भाषा

ENहिગુ
ग्रंथ पाठ

श्रावकभूमि · भाग 4154

तत्र गृहिपक्षे सत्कायदृष्टिः, ययायम् आदित एव न प्रयुज्यत इत्य् आदित उत्त्रासिका सत्कायदृष्टिः ।
दुराख्याते धर्मविनये शीलव्रतपरामर्शः, उच्चलितो ऽपि मिथ्यां प्रतिपादयति येनार्यमार्गो नोत्पद्यते ।
स्वाख्याते धर्मविनये विचिकित्सा, तत्रोच्चलितश् च भवति, न च मिथ्याप्रतिपन्नो ऽपि त्व् अनभ्यासात् तस्य यावद् यथाभूतदर्शनं न भवति ज्ञेये वस्तुनि तावत् काङ्क्षा विमतयो विबन्धकरा भवन्ति ( श्भ् इइ 240 ) मार्गस्योत्पत्तये ।
अनेन तावत् कारणेन स्रोत-आपत्तिफलव्यवस्थानम् ॥
-इइ-13-अ-(2) म्स्. 92ब्4र्, स्ह्.333-1, प्.149अ5, द्.121ब्5, न्.128ब्4, चो.126अ1, छ्.445च्17
तस्यास्य स्रोत-आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति । स चास्य जन्मप्रबन्धो यदा च जन्मप्राबन्धिकान् क्लेशान् प्रजहाति देवभवसंगृहीतान् मनुष्यभवसंगृहीतांश् च, येषां प्रहाणात् परम् एकं देवभवम् अभिनिर्वर्तयत्य् एकं मनुष्यभवम् । तस्मिन् समये सकृदागामिफलं व्यवस्थाप्यते ॥
-इइ-13-अ-(3) म्स्.92ब्5र्, स्ह्.333-7, प्.149अ7, द्.121ब्6, न्.128ब्5, चो.126अ2, छ्.445च्21
यदा तु देवभवम् एव केवलम् अभिनिर्वर्तयति, इहप्रत्यागमजन्मिकं क्लेशं प्रहाय, तदानागामिफलं व्यवस्थाप्यते ॥
-इइ-13-अ-(4) म्स्.92ब्6ल्, स्ह्.333-9, प्.149अ7, द्.121ब्7, न्.128ब्6, चो.126अ3, छ्.445च्23
सर्वभवोपपत्तिसंवर्तनीयक्लेशप्रहाणाद् अग्रफलम् अर्हत्त्वफलं व्यवस्थाप्यते ॥
-इइ-13-अ-(5) म्स्.92ब्6ल्, स्ह्.334-1, प्.149अ7, द्.121ब्7, न्.128ब्6, चो.126अ3, छ्.445च्24
तत् पुनः सकृदागामिफलं त्रयाणाम् संयोजनानां प्रहाणाद् रागद्वेषमोहानां च तनुत्वाद् भगवता व्यवस्थापितम्, पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिफलम्, पर्यादाय सर्वक्लेशप्रहाणाद् अर्हत्त्वफलम् । इदम् उच्यते भावनाफलम् ॥
-इइ-13-ब् म्स्.92ब्7ल्, स्ह्.334-6, प्.149ब्2, द्.122अ2, न्.129अ1, चो.126अ5, छ्.445च्28
तत्र ये रागद्वेषमोहमानवितर्कचरितेषु पुद्गलेषु पूर्वं तावच् ( श्भ् इइ 242 ) चरितविशोधन आलम्बने चरितं विशोधयितव्यं ततः पश्चाच् चित्तस्थितिम् अधिगच्छन्ति । तेषां प्रतिनियतम् एव तद् आलम्बनम् अवश्यं तैस् तेनालम्बनेन प्रयोक्तव्यम् ।
समभागचरितस्य तु यत्र प्रियारोहिता तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये, न तु चरितविशुद्धये । यथा समभागचरित एवं मन्दरजस्को वेदितव्यः ।
अयं त्व् एषां विशेष्ः । रागादिचरितः प्रयुज्यमानश् चिरेणाधिगन्ता भवति, समभागचरितो नातिचिरेण, मन्दरजस्कस् त्व् आशु त्वरितत्वरितं चित्तस्थितिम् अधिगच्छति ॥
-इइ-13-ब्-(1) म्स्.93अ2ल्, स्ह्.334-16, प्.149ब्6, द्.122अ6, न्.129अ5, चो.126ब्1, छ्.446अ8
तत्रोक्तानि पूर्वं रागादिचरितानां पुद्गलानां लिङ्गानि । समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिङ्गानि । आह । समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिङ्गानि संविद्यन्ते यानि रागादिचरितानाम्, तानि रागादीनि तु नाधिमात्राणि न प्रधानानि यथा रागादिचरितानाम् । समप्राप्तानि तानि भवन्ति, प्रत्ययेषु सत्सु प्रज्ञायन्ते ॥
-इइ-13-ब्-(2) म्स्.93अ3ल्, स्ह्.335-2, प्.149ब्8, द्.122अ7, न्.129अ7, चो.126ब्3, छ्.446अ13
तत्र मन्दरजस्कस्य पुद्गलस्य लिङ्गानि । अनावृतो भवत्य् आदिशुद्धसंभारसंभृतः । प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश् च भवति ॥
-इइ-13-ब्-(2)-इ म्स्.93अ3म्, स्ह्.335-5, w.*102-18, प्.150अ1, द्.122ब्1, न्.129ब्1, चो.126ब्4, छ्.446अ16
तत्र त्रीण्य् आवरणानि कर्मावरणं क्लेशावरणं विपाकावरणम् ।
तत्र कर्मावरणं पञ्चानन्तर्याणि कर्माणि । यच् चान्यद् अपि किंचित् कर्म संचेतनीयं गुरुकर्म विपक्वविपाकं मार्गोत्पत्तये निबन्धकारकम् ।
तत्र क्लेशावरणं तीव्रक्लेशतायतक्लेशता च । या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुम् ।
तत्र विपाकावरणं यत्रार्यमार्गस्याप्रवृत्तिर् अप्रचार उपपत्त्यायतने, तत्र वा विपाकम् अभिनिर्वर्तयति । यत्र वार्यमार्गस्य प्रवृत्तिः प्रचारः, तत्रोपपन्नो जडो भवत्य् एडमूको हस्तसंवाचिकः, अप्रतिबलो भवति सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् ॥
-इइ-13-ब्-(2)-इइ म्स्.93अ5म्, स्ह्.335-17, प्.150अ5, द्.122ब्5, न्.129अ4, चो.126ब्7, छ्.446अ27
तत्रादिशुद्धिः शीलं च सुविशुद्धं दृष्टिश् च ऋज्वी ।
तत्र शीलं सुविशुद्धं दशभिः कारणैर् वेदितव्यम् ।
तत्र दृष्ट्यृजुता, श्रद्धां संप्रयोगात्, अधिमुक्तिसंप्रयोगात्, विगतमायाशाठ्यतया, सुचिन्तितधर्मार्थस्य निःकाङ्क्षानिर्विचिकित्साप्रयोगनिर्याणतया । ( श्भ् इइ 246 )
या दृष्टिः श्रद्धया संप्रयुक्ता, अस्माद् धर्मविनयाद् असंहार्या भवति ।
अधिमुक्त्या च संप्रयुक्ता, बुद्धानां बुद्धश्रावकाणां च, अचिन्त्यम् अनुभावम्, अचिन्त्यानि चोपपत्त्यायतनानि, गम्भीरां च देशनाम्, अव्याकृतवस्तु चाधिमुच्यते, नोत्त्रसति, न संत्रासम् आपद्यते ।
विगतमायाशाठ्या च या दृष्टिः, यया ऋजुको भवति । ऋजुकजातीयो यथानुशिष्टश् च प्रतिपद्यते, यथाभूतं चात्मानम् आविष्करोति ।
धर्माणां वानित्यताम् आरभ्य दुःखतां शून्यताम् अनात्मताम् अर्थः सुविचिन्तितो भवति सुतुलितः सूपपरीक्षितः, यद्धेतोर् अयं निःकाङ्क्षो भवति निर्विचिकित्सः, द्वेधापथापगतो विशेषाय परैति ।
इतीयं चतुराकारा दृष्टिर् यथोद्दिष्टा दृष्ट्यृजुतेत्य् उच्यते ॥
-इइ-13-ब्-(2)-इइइ म्स्.93अ8म्, स्ह्.336-19, प्.150ब्3, द्.123अ3, न्.130अ3, चो.127अ5, छ्.446ब्12
तत्र संभारसंभृतता, विस्तरेण संभारः पूर्वम् एव निर्दिष्टः । समासतः पुनश् चतुर्विधो भवति । पुण्यसंभारो ज्ञानसंभारः पूर्वको दृष्टधार्मिकश् च ।
तत्र पुण्यसंभारो येनाप्य् एतर्ह्य् आनुलोमिकाः परिष्काराः प्रचुरा भवन्ति प्रदक्षिणाः, कल्याणमित्राणि च प्रतिलभते, अनन्तरायश् च प्रयुक्तस्य भवति ।
तत्र ज्ञानसंभारो येन मेधावी भवति, प्रतिबलः सुभाषितदुर्भाषितानां ( श्भ् इइ 248 ) धर्माणाम् अर्थम् आज्ञातुम्, लाभी भवत्य् आनुलोमिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः ।
तत्र पूर्वको येनैतर्हि परिपक्वानीन्द्रियाणि लभते पूर्वकुशलमूलोपचयात् ।
तत्र दृष्टधार्मिकस् तद्यथा कुशलो धर्मच्छन्दः, तथा परिपक्वेन्द्रियस्य शीलसंवर इन्द्रियसंवर इति विस्तरेण पूर्ववत् ॥

-इइ-13-ब्-(2)-इव् म्स्.93ब्2र्, स्ह्.337-14, प्.150ब्8, द्.123अ6, न्.130अ7, चो.127ब्2, छ्.446ब्22
तत्र प्रसादबहुलता, न शास्तरि काङ्क्षति न विचिकित्सति प्रसीदत्य् अधिमुच्यते, यथा शास्तर्य् एवं धर्मे शिक्षायाम् । इति विस्तरेण पूर्ववत् ॥
-इइ-13-ब्-(2)-व् म्स्.93ब्3म्, स्ह्.337-17, प्.151अ1, द्.123अ7, न्.130ब्1, चो.127ब्3, छ्.446ब्25
तत्र मेधा ययाशु धर्मम् उद्गृह्णाति, चिरेण धर्मम् अर्थं च न विस्मारयति, आशु धर्मम् अर्थं च प्रतिविध्यति ॥
-इइ-13-ब्-(2)-वि म्स्.93ब्3र्, स्ह्.338-1, प्.151अ2, द्.123ब्1, न्.130ब्1, चो.127ब्4, छ्.446ब्27
तत्र कृतपुण्यता ययाभिरूपो भवति दर्शनीयः प्रासादिको दीर्घायुर् भवति, आदेयवाक्यो महेशाख्यो ज्ञातो भवति महापुण्यो लाभी चीवरादीनाम्, सत्कृतो गुरुकृतश् च राजादीनाम् ॥
-इइ-13-ब्-(2)-विइ म्स्.93ब्4म्, स्ह्.338-5, w.102-26, प्.151अ4, द्.123ब्2, न्.130ब्3, चो.127ब्5, छ्.446च्2
तत्र गुणान्वित इति गुणा अल्पेच्छतादयो वेदितव्याः, यथोक्ताः श्रमणालंकारे, तैर् अयं प्रकृत्यैव समन्वागतो भवति ।
इतीमान्य् एवंभागीयानि मन्दरजस्कस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥
(इइ)-अ-इइ-14-अ म्स्.93ब्5ल्, स्ह्.338-9, w.*103-1, प्.151अ5, द्.123ब्3, न्.130ब्4, चो.127ब्6, छ्.446च्6
तत्र षट् पुद्गलपर्यायाः । कतमे षट् । तद्यथा श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर् यतिः प्रव्रजितश् चेति ॥
-इइ-14-अ-(1) म्स्.93ब्5म्, स्ह्.338-11, w.*103-7, प्.151अ6, द्.123ब्4, न्.130ब्5, चो.127ब्7, छ्.446च्8
तत्र चत्वारः श्रमणाः । मार्गजिनः, मार्गदेशिकः, मार्गजीवी, मार्गदूषी च ।
तत्र यः सुगतः स मार्गजिनः, यो धर्मवादी स मार्गदेशिकः, यः सुप्रतिपन्नः स मार्गजीवी, यो मिथ्याप्रतिपन्नः स मार्गदूषी ।
सुगतश् चोच्यते यो ऽशेषं रागद्वेषमोहक्षयम् अनुप्राप्तः । धर्मवादी यो रागद्वेषमोहविनयाय धर्मं देशयति । सुप्रतिपन्नो यो रागद्वेषमोहविनयाय प्रतिपन्नः । दुःशीलपापधर्मा मिथ्याप्रतिपन्नः ।
अपि च शैक्षाशैक्षा मार्गजिना इत्य् उच्यन्ते, दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात् ।
तत्र तथागतो बोधिसत्त्वाश् चायत्यां बोधाय प्रतिपन्नाः । श्रावकाश् च सूत्रधरा विनयधरा मातृकाधराश् च, ये सांकेतिकं धर्मविनयं धारयन्ति, धर्मनेत्रीं प्रवर्तयन्ति । इम उच्यन्ते मार्गदेशिकाः ।
तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना लज्जिनाः कौकृतिकाः शिक्षाकामाः । अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश् च प्रतिबला यावद् असाक्षात्कृतस्य ( श्भ् इइ 252 ) साक्षात्क्रियायै । इम उच्यन्ते मार्गजीविनः ।
अप्य् एषाम् ऊष्मा येनेम आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये न मृता जीवन्तीत्य् उच्यन्ते । तेनोच्यन्ते मार्गजीविन इति ।
तत्र यो ऽयं पुद्गलो दुःशीलः पापधर्मा यावद् अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः । अयम् उच्यते मार्गदूषी । दूषितो ऽनेन मार्गो भवति मूलत आदितः । येनायम् अभव्यो भवत्य् अप्रतिबलः, अभाजनभूतो मार्गस्योत्पत्तये, सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमाने ऽधिगमे । तस्मान् मार्गदूषीत्य् उच्यते ।
इदं च संधायोक्तं भगवता । इह प्रथमः श्रमणः, इह यावच् चतुर्थः, शून्याः परप्रवादाः श्रमणैर् ब्राह्मणैश् च । यत्रार्याष्टाङ्गो मार्गः प्रज्ञायते तत्र प्रथमश्रमणस् तत्र यावच् चतुर्थ इति ॥
-इइ-14-अ-(2) म्स्. 94अ2र्, स्ह्.340-6, w. 103-20, प्.152अ2, द्.124अ7, न्.131ब्1, चो.128ब्3, छ्.447अ6
तत्र त्रयो ब्राह्मणाः । तद्यथा जातिब्राह्मणः, संज्ञाब्राह्मणः, प्रतिपत्तिब्राह्मणश् च ।
तत्र जातिब्राह्मणः, यो ऽयं ब्राह्मणकुले जातो योनिजो मातृसंभूतः, उपेतो मातृतः पितृतः ।
तत्र संज्ञाब्राह्मण इति लोके नाम भवति संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारः ।
तत्र प्रतिपत्तिब्राह्मणः, यो ऽत्यन्तनिष्ठो भवति कृतार्थः । वाहिता भवन्त्य् अनेन पापका अकुशला धर्माः । यथोक्तं न कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृत इति ॥
-इइ-14-अ-(3) म्स्.94अ4म्, स्ह्,341-3, प्.152अ4, द्.124ब्2, न्.131ब्3, चो.128ब्5, छ्.447अ13
तत्र त्रयो ब्रह्मचारिणः । तद्यथा विरतिसमादायी तदन्तरप्रहायी तदत्यन्तप्रहायी च ।
तत्र विरतिसमादायी, यो ब्रह्मचर्याद् मैथुनधर्मात् प्रतिविरतो भवति समादत्तशिक्षः । तत्र तदन्तरप्रहायी, यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः । तत्र तदत्यन्तप्रहायी, तद्यथानागामी, अर्हन् वा पुनः ॥
-इइ-14-अ-(4) म्स्.94अ5ल्, स्ह्.341-10, प्.152अ7, द्.124ब्4, न्.131ब्6, चो.128ब्7, छ्.447अ19
तत्र पञ्च भिक्षवः । भिक्षतीति भिक्षुः, प्रतिज्ञाभिक्षुः, संज्ञाभिक्षुः, भिन्नक्लेशत्वाद् भिक्षुः, ज्ञप्तिचतुर्थेन कर्मणोपसंपादितो भिक्षुः ॥
-इइ-14-अ-(5) म्स्.94अ5र्, स्ह्.341-13, प्.152अ8, द्.124ब्5, न्.131ब्7, चो.129अ1, छ्.447अ21
तत्र त्रयो यतयः । दौःशील्यसंयमाद् यतिः, यो ऽकुशलात् कायवाक्कर्मणः प्रतिविरतः ।
विषयसंयमाद् यतिः, य इन्द्रियैर् गुप्तद्वारः, आरक्षितस्मृतिर् निपकस्मृतिर् विस्तरेण पूर्ववत् ।
क्लेशसंयमाद् यतिः, यस्य दर्शनभावनाप्रहातव्याः क्लेशाः प्रहीणाः, ( श्भ् इइ 256 ) उत्पन्नोत्पन्नं च छन्दवितर्कं व्यापादविहिंसावितर्कम्, अभिध्याव्यापादमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्य् आपायिकानि स्थानानि नैरयिकाणि दुर्गतिगामीन्य् अश्रमणकारकाण्य् उत्पन्नोत्पन्नानि, नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति । सो ऽयं द्विविधः क्लेशसंयमो भवति । पर्यवस्थानसंयमः, अनुशयसंयमश् च ॥
-इइ-14-अ-(6) म्स्.94अ7म्, स्ह्.342-2, प्.152ब्5, द्.125अ3, न्.132अ4, चो.129अ6, छ्.447ब्2
तत्र द्वौ प्रव्रजितौ । स्वाख्यातधर्मविनयो दुराख्यातधर्मविनयश् च ।
तत्र स्वाख्यातधर्मविनयः । भिक्षुभिक्षुणी शिक्षमाणा श्रामणेरश्रामणेरी, अपि च प्रव्राजयत्य् आत्मनः पापकान् अकुशलान् धर्मान्, स प्रव्रजित इत्य् उच्यते परमार्थतः ।
तत्र दुराख्यातधर्मविनयः । तद्यथा तीर्थिकपरिव्राजो निर्ग्रन्थो वा परिव्राजकः पाण्डुरक इति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः ।
तेनाह श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर् यतिः प्रव्रजित इति पुद्गलपर्यायाः ॥

-इइ-14-ब् म्स्.94अ9ल्, स्ह्.342-11, w.*104-33, प्.153अ1, द्.125अ6, न्.132ब्1, चो.129ब्2, छ्.447ब्13
तत्राष्टौ पुद्गलाः । चत्वारि पुद्गलव्यवस्थाननिदानानि ।
कतमे ऽष्टौ पुद्गलाः । तद्यथा समर्थो ऽसमर्थः । उपायज्ञो ऽनुपायज्ञः । साततिको ऽसाततिकः । कृतपरिचयो ऽकृतपरिचयश् चेति ।
तत्र चत्वारि पुद्गलव्यवस्थाननिदानानि, एषाम् एवाष्टानां पुद्गलानां व्यवस्थानाय चत्वारि प्रभेदनिदानानि भवन्ति । तद्यथेन्द्रियप्रभेदः परिपक्वेन्द्रियो ऽपरिपक्वेन्द्रियश् च । योगप्रभेदो योगज्ञो ऽयोगज्ञश् च । प्रयोगभेदः सातत्यसत्कृत्य न सातत्यसत्कृत्य प्रयुक्तश् च । कालप्रभेदो दीर्घकालभावितमार्गो न दीर्घकालभावितमार्गश् च ।
इतीमे चत्वारः प्रभेदाः कथं निदानानि भवन्त्य् अष्टानां पुद्गलानां व्यवस्थानाय । तत्र यः परिपक्वेन्द्रियो ऽयं समर्थः । अपरिपक्वेन्द्रियो ऽसमर्थः । योगज्ञ उपायज्ञकुशलः । अयोगज्ञो ऽनुपायज्ञकुशल इत्य् अर्थः । सातत्यसत्कृत्य प्रयोगी साततिको निपक इत्य् उच्यते । असातत्यसत्कृत्य प्रयोग्य् असाततिको ऽनिपक इत्य् उच्यते । दीर्घकालभावितमार्गः कृतपरिचयः । न दीर्घकालभावितमार्गो ऽकृतपरिचयः ।
इत्य् एवम् इन्द्रियप्रभेदेन योगप्रयोगकालप्रभेदेनाष्टानां पुद्गलानां व्यवस्थानम् ।
यो यावत् पुद्गलो ऽपरिपक्वेन्द्रियः, स तावद् उपायज्ञो ऽपि साततिको ऽपि कृतपरिचयो ऽपि, नाराधको भवति न्याय्यस्य धर्मस्य कुशलस्य ।
तत्र परिपक्वेन्द्रियश् चेद् भवति न चोपायज्ञो भवति, नाराधको भवति ।
परिपक्वेन्द्रियो भवत्य् उपायज्ञो न सततिको न क्षिप्राभिज्ञो भवति ।
तत्र परिपक्वेन्द्रियो भवत्य् उपायज्ञो साततिको न कृतपरिचयः, न तावत् कृतस्वार्थो भवति कृतकृत्यः ।
यतश् च परिपक्वेन्द्रियो भवत्य् उपायज्ञः साततिकः कृतपरिचयश् च भवति, एवं स आराधको भवति, क्षिप्राभिज्ञश् च, कृतस्वकार्थश् च भवति कृतकृत्यः ॥
(इइ)-अ-इइ-15 म्स्.94ब्5ल्, स्ह्.343-10, w.*105-1, प्.153ब्5, द्.126अ1, न्.133अ4, चो.130अ4, छ्.447च्15
तत्र चत्वारो माराः संबहुलानि मारकर्माणि वेदितव्यानि योगिना योगप्रयुक्तेन । ते च परिज्ञाय परिवर्जयितव्याः ।
तत्र चत्वारो माराः । तद्यथा स्कन्धमारः, क्लेशमारः, मरणमारः, देवपुत्रमारश् च । पञ्चोपादानस्कन्धाः स्कन्धमारः । त्रैधातुकावचराः क्लेशाः क्लेशमारः । तेषां तेषां सत्त्वानां तस्मात् तस्मात् सत्त्वनिकायाद् यन् मरणं कालक्रिया मरणमारः । यो ऽस्य कुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्र ऐश्वर्यप्राप्तः, अन्तरायम् उपसंहरति व्याक्षेपकरणे, अयम् उच्यते देवपुत्रमारः ।
तत्र यत्र च म्रियते, येन च म्रियते, यश् चासौ मृत्युः, येन च मृत्युं न समतिक्रामत्य् अन्तरायिकेन वस्तुना । इत्य् एतद् अधिकृत्य चत्वारो मारा व्यवस्थापिताः ।
तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्तमानेषु म्रियते । क्लेशाज् जनयत्य् आयत्याम्, जातश् च म्रियते । च्युतिश् च च्यवनता सत्त्वानां जीवितेन्द्रियनिरोधः कालक्रिया स्वभावत एव मृत्युः । देवपुत्रमारश् च मरणसमतिक्रमाय प्रयुक्तस्यान्तरायम् उपसंहरति । येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम्, कालान्तरेण वा समतिक्रामति ।
तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जन ( श्भ् इइ 264 ) इहस्थस् तत्रोपपन्नो वा । वशगतः पुनर् यो ऽवीतरागः । तत्र यो ऽवीतरगः, स एव हस्तगतो यथाकामकरणीयः । वीतरागो वा पुनर् बद्धो मारबन्धनैः, अपरिमुक्तो मारपाशैः, यस्मात् स पुनर् अप्य् आगन्ता इमां धातुम् ॥
(इइ)-अ-इइ-16 म्स्.94ब्9म्, स्ह्.345-22, प्.154अ6, द्.126ब्2, न्.133ब्5, चो.130ब्6, छ्.448अ7
तत्र मारकर्माणि, यस्य कस्यचित् कुशलो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः कामग्रेधम् अधिपतिं कृत्वा प्रवर्तते, वेदितव्यं मारकर्मैतद् इति ।
इन्द्रियैर् गुप्तद्वारस्य विहरतः, यस्य रञ्जनीयेषु रूपेषु शब्दगन्धरसस्प्रष्टव्यधर्मेषु निमित्तग्राहितायाम् अनुव्यञ्जनग्राहितायां चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति ।
एवं भोजनेषु मात्रज्ञस्य विहरतः, प्रणीतेषु रसेषु छन्दरागम् अनुनयेन चित्तं प्रस्कन्दति भक्तवैषम्ये ।
एवं पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तस्य विहरतः, निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति ।
तथा संप्रजानद्विहारिणो विहरतः, अभिक्रमप्रतिक्रमादिषु शिशुम् उदारवर्णं रञ्जनीयं मातृग्रामं दृष्ट्वायोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति । लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति । बह्वर्थतायां बहुकृत्यतायां चित्तं प्रस्कन्दति । तद्यथा गृहस्थप्रव्रजितैः संसर्गरामतायां पापमित्रैः सहैकव्यवसितायां दृष्ट्यनुमतये चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतद् इति ।
तथा बुद्धे धर्मे संघे, दुःखे समुदये निरोधे मार्गे, इहलोके परलोके, काङ्क्षा विमतय उत्पद्यन्ते, वेदितव्यं मारकर्मैतद् इति ।
अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तं भयभैरवं पश्यति । उत्त्रासकरं रोमहर्षणम्, ब्राह्मणवेषेण वा, मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिद् उपसंक्रम्यायोनिशः शुक्लपक्षाद् विच्छिन्दयति कृष्णपक्षे च समादापयति, वेदितव्यं मारकर्मैतद् इति ।
यदा लाभसत्कारे चित्तं प्रस्कन्दति, मात्सर्ये महेच्छतायाम् असंतुष्टौ क्रोधोपनाहकुहनालपनादिषु श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति ।
इतीमान्य् एवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगम् ॥
(इइ)-अ-इइ-17 म्स्.95अ5र्, स्ह्.347-9, w.*105-8, प्.155अ3, द्.127अ6, न्.134ब्2, चो.131ब्2, छ्.448ब्4
तत्र त्रिभिः कारणैः सम्यक्प्रयुक्तस्याप्य् आरम्भो विफलो भवति । तद्यथा इन्द्रियसमुदागमेन, अनुलोमाववादेन, समाधिदुर्बलतया च ।
इन्द्रियाणि चेन् न समुदागतानि, आनुलोमिकश् चाववादो भवति, समाधिश् च केवलवान्, एवम् अस्यारम्भो विफलो भवति ।
इन्द्रियाणि चेन् न समुदागतानि भवन्ति, अववादश् च नानुलोमिको भवति, समाधिश् च बलवान् भवति, एवारम्भो विफलः ।
इन्द्रियाणि चेत् समुदागतानि, नाववादश् चानुलोमिको भवति, समाधिश् च दुर्बलो भवति, एवारम्भो विफलः ।
इन्द्रियाणि चेत् समुदागतानि भवन्ति, आनुलोमिकश् चाववादो भवति, समाधिश् च दुर्बलो भवति, एवारम्भो विफलः ।
इन्द्रियाणि चेत् समुदागतानि भवन्ति, आनुलोमिकश् चाववादः, समाधिश् च बलवान्, एवम् अस्यारम्भः सफलो भवति ।
एभिस् त्रिभिः कारणैर् विफलो भवति, त्रिभिर् एव कारणैः सफलः ॥
॥ उद्दानम् ॥
पुद्गलास् तद्व्यवस्थानम् अथ आलम्बनेन च ।
अववादश् च शिक्षा च तथा शिक्षानुलोमिकाः ।
योगभ्रंशश् च योगश् च मनस्कारश् च योगिनः ।
करणीयं भावना च फलं पुद्गलपर्यायः ।

मारश् च मारकर्माणि आरम्भो विफलो भवेत् ॥
॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् ॥
अप्पेन्दिx इ
असमाहिता भूमिः
म्स्. ब्*अ1ल्-ब्*अ6ल्, प्. 181ब्7-182ब्7, द्. 159अ6-160अ4, छ्. 344ब्19-च्15, देल्. 134-136.
असमाहिता भूमिः कतमा । सा समासतो द्वादशाकारा वेदितव्या ।
अस्त्य् असमाहिता भूमिः स्वभावतो ऽसमाहिता तद्यथा पञ्च विज्ञानकायाः ।
अस्त्य् असमाहिता भूमिः प्रस्रब्धिवैकल्यात् तद्यथा कामावचाराश् चित्तचैतसिका धर्माः, सत्याम् अपि चित्तैकाग्रतायां ते चित्तचैतसिका धर्मा न प्रस्रब्ध्युपगूढाः प्रवर्तन्ते, इति येन सा असमाहितेत्य् उच्यते ।
अस्त्य् असमाहिता भूमिर् अनारम्भात् तद्यथा कामोपभोगिनाम् अध्यवसितानां कामेषु कामान् उपभुञ्जानानाम् ।
अस्त्य् असमाहिता भूमिर् विक्षेपात् तद्यथादिकर्मिकाणां समाधिप्रयुक्तानां पञ्चसु कामगुणेष्व् अनुविक्षिप्ते ऽनुविसृते चेतसि ।
अस्त्य् असमाहिता भूमिः संक्षेपात् तद्यथादिकर्मिकाणाम् एव समाधिप्रयुक्तानाम् अध्यात्मम् अभिसंक्षिप्ते चेतसि स्त्यानमिद्धाभिभवतः ।
अस्त्य् असमाहिता भूमिर् अप्रतिलम्भात् तद्यथा तेषाम् एउआदिकर्मिकाणां समाधिप्रयुक्तानां विक्षेपसंक्षेपानुपक्लिष्टे ऽपि चेतस्य् अलब्धमनस्काराणां ये चित्तचैतसिका धर्माः ।
अस्त्य् असमाहिता भूमिर् अपरिपूर्णत्वात् तद्यथा लब्धमनस्काराणाम् अलब्धप्रयोगनिष्ठामनस्काराणाम् अलब्धतत्फलानां च ।
अस्त्य् असमाहिता भूमिः संक्लेशात् तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणाम् अन्यतमान्यतमेनास्वादादिकेनोपक्लेशेनोपक्लिष्टे चेतसि ।
अस्त्य् असमाहिता भूमिर् अवशित्वात् तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणाम् ( श्भ् इइ 278 ) एवासंक्लिष्टचेतसाम् अपि समापत्तिस्थितिव्युत्थाननिमित्तेष्व् अवशिताप्राप्तानां निकामाकृच्छ्राकिसरालाभिनाम् ।
अस्त्य् असमाहिता भूमिर् अविशुद्धेस् तद्यथा निकामाकृच्छ्राकिसरलाभिनाम् अपि लौकिकसमापत्तॄणाम् असमुद्घातितक्लेशानुशयाश् चित्तचैतसिका धर्माः ।
अस्त्य् असमाहिता भूमिर् व्युत्थानात् तद्यथा प्रतिलब्धात् समाधेर् व्युत्थितस्यापरिहीणस्य ।
अस्त्य् असमाहिता भूमिः परिहाणेस् तद्यथा प्रतिलब्धात् समाधेः परिहीणस्य ॥
योगाचारभूमाव् असमाहिता भूमिः समाप्ता ॥ ॥
अप्पेन्दिx इइ
श्रुतमयी भूमिः
अ. इ-1 प्.209अ1,द्.182ब्2, न्.195ब्3, छ्.354अ6
[छोस् ब्दुन् पो ऽदि दग् नि ब्देन् प यङ् दग् प जि ल्त ब ब्źइन् दु म्ङोन् पर् र्तोग्स् शिङ् र्नम् पर् ग्रोल् ब योङ्स् सु र्द्सोग्स् पर् ऽग्युर् ब यिन् ते । ल्हग् म्थोङ् गि फ्योग्स् ग्सुम् स्ते । छोस् र्नम् पर् ऽब्येद् प दङ् । ब्र्त्सोन् ऽग्रुस् दङ् । द्गऽ ब दङ् । źइ ग्नस् क्यि फ्योग्स् ग्सुम् स्ते । शिन् तु स्ब्यङ्स् प दङ् । तिङ् ङे ऽद्zइन् दङ् । ब्तङ् स्ञोम्स् दङ् । ग्चिग् नि źइ ग्नस् दङ् । ल्हग् म्थोङ् गि फ्योग्स् ते । ऽदि स्त स्ते द्रन् पऽओ ॥
अ. इ-2 प्.209अ3, द्.182ब्3, न्.195ब्5, छ्.354अ10
द्बङ् पो दङ् । ऽब्रस् बु दङ् । र्नम् पर् थर् ब लस् गङ् zअग् ब्दुन् दु र्नम् पर् ब्źअग् पर् रिग् पर् ब्य स्ते । źउग्स् पऽइ लम् ल द्बङ् पो र्तुल् पो दङ् । द्बङ् पो र्नोन् पो दद् प दङ् । छोस् क्यि र्जेस् सु ऽब्रङ् ब ग्ञिस् दङ् । ऽब्रस् बुऽइ लम् ल । दे ग्ञिस् ञिद् दद् पस् मोस् प दङ् । ल्त बस् थोब् प दङ् । स्ञोम्स् पर् ऽजुग् पऽइ स्ग्रिब् प लस् नि र्नम् पर् ग्रोल् ल । ञोन् मोङ्स् पऽइ स्ग्रिब् प लस् नि र्नम् पर् म ग्रोल् ब स्ते । लुस् क्यि म्ङोन् सुम् दु ब्येद् प दङ् । ञोन् मोङ्स् पऽइ स्ग्रिब् प लस् नि र्नम् पर् ग्रोल् ल । स्ञोम्स् पर् ऽजुग् पऽइ स्ग्रिब् प लस् नि र्नम् पर् म ग्रोल् ब स्ते । शेस् रब् क्यिस् र्नम् पर् ग्रोल् ब दङ् । स्ञोम्स् पर् ऽजुग् प दङ् । ञोन् मोङ्स् प ग्ञि गऽइ स्ग्रिब् प लस् र्नम् पर् ग्रोल् ब स्ते । ग्ञि गऽइ छ लस् र्नम् पर् ग्रोल् बऽओ ॥
अ. इ-3 प्.209अ7, द्.182ब्6, न्.196अ1, छ्.354अ16
र्ग्यु ग्सुम् पो र्नम् प ब्दुन् पो ऽदि दग् नि नङ् गि सेम्स् म्ञम् पर् ऽजोग् चिङ् । यङ् दग् पर् सेम्स् र्त्से ग्चिग् तु ब्येद् पर् ऽग्युर् ब स्ते । ऽजुग् पर् ब्येद् प दङ् । ग्नस् प दङ् म्थुन् प दङ् । स्दुद् पर् ब्येद् पऽओ ॥
ऽजिग् र्तेन् पऽइ यङ् दग् पऽइ ल्त ब स्ब्यिन् प योद् दो । źएस् ब्य ब ल सोग्स् पऽइ र्नम् प दङ् । दे दग् ञिद् ल ब्र्तेन् नस् ख्यिम् ग्यि ग्नस् नि कुन् तु ( zश्भ् इइ 286 ) ग्नोद् पऽओ ॥ ख्यिम् नि स्क्योन् यिन् नो । źएस् ब्य ब ल सोग्स् पऽइ र्नम् प स्ते । म्ङोन् पर् ब्युङ् ब दङ् ल्दन् पऽइ यङ् दग् पऽइ र्तोग् प नि ऽजुग् पर् ब्येद् पऽओ) ॥
źउग्स् zइन् नस् यङ् दग् पऽइ ङग् दङ् । लस् दङ् ऽत्स्हो ब यङ् दग् पर् ब्लङ्स् प नि ग्नस् प दङ् म्थुन् पऽओ ॥
ऽजुग् पर् ब्येद् पऽइ र्ग्यु दङ् । ग्नस् प दङ् म्थुन् पऽइ र्ग्यु देऽइ ऽओग् तु त्स्हुल् ब्źइन् यिद् ल ब्येद् प दङ् ल्दन् प न यङ् दग् पऽइ र्त्सोल् ब दङ् । द्रन् प गङ् यिन् प दे नि स्दुद् पर् ब्येद् पऽइ र्ग्यु यिन् पर् रिग् पर् ब्यऽओ ॥
अ. इ-4 प्.209ब्3, द्.183अ2, न्.196अ5, छ्.354अ23 ऽ ऽ
ऽदोद् प ल ञे बर् स्प्योद् प र्नम्स् नि ऽदि ल्त बुऽइ फ्यिर् नोर् सोग्स् पर् ऽदोद् दे । ऽदि ल्तर् ब्दे ब ऽदोद् प खो नऽइ फ्यिर् यिन् ल । ब्दे ब ब्दुन् पो ऽदि दग् नि ऽफग्स् पऽइ नोर् ब्दुन् लस् ब्युङ् ब स्ते । दे दग् नि फल् पऽइ नोर् कुन् तु ब्सग्स् प थम्स् चद् क्यिस् थोब् पर् मि ऽग्युर् ब स्ते ।
दद् प दङ् ल्दन् पऽइ ब्दे ब दङ् । ब्दे ऽग्रोर् स्क्ये ब लस् ब्युङ् ब दङ् । ब्दग् गि छ म यिन् प ल ल्तोस् नस् । ख न म थो ब कुन् तु मि स्प्योद् पस् ऽग्योद् प मेद् प लस् ब्युङ् ब दङ् । दे ब्źइन् दु ग्źअन् ग्यिस् स्मद् प ल ल्तोस् प दङ् । छोस् दङ् दोन् लेग्स् पर् र्तोग्स् प दङ् ल्दन् पऽइ ब्दे ब दङ् । फ्यि म ल यो ब्यद् दङ् मि ल्दन् प मेद् प लस् ब्युङ् ब दङ् । दोन् दम् प र्तोग्स् प लस् ब्युङ् बऽइ ब्दे ब स्ते । र्नम् प दु म ख न म थो ब मेद् पऽइ ब्दे ब ऽदि दग् नि । ऽजिग् र्तेन् पऽइ नोर् कुन् तु ब्सग्स् प लस् र्नम् प थम्स् चद् क्यि थम्स् चद् दु थोब् पर् मि ऽग्युर् ते । ग्źअन् दु न त्स्हे ऽदि ञिद् ल यो ब्यद् क्यिस् मि ब्रेल् ब लस् ब्युङ् ब त्सम् दु zअद् ल दे यङ् ख न म थो ब दङ् ब्चस् प यिन् नो ॥
अ. इ-5 प्.209ब्8, द्. 183अ6, न्. 196ब्2, छ्.354ब्4
ब्दुन् पो ऽदि दग् नि ब्दुद् दङ् ञोन् मोङ्स् पऽइ फ्योग्स् क्यि स्तोब्स् यिन् ते । ब्स्तन् प ल ग्नोद् पर् ब्येद् प दङ् । ङन् ऽग्रोर् ऽग्रो बऽइ ञेस् पर् स्प्योद् प कुन् ( श्भ् इइ 288 ) तु स्प्योद् प दङ् । ब्दग् गि छ म यिन् पर् मि ल्त स्ते । बर् दु ग्चोद् पऽइ छोस् ब्स्तेन् प दङ् । ग्źअन् ग्यिस् स्मद् प लस् मि ल्त स्ते । बर् दु ग्चोद् पऽइ छोस् ब्स्तेन् प दङ् । द्गे ब दङ् । मि द्गे ब दङ् । ख न म थो ब दङ् ब्चस् प दङ् । ख न म थो ब मेद् प दङ् । ङन् प दङ् । ब्zअङ् पो दङ् । नग् पो दङ् । द्कर् पोऽइ रब् तु द्ब्ये ब दङ् ब्चस् पऽइ र्तेन् चिङ् ऽब्रेल् बर् ऽब्युङ् बऽइ छोस् र्नम्स् मि र्तोग्स् प दङ् । सेर् स्नऽइ द्रि मस् zइल् ग्यिस् नोन् पऽइ सेम्स् क्यिस् । स्नोद् स्प्यद् दङ् । यो ब्यद् मङ् पो ऽछङ् ब दङ् । ब्लुन् źइङ् ब्लो छुङ् ल शिन् तु र्मोङ्स् पऽओ ।
ब्दुद् दङ् ञोन् मोङ्स् पऽइ फ्योग्स् क्यि स्तोब्स् ऽदि दग् zइल् ग्यिस् म्नन् प दङ् । र्नम् पर् ब्स्त्सल् बऽइ फ्यिर् ऽफग्स् पऽइ छोस् ऽदुल् ब ल दद् प ल सोग्स् पऽइ स्तोब्स् ब्दुन् पो खो न योद् पर् रिग् पर् ब्यऽओ ॥
अ. इ-6,-7 प्.210अ5, द्.183ब्2, न्.196ब्5, छ्.354ब्11

दोन् दम् पऽइ छोस् म्य ङन् लस् ऽदस् पऽइ मि म्थुन् पऽइ फ्योग्स् क्यि छोस् ब्दुन् पो ऽदि दग् नि दम् पऽइ छोस् योङ्स् सु ऽग्रिब् चिङ् । नुब् पर् ऽग्युर् ब स्ते । दे दग् क्यङ् र्गुद् प र्नम् प ग्सुम् दु ऽदुस् ते ।
ञे बर् स्प्यद् प र्गुद् प दङ् । ल्हग् पऽइ ब्सं प र्गुद् प दङ् । स्ब्योर् ब र्गुद् पऽओ ।
दे ल छोस् गोस् ल सोग्स् प ब्zअङ् पो ऽदोद् प दङ् । मङ् पो ऽदोद् प दङ् । दे लस् ब्युङ् बऽइ लोङ्स् स्प्योद् नि ञे बर् स्प्यद् प र्गुद् पऽओ ।

लम् दङ् लम् ग्यि ऽब्रस् बु म्य ङन् लस् ऽदस् प ल । म्ङोन् पर् यिद् मि छेस् प नि ल्हग् पऽइ ब्सम् प र्गुद् पऽओ ॥]
म्स्.15ब्6ल्, प्.210अ7, द्.183ब्4, न्.197अ1, छ्.354ब्16
कौसीद्यं मुषितस्मृतिता विक्षिप्तचित्तता दौष्प्रज्ञं प्रयोगविपत्तिः ।
तत्र उपभोगविपत्तिर् लोभाकुशलमूलपक्ष्या । आशयप्रयोगविपत्तिः पुनर् मोहाकुशलमूलपक्ष्या । एतद्विपर्ययेण शुक्लपक्षो वेदितव्यः ॥
अ. इ-8 म्स्.15ब्6र्, प्.210ब्1, द्183ब्6, न्.197अ2, छ्.354ब्19
सप्तेमे धर्माः परमार्थनिर्वाणपक्ष्याः सद्धर्मापरिहाणाय चिरस्थितिकतायै संवर्तन्ते । श्रुतमयी प्रज्ञा, चिन्तामयी, भावनामयी प्रज्ञा, आश्रयस्य विषमपरिहरणता, सम्यगामिषधर्मपर्येष्टिः, निरभिमानता, सत्कारार्हानर्हेषु सत्करणासत्करणाय पुद्गलप्रविचयः ।
तत्र श्रुतम् अव्युत्पन्नस्यार्थस्य व्युत्पत्तये, चिन्ता सुनिश्चितार्थाभ्यूहनतायै, भावना क्लेशप्रहाणाय, आश्रयस्य विषमपरिहारः प्रहाणक्षमकर्मण्यतायै, सम्यगामिषधर्मपर्येषणा क्षिप्राभिज्ञतायै, निरभिमानतावरमात्राधिगमासंतुष्टये, पुद्गलविचयो ज्ञातमहापुण्यादीनाम् अस्पृहणतायै, अल्पेच्छादीनां च स्पृहणतायै ॥
अ. इ-9 म्स्.16अ2म्, प्.210ब्7, द्.184अ3, न्.197अ7, छ्.354च्2
सप्तेमानि सत्त्वानाम् उपपत्त्यायतनानि येषु सत्त्वानां विज्ञानानि प्रवाहतः संमुखीकुर्वन्ते । अपायान् असंज्ञिसत्त्वान् नैवसंज्ञानासंज्ञायतनं स्थापयित्वा ।
निर्वित्पदस्थानभूतत्वाद् अपाया न विज्ञानस्थितिः, एकान्तेन तत्र विज्ञानस्यासमुदाचारान् नासंज्ञिसत्त्वाः । समुदाचारासमुदाचारतो ऽनैकान्तिकत्वान् न नैवसंज्ञानासंज्ञायतनम् ।
तत्र कायविसभागता कायनानात्वं संज्ञाविसभागता संज्ञनानात्वम्, एतद्विपर्ययाद् एकत्वकायता, एकत्वसंज्ञिता च वेदितव्या ।
तत्र ब्रह्मलोकाद् अर्वाग् विसभागकायविचित्ररूपकायात्मभावप्रसवा । ब्रह्मलोके पुनस् तत्प्रथमाभिनिर्वृत्ता ये तेषाम् एवं भवति । "ब्रह्मणा वयं सृष्टाः" । ब्रह्मणो ऽप्य् एवं भवति । "मयैते सृष्टा" इतीयं तेषां संज्ञासभागता ।
द्वितीयध्यानाद् ऊर्ध्वम् सर्वे ऽर्चिःसंनिभकायत्वाद् एकत्वकायाः । आभास्वरे पुनर् देवनिकाये पूर्वपश्चाद् उपपन्नानां भयाभयसंज्ञा ब्रह्मलोकदहार्चिर्दर्शनात् तेषां विसभागसंज्ञा वेदितव्या ॥
अ. इ-10 म्स्.16अ5ल्, प्.211अ6, द्.184ब्2, न्.197ब्6, छ्.354च्17
सप्तभिः सत्त्वानां दौष्ठुल्यैः सर्वक्लेशपक्ष्यदौष्ठुल्यसंग्रहो वेदितव्यः, हीनधातुकरागद्वेषपक्ष्यम्, मध्यप्रणीतधातुरागपक्ष्यम् । हीनमध्यप्रणीतधातुकमानाविद्यादृष्टिविचिकित्सापक्ष्यं च दौष्ठुल्यम् ॥
अ. इ-11 म्स्.16अ5र्, प्.211अ8, द्.184ब्3, न्.198अ1, छ्.354च्20
सप्तभिर् आकारैर् इतोबाह्यकानां दुराख्यातो धर्मविनयः सदोषो वेदितव्यः । व्युत्पत्तिदोषेण, चारित्रदोषेण, सन्निश्रयदोषेण, संकल्पदोषेण, व्यवसायदोषेण, अधिचित्तदोषेण, अधिप्रज्ञदोषेण ।
किंचापीतोबाह्यकः श्रुतम् उद्गृह्णाति । तत् पुनश् चतुर्विपर्यासानुकूलत्वाद् उपारम्भेति । वादप्रतिमोक्षानुशंसकथाप्रत्युपस्थापनत्वाच् च तत्कृता व्युत्पत्तिः सदोषा । शीलम् आचाराजीवविपत्तिपरिगृहीतत्वात् स्वयं वानैर्याणिकत्वात् सदोषम् । मित्रं विपरीतमार्गदेशिकत्वात् सदोषम् । ( श्भ् इइ 294 ) विवेको मिथ्यासंकल्पोपहतचित्तत्वात् सदोषः । व्यवसाय उपायविरहितत्वात् सदोषः । अधिचित्तं मुषितस्मृतेस् तृष्णामानाविद्याविचिकित्सोत्तराध्यायित्वात् सदोषम् । अधिप्रज्ञं द्वाषष्टिभिर् दृष्टिगतैर् उपहतत्वात् सदोषम् ।
एतद्विपर्ययेण स्वाख्याते धर्मविनय एतान्य् एव सप्तवस्तूनि निर्दोषाणि वेदितव्यानि ॥
अ. इ-12 म्स्.16अ8म्, प्.211ब्7, द्.185अ1, न्.198अ6, छ्.355अ4
सप्तेमे भिक्षूणाम् उत्पन्नस्याधिकरणस्य व्युपशमाय संवर्तन्ते । शेषं तद्यथा वस्तुसंग्रहण्याम् ॥
तत्रेमानि सप्तेत्य् अधिकरणानि । संमुखापत्तिव्युत्पादनाधिकरणम्, अतीतसंमुषितापत्तिव्युत्पादनाधिकरणम्, अस्वतन्त्र्यापत्तिव्युत्पादनाधिकरणम्, आपत्तिविमर्शाधिकरणम्, [ल्तुङ् ब ग्तन् ल ऽबेब्स् पस् र्त्सोद् ब दङ् । ब्दग् ञिद् क्यिस् ल्तुङ् ब ल ऽग्योद् प र्त्सोद् ब दङ् ।] पक्षापरपक्षव्यवस्थितयोर् अन्योऽन्यम् आपत्तिचोदनापकर्षणाधिकरणम् ॥ ॥
सप्तकैर् बुद्धवचने ज्ञेयाधिष्ठानम् ॥ ॥
अ. इइ-1 म्स्.16ब्2ल्, प्,212अ3, द्.185अ3, न्.198ब्2, छ्.355अ11
अष्टभिर् अङ्गैः संगृहीता भिक्षोर् निरवशेषसंप्रयोजनप्रहाणाय तिस्रो भावना वेदितव्याः । शीलभावना, समाधिभावना, प्रज्ञाभावना च । सम्यग्वाक्कर्मान्ताजीवैः शीलभावना, सम्यक्स्मृतिसमाधिभ्यां समाधिभावना, सम्यग्दृष्टिसंकल्पव्यायामैः प्रज्ञाभावना ॥
अ. इइ-2 म्स्.16ब्2र्, प्.212अ5, द्.185अ5, न्.198ब्4, छ्.355अ20
सफलम् सम्यक्प्रयोगम् अधिपतिं कृत्वा व्यवदानपक्ष्याणाम् अष्टानां पुद्गलानां व्यवस्थानं वेदितव्यम् । प्रतिपन्नकानां चतुर्णां फलस्थानां चतुर्णाम् ॥
अ. इइ-3 म्स्.16ब्3ल्, प्.212अ6, द्.185अ7, न्.198ब्5, छ्.355अ21
द्वे इमे दाने अष्टाकारे वेदितव्ये, सदोषं च दानं निर्दोषं च दानम् ।
तत्र सदोषं सप्ताकारम्, एकाकारं पुनर् निर्दोषम् । अस्ति दानं कौसीद्योपहतत्वात् सदोषम् । अस्त्य् अकामकारात् सदोषं सामिषदोषस्य दारिद्रभीतस्येश्वराभिलाषिणः । अस्त्य् अतीतसापेक्ष्यतया सदोषम् । अस्त्य् अनागताभिनन्दनतया सदोषम् । अस्त्य् अवज्ञादोषात् सदोषम् । अस्ति ज्ञाताभिलाषदोषात् सदोषम् । अस्त्य् उपभोगाभिलाषात् सदोषम् ।
निर्दोषं पुनर् दानं निर्वाणपरिनामितं तत्संभारभृतम् । निरामिषचेतसो ऽपि सुगतिगमनायापि महाभोगताया अपि संवर्तते ॥
अ. इइ-4,-5 म्स्.16ब्4र्, प्.212ब्3, द्.185ब्2, न्.199अ2, छ्.355ब्6
चत्वारि स्थानान्य् अधिष्ठायाष्टसु कालेषु कौसीद्यं प्राविष्कुर्वन् वीर्यम् अनारभमानो वेदितव्यः, कुसीदजातीयो ऽयं पुद्गलो ऽनारब्धवीर्यजातीय इति ।
पिण्डपातसन्निश्रयम् इतिकरणीयं चारिकविक्रमणं धातुवैषम्यं च । इतीमानि चत्वारि स्थानान्य् अधिष्ठाय प्रणीतप्रभूतभोजनकायगौरवकाले, परीत्तलूहभोजनकायक्लमकाले, इतिकरणीये प्रयोक्तुकामस्य बलानुरक्षणकाले, इतिकरणीयं कृतवतः श्रमकाले, चारिकां विप्रक्रमितुकामस्य बलानुरक्षणकाले, अभिप्रक्रान्तस्याध्वपरिश्रमकाले, व्याधितस्य व्याधिदुःखसन्निपातकाले, व्याधिव्युत्थितस्य श्रम्यागमनाशङ्काकाले, इति कुसीदजातीयः पुद्गलः । यावत् कौसीद्योपधिं न लभते, तावद् अस्य वीर्यमात्रकं प्रज्ञायते । यदा कौसीद्योपधिं लभते तदा त्वरितत्वरितं कौसीद्यं प्राविष्करोति । तस्मात् कुसीदजातीय इत्य् उच्यते । एतद्विपर्ययेण चत्वार्य् एवैतानि स्थानान्य् अधिष्ठाय, एष्व् एवाष्टसु कालेषु वीर्यम् आरभमाणः, अभिभूय कौसीद्यम् आरब्धवीर्यजातीयः पुद्गलो वेदितव्यः । स लभमानो ऽपि कौसीद्योपधिं वीर्यम् आरभते । प्राग् एवालभमानः । तस्माद् आरब्धवीर्यजातीय इत्य् उच्यते ॥
अ. इइ-6 म्स्.16ब्8ल्, प्.213अ2, द्.186अ1, न्.199ब्1, छ्.355ब्21

अष्टाव् इमे सम्यक्प्रणिधानपरिगृहीता इष्टोपपत्तिहेतवः । कामेष्व् अभ्युपपत्तिकोदयकामानां सर्वेण च सर्वं कामविवेकम् अनभिलषताम् अष्टप्रकारेष्टोपपत्त्यायतनोपपत्तये संवर्तन्ते । मनुष्यदुर्भगप्रणिहितं परीत्तं दानमयं शीलमयम् । एवं मनुष्यसुभगचातुर्महाराजकायिकत्रायस्त्रिंशयामतुषितनिर्माणरतिपरनिर्मितवशवर्तिदेवप्रणिहितं परीत्तं दानमयं च शीलमयम् ॥
अ. इइ-7 म्स्.17अ1र्, प्.213अ5, द्.186अ3, न्.199ब्3, छ्.355ब्25
चतुर्भिः कारणैर् मनुष्येषु चतसृणां तथागतस्य पर्षदां व्यवस्थानं वेदितव्यम् । त्रिभिः कारणैर् देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् । अग्र्याभिधानभूतत्वात्, दक्षिणीयसमन्तत्वात्, अपराधीनभोगवृत्तित्वात्, समुत्सृष्टभोगवृत्तित्वात्, एभिश् चतुर्भिः कारणैर् मनुष्यभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् । भूमिभागसन्निश्रितपर्यन्तत्वात्, कामधातुपर्यन्तत्वात्, वाक्संस्कारपर्यन्तत्वात् । देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् ॥
अ. इइ-8 म्स्.17अ3ल्, प्.213ब्1, द्.186अ6, न्.199ब्6, छ्.355च्2
त्रिषु लौकिकेषु स्थानेषु वर्तमानो लोकः सततसमितम् अष्टाभिर् धर्मैः स्पृश्यते । इच्छायाम्, व्यवसाये, प्रत्यये च । इच्छायां वर्तमानो लाभेनापि स्पृश्यते, अलाभेनापि । व्यवसाये वर्तमानो पराभिमते वा परानभिमते वा, परोक्षागतेन वर्णावर्णवादेन स्पृश्यते, संमुखानुगतेन वा । प्रत्यये वर्तमानः पूर्वके दृष्टधार्मिके वा सुखप्रत्यये दुःखप्रत्यये वा सुखदुःखाभ्याम् स्पृश्यते ॥

अ. इइ-9 म्स्.17अ4म्, प्,213ब्4, द्.186ब्1, न्.200अ1, छ्.355च्7
अष्टाव् इमे ऽनागामिनाम् अर्हतां वाधिमोक्षा आर्यप्रभावमहाविहाराभिनिर्हाराय संवर्तन्ते । अविभूयाध्यात्मं रूपसंज्ञां बहिरसंक्लिष्टरूपाधिमोक्षः । विभूयाध्यात्मं रूपसंज्ञां द्वितीयः । शुभाशुभाद्वयरूपपरमोपेक्षाधिमोक्षः । इतीमे त्रयो ऽधिमोक्षाः सर्वरूपवशित्वायार्यर्द्धिनिर्हाराय ( श्भ् इइ 302 ) संवर्तन्ते । येयम् ऋद्धिर् असाधारणा सर्वपृथग्जनैः । आकाशानन्ताधिमोक्षः, विज्ञानानन्ताधिमोक्षः, आकिञ्चनाधिमोक्षः, नैवसंज्ञानासंज्ञायतनाधिमोक्षः, सूक्ष्मसूक्ष्मस्वरसवाहिचित्ताधिमोक्षश् च, इतीमे पञ्चाधिमोक्षा अनुपूर्वेण सुपरिकर्मकृताः संज्ञावेदयितनिरोधसमापत्तिपरमविहारनिर्हाराय संवर्तन्ते ॥
अ. इइ-10 म्स्.17अ6म्, प्.214अ1, द्.186ब्5, न्.200अ6, छ्.355च्16
यानि च रूपाणि पश्यति यथा च पश्यति, त्रिषु विमोक्षेषु प्रथमेषु प्रयुक्त इति विमोक्षत्रयप्रयोगमार्गं संजानाति, अष्टाव् अभिभ्वायतनानि वेदितव्यानि । तत्र परीत्तानि महद्गतानि सुवर्णदुर्वर्णानि हीनप्रणीतानि रूपाणि पश्यति बहिर्धासमाहितगोचराण्य् आभासप्राप्तानि । समाधिगोचरालम्बनेन मनसिकारेणानाभासगतायाम् अभिभूय, शमथाकारेण तानि समाधिगोचरानि [शेस् सो । ल्हग् म्थोङ् गि र्नम् पस् नि म्थोङ् स्ते । तिङ् ङे ऽद्zइन् ग्यि स्प्योद् युल् दे दग् जि ल्तर्] जानाति पश्यति । यथा तानि तेन विमृष्टानि भवन्त्य् उपलक्षितानि तथा संज्ञितेषु बहिर्धासमाधिगोचरेषु भवति । एवं तानि रुपाणि पश्यति ।
अष्टकैर् बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् ॥
अ. इइल्-1 म्स्.17अ8र्, प्.214अ6, द्.187अ1, न्.200ब्3, छ्.355च्26
नवानां संयोजनानां व्यवस्थानं वेदितव्यम् । वस्तुसंग्रहण्याम् ।
अ. इइल्-2 म्स्.17ब्1ल्, प्.214अ7, द्.187अ2, न्.200ब्4, छ्.355च्27
नवेमान्य् उपपत्त्यायतनानि येषूपपन्नानां सत्त्वानां तत्र तत्र समानसंवासता प्रज्ञायते । स्थापयित्वापायान् पूर्वस्मिन् निर्वित्पदस्थानभूतत्वात् ॥
नवकैर् बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् ॥ ॥
अ. इव्-1 म्स्. 17ब्1 र्, प्.214अ8, द्. 187अ3, न्.200ब्5, छ्.356अ1
दशभिः कृत्स्नायतनैर् विमोक्षाणां कार्यपरिनिष्पत्तिर् वेदितव्या । शेषं विमोक्षाभिभ्वायतनकृत्स्नायतनानां तद्यथा वस्तुसंग्रहण्याम् ।
अ. इव्-2 म्स्.17ब्2ल्, प्.214ब्2, द्.187अ4, न्.200ब्6, छ्.356अ3
दशभिर् अशैक्षैर् अङ्गैः पञ्चानाम् अशैक्षाणां स्कन्धानां संग्रहो वेदितव्यः । शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धानाम् ॥
दशकैर् बुद्धवचने ज्ञेयाधिष्ठानं समाप्तम् ॥
समाप्तं च बुद्धवचनज्ञेयाधिष्ठानम् ॥ ॥
ब्. म्स्.17ब्2र्, प्.214ब्4, द्.187अ5, न्.201अ1, छ्.356अ8
चिकित्सा कतमा, सा चतुराकारा वेदितव्या । तद्यथाबाधकौशल्यम्, आबाधसमुत्थानकौशल्यम्, उत्पन्नस्याबाधस्य प्रहाणकौशल्यम्, प्रहीणस्याबाधस्यायात्याम् अनुत्पादकौशल्यम् । एषां च कौशल्यानां विभङ्गो यथा सूत्रम् एव वेदितव्यः ॥ ॥
च्. म्स्.17ब्3ल्, प्,214ब्, द्.187अ7, न्.201अ2, छ्.356च्11
द्. म्स्.23अ3ल्, प्.228ब्6, द्.199ब्2, न्.214अ2, छ्.360च्21
शब्दविद्या कतमा । सा षडाकारा द्रष्टव्या । धर्मप्रज्ञप्तिव्यवस्थानतः । अर्थप्रज्ञप्तिव्यवस्थानतः । पुद्गलप्रज्ञप्तिव्यवस्थानतः । कालप्रज्ञप्तिव्यवस्थानतः । संख्याप्रज्ञप्तिव्यवस्थानतः । सखिलाधिकरणव्यवस्थानतश् च ॥
उद्दानम् ॥
धर्मार्थपुद्गलः कालाः संख्याधिकरणं च यत् ।
सखिलं तद् अधिष्ठानं शब्दस्येह समासतः ।
द्.इ. म्स्.23अ4ल्, प्.229अ1, द्.199ब्4, न्.214अ4, छ्.360च्28
तत्र धर्मप्रज्ञप्तिव्यवस्थानं नामकायपदकायव्यञ्जनकायाः । पञ्चगुणयुक्तश् च शब्दः । अग्राम्यलघ्वोजस्वी संबद्धः स्वर्थश् च ।
द्.इइ. म्स्.23अ4र्, प्.229अ2, द्.199ब्5, न्.214अ5, छ्.361अ2
तत्रार्थप्रज्ञप्तिव्यवस्थानं दशाकारं वेदितव्यम् । इन्द्रियव्यवस्थानतः । महाभूतव्यवस्थानतः । कर्मव्यवस्थानतः । पर्येषणाव्यवस्थानतः । अधर्मव्यवस्थानतः । धर्मव्यवस्थानतः । संपत्तिव्यवस्थानतः । विपत्तिव्यवस्थानतः । उपभोगव्यवस्थानतः । अनुरक्षणाव्यवस्थानतश् च ॥
उद्दानम् ॥
चक्षुरादि पृथिव्यादि कायकर्मादि चैषणा ।
अधर्मधर्मसंपत्तिविपद्भोगानुरक्षणा ।
द्.इइ-1 म्स्.23अ5र्, प्.229ब्5, द्.199ब्7, न्.214ब्1, छ्.361अ8
तत्रेन्द्रियव्यवस्थानतस् तद्यथा दर्शनार्थः श्रवणार्थो जिघ्रणार्थः स्वादनार्थः स्पर्शनार्थो विजाननार्थश् च ।
द्.इइ-2 म्स्.23अ6म्, प्.229ब्6, द्.200अ1, न्.214ब्2, छ्.361अ9
तत्र महाभूतव्यवस्थानतः । तद्यथा प्रतिष्ठाद्यर्थः । अभिष्यन्दनाद्यर्थः, दीपाद्यर्थः । कम्पनाद्यर्थश् च ॥
द्.इइ-3 म्स्.23अ6र्, प्.229ब्7, द्.200अ2, न्.214ब्2, छ्.361अ10 * 1 ः इ
तत्र कर्मव्यवस्थानतः । तद्यथा गमनाद्यर्थो भाषणाद्यर्थः । चेतनास्मृतिबुद्ध्याद्यर्थश् च ॥
द्.इइ-4 म्स्.23अ7ल्, प्.229ब्8, द्.200अ2, न्.214ब्3, छ्.361अ11
तत्रैषणाव्यवस्थानतः । तद्यथा मार्गणाद्यर्थः ॥
द्.इइ-5 म्स्.23अ7ल्, प्.230अ1, द्.200अ3, न्.214ब्3, छ्.361अ12

तत्राधर्मव्यवस्थानतः । तद्यथा हिंसास्तेयाद्यर्थः ॥
द्.इइ-6 म्स्.23अ7म्, प्.230अ1, द्.200अ3, न्.214ब्4, छ्.361अ12
तत्र धर्मव्यवस्थानतः । तद्यथा दानसंयमाद्यर्थः ॥
द्.इइ-7 म्स्.23अ7म्, प्.230अ2, द्.200अ3, न्.214ब्4, छ्.361अ13
तत्र संपत्तिव्यवस्थानतः । तद्यथा प्राप्तिप्रीतिहर्षाद्यर्थः ॥
द्.इइ-8 म्स्.23अ7र्, प्.230अ3, द्.200अ4, न्.214ब्5, छ्.361अ13
तत्र विपत्तिव्यवस्थानतः । तद्यथा नाशभयदैन्याद्यर्थः ॥
द्.इइ-9 म्स्.23अ8ल्, प्.230अ3, द्.200अ4, न्.214ब्5, छ्.361अ14
तत्रोपभोगव्यवस्थानतः । तद्यथा भोजनपानाच्छादनालिङ्गनोपचाराद्यर्थः ॥
द्.11-10 म्स्.23अ8ल्, प्.230अ4, द्.200अ5, न्.214ब्6, छ्.361अ15
तत्रानुरक्षणाव्यवस्थानतः । तद्यथा पालनपोसणभरणाद्यर्थः ॥
अपि खलु षड्भिर् आकारैः समासतो ऽर्थो वेदितव्यः । स्वभावार्थो हेत्वर्थः फलार्थः क्रियार्थो विशेषसंयोगार्थः प्रवृत्त्यर्थश् च ।
उद्दानम् ॥
स्वभावहेतुतत्कार्यतत्क्रियायोगवृत्तिभिः ।
द्.इइइ. म्स्.23ब्1ल्, प्,230अ6, द्.200अ6, न्.214ब्7, छ्.361अ21
तत्र पुद्गलप्रज्ञप्तिव्यवस्थानम् । स्त्रीपुंनपुंसकव्यवस्थानतः । प्रथममध्यमोत्तमपुरुषव्यवस्थानतश् च ॥
द्.इव्. म्स्.23ब्1म्, प्,230अ7, द्.200अ7, न्.215अ1, छ्.361अ24
तत्र कालप्रज्ञाप्तिव्यवस्थानम् । त्रिविधः कालो ऽतीतो ऽतीतविशिष्टः, अनागतो ऽनागतविशिष्टः, वर्तमानो वर्तमानविशिष्टश् च ।
द्.व्. म्स्.23ब्1र्, प्,230अ8, द्.200अ7, न्.215अ2, छ्.361अ27
तत्र संख्याप्रज्ञप्तिव्यवस्थानम् । त्रिविधा संख्या । एकसंख्या द्विसंख्या बहुसंख्या च ।
द्.वि. म्स्.23ब्2ल्, प्.230ब्1, द्.200ब्1, न्.215अ2, छ्.361अ29
तत्राधिकरणव्यवस्थानम् । खिलव्यवस्थानं च । पञ्चाधिकरणानि सन्धिनामसमासस् तद्धितम् आख्यातं च । खिलं पुनर् धातुपाठादि तद् उभयम् अपि समस्य सखिलम् अधिकरणम् इत्य् उच्यते ।
ए. म्स्.23ब्2र्, प्.230ब्2, द्.200ब्2, न्.215अ4, छ्.361ब्4
तत्र शिल्पकर्मस्थानविद्या कतमा । समासतो द्वादशाकारं शिल्पं । तत्र यज् ज्ञानं सा शिल्पकर्मस्थानविद्येत्य् उच्यते । द्वादशाकारं शिल्पं कतमत् । तद्यथा कृषिशिल्पं वणिज्यशिल्पं राजपौरुष्यशिल्पं ( श्भ् इइ 312 ) लिपिगणनसंख्यामुद्राशिल्पं नैमित्तिकशिल्पं मन्त्रिशिल्पं घटानशिल्पं संजननशिल्पं वानशिल्पं संयोजनशिल्पं पाकशिल्पम् गान्धर्वशिल्पं च ॥
॥ योगाचारभूमौ श्रुतमयी भूमिः ॥
अप्पेन्दिx इइइ
चिन्तामयी भूमिः
म्स्.23ब्4ल्, प्.230ब्6, द्.200ब्5, न्.215अ6, छ्.361ब्11
चिन्तामयी भूमिः कतमा । सा समासतस् त्र्याकारा वेदितव्या । स्वभावविशुद्धितो ज्ञेयप्रविचयतो धर्मप्रविचयतश् च ॥
अ. म्स्.23ब्4म्, प्.230ब्7, द्.200ब्5, न्.215अ7, छ्.361ब्18
तत्र स्वभावविशुद्धिः कतमा । सा नवाकारा वेदितव्या । यथापि तद् एकत्यो यथाश्रुतान् यथापर्याप्तान् धर्मान् एकाकी रहोगतश् चिन्तयति । अचिन्त्यं परिवर्जयित्वा चिन्त्यं चिन्तयति । कालापदेशमहापदेशं च परिजानाति । अर्थप्रतिसरणश् च चिन्तयति, न व्यञ्जनप्रतिसरणः । किंचिच् च श्रद्धयाधिमुच्यते, किंचित् प्रज्ञया व्यवचारयति दृढं च चिन्तयति । स्थिरं च चिन्तयति । प्रतनुं च चिन्तयति । तां च चिन्तां पर्यवसानगतां करोति, नान्तराविषादम् आपद्यते । इत्य् अनया नवाकारया विशुद्ध्या सुविशुद्धा चिन्तेत्य् उच्यते ॥
ब्. म्स्.23ब्6ल्, प्.231अ3, द्.201अ1, न्.215ब्4, छ्.361द् ः .0
तत्र ज्ञेयप्रविचयः कतमः । यः परीक्ष्यस्यार्थस्य प्रविचयः । परीक्ष्यो ऽर्थः कतमः । सच् च सतो ऽसच् चासतः परीक्ष्यो ऽर्थ इत्य् उच्यते ॥
ब्. इ. म्स्.23ब्6म्, प्.231अ5, द्.201अ2, न्.215ब्5, छ्.361च्4 ऽत्
परीक्ष्यं सद्वस्तु कतमत् । तत् पञ्चविधं द्रष्टव्यम् । स्वलक्षणसत् सामान्यलक्षणसत् संकेतलक्षणसद् धेतुलक्षणसत् फललक्षणसच् च ॥
ब्. इ-1 म्स्.23ब्7ल्, प्,231अ6, द्.201अ3, न्.215ब्6,छ्.361च्7
स्वलक्षणसत् कतमत् । तत् त्रिविधं द्रष्टव्यम् । परमार्थलक्षणसन् निमित्तलक्षणसद् वर्तमाणलक्षणसच् च ।
परमार्थलक्षणसत् कतमत् । यो निरभिलप्यो ऽर्थः सर्वधर्मेषु लोकोत्तरज्ञानगोचरो ऽव्यवस्थाप्यलक्षणः ।
निमित्तसत् कतमत् । तच् चतुर्भिर् आकारैर् द्रष्टव्यम् । यत्र नामोपलभ्यते । वस्तूपलभ्यते । तच् च नाम तस्मिन् वस्तुनि न व्यभिचरति भ्रान्तिव्यभिचारतो वानित्यव्यभिचारतो वा । तच् च नाम तस्मिन् वस्तुन्य् अव्याहतं प्रवर्तते । न क्वचिद् अनुवर्तते क्वचिद् व्यावर्तते ।
वर्तमानसत् कतमत् । यद् उत्पन्नं हेतुफलभूतं च । तद् एतत् सर्वम् एकध्यम् अभिसंक्षिप्य स्वलक्षणसद् इत्य् उच्यते ॥

ब्. इ-2 म्स्.23ब्8र्, प्.231ब्2, द्.201अ7,न्.216अ3, छ्.361च्16
सामान्यलक्षणसत् कतमत् । तद् अपि पञ्चविधं द्रष्टव्यम् । जातिसामान्यलक्षणं कृत्यानुष्ठानसामान्यलक्षणं सर्वसंस्कारसामान्यलक्षणम् सर्वसास्रवसामान्यलक्षणं सर्वधर्मसामान्यलक्षणम् च ।
जातिसामान्यलक्षणं कतमत् । रूपवेदनासंज्ञासंस्कारविज्ञानानां स्वजातिः । सैकध्यम् अभिसंक्षिप्य जातिसामान्यलक्षणम् इत्य् उच्यते ।
कृत्यानुष्ठानसामान्यलक्षणं कतमत् । कुशलसास्रवा धर्मा इष्टफलाभिनिर्वृत्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः । यथा ( श्भ् इइ 322 ) कुशला धर्मा इष्टफलाभिनिर्वृत्ताव् एवम् अकुशला धर्मा अनिष्टफलाभिनिर्वृत्तौ, स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गाङ्गानि बोधिपक्ष्यधर्मा बोधिप्राप्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः ।
सर्वसंस्कारसामान्यलक्षणं कतमत् । अनित्यता सर्वसंस्काराणाम् । सर्वसास्रवसामान्यलक्षणं कतमत् । दुःखता सर्वसास्रावाणाम् । सर्वधर्मसामान्यलक्षणं कतमत् । शून्यता नैरात्म्यं च सर्वधर्माणाम् । तद् इदम् उच्यते सामान्यलक्षणम् ॥
ब्. इ-3 म्स्.24अ3र्, प्.232अ2, द्.201ब्5, न्.216ब्1, छ्.362अ1
संकेतलक्षणं कतमत् । यत्र षड्विधो वादः प्रवर्तते तत् संकेतलक्षणं वेदितव्यम् । षड्विधो वादः कतमः । स्वामिसंबन्धयुक्तो वादः, तत्तदन्यान्यवर्जितो वादः, सांकेतिको वादः, सांघातिको वादः, असर्वत्रगो वादः, मनित्यश् च वादः ॥
ब्. इ-3-अ म्स्.24अ4म्, प्.232अ5, द्.201 ब्7, न्.216ब्4, छ्.362अ5
स्वामिसंबन्धयुक्तो वादः कतमः । यो वादः स्वामिसंबन्धेन लक्षणप्रत्यवगम्यो भवति । नान्तरेण स्वामिसंबन्धम् । तद्यथा "जातिर्" इत्य् उक्तः "कस्येयं जातिर्" इति, स्वामिसंबन्धम् अपेक्षते वादः । रूपस्य जातिर् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य जातिर् नो तु "रूपम्" इत्य् उक्ते "कस्येदं रूपम्" इति स्वामिसंबन्धम् अपेक्षते वादः ।
यथा जातिर् एवं जरा स्थितिर् अनित्यतैवंभागीयाश् चित्तविप्रयुक्ताः संस्कारा यथायोगं वेदितव्याः । अयम् उच्यते स्वामिसंबन्धयुक्तो वादः । स च ( श्भ् इइ 324 ) यत्र वर्तते तत् संकेतलक्षणं वेदितव्यम् ॥
ब्. इ-3-ब् म्स्.24अ6ल्, प्.232ब्1, द्.202अ3, न्.216ब्4, छ्.362अ12
तत्तदन्यान्यवर्जितो वादः कतमः । यो वादो नैव तेन तस्य नैवान्येनान्यस्य निर्देशाय भवति । स तत्तदन्यान्यवर्जित इत्य् उच्यते ।
यस् तेनैव तस्य व्यपदेशाय वादः स द्रव्यलक्षणे ऽपि वर्तते संकेतलक्षणे ऽपि । यश् चान्येनान्यस्य व्यपदेशाय वादः सो ऽपि द्रव्यलक्षणे ऽपि वर्तते संकेतलक्षणे ऽपि । यश् चायं नैव तेन तस्य नैवान्येनान्यस्य व्यपदेशाय वाद एकांशेन संकेतलक्षण एव प्रवर्तते ।
कतमश् च तेन तस्यैव व्यपदेशाय वादो द्रव्यलक्षणे प्रवर्तते । तद्यथा पृथिव्याः काठिन्यम् इत्य् यो वादः । कथं संकेतलक्षणे ऽपि प्रवर्तते । अश्मनो माण्डल्यम् इत्य् यो वादः । यथा पृथिव्याः काठिन्यम् अश्मनो माण्डल्यम् एवम् अपां द्रवत्वं तैलस्य पिण्डस् तेजस औष्ण्यम् अग्नेर् अर्चि वायोः समुदीरणत्वम् अनिलस्य वेगः ।
कथम् अन्येनान्यस्य व्यपदेशाय वादो द्रव्ये सति वर्तते । तद्यथा चक्षुषोर् विज्ञानं कायस्य स्पर्श इत्य् एवमादि । कथं प्रज्ञप्तिसति । तद्यथा बुद्धदत्तस्य गुणमित्रस्य वा भोजनं पानं यानं वस्त्रम् अलंकार इत्य् एवमादि ।
कथं नैव तेन तस्य नाप्य् अन्येनान्यस्य व्यपदेशाय वाद एकान्तेन संकेतलक्षण एव प्रवर्तते । तद्यथा गृहस्य द्वारं गृहस्य कुड्यं कुम्भस्य मुखं कुम्भस्य पार्श्वं सेनाया रथो वनस्य वृक्षः शतस्य दशकं दशकस्य तृकम् इत्य् एवमादि ।
अयम् उच्यते तत्तदन्यान्यवर्जितो वादः ॥
ब्. इ-3-च् म्स्.24ब्2ल्, प्.233अ2, द्.202ब्3, न्.217ब्1, छ्.362अ29
सांकेतिको वादः कतमः । षड्विधनिमित्तलक्षणे व्यावहारिकः स्वभावप्रज्ञप्तिवादः । षड्विधं निमित्तलक्षणं कतमत् । वस्तुलक्षणं विज्ञेयलक्षणं शुभादिलक्षणम् अनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणम् मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं च ।
वस्तुलक्षणं कतमत् । यद् विज्ञानेन गृह्णाति ।
विज्ञेयलक्षणं कतमत् । यन् मनस्कारेण विज्ञानस्योत्पत्तये संवर्तते । शुभादिलक्षणं कतमत् । यत् स्पर्शेन गृह्णाति ।
अनुग्रहादिलक्षणं कतमत् । यद् वेदनया गृह्णाति ।
व्यवहारनिमित्तलक्षणं कतमत् । यत् संज्ञया गृह्णाति ।
मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं कतमत् । यच् चेतनया गृह्णाति ॥
ब्. इ-3-द् म्स्.24ब्4ल्, प्.233अ7, द्.202ब्7, न्.217ब्6, छ्.362ब्7
सांघातिको वादः कतमः । यः प्रभूतेषु समग्रेषु समुदितेषु स्वभावव्यवस्थानवादः । तद्यथाध्यात्मं रूपवेदनासंज्ञासंस्कारविज्ञानेष्व् आत्मादिवादो बहिर्धा वा रूपगन्धरसस्प्रष्टव्येषु तथा तथा सन्निविष्टेषु गृहकुम्भसेनावनादिवादः ॥
ब्. इ-3-ए म्स्.24ब्4र्, प्.233ब्2, द्.203अ2, न्.218अ1, छ्.362ब्11
असर्वत्रगो वादः कतमः । यो वादः क्वचिद् अनुवर्तते, क्वचिद् व्यावर्तते । तद्यथा गृहे गृहवादो ग्रामनगरराष्ट्रादिभ्यो व्यावर्तते । कुम्भे कुम्भवादो घटघटीशरावादिभ्यो व्यावर्तते । सेनावादः पृथक्स्त्रीपुरुषदारकदारिकादिभ्यो व्यावर्तते । वनवादः पृथग्वृक्षमूलगण्डपत्रपुष्पफलादिभ्यो व्यावर्तते ॥
ब्. इ-3-f म्स्.24ब्6ल्, प्.233ब्5, द्.203अ4, न्.218अ3, छ्.362ब्18
अनित्यो वादः कतमः । स चतुर्भिर् आकारैर् द्रष्टव्यः । भेदतो ऽभेदतो ऽभिसंस्कारतः परिणामतश् च ।
कथं भेदतः । तद्यथा कुम्भे भग्ने यः कुम्भ इति वादः सो ऽवहीयते । कपालवादः प्रादुर्भवति ।
कथम् अभेदतः । तद्यथा नानाद्रव्यसमवायविहिते चूर्णे वा धूपे वा यो नानाद्रव्यवादः सो ऽवहीयते । धूपचूर्णवादः प्रादुर्भवति ।
कथम् अभिसंस्कारतः । तद्यथानभिसंस्कृते सुवर्णपिण्डे हर्षकटककेयूराद्या अभिसंस्कारपरिणते यः सुवर्णपिण्डवादः सो ऽवहीयते । हर्षकटककेयूरवादः प्रादुर्भवति ।
कथं परिणामतः । तद्यथा परिणते भोजनपाने यो भोजनपानवादः सो ऽवहीयते । उच्चारप्रस्राववादः प्रादुर्भवति ।
इत्य् अयम् एवंभागीयो ऽनित्यो वादो वेदितव्यः ।
इत्य् अयं षड्विधो वादो यत्र प्रवर्तते तत् संकेतलक्षणं वेदितव्यम् । इदम् उच्यते संकेतलक्षणम् ॥
ब्. इ-4 म्स्.24ब्8म्, प्.234अ4, द्.203ब्2, न्.218ब्2, छ्.362ब्28
हेतुलक्षणं कतमत् । तत् समासतः पञ्चविधं द्रष्टव्यम् । इष्टहेतुर् अनिष्टहेतुः पुष्टिहेतुः प्रवृत्तिहेतुर् निवृत्तिहेतुश् च ।
इष्टहेतुः कतमः । कुशलसास्रवा धर्माः ।
अनिष्टहेतुः कतमः । अकुशला धर्माः ।

पुष्टिहेतुः कतमः । पूर्वोत्पन्नाः कुशलाकुशलाव्याकृता धर्मा आसेविता भाविता बहुलीकृताः पश्चादुत्पन्नानां कुशलाकुशलाव्याकृतानां धर्माणाम् उत्तरोत्तराणां पुष्टतराणां पुष्टतमानां पुष्टिहेतुर् इत्य् उच्यन्ते ॥
प्रवृत्तिहेतुः कतमः । येन बीजेन यया वासनया येन सहायेन येषां धर्मानां प्रवृत्तिर् भवति स तेषां प्रवृत्तिहेतुर् इत्य् उच्यते ।
निवृत्तिहेतुः कतमः । संस्कारनिवृत्तेः संक्लेशनिवृत्तेः सर्वौपशमिको मार्गः पारिनिर्वाणिकः संबोधिगामी ससंभारः सप्रयोगः सोत्पत्तिकः सनिष्पत्तिको निवृत्तिहेतुर् इत्य् उच्यते ।
इदं समस्तं हेतुलक्षणं विस्तरेण विभागः पुनर् हेतुफलचिन्तायां द्रष्टव्यः ॥
ब्. इ-5 म्स्.25अ3ल्, प्.234ब्2, द्.203ब्7, न्.218ब्7, छ्.362च्11
फललक्षणं कतमत् । यद् अस्मात् पञ्चविधाद् धेतोर् उत्पन्नं प्राप्तं सिद्धं निष्पन्नं प्रवृत्तं तत् फललक्षणं वेदितव्यम् ॥
ब्. इइ. म्स्.25अ3म्, प्.234ब्3, द्.204अ1, न्.219अ1, छ्.362च्14
परीक्ष्यम् असद्वस्तु कतमत् । तद् अपि पञ्चलक्षणं द्रष्टव्यम् । अनुत्पन्नासन् निरुद्धासद् इतरेतरासत् परमार्थासद् अत्यन्तासच् च ।
अनुत्पन्नासत् कतमत् । अनागताः संस्काराः ।
निरुद्धासत् कतमत् । अतीताः संस्काराः ।
इतरेतरासत् कतमत् । यद् इतरलक्षणेनेतरेषां धर्माणां विरहितता अविद्यमानता, इतरधर्मासमवधानता वा पुनर् इतरेषां धर्माणाम् ।
परमार्थासत् कतमत् । व्यावहारिकेण स्वभावप्रज्ञप्तिवादेन यः स्वभावो व्यवस्थापितः ।
अत्यन्तासत् कतमत् । वन्ध्यापुत्रादि यत् किंचिद् एवंभागीयम् ॥
ब्. इइइ. म्स्.25अ5ल्, प्.234ब्7, द्.204अ4, न्.219अ5, छ्.362च्21
अपि खलु पञ्चविधास्तिता पञ्चविधैव नास्तिता ॥
ब्. इइल्-1 म्स्.25अ5म्, प्.234ब्7, द्.204अ4, न्.219अ5, छ्.362च्21
पञ्चविधास्तिता कतमा । परिनिष्पन्नलक्षणास्तिता परतन्त्रलक्षणास्तिता परिकल्पितलक्षणास्तिता विशेषलक्षणास्तिता अवक्तव्यलक्षणास्तिता च ।
तत्र प्रथमा पारमार्थिकं लक्षणम् ।
अनु द्वितीया प्रतीत्यसमुत्पन्नलक्षणम् ।
अनु तृतीया संकेतलक्षणम् ।
अनु चतुर्थ्य् अध्वलक्षणं जातिलक्षणं जरालक्षणं स्थितिलक्षणम् अनित्यलक्षणं दुःखलक्षणं शून्यलक्षणं नैरात्म्यलक्षणं वस्तुलक्षणं विज्ञेयलक्षणं ग्राह्यलक्षणं शुभादिलक्षणम् अनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणं मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणम् इत्य् एवंभागीयं लक्षणं विशेषलक्षणं वेदितव्यम् ।
अनु पञ्चमा चतुराकारया अवक्तव्यतया अवक्तव्यलक्षणम् । असत्त्वात् तद्यथा पुद्गलः स्कन्धेभ्यो ऽन्यो ऽनन्य इति । गम्भीरत्वान् निरभिलप्यधर्मता, अचिन्त्यस् तथागतानां धर्मकायः, अचिन्त्यो बुद्धविषयः । तथा भवति तथागतः परंमरणाद् इत्य् एवमादि । अनर्थोपसंहितत्वात् तद्यथा ये ते धर्मा अधर्मार्थब्रह्मचर्योपसंहितास् ते ऽभिसंबुद्धा अपि नोक्ता भगवता । तथाधर्मलक्षणव्यवस्थानतस् तद्यथा तथता संस्कारेभ्यो ऽन्यानन्यत्वेनावक्तव्या ॥
ब्. इइल्-2 म्स्.25ब्1म्, प्.235ब्7, द्.204ब्4, न्.219ब्6, छ्.363अ8
पञ्चविधा नास्तिता कतमा । परमार्थलक्षणनास्तिता स्वतन्त्रलक्षणनास्तिता सर्वेण सर्वं स्वलक्षणनास्तिता अविशेषलक्षणनास्तिता वक्तव्यलक्षणनास्तिता च ॥ ॥
अप्पेन्दिx इव्
आभिप्रायिकार्थगाथानिर्देश
अ. इ-1 म्स्1*अ1ल्, म्स्ग्.26ब्1म्, प्.245अ6, द्.212ब्5, न्.228ब्4, छ्.367अ6
(1) शिक्षासु पारमिप्राप्तः सर्वसंशयनाशकः ।
शिक्षां प्रब्रूहि मे पृष्टो या च शिक्षासु शिक्षणा ॥ इति ॥
ब्रह्मणा भगवान् सर्वशिक्षापदपर्यन्तप्राप्तितश् च स्वार्थसंपदम् असाधारणाम् आरभ्योत्पन्नोत्पन्नसर्वसत्त्वसंशयच्छेदकत्वेन चासाधारणां परार्थप्रतिपत्तिम् आरभ्य स्तुतिपूर्वं पृष्टः "काः कियत्यश् च शिक्षाः, कथं च तासु शिक्षितव्यम्" ॥
अ. इ-2 म्स्1*अ1र्, म्स्ग्.26ब्1म्, प्.245ब्1, द्.212ब्7, न्.229अ1, छ्.367अ13
ततो भगवान् बहुकृत्यताभीषणा अलसजातीयानां प्रोत्साहनाभिप्रायः सर्वशिक्षाः समस्य संक्षेपतस् तिसृभिः शिक्षाभिर् निर्दिशति ।
(2) अधिशीलम् अधिचित्तम् अधिप्रज्ञं च मारिष ।
तिस्रः शिक्षाः समासेन शृणु या तासु शिक्षणा ॥ इति ॥
तत्र शीलचित्तप्रज्ञा अधिकृत्य विक्षिप्तचित्तस्य अविक्षेपायोगोपदेशतो ऽधिशीलंशिक्षया, असमाहितचित्तस्य समाधानायोगोपदेशतो ऽधिचित्तंशिक्षया, समाहिताविमुक्तचित्तस्य विमोक्षायोगोपदेशतो ऽधिप्रज्ञंशिक्षया च, योगिनाम् सर्वकृत्यपरिसमाप्तेः, तास्व् एव तिसृषु शिक्षास्व् अन्तर्णीयाभिप्रायतो भगवता देशिताः ॥
अ. इ-3 म्स् 1*अ3म्, म्स्ग्.26ब्1र्, प्.245ब्7, द्.213अ4, न्.229अ5, छ्.367अ22
तासु पुनः शिक्षणा येन योगेन ताः शिक्षा निष्पादयति । तत्र
(3) भवेत् षडङ्गसंपन्नश् चतुःस्थितिसुखान्वितः ।
चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेत् ॥ इति ॥
अनया गाथया यथाक्रमं तासां तिसृणां शिक्षाणां प्रयोगं दर्शयति । "षडङ्गसंपन्न" इत्य् अधिशीलंशिक्षाम् अधिकृत्य शिक्षाणां षडङ्गानि । शीलवान् विहरति, प्रातिमोक्षसंवरसंवृतः, आचारसंपन्नः, गोचरसंपन्नः, अणुमात्रेष्व् अवद्येषु भयदर्शी, समादाय शिक्षते शिक्षापदेष्व् इत्य् एभिश् च षड्भिर् अङ्गैश् चतुर्विधा शीलविशुद्धिः परिदीपिता।

तत्र "शीलवान् विहरती"त्य् अधिकृत्य "प्रातिमोक्षसंवरसंवृत" इत्य् अनेन नैर्याणिकशीलता विशुद्धिः, मोक्षाधिकारिकं हि नैर्याणिकम् । "आचारगोचरसंपन्न" इत्य् एताभ्याम् अनुत्कृष्टशीलता विशुद्धिः । "अणुमात्रेष्व् अवद्येषु भयदर्शी"ति निश्छिद्रशीलता विशुद्धिः । "समादाय शिक्षते शिक्षापदेष्व्" इत्य् अविपर्यस्तशीलता विशुद्धिः ।
एवं षडङ्गसंपन्नतयाधिशीलंशिक्षाप्रयोगं निश्रित्य "चतुःस्थितिसुखान्वित" इत्य् अधिचित्तंशिक्षाप्रयोगं दर्शयति ।
चत्वारि ध्यानानि चतुर्विधा चित्तस्थितिः, सा च दृष्टधर्मसुखविहारत्वात् सुखेत्य् उच्यते ।
"चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेद्" इत्य् अधिप्रज्ञंशिक्षाम् अधिकृत्याह । चतुर्षु दुःखसमुदयनिरोधमार्गसत्येष्व् एकैकस्मिन्न् अनित्यादिचतुराकारज्ञानशुद्धिप्रभाषितत्वाद् अधिप्रज्ञंशिक्षायाः ॥
अ. इ-4 म्स्.1*अ7र्, म्स्ग्,26ब्2ल्, प्.246ब्2, द्.213ब्5, न्.230अ1, छ्.367ब्13
(4) सुप्रतिष्ठितमूलः स्याच् चित्तस्योपशमे रतः ।
संयुक्तो ऽथ विसंयुक्तो दृष्ट्या दृष्ट्यार्यपापया ॥ इति ॥
अनया गाथया शिक्षात्रयस्य क्रमेणोत्पत्तिं दर्शयति । मूलं ह्य् अधिशीलं ( श्भ् इइ 344 ) प्रथमा शिक्षा । तदन्वयत्वाद् उत्तरयोः ।
ततः शीलवतो ऽविप्रतिसाराद्यनुपूर्व्या चित्तसमाधानाभिरत्या द्वितीया ।
ततः समाहितचित्तस्य यथाभूतदर्शनाद् आर्यदृष्टिसंयोगतः पापदृष्टिवियोगतश् च तृतीया ॥
अ. इ-5 म्स्.र्ब्2ल्, म्स्ग्,26ब्2म्, प्.246ब्5, द्.214अ1, न्.230अ4, छ्.367ब्19
(5) आदिशुद्धो ध्यानरतः सत्ये च कुशलो भवेत् ।
उत्पादयेद् वर्जयेच् च बृंहयेत् सत्यम् एव च ॥ इति ॥
अनया गाथया तासाम् एव तिसृणां शिक्षाणां यथाक्रमं शुद्धिविशेषं दर्शयति । तत्र "आदिशुद्ध" इति प्रथमायाः । "ध्यानरत" इति द्वितीयायाः । "सत्ये च कुशल" इति तृतीयायाः । तत् पुनः "सत्यकौशल्यम् उत्पादयेद्" इति मार्गसत्यस्योत्पादनात् । "वर्जयेद्" इति दुःखसमुदयसत्ययोर् वर्जनात् । "बृंहयेद्" इति निरोधसत्यस्य पुनः पुनर् मृदुमध्याधिमात्रक्लेशप्रहाणनिरोधेन ब्र्ंहणात् ।
अ. इ-6 म्स्.1*ब्3र्, म्स्ग्,26ब्3ल्, प्.247अ1, द्.214अ4, न्.230अ7, छ्.367ब्26
(6) शिक्षापदेषु विद्यन्ते चतस्रो गतयस् त्रिषु ।
विवर्जयित्वा द्वे गती द्वे गती समुदानयेत् ॥ इति ॥
अनया गाथया शीलचित्तप्रज्ञाख्येषु शिक्षाधिष्ठानेषु शिक्षाणां संपादनविपादनाद्, यथासंभवं तत्फलभूता याश् चतस्रो गतयः,
कामधातौ देवमनुष्यसंगृहीता सुगतिर् अधिशीलसंपत्तिफला, कामधाताव् एव तदन्यगतिसंगृहीताधिशीलविपत्तिफला दुर्गतिः, रूपारूप्यधातौ देवगतिसंगृहीताधिचित्तफला ऊर्ध्वगतिः, त्रैधातुकापर्यापन्ना चाधिप्रज्ञफला निर्वाणगतिः ।
एताभ्यो गतिभ्य आद्ये द्वे सुगतिदुर्गती वर्जयित्वा, उत्तरे द्वे ऊर्ध्वगतिनिर्वाणगती समुदानयेल् लौकिकलोकोत्तराभ्यां मार्गाभ्याम् इत्य् एतद् दर्शयति ॥
अ. इइ म्स्. 1 *ब्5र्, म्स्ग्.26ब्3म्, प्.247अ7, द्.214ब्1 न्.230ब्5, छ्.367च्7
(7) द्वे द्वयप्रत्युपस्थाने एका निर्वाणगामिनी । अनुपूर्वोपनिषदभिन्नसंभिन्नभाविता ॥ इति ॥
अस्यां गाथायां यथाधिशीलाधिचित्तशिक्षयोः प्रथमायाश् चानुपूर्वेणाधिचित्ताधिप्रज्ञशिक्षाद्वयोपनिषद्भावेन प्रत्युपस्थानम् । मध्यमायाश् चाधिप्रज्ञध्यानसंवरसंगृहीताधिशीलशिक्षा द्वयोपणिषद्भावेन प्रत्युपस्थानम् । उत्तमायाश् चैकस्या निर्वाणोपनिषद्भावेन प्रत्युपस्थानम् । व्यस्तसमस्तानं च यथासंभवं भावनाम् । तद् दर्शयति ॥
अ. इइ-1 म्स्.र्ब्7र्, म्स्ग्.26ब्3म्, प्.247ब्3, द्.214ब्4, न्.231अ1, छ्.367च्14
(8) निष्कौकृत्यो भवेद् आदौ पश्चाच् च सुखितो यतः ।
आद्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ॥ इति ॥
अनया गाइहया यथाधिशीलंशिक्षा अविप्रतिसाराद्यानुपूर्व्या, उत्तरोपनिषद्भावेन वर्तते । तद् दर्शयति ॥
अ. इइ-2 म्स्.2ऽअ1म्, म्स्ग्.26ब्3र्, प्.247ब्4, द्.214ब्5, न्.231अ2, छ्.367च्16
(9) यतो विशोधयेज् ज्ञानं शुभोत्पत्तिसमन्वितः ।
मध्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ॥ इति ॥
अधिचित्तंशिक्षाया भावनामयविशिष्टकुशलमूलोत्पत्त्याद्यानुपूर्व्या ( श्भ् इइ 348 ) उत्तमशिक्षोपनिषत्त्वं दर्शयति ॥
अ. इइ-3 म्स्.2*अ2ल्, म्स्ग्.26ब्4ल्, प्.247ब्6, द्.214ब्6, न्.231अ4, छ्.367च्20
(10) यतो विमोचयेच् चित्तं प्रपञ्चं च निरोधयेत् ।
श्रेष्ठासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः ॥ इति ॥
अधिप्रज्ञंशिक्षाया निर्वाणोपनिषत्त्वाच् छ्रेष्ठत्वं दर्शयति ॥
अ. इइ-4-अ म्स्.2*अ2म्, म्स्ग्.26ब्4म्, प्.247ब्7, द्.214ब्7, न्.231अ5, छ्.367च्23
(11) अशुद्धिगामिनी प्रतिपत् तथा सुगतिगामिनी ।
आद्या प्रतिपद् उक्तेयं सा च निष्केवला मता ॥ इति ॥
यथाधिशीलंशिक्षा विपादिता दुर्गतिहेतुः, संपादिता च सुगतिहेतुः, केवलापि च विनोत्तराभ्यां शिक्षाभ्यां शक्यते संपादयितुम् । तद् दर्शयति ॥
अ. इइ-4-ब् म्स्.2*अ3म्, म्स्ग्.26ब्4र्, प्.248अ1, द्.215अ2, न्.231अ6, छ्.367च्26

(12) विशुद्धिगामिनी प्रतिपन् न सर्वात्यन्तगामिनी ।
मध्या प्रतिपद् उक्तेयं मापि निष्केवला मता ॥ इति ॥
यथा मध्यमा प्रतिपत् कामधातुवैराग्यविशुद्ध्या विशुद्धगामिनी, ऊर्ध्वधात्ववैराग्यात् कामरागानुशयस्य चात्यन्त [म फ्यिन् पऽइ फ्यिर् । थम्स् चद् ग्तन् दु र्नम् पर् दग् पर् ऽग्रो ब म यिन् प दङ् । जि ल्तर् म्छोग् मेद् चिङ् दङ् पो मेद् पर् ऽबऽ źइग् गिस् ऽग्रुब् पर् मि ऽग्युर् ब दे स्तोन् तो ॥]
अ. इइ-4-च् म्स्-, म्स्ग्.26ब्5ल्, प्.248अ4, द्.215अ4, न्.231ब्1, छ्.368अ2
(13) विशुद्धगामिनी प्रतिपद् या सर्वात्यन्तगामिनी ।
श्रेष्ठा प्रतिपद् उक्तेयं स नैवाद्वयकेवल ॥ [चेस् ब्य ब नि ।
खम्स् ग्सुम् पऽइ ऽदोद् छग्स् दङ् ब्रल् ब दङ् । बग् ल ञल् यङ् ग्तन् फ्यिन् प दङ् जि ल्तर् म्छोग् दे थम्स् चद् ग्तन् दु ऽग्रो ब यिन् ल । स्ङ म ग्ञिस् मेद् पर् यङ् ग्चिग् पुस् ऽग्रुब् पर् मि ऽग्युर् ब दे स्तोन् तो ॥]
अ. इइल्-1 म्स्.2*अ4ल्, म्स्ग्.26ब्5म्, प्.248अ6, द्.215अ5, न्.231 ब्3, छ्.368अ5
(14अ) शिक्षेत यो न शिक्षेत उभौ तौ पण्डितौ मतौ ।
[zएस् ब्य बऽइ त्स्हिग्स् सु ब्चद् प फ्येद् क्यिस् नि ब्स्लब् प ग्सुम् पो ऽदि दग् ल ब्स्लब् प र्नम्स् यङ् दग् पर् स्लोब् क्यि । लोग् पर् मि] शिक्षणात् पण्डितलक्षणं दर्शयति ।
(14ब्) शिक्षेत यो न शिक्षेत उभौ तौ बालसंमतौ ॥ इति ॥
उत्तरार्धेन मिथ्याशिक्षाणां नैव च शिक्षाणां बाललक्षणं दर्शयति ॥
अ. इइल्-2 म्स्.2*अ4म्, म्स्ग्.26ब्5म्, प्.248अ8, द्.215अ7, न्.231ब्5, छ्.368अ11
(15) परिग्रहपरित्यागाद् दौष्ठुल्यापगमात् तथा ।
प्रत्यक्षत्वाच् च ज्ञेयस्य शिक्षादानं त्रिधा भवेत् ॥ इति ॥
यस्य गृहकलत्रादिपरिगृहीतपरित्यागाद् यस्य समाधिविपक्षस्य दौष्ठुल्यस्य प्रहाणाद् यस्य च चतुःसत्यलक्षणस्य ज्ञेयतत्त्वस्य प्रत्यक्षीकरणाद् यथाक्रमं शिक्षात्रयं संपद्यते, तद् दर्शयति ॥
अ. इइल्-3 म्स्.2*अ5म्, म्स्ग्.26ब्5र्, प्.248ब्3, द्.215ब्1, न्.231ब्7, छ्.368अ16
(16अ) सालम्बनानालम्बनाः सूक्ष्मौदारिकसंहिताः ॥ इति ॥
अनेन गाथार्धेनोत्तमयोः प्रथमायाश् च यथाक्रमं सालम्बनानालम्बनत्वेन सूक्ष्मौदारिकत्वेन प्रभेदं दर्शयति ॥
(16ब्) समादानप्राविवेक्यघोष-आभोगसंहृताः ॥ इति ॥
उत्तरार्धेन प्रथममध्यमोत्तमानां यथाक्रमं प्रतिज्ञानाभिनिर्हृतत्वं कायचित्तविवेकाभिनिर्हृतत्वं परघोषाध्यात्मयोनिशोमनस्काराभिनिर्हृतत्वं च दर्शयति ॥
अ. इइल्-4 म्स्.2*अ6र्, म्स्ग्.26ब्6ल्, प्.248ब्6, द्.215ब्4, न्.232अ3, छ्.368अ21
(17) एका एका भवेच् छिक्षा सद्वितीयापरा भवेत् ।
एका स्यात् सतृतीयैव ता बुधः समतिक्रमेत् ॥ इति ॥
प्रथमाम् एकां केवलाम् उपदर्शयति । मध्यमा तु न विना ताम्, उत्तमा न विना ते । ताभ्यश् च समतिक्रमो ऽशैक्षस्यार्हतो वेदितव्यः ॥
अ. इव्-1 म्स्.2*अ7म्, म्स्ग्.26ब्6म्, प्.248ब्8, द्.215ब्5, न्.232अ4, छ्.368अ24
(18) अभ्रष्टशीलः शिक्षासु प्रतिज्ञोपगतो भवेत् ।
अगर्हितसमाचारः पञ्चस्थानविवर्जितः ॥ इति ॥
"अभ्रष्टशीलः शिक्षास्व्" इति शीलवान् विहरतीत्य् एतद् दर्शयति । "प्रतिज्ञोपगतो भवेद्" इति प्रतिमोक्षसंवरसंवृतत्वम् । "अगर्हितसमाचार"ऽ इत्य् आचाराविपत्तिम् । "पञ्चस्थानविवर्जित" इति गोचराविपत्तिम् । पञ्चस्थानानि भिक्षोर् अगोचरः, राजकुलं घोषः पानागारं वेशश् चण्डालकठिनं च । तत्र घोषः सूना द्रष्टव्या । तत्रोद्घोषौरभ्रिकादिभिर् अभ्यस्तावद्यं पापकर्मोरभ्रादिवधः क्रियते ॥
अ. इव्-2 म्स्.2*ब्1ल्, म्स्ग्.26ब्6र्, प्.249अ5, द्.216अ2, न्.232ब्1, छ्.368ब्4
(19अ) अनापत्ताथ व्युत्थाता निष्कौकृत्यो ऽथ कौकृती । इति ॥
अणुमात्रेष्व् अवद्येषु भयदर्शितां दर्शयति । तत्र यथा व्युत्थाता तथा निष्कौकृत्यः, यथा कौकृती तथानापत्ता ॥
(19ब्) शिक्षाम् आगमयेत् तत्र प्रतिपद्येत भावतः ॥ इति ॥
समादाय शिक्षते शिक्षापदेष्व् इति, एतद् दर्शयति ॥
अ. इव्-3 म्स्.2*ब्1र्, म्स्ग्.26ब्7ल्, प्.249अ7, द्.216अ3, न्.23ब्3, छ्.368ब्7
(20) प्रत्याख्यानं न कुर्वीत जीवितार्थं न नाशयेत् ।
प्रतिपत्तौ स्थितो नित्यं प्रवृत्तविनयो भवेत् ॥ इति ॥
अनया गाथया चतुर्भिः पदैर् यथाक्रमं ध्रुवशीलतां दृढशीलतां साततकारितां साततवर्तितां च दर्शयति ॥
अ. इव्-4 म्स्.2*ब्2म्, म्स्ग्.26ब्7म्, प्.249ब्1, द्.216अ4, न्.232ब्4, छ्.368ब्10
(21अ) प्रतिज्ञां शोधयेत् पूर्वम् आजीवम् अपि शोधयेत् । इति ।

अनेन गाथार्धेन आचाराजीवविशुद्धिं दर्शयति । आचारस्य हि प्रतिज्ञापूर्वकम् आचरणम् इति प्रतिज्ञेत्य् उच्यते ।
(21ब्) अन्तद्वयं वर्जयित्वा प्रणिधानं विवर्जयेत् ॥ इति ॥
कामसुखल्लिकानुयोगान्तात्मक्लमथानुयोगान्तयोः स्वर्गादिप्रणिधानस्य च विवर्जनाच् छीलविशुद्धिम् एव दर्शयति ॥
अ. व्-1-अ म्स्.2*ब्3म्, म्स्ग्.26ब्7र्, प्.249ब्3, द्.216अ6, न्.232ब्6, छ्.368ब्15
(22) अन्तरायकरान् धर्मान् नाभिगृध्येत् कथंचन ।
चित्तक्षोभकरान् धर्मान् उत्पन्नान् नाधिवासयेत् ॥ इति ॥
अनया गाथया, इन्द्रियागुप्तद्वारतादीनां शिक्षाविशुद्ध्यन्तरायकराणाम् अगुणदर्शित्वेनानध्यवसानात् । अकुशलानां च कामव्यापादवितर्कादीनां मनःसंक्षोभकराणाम् उत्पन्नानाम् अनधिवासनेन शिक्षाविशुद्धिं दर्शयति ॥
अ. व्-1-ब् म्स्.2*ब्4म्, म्स्ग्.26ब्7र्, प्.249ब्6, द्.216ब्1, न्.233अ1, छ्.368ब्20
(23) नातिलीनो नातिसृतः सदा सूपस्थितस्मृतिः ।
मूलसामन्तकैः शुद्धं ब्रह्मचर्यं चरेद् अपि ॥ इति ॥
मन्दकौकृत्यास्थानकौकृत्यविवर्जनया स्मृतिसंप्रमोषविवर्जनया च निष्ठाकालप्रयोगकालयोर् ब्रह्मचर्यशुद्धिं परिदीपयति ॥
अ. व्-1-च् म्स्.2*ब्5ल्, म्स्ग्.26ब्8ल्, प्.249ब्7, द्.216ब्2, न्.233अ3, छ्.368द्
(24) भवेद् आरब्धवीर्यश् च नित्यं दृढपराक्रमः ।
निषेवेताप्रमादं च पञ्चाङ्गं सुप्रतिष्ठितः ॥ इति ॥
संनाहप्रयोगाव्यावर्त्यवीर्यतया पञ्चविधाप्रमादनिषेवणतया च शिक्षाविशुद्धिविशेषम् एवं दर्शयति । तत्र पञ्चाङ्गो ऽप्रमादो ऽतीतानागतप्रत्युत्पन्नपूर्वकालकरणीयसहानुचरः ॥
अ. व्-1-द् म्स्.2*ब्6ल्, म्स्ग्.26ब्8म्, प्.250अ2, द्.216ब्4, न्.233अ5, छ्.368च्10
(25) भवेत् प्रच्छन्नकल्याणस् तथा विवृतपापकः ।
लूहेन वा प्रणीतेन तुष्टः स्याच् चीवरादिना ॥
(26) अल्पेन वर्तयेद् यात्रां लूहेनापि च वर्तयेत् ।
धूतान् गुणान् समादद्यात् शमार्थं क्लेशवर्जितः ॥
एताभ्यां गाथाभ्यां ज्ञात्रकामताया महेच्छतासंतुष्टिहेतुभूतायाः, तयोश् च महेच्छतासंतुष्ट्योः शिक्षाविशुद्धिविबन्धहेत्वोः परिवर्जनेन शिक्षाविशुद्धिं दर्शयति ॥
अ. व्-1-ए म्स्.2*ब्7म्, म्स्ग्.27अ1म्, प्.250अ5, द्.216ब्6, न्.233अ7, छ्.368च्15
(27) स्याद् ईर्यापथसंपन्नो मात्रां कुर्यात् प्रतिग्रहे ।
तदर्थं कल्पिताम् ईर्यां कुर्यान् नैव कथंचन ॥ इति ॥
ईर्यापथसंपत्त्या परेषाम् अकुहनार्थया प्रतिग्रहमात्रज्ञतया च यावद् ब्रह्मचर्यवासाज् जीवितस्थित्युपकरणोपादानाच् छिक्षाविशुद्धिम् एव दर्शयति ॥
अ. व्-1-f म्स्.2*ब्8ल्, म्स्ग्.27अ1म्, प्.250अ7, द्.216ब्7, न्.233ब्2, छ्.368च्19
(28) आत्मनश् च गुणान् भूतान् न लपेन् नापि लापयेत् ।
तान् गुणान् अथ चार्थित्वं निमित्तेन न दर्शयेत् ॥
(29) परेषाम् अन्तिकात् कुर्यान् नोपरोधेन याचनाम् ।
धर्मणोपगतं लाभं लाभेनेह न संचयेत् ॥ इति ॥
एताभ्यां गाथाभ्यां लपनानैमित्तिकतानैष्पेशिकतालाभेनलाभनिश्चिकीर्षुकतापरिवर्जनेन शिक्षाविशुद्धिविशेषं दर्शयति ॥
अ. व्-1-f-(1) म्स्.3*अ1ल्, म्स्ग्.27अ2ल्, प्.250ब्1, द्.217अ1, न्.233ब्4, छ्.368च्24
(30) लाभं नैवाभिगृध्येत सत्कारं च कथंचन ।
दृष्टिं च नाभिनिविशेत् समारोपापवादिकाम् ॥ इति ॥
लाभसत्कारागृद्धतया पञ्चविधकुदृष्ट्यनभिनिवेशतश् च विशुद्धिविशेषं दर्शयति ॥
अ. व्-1-f-(2) म्स्.3*अ1म्, म्स्ग्.27अ2म्, प्.250ब्3, द्.217अ3, न्.233ब्5, छ्.368च्27
(31) लोकायतांस् तथा मन्त्रान् निरर्थान् न परामृशेत् ।
अपार्थं धारयेन् नैव उत्सदं पात्रचीवरम् ॥ इति ॥
कुदृष्टिहेतूनाम् इतोबाह्यककुशास्त्राणां पञ्चोपादानस्कन्धविप्रतिबन्धार्थेन लोकायतकृतानाम् अपरामर्षतः, लाभसत्कारगृद्धिहेतोश् च उत्सदपात्रचीवरधारणस्य परिवर्जनतो हेतुविशुद्ध्या शिक्षाविशुद्धिं दर्शयति ॥
अ. व्-1-ग् म्स्.3*अ2म्, म्स्ग्.27अ2र्, प्.250ब्6, द्.217अ5, न्.234अ1, छ्.369अ5

(32) गृहस्थैः सहसंसर्गं न कुर्यात् क्लेशवर्धनम् ।
आर्यैस् तु सहसंसर्गं कुर्याज् ज्ञानविशोधनम् ॥ इति ॥
विपक्षहेतोः प्रतिपक्षहेतोश् च वर्जनात् सेवनाच् च विशुद्धिं दर्शयति ॥
(33) कुर्यान् मित्रकुलं नैव शोकव्याक्षेपकारकम् ।
दुःखस्य जनकान् क्लेशान् उत्पन्नान् नाधिवासयेत् ॥ इति ॥
यथा गृहस्थैः सहसंसर्गः शोकव्याक्षेपं कृत्वा क्लेशविवर्धनो दुःखहेतुः, यथा चार्यसंसर्गो दुःखजनकक्लेशोत्पन्नानधिवासनया प्रतिपक्षहेतुः, तद् दर्शयति ॥
अ. व्-1-ह् म्स्.3*अ3र्, म्स्ग्.27अ3म्, प्.251अ2, द्.217ब्1, न्.234अ4, छ्.369अ13
(34) श्रद्धादेयं न भुञ्जीत कथंचिच् च क्षतव्रतः ।
प्रत्याख्यानं न कुर्वीत सद्धर्मस्य कथंचन ॥ इति ॥
लाभसत्कारानभिगृद्धेः कुदृष्ट्यनभिनिवेशस्य च श्रद्धादेयाविनिपातनेन सद्धर्माप्रतिक्षेपणेन चायत्याम् अपि कामाध्यवसानकुदृष्ट्युत्पादहेतुपरिवर्जनतो विशुद्धिविशेषं दर्शयति ॥
अ. व्-1-इ म्स्.3*अ4र्, म्स्ग्.27अ3म्, प्.251अ4, द्.217ब्3, न्.234अ6, छ्.369अ18
(35) परेषां स्खलिते दोषे अनाभोगः सुखी भवेत् ।
आत्मनः स्खलितं दोषं ज्ञात्वा विवृणुयात् पुनः ॥ इति ॥
परेषां च दोषदर्शनाभोगविवर्जनेन, स्वकुशलपक्षाविक्षेपसौमनस्योत्पत्त्या, आत्मदोषपरिज्ञानाविष्करणेन च निरभिमानतया शिक्षाविशुद्धिं दर्शयति ॥
अ. व्-1-ज् म्स्.3*अ5र्, म्स्ग्.27अ3र्, प्.251अ6, द्.217ब्4, न्.234अ7, छ्.369अ23
(36) आपत्तिं च तथापन्नो यथाधर्मं प्रकल्पयेत् ।
तथेतिकरणीयेषु स्वयंकारी पटुर् भवेत् ॥ इति ॥
आपत्तिव्युत्थानतः परेभ्यश् चोपस्थानपरिचर्यास्वीकरणकामतापरिवर्जनतो ऽपि विशुद्धिं दर्शयति ॥
अ. व्-1-क् म्स्.3ऽअ6म्, म्स्ग्.27अ4ल्, प्.251अ8, द्.217ब्5, न्.234ब्2, छ्.369अ26
(37) बुद्धानां श्रावकाणां च अनुभावं च देशनाम् ।
श्राद्धो ऽवद्यदर्शी च नाभ्याचक्षीत सर्वथा ॥ इति ॥
श्रद्धासंपत्त्या अभ्याख्याने चावद्यदर्शितया विशुद्धिः परिदीपिता ॥
अ. व्-1-ल् म्स्.3*अ6र्, म्स्ग्.27अ4म्, प्.251ब्1, द्.217ब्6, न्.234ब्3, छ्.369अ29
(38) सुगम्भीरेषु धर्मेषु अतर्कावचरेषु च ।
पौराणम् आगमं त्यक्त्वा स्वदृष्टिं न परामृशेत् ॥ इति ॥
स्वयंदृष्टिपरामर्षस्थायित्वपरिवर्जनतो ऽपि विशुद्धिविशेषः परिदीपितः ॥
अ. व्-2-अ म्स्.3*अ7म्, म्स्ग्.27अ4र्, प्.251ब्3, द्.217ब्7, न्.234ब्4, छ्.369ब्3
(39) व्यवकृष्टविहारी स्यात् प्रान्ते हि शयनासने ।
कुशलान् भावयेद् धर्मान् दृढवीर्यपराक्रमः ॥ इति ॥
कायचित्तस्य व्यवकृष्टतया समाध्यनुकूलशयनासनासेवनतया अकुशलवितर्कवर्जितैकान्तशुक्लधर्मभावनया लयौद्धत्याद्युपक्लेशानभिभवनीयत्वेन च सुसंनद्धप्रयोगतयाधिचित्तंशिक्षणोपायविशेषं दर्शयति ॥
अ. व्-2-ब् म्स्.3*अ8ल्, म्स्ग् 27अ5ल्, प्.251 ब्6, द्.218अ2, न्.234ब्6, छ्.369ब्8
(40) अच्छन्दिकश् छन्दजातः अप्रदुष्टो विदूषणः ।
निर्मिद्धश् चैव मिद्धीव काले शान्तो न च स्थितः ॥
(41) निष्कौकृत्यः सकौकृत्यो निःकाङ्क्षो ऽथ च काङ्क्षति ।
सर्वथा सर्वदा युक्तो भवेत् संयक्प्रयोगवान् ॥ इति ॥
आभ्यां गाथाभ्यार्ह्* कामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकwकृत्यविचिकित्सानिवरणपरिवर्जनात् कुशलधर्मच्छन्दिकतया कामविदूषणेन, कुशलपक्षप्रयोगकल्यतानिमित्तं च काले मिद्धनिषेवणेन, चित्तं शमयतश् च लीयमाने चित्ते तदाशङ्किनि वा प्रसदनीयनिमित्तमनसिकाराच् छमानवस्थितत्वेन, चारगतस्य च प्राग् आपत्तेस् तदनध्याचारतः सकौकृत्यतया, उत्तरोत्तरविशेषाकाङ्क्षणतया च सत्कृत्यसातत्येन च संयक्प्रयुक्तस्य चाधिचित्तंशिक्षाविशुद्धिं दर्शयति ॥
अ. व्-2-च् म्स्.3*ब्1म्, म्स्ग्.27अ5म्, प्.252अ3, द्.218अ6, न्.235अ3, छ्.369ब्18
(42) नुदनो बोधनश् चैव तथा संयोजनो ऽपरः ।
नैमित्तिकस्नेहनश् च तथा विलसनो ऽपरः ॥
(43) निष्पीडनश् च परमः स्नेहनः कल्प उच्यते ।

कामरागस्य जनकस् तं बुधः परिवर्जयेत् ॥ इति ॥
अत्राष्टविधस्य विकल्पस्य मैथुनरागजनकस्यादाव् आरभ्य क्रमेणोत्पद्यमानस्य यावन् निष्ठागमनतः परिवर्जनया शिक्षाविशुद्धिविशेषः परिदीपितः ।
तत्र नुदनो विकल्पो यो रञ्जनीये वस्तुन्य् अयोनिशोमनस्कारसंप्रयुक्तश् चित्तस्य प्रेरकः । बोधनो यस् तस्मिन्न् एव वस्तुनि प्रबुद्धरागपर्यवस्थानसंप्रयुक्तः । ( श्भ् इइ 366 ) संयोजनस् तस्यैव वस्तुनः पर्येषकः । नैमित्तिकस् तस्मिन्न् एव वस्तुनि विचित्रशुभनिमित्तग्रहकः । स्नेहनः प्राप्ते तस्मिन् वस्तुन्य् अध्यवसानसंप्रयुक्तः । विलसनो यस् तस्मिन्न् एव वस्तुनि विचित्रपरिभोगाभिलाषनानामुखप्रवृत्तः । निष्पीडनो यो द्वयद्वयेन्द्रियसमापत्तिकाले । परमस्नेहनो यो ऽशुचिविप्रमोक्षकाले ॥
अ. व्-2-द्-(1) म्स्.3ऽब्3र्, म्स्ग्.27अ6ल्, प्.252ब्2, द्.218ब्3, न्.235ब्1, छ्.369च्4
(44) अतृप्तिकरकाः कामाः बहुसाधारणास् तथा ।
अधर्महेतवश् चैव तथा तृष्णाविवर्धकाः ॥
(45) सतां विवर्जनीयाश्च क्षिप्रं विलयगामिनः ।
प्रत्ययेष्व् आश्रिताः कामाः प्रमादस्य च भूमयः ॥ इति ॥
अष्टाभिर् आकारैर् दृष्टे धर्मे संपराये च यथायोगं कामानाम् आदीनवदर्शनेन कामच्छन्दप्रहाणोपायं दर्शयति ॥
अ. व्-2-द्-(2) म्स्.3*ब्4म्, म्स्ग्.27अ6र्, प्.252ब्4, द्.218ब्5, न्.235ब्3, छ्.369च्8
(46) करङ्कसदृशाः कामाः मांसपेश्युपमास् तथा ।
तृणोल्कासदृशाश् चैव तथा अग्निशिखोपमाः ॥
(47) आशीविषोपमाश् चैव तथा स्वप्नोपमाः पुनः ।
याच्ञालंकारसदृशास् तथा वृक्षफलोपमाः ॥
(48अ) एवं कामान् परिज्ञाय नाभिगृध्येत् कथंचन ॥ इति ॥
अत्र पूर्वोक्तानाम् अष्टानाम् अतृप्तिकरत्वादिनां कामेष्व् आदीनवानाम् सर्वलोकसिद्धैर् उपमोपन्यासैर् आदीनवत्वं दर्शयति । ये नामैवं बहुष्व् आविष्कृतादीनवाः कथं नाम तेषु पण्डितो गृध्येद् इति संदर्शनार्थम् ।
तत्रातृप्तिकरकाः करङ्कसदृषत्वात् । बहुसाधारणा मांसपेश्युपमत्वात् । अधर्महेतवस् तृणोल्कासादृश्येनात्यक्तादहनप्रत्युपस्थानतया । तृष्णाविवर्धना अग्निखदोपमतया तृष्णासंजननसाधर्म्येण । ( श्भ् इइ 368 ) सतां वर्जनीया आशीविषोपमतया । क्षिप्रं विलयगामिनः स्वप्नोपमतया । प्रत्ययाश्रिता याच्ञालंकारसदृशतया । प्रमादभूमयो वृक्षाग्रफलोपमतया ॥
अ. व्-3 म्स्.3*ब्6र्, म्स्ग्.27अ7म्, प्.253अ2, द्.219अ3, न्.236अ1, छ्.369च्22
(48ब्) सद्धर्मं शृणुयान् नित्यं चिन्तयेद् भावयेद् अपि ।
(49) शान्तौदारिकदर्शी प्राग् भावनैकान्तिको भवेत् ।
विजह्य क्लेशदौष्ठुल्यं प्रहाणे च रतो भवेत् ॥
(50) मीमांसकः स्यान् निमित्ते प्रयोगपरमो भवेत् ।
कुर्याच् च कामवैराग्यं रूपवैराग्यम् एव च ॥
(51) सत्याभिसमयं कुर्यात् सर्ववैराग्यम् एव च ।
दृष्टे धर्मे च निर्वायात् तथा उपधि संक्षयात् ॥ इति ॥
अत्र लक्षणप्रतिसंवेद्यादिभिः सप्तभिर् मनस्कारैर् लौकिकलोकोत्तरमार्गविशुद्ध्या सोपधिनिरुपधिनिर्वाणफलाधिप्रज्ञंशिक्षाविशुद्धिः परिदीपिता ।
तत्र लक्षणप्रतिसंवेदी सद्धर्मश्रवणचिन्तनवचनेन परिदीपितः । अधिमोक्षिको भावनावचनेन । तदधिमुक्तिभावनतः । शान्तौदारिकदर्शी प्राग् इति प्राविवेक्यः । भावनैकान्तिको भवेद् इति रतिसंग्राहकः । मीमांसकः स्यान् निमित्त इति मीमांसामनस्कारः । प्रयोगपरमो भवेद् इति प्रयोगनिष्ठः । कुर्याच् च कामवैराग्यं रूपवैराग्यम् एव च । सत्याभिसमयं कुर्यात् सर्ववैराग्यम् एव चेति लौकिकलोकोत्तरप्रयोगनिष्ठाफलं च ॥
॥ आभिप्रायिकार्थगाथानिर्देशः समाप्तः ॥

मूल पाठ: Śrāvakabhūmi · Edition: Srāvakabhūmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Śbh I and Srāvakabhūmi, The Second Chapter with Asamāhitā bhūmiḥ, Śrutamayī bhūmiḥ, Cintāmayī bhūmiḥ, Revised Sanskrit Text and Japanese Translation, ed. Śrāva · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc