राहकम् अविकंप्यम् अविचलम् अविक्षेपाकारम्, साभिरामं च प्रवर्तते ।
इयता गणनाभूमिसमतिक्रमो भवति । पुनस् तदागणयितव्यं भवति । नान्यत्राश्वासप्रश्वासालम्बनं चित्तम् उपनिबध्यते । आश्वासप्रश्वासा अनुगन्तव्याश् चाभिलक्षयितव्याश् च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः । अयम् उच्यते गणनापरिचयः ॥
म्स्.75ब्2ल्, स्ह्.225-12, प्.104ब्6, द्.86अ2, न्.90ब्6, चो,91ब्1, छ्.431च्4
स खल्व् एष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते । तेषाम् एतद् ( श्भ् इइ 90 ) व्याक्षेपस्थानं भवति चित्तस्थितये चित्तनिरतये । अन्यथा गणनाम् अन्तरेण तेषां स्त्यानमिद्धं वा चित्तं पर्यवनहेत, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तानां तु तेषाम् एतन् न भवति ।
ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयस् तेषां पुनर् गणनाप्रयोगेण प्रियारोहता भवति । तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्व् एव प्रतिविध्यन्ति, न च तेनाभिरमन्ते । ते पुनर् आश्वासप्रश्वासालम्बनां स्मृतिम् उपनिबध्य यत्र च प्रवर्तन्ते यावच् च प्रवर्तन्ते, यथा च प्रवर्तन्ते, यदा च प्रवर्तन्ते, तत् सर्वम् अनुगच्छत्य् उपलक्षयत्य् उपस्थितया स्मृत्या । अयम् एवंरूपस् तेषां प्रयोगः ।

तस्य च प्रयोगस्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् कायप्रस्रब्धिर् उत्पद्यते, चित्तप्रस्रब्धिश् च । एकाग्रतां च स्पृशत्य् आलम्बनाभिरतिं च निर्गच्छति ॥
-इइ-3-ब्-(5)-इइ-(ब्) म्स्.75ब्4म्, स्ह्.226-5, w.90-36, प्.105अ4, द्.86अ7, न्.91अ4, चो.91ब्5, छ्.431च्16
स एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धान् अवतरति । कथं च पुनर् अवतरति । ये चाश्वासप्रश्वासा यश् चैषाम् आश्रयकायस् तं मनसिकुर्वन् रूपस्कन्धम् अवतरति । या तेषाम् आश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्तानुभावना स वेदनास्कन्ध इत्य् अवतरति । या संजानना स संज्ञास्कन्ध इत्य् अवतरति । या चासौ स्मृतिर् या च चेतना, या च तत्र प्रज्ञा, अयं संस्कारस्कन्ध इत्य् अवतरति । यच् ( श्भ् इइ 92 ) चित्तं मनो विज्ञानम् अयं विज्ञनस्कन्ध इत्य् अवतरति । या तद्बहुलविहारिता एवं स्कन्धेष्व् अवतीर्णस्यायम् उच्यते स्कन्धावतारपरिचयः ॥
-इइ-3-ब्-(5)-इइ-(च्) म्स्.75ब्6ल्, स्ह्.226-17, प्.105ब्1, द्.86ब्3, न्.91अ7, चो.92अ1, छ्.431च्26
यदा चानेन स्कन्धमात्रं दृष्टं भवति परिज्ञातं संस्कारमात्रं वस्तुमात्रं तदा स एषाम् एव संस्काराणां प्रतीत्यसमुत्पादम् अवतरति । कथं च पुनर् अवतरति । स एवं समन्वेषते पर्येषते, "इतीम आश्वासप्रश्वासाः किमाश्रिताः किंप्रत्ययाः" । तस्यैवं भवति । "कायाश्रिता एत आश्वासप्रश्वासाः कायप्रत्ययाश् चित्ताश्रिताश् चित्तप्रत्ययाश् च" ।
"कायः पुनश् चित्तं च किंप्रत्ययं च । स "कायश् चित्तं च जीवितेन्द्रियप्रत्ययम्" इत्य् अवतरति । "जीवितेन्द्रियं पुनः किंप्रत्ययम्" । स पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियम् इत्य् अवतरति ।
"पूर्वकः संस्कारः किंप्रत्ययः । स "पूर्वकः संस्कारो ऽविद्याप्रत्यय" इत्य् अवतरति । इति ह्य् अविद्याप्रत्ययः पूर्वकः संस्कारः, पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायश् चित्तं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः । तत्राविद्यानिरोधात् संस्कारनिरोधः । संस्कारनिरोधाज् जीवितेन्द्रियनिरोधः । जीवितेन्द्रियनिरोधात् ( श्भ् इइ 94 ) कायचित्तनिरोधः । कायचित्तनिरोधाद् आश्वासप्रश्वासनिरोधः। एवम् असौ प्रतीत्यसमुत्पादम् अवतरति । स तद्बहुलविहारी प्रतीत्यसमुत्पादावतारे कृतपरिचय इत्य् उच्यते । अयम् उच्यते प्रतीत्यसमुत्पादावतारपरिचयः ॥

-इइ-3-ब्-(5)-इइ-(द्) म्स्.76अ1म्, स्ह्.228-1, प्.106अ2, द्.87अ2, न्.91ब्7, चो.92अ7, छ्.432अ12
स एवं प्रतीत्यसमुत्पादे कृतपरिचयो "य एते संस्काराः प्रतीत्यसमुत्पन्ना अनित्या एत" इत्य् अवतरति । "अनित्यत्वाद् अभूत्वा च भवन्ति भूत्वा प्रतिविगच्छन्ति । पुनर् एते ऽभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति ते जातिधर्माणः, जराधर्माणः, व्याधिधर्माणः, मरणधर्माणः । ये जातिजराव्याधिमरणधर्माणस् ते दुःखाः, ये दुःखास् ते ऽनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः" । एवं सो ऽनित्यदुःखशून्यानात्माकारैर् दुःखसत्यम् अवतीर्णो भवति । तस्यैवं भवति । "या काचिद् एषां संस्काराणाम् अभिनिर्वृत्तिर् दुःखभूता रोगभूता गण्डभूता सर्वासौ तृष्णाप्रत्यया । यत् पुनर् अस्या दुःखजनिकायास् तृष्णाया अशेषप्रहाणम् एतच् छान्तम् एतत् प्रणीतम् एवं च मे जानत एवं बहुलविहारिणस् तृष्णाया अशेषप्रहाणं भविष्यती"ति । एवं हि समुदयसत्यं निरोधसत्यं मार्गसत्यम् अवतीर्णो भवति । स तद्बहुलविहारी यदा सत्यान्य् अभिसमागच्छति । अयम् अस्योच्यते सत्यावतारपरिचयः ।
तस्यैवम् सत्येषु कृतपरिचयस्य दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति ॥
-इइ-3-ब्-(5)-इइ-(ए) म्स्.76अ4 ल्, स्ह्.228-19, प्.106ब्3, द्.87ब्1, न्.92अ6, चो.92ब्6, छ्.432अ28
येषां प्रहाणाय षोडशाकारपरिचयं करोति । कतमे पुनः षोडशाकाराः । ( श्भ् इइ 96 ) तद्यथा स्मृत आश्वसन् "स्मृत आश्वसिमी"ति शिक्षते । स्मृतः प्रश्वसन् "प्रश्वसिमी"ति शिक्षते । दीर्घम् ह्रस्वं सर्वकायप्रतिसंवेद्य् आश्वसन् "सर्वकायप्रतिसंवेद्य् आश्वसिमी"ति शिक्षते । सर्वकायप्रतिसंवेदी प्रश्वसन् "सर्वकायप्रतिसंवेदी प्रश्वसिमी"ति शिक्षते । प्रस्रभ्य कायसंस्कारान् आश्वसन् "प्रस्रभ्य कायसंस्कारान् आश्वसिमी"ति शिक्षते । प्रस्रभ्यकायसंस्कारान् प्रश्वसन् "प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी"ति शिक्षते । प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते । चित्तसंस्कारप्रतिसंवेदी प्रस्रभ्य चित्तसंस्कारान् आश्वसन् "प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी"ति शिक्षते । प्रस्रभ्य चित्तसंस्कारान् प्रश्वसन् "प्रस्रभ्य चित्तसंस्कारान् प्रश्वसिमी"ति शिक्षते । चित्तप्रतिसंवेदी । अभिप्रमोदयंश् चित्तं समादधंश् च्र्त्तं विमोचयंश् चित्तम् आश्वसन् "विमोचयंश् चित्तम् आश्वसिमी"ति शिक्षते । विमोचयंश् चित्तं प्रश्वसन् "विमोचयंश् चित्तं प्रश्वसिमी"ति शिक्षते । अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्य् आश्वसन् "निरोधानुदर्श्य् आश्वसिमी"ति शिक्षते । निरोधानुदर्शी प्रश्वसन् निरोधानुदर्शी प्रश्वसिमीति ( श्भ् इइ 98 ) शिक्षते ॥
-इइ-3-ब्-(5)-इइ-(f) म्स्.76अ7म्, स्ह्.231-9, प्.107अ7, द्.88अ3, न्.93अ1, चो.93अ7, छ्.432ब्28
कः पुनर् एषां विभाग आकाराणाम् । स शैक्षो दृष्टपदो लाभी भवति चतुर्णां स्मृत्युपस्थानानाम् । आश्वासप्रश्वासालम्बनं च मनस्कारम् आरभते ऽवशिष्टानां संयोजनानां प्रहाणाय । तेनाह "स्मृत आश्वसन् ऽस्मृत आश्वसिमीऽति शिक्षते, स्मृतः प्रश्वसन् ऽप्रश्वसिमीऽति शिक्षते" ।
यदाश्वासं वा प्रश्वासं वालम्बते तदा "दीर्घम् आश्वसिमि प्रश्वसिमी"ति शिक्षते ।
यदान्तराश्वासम् अन्तरप्रश्वासं वालम्बनीकरोति तदा "ह्रस्वम् आश्वसिमि प्रश्वसिमी"ति शिक्षते । तथा ह्य् आश्वासप्रश्वासा दीर्घाः प्रवर्तन्ते, अन्तराश्वासा अन्तरप्रश्वासाश् च ह्रस्वाः । ते यथैव प्रवर्तन्ते तथैवोपलक्षयति जानाति ।
यदा सूक्ष्मसौषिर्यगतान् आश्वासप्रश्वासान् रोमकूपानुप्रविष्टान् काये ऽधिमुच्यते, आलम्बनीकरोति तदा सर्वकायप्रतिसंवेदी भवति ।
यस्मिन् वा पुनः समये निरुद्ध आश्वासे ऽन्तराश्वासे च । आश्वासप्रश्वासशून्याम् आश्वासप्रश्वासापेताम् अवस्थाम् आलम्बनीकरोति । ( श्भ् इइ 100 ) निरुद्धे च प्रश्वासे ऽन्तरप्रश्वासे च । अनुत्पन्न आश्वासे ऽन्तराश्वासे च । प्रश्वासाश्वासशून्यां तद्व्यपेतां तद्व्यवहितां रिक्ताम् अवस्थाम् आलम्बनीकरोति । तस्मिन् समये प्रस्रभ्य कायसंस्कारान् आश्वसन्, "प्रस्रभ्य कायसंस्कारान् आश्वसिमी"ति शिक्षते । प्रस्रभ्य कायसंस्कारान् प्रश्वसन्, "प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी"ति शिक्षते ।
अपि तु खलु तस्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् । ये खरा दुःसंस्पर्शा आश्वासप्रश्वासाः पूर्वम् अकृतपरिचयस्य प्रवृत्त भवन्ति । कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्तन्ते । तेनाह "प्रस्रभ्य कायसंस्कारान् आश्वसिमीति शिक्षते" ।
स चैवम् आनापानस्मृतिप्रयोगेण च युक्तः सचेल् लाभी भवति प्रथमस्य वा ध्यानस्य द्वितीयस्य वा तस्मिन् समये प्रीतिप्रतिसंवेद्य् आश्वसन्, "प्रीतिप्रतिसंवेद्य् आश्वसिमी"ति शिक्षते ।
सचेत् पुनर् लाभी भवति निष्प्रीतिकस्य तृतीयस्य ध्यानस्य स तस्मिन् समये सुखप्रतिसंवेदी भवति । तृतीयाच् च ध्यानाद् ऊर्ध्वम् आनापानस्मृतिसंप्रयोगो नास्ति । येन यावत् तृतीयध्यानात् परिकीर्तितम् संगृहीतम् ।
तस्यैवं प्रीतिप्रतिसंवेदिनो वा सुखप्रतिसंवेदिनो वा सचेत् कदाचित् कर्हचित् स्मृतिसंप्रमोषाद् उत्पद्यते । "अस्मी"ति वा, "अयम् अहम् अस्मी"ति वा, "भविष्यामी"ति वा, "न भविष्यामी"ति वा, "रूपी भविष्याम्य् अरूपी भविष्यामि" ( श्भ् इइ 102 ) । "संज्ञी, असंज्ञी, नैवसंज्ञीनासंज्ञी भविष्यामी"ति, एवम् संमोहसंज्ञाचेतनासहगतम् इञ्जितं मन्यितप्रपञ्चिताभिसंस्कृतं तृष्णागतम् उत्पद्यते । स तद् उत्पन्नं लघु लघ्व् एव प्रज्ञया प्रतिविध्यति नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । एवं चित्तसंस्कारप्रतिसंवेदी "प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी"त्य् आश्वसन् "प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी"ति शिक्षते ।
सचेत् पुनर् लाभी भवति मौलानां प्रथमद्वितीयतृतीयानां ध्यानानां स चावश्यम् अनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति । स तं निश्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते । सरागं वा विगतरागं वा सद्वेषं वा विगतद्वेषं वा समोहं विगतमोहं, संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतं व्युपशान्तं अव्युपशान्तं समाहितम् असमाहितं सुभावितम् असुभावितं विमुक्तं चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति प्रतिसंवेदयति । तेनाह चित्तप्रतिसंवेदी ।
स यदा स्त्यानमिद्धनिवरणेन चित्तं निवृतं भवत्य् अध्यात्मम् संशमयतस् तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । तेनाहाभिप्रमोदयंश् ( श्भ् इइ 104 ) चित्तम् ।
यदा पुनर् औद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृतं पश्यत्य् अभिसंप्रगृह्णतस् तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयत्य् अध्यात्मम् अवस्थापयति शमयति समाधत्ते । तेनाह समादधंश् चित्तम् ।
यदा च तच् चित्तम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयान् निवरणसमुदाचाराद् दूरीकृतं भवति निवरणेभ्यो विशोधितम् । तेनाह विमोचयंश् चित्तम् आश्वसन् "विमोचयंश् चित्तम् आश्वसिमी"ति शिक्षते ।

तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यो ऽनुशया अवशिष्टा भवन्ति प्रहातव्याः । स तेषां प्रहाणाय मार्गं संमुखीकरोति । यदुत संस्कारानित्यताम् एव साधु च सुष्ठु च योनिशः प्रत्यवेक्सते । तेनाह अनित्यानुदर्शी ।
तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः कृतः । एतर्ह्य् अनित्यानुदर्शी विपश्यनायां योगं करोति । एवम् अस्य तच् चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते यदुतानुशयेभ्यः ।
कतमे धातवः । यश् च प्रहाणधातुर् यश् च विरागधातुर् यश् च निरोधधातुः । तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात् ( श्भ् इइ 106 ) प्रहाणधातुः । सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद् विरागधातुः । सर्वोपधिनिरोधान् निरोधधातुः । स एवं त्रीन् धातुञ् शान्ततो मनसिकुर्वन् क्षेमत आरोग्यतः शमथविपश्यनां भावयति । येनास्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयाद् अवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश् चित्तं विमुच्यते । तेनाह प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्य् आश्वसन् "निरोधानुदर्श्य् आश्वसिमी"ति शिक्षते ।
एवम् अयं दर्शनभावनाप्रहातव्येषु क्लेशेषु प्रहीणेष्व् अर्हन् भवति क्षीणास्रवः, नास्त्य् अस्यात उत्तरि करणीयम् । भवति कृतो ऽस्य परिचयः । अयम् अस्योच्यते षोडशाकारः परिचयः । यश् चायं पञ्चविधः परिचय इयम् अस्योच्यत आनापानस्मृतिः ।
यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारोहतया प्रयुज्यते । सव्यापारं चैतद् आलम्बनं सव्याक्षेपम् अध्यात्मं प्रत्यात्मम् आसन्नासन्नं, येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति । त्वरितत्वरितं च चित्तम् आलम्बने संतिष्ठते, अभिरमते । इदं पञ्चमं वितर्कचरितस्य पुद्गलस्य चरितविशोधनम् आलम्बनम् ॥
-इइ-3-च् म्स्.77अ7र्, स्ह्. 237-6, w.*91-24, प्.111अ3, द्.91अ3, न्.96अ2, चो.96अ6, छ्.433च्1
तत्र कौशल्यालम्बनं कतमत् । तद्यथा स्कन्धकौशल्यं धातुकौशल्यम् आयतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं स्थानास्थानकौशल्यम् ॥
-इइ-3-च्-(1) म्स्.77अ8म्, स्ह्.237-9, प्.111अ4, द्.91अ4, न्.96अ3, चो.96अ7, छ्.433च्4
तत्र कतमे स्कन्धाः, कतमत् स्कन्धकौशल्यम् । आह । पञ्च स्कन्धाः रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश् च ।
तत्र रूपस्कन्धः कतमः । यत् किञ्चिद् रूपं सर्वं तच् चत्वारि महाभूतानि चत्वारि महाभूतान्य् उपादाय । तत् पुनर् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा दूरे वान्तिके वा ।
तत्र वेदनास्कन्धः कतमः । सुखवेदनीयं वा स्पर्शं प्रतीत्य, दुःखवेदनीयं वा, अदुःखासुखवेदनीयं वा । षड् वेदनाकायाश् चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना ।
तत्र संज्ञास्कन्धः कतमः । तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा, महद्गतसंज्ञा, अप्रमाणसंज्ञा, नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनसंज्ञा । षट् संज्ञाकायाश् चक्षुःसंस्पर्शजा संज्ञा श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा ।
संस्कारस्कन्धः कतमः । षट् चेतनाकायाश् चक्षुःसंस्पर्शजा चेतना, श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा चेतना । वेदनां च संज्ञां च स्थापयित्वा ये तदन्ये चैतसिका धर्माः ।
तत्र विज्ञानस्कन्धः कतमः । यच् चित्तं मनो विज्ञानम् । ते पुनः षड् विज्ञानकायाः । चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् ।
सा चैषा वेदना संज्ञा संस्कारस् तच् चैतद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वेति विस्तरेण पूर्ववत् । इम उच्यन्ते स्कन्धाः ।
स्कन्धकौशल्यं कतमत् । य एतान् यथोद्दिष्टान् धर्मान् नानात्मकतया ( श्भ् इइ 110 ) च जानाति बह्वात्मकतया च, न च ततः परम् उपलभते विकल्पयति वा । इदम् उच्यते समासतः स्कन्धकौशल्यम् ।
तत्र कतमा नानात्मकता स्कन्धानाम् । अन्य एव रूपस्कन्धो ऽन्यो वेदनास्कन्ध एवम् अन्यो यावद् विज्ञानस्कन्धः । इयं नानात्मकता ।
तत्र कतमा बह्वात्मकता । यो रूपस्कन्धो ऽनेकविधो बहुनानाप्रकारः, भूतभौतिकभेदेनातीतानागतप्रत्युत्पन्नादिकेन च प्रकारभेदेन । इयम् उच्यत अनेकात्मकता रूपस्कन्धस्य । एवम् अवशिष्टानाम् स्कन्धानां यथायोगं वेदितव्यम् ।
किं च न तस्मात् परम् उपलभते विकल्पयति । स्कन्धमात्रम् उपलभते वस्तुमात्रम् । नो तु स्कन्धव्यतिरेकेणात्मानम् उपलभते नित्यध्रुवम् अविपरिणामधर्मकम् । नाप्य् आत्मीयं, किंचिद् इदं नोपलभते, न विकल्पयति तस्मात् परेण ॥
-11-3-0(2) म्स्.77ब्6ल्, स्ह्.244-12, प्.112अ6, द्.92अ3, न्.97अ2, चो.97अ5, छ्.434अ3
तत्र कतमे धातवः । कतमद् धातुकौशल्यम् । आह । अष्टादश धातवः । चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् मनोधातुर् धर्मधातुर् मनोविज्ञानधातुः । इम उच्यन्ते धातवः ।

तत्र कतमद् धातुकौशल्यम् । यत् पुनर् एतान् अष्टादश धर्मान् स्वकात् स्वकाद् धातोः स्वकस्वकाद् बीजात् स्वकस्वकाद् गोत्राज् जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति जानाति रोचयन्न् उपनिध्याति । इदम् उच्यते धातुकौशल्यम् । यद् अष्टादशानां धर्माणाम् स्वकस्वकाद् धातोः प्रवृत्तिं जानाति तद् एवम् सति हेतुप्रत्ययकौशल्यम् एतद् यदुत धातुकौशल्यम् ॥
-इइ-3-च्-(3) म्स्.77ब्8म्, स्ह्.245-12, प्.112ब्3, द्.92अ7, न्.97अ6, चो.97ब्1, छ्.434अ11
तत्र कतमान्य् आयतनानि । कतमद् आयतनकौशल्यम् । आह । द्वादशायतनानि, चक्षुरायतनम्, रूपायतनम्, श्रोत्रायतनम्, शब्दायतनम्, घ्राणायतनम्, गन्धायतनम्, जिह्वायतनम्, रसायतनम्, कायायतनम्, स्प्रष्टव्यायतनम्, मन-आयतनम्, धर्मायतनं च । इमान्य् उच्यन्त आयतनानि ।
कतमद् आयतनकौशल्यम् । तत्र चक्षुर् अधिपती रूपाण्य् आलम्बनं चक्षुर्विज्ञानस्य ससंप्रयोगस्योत्पत्तये, समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः । तत्र श्रोत्रम् अधिपतिः शब्द आलम्बनं समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः श्रोत्रविज्ञानस्य ससंप्रयोगस्योत्पत्तये । एवं यावन् मनःसमनन्तरं तज्जो मनस्कारो ऽधिपतिप्रत्ययो धर्म आलम्बनं मनोविज्ञानस्य ससंप्रयोगस्योत्पत्तये, इति त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन आलम्बनप्रत्ययेन अधिपतिप्रत्ययेन च षण्णां विज्ञानकायानां प्रवृत्तिर् भवति ससंप्रयोगाणाम् इति । यद् एवम् आध्यात्मिकबाह्येष्व् आयतनेषु प्रत्ययकौशल्यम् । इदम् उच्यत आयतनकौशल्यम् ॥
-इइ-3-च्-(4) म्स्.78अ3ल्, स्ह्.247-10, प्.113अ3, द्.92ब्5, न्.97ब्5, चो.97ब्7, छ्.434अ22
तत्र कतमः प्रतीत्यसमुत्पादः, कतमत् प्रतीत्यसमुत्पादकौशल्यम् । आह । अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम् । विस्तरेण यावत् । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अयम् उच्यते प्रतीत्यसमुत्पादः ।
यत् पुनर् धर्मा एव धर्मान् अभिस्पन्दयन्ति धर्मा एव धर्मान् परिस्पन्दयन्ति । संस्कारा एव धर्माणाम् आहारकाः, ते च हेतुसमुत्पन्नत्वात् ( श्भ् इइ 114 ) प्रतीत्यसमुत्पन्नत्वाद् अभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति । तस्माद् अनित्या एते संस्काराः । ये पुनर् अनित्यास् ते जातिधर्माणो जराधर्माणो व्याधिधर्माणो मरणधर्माणः शोकपरिदेवदुःखदौर्मनस्योपायासधर्माणः । ते जराधर्मित्वाद् यावद् उपायासधर्मित्वाद् दुःखाः । ये वा पुनर् दुःखा, अस्वतन्त्रा, दुर्बलास् त अनात्मान इति । यद् एभिर् आकारैः प्रतीत्यसमुत्पन्नेषु धर्मेष्व् अनित्यज्ञानम्, दुःखज्ञानम्, नैरात्म्यज्ञानम् । इदम् उच्यते प्रतीत्यसमुत्पादकौशल्यम् ॥
-इइ-3-च्-(5) म्स्.78अ6ल्, स्ह्.249-3, प्.113ब्5, द्.93अ5, न्.98अ6, चो.98अ7, छ्.434ब्6
स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पादकौशल्यविशेष एव वेदितव्यम् ॥
तत्रायं विशेषः । स्थानास्थानकौशल्येनाविषमहेतुकतां जानाति । अस्ति कुशलाकुशलानां कर्मणां फलविपाकः । कुशलानां पुनर् इष्टः फलविपाकः । अकुशलानाम् अनिष्ट इति । यद् एवं ज्ञानम् इदम् उच्यते स्थानास्थानकौशल्यम् ।
तच् चैतत् पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति सामान्यलक्षणकौशल्यं च । तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यम् आख्यातम् अवशिष्टैः सामान्यलक्षणकौशल्यम् । इदम् उच्यते कौशल्यालम्बनम् ॥
-इइ-3-द्-(1) म्स्.78ब्1र्, स्ह्.249-12, w.*91-33, प्.114अ1, द्.93ब्1, न्.98ब्2, चो.98ब्3, छ्.434ब्14
तत्र क्लेशविशोधनम् आलम्बनं कतमत् । आह । अधोभूमीनाम् औदारिकत्वम् उपरिभूमीनां शान्तत्वं च । तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन् नैवसंज्ञानासंज्ञायतनस्य ।
तत्र कतमा औदारिकता । औदारिकता द्विविधा । स्वभावौदारिकता संख्यौदारिकता च ।
तत्र स्वभावौदारिकता कामधाताव् अपि पञ्चस्कन्धाः संविद्यन्ते प्रथमे तु ध्याने । ये कामावचरास् ते सादीनवतराश् च दुःखविहारतराश् च, ( श्भ् इइ 116 ) अल्पकावस्थायितराश् च, हीनतराः प्रतिक्रुष्टतराश् च । इयम् एषाम् स्वभावौदारिकता । प्रथमे तु ध्याने न तथा तेन ते शान्ततराः प्रणीततरा इत्य् उच्यन्ते ।
तत्र संख्यौदारिकता कतमा । कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः प्रहातव्य एवं यावद् विज्ञानस्कन्धः । इयम् उच्यते संख्यौदारिकता । एवम् उपरिमासु भूमिषु स्वभावौदारिकता संख्यौदारिकता च यथायोगं वेदितव्याः ।
इयं तूपरिमासु भूमिषु यावद् आकिंचन्यायतनात् तदौदारिकता वेदितव्याः, सर्वा अधरिमा भूमयो दुःखविहारतराश् च अल्पायुष्कतराश् च । नैवसंज्ञानासंज्ञायतनं पुनः शान्तम् एव, उपरि श्रेष्ठतराया भूमेर् अभावात् ।
तत्र समासत आदीनवार्थ औदारिकतार्थः । यस्यां यस्यां भूमौ प्रभूततरम् आदीनवं भवति, सा आदीनवत औदारिकेत्य् उच्यते ।
यस्यां तु यस्यां भूमाव् अल्पतरम् आदीनवं भवति, सा आदीनवतः शान्तेत्य् उच्यते । इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनम् आलम्बनम्, तथापि तस्याधरिमां भूमिम् आदीनवतः पश्यतः । रोगतः, अयोगक्षेमतः, उपरिमां च भूमिं शान्ततः । य अधोभूमिकाः क्लेशा यावद् आकिंचन्यायतनभूमिकाः कामधातुम् उपादाय ते प्रहीयन्ते । न त्व् अत्यन्ततः प्रहीयन्ते । ते पुनर् एव ते प्रतिसंधिका भवन्ति ॥
-इइ-3-द्-(2)-इ म्स्.78ब्6म्, स्ह्.251-11, प्.114ब्6, द्.94अ3, न्.99अ4, चो.99अ4, छ्.434च्9
लोकोत्तरेण वा पुनर् मार्गेण क्लेशविशोधनम् आलम्बनं चतुर्विधं तद्यथा दुःखसत्यं समुदयसत्यं निरोधसत्यं मार्गसत्यं च ।
तत्र दुःखसत्यं कतमत् । तद्यथा जातिर् दुःखं जरा दुःखं व्याधिर् मरणम् अप्रियसंप्रयोगः प्रियविनाभाव इच्छाविघातश् च । संक्षेपतः पञ्चोपादानस्कन्धा दुःखम् ।
तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी ।
तत्र निरोध आर्यसत्यं यद् अस्या एव तृष्णाया अशेषप्रहाणम् ।
मार्गसत्यम् आर्याष्टाङ्गो मार्गः ।
तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानम् । तत्र दुःखसत्यं फलम् । समुदयसत्यं हेतुः । निरोधसत्यं फलम् । मार्गसत्यं हेतुः प्राप्तये स्पर्शनायै ।
तत्र दुःखसत्यं व्याधिस्थानीयं तत् प्रथमतः परिज्ञेयम् । समुदयसत्यं व्याधिनिदानस्थानीयं तच् चान्तरं परिवर्जयितव्यम् । निरोधसत्यम् आरोग्यस्थानीयं तच् च स्पर्शयितव्यं साक्षात्कर्तव्यम् । मार्गसत्यं भैषज्यस्थानीयं तच् चासेवितव्यं भावयितव्यं बहुलीकर्तव्यम् ॥
-इइ-3-द्-(2)-इइ म्स्.79अ3म्, स्ह्. 253"11, प्.115अ7, द्.94ब्3, न्.99ब्4, चो.99ब्3, छ्.434च्23
भूतं चैतत् तथा अवितथा अविपरीतम् अविपर्यस्तं दुःखं दुःखार्थेन, यावन् मार्गो मार्गार्थेन तस्मात् सत्यम् इत्य् उच्यते । स्वलक्षणं च न विसंवदति । तद्दर्शनाच् चाविपरीता बुद्धयः प्रवर्तन्ते । तेन सत्यम् इत्य् उच्यते ॥

-इइ-3-द्-(2)-इइइ म्स्.79अ4ल्, स्ह्.254-5, प्.115ब्1, द्.94ब्4, न्.99ब्5, चो.99ब्5, छ्.434च्26
कस्मात् पुनर् एतान्य् आर्याणाम् एव सत्यानि भवन्ति । आर्या एतानि सत्यान्य् एव समानानि सत्यतो जानन्ति पश्यन्ति यथाभूतम् । बालास् तु न जानन्ति, न पश्यन्ति यथाभूतम् । तस्माद् आर्यसत्यानीत्य् उच्यन्ते । बालानाम् एतद् धर्मतया सत्यं नावबोधेन । आर्याणां तूभयथा ॥
-इइ-3-द्-(2)-इव्-(अ) म्स्.79अ4र्, स्ह्.254-10, प्.115ब्4, द्.94ब्6, न्.99ब्7, चो.99ब्6, छ्.435अ1
तत्र जातिदुःखम् इति जायमानस्य दुःखा वेदनोत्पद्यते कायिकचैतसिकी, न तु जातिर् एव दुःखं दुःखनिदानम् सा एवं यावद् इच्छाविघातो दुःखम् इति, इच्छाविघातनिदानं दुःखम् उत्पद्यते कायिकचैतसिकम्, न त्व् इच्छाविघात एव दुःखं दुःखनिदानं पुनः स इति पेयालम् ।
संक्षेपतः पञ्चोपादानस्कन्धा दुःखम् इत्य् एभिर् जात्यादिभिः पर्यायैर् दुःखदुःखतैव परिदीपिता ।
तत्र विपरिणामदुःखता संस्कारदुःखता चावशिष्टा सा पुनः पञ्चोपादानस्कन्धदुःखतया परिदीपिता भवति । तथा हि पञ्चोपादानस्कन्धास् त्रिवेदनापरिगतास् ते तथोक्ताया दुःखदुःखताया भाजनभूताः । या च नोक्ता विपरिणामदुःखता संस्कारदुःखता च साप्य् एष्व् एव द्रष्टव्या ।
केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्तिता स्वशब्देन, विपरिणामदुःखता संस्कारदुःखता पुनः पर्यायेण । तथा हि दुःखदुःखतायाम् आर्याणां बालानां च तुल्या दुःखताबुद्धिः प्रवर्तते । संवेजिका अत्यर्थं दुःखदुःखता पूर्वम् अकृतप्रज्ञानाम् एवं च देश्यमाने सुखम् अवतारो भवति सत्येषु विनेयानाम् ॥
-इइ-3-द्-(2)-इव्-(ब्) म्स्.79अ7र्, स्ह्.256-4, प्.116अ4, द्.95अ4, न्.100अ6, चो.99ब्6, छ्.435अ16
तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति । यत् तावद् दुःखं जातिर् दुःखं यावद् इच्छाविघातो दुःखम् इत्य् अनेन साधिष्ठाना दुःखा वेदना आख्याता सा च दुःखदुःखता । इदं दुःखदुःखताया व्यवस्थानम् ।
ये ये वा पुनर् एतद् विपक्षा धर्मास् तथा यौवनं जरायाः, व्याधेर् आरोग्यम्, जीवितं मरणस्य, प्रियसंप्रयोगो ऽप्रियसंप्रयोगस्य, अप्रियविनाभावः प्रियविनाभावस्य, इच्छासंपत्तिर् इच्छाविघातस्य । ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठानाः, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशाः । इयम् उच्यते विपरिणामदुःखता ।
तत्र सुखा वेदना साधिष्ठाना, अनित्यतया परिणमन्ती अन्यथीभावाधिपतेयं दुःखं विदधाति । क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानत एव दुःखा भवन्ति । विपरिणामश् च स चेतसस् तस्माद् विपरिणामदुःखतेत्य् उच्यते । यथोक्तं भगवता, "अवदीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तग्रहणं चे"ति विस्तरः । यथा चोक्तं "कामच्छन्दपर्यवस्थितः कामच्छन्दपर्यवस्थानप्रत्ययं तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते" । एवं व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सापर्यवस्थितस् तद् अनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्थो ऽपि लभ्यते विपरिणामार्थो ऽपि । तेनोच्यते क्लेशविपरिणामदुःखतेति, इदं विपरिणामदुःखताया व्यवस्थानं ।

संस्कारदुःखता पुनः सर्वत्रगा उपादानस्कन्धेषु । संक्षेपतस् तु या च दुःखदुःखता, या च क्लेशसंगृहीता विपरिणामदुःखता, या च ( श्भ् इइ 124 ) साधिष्ठानसुखवेदनासंगृहिता तां स्थापयित्वा ये तदन्ये स्कन्धा अदुःखासुखसहगतास् तन्निर्जातास् तदुत्पत्तिप्रत्ययास् तस्य चोत्पन्नस्य स्थितिभाजनाः । इयम् उच्यते संस्कारदुःखता ।
ये स्कन्धा अनित्या उदयव्यययुक्ताः सोपादानास् त्रिवेदनाभिर् अनुषक्ता दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ता दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश् च । इयम् उच्यते संस्कारदुःखतया दुःखता । इदं संस्कारदुःखताया व्यवस्थानम् ।
तत्र तृष्णा प्रार्थनाभिलाषो ऽभिनन्दनेति पर्यायाः । सा पुनः प्रार्थना त्रिभिर् मुखैः प्रवृत्ता तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च । तत्र या पुनर्भवप्रार्थना सा पौनर्भविकी तृष्णा । विषयप्रार्थना पुनर् द्विविधा । प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता । तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्य् उच्यते । या पुनर् अप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्रतत्राभिनन्दिनीत्य् उच्यते ।
निरोधो ऽपि द्विविधः । क्लेशनिरोधो, उपक्लेशनिरोधश् च ।
मार्गो ऽपि द्विविधः । शैक्षो ऽशैक्षश् च ।
इदम् आलम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यम् ॥
-इइ-3-ए म्स्.79ब्7म्, स्ह्.258-11, प्.117ब्3, द्.96अ5, न्.101ब्1, चो.101अ5, छ्.435ब्21
तेनाह चतुर्विधम् आलम्बनम् । व्याप्यालम्बनं चरितविशोधनं कौशल्यालम्बनं क्लेशविशोधनं चेति ।
(इइ)-अ-इइ-4-अ म्स्.79ब्7र्, स्ह्.258-13, w.ऽ91-37, प्.117ब्4, द्.96अ6, न्.101ब्2, चो.101अ6, छ्.435ब्23
तत्राववादः कतमः । चतुर्विधो ऽववादः । अविपरीताववादः, अनुपूर्वाववादः, आगमाववादः, अधिगमाववादश् च ।
तत्राविपरीताववादः कतमः । यद् अविपरीतं धर्मम् अर्थं च देशयति ग्राहयति भूतं यद् अस्य निर्याति सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । अयम् उच्यते ऽविपरीताववादः ।
अनुपूर्वाववादः कतमः । यत् कालेन धर्मं देशयति । उत्तानोत्तानानि स्थानानि तत्प्रथमतो ग्राहयति वाचयति, ततः पश्चाद् गम्भीराणि, प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतो ऽववदते, ततः पश्चात् समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतो ऽववदते । ततः पश्चाद् अन्यासां ध्यानसमापत्तीनाम् । अयम् एवंभागीयो ऽनुपूर्वाववादो वेदितव्यः । तत्रागमाववादो यथा तेन गुरूणाम् अन्तिकाद् आगमितं भवति, गुरुस्थानीयानां योगज्ञानाम् आचार्याणाम् उपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा तथैवानेनान्यूनमधिकं कृत्वा परान् अववदते । अयम् उच्यत आगमाववादः ।
तत्राधिगमाववादो यथानेन ते धर्मा अधिगता भवन्ति । स्पर्शिताः साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा । तथैव परेषां प्राप्तये । स्पर्शनायै साक्षात्क्रियाया अववदते । अयम् उच्यते ऽधिगमाववादः ॥
-इइ-4-ब् म्स्.80अ3म्, स्ह्.260-15, प्.118अ7, द्.96ब्6, न्.102अ2, चो.101ब्5, छ्.435च्9
अस्ति पुनः सर्वाकारपरिपूर्णो ऽववादः । स पुनः कतमः । यस् त्रिभिः प्रातिहार्यैर् अववदति । ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण, अनुशास्तिप्रातिहार्येण ।
ऋद्धिप्रातिहार्येण, अनेकविधं ऋद्धिविषयम् उपदर्शयत्य् आत्मनि च बहुमानं जनयति परेषाम् । यथा तेन बहुमानजाताः श्रोत्रावधानेन ( श्भ् इइ 128 ) योगे मनसिकार आदरजाता भवन्ति । तत्र देशनाप्रातिहार्येण चित्तचरितआ समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियम्, यथाचरितम्, यथावतारं धर्मदेशनां देशयति, प्रतिपत्तौ समनुशास्ति । तेनायं प्रातिहार्यत्रयसंगृहीतः सर्वाकारपरिपूर्णाववादो भवति ॥
(इइ)-अ-इइ-5-अ-(1) म्स्.80अ5म्, स्ह्.261-8, w.*92-4, प्.118ब्5, द्.97अ2, न्.102अ6, चो.102अ1, छ्.435च्20
तत्र शिक्षा कतमा । आह । तिस्रः शिक्षाः । अधिशीलंशिक्षा, अधिचित्तम् अधिप्रज्ञंशिक्षा ।
तत्राधिशीलंशिक्षा कतमा । यथापि तच् "छीलवान् विहरती"ति विस्तरेण पूर्ववत् ।
तत्राधिचित्तंशिक्षा विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं च प्रथमं ध्यानं यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति । इयम् अधिचित्तंशिक्षा । अपि खलु सर्व आरूप्यास् तदन्याश् च समाधिसमापत्तयो ऽधिचित्तंशिक्षेत्य् उच्यते । अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयो न्यामावक्रान्तिर् भवति । न तु सर्वेण सर्वं विना ध्यानैस् तस्मात् प्रधानानि ध्यानानि कृत्वाधिचित्तंशिक्षेत्य् उक्तानि ।
तत्राधिप्रज्ञंशिक्षा यच् चतुर्ष्व् आर्यसत्येषु यथाभूतं ज्ञानं ॥
-इइ-5-अ-(2) म्स्.80अ7म्, स्ह्.263-1, प्.119अ5, द्.97अ7, न्.102ब्4, चो.102अ6, छ्.436अ7
केन कारणेन तिस्र एव शिक्षा न तत ऊर्ध्वम् । आह । समाधिप्रतिष्ठार्थेन ज्ञानसन्निश्रयार्थेन कृत्यकरणार्थेन च ।
तत्र समाधिप्रतिष्ठार्थेनाधिशीलंशिक्षा । तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति चित्तसमाधिम् ।
तत्र ज्ञानसन्निश्रयार्थेनाधिचित्तंशिक्षा । तथा हि समाहितचित्तस्यैकाग्रतास्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्तते ।
तत्र कृत्यकरणार्थेनाधिप्रज्ञंशिक्षा । तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणम् साक्षात्करोति । एष हि स्वार्थ एतत् परमं कृत्यं ( श्भ् इइ 132 ) यदुत क्लेशप्रहाणं तत उत्तरिकरणीयं पुनर् नास्ति । तेनैतास् तिस्र एव शिक्षाः ॥
-इइ-5-अ-(3) म्स्.80ब्1म्, स्ह्.263-13, छोइ.157-6, प्.119ब्2, द्.97ब्4, न्.103अ1, चो.102ब्2, छ्.436अ17
काः पुनर् आसां शिक्षाणाम् आनुपूर्वी । सुविशुद्धशीलस्य अविप्रतिसारः । अविप्रतिसारिणः प्रामोद्यं प्रीतिः प्रस्रब्धिः सुखम्, सुखितस्य चित्तसमाधिः समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति । यथाभूतं जानन् पश्यन् निर्विद्यते निर्विण्णो विरज्यते । विरक्तो विमुच्यते । विमुक्तो ऽनुपादाय परिनिर्वाति । एवम् इमानि शीलानि भावितान्य् अग्रतायाम् उपनयन्ति । यदुतानुपादाय परिनिर्वाणम् । इयम् आसां शिक्षाणाम् आनुपूर्वी ॥
-इइ-5-अ-(4) म्स्.80ब्2र्, स्ह्.264-5, प्.119ब्7, द्.97ब्7, न्.103अ4, चो.102ब्5, छ्.436अ24
तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलम् इत्य् उच्यते, एवम् अधिचित्तम् अधिप्रज्ञम् । अधिकारार्थेनाधिकार्थेन च ।
तत्र कथम् अधिकारार्थेन । अधिचित्तम् अधिकृत्य यच् छीलं सा अधिशीलं शिक्षा । अधिप्रज्ञम् अधिकृत्य यश् चित्तसमाधिः, सा अधिचित्तंशिक्षा । क्लेशप्रहाणम् अधिकृत्य यज् ज्ञानं दर्शनम्, सा अधिप्रज्ञंशिक्षा । एवम् अधिकारार्थेन ।
कथम् अधिकार्थेन । या चाधिशीलंशिक्षा या चाधिचित्तं या चाधिप्रज्ञंशिक्षा एताः शिक्षा अस्मिन्न् एव शासने, असाधारणा इतो बाह्यैः । एवम् अधिकार्थेन ॥
-इइ-5-अ-(5) म्स्.80ब्4म्, स्ह्.264-16, छोइ.*158-5, प्.120अ5, द्.98अ4, न्.103ब्1, चो.103अ2, छ्.436ब्3

अस्ति पुनर् अधिचित्तंशिक्षा या अधिप्रज्ञंशिक्षाया आवाहिका, अस्त्य् अधिप्रज्ञंशिक्षा या अधिचित्तंशिक्षाया आवाहिका । तद्यथा आर्यश्रावको ऽलाभी मौलानां ध्यानानाम्, शैक्षो दृष्टपदः, ततः पश्चाद् भावनाप्रहातव्यानां ( श्भ् इइ 134 ) क्लेशानां प्रहाणाय प्रयुज्यमानः स्मृतिसंबोध्यङ्गं भावयति यावद् उपेक्षासंबोध्यङ्गम् । इयम् अधिप्रज्ञंशिक्षा अधिचित्तंशिक्षाया आवाहिका । अधिचित्तं पुनः शिक्षां अधिप्रज्ञाया आवाहिका पूर्वम् एवोक्ता ।
तत्रास्त्य् अधिशीलं शिक्षा नाधिचित्तम्, नाधिप्रज्ञम् । अस्त्य् अधिशीलम् अधिचित्तम्, नाधिप्रज्ञम् । न त्व् अस्त्य् अधिप्रज्ञंशिक्षा या विनाधिशीलेनाधिचित्तेन च । अतो यत्राधिप्रज्ञंशिक्षा तत्र तिस्रः शिक्षा वेदितव्याः । इदं तावच् छिक्षाव्यवस्थानं तत्र योगिना योगप्रयुक्तेन शिक्षितव्यम् ॥
-इइ-5-अ-(6) म्स्.80ब्6र्, स्ह्.265-9, प्.120ब्5, द्.98ब्1, न्.103ब्6, चो.103अ6 छ्.436ब्14
तत्र त्रयः पुद्गलाः सत्यान्य् अभिसमागच्छन्ति । कतमे त्रयः । तद्यथा । अवीतरागो यद्भूयो वीतरागः, वीतरागश् च । तत्र सर्वेण सर्वम् अवीतरागः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयात् स्रोत-आपन्नो भवति । यद्भूयो वीतरागः पुनः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयात् सकृदागामी भवति । वीतरागः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयाद् अनागामी भवति ॥
-इइ-5-ब् म्स्.80ब्7र्, स्ह्.266-1, प्.121अ1, द्.98ब्4, न्.104अ2, चो.103ब्2, छ्.436ब्19
त्रीणीन्द्रियाणि । अनाज्ञातम् आज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातवत इन्द्रियम् । एषाम् इन्द्रियाणां कथं व्यवस्थानं भवति । अनभिसमितानां सत्यानाम् अभिसमयाय प्रयुक्तस्यानाज्ञातम् आज्ञास्यामीन्द्रियव्यवस्थानम् । अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानम् । कृतकृत्यस्याशैक्षस्यार्हत आज्ञातावीन्द्रियव्यवस्थानम् ॥
-इइ-5-च् म्स्.81अ1ल्, स्ह्.267-5, प्.121अ4, द्.98ब्6, न्.104अ4, चो.103ब्3, छ्.436ब्25

त्रीणि विमोक्षमुखानि । तद्यथा शून्यता अप्रणिहितम् आनिमित्तम् ।
एषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति । आह । द्वयम् इदं संस्कृतम् असंस्कृतं च ।
तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्च स्कन्धाः, असंस्कृतं पुनर् निर्वाणम् । इदम् उभयं यच् च संस्कृतम्, यच् चासंस्कृतम् इत्य् उच्यते सत् । यत् पुनर् इदम् उच्यत आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर् वा, इदम् असत् ।
तत्र संस्कृते दोषदर्शनाद् आदीनवदर्शनाद् अप्रणिधानं भवति । अप्रणिधानाच् चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते ।
निर्वाणे पुनस् तत्र प्रणिधानवतः प्रणिधानं भवति । शान्तदर्शनं प्रणीतदर्शनं निःसरणदर्शनं च, निःसरणदर्शनाच् च पुनर् आनिमित्तं विमोक्षमुखं व्यवस्थाप्यते ।
तत्रासत्य् असंविद्यमाने नैव प्रणिधानं नाप्रणिधानं भवति । तद् यथैवासत् तथैवासद् इति जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते । एवं त्रयाणां विमोक्षमुखानां व्यवस्थानं भवति ॥
(इइ)-अ-इइ-6-अ-(1) म्स्.81अ3र्, स्ह्.268-12, प्.121ब्3, द्.99अ4, न्.104ब्2, चो.103ब्7, छ्.436च्11
तत्र कतमे शिक्षानुलोमिका धर्माः । आह । दश शिक्षाविलोमा धर्माः । तेषां प्रतिपक्षेण दश शिक्षानुलोमिका वेदितव्याः ।
तत्र कतमे दश शिक्षाविलोमा धर्माः । तद्यथा मातृग्रामः शिशुर् उदारवर्णो रञ्जनीयः शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रम् अन्तरायकरः परिपन्थकः । सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिः । आलस्यम्, कौसीद्यम् । सत्कायदृष्टिः कवडंकाराहारम् उपादाय रसरागो लोकाख्यानकथास्व् अनेकविधासु बहुनानाप्रकारासु चित्रासु छन्दरागानुनयः, धर्मचिन्तायोगमनसिकारापक्षालः ।
स पुनः कतमः । तद्यथा काङ्क्षा विमतिर् विचिकित्सा रत्नेषु वा सत्येषु वा स्कन्धेषु वा कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यः शैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः स्त्यानमिद्धेन वा चित्ताभिभवश् चित्ताभिसंक्षेपः । अन्वारब्धवीर्यस्य वा कायिकक्लमश् चैतसिकोपायासः । अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानम् । लाभेन वा यशसा वा प्रशंसया वा अन्यतमान्यतमेन वा सुखलवमात्रत्वेन नन्दीसौमनस्यम् औद्धत्यम् अव्युपशम औद्बिल्यम् उत्प्लावितत्वम् । सत्कायनिरोधे निर्वाण उत्त्रासश् छम्भितत्वम् । अमात्रया भाष्यप्रयोगः, अत्यभिजल्पः, धर्म्याम् अपि कथां कथयता विगृह्यकथाम् आरम्भानुयोगः । पूर्वदृष्टश्रुतानुभूतेषु विषयेष्व् अनेकविधेषु बहुनानाप्रकारेषु चित्तविसारश् चित्ताक्षेपः । अचिन्त्येषु च स्थानेषु निध्यायितत्वम् । इमे धर्मचिन्तायोगमनसिकारापक्षाला वेदितव्याः । ( श्भ् इइ 140 )
ध्यानसमापत्तिसुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता । स्पृष्टस्य शारीरिकाभिर् वेदनाभिर् दुःखाभिर् यावत् प्राणहारिणीभिर् जीवितनियन्तिर् जीविताशा, तदाशानुगतस्य शोचना, क्लाम्यना, परिदेवना । इतीमे दश शिक्षाविलोमा धर्माः ॥
-इइ-6-अ-(2) म्स्.81ब्2र्, स्ह्.270-3, प्.122अ8, द्.99ब्6, न्.105अ5, चो.104ब्2, छ्.437अ6
कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति । तद्यथा । अशुभसंज्ञा । अनित्यसंज्ना । अनित्ये दुःखसंज्ञा । दुःखे ऽनात्मसंज्ञा । आहारे प्रतिकूलसंज्ञा । सर्वलोके ऽनभिरतिसंज्ञा । आलोकसंज्ञा । विरागसंज्ञा । निरोधसंज्ञा । मरणसंज्ञा । इतीमा दश संज्ञा आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय संवर्तन्ते ।
तत्र धर्मालोकः, अर्थालोकः, शमथालोकः, विपश्यनालोकश् च । एतान् आलोकान् अधिपतिं कृत्वा आलोकसंज्ञा । अस्मिन्न् अर्थ अभिप्रेता धर्मचिन्तायोगमनसिकाराः परिपन्थस्य प्रहाणाय ॥
-इइ-6-ब् म्स्.81ब्4र्, स्ह्.270-15, w.*92-12, छोइ.158-12, प्.122ब्5, द्.100अ3, न्.105ब्2, चो.104ब्6, छ्.437अ15
तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः । कतमे दश । तद्यथा पूर्वको हेतुः । आनुलोमिक उपदेशः । योनिशः प्रयोगः । सातत्यसत्कृत्यकारिता । तीव्रच्छन्दता । योगबलाधानता । कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिः । अभीक्ष्णप्रत्यवेक्षा । अपरितमना । निरभिमानता च ।
तत्र पूर्वको हेतुः कतमः । यः पूर्वम् इन्द्रियपरिपाक इन्द्रियसमुदागमश् च ।
तत्रानुलोमिक उपदेशो य उपदेशो ऽविपरीतश् चानुपूर्विकश् च ।
तत्र योनिशः प्रयोगो यथैवाववादितस् तथैव प्रयुज्यते । तथा प्रयुज्यमानः सम्यग्दृष्टिम् उत्पादयति ।
तत्र सातत्यसत्कृत्यकारिता यद्रूपेण प्रयोगेण अवन्ध्यं च कालं करोति कुशलपक्षेण । क्षिप्रम् एव कुशलपक्षं समुदानयति ।
तत्र तीव्रच्छन्दता यथापि तद् उत्तरे विमोक्षस्पृहाम् उत्पादयति । "कदास्विद् अहं तद् आयतनम् उपसंपद्य विहरिष्यामि यद् आर्या आयतनम् उपसंपद्य विहरन्ती"ति ।
तत्र योगबलाधानता द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति । प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च ।
तत्र कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिर् यथापि तच् छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते कायदौष्ठुल्यं चित्तदौष्ठुल्यम् । तद् ईर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति । अतिवितर्कितेनातिविचारितेनोत्पद्यते कायचित्तदौष्ठुल्यम्, तदाध्यात्मं चेतः शमथानुयोगेन प्रतिप्रस्रम्भयति ।
चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानेनोत्पद्यते कायचित्तदौष्ठुल्यम् । तद् अधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रस्रम्भयति । प्रकृत्यैव चाप्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यम् अविगतं भवति । सदानुषक्तं तत् सम्यङ्मार्गभावनया प्रतिप्रस्रम्भयति ।
तत्राभीक्ष्णप्रत्यवेक्षा अभीक्ष्णं शीलान्य् आरभ्य कुकृतं प्रत्यवेक्षते सुकृतं च । अकृतं च प्रत्यवेक्षते, कृतं च । कुकृताच् चाकृताद् व्यावर्तते । सुकृताच् चाकृतान् न प्रत्युदावर्तते । कुकृताच् च कृतात् प्रत्युदावर्तते । सुकृताच् च कृतान् न प्रत्युदावर्तते । तथा क्लेशानां प्रहीणाप्रहीणानां मीमांसामनस्कारम् अधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते ।
तत्र प्रहीणतां ज्ञात्वा [यिद् ब्दे बर् ऽग्युर् ल । म स्पङ्स् बर् शेस् न] पुनः पुनस् तम् एव मार्गं भावयति ।
तत्रापरितमना । यत् कालान्तरेण ज्ञातव्यं द्रष्टव्यं प्राप्तव्यं तद् अजानतो ऽपश्यतो ऽनधिगच्छतः परितमना उत्पद्यते, चैतसिकः क्लमः, चैतसिको विघातः । ताम् उत्पन्नां नाधिवासयति प्रजहाति ।
तत्र निरभिमानता । अधिगमे प्राप्तौ स्पर्शनायां निरभिमानो भवति । अविपरीतग्राही, प्राप्ते प्राप्तसंज्ञी, अधिगते ऽधिगतसंज्ञी साक्षात्कृते साक्षत्कृतसंज्ञी ।
इतीमे दश धर्माः शिक्षाकामस्य योगिन आदिमध्यपर्यवसानम् उपादाय शिक्षाम् अनुलोमयन्ति, न विलोमयन्ति । तेनोच्यन्ते शिक्षानुलोमिका इति ॥
(इइ)-अ-इइ-7-अ म्स्.82अ5र्, स्ह्.273-1, w.92-23, प्.124अ4, द्.101अ4, न्.106ब्3, चो.105ब्6, छ्.437ब्23

तत्र कतमो योगभ्रंशः । आह । चत्वारो योगभ्रंशाः । कतमे चत्वारः । अस्ति योगभ्रंश आत्यन्तिकः । अस्ति तावत्कालिकः । अस्ति प्राप्तिपरिहाणिकः । अस्ति मिथ्याप्रतिपत्तिकृतः ॥
-इइ-7-अ-(1),-(2),-(3) म्स्.82अ6म्, स्ह्.273-5, प्.124अ4, द्.101अ5, न्.106ब्4, चो.105ब्7, छ्.437ब्26
तत्रात्यन्तिको योगभ्रंशो ऽगोत्रस्थानां पुद्गलानां वेदितव्यः । ते ह्य् अपरिनिर्वाणधर्मकत्वाद् अत्यन्तपरिभ्रष्टा एव योगाद् भवन्ति ।
तत्र तावत्कालिकः । तद्यथा गोत्रस्थानां परिनिर्वाणधर्मकाणां प्रत्ययविकलानाम्, ते हि दूरम् अपि परम् अपि गत्वा अवश्यम् एव प्रत्ययान् आसादयिष्यन्ति । योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति । तेनैष तेषां तावत्कालिक एव योगभ्रंशो भवति ।
तत्र प्राप्तिपरिहाणिको योगभ्रंशः । यथापीहैकत्ये प्राप्ताद् अधिगताज् ज्ञानदर्शनस्पर्शविहारात् परिहीयन्ते ॥
-इइ-7-अ-(4) म्स्.82अ7र्, स्ह्.273-15, प्.124ब्2, द्.101ब्1, न्.107अ1, चो.106अ3, छ्.437च्5
तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः । यथापीहैकत्यो ऽयोनिशः प्रयुज्यमानो नाराधको भवति योगस्य, नाराधयति न्याय्यं धर्मं कुशलम् । यथापीहैकत्यो बहुक्लेशो भवति, प्रभूतरजस्कजातीयः पटुविज्ञानश् च भवति पटुबुद्धिः सहजया बुद्ध्या समन्वागतः स श्रुतम् उद्गृह्णाति श्रुतं पर्यवाप्नोत्य् अल्पं वा, प्रभूतं वा । अरण्ये वा पुनर् विहरति, आगतागतानां च गृहिप्रव्रजितानाम्, ऋजुकानाम्, ऋजुकजातीयानां ( श्भ् इइ 148 ) धर्मदेशनया चित्तम् आराधयति कुहनानुचरितया च चेष्टया कायवाक्प्रतिसंयुक्तया । तस्य तेन हेतुभावेन तेन प्रत्ययेनोत्पद्यते लाभसत्कारश्लोकः । स ज्ञातो भवति महापुण्यो लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्, सत्कृतश् च भवति, गुरुकृतः, राज्ञां राजमात्राणाम्, यावत् सार्थवाहानाम्, अर्हत्संमतः । तस्यान्वावर्तन्ते श्रावकाः, गृहिणः, प्रव्रजिता अपि, अन्वावृत्तेषु ग्रेधं निगमयत्य् आवर्तते बाहुल्याय ।
तस्यैवं भवति । "सन्ति मे श्रावकाः, गृहिप्रव्रजिता ये, मयि संभावना जाता येषाम् अर्हत्संमतस् ते चेन् माम् उपसंक्रम्य योगे मनसिकारे शमथविपश्यनायां प्रश्नं पृच्छेयुः । तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्य् एवं सति या संभावना सा च हीयेत्, न च स्याम् अर्हत्संमतः, यन् न्व् अहं स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयम्" । स एतम् एवार्थम् अधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयति ।
स चास्य योगो न सूत्रे ऽवतरति न विनये संदृश्यते । धर्मतां च विलोमयति । स ये ते भिक्षवः सूत्रधरा, विनयधरा, मातृकाधरास् तेषं तद् योगस्थानं विनिगूहति न प्रकाशयति । ये ऽप्य् अस्य श्रवका ( श्भ् इइ 150 ) भवन्ति गृहिणः, प्रव्रजिताश् च, तान् अपि योगप्रतिगुप्तय आज्ञापयति ।
तत् कस्य हेतोः । "मा हैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद् योगस्थानं श्रुत्वा सूत्रे ऽवतारयेयुः, तच् च नावतरेत् । विनये संदर्शयेयुः, तच् च न संदृश्येत् । धर्मतया उपपरीक्षेयुः, तच् च धर्मतां विरोधयेत् । ते च ततो निदानम् अप्रतीता भवेयुर् अप्रतीतवचनैश् च मां चोदयेयुः । अधिकरणानि चोत्पादयेयुः" ।

"एवम् अहं पुनर् अपि न सत्कृतः स्यां न गुरुकृतः, राज्ञां राजामात्राणां यावद् धनिनां श्रेष्ठिनां सार्थवाहानाम्, न च पुनर् लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्" इति ।
स ताम् एव लाभसत्कारकामताम् अधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रुचिम् अधर्मं धर्मतो दीपयति संप्रकाशयति ।
तत्र ये ऽस्य दृष्ट्यनुमतम् आपद्यन्ते ते ऽप्य् अधर्मे धर्मसंज्ञिनो भवन्ति मन्दत्वान् मोमुहत्वात् ते ऽधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः । अयम् एवंरूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशः सद्धर्मप्रतिरूपको ह्य् असद्धर्मः सद्धर्मस्यान्तर्धानाय ।
इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः ॥
(इइ)-अ-इइ-8-अ म्स्-82ब्7म्, स्ह्.275-23, w.92-31, छोइ.163-1, प्.125ब्8, द्.102ब्2, न्.108अ3, चो.107अ4, छ्.438अ16
तत्र योगः कतमः । आह । चतुर्विधो योगः । तद्यथा श्रद्धा छन्दो वीर्यम् उपायश् च ॥
-इइ-8-अ-(1) म्स्.82ब्7र्, स्ह्.276-2, w.92-32, छोइ.163-9, प्.126अ1, द्.102ब्3, न्.108अ3, चो.107अ4, छ्.438अ17
तत्र श्रद्धा द्व्याकारा द्विविधाधिष्ठाना, अभिसंप्रत्ययाकारा प्रसादाकारा च, धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ॥
-इइ-8-अ-(2) म्स्.82ब्8ल्, स्ह्.276-5, w।92-35, छोइ.163-10, 7, प्.126अ2, द्.102ब्4, न्.108अ4, चो.107अ5, छ्.438अ20
छन्दो ऽपि चतुर्विधः । तद्यथा प्राप्तये यथापीहैकत्य उत्तरे विमोक्षस्पृहाम् उत्पादयति, विस्तरेण पूर्ववत् । परिपृच्छायै यथापीहैकत्यः स्पृहाम् उत्पादयत्य् आरामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानाम् अन्तिकम् अश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय । संभारसमुदागमाय च्छन्दो यथापीहैकत्यः शीलसंवरपारिशुद्धये, इन्द्रियसंवरपारिशुद्धये, भोजने मात्रज्ञतायाम्, जागरिकानुयोगे, संप्रजानद्विहारितायाम् उत्तरोत्तरां स्पृहाम् उत्पादयति । अनुयोगाय च्छन्दो यथापीहैकत्यः सातत्यप्रयोगतायां सत्कृत्यप्रयोगतायां च मार्गभावनायां स्पृहाम् उत्पादयत्य् अभिलाषं कर्तुकामताम् । इत्य् अयं चतुर्विधश् छन्दः । यदुत प्राप्तये परिपृच्छनायै संभारसमुदागमाय अनुयोगाय च ॥
-इइ-8-अ-(3) म्स्.83अ1र्, स्ह्.276-20, w.*93-1, छोइ.164-8, प्.126अ8, द्.102ब्7, न्.108ब्1, चो.107ब्2, छ्.438ब्1
तत्र वीर्यम् अपि चतुर्विधं तद्यथा श्रवणाय, चिन्तनायै, भावनायै, आवरणपारिशुद्धये च ।
तत्र श्रवणाय वीर्यं । यद् अश्रुतं च शृण्वतः, पर्यवदापयतः, चेतसो ऽभ्युत्साहः, अविन्यस्तप्रयोगता । एवं यथाश्रुतानां धर्माणाम् एकाकिनो रहोगतस्यार्थम्, चिन्तयतस् तुलयत उपपरीक्षमाणस्य । एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयतः । एवम् अहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्यां निवरणेभ्यश् चित्तं विशोधयतः, यश् चेतसो ऽभ्युत्साहः, अविन्यस्तप्रयोगता ॥
-इइ-8-अ-(4) म्स्.83अ3म्, स्ह्.277-10, w.*93-3, छोइ.165-1, प्.126ब्5, द्.103अ4, न्.108ब्5, चो.107ब्5, छ्.438ब्9
तत्रोपायो ऽपि चतुर्विधः । तद्यथा शीलसंवरम् इन्द्रियसंवरम् अधिपतिं कृत्वा सूपस्थितस्मृतिता तथा चोपस्थितस्मृतेर् अप्रमादश् चेतस आरक्षा । कुशलानां धर्माणां निषेवणा । तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः । अधिप्रज्ञं च धर्मविपश्यना ॥
स चायं योगश् चतुर्विधः । षोडशाकारो भवति ॥
-इइ-8-ब् म्स्.83अ4म्, स्ह्.277-16, w.93-23, छोइ.165-10, प्.126ब्8, द्.103अ6, न्.108ब्7, चो.107ब्7, छ्.438ब्13
तत्र श्रद्धया प्राप्तव्यम् अर्थम् अभिसंप्रत्येति । प्राप्तिम् ( श्भ् इइ 156 ) अभिसंप्रत्ययात् कर्तुकामताम् उत्पादयति कुशलेषु धर्मेषु । स एवं कर्तुकामो ऽहोरात्रानुयुक्तो विहरति । उत्साही दृढपराक्रमः । तच् च वीर्यम् उपायपरिगृहीतम् अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै संवर्तते । तस्माद् इमे चत्वारो धर्मा योग इत्य् उच्यते41 ॥
(इइ)-अ-इइ-9-अ म्स्.83अ5र्, स्ह्.278-1, w.94-1, प्.127अ3, द्.103ब्1, न्.109अ2, चो.108अ2,छ्.438ब्19
तत्र मनसिकारः कतमः । चत्वारो मनस्काराः । कतमे चत्वारः । तद्यथा बलवाहनः, सच्छिद्रवाहनः, निश्छिद्रवाहनः, अनाभोगवाहनश् च ॥
-इइ-9-अ-(1) म्स्.83अ6र्, स्ह्.278-8, w.94-3, प्.127अ4, द्.103ब्2, न्.109अ3, चो.108अ3, छ्.438ब्21
तत्र बलवाहनो मनस्कारः कतमः । तद्यथा आदिकर्मिकस्याध्यात्मम् एव चित्तं स्थापयतः संस्थापयतश् च धर्मान् प्रविचिन्वतः, यावन् मनस्कारं न प्राप्नोति, तावद् अस्य बलवाहनो मनस्कारो भवति । बलाद् अवष्टभ्य तच् चित्तम् एकाग्रतायाम् अवस्थापयति । तेनोच्यते बलवाहन इति ॥
-इइ-9-अ-(2) म्स्.83अ7म्, स्ह्.279-5, w.94-8, प्. 127अ6, द्. 103ब्3, न्. 109अ5, चो. 108अ4, छ्.438ब्25
तत्र सच्छिद्रवाहनो मनस्कारः कतमः । यो लब्धमनस्कारस्योर्ध्वं लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा यो लक्षणप्रतिसंवेदी मनस्कारः । तथा हि समाधिस् तत्र चिन्तया व्यवकीर्यते, नैकान्तेन भावनाकारेण प्रवर्तते ॥
-इइ-9-अ-(3) म्स्.83अ8ल्, स्ह्.279-10, w.94-11, प्.127ब्1, द्.103ब्5, न्.109अ6, चो.108अ5, छ्.438ब्28
तत्र निश्छिद्रवाहनो मनस्कारः कतमः । लक्षणप्रतिसंवेदिनो मनस्काराद् ऊर्ध्वं यावत् प्रयोगनिष्ठान् मनसिकारात् ॥
-इइ-9-अ-(4) म्स्.83अ8म्, स्ह्.279-12, w.94-13, प्.127ब्2, द्.103ब्5, न्.109अ7, चो.108अ6, छ्.438च्1
तत्रानाभोगवाहनो मनस्कारः कतमः । यः प्रयोगनिष्ठाफलो मनस्कारः ॥
-इइ-9-ब्-(1),(2),(3),(4) म्स्.83अ8र्, स्ह्.279-14, प्.127ब्3, द्.103ब्6, न्.109अ7, चो.108अ7, छ्.438च्3
अपरे चत्वारो मनस्काराः । तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश् च ।
तत्रानुलोमिको मनस्कारः । येनालम्बनं विदूषयति सम्यक्प्रयोगं चारभते, नो तु क्लेशं प्रजहाति ।
तत्र प्रातिपक्षिकः । येन क्लेशं प्रजहाति ।
तत्र प्रसदनीयः । येन लीनं चित्तं प्रग्राहकैर् निमित्तैर् अभिप्रमोदयति संप्रहर्षयति प्रगृह्णाति ।
तत्र प्रत्यवेक्षणीयो मनस्कारः । तद्यथा मीमांसामनस्कारः, यम् अधिपतिं कृत्वा प्रहीणाप्रहीणतां क्लेशानां प्रत्यवेक्षते ॥
-इइ-9-च् म्स्.83ब्2ल्, स्ह्.280-4, प्. 127ब्8, द्. 104अ2, न्. 109ब्4, चो. 108ब्3, छ्.438च्10
तत्रालम्बनं मनसिकुर्वता कति निमित्तानि मनसिकर्तव्यानि भवन्ति । आह । चत्वारि । तद्यथालम्बननिमित्तं निदाननिमित्तं परिवर्जनीयं निमित्तं निषेवणीयं च निमित्तम् ॥
-इइ-9-च्-(1) म्स्.83ब्2र्, स्ह्.280-7, प्.128अ1, द्.104अ3, न्.109ब्5, चो.108ब्4, छ्.438च्12
तत्रालम्बननिमित्तम् । यज् ज्ञेयवस्तुसभागं प्रतिबिम्बं प्रतिभासः ॥
-इइ-9-च्-(2) म्स्.83ब्3ल्, स्ह्.280-10, प्.128अ2, द्.104अ3, न्.109ब्5, चो.108ब्4, छ्.438च्13

तत्र निदाननिमित्तम् । तद्यथा समाधिसंभारोपचयः, आनुलोमिक ( श्भ् इइ 162 ) उपदेशः, भावनासहगतस् तीव्रच्छन्दः संवेजनीयेषु धर्मेषु संवेगः, विक्षेपाविक्षेपपरिज्ञावधानम्, परतश् चासंघट्टो मनुष्यकृतो वामनुष्यकृतो वा शब्दकृतो वा व्यायामकृतो वा । तथा विपश्यनापूर्वंगमो ऽध्यात्मं चित्ताभिसंक्षेप उत्तप्ततराया विपश्यनाया उत्तरत्र निदाननिमित्तम् । तथा शमथपूर्वंगमा विपश्यना उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तम् ॥

-इइ-9-च्-(3)-इ,इइ,इइइ,इव् म्स्.83ब्4म्, स्ह्.280-19, प्.128अ6, द्.104अ6, न्.110अ1, चो.108ब्6, छ्.438च्19
तत्र परिवर्जनीयनिमित्तं चतुर्विधम् । तद्यथा लयनिमित्तम् औद्धत्यनिमित्तं सङ्गनिमित्तं विक्षेपनिमित्तं च ।
तत्र लयनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति ।
तत्र औद्धत्यनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम् उद्धन्यते ।
तत्र सङ्गनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम् आलम्बने रज्यते संरज्यते संक्लिश्यते ।
तत्र विक्षेपनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं बहिर्धा विक्षिप्यते ।
तानि पुनर् निमित्तानि यथा समाहितायां भूमौ ॥
-इइ-9-द् म्स्.83ब्6ल्, स्ह्.281-8, प्.128ब्2, द्.104ब्2, न्.110अ4, चो.109अ2, छ्.438च्26
एभिर् मनस्कारैर् आलम्बनम् अधिमुच्यतः कत्य् अधिमोक्षा भवन्ति । आह । नवाधिमोक्षाः । तद्यथा प्रभास्वरश् चाप्रभास्वरश् च जडः पटुः परीत्तो महद्गतो ऽप्रमाणः परिशुद्धो ऽपरिशुद्धश् चेति ।
तत्र प्रभास्वरो ऽधिमोक्षः । य आलोकनिमित्ते सूद्गृहीत आलोकसहगतः ।
तत्राप्रभास्वरो ऽधिमोक्षः । तद्यथा आलोकनिमित्ते ऽनुद्गृहीते ऽन्धकारसहगतः ।
तत्र जडो ऽधिमोक्षः । यो मृद्विन्द्रियसन्तानपतितः ।
तत्र पटुर् अधिमोक्षः । यस् तीक्ष्णेन्द्रियसन्तानपतितः ।
तत्र परीत्तो ऽधिमोक्षः । यः परीत्तश्रद्धाछन्दसहगतः परीत्तालम्बनश् च । इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तो ऽधिमोक्षः ।
तत्र महद्गतो ऽधिमोक्षः । तद्यथा यो महद्गतश्रद्धाछन्दसहगतः, महद्गतं वालम्बनम् अधिमुच्यते यो ऽधिमोक्षः । इति मनस्कारमहद्गततया चालम्बनमहद्गततया च महद्गतो ऽधिमोक्षः ।
तत्राप्रमाणो ऽधिमोक्षः । अप्रमाणश्रद्धाछन्दसहगतः, अनन्तम् वा अपर्यन्तम् आलम्बनम् अधिमुच्यते यो ऽधिमोक्षः । इति मनस्काराप्रमाणतया चालम्बनाप्रमाणतया चाप्रमाणो ऽधिमोक्षः ।
तत्र परिशुद्धो ऽधिमोक्षः । यः सुभावितः परिनिष्पन्नः पर्यवसानगतः ।
अपरिशुद्धो वा पुनः यो न सुभावितो न परिनिष्पन्नो न पर्यवसानगतः ॥
(इइ)-अ-इइ-10 म्स्.84अ1र्, स्ह्.283-2, w.*95-4, प्.129अ3, द्.104ब्7, न्.110ब्4, चो.109ब्2, छ्.439अ16
तत्र कति योगस्य योगकरणीयानि । आह । चत्वारि । कतमानि चत्वारि । तद्यथाश्रयनिरोधः, आश्रयपरिवर्तः, आलम्बनपरिज्ञानम्, आलम्बनाभिरतिश् च ।
तत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः सो ऽनुपूर्वेण निरुध्यते, प्रस्रब्धिसहगतश् चाश्रयः परिवर्तते । अयम् आश्रयनिरोधो ऽयम् आश्रयपरिवर्तो योगकरणीयम् ।
तत्रालम्बनपरिज्ञानम् आलम्बनाभिरतिश् च । अस्त्य् आलम्बनपरिज्ञानम् आलम्बनाभिरतिर् आश्रयनिरोधपरिवर्तपूर्वंगमम्, यच् चालम्बनपरिज्ञानम् आलम्बनाभिरतिं चाधिपतिं कृत्वाश्रयो निरुध्यते परिवर्तते च । अस्त्य् आलम्बनपरिज्ञानम् आलम्बनाभिरतिर् आश्रयविशुद्धिपूर्वंगमम् आश्रयशुद्धिम् अधिपतिं कृत्वा सुविशुद्धम् आलम्बनज्ञानं कार्यपरिनिष्पत्तिकाले प्रवर्तते, अभिरतिश् च ।
तेनोच्यते चत्वारि योगस्य योगकरणीयानीति ॥
(इइ)-अ-इइ-11-अ-(1),(2),(3) म्स्.84अ4र्, स्ह्.284-4, w.95-11, प्.129ब्2, द्.105अ5, न्.111अ2, चो.109ब्6, छ्.439ब्1
तत्र कति योगाचाराः । आह । त्रयः । तद्यथा आदिकर्मिकः, कृतपरिचयः, अतिक्रान्तमनस्कारश् च ।
तत्रादिकर्मिको योगाचारो मनस्कारादिकर्मिकः क्लेशविशुद्ध्यादिकर्मिकश् च ।
तत्र मनस्कारादिकर्मिकस् तत्प्रथमकर्मिक एकाग्रतायां यावन् मनस्कारं न प्राप्नोति चित्तैकाग्रतां न स्पृशति ।
तत्र क्लेशविशुद्ध्यादिकर्मिकः । अधिगते ऽपि मनस्कारे क्लेशस्य चित्तं विशोधयितुकामस्य यैइअक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश् चाभ्यासः । अयं क्लेशविशुद्ध्यादिकर्मिकः ।
तत्र कृतपरिचयः कतमः । लक्षणप्रतिसंवेदिनं मनस्कारम् स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापर्यन्तेषु कृतपरिचयो भवति ।
तत्रातिक्रान्तमनस्कारः प्रयोगनिष्ठाफले मनस्कारे वेदितव्यः । अतिक्रान्तो ऽसौ भवति प्रयोगभावनामनस्कारम्, स्थितो भवति भावनाफले । तस्माद् अतिक्रान्तमनस्कार इत्य् उच्यते ॥
-11-11-ब्-(1),(2),(3) म्स्.84अ7म्, स्ह्.284-23, प्.130अ1, द्.105ब्3, न्.111अ7, चो.110अ3, छ्.439ब्15
अपि च कुशलं धर्मच्छन्दम् उपादाय प्रयुज्यमानो यावन् निर्वेधभागीयानि कुशलमूलानि नोत्पादयति तावद् आदिकर्मिको भवति ।
यदा पुनर् निर्वेधभागीयान्य् उत्पादयति, तद्यथा ऊष्मगतानि मूर्धानः ( श्भ् इइ 170 ) सत्यानुलोमाः क्षान्तयो लौकिका अग्रधर्माः, तदा कृतपरिचयो भवति ।
यदा पुनः सम्यक्त्वं न्यामम् अवक्रामति सत्यान्य् अभिसमागच्छत्य् अपरप्रत्ययो भवत्य् अनन्यनेयः शास्तुः शासने, तदातिक्रान्तमनस्कारो भवति । परप्रत्ययं मनस्कारम् अतिक्रम्यापरप्रत्यये स्थितः । तस्माद्, अतिक्रान्तमनस्कार इत्य् उच्यते ॥
(इइ)-अ-इइ-12-अ-(1) म्स्.84ब्1ल्, स्ह्.285-11, w.96-14, प्.130अ6, द्.105ब्6, न्.111ब्4, चो.110अ6, छ्.439ब्22
तत्र योगभावना कतमा । आह । द्विविधा । तद्यथा संज्ञाभावना बोधिपक्ष्या भावना च ।
तत्र संज्ञाभावना कतमा । तद्यथा लौकिकमार्गप्रयुक्तः सर्वास्व् अधरिमासु भूमिष्व् आदीनवसंज्ञां भावयति । निर्वाणाय वा पुनः प्रयुक्तः प्रहाणधातौ विरागधातौ निरोधधातौ शान्तदर्शी प्रहाणसंज्ञां विरागसंज्ञां निरोधसंज्ञां च भावयति । शमथाय वा पुनः प्रयुक्त ऊर्ध्वमधःसंज्ञां शमथपक्ष्यां भावयति । विपश्यनायां प्रयुक्तः पश्चात्पुरःसंज्ञां विपश्यनापक्ष्यां भावयति ॥
-इइ-12-अ-(2) म्स्.84ब्2र्, स्ह्.287-2, प्.130ब्1, द्.106अ2, न्.111ब्7, चो.110ब्1, छ्.439ब्28
तत्रोर्ध्वमधःसंज्ञी इमम् एव कायं यथास्थितं यथाप्रणिहितम् ऊर्ध्वं पादतलाद् अधः केशमस्तकात् पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते । सन्त्य् अस्मिन् काये केशा रोमाणीति पूर्ववत् ।
तत्र पश्चात्पुरःसंज्ञी । यथापि तद् एकत्येन प्रत्यवेक्षणानिमित्तम् एव साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसीकृतम् सुजुष्टं सुप्रतिविद्धम् । तद्यथा स्थितो निषण्णं प्रत्यवेक्षते, निषण्णो वा निपन्नम्, पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षते । सा खल्व् एषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षा परिदीपिता ।

तत्र यत् तावद् आह "स्थितो निषण्णं प्रत्यवेक्षत" इत्य् अनेन परिदीपितं वर्तमानेन मनस्कारेण_ अनागतं ज्ञेयं प्रत्यवेक्षते । वर्तमानापि ( श्भ् इइ 174 ) मनस्कारावस्था उत्पन्ना "स्थिते"त्य् उच्यते । अनागता पुनर् ज्ञेयावस्था अनुत्पन्नत्वाद् उत्पादाभिमुखत्वाच् च "निषण्णे"त्य् उच्यते ।
यत् पुनर् आह "निषण्णो वा निपन्नं प्रत्यवेक्षत" इत्य् अनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता । प्रत्युत्पन्ना हि मनस्कारावस्था निरोधाभिमुखा "निषण्णे"त्य् उच्यते । अतीता पुनर् निरुद्धत्वाज् ज्ञेयावस्था "निपन्ने"त्य् उच्यते ।
यत् पुनर् आह "पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षत" इत्य् अनेन प्रत्युत्पन्नेन मनस्कारेणानन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता । तत्र य उत्पन्नोत्पन्नो मनसिकारो ऽनन्तरनिरुद्धह् स पुरतो यायी ।
तत्र यो ऽनन्तरोत्पन्नो ऽनन्तरोत्पन्नो मनस्कारो नवनवो ऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः स पृष्ठतो यायी ।
तत्र शमथं च विपश्यनां च भावयंस् तदुभयपक्ष्याम् आलोकसंज्ञां भावयति । इयं संज्ञाभावना ॥
इइ-12-ब् म्स्.84ब्7म्, स्ह्.288-19, w.*97-1, प्.131अ5, द्.106ब्3, न्.112ब्2, चो.111अ2, छ्.439च्18
तत्र बोधिपक्ष्यभावना कतमा । यः सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अभ्यासः परिचय आसेवना भावना बहुलीकार इयम् उच्यते बोधिपक्ष्यभावना । तद्यथा चतुर्णाम् स्मृत्युपस्थानानाम्, चतुर्णां ( श्भ् इइ 176 ) सम्यक्प्रहाणानाम्, चतुर्णाम् ऋद्धिपादानाम्, पञ्चनाम् इन्द्रियाणाम्, पञ्चानां बलानाम्, सप्तानां बोध्यङ्गानाम्, आर्याष्टाङ्गस्य मार्गस्य ।
कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य ।
अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय च्छन्दैः जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य, उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय, उत्पन्नानां कुशलानां धर्माणाम् स्थितये ऽसंमोषाय भावनापरिपूरये भूयोभाववृद्धिविपुलतायै छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य ।
छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य ।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियस्य ।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानाम् ।
स्मृतिसंबोध्यङ्गस्य धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गस्य च ।
सम्यग्दृष्टेः सम्यक्संकल्पस्य सम्यग्वाक्कर्मान्ताजीवानाम् सम्यग्व्यायामस्य सम्यक्स्मृतेः सम्यक्समाधेश् च ॥
-इइ-12-ब्-(1)-इ-(अ) म्स्.85अ3र्, स्ह्.291-5, w.97-22, प्.132अ1, द्.107अ4, न्.113अ3, चो.111ब्3, छ्.440अ13
तत्र कतमः कायः । कतमा काये कायानुपश्यना । कतमा स्मृतिः । कतमानि स्मृतेर् उपस्थानानि । आह ।
कायः पञ्चत्रिंशतिविधः । तद्यथा आध्यात्मिको बाह्यश् च, इन्द्रियसंगृहीतो ऽनिन्द्रियसंगृहीतश् च, सत्त्वसंख्यातो ऽसत्त्वसंख्यातश् च, दौष्ठुल्यसहगतः प्रश्रब्धिसहगतश् च, भूतकायो भौतिककायश् च, नामकायो रूपकायश् च, नारकस् तैर्यग्योनिकः पैतृविषयिको मानुष्यको दिव्यश् च, सविज्ञानको ऽविज्ञानको वा, अन्तःकायो बहिःकायश् च, विपरिणतो ऽविपरिणतश् च, स्त्रीकायः पुरुषकायः पण्डककायश् च, मित्रकायो ऽमित्रकाय उदासीनकायश् च, हीनकायो मध्यकायः प्रणीतकायश् च, दह्रकायो यूनकायो वृद्धकायश् च । अयं तावत् कायस्य प्रभेदः ॥
-इइ-12-ब्-(1)-इ-(ब्) म्स्.85अ5र्, स्ह्.292-11, प्.132अ7, द्.107ब्1, न्.113अ7, चो.111ब्7, छ्.440अ21
तत्रानुपश्यना त्रिविधा । या कायम् अधिपतिं कृत्वा श्रुतमयी वा प्रज्ञा चिन्तामयी वा भावनामयी वा, यया प्रज्ञया सर्वं कायं सर्वाकारं सम्यग् एवोपपरीक्षते संतीरयत्य् अनुप्रविशत्य् अनुबुध्यते ॥
-इइ-12-ब्-(1)-इ-(च्) म्स्.85अ6म्, स्ह्.292-15, प्.132ब्1, द्.107ब्2, न्.113ब्1, चो.112अ1, छ्.440अ23
तत्र स्मृतिर् यद् अस्य कायम् अधिपतिं कृत्वा ये धर्मा उद्गृहीतास् तेषाम् एव च धर्माणां यो ऽर्थश् चिन्तितो ये च भावनया साक्षात्कृताः, तत्र व्यञ्जने चार्थे च साक्षात्क्रियायां च तच्चेतसो ऽसंमोषः, "सूद्गृहीता वा म एते धर्माः", "न वे"ति, "सूपलक्षिता वा तत्र तत्र प्रज्ञया", "न वे"ति, "सुसंस्पर्शिताः तत्र तत्र विमुक्त्या", "न वे"ति स्मृतिर् उपस्थिता भवति । ( श्भ् इइ 180 ) इदं स्मृतेर् उपस्थानम् ॥
-इइ-12-ब्-(1)-इ-(द्) म्स्.85अ7म्, स्ह्.293-6, प्. 132ब्5, द्. 107ब्5, न्. 113ब्4, चो. 112अ3, छ्.440अ29
अपि च स्मृत्यारक्षायै स्मृतेर् उपस्थानं विषयासंक्लेशायालम्बनोपनिबन्धाय च ।
तत्र स्मृत्यारक्षा यथोक्तं पूर्वम् एव्"आरक्षितस्मृतिर् भवति निपकस्मृतिर्" इति ।
तत्र विषयासंक्लेशाय । यथोक्तं "स्मृत्यारक्षितमानसः समावस्थाचारको" "न निमित्तग्राही नानुव्यञ्जनग्राही" यावद् विस्तरेण "रक्षति मन-इन्द्रियं मन-इन्द्रियेण संवरम् आपद्यते" ।
तत्रालम्बनोपनिबन्धाय । यथोक्तं चतुर्विध आलम्बने स्मृतिम् उपनिबध्नतः । तद्यथा व्यापिन्य् आलम्बने चरितविशोधने कौशल्यालम्बने क्लेशविशोधने वा ।
एभिस् त्रिभिर् आकारैर् या सूपस्थितस्मृतिता, इदम् उच्यते स्मृतेर् उपस्थानम् ॥
-इइ-12-ब्-(1)-इइ म्स्.85ब्1र्, स्ह्.293-18, प्.133अ3, द्.108अ1, न्.114अ1, चो.112ब्7, छ्.440ब्8
तत्र वेदना कतमा । तद्यथा सुखा दुःखा अदुःखासुखा च वेदना । तत्र सुखापि कायिकी दुःखाप्य् अदुःखासुखापि । यथा कायिकी, एवं चैतसिकी । सुखापि सामिषा दुःखाप्य् अदुःखासुखापि । एवं निरामिषापि, एवं गर्धाश्रिता, नैष्क्रम्याश्रिता वेदना सुखापि दुःखाप्य् अदुःखासुखापि ।
सैषा एकविंशतिविधा वेदना भवति, नवविधा वा ॥
-इइ-12-ब्-(1)-इइइ म्स्.85ब्2र्, स्ह्.294-7, w.97-39, प्.133अ7, द्.108अ4, इम्.114अ4, चो.113अ2, छ्. 440ब्13
तत्र चित्तं कतमत् । तद्यथा सरागं चित्तं विगतरागं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतं व्युपशान्तम् अव्युपशान्तं समाहितम् असमाहितं सुभावितम् असुभावितं सुविमुक्तं चित्तम् असुविमुक्तं चित्तम् । तद् एतद् अभिसमस्य विंशतिविधं चित्तं भवति ॥
-इइ-12-ब्-(1)-इव् म्स्.85ब्3र्, स्ह्.294-13, प्.133ब्2, द्.108अ6, न्.114अ7, चो.112ब्5, छ्.440ब्18
तत्र धर्माः कतमे । रागो रागविनयश् च, द्वेषो द्वेषविनयश् च, मोहो मोहविनयश् च, संक्षेपो विक्षेपो लयः प्रग्रह औद्धत्यम् अनौद्धत्यं व्युपशमो ऽव्युपशमः, सुसमाहितता न सुसमाहितता सुभावितमार्गता न सुभावितमार्गता सुविमुक्तता न सुविमुक्तता च । इतीमे कृष्णशुक्लपक्षव्यवस्थिता विंशतिधर्मा वेदितव्याः संक्लेशव्यवदानपक्ष्याः ॥
-इइ-12-ब्-(1)-इइऽ म्स्.85ब्5ल्, स्ह्.295-8, प्.133ब्6, द्.108ब्2, न्.114ब्3, चो.112ब्7, छ्.440ब्23

तत्र सुखा वेदना यत् सुखवेदनीयम् स्पर्शं प्रतीत्योत्पद्यते सातं वेदितं वेदनागतम् । सा पुनर् या पञ्चविज्ञानसंप्रयुक्ता सा कायिकी, या पुनर् मनोविज्ञानसंप्रयुक्ता सा चैतसिकी ।
यथा सुखवेदनीयम् एवं दुःखवेदनीयम् अदुःखासुखवेदनीयम् स्पर्शं प्रतीत्योत्पद्यते ऽसातं नैव सातं नासातं वेदितं वेदनागतम् । इदम् उच्यते दुःखा अदुःखासुखा वेदना । सा पुनर् या पञ्चविज्ञानकायसंप्रयुक्ता सा कायिकी, या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी ।
या निर्वाणानुकूला नैर्वेधिकी अत्यन्तनिष्ठताया अत्यन्तविमलताया अत्यन्तब्रह्मचर्यपर्यवसानायै संवर्तते सा निरामिषा । या पुनर् धातुपतिता भवपतिता सा सामिषा । या पुना रूपारूप्यप्रतिसंयुक्ता वैराग्यानुकूला वा सा नैष्क्रम्याश्रिता । या पुनः कामप्रतिसंयुक्ता न च वैराग्यानुकूला सा गर्धाश्रिता ॥
-इइ-12-ब्-(1)-इइइऽ म्स्.85ब्7र्, स्ह्.296-13, प्.134अ6, द्.109अ1, न्.115अ1, चो.113अ6, छ्.440च्5
तत्र सरागं चित्तं यद् रञ्जनीये वस्तुनि रागपर्यवस्थितम् । विगतरागं यद् रागपर्यवस्थानापगतम् । सद्वेषं यद् द्वेषणीये वस्तुनि द्वेषपर्यवस्थितम् । विगतद्वेषं यद् द्वेषपर्यवस्थानापगतम् । तत्र संमोहं यन् मोहनीये वस्तुनि मोहपर्यौअस्थितम् । विगतमोहं यद् मोहपर्यवस्थानापगतम् ।

तान्य् एतानि षट् चित्तानि चारसहगतानि वेदितव्यानि । तत्र त्रीणि संक्लेशपक्ष्याणि त्रीणि संक्लेशप्रातिपक्षिकाणि ।
तत्र संक्षिप्तचित्तं यच् छमथाकारेणाध्यात्मालम्बनोपनिबद्धम् । विक्षिप्तं यद् बहिर्धा पञ्चसु कामगुणेष्व् अनुविसृतम् ।
तत्र लीनं चित्तं यत् स्त्यानमिद्धसहगतम् । प्रगृहीतं यत् प्रसदनीयेनालम्बनेन संप्रहर्षितम् । उद्धतं चित्तं यद् अतिसंप्रग्रहाद् औद्धत्यपर्यवस्थितम् । अनुद्धतं चित्तं यत् प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षाप्राप्तम् ।
तत्र व्युपशान्तं चित्तं यन् निवरणेभ्यो विमुक्तम् । अव्युपशान्तं पुनर् यद् अविमुक्तम् ।
तत्र समाहितं चित्तं यन् निवरणविमोक्षान् मौलध्यानप्रविष्टम् । असमाहितं यद् अप्रविष्टम् ।
तत्र सुभावितं चित्तं यत् तस्यैव समाधेर् दीर्घकालपरिचयान् निकामलाभी भवत्य् अकृच्छ्रलाभ्य् आशुसंपत्ता । तत्र न सुभावितम् चित्तम् एतद्विपर्ययेण वेदितव्यम् ।
तत्र सुविमुक्तं चित्तं यत् सर्वतश् चात्यन्ततश् च विमुक्तम् । न सुविमुक्तं चित्तं यन् न सर्वतो नाप्य् अत्यन्ततो विमुक्तम् ।
इतीमानि चतुर्दश चित्तानि विहारगतानि वेदितव्यानि । तत्र निवरणविशुद्धिभूमिम् आरभ्य विहारगतान्य् अष्टौ चित्तानि । संक्षिप्तं वित्क्षिप्तं यावद् व्युपशान्तम् अव्युपशान्तम् इति । क्लेशविशुद्धिं पुनर् आरभ्य विहारगतानि षट् चित्तानि । यावत् सुविमुक्तं चित्तं न सुविमुक्तम् इति ।
यत् पुनः सत्य् अध्यात्मं निवरणे "अस्ति मे निवरणम्" इति जानाति, असति निवरणे "नास्ति मे निवरणम्" इति जनाति । यथा चानुत्पन्नस्य निवरणस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य विगमो भवति तद् अपि प्रजानाति ।
तत्र सति चक्षुःसंयोजने यावन् मनःसंयोजने "अस्ति मे यावन् मनःसम्योजनम्" इति, असति यावन् मनःसंयोजने "नास्ति मे यावन् मनःसंयोजनम्" इति प्रजानाति । यथा चानुत्पन्नस्य यावन् मनःसंयोजनस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य निरोधो भवति तद् अपि प्रजानाति ।
सत्य् अध्यात्मम् स्मृतिसंबोध्यङ्गे "अस्ति मे स्मृतिसंबोध्यङ्गम्" इति प्रजानाति, असति "नास्ति मे" प्रजानाति । यथा चानुत्पन्नस्य स्मृतिसंबोध्यङ्गस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य स्थितिर् भवत्य् असंमोषो भावनापरिपूरिभूयोभाववृद्धिविपुलता तद् अपि प्रजानाति ।
यथा स्मृतिसंबोध्यङ्गम् एवं धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गं वेदितव्यम् इति ॥
-इइ-12-ब्-(1)-इव्ऽ म्स्.86अ7म्, स्ह्.299-13, प्.135ब्4, द्.110अ2, न्.116अ4, चो.114अ7, छ्.441अ13
यद् एवं स्वभावनिदानादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानम् इदं शरीरं धर्मस्मृत्युपस्थानस्य ॥
-इइ-12-ब्-(1)-व् म्स्.86अ7र्, स्ह्.299-15, प्.135ब्5, द्.110अ3, न्.116अ5, चो.114अ7, छ्.441अ14
यथा काये कायानुपश्यना स्मृत्युपस्थानम् उक्तम् एवं वेदनायां चित्ते धर्मेषु यथायोगं वेदितव्यम् ।
तत्र कथम् अध्यात्मं काये कायानुदर्शी विहरति, कथं बहिर्धा, कथम् अध्यात्मबहिर्धा ।
यदा अध्यात्मं प्रत्यात्मं सत्त्वसंख्याते काये कायानुपश्यी विहरति, एवम् अध्यात्मं काये कायानुदर्शी विहरति ।
यदा बहिर्धा असत्त्वसंख्यातं रूपम् आलम्बनीकरोति, एवं बहिर्धा काये कायानुदर्शी विहरति ।
यदा बहिर्धा परक्यं सत्त्वसंख्यातं रूपम् आलम्बनीकरोति, एवम् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति ।
तत्राध्यात्मं रूपम् उपादाय स्वक्यं सत्त्वसंख्यातं या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन्न् अध्यात्मं वेदनासु चित्ते धर्मेषु धर्मानुदर्शी विहरति ।
बाह्यम् असत्त्वसंख्यातं रूपम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन् बहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति ।
बहिर्धा बाह्यं रूपं सत्त्वसंख्यातम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति ॥
-इइ-12-ब्-(1)-व्-(अ) म्स्.86ब्2र्, स्ह्.300-15, प्.136अ5, द्.110ब्2, न्.116ब्4, चो.114ब्6, छ्.441अ29
अपरः पर्यायः । इन्द्रियसंगृहीतं रूपम् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुपश्यी विहरति । अनिन्द्रियसंगृहीतं रूपम् अनुपगतम् अनुपादत्तम् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अनिन्द्रियसंगृहीतम् एव रूपम् अध्यात्मम् उपगतम् उपादत्तं रूपम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुपश्यी विहरति । एवं पूर्वं त्रिविधं रूपम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् यथायोगम् आलम्बनीकुर्वंस् तथादर्शी विहरतीति वेदितव्यम् ॥
-इइ-12-ब्-0)-व्-(ब्) म्स्.86ब्4ल्, स्ह्.301-6, प्.136ब्1, द्.110ब्4, न्.116ब्6, चो.115अ1, छ्.441ब्6
अपरः पर्यायः । यत् समाहितभूमिकं प्रश्रब्धिसहगतं रूपम् आलम्बनीकरोत्य् एवम् अध्यात्मं काये कायानुदर्शी विहरति । यत् स्वक्यम् एवाध्यात्मम् असमाहितभूमिकं दौष्ठुल्यसहगतं रूपम् आलम्बनीकरोत्य् एवं बहिर्धा काये कायानुपश्यी विहरति । परक्यं दौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा ( श्भ् इइ 192 ) काये कायानुदर्शी विहरत्य् एवं तद् उपादायोत्पन्ना वेदना चित्तं धर्मा यथायोगं वेदितव्याः ॥
-इइ-12-ब्-(1)-व्-(च्) म्स्.86ब्5म्, स्ह्.301-14, प्.136ब्5, द्.110ब्7, न्.117अ2, चो.115अ4, छ्.441ब्13
अपरः पर्यायः । अध्यात्मं भूतरूपम् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुदर्शी विहरति । बाह्यं भूतरूपम् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तच् च भूतरूपम् उपादाय यद् उत्पन्नम् इन्द्रियविषयसंगृहीतम् उपादायरूपं चालम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः ॥
-इइ-12-ब्-(1)-व्-(द्) म्स्.86ब्6र्, स्ह्.301-21, प्.136ब्8, द्.111अ2, न्.117अ5, चो.115अ6, छ्.441ब्19
अपरः पर्यायः । यदा सविज्ञानकं कायम् अध्यात्मम् आलम्बनीकरोत्य् एवम् अध्यात्मं काये कायानुदर्शी विहरति । अविज्ञानकं रूपं सत्त्वसंख्यातं विनीलकादिष्व् अवस्थास्व् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अविज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां सविज्ञानकस्य च रूपस्यानागते काले ऽविज्ञानतां तुल्यधर्मतां समधर्मताम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति ।
एवं तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः ॥
अपरः पर्यायः । आत्मनो ऽन्तःकायं केशरोमनखादिभिर् आकारैर् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुदर्शी विहरति । परेषाम् अन्तःकायं केशरोमनखादिभिर् आकारैर् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । आत्मनश् च बहिःकायम् अविपरिणतं विनीलकादिभिर् आकारैः ( श्भ् इइ 194 ) परेषां च बहिःकायं विपरिणतम् अविपरिणतं च विनीलकादिभिर् आकारैस् तुल्यधर्मतयालम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति ।

तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः ।
इत्य् एवंभागीयाः कायवेदनाचित्तधर्मप्रभेदेन बहवः पर्याया वेदितव्याः । इमे तु कतिपयाः पर्यायाः संप्रकाशिताः ॥
म्स्.87अ2ल्, स्ह्.303-4, w.*98-5, प्.137ब्2, द्.111ब्2, न्.117ब्5, चो.115ब्5, छ्.441च्6
तत्र चतुर्णां विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि ।
तत्राशुचौ शुचीति विपर्यासप्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितम् । तथा हि भगवता कायस्मृत्युपस्थानभावनायाम् अशुभाप्रतिसम्युक्ताश् चतस्रः शिवपथिका देशिताः, या अस्य बहुलंकुर्वन्मनसिकुर्वतः, अशुचौ शुचीति विपर्यासः प्रहीयते ।
तत्र दुःखे सुखम् इति विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितम् । वेदनासु वेदनानुदर्शी विहरन् "यत् किंचिद् वेदितम् इदम् अत्र दुःखस्ये"ति यथाभूतं प्रजानाति, एवम् अस्य यो दुःखे सुखम् इति विपर्यासः स प्रहायते ।
तत्र अनित्ये नित्यम् इति विपर्यासप्रतिपक्षेण चित्तस्मृत्युपस्थानं व्यवस्थापितम् । तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानाम् अत्ययात् क्षणलवमुहूर्तानाम् अनेकविधानां बहुनानाप्रकारतां ( श्भ् इइ 196 ) चित्तस्योपलभ्य यो ऽनित्ये नित्यम् इति विपर्यासः स प्रहीयते ।

तत्रानात्मन्य् आत्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितम् । तस्य येषाम् आत्मदृष्ट्यादिकानां संक्लेशानां सद्भावाद् येषाम् अनात्मदृष्ट्यादिकानां कुशलानां धर्माणाम् असद्भावात् स्कन्धेष्व् आत्मदर्शनं भवति, नान्यस्य, स्वलक्षणतः सामान्यलक्षणतश् च धर्मान् धर्मानुदर्शिनो यथाभूतं पश्यतः, यो ऽनात्मन्य् आत्मेति विपर्यासः स प्रहीयते ॥
-इइ-12-ब्-(1)-व्-(f) म्स्.87अ6ल्, स्ह्.305-1, प्.138अ4, द्.112अ1, न्.118अ6, चो.116अ5, छ्.441च्22
अपरः पर्यायः । प्रायेण हि लोक एवं प्रवृत्तः । स्कन्धेषु स्कन्धमात्रं धर्ममात्रं यथाभूतम् अप्रजानन् यथा "काय आश्रितः, यदाश्रितश् च सुखदुःखम् उपभुञ्जे", धर्माधर्माभ्याम् संक्लिश्यते व्यवदायते च । तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं कायस्मृत्युपस्थानं व्यवस्थापितम् । तस्यैवात्मनो ऽनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितम् । यत्रैव च ते चित्ते मनसि विज्ञान आत्मग्राहेण संमूढा आत्मवस्तुसंमोहापनयनार्थेन चित्तस्मृत्युपस्थानं व्यवस्थापितम् । तस्यैव च चित्तसंक्लेशव्यवदानवस्तुसंमोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् ॥
-इइ-12-ब्-(1)-व्-(ग्) म्स्.87अ7र्, स्ह्.305-10, w.98-22, प्.138ब्2, द्.112अ5, न्.118ब्3, चो.116ब्2, छ्.441च्29
अपरः पर्यायः । यत्र च कर्म करोति, यदर्थं च करोति, यश् च कर्म करोति, येन च करोति, तत् सर्वम् एकध्यम् अभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये करोति वेदनार्थं चित्तं कुशलाकुशलैर् धर्मैः ॥
-इइ-12-ब्-(1)-व्-(ह्) म्स्.87ब्1र्, स्ह्.306-4, प्.138ब्4, द्.112अ7, न्.118ब्4, चो.116ब्4, छ्.442अ5
अपरः पर्यायः । यत्र च संक्लिश्यते विशुध्यते यतश् च यश् च येन क्लिश्यते विशुध्यते, तद् एकध्यम् अभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये संक्लिश्यते विशुध्यते च वेदनाभ्यश् चित्तं धर्मैः संक्लिश्यते विशुध्यते च ॥
-इइ-12-ब्-(1)-वि म्स्.87ब्2म्, स्ः 306-10, प्.138ब्7, द्.112ब्2, न्.118ब्7, चो.116ब्6, छ्.442अ10
तत्र स्मृत्युपस्थानम् इति को ऽर्थः । आह । यत्र च स्मृतिम् उपस्थापयति येन च स्मृतिम् उपस्थापयति तद् उच्यते स्मृत्युपस्थानम् । यत्र स्मृतिम् उपस्थापयति तद् आलम्बनस्मृत्युपस्थानम् । येन स्मृतिम् उपस्थापयति तत्र या प्रज्ञा स्मृतिश् च समाधिसंग्राहिका तत् स्वभावस्मृत्युपस्थानम् । तदन्ये तत्संप्रयुक्ताश् चित्तचैतसिका धर्माः संसर्गस्मृत्युपस्थानम् ।
अपि च कायवेदनाचित्तधर्माधिपतेयो यो मार्गः समुत्पन्नः कुशलः सास्रवो ऽनास्रवश् च तत् स्मृत्युपस्थानम् । स पुनः श्रुतमयश् चिन्तामयो भावनामयश् च । तत्र श्रुतचिन्तामयः सास्रव एव, भावनामयः स्यात् सास्रवः स्याद् अनास्रवः ॥
-इइ-12-ब्-(2) म्स्.87ब्4म्, स्ह्.307-5, प्.139अ5, द्.112ब्6, न्.119अ4, चो.117अ3, छ्.442अ26
स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिकौदारिकं विपर्यासम् अपनीय कुशलाकुशलधर्माभिज्ञः । तदनन्तरम् "अनुत्पन्नानाइः पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय, उत्पन्नानां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय, उत्पन्नानाम् स्थितय" इति विस्तरेण पूर्ववद् यावच् चित्तं प्रगृह्णाति प्रदधाति ॥
-इइ-12-ब्-(2)-इ-(अ) म्स्.87ब्5म्, स्ह्.307-12, प्.139अ8, द्.113अ2, न्.119अ6, चो.117अ5, छ्442ब्2
तत्र कतमे पापका अकुशला धर्माः । यत् कामावचरं क्लिष्टं कायकर्म वाक्कर्म मनस्कर्म कायवाङ्मनोदुश्चरितसंगृहीतम्, ये च तत्समुत्थापकाः क्लेशास् ते पुनर् ये ऽसमवहिता असंमुखीभूतास् ते ऽनुत्पन्नाः, ये समवहिताः संमुखीभूतास् त उत्पन्नाः ।
तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मा दुश्चरितप्रातिपक्षिका निवरणप्रातिपक्षिकाः संयोजनप्रातिपक्षिका वा । ते ऽप्य् अनुत्पन्नास् तथैव वेदितव्या उत्पन्नाश् च यथा पापका अकुशला धर्माः ॥
-इइ-12-ब्-(2)-इ-(ब्)-(1) म्स्.87ब्6र्, स्ह्.308-5, प्.139ब्4, द्.113अ5, न्.119ब्3, चो.117ब्1, छ्.442ब्8
तत्र यदानुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय स्पृहाम् उत्पादयति प्रणिधत्ते "सर्वेण सर्वं सर्वथा नोत्पादयिष्यामी"ति, एवं छन्दं जनयति । उत्पन्नान् वा पुनः समवहितान् "सर्वेण सर्वं नाधिवासयिष्यामि प्रहास्यामि प्रतिविनोदयिष्यामि" ।
यद् अनुत्पन्नेषु पापकेष्व् अकुशलेषु धर्मेषु पूर्वम् एवानुत्पादाय स्पृहाम् उत्पादयति प्रणिधत्ते नाधिवासयितुकामो भवति, अयम् अनुत्पन्नानाम् ( श्भ् इइ 202 ) अनुत्पादाय च्छन्दः । यद् वोत्पन्नान् नाधिवासयति प्रहाणयति, अयम् उत्पन्नानां प्रहाणाय च्छन्दः ॥
-इइ-12-ब्-(2)-इ-(ब्)-(2) म्स्.88अ2ल्, स्ह्.308-14, प्.139ब्7, द्.113अ7, न्.119ब्5, चो.117ब्4, छ्.442ब्14
ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा अनागतवस्त्वालम्बना वा वर्तमानविषयालम्बना वोत्पद्यन्ते, ते भवन्ति परोक्षविषयालम्बनाः प्रत्यक्षविषयालम्बनाश् च । ये ऽतीतानागतवस्त्वालम्बनास् ते परोक्षविषयालम्बनाः, ये वर्तमानविषयालम्बनास् ते प्रत्यक्षविषयालम्बनाः ॥
-इइ-12-ब्-(2)-इ-(ब्)-(3) म्स्.88अ2र्, स्ह्.308-20, प्.140अ2, द्.113ब्2, न्.119ब्7, चो.117ब्5, छ्.442ब्18
तत्र परोक्षविषयालम्बनानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते । प्रत्यक्षविषयालम्बनानां पुनर् अनुत्पन्नानाम् अनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यम् आरभते ।
तथा हि तेषां दृढतरेण वीर्यारम्भेणानुत्पत्तिः प्रहाणं वा भवति । अपि च मृदुमध्यानां पर्यवस्थानानाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां प्रहाणाय उयायच्छते । अधिमात्राणां पर्यवस्थानानाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहानाय वीर्यम् आरभते ।
सचेद् अतीत आलम्बने चरति, तथा चरति यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते । सचेत् पुनः स्मृतिसंप्रमोषाद् उत्पद्यते नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । यथातीत आलम्बन एवम् अनागते ऽपि वेदितव्यम् । ( श्भ् इइ 204 ) एवम् अयम् अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायोत्पन्नानां च प्रहाणाय "व्यायच्छत" इत्य् उच्यते ।
सचेद् अयं वर्तमान आलम्बने चरति, तथा तथा चरति यथा तेनालम्बनेन क्लेशो नोत्पद्यते । सचेत् पुनः स्मृतिसंप्रमोषाद् उत्पद्यत उत्पन्नं नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । एवम् अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायोत्पन्नानां च प्रहाणाय "वीर्यम् आरभत" इत्य् उच्यते ॥
-इइ-12-ब्-(2)-इ-(ब्)-(4) म्स्.88अ6म्, स्ह्.309-19, प्.140ब्2, द्.114अ1, न्.120अ6, चो.118अ4, छ्.442च्7
सन्ति पापका अकुशला धर्मा ये संकल्पवशेनोत्पद्यन्ते न विषयबलेन, सन्ति ये संकल्पबलेन च विषयबलेन च ।
तत्र संकल्पवशेनोत्पद्यन्ते न उइषयबलेन, तद्यथा विहरतो ऽतीतानागतालम्बनेन य उत्पद्यन्ते ।

तत्र संकल्पवशेन च विषयबलेन चोत्पद्यन्ते, तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते, अवश्यं तत्रायोनिशःसंकल्पो भवति ॥
म्स्.88अ7म्, स्ह्.310-4, प्.140ब्5, द्.114अ3, न्.118अ6, चो.120ब्2, छ्.442च्13
तत्र ये संकल्पबलेनोत्पद्यन्ते तेषाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते । तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते तेषाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय वीर्यम् आरभते ॥
-इइ-12-ब्-(2)-इ-(च्) म्स्.88अ8म्, स्ह्.310-10, प्.140ब्7, द्.114अ4, न्.118ब्1, चो.120ब्3, छ्.442च्17
तत्र्"आनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय च्छन्दं जनयती"ति । ये कुशला धर्मा अप्रतिलब्धा असंमुखीभूताश् च तेषां प्रतिलम्भाय संमुखीभावाय च स्पृहाम् उत्पादयति चित्तं प्रणिधत्ते, तीव्रा प्रतिलब्धुकामता संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति । अयम् "अनुत्पन्नानां कुशलानां धर्माणाम् उत्पत्तये छन्दः" ।
"उत्पन्नानां च कुशलानां धर्माणाम् स्थितये ऽसंमोषाय भावनापरिपूरये छन्दं जनयती"ति, "उत्पन्नाः कुशला धर्मा" ये प्रतिलब्धाः संमुखीभूताश् च । तत्र प्रतिलम्भाविगमं प्रतिलब्धापारिहाणिम् अधिकृत्याह "स्थितय" इति । संमुखीभावाद् अधन्धायितत्वम् अधिकृत्याह "असंमोषाये"ति । तेषाम् एव च कुशलानां धर्माणां प्रतिलब्धानां संमुखीभूतानाम् आसेवनान्वयात् परिनिष्पत्तिं निष्ठागमनम् अधिकृत्याह "भावनापरिपूरय" इति । तत्र च स्पृहाम् उत्पादयति चित्तं प्रणिधत्ते तीव्रा चास्य स्थितिकामता असंमोषकामता भावनापरिपूरिकामता प्रत्युपस्थिता भवति । अयम् उच्यत "उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंमोषाय भावनापरिपूरये छन्दः" ॥
म्स्.88ब्3म्, स्ह्.311-7, प्.141अ6, द्.114ब्2, न्.118ब्6, चो.121अ2, छ्.443अ2
तत्र "व्यायच्छत" इति प्रतिलब्धानां संमुखीभावाय । "वीर्यम् आरभते" ऽप्रतिलब्धानां प्रतिलम्भाय ।
तत्र "व्यायच्छत" उत्पन्नानां स्थितये ऽसंमोषाय । "वीर्यम् आरभते" भावनापरिपूरये ।
अपि च मृदुमध्यानां कुशलानां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, उत्पन्नानां च स्थितये ऽसंमोषाय व्यायच्छते । अधिमात्राणां कुशलानां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यम् आरभते ।
तत्र "चित्तं प्रगृह्णाति" । यदा तच् चित्तं शमथभावनायाम् एकाग्रतायां प्रयुक्तं भवति, अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय, ( श्भ् इइ 208 ) एवं विस्तरेण यावद् उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंमोषाय भावनापरिपूरये तच् च तथाध्यात्मम् अभिसंक्षिप्तं लीनत्वाय परैति, लीनत्वाभिशङ्कि चैवं पश्यति । तदान्यतमान्यतमेन प्रग्राहकेण निमित्तेन प्रसदनीयेन प्रतिगृह्णाति संहर्षयति । एवं चित्तं प्रगृह्णाति ।
कथं "प्रदधाति" । पुनर् उद्धतम् औद्धत्याभिशङ्कि वा प्रग्रहकाले पश्यति, तदा पुनर् अप्य् अध्यात्मम् अभिसंक्षिपति शमथाय प्रणिदधाति ॥

-इइ-12-ब्-(2)-इ-(द्) म्स्.88ब्7म्, स्ह्.312-10, w.*98-32, प्.141ब्6, द्.115अ1, न्.121ब्1, चो.119अ5, छ्.443अ17
तान्य् एतानि भवन्ति चत्वारि सम्यक्प्रहाणानि । कृष्णपक्ष्याणां धर्माणाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय च्छन्दो व्यायामो वीर्यारम्भश् चित्तप्रग्रहः प्रदधनम् इमे द्वे सम्यक्प्रहाणे । शुक्लपक्ष्याणां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये । तद्यथा कृष्णपक्ष्याणाम् ।
तत्रैकं संवरणप्रहाणम्, यद् "उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय च्छन्दं जनयती"ति विस्तरेण ।
द्वितीयं प्रहाणप्रहाणम्, यद् "अनुत्पन्नानाम् अनुत्पादाय च्छन्दं जनयती"ति विस्तरेण । उत्पन्नं हि संवरयितव्यं पापकं वस्तु, अनुत्पन्नं च यत् तद् असमुदाचारतः प्रहीणम् एव तद् असंमुखीभावतः प्रहातव्यं इति कृत्वा, प्रहीणस्य प्रःआणं प्रहाणप्रहाणम् ।
तत्र भावनाप्रहाणम् एकम् । यद् आह । "अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाये"ति विस्तरेण यावच् "चित्तं प्रगृह्णाति प्रदधाती"ति ।
तथा हि कुशला धर्मा आसेव्यमाना भाव्यमाना, अप्रतिलब्धाश् च प्रतिलभ्यन्ते, प्रतिलब्धाश् च संमुखीक्रियन्ते ।
तत्रानुरक्षणाप्रहाणम् एकम् । यद् आह । "उत्पन्नानां कुशलानां धर्माणां स्थितये" विस्तरेण यावच् "चित्तं प्रगृह्णाति, प्रदधाति" । तथा हि प्रतिलब्धेषु संमुखीकृतेषु च कुशलेषु धर्मेषु या प्रमादवर्जना अप्रमादनिषेवणा च सा कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये संवर्तते । एवम् उत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्ति । अयं तावत् सम्यक्प्रहाणानां विस्तरविभागः ॥
-इइ-12-ब्-(2)-इइ म्स्.89अ3र्, स्ह्.313-14, प्.142अ8, द्.115ब्2, न्.122अ2, चो.119ब्5, छ्.443ब्8
समासार्थः पुनः कतमः । आह । कृष्णशुक्लपक्षिकस्य त्यागादानवस्तुनो ऽध्याशयसंपत् प्रयोगसंपच् च परिदीपिता भवति । तत्राध्याशयसंपच् छन्दजननतया, प्रयोगसंपत् पुनर् व्यायामवीर्यारम्भचित्तप्रग्रहप्रदधनैः । एतावच् च योगिना करणीयम् । यत् प्रहातव्यस्य वस्तुनः प्रहाणाय प्राप्तव्यस्य च वस्तुनः प्राप्तये पूर्वम् एव स्पृहाजातेन भवितव्यम्, पर्यवस्थानप्रहाणाय वीर्यम् आरब्धव्यम् अनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि भावयितव्यानि ( श्भ् इइ 212 ) । पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रतिपक्षिका धर्माः कुशलास् ते समुदानयितव्याः । तच् चैतत् सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवति । अयं समासार्थः ॥
-इइ-12-ब्-(3) म्स्.89अ6म्, स्ह्.314-5, प्.142ब्5, द्.115ब्6, न्.122अ6, चो.120अ2, छ्.443ब्18
तत्र चत्वारः समाधयः । तद्यथा छन्दसमाधिः, वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश् च ।
तत्र च्छन्दम् अधिपतिं कृत्वा यः प्रतिलभ्यते समाधिर् अयं छन्दसमाधिः । वीर्यम्, चित्तम्, मीमांसाम् अधिपतिं कृत्वा यः प्रतिलभ्यते समाधिर् अयं मीमांसासमाधिः ॥
-इइ-12-ब्-(3)-इ-(अ) म्स्.89अ7र्, स्ह्.315-4, प्.142ब्7, द्.115ब्7, न्.122ब्1, चो.120अ4, छ्.443ब्23
यदा तावद् अयं छन्दम् एव केवलं जनयति । छन्दजातश् च तान् पापकान् अकुशलान् धर्मान् स्वभावतो निदानत आदीनवतः प्रतिपक्षतश् च सम्यग् एवोपनिदध्याति, एकाग्रां स्मृतिं प्रवर्तयति । एवं कुशलान् धर्मान् स्वभावतो निदानतो ऽनुशंसतो निःसरणतः सम्यग् एवोपनिदध्याति, एकाग्रां स्मृतिम् अवस्थापयति, तद्बहुलाकाराद् एकाग्रताम् स्पृशति पर्यवस्थानसमुदाचारदूरीकरणयोगेन । न त्व् अद्याप्य् अनुशयं ( श्भ् इइ 214 ) समुद्घातयति पापकानाम् अकुशलानां धर्माणाम् । अयम् अप्य् उच्यते छन्दाधिपतेयः ॥
-इइ-12-ब्-(3)-इ-(ब्) म्स्.89ब्2म्, स्ह्.316-10, प्.143अ3, द्.116अ3, न्.122ब्4, चो.120अ7, छ्.443ब्29
स अतीते वानागतप्रत्युत्पन्ने वा पुनर् आलम्बने पापकाकुशलधर्मस्थानीये मृदुमध्याधिमात्रक्लेशपर्यवस्थानीये, अनुत्पन्नस्य वानुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यम् आरभमाणः । तत्रालम्बने विचरतः, तस्य वालम्बनस्य स्वभावतो निदानत आदीनवतः प्रतिपक्षतश् च सम्यग् उपनिध्यायतः, एकाग्रां स्मृतिम् उपस्थापयतः, यत् तद्बहुलविहारिणश् चित्तैकाग्रता उत्पद्यते पर्यवस्थानसमुदाचारदूरीकरणयोगेन । न त्व् अद्याप्य् अनुशयं समुद्घातयति पापकानाम् अकुशलानां धर्माणाम् । अयं वीर्याधिपतेयः समाधिः ॥
-इइ-12-ब्-(3)-इ-(च्) म्स्.89ब्4म्, स्ह्.316-19, प्.143अ7, द्.116अ6, न्.122ब्7, चो.120ब्3, छ्.443च्8
लीनं वा पुनश् चित्तं प्रगृह्णतः, प्रगृहीतं चित्तं समादधतः, कालेन च कालम् अध्युपेक्षितो यत् पापकाकुशलान् धर्मान् पापकाकुशलधर्मस्थानीयान्वयान्, कुशलाकुशलान् धर्मान् कुशलाकुशलस्थानीयांश् च धर्मान् स्वभावतो निदानत आदीनवतो ऽनुशंसतः प्रतिपक्षतो निःसरणतः, सम्यग् उपनिध्यायतः, एकाग्रां स्मृतिम् उपस्थापयतः, ( श्भ् इइ 216 ) तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रता । विस्तरेण यावत् । अयम् उच्यते चित्ताधिपतेयः समाधिः ॥
-इइ-12-ब्-(3)-इ-(द्) म्स्.89ब्5र्, स्ह्.317-8, प्.143ब्3, द्.116ब्2, न्.123अ3, चो.120ब्6, छ्.443च्15
तत्र ये पापकाकुशलधर्मस्थानीया धर्मा भवन्त्य् अयोनिशोमनसिकुर्वतः । त एव कुशलधर्मस्थानीया भवन्ति योनिशोमनसिकुर्वतः । तस्यैवं पर्यवस्थानेषु दूरीकृतेषु, पर्यवस्थानप्रतिपक्षिकेषु च समाधिप्रमुखेषु धर्मेष्व् उत्पन्नेषु, ते पापका अकुशला धर्मा न समुदाचरन्ति ।
तस्यैवं भवति । "किं सतः संविद्यमानान् पापकान् अकुशलान् धर्मान् न प्रतिसंवेदयाम्य् आहोस्विद् असतो ऽसंविद्यमानान् यन् न्व् अहं परिमीमांसेयम्" । स मीमांसामनस्कारम् अधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमांसते, सम्यग् एवोपनिध्यायति, एकाग्राम् स्मृतिम् उपस्थापयति । तद्बहुलविहारी च स्पृशति चित्तस्यैकाग्रताम् । येन निरभिमानो भवति । "पर्यवस्थानमात्रकान् मे चित्तं विमुक्तं न तु सर्वेण सर्वम् अनुशयेभ्यः, तत्प्रतिपक्षाश् च मे समाधिप्रमुखाः कुशला धर्माः प्रतिलब्धा, भाविता, न त्व् अनुशयप्रातिपक्षिका" इति यथाभूतं प्रजानाति । अयम् अस्योच्यते मीमांसासमाधिः ॥
-इइ-12-ब्-(3)-इ-(ए) म्स्.90अ1र्, स्ह्.318-5, प्.144अ2, द्.116ब्7, न्.123ब्2, चो.121अ4, छ्.443च्29
स तं चतुर्विधं समाधिम् अधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु, सर्वेण सर्वम् अनुशयसमुद्घाताय पापकानाम् अकुशलानां धर्माणां तत्प्रातिपक्षिकाणाञ् च कुशलानां धर्माणां समुदागमाय पुनर् अपि छन्दं जनयति व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते ॥
-इइ-12-ब्-(3)-इइ-(अ) म्स्.90अ2र्, स्ह्.318-10, w*.99-1, प्.144अ4, द्.117अ2, न्.123ब्4, चो.121अ5, छ्.444अ4
तथाप्रयुक्तस्य तथाभूतस्याष्टौ प्रःआणसंस्कारा भवन्ति । ये ऽस्यानुशयसमुद्घाताय च प्रवर्तन्ते समाधिपरिपूरये च ।
तद्यथा छन्दः "कदाचित् समाधिं परिपूरयिष्यामि, अनुशयांश् च प्रहास्यामि पापकानाम् अकुशलानां धर्माणाम्" ।

व्यायामो यावत् प्रतिपक्षभावनायाम् अविन्यस्तप्रयोगता ।
श्रद्धा या अविन्यस्तप्रयोगस्य विहरत उत्तरे ऽधिगमे श्रद्दधानता, अभिसंप्रत्ययः ।
तत्र प्रश्रब्धिर् यच् छ्रद्धाप्रसादपूर्वंगमं प्रामोद्यं प्रीतिः, प्रीतमनसश् चानुपूर्वा पापकाकुशलधर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः ।
तत्र स्मृतिर् या नवाकारा, नवाकारायाश् चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका ।
तत्र संप्रजन्यम् या विपश्यनापक्ष्या प्रज्ञा ।
तत्र चेतना यश् चित्ताभिसंस्कारः प्रहीणाप्रहीणतां मीमांसमानस्य यश् चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति ।
तत्रोपेक्षा यातितानागतप्रत्युत्पन्नेषु पापकाकुशलधर्मस्थानीयेषु चरतश् चित्तासंक्लेशा चित्तसमता । आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणताम् अनुशयानां परिच्छिनत्ति जानाति । यदुत विषयविपरोक्षया चेतनया विषयाविपरोक्षया चोपेक्षया ।
इमे ऽष्टौ प्रहाणसंस्कारा भवन्ति ॥
-इइ-12-ब्-(3)-इइ-(ब्) म्स्.90अ6म्, स्ह्.320-17, w.*99-21, प्.144ब्4, द्.117ब्1, न्.124अ3, चो.121ब्5, छ्.444अ21
स चैषो ऽष्टप्रहाणसंस्कारयोगो भवत्य् अनुशयसमुद्घाताय । तत्र छन्दश् छन्द एव, यो व्यायाम इदं वीर्यम्, या श्रद्धा सा श्रद्धा, या च प्रश्रब्धिर् या च स्मृतिर् यच् च संप्रजन्यं या च चेतना या चोपेक्षा अयम् उपायः । तद् इदं सर्वम् अभिसमस्य, ये च पूर्वकाश् छन्दसमाधयः, ये चेमे प्रहाणसंस्काराः प्रहीणेष्व् अनुशयेषु परिनिष्पन्ने समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते । वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते ।
-इइ-12-ब्-(3)-इइइ म्स्.90ब्1ल्, स्ह्.321-5, w.100-1, प्.144ब्8, द्.117ब्4, न्.124अ7, चो.121ब्7, छ्.444अ29
केन कारणेन ऋद्धिपाद इत्य् उच्यते । आह । तद्यथा यस्य पादः संविद्यते सो ऽभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति । एवम् एव यस्यैते धर्माः संविद्यन्ते, एष च समाधिः संविद्यते परिपूर्णः, स एवं परिशुद्धे चित्ते, पर्यवदाते, अनङ्गणे, विगतोपक्लेशे, ऋजुभूते, कर्मण्यस्थिते, आनिञ्ज्यप्राप्ते, अभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति, लोकोत्तराणां धर्माणां प्राप्तये स्पर्शनायै । एषा हि परा ऋद्धिः परा समृद्धिः, यदुत लोकोत्तरा धर्माः । तेनोच्यत ऋद्धिपाद इति ॥
-इइ-12-ब्-(4)-इ-(अ) म्स्.90ब्2र्, स्ह्.321-15, प्.145अ3, द्.117ब्7, न्.124ब्3, चो.122अ3, छ्.444ब्8
स एवं समाधिप्रतिष्ठितः समाधिं निश्रित्याधिचित्तंशिक्षायाम् अधिप्रज्ञंशिक्षायां योगं करोति । तत्रास्य योगं कुर्वतः परेषां चाधिगमे शास्तुः श्रावकाणां च यो ऽभिसंप्रत्ययः प्रसादः । श्रद्दधानता अधिपत्यर्थेन श्रद्धेन्द्रियम् इत्य् उच्यते ।

कुत्र पुनर् अस्याधिपत्यम् । आह । लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानाम् उत्पत्तय आधिपत्यम् । ये ऽपि ते वीर्यादयस् तेषाम् अपि लोकोत्तरधर्मोत्पत्तय आधिपत्यम् । यावत् प्रतिपत्तय आधिपत्यम् । यावत् प्रज्ञाया लोकोत्तरधर्मोत्पत्तय आधिपत्यम् । तेनैतानि श्रद्धादीनि पञ्चेन्द्रियाणि भवन्ति ॥
-इइ-12-ब्-(4)-इ-(ब्) म्स्.90ब्4म्, स्ह्.322-11, प्. 145अ8, द्.118अ4, न्.124ब्6, चो.122अ7, छ्.444ब्17
या पुनः पूर्वेणापरं विशेषाधिगमं संजानतस् तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः प्रसादः श्रद्दधानता । सा अनवमृद्यतार्थेन श्रद्धाबलम् इत्य् उच्यते । केन पुनर् न शक्यते ऽवमृदितुम् । असंहार्या सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा, केनचिद् वा पुनर् लोके सहधर्मेण, क्लेशपर्यवस्थानेन वा । तेन सानवमृद्येत्य् उच्यते । तत्प्रमुखास् तत्पूर्वंगमा ये वीर्यादयस् ते ऽपि बलानीत्य् उच्यन्ते । तैः स बलैर् बलवान् सर्वं मारबलं विजित्य प्रयुज्यत आस्रवाणां क्षयाय । तस्माद् बलानीत्य् उच्यन्ते ॥
-इइ-12-ब्-(4)-इइ म्स्.90ब्6म्, स्ह्.323-7, w.*100-22, प्.145ब्3, द्.118अ7, न्.125अ3, चो.122ब्3, छ्.444ब्26
तत्र यच् च श्रद्धेन्द्रियं यच् च श्रद्धाबलं चतुर्ष्व् एतद् अवेत्यप्रसादेषु द्रष्टव्यम् । तत् कस्य हेतोः । यो ऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्यप्रसादः स तद्धेतुकस् तत्प्रत्ययस् तन्निदानः । तस्माद् धेतुफलसंबन्धेन तस्यास् तद् अधिपतिफलम् इति कृत्वा तत्र द्रष्टव्यम् इत्य् उक्तं भगवता, न तु तच्छरीरता तल्लक्षणता ।
तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यम् । तत् कस्य हेतोः । यानि कतमानि सम्यक्प्रहाणानि । यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्य् अत्र सम्यक्प्रहाणान्य् अभिप्रेतानि । तानि ह्य् अत्यन्ततायै पापकानाम् अकुशलानां धर्माणां प्रहाणाय संवर्तन्ते ।
तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यम् । इतीमानि चत्वारि स्मृत्युपस्थानान्य् अशेषविपर्यासप्रहाणाय संवर्तन्ते ।
तत्र समाधीन्द्रियं चतुर्षु ध्यानेषु द्रष्टव्यम् । यानि ध्यानान्य् अनागामितायां प्रायोगिकाणि ।
तत्र प्रज्ञेन्द्रियं चतुर्ष्व् आर्यसत्येषु द्रष्टव्यम् । इति यत् सत्यज्ञानं चतुर्णाम् आर्यसत्यानाम् अभिसमयाय संवर्तते श्रामण्यफलप्राप्तये ।
यथेन्द्रियाण्य् एवं बलानि वेदितव्यानि ॥
-इइ-12-ब्-(4)-इइइ म्स्.91अ2र्, स्ह्.324-8, w.*101-5, प्.146अ3, द्.118ब्6, न्.125ब्2, चो.123अ2, छ्.444च्10
स एषाम् इन्द्रियाणाम् एतेषां च बलानाम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयान् निर्वेधभागीयानि कुशलमूलान्य् उत्पादयति मृदुमध्याधिमात्राणि । तद्यथोष्मगतानि मूर्धानः सत्यानुलोमाः क्षान्तयो लौकिकाग्रधर्माः ।
तद्यथा कश्चिद् एव पुरुषो ऽग्निनाग्निकार्यं कर्तुकामो ऽग्निनार्थ्य् अधरारण्याम् उत्तरारणिं प्रतिष्ठाप्याभिमथ्नन्न् उत्सहते घटते व्यायच्छते । तस्योत्सहतो घटतो व्यायच्छतश् च तत्प्रथमतो ऽधरारण्याम् ऊष्मा जायते । सैव चोष्माभिवर्धमाना ऊर्ध्वम् आगच्छति ।
भूयस्या मात्रयाभिवर्धमाना निरर्चिषम् अग्निं पातयति, अग्निपतनसमनन्तरम् एव चार्चिर् जायते । यथार्चिषोत्पन्नया जातया संजातयाग्निकार्यं करोति । यथाभिमन्थनव्यायाम एवं पञ्चानाम् इन्द्रियाणाम् आसेवना द्रष्टव्या । यथाधरारण्या तत्प्रथमत एवोष्मगतं भवत्य्, एवम् ऊष्मगतानि द्रष्टव्यानि । पूर्वंगमानि निमित्तभूतान्य् अग्निस्थानीयानाम् अनास्रवाणां धर्माणां क्लेशपरिदाहकानाम् उत्पत्तये । यथा तस्यैवोष्मण ऊर्ध्वम् आगमनम् एवं मूर्धानो द्रष्टव्याः । यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः । यथाग्नेः पतनं निरर्चिष एवं लौकिकाग्रधर्मा द्रष्टव्याः । यथा तदनन्तरम् अर्चिष उत्पाद एवं लोकोत्तरानास्रवा धर्मा द्रष्टव्याः । ये लौकिकाग्रधर्मसंगृहीतानां पञ्चानाम् इन्द्रियाणां समनन्तरम् उत्पद्यन्ते ॥
-इइ-12-ब्-(5) म्स्.91अ6र्, स्ह्.325-17, प्.146ब्5, द्.119अ6, न्.126अ4, चो.123ब्2, छ्.444च्29
ते पुनः कतमे । आह । सप्तबोध्यङ्गानि । यो ऽसौ यथाभूतावबोधः सम्यक्त्वन्यामावक्रान्तस्य पुद्गलस्य तस्यैतान्य् अङ्गानि । स हि यथाभूतावबोधः सप्ताङ्गपरिगृहीतः, त्रिभिः शमथपक्ष्यैः, त्रिभिर् विपश्यनापक्ष्यैः, एकेनोभयपक्ष्येण । तस्माद् बोध्यङ्गानीत्य् उच्यन्ते ।
तत्र यश् च धर्मविचयः, यच् च वीर्यम्, या च प्रीतिर् इतीमानि त्रीणि विपश्यनापक्ष्याणि । तत्र या च प्रस्रब्धिः, यश् च समाधिः, या चोपेक्षा ( श्भ् इइ 230 ) इतीमानि त्रीणि शमथपक्ष्याणि । स्मृतिर् उभयपक्ष्या सर्वत्रगेत्य् उच्यते । स तस्मिन् समये तत्प्रथमतो बोध्यङ्गलाभाच् छैक्षो भवति दृष्टपदः ॥
-इइ-12-ब्-(6) म्स्.91ब्1र्, स्ह्.326-10, प्.147अ1, द्.119ब्2, न्.126अ7, चो.123ब्5, छ्.445अ8
दर्शनप्रहातव्याश् चास्य क्लेशाः प्रहीणा भवन्ति, भावनाप्रहातव्याश् चावशिष्टाः । स तेषां प्रहाणाय त्रिस्कन्धम् आर्याष्टाङ्गं मार्गं भावयति ।
तत्र या च सम्यग्दृष्टिर्, यश् च सम्यक्संकल्पः, यश् च सम्यग्व्यायामः, अयं प्रज्ञास्कन्धः । तत्र ये सम्यक्वाक्कर्मान्ताजीवाः, अयं शीलस्कन्धः । तत्र या च सम्यक्स्मृतिः, यश् च सम्यक्समाधिः, अयं समाधिस्कन्धः ।
केन कारणेनार्याष्टाङ्गो मार्ग इत्य् उच्यते । आह । आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपद् अष्टाभिर् अङ्गैः संगृहीतः, अपरिशेषः सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै । तेनोच्यत आर्याष्टाङ्गो मार्गः ॥
-इइ-12-ब्-(6)-इ म्स्.91ब्3म्, स्ह्.327-13, प्.147अ5, द्.119ब्6, न्.126ब्4, चो.124अ2, छ्.445अ15
तत्र यश् च बोध्यङ्गकाले तत्त्वावबोधः प्रतिलब्धः, प्रतिलभ्य च यत् तस्यैव प्रज्ञया व्यवस्थानं करोति यथाधिगतस्यावबोधस्य, तद् उभयम् एकध्यम् अभिसंक्षिप्य सम्यग्दृष्टिर् इत्य् उच्यते ।
तां सम्यग्दृष्टिम् अधिपतिं कृत्वा यन् नैष्क्रम्यसंकल्पं संकल्पयत्य् अव्यापादसंकल्पम् अविहिंसासंकल्पम् । अयम् उच्यते सम्यक्संकल्पः ।
सचेत् तावद् वितर्केषु चित्तं क्रामति, स एवंरूपान् वितर्कान् वितर्कयति । सचेत् पुनः कथायां चित्तं क्रामति, सम्यग्दृष्टिम् अधिपतिं कृत्वा तेनैव कुशलात् संकल्पाद् धर्म्यां कथां कथयति । सास्य भवति सम्यग्वाक् ।
सचेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् अर्थी ( श्भ् इइ 232 ) भवति, तत्पर्येषणां वापद्यते । सो ऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवत्य् आलोकितव्यवलोकिते, संमिञ्जितप्रसारिते सांघाटीचीवरपात्रधारणे ऽशितपीतखादितास्वादिते । विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते स्थिते निषण्णे यावन् निद्राक्लमप्रतिविनोदने संप्रजानद्विहारी भवति । अयम् अस्योच्यते सम्यक्कर्मान्तः ।
स तच् चीवरं यावद् भैषज्यपरिष्कारं धर्मेण पर्येषते । यावन् मिथ्याजीवकरकधर्मविवर्जितः । सो ऽस्य भवति सम्यगाजीवः ।

ये पुनर् विरतिसंगृहीताः सम्यग्वाक्कर्मान्ताजीवाः, ते ऽनेन पूर्वम् एव मनस्कारलाभाद् बोध्यङ्गैर् एव सह लब्धा भवन्ति ।
यो ऽप्य् आर्यकान्तानि शीलान्य् उच्यन्ते । केन कारणेन । दीर्घकालं ह्य् एतद् आर्याणां सतां सम्यग्गतानाम् इष्टं कान्तं प्रियं मन-आपं "कच्चिद् अहं तद् वाग्दुश्चरितस्य कायदुश्चरितस्य मिथ्याजीवस्याकरणं संवरं प्रतिलभेयम्" । यद् अस्य दीर्घरात्रम् इष्टं कान्तं प्रियं मन-आपं तद् अनेन तस्मिन् समये प्रतिलब्धं भवति । तस्माद् आर्यकान्तम् इत्य् उच्यते । तथा हि स लब्धेष्व् आर्यकान्तेषु शीलेषु, न संप्रजानो म्र्षां वाचं भाषते, न संचिन्त्य प्राणिनं जीविताद् व्यपरोपयति, नादत्तम् आदत्ते, ( श्भ् इइ 234 ) न कामेषु मिथ्या चरति, न चाधर्मेण चीवरादीनि पर्येषते । इति तान्य् आर्यकान्तानि शीलान्य् अधिपतिं कृत्वा मार्गभावनाकाले या वाक् प्रवर्तते यच् च कायकर्म यश् चाजीवः, ते ऽपि सम्यग्वाक्कर्मान्ताजीवा इत्य् उच्यन्ते ।
तस्य सम्यग्दृष्टिसम्यक्संकल्पवाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य यच् छन्दो वीर्यो व्यायामो निष्क्रमः पराक्रमस्थामारम्भश् चेतसः संप्रग्रहः सातत्यम् । अयम् उच्यते सम्यग्व्यायामः ।
यच् चत्वारि स्मृत्युपस्थानान्य् अधिपतिं कृत्वाविपर्याससंगृहीता स्मृतिर् नवाकारा नवाकारचित्तस्थितिसंग्राहिका । इयम् उच्यते सम्यक्स्मृतिः सम्यक्समाधिश् च ॥
-इइ-12-ब्-(6)-इइ म्स्.92अ4ल्, स्ह्.330-1, प्.148अ7, द्.120ब्6, न्.127ब्5, चो.125अ3, छ्.445ब्16
तद् एतत् सर्वम् अभिसमस्यार्याष्टाङ्गो मार्गश् चारकरणीये च विहारकरणीये चावस्थितः । तत्र सम्यग्वाक्कर्मान्ताजीवाश् चारकरणीये । विहारकरणीयं पुनर् द्विविधम् । शमथो विपश्यना च । तत्र या च सम्यग्दृष्टिः, यश् च सम्यक्संकल्पः, यश् च सम्यग्व्यायाम इयं विपश्यना । तत्र या च सम्यक्स्मृतिर् यश् च सम्यक्समाधिर् अयं शमथः ।
एवं परिशुद्धान् वाक्कर्मान्ताजीवान् निश्रित्य शमथविपश्यनां भावयति कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्य् अग्रफलम् अर्हत्त्वं ( श्भ् इइ 236 ) प्राप्नोति । प्राकर्षिकश् च भावनामार्गः कालान्तराभ्यासेन क्लेशान् प्रजहाति । ज्ञानमात्रप्रतिबद्धस् तु दर्शनमार्गो ज्ञानोत्पत्तिमात्रकेण क्लेशान् प्रजहाति । अनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः ।
इति य एवम् एषाम् अनयानुपूर्व्या सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अभ्यासः परिचयः । इयम् उच्यते बोधिपक्ष्या भावना ॥
(इइ)-अ-इइ-13-अ म्स्.92अ7म्, स्ह्.331-1, w.म्02-4, प्.148ब्5, द्.121अ5, न्.128अ4, चो,125ब्1, छ्.445ब्29
तत्र भावनाफलं कतमत् । आह । चत्वारि श्रामण्यफलानि । स्रोत-आपत्तिफलं सकृदागामिफलम् अनागामिफलम् अग्रफलम् अर्हत्त्वम् ।
तत्र कतमच् छ्रामण्यम्, कतमत् फलम् । आह । मार्गः, क्लेशप्रहाणं फलम् । अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चाद् उत्पन्नो मार्गः फलं मध्यो विशिष्टो वा सदृशो वा । पुनस् तत्र केन कारणेन चत्वारि व्यवस्थापितानि । आह । चतुर्विधक्लेशप्रहाणप्रतिपक्षतया ॥
-इइ-13-अ-(1) म्स्.92ब्1र्, स्ह्.332-3, प्.148ब्7, द्.121अ7, न्.128अ6, चो.125ब्3, छ्.445च्5
तद्यथा निर्वस्तुकानां क्लेशानाम् अपायगमनीयानाम् अपायगमनहेतुभूतानां प्रहाणात् प्रतिपक्षोत्पादाच् च स्रोत-आपत्तिफलं व्यवस्थापितम् । त्रयाणां तु संयोजनानां प्रहाणाद् व्यवस्थापितं भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनयपक्षे स्वाख्यातधर्मविनयपक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विबन्धकरत्वात् ।

मूल पाठ: Śrāvakabhūmi · Edition: Srāvakabhūmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Śbh I and Srāvakabhūmi, The Second Chapter with Asamāhitā bhūmiḥ, Śrutamayī bhūmiḥ, Cintāmayī bhūmiḥ, Revised Sanskrit Text and Japanese Translation, ed. Śrāva · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc