भाषा

ENहिગુ
ग्रंथ पाठ

स्फुटार्था अभिधर्मकोशव्याख्या · भाग 81100

उदके मज्जत्य्
असंस्कृतत्वात्.
तद् एव
पुनर् लोहं
पात्रीकृतं
सन्
महज्
जातम् उदके
प्लवते
तरति. तदभिसंस्कारगुणात्. एवम् अबुधो गुणैर् अपात्रीकृतत्वान् मज्जति. न तु बुधो गुणैः पात्रीकृतत्वाद् इति.
यस्मात् परेण दुःखं नास्तीति. यस्माद् दुःखात् परेण दुःखं नास्ति भवांतरसंगृहीतं. स दुःखस्यांतो दुःखावसानम् इत्य् अर्थः. अन्यथा हि मरणकाले दुःखस्यांतो भवति. सप्रतिसंधिकं तु तद् दुःखम्. अत आह. अप्रतिसंधिकं दुःखं करोतीत्य् अर्थ इति. कथं निर्वाणं करोतीति. नित्यत्वात् करणं न युज्यत इत्य् अभिप्रायः. तत्प्राप्तिविबंधापनयनाद् इति. निर्वाणप्राप्तिविबंधापनयनात्. तत्प्राप्तेर् विबंधः क्लेशप्राप्तिर् उपधिर् वा तदपनयनान् निर्वाणं करोति. तद्यथाकाशं मण्डपावस्थाने न लक्ष्यते. सति तस्य विबंधे. तदपनयनान् नित्यम् अप्य् आकाशं करोतीत्य् उच्यते. तेनाह. यथाकाशं कुरु मण्डपं पातयेति भवंति वक्तार इति. अन्यो ऽपि वेति पृथग्जनः परिपक्वसंतानः न तु नियत इति. कदाचिद् इहैव परिनिर्वायात् अंतराभवेषु चेत्य् अतो नोच्यते.
(वि.36) द्वित्रिजन्मेति.
द्वे वा त्रीणि वा जन्मान्य् अस्येति [तिब्. 217अ] द्वित्रिजन्मा. केचिद् एवं पठंति. द्वित्रजन्मेति. द्वे वा त्रीणि वा द्वित्राणि. संख्ययाव्ययासन्नादूराधिकसंख्याः ( अभिध्-क्-व्य् 556 ) संख्येय इति समासः. बहुव्रीहौ संख्येये डज् इति समासांतः. द्वित्रान्यजन्मान्य् अस्येति द्वित्रजन्मेति. श्लोके तु द्वयोर् ग्रहणम् इति. क्लेशप्रहाणजन्मनोः. कस्माद् इत्य् आह. स्रोतआपन्नस्यानुपूर्विकस्य दर्शनप्रहातव्येषु प्रहीणेषु भावनाप्रहातव्यानां क्लेशानाम् एकस्य प्रकारस्य यावच् चतुर्णां पश्चात् प्रहाणे सति. तत्प्रतिपक्षस्यैकद्वित्र्यादिक्लेशप्रकारप्रतिपक्षस्यानास्रवस्येन्द्रिगस्य लाभस् तस्यानुक्तसिद्धत्वात् श्लोकेन तस्याग्रहणं. न हि विना प्रतिपक्षेण क्लेशप्रकारप्रहाणम् अस्ति. लौकिकेनापि हि मार्गेण तस्यार्यस्य क्लेशप्रकारप्रहाणे ऽनास्रवस्य तत्प्रतिपक्षस्येन्द्रियस्य लाभो भवति. जन्म तु कदाचिद् अल्पीयः स्यात्. यदीहैव परिनिर्वायात् अंतराभवे उपपद्य वा. किं कारणं. परेण भव्यत्वात्. स्रोतआपत्तिफलात् परेण सकृदागामित्वस्य यावद् अर्हत्त्वस्य भव्यत्वात्. अतो ऽस्य जन्मनो ग्रहणं.
द्वित्रिजन्मा कुलंकुल
इति.
नियमार्थम् इदम् इह विचार्यते. य एकद्विविधमुक्तः. स किं भवति. कुलंकुल इत्य् एके.
त्रिचतुर्विधमुक्त-
ग्रहणं तु उदाहरणार्थः. परिमाणार्थं वा नातः परेणेति. एकद्विविधमुक्तः पंचषट्जन्मेत्य् अपरे. [तिब्. 217ब्] त्रिचतुर्विधमुक्त इति विशेषपरिग्रहात्. नैतद् व्याख्यानकारैर् विचारितम् इति विचार्यम् एतत्.
कस्मान् न पंचप्रकारप्रहाणात्. किं. कुलंकुलो भवतीत्य् अधिकारः. तत्प्रहाण इति विस्तरः. पंचप्रकारप्रहाणे षष्ठयापि प्रकारस्यावश्यं प्रहाणात्. कस्माद् इत्य् आह. न हि तस्यैकः प्रकारः षष्ठः फलं सकृदागामिफलं विघ्नयितुं समर्थ इति. एकवीचिकस्येवेति. विपरीतदृष्टांत एषः. यथैकवीचिकस्यैकः प्रकारो नवमो ऽनागामिफलं विघ्नयितुं समर्थः. नैवम् अस्य स्रोतआपन्नस्य षष्ठः प्रकारः सकृदागामिफलं विघ्नयितुं समर्थ इति. कस्माद् इत्य् आह. धात्वनतिक्रमाद् इति. एकवीचिको हि कामधातुम् अतिक्रामति. अतो ऽस्यैको ऽपि प्रकारो नवमः फलं विघ्नयितुं समर्थो धात्वतिक्रमस्य दुष्करत्वात्. सकृदागामी तु धातुं नातिक्रामतीति. न तस्यैकः क्लेशः प्रकारः षष्ठः फलं विघ्नयितुं समर्थ इति.
तत्र वान्यत्र वा देवनिकाय इति. तद्यथा त्रायस्त्रिंशेषु सत्यानि दृष्ट्वा द्वे त्रीणि वा कुलानि संसृत्य. तत्रैव त्रायस्त्रिंशेषु परिनिर्वाति. अन्यत्र वा. ( अभिध्-क्-व्य् 557 ) चातुर्महाराजकायिकेषु यामेषु वा परिनिर्वाति. एवम् अन्यत्रापि योज्यं. रागद्वेषमोहानां तनुत्वाद् इत्य् उच्यत इति सूत्रे. कथं. त्रयाणां सम्योजनानां [तिब्. 218अ] प्रहाणात् रागद्वेषमोहानां च तनुत्वात् सकृदागामीभवतीति. मृदुप्रकारावशेषत्वाद् इति. मृद्वधिमात्रो मृदुमध्यो मृदुमृदुर् इत्य् एतन्मात्रावशेषत्वात्.
(वि.37) क्षीणसप्ताष्टदोषांश
इति. दोषांशो दोषावयवः सप्ताष्टप्रकारलक्षणः. इन्द्रियत इति चात्र तृतीयं कारणं न सूत्रितं तथैव व्याख्येयं. कथम् अस्येति विस्तरः. कथम् अस्यैकवीचिकस्यैकप्रकारो नवमः फलं विघ्नयितुं समर्थो न हि कुलंकुलस्यैकः प्रकारः फलं विघ्नयितुं समर्थ इति. उच्यते. धात्वतिक्रमात्. यस्माद् असौ नवमे प्रकारे प्रहीणे कामधातुसमतिक्रांतो भवति. न पुनस् तत्रोपपद्यते. स च नवमः प्रकारः कर्मणा सह तत्रोपपद्यवेदनीय इत्य् अतस् तद्विपाकनिष्यन्दफलभूम्यतिक्रमात् फलं विघ्नयितुं समर्थो भवति. अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठंत इत्य् उक्तं प्राक्.
क्षांत्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृद्
इति. इह तु क्लेशेषु योजयितव्यं. अत एवाह. यथा कर्माणि. एवं क्लेशा इत्यादि. तस्यवैकजन्मव्यवहितत्वाद् इति. तस्य क्षीणसप्ताष्टप्रकारस्य सकृदागामिनः. एकेन जन्मना वावहितत्वान् निर्वाणस्य. एकेन वा क्लेशप्रकारेण व्यवहितम् अस्यानागामिफलम् इत्य् [तिब्. 218ब्] एकवीचिकः. न तावत् कुलंकुलो भवत्य् एकवीचिको वेति. लौकिकेन मार्गेण पूर्वं त्रिचतुर्विधमुक्तो ऽपि न तावत् कुलंकुलो भवति. क्षीणसप्ताष्टप्रकारो ऽपि न तावद् एकवीचिको भवति. तत्प्रतिपक्षानास्रवेन्द्रियलाभस्याभावात्. अत एवाह. यावत् फलविशिष्टो मार्गो न संमुखीकृत इति. फलविशिष्टे तु तत्प्रतिपक्षे तदूर्ध्वप्रकारप्रतिपक्षे वा संमुखीकृते तदानास्रवेन्द्रियलाभात्. कुलंकुलो भवत्य् एकवीचिको वेत्य् अर्थाद् उक्तं भवति. पंचानाम् इति विस्तरः. पंचानाम् अवरभागीयानां संयोजनानां प्रहाणात् अनागामीत्य् उच्यते सूत्रे. प्रहाणसंकलनात्. सत्कायदृष्ट्यादीनां प्रहाणैकत्वव्यवस्थापनात् द्वे त्रीणि वा पूर्वं प्रहीणानीति. यदि तावत् कामवीतरागो नियामम् अवक्रामति. द्वे पूर्वं प्रहीणे लौकिकेन मार्गेण. कामच्छन्दो व्यापादश् च. सत्कायदृष्ट्यादीनाम् अपर्यादाय प्रहाणात्. अथानुपूर्विकः. त्रीणि पूर्वं प्रहीणानि. केन. दर्शनमार्गेण सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च. तस्मात् साकल्येन पंचानां प्रहाणाद् इत्य् उच्यते.
(वि.38, 39) सो ऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिर्

इति. सो ऽनागामी. अंतरा उत्पन्ने संस्कारेणासंस्कारेण [तिब्. 219अ] परिनिर्वृतिर् अस्येति अंतरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः. यत् तूक्तम् एवम् उत्पन्नस्येति. तन् न बुध्यामहे. कथम् उत्पन्नस्यानागामिनः परिनिर्वृतिर् अस्येति बहुव्रीहिः समासो भवति. अन्यपदार्थे हि बहुव्रीहिर् उच्यते. न स्वपदार्थे. तेनैवम् इह पाठं पश्यामः एवम् उत्पन्ने ऽस्येति. लेखकेनैकारो ऽत्र विनाशित इति. तथापाठे ह्य् अयम् अर्थः संभवति. उत्पन्ने जन्मनि परिनिर्वृतिर् अस्येति उत्पन्नपरिनिर्वृतिः. अथैवम् एव पाठः स्यात्. एवं व्याख्यायेत. अनादरे षष्ठी. तयैवं समासः क्रियेत. उत्पन्नस्य जन्मनः परिनिर्वृतिर् अस्यानागामिन इत्य् उत्पन्नपरिनिर्वृतिर् अनागामीति. अथ वा उत्पन्नस्येत्य् उत्पन्नजातिर् उच्यते. उत्पन्नानाम् इति यो ऽर्थः. सो ऽर्थ उत्पन्नस्येति. तेनोत्पन्नानां या परिनिर्व्र्टिः. सा अस्येत्य् उत्पन्नपरिनिर्वृतिः. अथ परिनिर्वृत्यर्थाद् एव केवलाद् अनागाम्यर्थस्यान्यत्वात्. पूर्वपदार्थानन्यत्वे ऽप्य् अनागामिसमानाधिकरणस्योत्पन्नशब्दस्य परिनिर्वृतिशब्देन सह बहुव्रीहिः समास इतीच्छेयुः. सुभणितम् एतत् स्यात्. स एवानागामी पुनः पंचधा भवतीति. अंतरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वंस्रोताश् चेति निगमयति.
अभियुक्तवाहिमार्गत्वाद् इति. अभियुक्तो वीर्यवान् आरब्धवीर्य इत्य् अर्थः. वाही मार्गो अस्येति वाहिमार्गः. कथं मार्गो वाही. विनाभिसंस्कारेण संमुखीभावात्. अभियुक्तश् चासौ वाहिमार्गश् चाभियुक्तवाहिमार्गः. तद्भावः. तस्मात्. उत्पन्नमात्रो नचिरात् परिनिर्वाति. सोपधिशेषेण निर्वाणेनेति. निर्वाणद्वैविध्याद् विशिनष्टि सोपधिशेषनिर्वाणेन परिनिर्वाति. सर्वास्रवक्षयं करतीत्य् अर्थः.
सो ऽपि निरुपधिशेषनिर्वाणेनेति. न केवलम् अंतरापरिनिर्वायी निरुपधिशेषपरिनिर्वाणेन परिनिर्वात्य् अर्हत्त्वं प्राप्यायुर् अपरिसमाप्य. उपपद्यपरिनिर्वाय्य् [तिब्. 219ब्] अपि तत्सदृश इत्य् अपरे. न. आयुरुत्सर्गावशित्वात्. नैतद् एवं सो ऽपि निरुपधिशेषपरिनिर्वाणेनेति. कस्मात्. आयुरुत्सर्गावशित्वात्. आयुष उत्सर्गे तस्यावशित्वात्. कस्मात् पुनर् अस्यात्रावशित्वं. यत् प्रांतकोटिकचतुर्थध्यानलाभिन आयुरुत्सर्गवशित्वं. तच् च प्रांतकोटिकं ध्यानं मनुष्येष्व् एव त्रिषु द्वीपेषूत्पाद्यते. स च रूपधातूपपन्न इति. किम् अंतरापरिनिर्वायिणो ऽस्त्य् आयुरुत्सर्गवशित्वं. यत एवम् असौ निरुपधिशेषपरिनिर्वाणेन परिनिर्वाति. तस्यापि वशित्वं नास्ति. अंतराभवावस्थानाय ( अभिध्-क्-व्य् 559 ) तु तादृशं कर्म नास्ति. यादृशम् उपपद्यपरिनिर्वायिण इति. अतो ऽंतरापरिनिर्वायी शीघ्रं परिनिर्वाति. उपपद्यपरिनिर्वायी तु यावदायुः स्थित्वा परिनिर्वातीत्य् उपपद्यपरिनिर्वाय्य् एव सोपधिशेषनिर्वाणेन परिनिर्वातीत्य् उच्यते. साभिसंस्कारपरिनिर्वायी किलेति. किलेति किलशब्दो वैभाषिकमतद्योतकः. स्वमतं हि सूत्रानुसारेण पश्चाद् वक्ष्यते. अप्रतिप्रस्रब्धप्रयोग इति. पूर्वप्रयोगावेधेनानिराकृतप्रयोग इत्य् अर्थः. साभिसंस्कारं सप्रयत्नं. अभियुक्तावाहिमार्गत्वाद् इति. अभियुक्तत्वात् अवाहिमार्गत्वाच् च तस्य योगिनः. [तिब्. 220अ] अत एवासौ साभिसंस्कारपरिनिर्वायी सिध्यति. अनभिसंस्कारेणेति. पूर्वविपर्ययेण. प्रयोगस्य प्रतिप्रस्रब्धत्वात्. अभियोगवाहिमार्गाभावाद् इति. अभियोगस्य वीर्यस्याभावात्. वाहिमार्गस्य चाभावाद् इत्य् अर्थः. तद् एवम् अभियोगादिनानात्वात् परिनिर्वाणविशेष उक्तो भवति. उपपद्यपरिनिर्वायिणो ह्य् उभयम् अस्ति. अभिगोगश् च वाही च मार्ग इति. साभिसंस्कारपरिनिर्वायिणो ऽभ्ज्योगो ऽस्ति. न त्व् अस्य वाही मार्गः. अनभिसंस्कारपरिनिर्वायिणस् तूभयम् अपि नास्ति. नाभियोगो न च वाही मार्ग इति.
संस्कृतासंस्कृतालंबनमार्गपरिनिर्वाणाद् इति. संस्कृतं संस्कार इत्य् एको ऽर्थः. एवम् असंस्कृतं असंस्कार इति. संस्कारालंबनेन मार्गेण दुःखसमुदयमार्गालंबनेन मार्गेण यः क्लेशान् प्रजहाति. स साभिसंस्कारपरिनिर्वायी. यो ऽसंस्कारालंबनेन निरोधालंबनेन. सो ऽनभिसंस्कारपरिनिर्वायीति.
तत् तु न. अतिप्रसंगाद् [तिब्. 220ब्] इति. तत् तु नैवं. कस्मात्. अतिप्रसंगात्. अंतरोपपद्यपरिनिर्वायिणोर् अपि संस्कृतासंस्कृतालंबनमार्गपरिनिर्वाणात् प्रत्येकं साभिसंस्कारानभिसंस्कारपरिनिर्वायित्वप्रसंगः. तत्रस्थौ द्वाव् एव पुद्गलौ स्यातां. न पंचेति. अनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यत इति. साभिसंस्कारपरिनिर्वायिणः पूर्वम् अयं पठ्यते. अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायीति. तथैव युज्यत इति विस्तरः. अनभिसंस्कारसाभिसंस्कारपरिनिर्वायिणोर् यथाक्रमं. वाह्यवाहिमार्गयोः पुद्गलयोः परिनिर्वाणस्यानभिसंस्कारसाध्यत्वात् पूर्वस्याभिसंस्कारसाध्यत्वाच् चेतरस्य. कथं तथा साध्यत्वम् इत्य् आह. अयत्नयत्नप्राप्तितस् तत्परिनिर्वाणस्य यथाक्रमम् इत्य् एव.
अथ वाह्यवाहिमार्गयोर् इति. मार्गयोर् एव ग्रहणं न पुद्गलयोर् अभिसंबंधः. वाहिनो मार्गस्यानभिसंस्कारसाध्यत्वाद् अवाहिनश् चाभिसंस्कारसाध्यत्वात्. अयत्नयत्नप्राप्तितः. अयत्नसंमुखीभावतः पूर्वमार्गस्य. यत्नप्राप्तित इतरस्येति. [तिब्. 221अ] तद् एवम् अनभिसंस्कारपरिनिर्वायी पूर्वं युज्यते. आह. यद्य् अनभिसंस्कारपरिनिर्वायिणो वाही ( अभिध्-क्-व्य् 560 ) मार्गो ऽनभिसंस्कारशाध्यत्वात् उपपद्यपरिनिर्वायिणो ऽपि वाही मार्ग इति. कस् तयोर् विशेष इति. अत उच्यते. उपपद्यपरिनिर्वायिणस् तु मार्गो वाहितरो जिततरः. नानभिसंस्कारपरिनिर्वायिण एवम् अधिमात्रतरो हेतूपचयतः. मृदुतराश् चानुशयाः मार्गाधिमात्रतरत्वेन क्षपितत्वात्.
ऊर्ध्वस्रोता इति. ऊर्ध्वस्रोतो गतिर् अस्येति ऊर्ध्वस्रोताः. यत्र ऊर्ध्वम् इति पठ्यते.
ऊर्ध्वं दमाच् च देहाच् चेति.
ऊर्ध्वंदमिकः ऊर्ध्वंदेहिक इति. तत्प्रत्ययसंनियोगेनोर्ध्वशब्दस्य मांततो ऽपि निपात्यत इति वेदितव्यं. यथा चिरशब्दस्य चिरंतनम् इत्य् ऊर्ध्वम् इति निपातो ऽस्तीत्य् अपरे. अकारांतो ऽपि तूर्ध्वशब्दो ऽस्त्य् एवेति न वार्यते. व्यवकीर्णाव्यवकीर्णध्यानत्वाद् इति. मिश्रितामिश्रितध्यानत्वाद् इत्य् अर्थः. अनास्रवेण सास्रवस्य ध्यानस्य मिश्रितत्वात्. इह ध्यानानि व्यवकीर्य ध्यानत्रयात् परिहीयत इति. ध्यानव्यवकिरणं चतुर्थध्यानव्यवकिरणपूर्वकम्.
आकीर्यते चतुर्थं प्राग्

इति वचनात्. चतुर्थम् एव हि ध्यानम् आदितो व्यवकिरणे समर्थं. नान्यत्. चतुर्थाच् च ध्यानाद् अपरिहीणस्य प्रथमादिषु ध्यानेषूपपत्तिर् नास्तीत्य् अत उच्यते. ध्यानत्रयात् [तिब्. 221ब्] परिहीण इति. कथं च परिहीण इत्य् आह. प्रथमं ध्यानम् आस्वाद्येति. मध्यानिमज्जनात् मध्ये ऽनिमज्जनात्. अर्धप्लुतो नामेति विस्तरः. य एकम् अपि स्थानांतरं विलंघ्य शुद्धावासेषूपपद्याकनिष्ठान् प्रविशतीत्य् एवं वाक्याभिसंबंधः. दृष्टिस्थानत्वाद् इति. महाब्रह्मणां प्रथमोपपन्नानां च महाबह्मणि निर्मायकाभिमानतः. एकमायकत्वाच् चेति. किं. महाब्रह्मस्व् आर्यो नोपपद्यते. आर्यस्य हि प्रभाववतस् तत्रोत्पादे सत्य् उभयनायकत्वं स्यात्. निःसपत्नेन च कर्मणा तत्राधिपतिम्. अतः ससपत्नं न भवतीति. सर्वाणि स्थानांतराणीति. ब्रह्मकायिकेभ्यश् च्युत्वा ब्रह्मपुरोहितादीनि सुदर्शनान्तानि चतुर्दशस्थानांतराणि संचर्याकनिष्ठान् प्रविशति. यत्रोपपन्नस् ततस् तत्र चात्यंतम् अनागमनाद् इति. यत्रोपपन्नस् तद्यथा. प्रथमध्याने. ततो ऽत्यंतम् अनागमनात् कामधातौ. तथा यत्रोपपन्नस् तत्र चात्यंतम् अनागमनात्. तत्र च पुनः प्रथमे ध्याने ऽत्यंतम् अनागमनात्. परिपूर्णम् अनागामित्वं पुनस् तत्र द्वितीयजन्माकरणात्. शमथचरितो ह्य् एष इति. य एष भवाग्रपरमः स समाधिप्रियः. आरूप्येषु च समाधिर् अतिप्रशांतः. तस्माद् अयम् आरूप्यान् प्रविशति. पूर्वकस् तु विपश्यनाचरित इति. यो ऽसाव् अकनिष्ठपरम ( अभिध्-क्-व्य् 561 ) उक्तः. [तिब्. 222अ] स प्रज्ञाप्रियः शुद्धावासान् प्रविशति. अंतरापरिनिर्वाणम् इति विस्तरः. नैतत् प्रति शास्त्रकारैर् निश्चितं. न च प्रतिषिद्धम् अतो ऽप्रतिषेधाद् ऊर्ध्वस्रोतसो ऽकनिष्ठपरमस्य भवाग्रपरमस्य चांतरा अकनिष्ठां भवाग्रं च प्रविश्य परिनिर्वाणं युज्यमानं पश्यामः. संभवं तु पश्याम इत्य् अर्थः. ननु चाकनिष्ठपरमो भवाग्रपरम इति चोक्तम् अत आह. अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद् अकनिष्ठेभ्यो भवाग्राच् चोर्ध्वं गत्यभावात्. तद्यथा स्रोतआपन्नस्य सप्तकृत्वः परमत्वं. न हि तस्य द्वौ त्रीन् वा भवान् अभिनिर्वर्त्य परिनिर्वाणं न संभवतीति. ततः परेण त्व् अष्टमं भवं नाभिनिर्वर्तयतीति. सप्तकृत्वः परम उक्त इति.
स पुनश् चतुर्विध इत्य् अंतरापरिनिर्वाय्यभावान् न पंचविधः. एते षड् अनागामिनो भवंतीति. अंतरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वस्रोताः आरूप्यगश् च. षष्ठश् चतुर्धाभेदम् अविगणय्येति. दृष्टधर्मपरिनिर्वायी. दृष्टजन्मपरिनिर्वायीत्य् अर्थः.
(वि.40) कथम् एषां त्रयाणाम् इति [तिब्. 222ब्] विस्तरः. त्रयो ऽनागामिन इति निर्भिद्य नोक्ता इत्य् अनवबुध्यमान इतरः पृच्छति. आचार्यो ऽप्य् अर्थापत्त्योक्ता एत इति पश्यन् विवृणोति. अंतरोपपद्यपरिनिर्वायिणोर् अंतरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणश् चेत्य् अर्थः. ऊर्ध्वस्रोतसश् च तृतीयस्येति. आश्वनाशुचिरपरिनिर्वाणात् दृष्टांतत्रयेणेति. आशुपरिनिर्वायी अनाशुपरिनिर्वायी चिरपरिनिर्वायी च दृष्टांतत्रयेण योजय्यितव्याः. तद्यथा परीत्तः शकलिकाग्निर् अभिनिर्वर्तमान एव निर्वायात्. एवं प्रथमो य आशुपरिनिर्वायी. तद्यथायोगुडानां वायस्फालानां वादीप्ताग्निसंप्रतप्तानां अयोघनेन हन्यमानानां अयःप्रपाटिकोत्पतत्य् एव निर्वायात्. एवं द्वितीयो यो ऽनाशुपरिनिर्वायी. तद्यथायोगुडानाम् इति पूर्ववद् यावद् अयःप्रपाटिकोत्प्लुत्य पृथिव्याम् अपतितैव निर्वायात्. एवं तृतीयो यश् चिरपरिनिर्वायी. एतच् च सूत्रं विस्तरेण पुरस्ताल् लिखितम् इति न पुनर् लिख्यते. उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणाद् इति. उपपद्य परिनिर्वाणाद् अभिसंस्कारेणानभिसंस्कारेण परिनिर्वाणात् [तिब्. 223अ] त्रिधाभेदान् नवानागामिनो भवंतीति संबंधः. उपपद्यपरिनिर्वायी य उपपन्नमात्रः परिनिर्वाति. न त्व् अभिसंस्कारेणानभिसंस्कारेण वा परिनिर्वाति. साभिसंस्कारपरिनिर्वायी तु नोपपद्यैव परिनिर्वाति. किं तर्हि. अभिसंस्कारेणाप्रतिप्रस्रब्धस्य पूर्वाभिसंस्कारस्य सामर्थ्यतः परिनिर्वाति. अस्य हि यद्य् अपि वाही मार्गो ऽस्ति अभियोगेन तु परिनिर्वाति. उपपद्यपरिनिर्वायी तु नाभियोगेनेति विशेषः. अनभिसंस्कारपरिनिर्वायी ( अभिध्-क्-व्य् 562 ) पुनः प्रतिप्रस्रब्धपूर्वाभिसंस्कारो ऽभिसंस्कारम् अनंतरेण परिनिर्वातीत्य् अयम् एव एषां विशेषो ऽवगंतव्यः. यथा तु साभिसंस्कारानभिसंस्कारपरिनिर्वायिणाव् अप्य् उपपद्यपरिनिर्वाय्याख्यां लभेते. तथा दर्शयन्न् आह. सर्वे ह्य् एत उपपद्यपरिनिर्वाणाद् उपपद्यपरिनिर्वायिण इति. प्लुतादिभेदाद् इति. प्लुतार्धप्लुतसर्वच्युतभेदाद् इत्य् अर्थः. सर्वेषां वा त्रयाणाम् इति. अंतरोपपद्यपरिनिर्वाय्यूर्ध्वस्रोतसाम् आश्वनाशुचिरपरिनिर्वाणात् [तिब्. 223ब्] त्रिधाभेदः. कश्चिद् अंतरापरिनिर्वायी आशुपरिनिर्वायी भवति. कश्चिद् अनाशुचिरपरिनिर्वायी. एवम् उपपद्यपरिनिर्वायी. ऊर्ध्वस्रोताश् चेति. अस्माच् च त्रिधाभेदान् नवानागामिनो भवंतीति स एव संबंधो वाच्यः. तद्विशेषः पुनर् इति विस्तरः. तेषां पुनस् त्रयाणाम् अंतरोपपद्यपरिनिर्वायिणोः ऊर्ध्वस्रोतसश् च. नवानां चैषाम् एव प्रत्येकं त्रिधाभेदाद् यथा वर्णिताद् विशेषः. कर्मक्लेशेन्द्रियविशेषात्. कर्मणः क्लेशस्येन्द्रियस्य च विशेषाद् भवति. कथम् इत्य् आह. त्रयाणाम् इति विस्तरः. अभिनिर्वृत्तिर् अंतराभावः अभिनिर्वृत्तिवेदनीयस्य कर्मण उपचितत्वाद् अंतरापरिनिर्वायी. उपपद्यवेदनीयस्य कर्मण उपचितत्वाद् उपपद्यपरिनिर्वायी. अपरपर्यायवेदनीयस्य कर्मण उपचितत्वाद् ऊर्ध्वंस्रोता इत्य् एवं तावत् तेषां त्रयाणां कर्मविशेषाद् विशेषः. मृदुमध्याधिमात्रक्लेशसमुदाचारत्वाद् यथाक्रमम् एषाम् एव क्लेशविशेषाद् विशेषः. अधिमात्रमध्यमृद्विन्द्रियत्वाच् च यथाक्रमम् एषाम् एवेन्द्रियविशेषाद् विशेष इति. तेषाम् अपि प्रत्येकम् अत एव यथायोगं विशेष इति. तेषाम् अपि प्रत्येकं भिन्नानां नवानाम् इत्य् अर्थः. अत एव कर्मादिविशेषात् [तिब्. 224अ] यथायोगं न यथाक्रमं. विशेषो ऽवगंतव्यः. कथम् इत्य् आह. प्रथमयोस् त्रिकयोर् इति विस्तरः. यच् चांतरापरिनिर्वायिणां त्रिकं. यच् चोपपद्यपरिनिर्वायिणां. तयोस् त्रिकयोः क्लेशेन्द्रियविशेषात्. मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात् अधिमात्रमध्यमृद्विन्द्रियत्वाच् च. यथाक्रमं विशेषः. न तु कर्मविशेषात्. यस्मात् प्रथमस्य त्रिकस्याभिनिर्वृत्तिवेदनीयं कर्म तुल्यं. द्वितीयस्य चोपपद्यवेदनीयं कर्म तुल्यम् इति. पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच् च विशेषः. प्लुतादीनां ह्य् अपरपर्यायवेदनीयं कर्म भिन्नम्

इति. अतो ऽपरपर्यायवेदनीयकर्मविशेषात्. क्लेशेन्द्रियविशेषाच् च. चकारानुकृष्टत्वात् विशेषो मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात्. अधिमात्रमध्यमृद्विन्द्रियत्वाच् च. यथाक्रमम् इत्य् अर्थः. त एते नवप्रकारक्लेशेन्द्रिगत्वाद् इति. त एते नवानागामिनो नवप्रकारक्लेशत्वात्. नवप्रकारेन्द्रियत्वाच् च. नवानागामिनो भवंति. कर्मणो ऽग्रहणम् अव्यपित्वात्. न हि प्रथमयोस् ( अभिध्-क्-व्य् 563 ) त्रिकयोः कर्मविशेषाद् [तिब्. 224ब्] विशेषो ऽस्तीति. कथं पुनर् एते नवप्रकारक्लेशा भवंति. इह क्लेशस् त्रिप्रकारो मृदुमध्याधिमात्र इति. मृदुर् अंतरापरिनिर्वायिणां. मध्य उपपद्यपरिनिर्वायिणां. अधिमात्र ऊर्ध्वस्रोतसां. तत्र प्रथमो ऽन्तरापरिनिर्वायी मृदुमृदुक्लेशः. द्वितीयो मृदुमध्यक्लेशः तृतीयो मृद्वधिमात्रक्लेशः. उपपद्यपरिनिर्वायिणां प्रथम उपपद्यपरिनिर्वायी मध्यमृदुक्लेशः. द्वितीयः साभिसंस्कारपरिनिर्वायी मध्यमध्यक्लेशः. तृतीयो ऽनभिसंस्कारपरिनिर्वायी मध्याधिमात्रक्लेशः. ऊर्ध्वस्रोतसाम् अपि प्लुतो ऽधिमात्रमृदुक्लेशः अर्धप्लुतो ऽधिमात्रमध्यक्लेशः. सर्वस्थानच्युतो ऽधिमात्राधिमात्रक्लेश इति. कथं नवप्रकारेन्द्रिया भवंति. तथैवेन्द्रियम् अपि त्रिप्रकारम् अधिमात्रं मृदु चेति. अधिमात्रम् अंतारापरिनिर्वायिणां. मध्यम् उपपद्यपरिनिर्वायिणां. मृदूर्ध्वस्रोतसां. तत्र प्रथमो ऽंतरापरिनिर्वायी अधिमात्राधिमात्रेन्द्रियः. द्वितीयो ऽधिमात्रमध्येन्द्रियः. तृतीयो ऽधिमात्रमृद्विन्द्रियः. उपपद्यपरिनिर्वायिणां [तिब्. 225अ] प्रथमं उपपद्यपरिनिर्वायी मध्याधिमात्रेन्द्रियः. साभिसंस्कारपरिनिर्वायी मद्यमध्येन्द्रियः. अनभिसंस्कारपरिनिर्वायि मध्यमृद्विन्द्रियः. ऊर्ध्वस्रोतसाम् अपि प्लुतो मृद्वधिमात्रेन्द्रियः. अर्धप्लुतो मृदुमध्येन्द्रियः. सर्वस्थानच्युतो मृदुमृद्विन्द्रिय इति.
(वि.41) कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिता इति. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्यामि. अनुपादाय च परिनिर्वाणम्. इत्य् एतत् सर्वं सूत्रं गतिसूत्रत इत्य् अत्र प्रदेशे लिखितम् इति न पुनर् लिख्यते. अत्र च सूत्रे सप्त सत्पुरुषगतयो देशिताः. त्रयो ऽंतरापरिनिर्वायिणाः. त्रय उपपद्यपरिनिर्वायिण इति षट् गतयः. ऊर्ध्वंस्रोतो गतिश् च सप्तमीति. ऊर्ध्वस्रवणधर्मेति. कृदंतम् एतच् छब्दरूपम् इति. विधार्थम् एतच् छब्दरूपम् इति दर्शयति. ऊर्ध्वम् इति च क्रियाविशेषणम् इति. तस्याभेदनिर्देशाद् इति. तस्योर्ध्वंस्रोतसः प्लुतादिभेदानिर्देशाद् इत्य् अर्थः. विनेयाशयापेक्षो हि सूत्रनिर्देशः. नान्याः शैक्षा गतय इति. न स्रोतआपन्नसकृदागामिगतय इत्य् अर्थः. गतिर् उत्पत्तिः संपराय इत्य् एते सूत्रे पर्याया उच्यंते. तेषाम् इत्य् अनागामिनां. सति च कर्मणि वृत्तिः प्राणातिपाताद्यकरणात्. असति चावृत्तिर् अब्रह्मचर्याद्यकरणात्. [तिब्. 225ब्] अकुशलेन हि चित्तेनाब्रह्मचर्यादिकरणम् इति. तेषां तु वीतरागाणां सत्य् एव कर्मणि वृत्तिर् नासति प्रहीणकुशलत्वात्. न पुनः प्रत्यागतिर् इति. यासु गतिषूपपन्नाः. तत्रतत्र चैषाम् अत्यंतम् अनागमनम् इत्य् अर्थः. न त्व् एतद् यथोक्तम् अन्यत्रास्तीत्य्. यद् एतत् सत्य् एव वृत्तिर् असति चावृत्तिर् एवापुनःप्रत्यागमनं च. तद् एतत् ( अभिध्-क्-व्य् 564 ) स्रोतआपन्ने सकृदागामिनि च नास्तीति.

अन्येषाम् अपीति. स्रोतआपन्नसकृदागमिनाम् अपीत्य् अर्थः. पार्यायिकम् इति. पर्याये भवं पार्यायिकं. केनचित् प्रकारेण भवतीत्य् अर्थः. कथम् इत्य् आह. पंचविधस्य पापस्यात्यंतमकरणसंवरप्रतिलंभाद् इति. पंचविधस्य पापस्य प्राणातिपातादत्तादानकाममिथ्याचारमृषावादमद्यपानलक्षणस्याकरणेनाक्रियया संवरः संवरणम्. तस्य प्रतिलंभात्. न ह्य् आर्या जन्मांतरे ऽप्य् एतत् पंचविधं पापम् अध्याचरंति. अकरणसंवरवचनं. समादानसंवरस्यानावश्यकत्वात्. प्रायेणेति. दर्शनग्रहातव्यानाम् अकुशलानां सर्वेषाम् अत्यंतप्रहाणात्. भावनाप्रहातव्यानां च कामावचराणां केशांचित् संभवतः. येषाम् इति विस्तरः. येषां तु निःपर्यायेण न प्रकारांतरेण स्रोतआपन्नसकृदागामिवत् सत्पुरुषत्वं. [तिब्. 226अ] किं तर्हि. सर्वस्य पापस्यात्यंतमकरणसंवरप्रतिलंभात्. सर्वेषां चाकुशलानां दर्शनप्रहातव्यानां क्लेशानां प्रहाणात्. भावनाप्रहातव्यानां च कामावचराणां सर्वेषां नवप्रकाराणाम् अपि प्रहाणात्. तेषां सत्पुरुषाणाम् अनागामिनाम् इह सूत्रे ऽधिकारः. सप्त सत्पुरुषगतय इत्य् अतो ऽन्येषां पार्यायिकं सत्पुरुषत्वं न प्रतिषिध्यते.
(वि.42) किं पुनः परिवृत्तजन्मनो ऽप्य् अनागामिन एश भेदो ऽस्ति. अंतरापरिनिर्वायीत्य् एवमादिकः. परिवृत्तजन्मानागामीयः प्रथमे जन्मनि स्रोतआपत्तिफलं सकृदागामिफलं वा प्राप्य द्वितीये जन्मन्य् अनागामी भवति. काम इति विशेषणं. यस्मात् रूपधातौ परिवृत्तजन्मा कदाचिद् आरूप्यान् प्रविशतीति. तत्रैव जन्मनि परिनिर्वाणाद् इति. कामधातौ दुःखबहुलत्वेनास्य तीव्रसंवेगत्वात्. यत् तर्हीति विस्तरः. शक्रेणोक्तम् इतश् च्युतो ऽहं मनुष्येषूपपन्नो यद्य् अर्हत्त्वं प्राप्य न परिनिर्वामि. ये ते देवा अकनिष्ठा इति विश्रुताः. अंते मे हीयमानस्य तत्रोपपत्तिर् भविष्यतीति. स हि देवेष्व् एव स्रोतआपन्नो मनुष्यांश् चागत्य परिनिर्वास्यामीति वचनात् परिवृत्तजन्मा भवेत्. अंते निकायसभागावसाने मम हीयमानस्यार्हत्त्वाद् [तिब्. 226ब्] अप्राप्तिपरिहाण्या परिहीयमाणस्य. तत्राकनिष्ठेषूपपत्तिर् भविष्यतीति प्रार्थनावचनाद् धात्वंतरगमनम् अस्तीति दर्शितं भवतीति गम्यते. तत् कथं कामधातौ परिवृत्तजन्मांतर आर्यो धात्वांतरं न गच्छतीत्य् उच्यत इति. सूत्रार्थो दृश्यते. ब्रूयास् त्वं. धर्मलक्षणानभिज्ञत्वाच् छक्रेणैवम् उक्तं. तस्माद् अदोष इति. भगवता तर्ह्य् एवं शृण्वता कस्माद् असौ न निवारितो मा त्वम् एव वोच इत्य् अत उच्यते. भगवताप्य् अनिवारणं. संहर्षणीयत्वाद् इति. कामदुःखपरित्यागाभिलाषेण संहर्षणीयम् इत्य् अभिप्रायः. ( अभिध्-क्-व्य् 565 ) च्युतिनिमित्तोपपत्तिदुःखोद्विग्नस्य संहर्षणीयत्वाद् इत्य् आचार्यसंघभद्रः.
इन्द्रियाणां परिपक्वतरत्वाद् इति. प्रज्ञादीनाम् इन्द्रियाणां निष्यन्दफलपुष्टिविशेषाद् इत्य् अर्थः. आश्रयविशेषलाभाच् च. यस्माच् चाश्रयविशेषम् अनुपहतं मार्गसंमुखीभावानुकूलं प्रतिलभते. दृष्यंते हि तीक्ष्णेन्द्रिया अपि संत आश्रयवैगुण्यात् गुणेभ्यः परिहीयमाणा इत्य् अतो जन्माण्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वाद् इन्द्रियसंचारो नास्ति. आश्रयविशेषलाभाच् च परिहाणिर् नास्त्य् अनेनैव जन्मांतरपरिवासेन धात्वंतरगमनं न भवतीति.
मार्गस्याजितत्वाद् असंमुखीभावत इति. [तिब्. 227अ] यस्मान् मार्गस्याजितत्वाद् असंमुखीभावः. तस्मात् कारणाद् अवीतरागः शैक्षः स्रोतआपन्नः सकृदागामी च नांतरापरिनिर्वायी भवति. अनुशयानां च नातिमन्दत्वात्. यस्माच् चानुशयास् तस्य नातिमन्दाः. अतो नांतरापरिनिर्वायी भवतीत्य् अयम् आचार्यस्य परिहारः. वैभाषिकाणां कः परिहार इत्य् आह. दुस्समतिक्रमत्वात् कामधातोर् इति वैभाषिका इति. कथम् इत्य् उच्यते. बहु ह्य् अनेन कर्तव्यं भवति. अकुशलाव्याकृतक्लेशप्रहाणम् अकुशलानां कामावचराणां अव्याकृतानां च रूपारूप्यावचराणां क्लेशानां प्रहाणम् अनेन कर्तव्यं. वीतरागेण पुनः शैक्षेणाव्याकृतानाम् एव प्रहाणम् इति. द्वित्रिश्रामण्यफलप्राप्तिर् इति. द्वे वा त्रीणि वा श्रामण्यानि फलानि प्राप्तव्यानि. सकृदागामिना द्वे श्रामण्यफले प्राप्तव्ये. अनागामिफलम् अर्हत्त्वफलं च. स्रोतआपन्नेन त्रीणि सकृदागामिफलं अनागामिफलम् अर्हत्त्वफलं च. वीतरागेण पुनर् एकम् एवार्हत्त्वफलं प्राप्तव्यम् इति. त्रिधातुसमतिक्रमश् चावीतरागेण कर्तव्यः. वीतरागेण तु रूपावीतरागेणांतरापरिनिर्वायिना भवता द्विधातुसमतिक्रमः [तिब्. 227ब्] कर्तव्य इति.
(वि.43) आकीर्यत इति. व्यवकीर्यते व्यतिभिद्यते. अनास्रवाभ्यां सास्रवं चतुर्थं ध्यानं मिश्रीक्रियत इत्य् अर्थः. सुखप्रतिपदाम् अग्रत्वाद् इति. सुखाः प्रतिपदश् चत्वारि मौलानि ध्यानानि.
ध्यानेषु मार्गः प्रतिपत् सुखेति
वचनात्. तासां चतुर्थं ध्यानम् अग्रम् अष्टापक्षालमुक्तत्वात्. यदा किलेति. किलशब्दो वैभाषिकमतद्योतकः. स्वमतं तु पश्चाद् दर्शयिष्यति. अशक्यं तु क्षणव्यवकिरणम् इति विस्तरेण द्वौ हि क्षणाव् आनंतर्यमार्गसदृशाव् इति. अनास्रवसास्रवौ. तृतीयो विमुक्तिमार्गसदृश इत्य् अनास्रवः. मृद्विन्द्रियाः क्लेशभीरुतया च व्यवकिरंति. चशब्दाच् छुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च व्यवकिरंति. तीक्ष्णेन्द्रियास् तु शुद्धावासोपत्त्यर्थं ( अभिध्-क्-व्य् 566 ) दृष्टधर्मसुखविहारार्थम् एव च व्यवकिरंति. न क्लेशभीरुतया. तेषां परिहाण्यसंभवात्. कथं पुनः क्लेशभीरुतया अपरिहाण्यर्थं व्यवकिरंतीत्य् आह. आस्वादनासंप्रयुक्तसमाधिदूरीकरणात् अपरिहाण्यर्थम् इति. फलान् न परिहीयेयम् इति.
(वि.44अब्) पंचप्रकारेति विस्तरः. मृद्वी मध्याधिमात्राधिमात्रतरा अधिमात्रतमेति. [तिब्. 228अ] प्रथमायां त्रीणि चित्तानीति. तस्य पुद्गलस्य तावती शक्तिर् इत्य् एवम् उपरिष्ठाद् अपि वक्तव्यं. द्वितीयायां षड् इति. अनास्रवं सास्रवम् अनास्रवम् इति त्रीणि. पुनर् अनास्रवं सास्रवम् अनास्रवम् इत्य् अपराणि त्रीणीति षड् भवंति. एवम् एव च तृतीयायां नव चतुर्थ्यां द्वादश पंचम्यां पंचदशेति योज्यं. तासां यथासंख्यम् इति. तासां व्यवकीर्णभावनानां यथाक्रमं पंच शुद्धावासाः फलं. मृद्व्या भावनाया अवृहाः फलम् एवं यावद् अधिमात्रतमाया भावनाया अकनिष्ठाः फलम् इति. श्रद्धादीन्द्रियाधिक्याद् इति भदंतश्रीलातमतम्. श्रद्धाधिकाया भावनाया अवृहाः फलं. एवं यावत् प्रज्ञाधिकाया भावनाया अकनिष्ठाः फलम् इति.

(वि.44च्द्) यो हि कश्चिद् अनागामीति. श्रद्धाधिमुक्तो वा दृष्टिप्राप्तो वा. कायेन साक्षात्करणम् इति. चित्ताभावात् कायेनैव साक्षात्करोति. कथं कायेनैवेत्य् आह. कायाश्रयोत्पत्तेः. एवं तु भवितव्यम् इति स्वमतम् आचार्यस्य. प्राप्ति ज्ञानसाक्षात्क्रियाभ्याम् इति. समाधिकाले तदनुकूलाश्रयप्राप्तिसाक्षात्करणात्. व्युत्थानकाले च तत्प्रतिसंवेदनाज्ञानसाक्षात्करणात्. प्रत्यक्षीकारो [तिब्. 228ब्] हि साक्षात्क्रियेति. सविज्ञानकायशांतिप्रतिलंभावस्थायां साक्षात्क्रिया युज्यत इत्य् अभिप्रायः. सविज्ञानककायशांतिप्रतिलंभेन वा अविज्ञानककायशांत्यवस्थायां तत्प्राप्तिर् गम्यत इति.
अष्टादश शैक्षा इत्य् अत्र सूत्र इति. अनाथपिण्डदो गृहपतिर् भगवंतम् अपृच्छत्. कति भदंत दक्षिणीया इति. भगवान् आह. अष्टादश गृहपते शैक्षा नवाशैक्षा दक्षिणीया इति. अष्टादश शैक्षाः कतमे. स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः. स्रोतआपन्नः. सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः. सकृदागामी. अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकः. अनागामी. अर्हत्त्वफलसाक्षात्क्रिवायै प्रतिपन्नकः. श्रद्धानुसारी. धर्मानुसारी. श्रद्धाधिमुक्तः. दृष्टिप्राप्तः. कुलंकुलः. एकवीचिकः. अंतरापरिनिर्वायी. उपपद्यपरिनिर्वायी. साभिसंस्कारपरिनिर्वायी. अनभिसंस्कारपरिनिर्वायी. ऊर्ध्वस्रोताः. इतीमे गृहपते ऽष्टादस शैक्षाः. नवाशैक्षाः कतमे. परिहाणधर्मा. चेतनाधर्मा. अनुरक्षणाधर्मा. स्थिताकंप्यः. प्रतिवेधनाभव्यः. अकोप्यधर्मा. [तिब्. 229अ] चेतोविमुक्तः. प्राज्ञाविमुक्तः. ( अभिध्-क्-व्य् 567 ) उभयतोभागविमुक्तः. इतीमे गृहपते नवाशैक्षा इति. तिस्रः शिक्षास् तत्फलं चेति. अधिशीलम् अधिचित्तम् अधिप्रज्ञम् इति तिस्रः शिक्षा आर्यमार्गलक्षणाः. तासां फलं विसंयोगः. तद्विशेषेण हि शैक्षाणां व्यवस्थानम् इति. शिक्षाविशेषेण तत्फलविशेषेण चेत्य् अर्थः. कथं पुनस् तद्विशेषः. अन्यादृस्यो ऽन्यादृश्यो ऽष्टादशानां शैक्षाणां शिक्षाः विसंयोगफलं चेति. निरोधसमापत्तिश् च न शैक्षा अप्रहाणमार्गस्वाभाव्यात्. न शिक्षा फलम् अविसंयोगफलस्वाभाव्यात्. अतो न तद्योगान् निरोधसमापत्तियोगात् शैक्षविशेष उक्तः. यथैते ऽष्टादश शैक्षाः. न पुनर् असौ न शैक्षः. तत्र यद् इदम् उच्यते. अष्टादश शैक्षा इत्य् अत्र सूत्रे किं कारणं कायसाक्षी नोक्तः शैक्ष इत्य् एवं नोक्तः.
यथास्थूलंभेद इति. रूपोपगा पंच.
आरूप्यगश् चतुर्धान्यः. इह निर्वायको पर
इत्य् एवमादि. सूक्ष्मं तु भिद्यमाना इति विस्तरः. अत्राचार्यो गणनोपायप्रदर्शनार्थं [तिब्. 229ब्] प्रथमम् अंतरापरिनिर्वायिण इन्द्रियभूमिगोत्रादिभेदं व्युत्पादयति. किं कारणम्. तद्भेदे हि गणिते यथांतरापरिनिर्वायिण इन्द्रियादिभेदाद् भेदः. एवं यावद् ऊर्ध्वस्रोतस इति सुखम् अतिदेशं करिष्यामीति. भूमिभेदाश् चत्वार इति. ते एवांतरापरिनिर्वायिणः. भूमयश् चत्वारि ध्यानानि. रूपोपगानाम् अनागामिनां विवक्षितत्वात्. तत्र प्रथमे ध्याने ऽंतरापरिनिर्वायी यावच् चतुर्थ इति चत्वारः. परिहाणधर्मादिगोत्रभेदात् षड् इति. त एव परिहाणधर्मा चेतनाधर्मा अनुरक्षणाधर्मा स्थिताकंप्यः प्रतिवेधनाभव्यः अकोप्यधर्मा चेति. स्थानांतरभेदात् षोडशेति. ब्रह्मकायिकादीन्य् अकनिष्ठांतानि. महाब्रह्मणो वैभाषिकनीत्यास्थानांतरः. बहिर्देशकनयेनापि स्थानांतरत्वे तत्रार्यो नोत्पद्यत इत्य् अगणनं. तद् एवं स्थानांतरभेदात् षोडशांतरापरिनिर्वायिणः. भूमिवैराग्यभेदात् षट्त्रिंशद् इति. भूमिभेदात् तद्वैराग्यभेदाच् च षट्त्रिंशद् अंतरापरिनिर्वायिणः. कथम् इति प्रतिपादयति. रूपधातन् [तिब्. 230अ] सकलबन्धन इति विस्तरः. रूपधातौ प्रथमे ध्याने सकलबन्धन एकप्रकारवीतरागो यावद् अष्टप्रकारवीतराग इति नव. द्वितीये ऽपि नव सकलबन्धनो यावद् अष्टप्रकारवीतराग इति. तथा तृतीये नव. तथा चतुर्थे नवेति. चत्वारो नवकाः षट्त्रिंशद् भवंति. यावच् चतुर्थध्यानाष्टप्रकारवीतराग इति. यावच्छब्देनायम् अर्थविस्तरो लभ्यते. चतुर्थध्याननवमप्रकारवीतरागो नोच्यते. यस्माद् असाव् आरूप्ये सकलबन्धनो भवति. न चेहारूप्यगो ऽधिक्रियते. रूपोपगानाम् इह विवक्षितत्वात्. अंतराभवसंबन्धाद् ( अभिध्-क्-व्य् 568 ) इति. तथा च सति स्थानांतरगोत्रवैराग्येन्द्रियभेदाद् इति विस्तरः. स्थानांतराणां गोत्राणां वैराग्याणाम् इन्द्रियाणां च भेदात्. द्वानवतीनि द्वानवत्यधिकानि पंचविंशतिशतानि भवंति तेषाम् अंतरापरिनिर्वायिणां. कथं कृत्वा तथ भवंतीत्य् आह. एकस्मिं स्थाने. तद्यथा ब्रह्मपुरोहिते षट् गोत्राणि परिहाणधर्मादिभेदात्. गोत्रगोत्र इति वीप्सा नव पुद्गलाः. सकलबन्धनो यावद् अष्टप्रकारवीतरागः स्वस्मात् स्थानात्. तद्यथा ब्रह्मपुरोहितात्. [तिब्. 230ब्] षण्णवकानि गोत्रषट् पुद्गलनवकग्रहणाच् चतुःपंचाशत्. षोडश चतुःपंचाशत्कानि. षोडशस्थानांतरग्रहणात्. चतुःषष्ट्यादि. चतुःषष्ट्यधिकानि अष्टौ शतानि. इन्द्रियभेदात् तु त्रिगुणू मृदुमध्याधिमात्रभेदात्. इत्य् एवं कृत्वा. किं द्वानवतीनि पंचविंशतिशतानि भवंति. येन न्यायेन सकलबन्धनो यावद् अष्टप्रकारवीतराग इति नव पुद्गला व्यवस्थापिताः. तं न्यायं दर्शयन्न् आहयो ह्य् अधरे ध्यान इति विस्तरः. यो ह्य् अधरे ध्याने प्रथमे यावत् तृतीये नवप्रकारवीतरागः. स उत्तरे ध्याने द्वितीये यावच् चतुर्थे सकलबन्धन इत्य् उक्तः. कस्माद् इत्य् आह. समगणनार्थम् इति. चतुर्षु ध्यानेषु नवनव यथा स्युर् इति. अन्यथा हि विषमा गणना स्यात्. प्रथमे ध्याने दश स्युः सकलबन्धनो यावन् नवप्रकारवीतराग इति. द्वितीये नव एकप्रकारवीतरागो यावन् नवप्रकारवीतराग इति. एवं तृतीये नव चतुर्थे त्व् अष्टौ स्युः. एकप्रकारवीतरागो यावद् अष्टप्रकारवीतराग इति. नवप्रकारवीतरागस्यारूप्यसकलबन्धनत्वाद् इत्य् उक्तं एवं यावद् ऊर्ध्वस्रोतस इति. एवम् उपपद्यसाभिसंस्कारानभिसंस्कारोर्ध्वस्रोतसाम् अपि. स्थानांतरगोत्रवैराग्येन्द्रियभेदात् [तिब्. 231अ] प्रत्येकं द्वानवतीनि पंचविंशतिशतानि भवंतीत्य् अभिसमस्य पुनः पंचाभेदांश् चत्वारिंशदूनानि त्रयोदशसहस्राण्य् अनागामिनां भवंति. आरूप्यगैस् तु सहोपपद्यादिचतुर्भेदभिन्नैर् अतितरां बहवो भवंति. अनया तु वर्तन्या गम्यत एवेति न लिख्यते.
(वि.45, 46) आभवाग्राष्टभागक्षिद्

इति. आभवाग्राद् आष्टौ प्रकारान् क्षिणोतीत्य् आभवाग्राष्टभागक्षिद् आभवाग्राष्टप्रकारक्षयकृद् इत्य् अर्थः. अयम् अनागामी प्रथमध्यानैकप्रकारवैराग्यात् प्रभृतीति. यस्मात् कामवैराग्याद् अनागामी व्यवस्थाप्यते. तस्मात्ततः परेणार्हत्त्वफलप्रतिपन्नको भवति. यथा वज्रः सर्वं भिनत्ति. एवम् अयं समाधिः सर्वम् अनुशयं भिनत्तीति सामर्थ्यात् वज्र उपमा अस्येति वज्रोपमः. भिन्नत्वाद् असौ न सर्वां भिनत्तीति. त्रैधातुकान् ( अभिध्-क्-व्य् 569 ) दर्शनप्रहातव्यान् भावनाप्रहतव्यांश् च कामावचरान् यावद् भावाग्रिकान् अष्टौ प्रकारान्. यदि सर्वान् न भिनत्ति कस्मात् सर्वानुशयभेदीत्य् उच्यत इत्य् आह. सर्वांस् तु भेत्तुं समर्थ इति. संभवम् अधिकृत्योक्तम् इत्य् अभिप्रायः.
अनागम्यसंगृहीता इति विस्तरः. नव भूमीः अनागम्यं ध्यानांतरं [तिब्. 231ब्] चत्वारि ध्यानानि त्रींश् चारूप्यान् भवाग्रवर्ज्यान् निश्रित्यार्हत्त्वप्राप्तिर् इत्य् अत एवं प्रतन्यते. दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टाव् इति. भावाग्रिकदुःखालंबनान्वयज्ञानाकारैश् चतुर्भिः संप्रयुक्ताश् चत्वारो भावाग्रिकसमुदयालंबनान्वयज्ञानाकरैः चतुर्भिर् अपरैः संप्रयुक्ताश् चत्वार इत्य् अष्टौ. एवम् एव निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टाव् इति वक्तव्यं.
धर्मज्ञानं निरोधे यन् मार्गे वा भावनापथे
त्रिधातुप्रतिपक्षस् तद्
इति सिद्धांतात् तयोर् एवेहोपन्यासो न दुःखसमुदयधर्मज्ञानयोर् ग्रहणं. एवं यावद् इति. यावच्छब्देन यथा प्रथमध्याननिरोधालंबनाकारैः संप्रयुक्ताश् चत्वारः. एवं द्वितीयतृतीयचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनभवाग्रनिरोधालंबनाः प्रत्येकं चत्वारश् चत्वारो वक्तव्याः. मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इत्य् अत्र प्रतिभूमिमार्गालंबनान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः चत्वार इति नोच्यते. कस्माद् इत्य् आह. कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनाद् इति. अविशिष्टो ह्य् अन्वयज्ञानपक्षो मार्गः प्रतिपक्षभावेनान्योन्यहेतुकश् च मार्ग इति समस्तम् एवालंब्यते. [तिब्. 232अ] न निरोधवद् इत्य् अतश् चत्वार एव मार्गान्वयज्ञानाकारैः संप्रयुक्ता इति. त इमे ज्ञानाकारालंबनभेदभिन्ना इति. ज्ञानाकारभेदेनालंबनभेदेन च भिन्नाः. अथ वा ज्ञानानाम् आकाराणाम् आलंबनानां च त्रिभेदेन भिन्नाः. ज्ञानाकारभेदभिन्नास् तावत्. दुःखसमुदयान्वयज्ञानाकारैर् इत्येवमादिवचनात्. आलंबनभेदभिन्ना अपि. भावाग्रिकदुःखसमुदयालंबनैर् इत्येवमादिवचनात्. द्वापंचाशद् इति. आदितो द्व्यष्टाव् इति षोडश. प्रथमध्याननिरोधालंबनाश् चत्वारो यावन् मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इति नवचतुष्काणि षट्त्रिंशत्. षोडश च षट्त्रिंशच् च द्वापंचाशद् भवंति. यथानागम्यसंगृहीत इति विस्तरः. मौलं ध्यानम् अनागम्यप्रविश्योत्पद्यत इत्य् अनागम्यं. येन प्रकारेणानंतरोक्तेनानागम्यसंगृहीता द्वापंचाशद् वज्रोपमा भवंति. तेनैव प्रकारेण ध्यानांतरसंगृहीता द्वापंचाशद् भवंति. कथं कृत्वा. ध्यानांतरसंगृहीता भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः ( अभिध्-क्-व्य् 570 ) संप्रयुक्ता अष्टौ. निरोधमार्गधर्मज्ञानाकारैः [तिब्. 232ब्] संप्रयुक्ता अष्टौ. निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालंबनाश् चत्वारः. एवं यावद् भवाग्रनिरोधालंबनाश् चत्वारः. मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः. कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनात्. त इमे ज्ञानाकारालंबनभेदभिन्ना द्वापंचाशद् भवंति. यथा ध्यानांतरसंगृहीता एवं प्रथमध्यानसंगृहीता द्वापंचाशात्. यावच् चतुर्थध्यानसंगृहीता द्वापंचाशद् इति. यथासंख्यम् इति विस्तरः. आकाशानंत्यायतनसंगृहीता अष्टाविंशतिः. विज्ञानानंत्यायतनसंगृहीताश् चतुर्विंशतिः. आकिंचन्यायतनसंगृहीता विंशतिः. भवाग्र आर्यमार्गो नास्तीति तत्संगृहीता न संतीति न चिंत्यंते. तेषु धर्मज्ञानस्याभावाद् इति. तेष्व् आकाशानंत्यायतनादिषु धर्मज्ञानस्याभावात्. धर्मज्ञानस्य षड्भूमिकत्वात्. तस्मान् निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ न भवंति. अधोभूमिनिरोधालंबनस्य चान्वयज्ञानस्याभावात्. निरोधान्वयज्ञानाकारैः संप्रयुक्ताश् चतुर्ध्याननिरोधालंबनाः षोडश पुनर् न भवंतीत्य् अष्टाविंशतिर् भवंति. द्वापंचाशतो ऽष्टौ षोडश चैवापनीयेति कृत्वा. कथम्. आकाशानंत्यायतनसंगृहीता भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ. निरोधान्वयज्ञानाकारैः [तिब्. 233अ] संप्रयुक्ता आकाशानंत्यायतनादिनिरोधालंबनाः षोडश. मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इति. त इमे ज्ञानाकारालंबनभेदभिन्ना अष्टाविंशतिर् भवंति. एवं विज्ञानानंत्यायतननिरोधालंबनाश् चतुरो ऽपनीय चतुर्विंशतिर् योज्याः. आकिंचन्यायतनसंगृहीता विज्ञानानंत्यायतननिरोधालंबनान् अप्य् अपरान् अपनीय विंशतिर् इति. किं पुनः कारणं स्वभूम्यूर्ध्वभूमिकनिरोधम् एवालंबंत आरूप्या नाधोभूमिकं ध्यानवत्. न ह्य् अधोभूमिकं दुःखम् अनालंब्य तन्निरोधः शक्यम् आलंबितुं. दुःखं च सर्वं सास्रवम् एव. एष च नियमः.
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इत्य् एतत् कारणं. ध्यानानां तु समस्तालोचनत्वान् न प्रतिषेधः. वक्ष्यति हि
ध्यानं सद्विषयं शुभम्
इति. अथ कस्मान् निरोधम् एवालंबंते न पुनर् दुःखं समुदयं वा. भवाग्राद् अधोभूमेर् वीतरागत्वात्. तस्य हि भावाग्रिक एव नवमः प्रकारो वज्रोपमवध्यो ऽवशिष्ट इति. अधोभूमिप्रतिपक्षालंबनं तु भवतीति अन्वयज्ञानम् अधिकृतं. तच् च वज्रोपमसमाधिसंप्रयुक्तं वेदितव्यं. तस्य प्रतिपक्षस्य अन्योन्यहेतुत्वाद् इति
[तिब्. 233ब्] अन्योन्यं नवभूमिस् तु मार्गः समविशिष्टयोर्
इति वचनात्. सर्वं हि मार्गान्वयज्ञानं नवभूमिकान्वयज्ञानपक्षालंबनम् इति.

येषां त्व् इति विस्तरः. येषाम् आभिधार्मिकानां मार्गान्वयज्ञानम् अपि न केवलनिरोधान्वयज्ञानम् एकैकभूमिप्रतिपक्षालंबनम् इष्टं. तेषाम् अष्टाविंशतिम् अधिकान् प्रक्षिप्य अनागम्यसंगृहीता अशीतिर् वज्रोपमा भवंति. कथं कृत्वा. पूर्वकाः कृत्स्नस्यान्वयज्ञानपक्ष्यस्यालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः. इदानीम् एकीयमतेनैकैकभूमिप्रतिपक्षालंबना अपि व्यवस्थाप्यंते. अनागम्यसंगृहीताः प्रथमध्यानप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः. एवं यावद् आकिंचन्यायतनप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इत्य् एवम् अष्टाविंशतिर् अधिका भवंति. एवम् अष्टाविंशतिम् अधिकान् प्रक्षिप्य द्वापंचाशद् अशीतिर् भवंति. किं पुनः कारणं भवाग्रप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारो न गण्यंते. आह. न भवाग्रसंगृहीतो ऽनास्रवो मार्गो भवाग्रप्रतिपक्षो ऽस्ति. प्रथमध्यानभूमिकस् त्व् अस्ति. यावद् आकिंचन्यायतनभूमिक इति. तस्मात् तद्भूमिप्रतिपक्षालंबना एवोक्ताः. न भवाग्रप्रतिपक्षालंबना इति. अपरे पुनर् व्याचक्षते. येषां तु मार्गान्वयज्ञानम् अप्य् एकैकभूमिप्रतिपक्षालंबनम् [तिब्. 234अ] इष्टं. यथा निरोधान्वयज्ञानम् इष्टम् इत्य् अभिप्रायः. तेषां भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ. निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ. निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथंअध्याननिरोधालंबनाश् चत्वारः. एवं यावद् भवाग्रनिरोधालंबनाश् चत्वार इति द्वात्रिंशद् भवंति. एवं मार्गान्वयज्ञानाकारैर् अपि संप्रयुक्तास् तथैव द्वात्रिंशद् इति कृत्वा. अष्टाविंशतिम् अधिकान् प्रक्षिप्यानाम्यसंगृहीता अशीतिर् वज्रोपमा भवंतीति. तेषां हि ये हि कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनान् मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारस् ते न संति. भवाग्रप्रतिपक्षालंबनास् तु तत्स्थाने भवंतीत्य् अतो अशीतिर् वज्रोपमा भवंतीति. एवं यावच् चतुर्थध्यानसंगृहीताः कथम्. अष्टाविंशतिम् अधिकान् प्रक्षिप्य ध्यानांतरसंगृहीता अशीतिर् वज्रोपमा भवंति. यथा ध्यानांतरसंगृहीताः. एवं प्रथमद्वितीयतृतीयचतुर्थध्यानसंगृहीता प्रतिध्यानम् अशीतिर् वज्रोपमा भवंति. आकाशानंत्यायतनादिष्व् इति. भवाग्रवर्ज्येषु त्रिष्व् आरूप्येषु यथाक्रमं चत्वारिंशत् द्वात्रिंशच् चतुर्विंशतिश् च भवंति. कथं कृत्वा. [तिब्. 234ब्] आकाशानंत्यायतने तावद् अष्टाविंशत्यां वज्रोपमेष्व् आकाशानंत्यायतनप्रतिपक्षालंबनान् ( अभिध्-क्-व्य् 572 ) मार्गान्वयज्ञानाकारैः संप्रयुक्तांश् चतुरः प्रक्षिप्य यावद् आकिंचन्यायतनप्रतिपक्षालंबनांश् चतुर इति. द्वादश प्रक्षिप्य चत्वारिंशद् भवंति. एवं चतुर्विंशत्यां विज्ञानायतनप्रतिपक्षालंबनांश् चतुरः प्रक्षिप्याकिंचन्यायतनप्रतिपक्षालंबनांश् चतुरः प्रक्षिप्य द्वात्रिंशद् भवंति. एवं विंशत्याम् आकिंचन्यायतनप्रतिपक्षालंबनांश् चतुरः प्रक्षिप्य चतुर्विंशतिर् भवंति. आह. नन्व् अपदिष्टम् अधोभूमिप्रतिपक्षालंबनं तु भवति. तस्यान्योन्यहेतुत्वाद् इति. अथ कस्मात् स्वभूम्यूर्ध्वभूमिप्रतिपक्षालम्बना एवोक्ता आकाशानंत्यायतनादिसंगृहीताः. नाधोभूमिप्रतिपक्षालंबना इति. अत्रोच्यते. अविशेष्य नवभूमिकम् अन्वयज्ञानपक्षं मार्गम् अधोभूमिप्रतिपक्षालंबनं भवतीत्य् उक्तं. न पुनर् आकाशानन्त्यायतनादिसंगृहीतस्याधोभूमिप्रतिपक्षालंबनं. किं तर्हि. स्वभूम्यूर्ध्वभूमिकप्रतिपक्षालंबनं एव. तत्राविशेषरूपेणाधरालंबनम् अन्वयज्ञानं भवति. न विशेषस्वरूपेण. स्वभूम्यूर्ध्वभूम्यालंबनं तु विशेषरूपेणापि भवतीति. एष तु पूर्वको वैभाषिकाणां स्थापनापक्षः. सामान्यरूपेणैव सर्वम् अन्वयज्ञानपक्षम् आलंबते ऽन्वयज्ञानम् इति. [तिब्. 235अ] तथा ह्य् आचार्यसंघभद्रेणोक्तं. सर्वं हि मार्गान्वयज्ञानं नवभूमिकान्वयज्ञानपक्षालंबनम् इति. अपरे त्व् एवं व्याचक्षते. भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टाउ. निरोधान्वयज्ञानाकारैः संप्रयुक्ता आकाशानंत्यायतननिरोधालंबनाश् चत्वारः. एवं यावद् भावाग्रिकनिरोधालंबनाश् चत्वार इति षोडश. मार्गान्वयज्ञनाकारैर् अपि संप्रयुक्ता आकाशानंत्यायतनप्रतिपक्षालंबनाश् चत्वारः. एवं यावद् भवाग्रप्रतिपक्षालंबनाश् चत्वार इति षोडश. त एते द्विषोडश पूर्वोक्ताश् चाष्टाव् इति. चत्वारिंशद् आकाशानंत्यायतनसंगृहीता वज्रोपमा भवंति. विज्ञानानंत्यायतहसंगृहीता द्वात्रिंशत्. आकाशानंत्यायतननिरोधप्रतिपक्षालंबनान् अष्टावपनीयेति. आकिंचन्यातनसंगृहीताश् चतुर्विंशतिः. विज्ञानानंत्यायतननिरोधप्रतिपक्षालंबनान् अप्य् अपरान् अष्टाव् अपनीयेति. भवाग्रस्यापि हि ते ऽधोभूमिकं प्रतिपक्षमार्गम् आचक्षत इति.
पुनर् गोत्रेन्द्रियभेदाद् भूयांसो भवंतीति. कथं. ये तावद् अष्टौ सर्वप्रथमा उक्ताः. तेषां. यो भावाग्रिकदुःखालंबनो ऽनित्याकारसंप्रयुक्तो [तिब्. 235ब्] वज्रोपमः. तस्य षड्गोत्रभेदात् षोढाभेदः. एवं दुःखाद्याकारसंप्रयुक्तानां त्रयाणां प्रत्येकं षोढाभेदः. तेषाम् ( अभिध्-क्-व्य् 573 ) अपि प्रत्येकं मृदुमध्याधिमात्रेन्द्रियभेदाद् भेदः. यथा चैषां प्रत्येकं गोत्रेन्द्रियभेदाः. एवं भावाग्रिकसमुदयालंबनानां चतुर्णां प्रत्येकं षड्गोत्रभेदात् षोढाभेदः. इन्द्रियभेदाच् च त्रिधाभेदः. यथा चैषाम् अष्टानां गोत्रेन्द्रियभेदात् प्रत्येकं षोढा त्रिधा च भेदः. एवं सर्वेषाम् अनागाम्यसंगृहीतानां ज्ञानाकारालंबनभेदभिन्नानां यावद् आकिंचन्यायतनसंगृहीतानां गोत्रेन्द्रियभेदाद् भेदः. अनया वर्तन्या योज्यः. एवं वा योज्यः. प्रथमे पक्षे द्वापंचाशद् अनागाम्यसंगृहीताः. यावद् विंशतिर् आकिंचन्यायतनसंगृहीता इत्य् अभिसमस्य चतुरशीतिर् उत्तराणि त्रीणि शतानि वज्रोपमानां भवंति. तानि षड्गुणीकृत्य त्रिगुणीकृत्य च षट्सहस्राणि नवशतानि द्वादशोत्तराणि भवंति. द्वितीयपक्षे यत्रादितो ऽशीतिः. यावद् आकिंचन्यायतने चतुर्विंशतिर् इति. एकपिण्डतः षट्सप्तत्युत्तराणि पंचशतानि भवंति. गोत्रेन्द्रियभेदात् षट्गुणीकृत्य त्रिगुणीकृत्य च. दशसहस्राणि अष्टषष्ट्युत्तराणि च त्रीणि शतानि वज्रोपमानां [तिब्. 236अ] भवंतीति.

अत एव तत् क्षयज्ञानम् इति. कुत इत्य् आह. सर्वास्रवक्षयप्राप्तिसहजत्वात् प्रथमत इति. यस्मात् सर्वास्रवक्षयप्राप्त्या सह जातं तत्प्रथमतो ज्ञानं. तस्मात् क्षयज्ञानम् इत्य् उच्यते. मध्यपदलोपात्. नैरुक्तिविधानतो वा. सर्वग्रहणं स्रोतआपन्नादिज्ञानविशेषणार्थं. प्रथमतोग्रहणम् अनुत्पादज्ञानादिविशेषणार्थं. संकेतापेक्षया हिशब्दप्रवृत्तिः. अत एव स इति. स्वर्थपरिसमाप्तेः. स परार्थकरणार्हत्त्वाद् अर्हन्. परार्थकरणयोग्यत्वाद् इत्य् अर्थः. सर्वसरागपूजार्हत्त्वाच् चेति. सरागाः पृथग्जनशैक्षाः तेषां सर्वेषां पूजाम् अर्हतीत्य् अर्हन्. सिद्धं भवतीति. किं सिद्धं भवतीत्य् आह. अन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति. त्रयः फलस्थाश् चत्वारश् च प्रतिपन्नका उक्ताः. असाव् एवाशैक्ष इत्य् अवधारणाद् एतदन्ये आर्याः शैक्षा इति सिद्धं.
केन ते शैक्षा इति. केन कारणेन ते सप्त पुद्गलाः शैक्षा इत्य् उच्यंत इत्य् आह. आस्रवक्षयाय नित्यं शिक्षणशीलत्वाद् इति. शिक्षा शीलम् एषाम् इति शैक्षाः. शीलं. छत्त्रादिभ्यो ण इति लक्षणात्. क्व शिक्षणशीलाः. शिक्षात्रये. [तिब्. 236ब्] किं शिक्षात्रयम्. अधिशीलम् अधिचित्तम् अधिप्रज्ञं च. किंस्वभावास् ता इत्य् आह. ताः पुनः शीलसमाधिप्रज्ञास्वभावा इति. शीले शीक्षा अधिशीलम् एवं यावत् प्रज्ञायां शिक्षेत्य् अधिप्रज्ञम् इति. अव्ययं विभक्ताव् इत्य् अव्ययीभावसमासः. शिक्षाक्रियाणां त्व् अव्यतिरेकाच् छीलादिस्वभावाः शिक्षा इति व्याचष्टे. पृथग्जनो ऽपि शैक्षः प्राप्नोतीति. पृथग्जनो ऽपि विनयोक्तासु शिक्षासु शिक्षत इति. न. यथाभूतंसत्याप्रज्ञानात्. नैतद् एवं. कस्मात्. यथाभूतं सत्यानां दुःखादीनां अप्रज्ञानाद् अनवबोधात्. तद् धि भिक्षवो ( अभिध्-क्-व्य् 574 ) दृष्टं यद् आर्यया प्रज्ञयेति वचनात्. तथा हि सूत्रे अधिशीलम् अधिचित्तं वा शिक्षां विस्तरेणोक्त्वाह. अधिप्रज्ञं शिक्षा कतमा. इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति. यथाभूतसत्यप्रज्ञानात्. यत्र च शिक्षिताः शीलादिषु. तत्र पुनर् अपरशिक्षणात्. प्रातिमोक्षसंवरपरित्यागतः उष्मगतादिपरिहाणितश् चार्यः पुनर् यद्य् अपि किंचित् परित्यजति. न तु सर्वं. [तिब्. 237अ] न ह्य् आर्यस्य कदाचिद् अपि शिक्षात्रयं नास्तीति. प्रकृतिस्थ आर्य इति. असमाहितावस्था सत्त्वानां प्रकृतिः. तत्रस्थ आर्यः पिण्डपातचारादिगतः. न शिक्षणशील इति. न शैक्षः स्याद् इत्य् अभिप्रायः. आशयत इति छन्दतः. स्थिताध्वगवत्. अध्वग उच्यते यो ऽध्वानं गच्छति. संस्थितो ऽप्य् अध्वग इत्य् उच्यते. गमनाशस्यापरित्यागात्. तद्वत्. प्राप्त्यनुषंगतश् च. शीलसमाधिप्रज्ञानां च प्राप्तयः प्रकृतिस्थस्याप्य् अनुषज्यंते. तस्मात् प्रकृतिस्थो ऽपि नाशिक्षणशील एवेति.
शैक्षाशैक्षनिर्देशप्रशंगेनेदम् उच्यते. अथ शैक्षा धर्माः कतमा इत्यादि. शैक्षस्यानास्रवा धर्माः संस्कृतस्वभावाः. एवम् अशैक्षस्याशैक्षा धर्माः.
निर्वाणं कस्मान् न शैक्षं. यच् छैक्षेण प्राप्तम् इत्य् अभिप्रायः. अशैक्षपृथग्जनयोर् अपि तद्योगाद् इति. पृथग्जनो ऽपि लौकिकमार्गप्राप्तेन निर्वाणेन युज्यते.
प्रथमः प्रतिपन्नक इति. दर्शनमार्गस्थः. शेषाणाम् इति विस्तरः. शेषाणां प्रतिपन्नकानां सकृदागाम्यनागाम्यर्हत्त्वफलप्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात्. [तिब्. 237ब्] स्रोतआपत्तिसकृदागाम्यनागामिफलस्थेभ्यो ऽव्यतिरेकात्. सकृदागामिप्रतिपन्नकादयः स्रोतआपन्नादिभ्यो नान्य इत्य् अर्थः. अनुपूर्वाधिगमं प्रत्य् एवम् उच्यत इति. अनुपूर्वेण चतुःफलप्राप्तिं प्रत्य् उच्यते. द्रव्यत पंचेति. भूगःकामवीतरागौ तु स्यातां. भूयोवीतरागः क्षीणषट्प्रकारः. कामवीतरागः क्षीणनवप्रकारः. दर्शनमार्गे दर्शनमार्गावस्थायां यथाक्रमं सकृदागाम्यनागामिफलप्रतिपन्नकौ स्यातां. न च स्रोतआपन्नसकृदागामिनौ. किं तर्हि. तद्व्यतिरिक्तौ. तथा च सति द्रव्यतः सप्त भवंति. स्रोतआपत्तिसकृदागाम्यनागामिफलप्रतिपन्नकास् त्रयश् चत्वारश् च फलस्था इत्य् अर्हत्त्वफलप्रतिपन्नक एको ऽनागामिफलस्थान् न व्यतिरिक्त इत्य् अवगंतव्यं.
(वि.47अब्) द्विविधो हि भावनामार्ग उक्त इति.
द्विविधो भावनामार्गो दर्शनाख्यस् त्व् अनास्रव
इति वचनात्. तत्क्लेशानुशयितत्वाद् इति यस्मात् तद्भूमिकः क्लेशस् तत्र लौकिके ( अभिध्-क्-व्य् 575 ) मार्गे आलंबनतो ऽनुशयितः. यो हि क्लेश इति विस्तरेण साधर्म्यवैधर्म्यदृष्टांतं दर्शयति. यो यद्भूमिको मार्गः. न स तद्भूमिकक्लेशप्रतिपक्षः. [तिब्. 238अ] तत्क्लेशानुशयितत्वात्. असमाहिततद्भूमिकधर्मांतरवत्. वैधर्म्येण तूपरिसामंतकमार्गवद् अनास्रववत् प्रतिपक्षमार्गवद् वा. लौकिकेनापि वैराग्यम् इति. उपरिभूमिसामंतकेन. लोकोत्तरेणापीति. तत्प्रतिपक्षेण स्वाधरभूमिकेनानास्रवेण मार्गेण.
(वि.47च्द्) लौकिकेनार्यवैराग्य
इति. तद्यथा स्रोतआपन्नः शमथचरितः. लौकिकेन मार्गेण वैराग्यं गच्छतः प्रतिप्रकारं विशंयोगप्राप्तयः सास्रवो ऽनास्रवश् चोत्पद्यंते.
ध्यानं निश्रित्येति. यस्माच् छैक्षः षड् भूमीर् निश्रित्येन्द्रियाणि संचरति. नारूप्यम् इति.
अशैक्षो नव निश्रित्य भूमीः शैक्षस् तु षड्
इति वचनात् तेनाह. यो ध्यानं निश्रित्येन्द्रियाणि संचरति. स कृत्स्नपूर्वमार्गत्यागाद् आरूप्यमार्गाणां मृद्विन्द्रियसंगृहीतानां पूर्वलब्धानां त्यागात्. केवफलमार्गलाभाच् च केवलस्यानागामिफलस्य तीक्ष्णेन्द्रियस्वभावस्य लाभात्.

स विशेषं फलं त्यक्त्वा फल्म् आप्रोति वर्धयन्न्
इति वचनात्. ऊर्ध्वभूमिकक्लेशविसंयोगेन आरूप्यावचरक्लेशविसंयोगेनासमन्वागतः स्यात्. अयं चापरो दोषः. त्यक्ते च तस्मिन्न् ऊर्ध्वभूमिक्लेशविसंयोगे [तिब्. 238ब्] तैः क्लेशैर् ऊर्ध्वभूमिकैः समन्वागतः स्याद् इति.
भवाग्रार्धविमुक्तोर्ध्वजातवत् त्व् असमन्वय
इत्य् अर्धेन विमुक्तो ऽर्धविमुक्तः. भवाग्राद् अर्धविमुक्तो भवाग्रार्धविमुक्तः. ऊर्ध्वं जात ऊर्ध्वजातः. भवाग्रार्धविमुक्तश् चोर्ध्वजातश् च भवाग्रार्धविमुक्तोर्ध्वजातौ. तयोर् इवेति. भवाग्रार्धविमुक्तोर्ध्वजातवत्. समन्वयस् तैश् तस्येति वाक्यशेषः. तुशब्दः पूर्वदोषव्यावर्तनार्थः. तम् अर्थं विवृण्वन्न् आह. असत्याम् इति विस्तरः. असत्याम् अपि तस्य पुद्गलस्य लौकिक्यां विसंयोगप्राप्तौ. न तैः क्लेशैः समन्वागमः स्यात् तद्यथा भवाग्रार्धप्रकारविमुक्तस्येति विस्तरः. तस्य हि लौकिकी भवाग्रार्धप्रकारविसंयोगप्राप्तिर् नास्ति. तत्प्रतिपक्षलौकिकमार्गाभावात्. लोकोत्तरा च तद्विसंयोगप्राप्तिर् ध्यानं निश्रित्येन्द्रियसंचारेण त्यक्ता स्यात्. न च पुनस् तैर् भावाग्रिकक्लेशप्रकारैः समन्वागमो भवतीत्य् अभ्युपगम्यते भवद्भिः. तद्वद् अस्य स्यात्. यथा च पृथग्जनस्य प्रथमध्यानभूमेर् ऊर्ध्वं जातस्य द्वितीयध्यानाद्युपपन्नस्य. कामावचरक्लेशविसंयोगप्राप्तित्यागात्. प्रथमध्यानभूमिकाया विसंयोगप्राप्तेर्
भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभं.
तथारूप्याप्तम्
इति नियमात् त्यागो भवति. तस्मान् न पुनस् तैः कामावचरैः [तिब्. 239अ] क्लेशैः समन्वागमो भवतीत्य् अभ्युपगम्यते. तद्वद् अस्यापि पुद्गलस्य स्यात्. पृथग्जनस्येतिग्रहणं. यस्माद् आर्यस्य लौकिकेन मार्गेण कामधातोर् ऊर्ध्वं वा वैरग्यं गच्छतः क्लेशविसंयोगप्राप्तिर् लौकिकी लोकोत्तरा च भवति. तत्र या लौकिकी कामावचरक्लेशविसंयोगप्राप्तिः. तस्याः प्रथमध्यानभूमेर् ऊर्ध्वजातस्य भूमिसंचारेण त्यागो भवति न लोकोत्तरायाः.
आर्ये तु फलाप्त्युत्तप्तिहानिभिर्
इति त्यागनियमात्. तस्यां च सत्यां लोकोत्तरायां प्रथमध्यानाद् ऊर्ध्वं जातस्याप्य् आर्यस्य न पुनस् तैः समन्वागमः संभवति. न त्व् एवं पृथग्जनस्येति पृथग्जनग्रहणं. तस्माद् अज्ञापकम् एतत्. त्यक्ते क्लेशासमन्वयाद् इति यद् उक्तं.
(वि.48) सर्वत
इति. स्वोर्ध्वाधोभूमितः. तस्य सास्रवानास्रवत्वात्.
(वि.49) उपेक्षेन्द्रियसामान्याद् इति. चतुर्थध्यानादिसमापत्तितत्सामंतकयोर् उपेक्षेन्द्रियं तुल्यम् इति. कश्चिन् न शक्नोतीति मृद्विन्द्रियः. इन्द्रियसंचारस्य दुष्करत्वाद् इति. उपेक्षेन्द्रियानंतरं सुखेन्द्रियस्य सौमनस्येन्द्रियस्य वा दुष्करत्वात्. मौलसामंतकयोर् उपेक्षेन्द्रियसामान्ये सति किम् अर्थं मौलाद् एवांत्यं विमुक्तिमार्गं संमुखीकरोति. न सामंतकात्. वीतरागभूमिबाहुमान्यात्. [तिब्. 239ब्] नाधराया वीतरागत्वाद् इति. तत्सामंतकेन वाधोवैराग्यस्य कृतत्वात्. सत्याकारप्रवृत्ता इति. अनित्याद्याकारप्रवृत्ताः.
(वि.50) संभवत इति. यद्य् अधरां भूमिम् औदारिकतः पश्यंत्य् ऊर्ध्वं तद्विपर्ययेण शांतत इत्य् एके. अपरे व्याचक्षते. शांताद्याकाराणां कदाचिद् एकेनाप्य् आकारेणाकारयंति. नावश्यं समस्तैर् इति. औदारिकत इति. औदारिकम् इत्य् औदारिकतः. अशांतत्वाद् औदारिकतः. कथम् अशांताधरा भूमिः. महाभिसंस्कारतरत्वात्. इदं महाभिसंस्कारं यत्नसाध्यं मार्गेण सहाधरं स्थानं. इदम् अपि महाभिसंस्कारं सह मार्गेणोर्ध्वं स्थानम्. इदम् अनयोर् अतिशयेनेति महाभिसंस्कारतरं. तद्भावः. तस्मात्. खिलं दुर्भेदं. कुत्सितं खिलं दुःखिलम् इति दुःखिलतः. कथम् अप्रणीताधरा भूमिर् इत्य् आह. बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावाद् इति. दौष्ठुल्यं कायचित्तयोर् अकर्मण्यता क्लेशानुकूलतेत्य् अर्थः. बहुदौष्ठुल्यम् ( अभिध्-क्-व्य् 577 ) अस्येति. बहुदौष्ठुल्यम्. इदम् अपि बहुदौष्ठुल्यं समार्गम् अधरं स्थानं. इदम् अपि बहुदौष्ठुल्यं समार्गम् ऊर्ध्वं स्थानम्. इदम् अनयोर् अतिशयेनेति बहुदौष्ठुल्यतरं. तद्भावात्. [तिब्. 240अ] स्थूलभित्तिकत इति. स्थूलभित्तिकभावेन. तयैवतद्भूम्यनिःसरणात्. तयैव भूम्या तस्या एव भूमेर् अनिःसरणात्. भित्त्यनिःशरणवत्. यथा तयैव भित्त्या तस्या एव भित्तेर् अनिःसरणं. तदवष्टब्धाकाशदेशात्. तेषां विपर्ययेणेति. अल्पाभिसंस्कारत्वात् अल्पदौष्ठुल्यतरत्वेनाप्रतिकूलभावात् तया भूम्या तद्भूमिनिःसरणाद् यथाक्रमं शांतप्रणीतनिःसरणाकाराः.
(वि.51) गतम् आनुषंगिकं. इदं वक्तव्यम् इति. क्षयज्ञानांतराभावि वक्तव्यम्. अनुषंगेण तु लौकिकानांतर्यविमुक्तिमार्गलक्षणनिर्देश इति.
यद्य् अकोप्यः क्षयज्ञानाद् अनुत्पादमतिर्
इति. अपुनःकर्तव्यताज्ञानं. तद् अस्य तदानीम् उत्पद्यते. परिहाणिसंभवाद् इति. क्लेशोत्पादावकाशो ऽस्तीति नास्यानुत्पादज्ञानम् उत्पद्यते. किं कारणं. परिहाणिसंभवात्. यस्माद् अस्य परिहाणिः संभवति. यस्य पुनर् अनुत्पादज्ञानं. न तस्य परिहाणिर् इति.
(वि.52) तेन हि श्रमणो भवतीति. श्रामण्ययोगाच् छ्रमणो भवति. यथा शौक्ल्ययोगाच् छुक्लः पट इति. शमयति क्लेशान् इति श्रमणः. तन्निष्यन्दपुरुषकारफलत्वाद् इति. तस्य श्रामण्यस्यानंतर्यमार्गलक्षणस्य यथायोगं विमुक्तिमार्गा असंस्कृतानि च [तिब्. 240ब्] निष्यन्दफलत्वात् पुरुषकारफलत्वाच् च. विमुक्तिमार्गास् तस्य निष्यन्दफलं पुरुषकारफलं च. असंस्कृतानि पुरुषकारफलम् एव.
यद्बलाज् जायते यत् तत् फलं पुरुषकारजं.
यद्बलात् प्राप्यते च यत् तच् च पुरुषकारफलम् इति कृत्वा.
(वि.53) एवं तर्हीति विस्तरः. यथा पृथग्जनस्य पाणिनेः प्रवचने उपसंख्यानं क्रियते. एवं सर्वज्ञस्यापि बुद्धस्योपसंख्यानं कर्तव्यम् उपजायत इति वाक्यार्थः. पूर्वमार्गत्याग इति विस्तरः. पूर्वमार्गत्यागः प्रतिपन्नकमार्गत्यागात्. अपूर्वमार्गप्राप्तिश् च फलमार्गलाभाद् इति. सर्वस्यैकप्राप्तिलाभाद् इति. सर्वस्य दर्शनहेयप्रहाणस्यैका भावनामार्गसंगृहीता प्राप्तिः स्रोतआपत्तिफलप्राप्तिकाले लभ्यते. तथा सकृदागामिफलप्राप्तिकाले दर्शनहेयप्रहाणस्य षड्विधभावनामार्गहेयप्रहाणस्य च सर्वस्यैका सकृदागामिफलसंगृहीता प्राप्तिर् लभ्यते. एवम् अनागाम्यर्हत्त्वफलयोर् अपि योज्यं. चतुर्विधानां धर्मान्वयज्ञानानां इति. सत्यभेदाच् चतुर्विधानां धर्मज्ञानानाम् अन्वयज्ञानानां च तथैव चतुर्विधानाम् ( अभिध्-क्-व्य् 578 ) इति. युगपदष्टज्ञानलाभः.

(वि.54) लौकिकमार्गप्राप्तं फलद्वपम् इति. सकृदागामिफलम् [तिब्. 241अ] अनागामिफलं च. तद् धि लौकिकेनापि मार्गेण प्राप्तं संभवति. तत् कथं श्रामण्यस्यानास्रवमार्गलक्षणस्य फलं युज्यते. दर्शनमार्गफलम् अपि प्रहाणम् इति. अपिशब्दाद् भावनामार्गफलम् अपि प्रहाणं गृह्यते. तस्य द्विप्रकारस्यापि प्रहाणस्य सकृदागामिफलसंगृहीतानागामिफलसंगृहीता वा एका प्राप्तिर् लभ्यते. तस्माद् दर्शनमार्गफलप्रहाणयोगाद् असंस्कृतं सकृदागंइफलम् अनागामिफलं वा श्रामण्यफलं भवति. यत् त्रयाणां संयोजनानां प्रहाणम् इति. त्रिसंयोजनप्रहाणं दर्शनमार्गेण. पंचावरभागीयैकदेशानां सत्कायदृष्टिशीलव्\रतपरामर्शविचिकित्सानां दर्शनमार्गेणैव प्रहाणं. तस्य प्रहाणस्य सकृदागाम्यनागामिफलत्वे. किं. कृतः प्रक्षेपः. तेन ज्ञायते. प्रहाणमिश्रीकरणाद् एवम् उक्तं भगवतेति. तद्बलेन परिहीणाद् इति.
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा
इति तत्रनास्रवया विसंयोगप्राप्त्या तत् प्रहाणं यल् लौकिकमार्गसंप्राप्तं संधार्यते. प्राप्तियोगेनावश्यम् उपतिष्ठत इत्य् अर्थः. म्रियते न फलभ्रष्ट इति. तदभावे हि लौकिकस्येव परिहीणस्य मरणं स्यात्. तद्बलेनेत्य् अनास्रवविसंयोगप्राप्तिबलेनेत्य् [तिब्. 241ब्] अर्थः. सैव च वर्तमानलौकिकमार्गोपजनितानास्रवा प्रातिर् अनागतश् चाष्टांग आर्यमार्गो लौकिकबलेन प्राप्यमाणः संस्कृतं श्रामण्यफलं व्यवस्थाप्यमानं न विरुध्यते. सूत्रे त्व् असंस्कृतं श्रामण्यफलम् उद्ग्राह्यते. प्राधान्यात्. संस्कृतम् अप्य् अत्रैष्टव्यम् इति.
(वि.55, 56) क्लेशानां वाहनाद् ब्राह्मण्यम् इति. वाहिता अनेनानेकविधाः पापका अकुशला धर्मा इति ब्राह्मणः. तद्भावो ब्राह्मण्यम् अनास्रवो मार्गः. कथं ब्रह्मचक्रम् इत्य् आह. ब्रह्मचक्रं तु ब्रह्मवर्तनाद् इति. यस्माद् ब्रह्मणा प्रवर्तितं. तस्मात् ब्रह्मचक्रम् इति. अनुत्तरब्राह्मण्ययोगाद् इति. अनुत्तरानास्रवमार्गयोगाद् इत्य् अर्थः. एष हि भगवान् ब्राह्मेत्य् एतद् उदाहरणं जीवकेनोक्तम् एतत्.
आशुगत्वाद्यरादिभिर्
इति. आशुगत्वादिभिर् अरादिभिश् चेत्य् अर्थः. आशुगत्वाद् इति विस्तरः. इदं मार्गस्य चक्ररत्नेन साधर्म्यम् उच्यते. यथा चक्ररत्नम् आशुगम्. एवं ( अभिध्-क्-व्य् 579 ) दर्शनमार्गः. पंचदशभिश् चित्तक्षणैः सत्याभिसमयाद् आशुग इति. त्यजनक्रमणात्. यथा तद् अन्यं देशं त्यजत्य् अन्यं देशं क्रामति. [तिब्. 242अ] एवम् अयम् आनंतर्यमार्गं त्यजति विमुक्तिमार्गं क्रामति संमुखीभावतः. सत्यांतरत्यजनक्रमणाद् वा. अजितजयजिताध्यावसनात्. यथा तद् अजितानि ग्रामनिगमादीनि जयति. जितानि चाध्यावसति. एवम् अयम् आनंतर्यमार्गेणाजितान् सत्कायदृष्ट्यादीन् क्लेशां जयति तत्प्रातिच्छेदात्. जितांश् चाध्यावसति विमुक्तिमार्गेण. क्लेशविसंयोगप्राप्तिसहोत्पादात्. उत्पतननिपतनाच् च. यथा च तत् क्वचिद् उत्पतति क्वचिन् निपतति. एवम् अयम् आनंतर्यविमुक्तिमार्गाणां पुनःपुनः संमुखीभावात्. कामादिदुःखादिसत्यालंबनतो वा यथायोगम् उत्पतति च. रूपारूप्यधात्वालंबनाद् उत्पतति. कामधात्वालंबनान् निपततीति.

सम्यग्दृष्टिर् इति विस्तरः. इह शीलं प्रतिष्ठाय समाधिलाभः समाधिलाभात् प्रज्ञा यथाभूतं भाव्यत इत्य् अतः सम्यग्वाक्कर्मांताजिवा नाभिस्थानीयाः. सम्यग्दृष्ट्यादीनां तत्प्रतिबद्धवृत्तित्वात् शीलम् आधारभूतम् इति कृत्वा. समाधिर् नेमिस्थाणीयस् तेनेतरेषाम् उपग्रहात्. सम्यग्दृष्ट्यादयो ऽरस्थानीयः. [तिब्. 242ब्] अरवद् इतश् चामुतश् च प्रवृत्तत्वात्. कुत एतद् इति. किं स्वमतम् एतद् वैभाषिकाणां दर्शनमार्गो धर्मचक्रम् इत्य् आहोद्विद् आगमत इति. तदुत्पत्तौ प्रवर्तितम् इति. दर्शनमार्गोत्पत्तौ प्रवर्तितं धर्मचक्रम् इति सूत्रे वचनात्. कथं. भगवान् बाराणास्यां विहरति स्म ऋषिपतने मृगदावे. तत्र भगवान् पंचकां भिक्षून् आमंत्रयते स्म. इदं दुःखम् आर्यसत्यम् इति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश् चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् उदपादि. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति. पूर्वम् अननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश् चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् उदपादि. तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश् चक्षुर् उदपादीति पूर्ववत्. तत् खलु दुःखसमुदय आर्यसत्यम् अभिज्ञया प्रहातव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु दुःखनिरोध आर्यसत्यम् अभिज्ञया साक्षात्कर्तव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावयितव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. [तिब्. 243अ] तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु दुःखसमुदय आर्यसत्यम् अभिज्ञया प्रहीणं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु ( अभिध्-क्-व्य् 580 ) दुःखनिरोध आर्यसत्यम् अभिज्ञया साक्षात्कृतं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु पुनर् दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावितं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. यावच् च मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं न चक्षुर् उदपादि. न ज्ञानं न विद्या न बुद्धिर् उदपादि. न तावद् अहम् अस्मात् सदेवकाल् लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुराया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासापगतेन चेतसा बहुलं व्यहार्षं. न तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् अध्यज्ञासिषं. यतश् च मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं चक्षुर् उदपादि यावद् बुद्धिर् उदपादि. ततो ऽहम् अस्मात् सदेवकाद् यावत् विप्रयुक्तो विपर्यासापगतेन चेतसा [तिब्. 243ब्] बहुलं व्यहार्षं. ततो ऽहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीति अध्यज्ञासिषं. अस्मिन् खलु पुनर् धर्मपर्याये भाष्यमाणे आयुष्मतः कौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम् अशीतेश् च देवतासहस्राणां. तत्र भगवान् आयुष्मंतं कौण्डिन्यम् आमंत्रयते स्म. आज्ञातस् ते कौण्डिन्य धर्मः. आज्ञातो मे भगवन्. आज्ञातस् ते कौण्डिन्य धर्मः. आज्ञातो मे सुगत. आज्ञात आयुष्मता कौण्डिन्येन धर्म इति भौमा यक्षाः शब्दम् उदीरयंति घोषम् अनुश्रावयंति. एतन् मार्षा भगवता बाराणस्याम् ऋषिपतने मृगदावे त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रवर्तितं. अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा. केनचित् पुनर् लोके सहधर्मेण बहुजनहितायेति विस्तरः. तद् एवम् आर्यस्य कौण्डिन्यस्य दर्शनमार्ग उत्पन्ने देवताभिर् उक्तं भगवता प्रवर्तितं धर्मचक्रम् इति सूत्रवचनात्. दर्शनमार्गो धर्मचक्रम् इति गम्यते.

कथं त्रिपरिवर्तम् इति विस्तरः. इदं दुःखम् आर्गसत्यम् इत्य् एकः परिवर्तः. तत् खलु परिज्ञातव्यम् इति द्वितीयः. तत् खलु परिज्ञातम् इति तृतीयः. इत्य् एते त्रयः परिवर्ताः. एकैकस्मिन् परिवर्ते इदं दुःखम् इत्य् अस्मिंश् चक्षुर् उदपादि ज्ञानं [तिब्. 244अ] विद्या बुद्धिर् उदपादीति चत्वार आकाराः. परिज्ञातव्यम् इत्य् अस्मिन् पुनश् चत्वारः. परिज्ञातम् इत्य् अस्मिन् पुनर् अपि चत्वारः. इत्य् एते द्वादशाकाराः. तत्र प्रत्यक्षार्थत्वाद् अनास्रवा प्रज्ञा चक्षुः. निःसंशयत्वाज् ज्ञानं. भूतार्थत्वात् विद्या. विशुद्धत्वाद् बुद्धिः. विशुद्धा धीर् बुद्धिर् इति निरुक्तेः. पुनर् बाह्यकानां सत्येषु दर्शनं कुदृष्टिविचिकित्साविद्यानाम् अप्रतिपक्षः सास्रवं चेति ततो विशेषणार्थं चक्षुरादिग्रहणं ( अभिध्-क्-व्य् 581 ) पुनस् त्रिषु परिवर्तेषु प्रथमं दर्शनं चक्षुः. यथादृष्टव्यवचारणं ज्ञानं. यावद्भाविकताम् उपादाय विद्या. यावद्विद्यमानग्रहणात्. यथावद्भाविकताम् उपादाय बुद्धिः. यथाभूतार्थावबोधात्. पुनर् अननुश्रुतेषु धर्मेष्व् आनुमानिकज्ञानप्रतिषेधार्थं चक्षुर् इत्य् आह. आधिमोक्षिकज्ञानप्रतिषेधार्थं ज्ञानम् इति. आभिमानिकज्ञानप्रतिषेधार्थं विद्येति. सास्रवप्रतिषेधार्थं बुद्धिर् इति. प्रति सत्यम् एवं भवंतीति. अयं दुःखसमुदय आर्यसत्यं. तत् खलु प्रहातव्यं. तत् खलु प्रहीणम् इत्य् एते त्रयः परिवर्ताः. एकैकस्मिं परिवर्ते चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् इत्य् एते द्वादशाकाराः. एवं निरोधमार्गसत्ये अपि योज्ये. आह. यदि प्रति सत्यम् एवं भवंति. त्रयः परिवर्ता द्वादश चाकाराः [तिब्. 244ब्] द्वादश परिवर्ताः अष्टचत्वारिंशच् चाकाराः प्राप्नुवंति. कस्मात् त्रिपरिवर्तं द्वादशाकारम् इत्य् उक्तम्. अत उच्यते. त्रिकद्वादशकसाधर्म्यात् तु त्रिपरिवर्तं द्वादशाकारम् उक्तम् इति. द्वयसप्तस्थानकौशलदेशनावद् इति. द्वयदेशनावत्. सप्तस्थानकौशलदेशनावच् च. तद्यथा विस्तरम् उक्त्वा तेन हि भिक्षो द्वयं ते देशयिष्यामि तच् छृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये. द्वयं कतमत्. चक्षूरूपाणि यावन् मनोधर्माश् चेति. यथेह द्वयसाधर्म्याद् द्वयम् इत्य् उक्तम्. एवं त्रिकद्वादशकसाधर्म्यात् त्रिपरिवर्तं द्वादशाकारम् उक्तं. यथा च सप्तस्थानकुशलो भिक्षुः रूपं यथाभूतं प्रजानाति. रूपसमुदयं. रूपनिरोधं. रूपनिरोधगामिनीं प्रतिपदं. रूपस्यास्वादं चादीनवं च. निःसरणं च यथाभूतं प्रजानातीति. सप्तस्थानकुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रम् एवास्मिन् धर्मविनये दुःखस्यांतं प्रजानातीति. प्रत्येकं स्कंधेषु सप्तस्थानकौशलसाधर्म्यात्. एवम् इहापि त्रिकद्वादशकसाधर्म्यात् त्रिपरिवर्तं द्वादशाकारम् उक्तम् इति. एभिश् चेति विस्तरः. एभिश् च परिवर्तैर् यथासूत्रनिर्दिष्टैर् दर्शनभावनाशैक्षमार्गा [तिब्. 245अ] यथासंख्यं दर्शिताः. इदं दुःखम् आर्यसत्यम् इत्य् आरभ्य यावद् इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति दर्शनमार्गो दर्शितः. तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातव्यम् इत्य् आरभ्य यावत् तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावयितव्यम् इति भावनामार्गो दर्शितः. तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातम् इत्य् आरभ्य यावत् तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावितम् इत्य् अशैक्षमार्गो दर्शित इति. अत्राचार्य आह. यद्य् एवम् इति विस्तरः. यद्य् एवम् एभिः परिवर्तैर् दर्शनादिमार्गा यथासंख्यं दर्शिताः. न तर्हि दर्शनमार्ग एव त्रिपरिवर्तो द्वादशाकारः. किं तर्हि. एकपरिवर्तश् चतुराकार इति. कथम् असौ दर्शनमार्गो धर्मचक्रं व्यवस्थाप्यते. त्रिपरिवर्ताभावे ( अभिध्-क्-व्य् 582 ) चक्रसाधर्म्याभावान् न चक्रं युज्यत इत्य् अभिप्रायः. तस्मात् स एव धर्मपर्यायो धर्मचक्रं. तद् एव सूत्रं धर्मचक्रं. धर्मचक्रप्रकाशनात्. त्रिपरिवर्तं द्वादशाकारं च युज्यते. तदर्थप्रकाशनात्. त्रिःपरिवर्तनाद् इति. दुःखं यावन् मार्ग इत्य् एकं परिवर्तनं. [तिब्. 245ब्] परिज्ञातव्यं यावद् भावयितव्यम् इति द्वितीयं. परिज्ञातं यावद् भावितम् इति तृतीयं. चतुर्णां सत्यानां त्रिधाकरणाद् इति. दुःखं समुदयो निरोधो मार्ग इति सत्यस्वरूपं प्रत्य् एक आकरणप्रकारश् चतुराकारः. परिज्ञातव्यं प्रहातव्यं साक्षात्कर्तव्यं भावयितव्यं इति कर्तव्यरूपां परिज्ञानक्रियां प्रति द्वितीय आकरणप्रकारश् चतुराकारः. परिज्ञातं प्रहीणं साक्षात्कृतं भावितम् इति परिनिष्ठितां परिज्ञानादिक्रियां
प्रति तृतीय आकरणप्रकारश् चतुराकार इति. द्वादशाकारं भवति. तस्य पुनर् इति. धर्मपर्यायस्य. प्रवर्तनं परसंतान्मे गमनं विनेयजनसंताने प्रेरणं. कथं गमनम्. अर्थज्ञापनात्. अथ वा सर्व एवार्यमार्गो दर्शनभावनाशैक्षमार्गो धर्मचक्रं. विनेयजनसंताने क्रमणात्. क्रमणाच् चक्रम् इति कृत्वा. यदि सर्व एवार्यमार्गो धर्मचक्रं. कथम् आर्याज्ञातकौण्डिन्यस्य दर्शनमार्गमात्रोत्पादे तत् प्रवर्तितम् इत्य् उक्तं. अत उच्यते. तत् तु परसंताने आर्यकौण्डिन्यसंताने. दर्शनमार्गोत्पादनाद् वर्तयितुम् आरब्धम् आदौ वर्तितम् इत्य् एतत् प्रवर्तितम् इत्य् उच्यते. आदिकर्मणि प्रशब्दो वर्तते. प्रभुक्त ओदन इति यथा.
(वि.57) तृतीयस्य तु कस्माद् अप्राप्तिर् इति. रूपधातूपपन्नो [तिब्. 246अ] यदि नियामम् अवक्रामेत्. षोडशे चित्तक्षणे कस्माद् अनागामिफलप्राप्तिर् न स्याद् इत्य् अभिप्रायः. परिहार उच्यते.
नोर्ध्वं हि दृक्पथ
इति. श्रवणाभावाद् इति. आरूप्येषु श्रावकबोधिर् एव भवंती भवेत्. स्वयंभुबोधेर् असंभवात्. श्रावकाभिसमयश् च परतो घोषम् अंतरेण न भवति. किं च अधोधात्वनालंबनाच् च.
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इति. त्रैधातुकालंबनेन च दर्शनमार्गेण भवितव्यम् इत्य् अतः. स तत्र न भवतीति. विधानं विधा उपाय इत्य् अर्थः.
(वि.58, 59अब्) परिहाणं धर्मः स्वभावो ऽस्येति परिहाणधर्मा. चेतनाधर्मा आत्ममारणधर्मा. अनुरक्षणाधर्मा यस् तां विमुक्तिम् अनुरक्षितुं शक्नोति. स्थिताकंप्यः यस्यां विओमुक्तौ स्थितः. तस्यां अकंप्यः. प्रतिवेधनाभव्यः. इन्द्रियसंचारभव्यः. अकोप्यधर्माकोप्यो ऽनिवार्यो धर्मो ऽस्येत्य् अकोप्यधर्मा. स च द्विविधः. स्वभावतस् तीक्ष्णेन्द्रियः. ( अभिध्-क्-व्य् 583 ) न्द्रियसंचारतस् तीक्ष्णेन्द्रियश् च.
पंच श्रद्धाधिमुक्तजाः

एवेत्य् अवधारणं. श्रद्धाधिमुक्ता भूत्वा एते जाता इत्य् अर्थः. श्रद्धाधिमुक्तपूर्वका इति यावद् उक्तं भवति. षष्ठस् [तिब्. 246ब्] त्व् अन्यथापि भवतीति व्याख्यातं सामयिकीति. समये उपकरणारोग्यदेशविशेषादिलक्षणे भवा सामयिकी. कांता च. कांता चेतोविमुक्तिः. कस्मात् कांतेति. नित्यानुरक्ष्यत्वात्. कांतं हि नित्यम् अनुरक्ष्यम् इति लोके दृश्यते. सूत्रे ऽप्य् उक्तं. तद्यथा नामैकाक्षस्य पुरुषस्य ज्ञातय एकम् अक्षि साधु च सुष्ठु चानुरक्षितव्यं मन्येरन्. मास्य शीतं मास्योष्णं मास्य रजोऽंशवश् चक्षुषि निपतेयुर् मास्य यद् अप्य् एकं चक्षुर् अविनष्टं तद् अपि विनश्येद् इति. एवम् एव समयविमुक्तस्यार्हतो ऽनुरक्ष्य एष धर्मो ऽनुकंप्यो ऽनुग्राह्यः. तत एवं समयविमुक्तो ऽर्हन् साधु च सुष्ठु चानुरक्षितव्यं मन्यते. कच्चिद् अहम् एतस्माद् धर्मान् न परिहीयेयेति. स तस्मान् न परिहीयत इति. घृतघटवद् इति. यथा घृतस्य पूर्णो घटो घृतघट इति भवति. मध्यगतस्य पूर्णशब्दस्य लोपात्. यथा वा घृतापेक्षो घटो घृतघटो यत्र घृतं प्रक्षेप्स्यते. अपेक्षशब्दलोपात् घृतघट इति भवति. एवम् इहापि मध्यगतस्यापेक्षशब्दस्य लोपात् समयाअपेक्षाश् चैते विमुक्ताश् चेति समयविमुक्ताः. समयः पुनर् उपकरणादिर् इत्य् [तिब्. 247अ] उक्तं. कथं कोपयितुम् अशक्यत्वाद् इत्य् आह. अपरिहाणित इति. कालांतरात्यंतविमुक्तितो वेति. कालांतरविमुक्तितः समयविमुक्तत्वम्. अत्यंतविमुक्तितो ऽसमयविमुक्तित्वम् इत्य् अर्थः. कथम् एवम् इत्य् आह. परिहाणिसंभवासंभवतः. परिहाणिसंभवात् कालांतरविमुक्त्या समयविमुक्त इत्य् उच्यते. परिहाण्यसंभवाद् अत्यंतविमुक्त्यासमयविमुक्त इत्य् उच्यते.
दृष्टिप्राप्तान्वयश् च स
इति. यदा शैक्षो भूत्वेन्द्रियाणि संचरति. स दृष्टिप्राप्तताम् आपद्यते. अथ स्वभावतस् तीक्ष्णेन्द्रियः स षोडशे चित्तक्षणे दृष्टिप्राप्त एव. तस्माद् असाव् अकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्य् उच्यते. यस् त्व् अर्हत्त्वावस्थायाम् इन्द्रियाणि संचरति. नासाव् अकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्य् अवगंतव्यं.
(वि.59च्द्) कश्चित् प्रथमत एव चेतनाधर्मगोत्रक

इति. परिहाणधर्मा नोच्यते. यस्माद् उत्तापनागतो न भवतीति. तद्गोत्रा आदितः केचिद् इत्य् अपदिष्टं. तत् किम् इदं परिहाणधर्मगोत्रं नाम यावद् अकोप्यधर्मगोत्रम् [तिब्. 247ब्] इति न तैः परिहाणधर्मादिगोत्रम् अपदिष्टं. तत्र केचिद् एवं वर्णयंति कुशलमूलानि गोत्रम् इति. कस्यचिद् धि तादृशानि कुशलानि भवंति. यः परिहाणधर्मा यावद् अकोप्यधर्मा. अन्ये ( अभिध्-क्-व्य् 584 ) पुनर् आहुः पृथग्जनावस्थाम् आरभ्येन्द्रियभेदो गोत्रम् इति. सौत्रांतिकाः पुनर् वर्णयंति बीजं सामर्थ्यं चेतसो गोत्रम् इति. पृथग्जनावस्थायां शैक्षावस्थायां च परिहाणधर्मबीजे सति हेतौ परिहाणधर्मगोत्रक इत्य् उच्यते. एवम् अशैक्षावस्थायां तद्बीजवृत्तिलाभात् परिहाणधर्मेत्य् उच्यते. एवं यावद् अकोप्यधर्मेति. तत्र परिहाणधर्मेति विस्तरः. परिहाणधर्मा यः परिहातुं भव्य इति. यद्य् एतावद् ब्रूयात्. न च चेतनादिधर्मेत्य् एतन् न ब्रूयात्. सर्व एवैते चेतनाधर्मादयश् चत्वारः परिहातुं भव्या इत्य् एषाम् एवान्यतरः परिहाणधर्मा स्यात्. न तेभ्यो ऽन्यः पंचमः. अतस् तेभ्यो ऽन्य एवायं पंचम इति विशेषयन् न च चेतनादिधर्मेत्य् आह. चेतनाधर्मादीनां पुनश् चतुर्णां परिहाणधर्मकत्वे ऽसति [तिब्. 248अ] एकैकस्य विशेषलक्षणापदेशाद् एव पुनर् इदं वक्तव्यं जायते. चेतनाधर्मा चेतयितुं भव्यो न चानुरक्षणाधर्मा यावत् प्रतिवेधनाभव्य इति. एवम् अनुरक्षणाधर्मा परिहाणिप्रत्ययं बलवंतम् अंतरेणेति. यदि परिहाणिप्रत्ययो बलवान् स्यात् परिहीयेत स इत्य् अभिप्रायः. अनेन बलवत्प्रत्ययवचनेन परिहाणधर्मणः पूर्वोक्ताद् विशिनष्टि. परिहाणधर्मा ह्य् अबलवतापि परिहाणिप्रत्ययेन परिहीयते. परिहाणिप्रत्ययाः पुनर् यथा सूत्रं. पंच हेतवः पंचप्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तंते. कतमे पंच. कर्मांतप्रसृतो भवति. भाष्यप्रसृतो भवति. अधिकरणप्रसृतो भवति. दीर्घचारिकायोगम् अनुयुक्तो भवति. दीर्घेण च रोगजातेन स्पृष्टो भवतीति. अननुरक्षन्न् अपीत्य् अनेनानुरक्षणाधर्मणो विशिनष्टि. स ह्य् अनुरक्षन्न् एव न परिहीयेत. अयं त्व् अननुरक्षन्न् अपीति. अननुरक्षयन्न् अपि तत्फलं स्थातुं भव्यस् तत्फले. न हातुं तत्फलात्. नापि वर्धयितुं प्रतिवेधनाभव्यताप्राप्त्या. विनाभियोगेन विना वीर्येण. अनेनार्थाद् उक्तं भवति. यद्य् अभियोगं कुर्याद् भव्यः स्याद् इति प्रतिवेधनाभव्याच् चायम् एवं विशेषितो भवति. [तिब्. 248ब्] स हि विना अप्य् अभियोगेन प्रतिवेद्धुं भव्य इति.
प्रथमौ द्वाव् इति विस्तरः. परिहाणधर्मा सातत्यसत्कृत्यप्रयोगविकलः. चेतनाधर्मापि सातत्यप्रयोगेण विकलः. विशेषेण तु सत्कृत्यप्रयोगेण विकल इत्य् अनयोर् विशेषः. मृद्विन्द्रियस् त्व् इति षष्ठाद् विशिनष्टि. षष्ठो हि तीक्ष्णेन्द्रियः. इन्द्रियकृतो ह्य् अनयोर् विशेषो न प्रयोगकृत इति. एवं च कृत्वेति विस्तरः. यस्मान् नावश्यम् एवं भवति. तस्माद् रूपारूप्यधात्वोर् अपि षड् अर्हंतो न केवलं कामधाताव् एव षड् इत्य् अभिप्रायः. रूपारूप्यधात्वोर् द्वौ स्थिताकंप्य एकः. अकोप्यधर्मा च द्वितीयः. स्थिताकंप्यस् ( अभिध्-क्-व्य् 585 ) तावद् बद्धाभिरुचिः स्यान् न प्रतिवेधनाभव्यताक्रियादरवान् इति. न कामधातौ स्थिताकंप्यः प्रतिवेधनाभव्यताम् आपद्यते. रूपारूप्यधात्वश् च परिहाणिप्रत्ययो बलवान् नास्तीति. नासौ परिहीयते. न चेन्द्रियाणि संचरंतीति स्थिताकंप्यगोत्रक एव सं तत्र भवति. अकोप्यविमुक्तियोगाच् चाकोप्यधर्मापि भवति. एवेति द्वाव् एव तौ भवतः. नातो ऽन्ये. तयो रूपारूप्यधात्वोः परिहाणिचेतनेन्द्रियसंचाराभावात्. परिहाणधर्मा तावत् तत्र नास्ति. परिहाण्यभावात्. अनुरक्षणाधर्मापि नास्ति. परिहाण्यभावेनानुरक्षितव्यायोगात्. [तिब्. 249अ] अत एव चेन्द्रियसंचाराभावात् प्रतिवेधनाभव्यो ऽपि न भवति. तथा चोक्तं.
स चोर्ध्वजश् च नैवाक्षसंचारपरिहाणिभाग्
इति. तत्र च नात्मसंचेतना न परसंचेतनास्तीति चेतनाधर्मापि न भवतीति.
(वि.60अब्) चेतनाधर्मादीनां चतुर्णाम् इति. चेतनानुरक्षणाधर्मस्थिताकंप्यप्रतिवेधनाभव्यानां. न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयत इति. तस्य गोत्रस्याकृत्रिमत्वात्. परिहाणधर्मादीनां पंचानाम् इति. यस्मात् परिहाणधर्मणो ऽपि फलात् परिहाणिः संभवति. फलस्यागंतुकत्वात्.
न पूर्वकाद्
इति. गोत्रात् फलाच् च. स तस्मान् न परिहीयत इत्य् अर्हन्. कस्माद् इत्य् आह. शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति. यच् छैक्षावस्थायां गोत्रम् अस्ति. तच् छैक्षेण मार्गेण भावितं. अशैक्षावस्थायां च पुनर् भावितम् इति. ताभ्यां दृढीकृतत्वान् न तस्मात् सो ऽर्हन् परिहीयते. शैक्षस् तु कथम् इत्य् आह. शिक्षस् तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वात् प्रथमात् गोत्रान् न परिहीयते. यत् तद् आत्मीयं प्रथमं गोत्रं तल् लौकिकेन मार्गेण पूर्वं भावितं. शैक्षेण च मार्गेण पुनर् भावितम् इति. ततो [तिब्. 249ब्] न परिहीयते.
अत्र कश्चिद् आह. यद् उच्यते. यस्य यत् प्रथमं गोत्रं. स तस्मान् न परिहीयते शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति. तद् एतद् अकारणं. यस्माद् यो ऽपि चेतनाधर्मा उत्तापनागतस् तस्मात् गोत्रात् परिहीयते. तद् गोत्रं शैक्षाशैक्षाभ्यां मार्गाभ्यां दृढीकृतम् इति. परिहाणिर् न प्राप्नोति. तस्मात् गोत्रम् एव तत् तादृशं यस्माद् आद्यान् न परिहीयते. उत्तापनागतात् तु परिहीयत इति. यद् अप्य् उक्तं शैक्षस् तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वान् न परिहीयत इत्य् एतद् अप्य् अकारणं. स्रोतआपन्नस्य परिहाणिप्रसंगात्. न हि स्रोतआपत्तिफलं लौकिकेन मार्गेण दृढीकृतम् इति. कर्तव्यो ऽत्र यत्न इति.

अत्र वयम् आचार्यस्याभिप्रायं दर्शयामो येनैवम् उक्तं. कथम् इति. यत् तावद् उक्तं चेतनाधर्मा उत्तापनागतस् तस्मात् गोत्रात् परिहीयत इति. तद् अयुक्तं. यद् धि चेतनाधर्मगोत्रं शैक्षावस्थायां भावितं पुनश् चाशैक्षावस्थायाम् अपि भावितम् इति दृढीकृतं. नैव स तस्माद् अर्हत्त्वात् परिहीयमाणः परिहीयते. शैक्षावस्थायां प्रथमीभूतत्वात्. उक्तं चाचार्यसंघभद्रेण यः शैक्षावस्थायां गोत्रांतरम् अधिगम्यार्हत्त्वं प्राप्नोति. असाव् [तिब्. 250अ] अपि तं मार्गं परित्यजति. न चोत्तापनागत एव गोत्रे नावतिष्ठत इति. यत् तु चेतनाधर्मगोत्रम् अशैक्षावस्थायाम् इदानीम् एवाधिगतं न शैक्षावस्थायाम् अधिगतं. स तस्मात् परिहीयमाणः परिहीयते. तदवस्थाद्वयादृढीकृतत्वात्. इति न कारणम् एवैतद् भवति. यद् अप्य् उक्तं शैक्षस् तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतत्वान् न परिहीयेत इत्य् एतद् अप्य् अकारणं. स्रोतआपन्नस्य परिहाणिप्रसंगात्. न हि स्रोतआपत्तिफलं लौकिकेन लोकोत्तरेण दृढीकृतम् इति. तद् अप्य् अनवबुद्ध्याभिहितं. तद् गोत्रं प्रति कारणम् उच्यते. न फलं प्रति. तत्र हि कारणांतरं वक्ष्यते. येन प्रथमात् फलान् न परिहीयते. न हि किंचिद् अप्य् अस्ति फलं यद् युगपद् उभाभ्यां लौकिकलोकोत्तराभ्यां प्राप्यते. गोत्रं तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतं भवति. ऐहजन्मिकेनोष्मगतादिना पारजन्मिकेन वा प्रहाणमार्गेणान्येन वा लौकिकेन मार्गेण लोकोत्तरेण शैक्षावस्थायां भावितत्वात्. यत् तु पश्चात्प्रतिलब्धम् उत्तापनयेति. यद् आगंतुकं गोत्रं पश्चाद् एव न द्वयोर् अवस्थयोर् अधिगतं तस्मात् [तिब्. 250ब्] परिहीयते.
गोत्रं निर्दिश्य फलं निर्दिश्यते. यस्य च यत् प्रथमं फलम् इति विस्तरः. अत एव च स्रोतआपत्तिफलान् नास्ति परिहाणिर् इति. यस्मात् स्रोतआपत्तिफलं यदि प्राप्यते ऽवश्यं प्रथमं भवति. सकृदागाम्यनागामिफले तु कदाचित् तु प्रथमे भवतो यदि भूयोवीतरागकामवीतरागयोः. कदाचिद् अप्रथमे यद्य् आनुपूर्विकस्य. तत्र यद्यत् फलं प्रथमं भवति स्रोतआपत्तिफलं सकृदागामिफलं अनागामिफलं वा. न तस्मात् परिहीयते. यत् तु पश्चात् सकृदागामिफलम् अनागामिफलं अर्हत्त्वफलं वा. ततः परिहीयते. एवं च कृत्वेति. यस्य च यत् प्रथमं गोत्रं फलं च. स तस्मान् न परिहीयत इति कृत्वा. यथाक्रमं पंच षट् सप्त प्रकारा इति. अनुरक्षणाधर्मणः पंच प्रकारा भवंति. तदवस्थस्य परिनिर्वाणम् इन्द्रियसंचारः परिहाय वा शैक्षत्वं चेतनाधर्मगोत्रप्रत्यागमनं परिहाणधर्मगोत्रप्रत्यागमनं च. स्थिताकंप्यस्य षट् प्रकारा भवंति. ( अभिध्-क्-व्य् 587 ) त एव च पंच अनुरक्षणाधर्मगोत्रप्रत्यागमनं षष्ठं. प्रतिवेधनाभव्यस्य सप्त प्रकारा भवंति. एत एव च षट् स्थिताकंप्यगोत्रप्रत्यागमनं च सप्तमम् इति. यस्य च यत् [तिब्. 251अ] प्रथमं गोत्रं शैक्षावस्थायाम् आसीत्. स शैक्षीभूतः. पुनर् इति वाक्याध्याहारः. तत्रैवावतिष्ठते नान्यस्मिन्. अन्यथा हि गोत्रविशेषलाभाच् छैक्षावस्थाद् गोत्राद् विशिष्टं तद् गोत्रं भवतीति. अतो विशिष्टगोत्रलाभात् वृद्धिर् एवास्य पुद्गलस्य स्यात्. न परिहाणिर् इति. कथं कृत्वा. यथा तावत् परिहाणधर्मा अर्हत्त्वावस्थायाम् इन्द्रियोत्तापनया प्रतिवेधाभव्यताप्राप्तः. सो ऽर्हत्त्वात् परिहीयते. शैक्षीभूतस् तद्गोत्राद् अपि परिहीयमाणो न स्थिताकंप्यगोत्रे तिष्ठति. प्रतिलोमतो यावन् न चेतनाधर्मगोत्रे. किं तर्हि. परिहाणधर्मगोत्र एव तिष्ठतीति. अन्यथा हीति यद्य् अन्यगोत्रे ऽवतिष्ठेत. गोत्रविशेषलाभाद् इति परिहाणधर्मगोत्रविशिष्टगोत्रलाभात्. तस्माद् अवश्यम् अर्हत्त्वात् परिहीयमाण इन्द्रियोत्तापनाद् अपि गोत्रात् परिहीयत इति.
किं पुनः कारणं प्रथमात् फलान् नास्ति परिहाणिर् इति. यस्य यत् प्रथमं फलं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा. दर्शनहेयानाम् अवस्तुकत्वाद् अनधिष्ठानत्वाद् इत्य् अर्थः. आत्माधिष्ठानप्रवृत्ता ह्य् एत इति विस्तरः. आत्मनो ऽधिष्ठानेन प्रवृत्ता एते दर्शनहेयाः. कस्माद् इत्य् आह. सत्कायदृष्टिमूलत्वात्. यस्माद् [तिब्. 251ब्] आत्मदर्शनवशेन दर्शनहेयानां समुदाचारः. उक्तं च यानि वा पुनः पृथग् लोके दृष्टिगतानि. तानि सत्कायदृष्टिमूलकानि सत्कायदृष्टिसमुदयानि सत्कायदृष्टिजातीयानि सत्कायदृष्टिप्रभवानीति. स चात्मा नास्तीत्य् अवस्तुकत्वान् नास्ति परिहाणिर् इति. सत्यालंबनत्वाद् इति. सत्यानां नित्यादितो ग्रहनात्. कतमश् च क्लेशो नैवं. भावनाप्रहातव्यो ऽपि हि रागादिर् वितथालंबनः. शुचिसुखनित्यात्माकारैः सत्यादितत्त्वालंबनात्. आत्मत्वम् अभूतम् अध्यारोपयंतीति. यथोक्तं. ये केचिद् भिक्षव आत्मेति आत्मीय इति समनुपश्यंतः समनुपश्यंति. इमान् एव ते पंचोपादानस्कन्धान् आत्मत आत्मीयतश् च समनुपश्यंतीति. तदधिष्ठानानुप्रवृत्ताश् चांतग्राहादय इति. आत्माधिष्ठानानुप्रवृत्ताः. शाश्वत आत्मा. उच्छेदीति वा. नास्त्य् आत्मा. अयम् एवाग्रः. इयम् एव शुद्धिः. किम् असाव् अस्ति नास्तीत्येवमाद्याकारप्रवृत्तास् तदन्यद्दर्शनहेया अवस्तुका उच्यंते. निरधिष्ठाना उच्यंत इत्य् अर्थः. न त्व् आत्मादिलेशो ऽस्तीति. आदिग्रहणेनात्मीयग्रहणं ईश्वरादिग्रहणं वा. [तिब्. 252अ] प्रतिनियतं मनआपामनआपादिलक्षणम् इति. रागस्य भावनाहेयस्य मनआपं केशदंतशुभादिलक्षणं ( अभिध्-क्-व्य् 588 ) वस्तु. प्रतिघस्यामनआपं तदशुभतादिलक्षणं. मानस्यापि मनआपं अविद्याया अपि तद् एव द्वयं संमोहनीयं किंचिद् इति. न तु दर्शनहेयानाम् आत्मादिलक्षणम् इति. न तु दर्शनहेयानाम् आत्मात्मीयलक्षणं प्रतिनियतं वस्तु किंचिद् अस्ति. अन्यत्र तदालंबनेभ्यो रागादिभ्यः. तस्माद् अवस्तुका उच्यंते. तस्मान् न प्रतिनियतवस्तुका उच्यंत इत्य् अर्थः.
अपि खल्व् इति विस्तरेणाचार्यः. आर्यस्य शैक्षस्यानुपनिध्यायतो ऽसंतीरयतः स्मृतिसंप्रमोषात् क्लिष्टस्मृतियोगात् क्लेश उत्पद्यते. रागादिकः. नोपनिध्यायतः. रज्ज्वाम् इव सर्पसंज्ञा कस्यचिद् अनुपनिध्यायतः स्मृतिसंप्रमोषाज् जायते. नोपनिध्यायतः. तद्वत्. आत्मदृष्ट्यादीनाम् इति. अंतग्राहदृष्ट्यादीनां ग्रहणं. किं पुनः कारणं. न चानुपनिध्यायत आत्मदृष्ट्यादीनाम् उत्पत्तिर् युज्यते. संतीरकत्वात्. केषाम्. आत्मदृष्ट्यादीनां क्लेशानां. अतो ऽनुपनिध्यानाद् आर्यस्यात्मदृष्ट्यादीनाम् उत्पत्तिर् न युज्यत इति. परिहाणिकारणाभावान् नास्ति दर्शनहेयप्रहाणात् [तिब्. 252ब्] परिहाणिर् इति.

अर्हत्त्वाद् अपि नास्तीति. न केवलं दर्शनहेयप्रहाणान् नास्ति परिहाणिर् अर्हत्त्वाद् अपि नास्ति परिहाणिर् इत्य् अपिशब्देन दर्शयति. अप्रथमाभ्यां तु सकृदागाम्यनागामिफलाभ्यां परिहाणिः संभवति. लौकिकेन मार्गेण तत्प्राप्तिसंभवाद् इत्य् अभिप्रायः. एष एव च न्याय इत्य् आचार्यः समर्थयति. तद् धि भिक्षवः प्रहीणम् इति. तद् एव प्रहीणं. यद् आर्यप्रज्ञया प्रहीणं. तद् धि न पुनर् उत्पद्यते. लौकिक्या तु यत् प्रहीणं. तत् पुनर् उत्पद्यत इत्य् अभिप्रायः. शैक्षस्य चाप्रमाद इति विस्तरेण द्वितीयं सूत्रपदं ज्ञापकम् अर्हत्त्वान् नास्ति परिहाणिर् इति. अयं चास्यार्थः शैक्षस्याप्रमादनिमित्तम् अप्रमादकर्म प्रवेदयाम्य् अप्रमादः शैक्षेण कर्तव्य इति.
ननु च शैक्षस्याप्य् आर्यया प्रज्ञया प्रहाणम् अस्ति. कथं तस्याप्रमादकरणीयं शास्तीति. यस्माद् अनधिगतम् अनेन फलांतरम् अधिगंतव्यं. लौकिकमार्गगतं च तस्य प्रहाणम् अस्तीति. अत्र वैभाषिको ब्रूयाद् अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति सूत्रे वचनाद् अस्त्य् अर्हतो ऽपि परिहाणिर् इत्य् अत इदम् उच्यते. अर्हतो ऽपि विस्तरेण यावद् अत्र सूत्रे दृष्टधर्मसुखविहारमात्राद् एव परिहाणिर् उक्तेति. [तिब्. 253अ] कथं. यत्र भगवान् आयुष्मंतम् आनन्दम् आमंत्रयते स्म. अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति. आयुष्मान् आनन्द आह. तत् कस्माद् भगवान् एवम् आह. अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति. भगवान् आह. न हैवानन्दाप्राप्तस्य प्राप्तये. अनधिगतस्याधिगमाय. असाक्षात्कृतस्य साक्षात्क्रियायै. अपि तु ये ऽनेन चत्वार ( अभिध्-क्-व्य् 589 ) आधिचैतसिका दृष्टधर्मसुखविहारा अधिगताः. ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामि. तच् चाकीर्णस्य विहरतः. या त्व् अनेनैकाकिनाव्यपकृष्टेनाप्रमत्तेनातापिना प्रहितात्मना विहरता अकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता. ततो ऽस्याहं न केनचित् पर्यायेण परिहाणिं वदामि. तस्मात् तर्ह्य् आनन्दैवं ते शिक्षितव्यं. यल् लाब्बसत्कारम् अभिभविष्याणो न चात्यन्तैर् लाभसत्कारकैश् चित्तं पर्यादाय स्थास्यति. एवं ते आनन्द शिक्षितव्यम् इति. यदि वैभाषिक एवं ब्रूयात्. अकोप्या इति विशेषणात् सामयिक्या अस्ति परिहाणिर् इति. तत आह. सामयिक्या अस्तीति चेद् इति. वयम् अप्य् एवं ब्रूमः. सामयिक्या अस्ति परिहाणिर् इति. सा तु विचार्या सा तु सामयिकी विमुक्तिर् विचार्या. कथम् इत्य् आह. किम् अर्हत्त्वं सामयिकी विमुक्तिर् अस्ति. [तिब्. 253ब्] आहोस्विद् ध्यानान्य् एव लौकिकानि सामयिकी विमुक्तिर् इति. कस्माद् एवम् आशंक्यत इत्य् आह. मौलो हि ध्यानसमाधिर् इति. ध्यानम् एव समाधिर् ध्यानसमाधिः. मौलध्यानग्रहणं सुखप्रतिपदाम् अग्रत्वात्. समये संमुखीभावात्. कस्मिंश्चित् काले निःशब्दादिके संमुखीभावात्. समये भवा समायिकी विमुक्तिर् इत्य् उच्यते. पुनःपुनर् एषणीयत्वात् कांतेति. परिहाणौ परिहाणौ कमनीयत्वात् प्रार्थनीयत्वाद् इत्य् अर्थः.
आस्वादनीयत्वाद् इत्य् अपर इति भदंतरामः. सास्रवत्वाद् आस्वादनासंप्रयुक्तध्यानयोगात् कांतेत्य् अभिप्रायः. अर्हत्त्वविमुक्तिस् त्व् इति विस्तरः. अर्हत्त्वम् एव विमुक्तिर् अर्हत्त्वविमुक्तिः. नित्यानुगतत्वात् प्राप्तियोगेन. न युज्यते सामयिकीत्य् अनेन सामयिक्या विमुक्तेर् विपर्ययेणार्हत्त्वविमुक्तिं दर्शयति. अपुनःप्रार्थनीयत्वान् न कांतेत्य् अनेन कांतविपर्यये ऽर्हत्त्वविमुक्तिर् न कांतेति. नित्यानुगतत्वेनास्तित्वाद् अप्रार्थनीयत्वान् न कांतेत्य् अर्थः.
आधिचैतसिकेभ्य एवेति. अधिचेतसि भवा [तिब्. 254अ] आधिचैतसिका दृष्टधर्मसुखविहाराः. तेभ्य एव. किम् अर्थं परिहाणिम् अवक्ष्यद् इति. ये ते चैतसिका द्र्ष्टधर्मसुखविहारा अधिगताः. ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामीति वचनात्. यद्य् अर्हत्त्वात् सामयिकी विमुक्तिलक्षणात् परिहाणिसंभवो ऽभविष्यत्. किम् अर्थं तेभ्य एव परिहाणिम् अवक्ष्यत्. न तेभ्य एव परिहाणिम् अवक्ष्यद् इत्य् अर्थः. वशित्वभ्रंशाद् इति. समाधिसंमुखीभाववशित्वभ्रंशाद् इत्य् अर्थः. सो ऽपरिहाणधर्मेति. अपरिहाणधर्मा अकोप्यधर्मणो ऽन्यः सूत्रे पठितः. अष्टादशशैक्षान् विस्तरेणोक्त्वाह. नवाशैक्षाः कतमे. परिहाणधर्मा. अपरिहाणधर्मा. चेतनाधर्मा. अनुरक्षणाधर्मा. स्थिताकंप्यः. प्रतिवेधनाभव्यः. अकोप्यधर्मा. ( अभिध्-क्-व्य् 590 ) प्रज्ञाविमुक्तः. उभयतोभागविमुक्तः. इम उच्यंते नवशैक्षा इति. यः परिहीयते दृष्टधर्मसुखविहारेभ्यः. स परिहाणधर्मा. यो न परिहीयते तत एव. सो ऽपरिहाणधर्मा. एवं [तिब्. 254ब्] चेतनाधर्मादयो ऽपि योज्याः. कथं. यः समाधिभ्रंशभयाद् आत्मानं चेतयते. स चेतनाधर्मा. यो ऽनुरक्षति कथंचिद् गुणविशेषं. सो ऽनुरक्षणाधर्मा. यो यस्मिन्न् एव गुणे स्थितः. तस्माद् अननुरक्षन्न् अपि न कंप्यते. स स्थिताकंप्यः. यः परेण प्रतिविध्यति. गुणविशेषम् उत्पादयतीत्य् अर्थः. स प्रतिवेधनाभव्यः. यो न कुप्यति उत्पन्नेभ्यो न परिहीयते. सो ऽकोप्यधर्मा.
को विशेष इति. अपरिहाणधर्मादीनां त्रयाणाम् अपरिहाणियोगाद् विशेषम् अपश्यन् प्रश्नयति. अनुत्तापनागत इति. स्वभावतस् तीक्ष्णेन्द्रियः. नेंद्रियोत्तापनां प्राप्त इत्य् अर्थः. तस्मान् न कंप्यत इति. तस्मात् गुणविशेषाद् इत्य् अर्थः. एष विशेषो लक्ष्यत इति. आचार्यः स्वमतं दर्शयति. ननु चायुष्मान् गौतिको ऽर्हत्त्वात् परिहीण इत्य् एवं यदि वैभाषिको ब्रूयाद् इत्य् अस्य प्रतिविधानम् आरभ्यते. आयुष्मान् गौतिक इति विस्तरः. शैक्षीभूत इति न तावद् अर्हन्. शस्त्रम् आधारयन्न् इति. शस्त्रं वाहयन्. कायजीवितनिरपेक्षत्वात् कारणान् मरणकाल एवार्हत्त्वं प्राप्तः. शस्त्राधाराद् उत्तरकाल इत्य् अर्थः. [तिब्. 255अ] परिनिर्वृत्तश् च तेनैव शस्त्रप्रहारेण.

दशोत्तरे चेति. दशोत्तरनामसूत्रे. किम् उक्तम् इत्य् आह. एको धर्म उत्पादयितव्यः. कतम इत्य् आह. सामयिकी कांता चेतोविमुक्तिर् इति. दृष्टधार्मसुखविहार इत्य् अभिप्रायः. एको धर्मः साक्षात्कर्तव्यः. कतम इत्य् आह. अकोप्या चेतोविमुक्तिर् इति. अर्हत्त्वम् इत्य् अभिप्रायः. पृथग्वचनाद् ध्य् अकोप्यविमुक्तिलक्षणाद् अर्हत्त्वाद् अर्हत्त्वस्वभावा न कांता चेतोविमुक्तिर् उक्तेत्य् अभिप्रायः. द्विप्रकारत्वाद् अर्हत्त्वस्य पृथग्वचनम् इति वैभाषिकवचनावकाशं पश्यन् पुनर् आह. यदि चार्हत्त्वम् इति विस्तरः. यद्य् अर्हत्त्वम् एव सामयिकी कांता चेतोविमुक्तिर् अभविष्यत्. किम् अर्थं तत्रैव दशके न सूत्रांतरे अर्हत्त्वस्य द्विग्रहणम् अकरिष्यत्. एको धर्मः साक्षात्कर्तव्यः. अकोप्या चेतोविमुक्तिर् इति. नैवाकरिष्यद् इत्य् अर्थः. एवं ह्य् अवक्ष्यत्. एको धर्मः साक्षात्कर्तव्यश् चेतोविमुक्तिर् इति. ब्रूयास् त्व् अर्हत्त्वं द्विप्रकारम्. अतो वचनविभागेनोच्यते. एकम् उत्पादयितव्यं द्वितीयं साक्षात्कर्तव्यम् इति. अत्र ब्रूमः. न च क्वचिद् अर्हत्त्वम् उत्पादयितव्यम् उक्तं. [तिब्. 255ब्] किं तर्हि. साक्षात्कर्तव्यम् इति. तत्रतत्र सूत्रे. अभ्युपेत्यापि ब्रूमः. मृद्विन्द्रियसंगृहीतं चोत्पादयितव्यम् इति. किम् अनेन ज्ञापनेन ज्ञापितं कथितं भवति. यदि तावद् उत्पादयितुं शक्यम् इत्य् एतज् ज्ञापितं भवति. ( अभिध्-क्-व्य् 591 ) शकि लिङ् चेति कृत्यप्रत्ययलक्षणात्. अन्यद् अपि शक्यं यत् तीक्ष्णेन्द्रियसंगृहीतम् अर्हत्त्वं. तथा च सत्य् एवं सूत्रे वक्तव्यं स्यात्. एको धर्म उत्पादयितव्यः. चेतोविमुक्तिर् इति. अथोत्पादनम् अर्हतीत्य् एतज् ज्ञापितं भवति. अर्हे कृत्यतृचश् चेति लक्षणपरिग्रहात्. अन्यत् सुतराम् अर्हति यत् तीक्ष्णेन्द्रियसंगृहीतम् अर्हत्त्वं. तद् ध्य् अकोप्यत्वात् सुष्ठूत्पादयितुम् अर्हतीत्य् अभिप्रायः. कथं तर्हीति विस्तरः. यदि सामयिकी विमुक्तिर् अर्हत्त्वं भवति. एवं तद्योगात् समय विमुक्तो ऽर्हन्न् इति युज्यत इत्य् अभिप्रायः. समयापेक्षः समाधिसंमुखीभाव इति. यस्माद् अस्य समाधिः सास्रवो ऽनास्रवो ऽपि वा समयम् आरोग्यदेशविशेषादिलक्षणम् अपेक्षते. अभिधर्मे ऽपि चोक्तम् इति विस्तरः. कामरागानुशयो ऽप्रहीणो भवतीत्य् एतद् उदाहरणम्. इदं चाप्य् उदाहरणं. तत्र चायोनिशोमनस्कार इति. परिपूर्णोत्पत्तिर् एवम् इति चेत्. स्यान् मता परिपूर्णकारणस्य क्लेशस्यैवम् उत्पत्तिः. अपरिपूर्णकारणस्य तु क्लेशस्य विषयबलाद् एवेति. [तिब्. 256अ] तद् अयुक्तं. कस्माद् इत्य् आह. कस्य वापरिपूर्णकारणस्योत्पत्तिर् इति. कस्योत्पत्तिः. यतः अपरिपूर्णकारणस्योत्पत्तिर् अस्ति. यावती हि हेतुप्रत्ययसामग्री कार्यस्योत्पत्तये प्रसिद्धा. सा तदेकदेशविकला सती तस्योत्पत्तये न भवति. तद्यथा चक्षू रूपालोकमनस्कारसामग्री चक्षुर्विज्ञानस्योत्पत्तये प्रसिद्धा. स तदन्येतरविकला सती तदुत्पत्तये न भवतीति. तस्मान् न किंचिद् एतत्.
तद्रूप इति तत्प्रकारः. तत्स्वभाव इति वा. अथ नोत्पन्न इति प्रतिपक्षः तद्बीजधर्मतायाम् इति. क्लेशबीजस्वभाव इत्य् अर्थः. तस्याम् अनपोद्धृतायाम् अनुन्मूलितायां कथं क्षीणास्रवो भवतीति. ब्रूयास् त्वं न भवतीति. अत आह. अक्षीणास्रवो वा कथम् अर्हन् भवतीति.
एवंचरत इति. स्मृतिमतश् चरत इत्य् अर्थः अनंतरं स्मृतिवचनात्. शैक्षस् स इत्य् अस्य वचनस्य परिहारार्थं स एव परिहाणिवाद्य् आह. स हि तत्रार्हन्न् एव ज्ञापित इति. कथं कृत्वा ज्ञापित इत्य् आह. दीर्घरात्रम् इति विस्तरः. अपरिहाणिवादिनः स्याद् एवं वचनावकाशः. शैक्षस्येदं विवेकनिम्नचित्तम् उच्यते यावन् निर्वाणप्राग्भारम् इति. अस्य परिहारार्थं परिहाणिवादी पुनर् आह. अर्हतो ह्य् एतद् बलम् अन्यत्रोक्तम् इति सूत्रे. कथं. कति भदंतार्हतो भिक्षोः क्षीणास्रवस्य बलानि. [तिब्. 256ब्] अष्टौ शारिपुत्रार्हतो भिक्षोर् दीर्घरात्रं विवेकनिम्नं चित्तं यावन् निर्वाणप्राग्भारं. अंगारकर्षूपमाश् चानेन कामा दृष्टा भवंति. यथास्य कामान् जानतः कामान् पश्यतो यः कामेषु कामच्छन्दः कामस्नेहः विस्तरेण यावत् कामाध्यवसानं. तत्रास्य चित्तं न पर्यादाय तिष्ठतीति विस्तरः. किं च शीतीभूतं ( अभिध्-क्-व्य् 592 ) वांतीभूतम् इति चाभिधानात्. तत्रैवांगारकर्षूपमे सूत्रे ऽर्हन्न् एव ज्ञापित इति.
अस्त्य् एतद् एवम् इति. अंगारकर्षूपमे यद् उक्तम् अर्हन्न् एव ज्ञापित इति. यावत् तु चारो न सुप्रतिविद्ध इति. पिण्डपातादिचारः. शैक्षावस्थाम् अधिकृत्यैवंवचनाद् अदोष इति. यद् एतद् उक्तं. कदाचित् स्मृतिसंप्रमोषाद् उत्पद्यंते पापका अकुशला वितर्का इति. तच् छैक्षाम् अधिकृत्योक्तं नार्हत्त्वावस्थां. यत् तूक्तं दीर्घरात्रं विवेकनिम्नं इति. तच् छैक्षस्यापि संभवति. अर्हतस् तु प्रकर्षेण भवतीति विशेषाः. यच् चाप्य् उक्तं सास्रवस्थानीयैर् धर्मैः शीतीभूतं वांतीभूतम् इति. तद् अपि शैक्षावस्थाम् अधिकृत्य संभवति. कामावचरास्रवस्थानीयधर्मशीतीभावाभिधानात्. [तिब्. 257अ] अर्हत्त्वावस्थां चाधिकृत्य तथाभिधानाद् अदोष इति आचार्यस्याभिप्रायः.
(वि.60च्द्) प्रयोगासंभवान् न दर्शनमार्ग इति. पंचदशक्षणो दर्शनमार्गः. तत्रेन्द्रियसंचारे प्रयोगावकाशो नास्ति. कश्चित् पृथग्जनावस्थायाम् इन्द्रियाणि संचरतीति. [किम् अनित्याद्याकारपतितेन मार्गेणेन्द्रियाणि संचरति.] किम् औदारिकाद्याकारेण मार्गेणेन्द्रियाणि संचरति. उताहो शांताद्याकारेणेति. अविशेषितत्वाद् उभयथापि संभवतीति पश्यामः. तथा ह्य् एनम् अर्थम् आचार्यः सूचयिष्यति. न हि सास्रवेण मार्गेणार्याणाम् इन्द्रियसंचार इत्य् आर्याणाम् इति विशेषणात्. अपि नाम ममेन्द्रियाणि तीक्ष्णानि स्युर् इति प्रयोगम् अभिसंधाय. मार्गं लौकिकं लोकोत्तरं चान्यस्यानंतर्यविमुक्तिमार्गक्रमेणेन्द्रियाणि संचरतीति वेदितव्यं. कश्चिच् छ्रद्धाधिमुक्तावस्थायाम् इत्य् अत्राशैक्षवचनं. शैक्षपृथग्जनाधिकारात्. अशैक्षो ऽपि त्व् इंद्रियाणि संचरतीति बोद्धव्यं.

(वि.61) कथम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिर् इति. तीक्ष्नेन्द्रियत्वाद् अस्य दृष्टधर्मसुखविहारेभ्यः परिहाणिर् न संभवेत्. किम् उताकोप्याया विमुक्तेर् इत्य् असंभावयन् पृच्छति. बुद्धस्योपभोगपरिहाणिर् एवेति. विनेयकार्यव्यापृतत्वाद् [तिब्. 257ब्] दृष्टधर्मसुखविहारान् नोपभुंक्ते. न संमुखीकरोतीत्य् अर्थः. सा चाप्राप्तपरिहाणिश् चेति. अकोप्यधर्मणः सा चोपभोगपरिहाणिः कुतश्चिद् व्यासंगात्. अप्राप्तिपरिहाणिश् च पुद्गलविशेषधर्मप्रापणात्. यस्माद् अकोप्यधर्मापि कश्चिन् महाश्रावकाणाम् आर्यशारिपुत्रमौद्गल्यायनादीनां प्रांतकोटिकादीन् धर्मान्. स्वयंभुवां च कांश्चिद् धर्मान् न प्राप्नोति. महाश्रावका अपि स्वयंभुवां कांश्चिद् विशेषधर्मान् न प्राप्नुवंतीत्यादि. अन्यस्यार्हत इति परिहाणधर्मादेर् मृद्विन्द्रियस्य प्राप्तपरिहाणिर् अप्य् अस्ति. अपिशब्दात् पूर्वोक्त अपि ( अभिध्-क्-व्य् 593 ) परिहाणी स्त इति. अकोप्यधर्मण उपभोगपरिहाणिवचनात् सूत्रविरोध इति. यद् एतद् उक्तं. ये ऽनेन चत्वार इति विस्तरेण. यावत् ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामीति. तस्य सुत्रस्याविरोधः. षण्णाम् अप्य् अर्हताम् अकोप्या विमुक्तिर् इत्य् उक्ते वैभाषिको ब्रूयात्. यदि सर्वस्यैवार्हतो ऽनास्रवा विमुक्तिर् अकोप्या. कस्माद् असमयविमुक्त एवाकोप्यधर्मा व्यवस्थापितो नान्य इति. अत इदम् उच्यते. सर्वस्यानास्रवा विमुक्तिर् [तिब्. 258अ] अकोप्येति. सत्यम् अस्त्य् एतत्. अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् इति. दृष्टधर्मसुखविहारेभ्यस् तु कश्चिल् लाभसत्कारव्याक्षेपदोषात् परिहीयते वशित्वभ्रंशात्. यो मृद्विन्द्रियः. कश्चिन् न परिहीयते. यस् तीक्ष्णेन्द्रियः. स एवाकोप्यधर्मा व्यवस्थापितः. यत एव च दृष्टधर्मसुखविहारेभ्यो लाभसत्कारव्याक्षेपदोषात् परिहीयते. मृद्विन्द्रियो न तीक्ष्णेन्द्रियः. अत एतद् अचोद्यं. कथम्. अकोप्यधर्मणो दृष्टधर्मसुखविहारात् परिहाणिर् इत्य् अपरिहाणिवादी. अथ वा अयम् अन्यः संबंधः. पूर्वम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिर् नास्तीत्य् उक्तं. सूत्रे च. यस्याकोप्या विमुक्तिः. तस्य दृष्टधर्मसुखविहारात् परिहाणिर् उक्ता. अविशेष्याभिधानाद् अत इदम् उच्यते. सर्वस्यानास्रवा विमुक्तिर् अकोप्येति. न तयैवाकोप्यधर्मा व्यवस्थाप्यत इत्य् अभिप्रायः. अत एवोच्यते अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् इति. अत एतद् अचोद्यम् इति. यद् उक्तं सूत्रम् आश्रित्य कथम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणि इति.
(वि.62) धन्धा इति मन्दाः. अन्यथा ह्य् [तिब्. 258ब्] अनाश्वासिकम् इति. यद्य् अर्हत्त्वात् परिहीणः पुनर् जायेत सुचीर्णब्रह्मचर्ये ऽस्मिन् मार्गे चापि सुभाविते तुष्ट आयुःक्षयाद् भवति रोगस्यापगमे यथेत्य् आश्वासः. एवंविधो न स्याद् इति. तद् अकार्यम् अब्रह्मचर्यादिलक्षणं शूरप्रस्खलनापतनवद् इति. यथा शूरस्य प्रस्खलने अपतनं भवति शक्तित आत्मधारणात्. तद्वद् आर्यः फलात् परिहीणो ऽपि तत्फलम् अलब्ध्वा न म्रियते. शूरग्रहणम् अविह्वलत्वात्. बलवां छूर इत्य् अपरे.
(वि.63, 64) कथम् अभ्यस्तम् इत्य् आह. शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति प्रयोगमार्गस् तु सर्वत्रैक एवेति. अकोप्यप्रतिवेधे दृष्टिप्राप्ततायां च.
न हि सास्रवेणेति. आर्येन्द्रियसंचारस्य विवक्षितत्वात्. अन्यथा हि कश्चित् पृथग्जनावस्थायां इन्द्रियाणि संचरतीत्य् एतद् विरुध्यते.
नान्यत्र परिहाण्यसंभवाद् इति. परिहाणिभयाद् धीन्द्रियसंचार इष्यते. अन्यत्र षट्सु कामावचरेषु देवनिकायेषु रूपारूप्यधात्वोश् च परिहाणिर् नास्तीत्य् आह. ऊर्धव्धातूपपन्न आर्यो नैवेन्द्रियाणि संचरति. नापि कथंचित् ( अभिध्-क्-व्य् 594 ) परिहीयते [तिब्. 259अ] इति. उक्तम् अत्र कारणं. कालान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वात्. आश्रयविशेषलाभाच् चेति. अथ कस्मात् कामावचरेषु देवेषु परिहाणिर् नास्ति. ये पूर्वम् अभ्युदारेभ्यो ऽपि विषयेभ्यः संविजंतो नियतं सत्यानि पश्यंति. ते कथं तान् एवालंब्य परिहास्यंते. अवश्यं हि ते तीक्ष्णेन्द्रिया भवन्तीत्य् अभिप्रायः.
अशैक्षो नव निश्रित्येति.
तत्फलस्य नवभूमिसंगृहीतत्वसंभवात्. फलं फलविशिष्टं चेति. फलं सकृदागामिफलं. फलविशिष्टं प्रथमध्यानादि प्रहाणाय प्रयोगानन्तर्यविमुक्तिविशेषमार्गलक्षणं. फलमार्गम् एव प्रतिलभत इति. कामधातुवैराग्यमात्रसंगृहीतं. न चानागामिफलम् आरूप्यसंगृहीतम् इति. पंचानाम् अवरभागीयानां प्रहाणाद् अनागामीति सूत्रे वचनात्. दर्शनमार्गस्य च तत्राभावात्. तदभावः कामधात्वनालंबनाद् इति व्याख्यातम् एतत्.
(वि.65अब्) अकोप्यधर्मा च द्विविध इति. सूत्रे पठितत्वात् अकोप्यभेद एव
द्वौ बुद्धाव्
इति. अकोप्यधर्मा मृदुमध्याधिमात्रेन्द्रियभेदात् त्रिधा भिद्यते. श्रावको ह्य् अकोप्यधर्माधिमात्रमृद्विन्द्रियः. [तिब्. 259ब्] प्रत्येकबुद्धो ऽधिमात्रमध्येन्द्रियः. सम्यक्संबुद्धो ऽधिमात्राधिमात्रेन्द्रिय इति. मृदुमृद्वादिनवप्रकारेन्द्रियभेदाद् इति. परिहाणिधर्मा मृदुमृद्विन्द्रियो यावद् भगवान् अधिमात्राधिमात्रेन्द्रिय इति.
(वि.65च्द्, 66अब्) सप्त भवंतीति. प्रत्येकबुद्धसम्यक्संबुद्धाव् उभयतोभागविमुक्तसंगृहीताव् एवेति कृत्वा. पूर्वम् एवेति विस्तरः. पूर्वम् एव पृथग्जनावस्थायां परप्रत्ययेन परतः श्रुत्वा स्मृत्युपस्थानादीन् धर्मान्. पश्चाद् अर्थेषु प्रयोगात्. चिन्ताभावनासेवनाद् इत्य् अर्थः. तथा पूर्वम् एव पृथग्जनावस्थायां प्रज्ञया द्वादशांगप्रवचनधर्मानुसारेण स्वयम् एवं बोधिपक्षादीन् धर्मान् अनुसरन्न् अर्थेषु प्रयोगात्. चिन्ताभावनासेवनात्. इत्य् एवं प्रयोगतः श्रद्धाधर्मानुसारिणौ भवतः. श्रद्धाधिमोक्षप्रज्ञाधिक्यत इति. श्रद्धाधिमोक्षाधिक्यतः प्रज्ञाधिक्यतश् च. श्रद्धयाधिमोक्षः श्रद्धाधिमोक्षः. तस्याधिक्यान् मृद्विन्द्रियत्वं. प्रज्ञाधिक्यात् तीक्ष्णेन्द्रियत्वं. विमुक्तित इति. क्लेशविमुक्तितः प्रज्ञया क्लेशाद् विमुक्तः प्रज्ञाविमुक्त इति कृत्वा. समापत्तिविमुक्तित इति. समापत्तितो विमुक्तितश् च.

तत्रेन्द्रियत [तिब्. 260अ] इति विस्तरः. यथैते श्रद्धानुसारिणो गण्यंते. तथा यथाग्रन्थं प्रदर्शयिष्याम. इन्द्रियतस् त्रयः. मृदुमध्याधिमात्रेन्द्रियत्वात्. ( अभिध्-क्-व्य् 595 ) अत्र पुनर् एवम् अवगन्तव्यं. यद्य् अपि श्रद्धानुसारिणः सर्व एव मृद्विन्द्रियाः. तथापि तारतम्येनावस्थानाद् एषां पुनस् त्रिधाभेदः मृदुमध्याधिमात्रेन्द्रिया इति. गोत्रतः पंच. कथं. परिहाणधर्मगोत्रको यावत् प्रतिवेधनाभव्यगोत्रक इति पंच भवंति. पुनर् एषां गोत्रेन्द्रियभेदात् पंचदशानाम् एकैको मार्गतः पंचदश भवंति. कथम् इत्य् उच्यते. अष्टक्षान्तिसप्तज्ञानस्था इति. दर्शनमार्गो हि पंचदशक्षणाः. अष्टौ क्षान्तयः. दुःखे धर्मज्ञानक्षांतिर् यावन् मार्गे अन्वयज्ञानक्षान्तिः. सप्त ज्ञानानि. दुःखे धर्मज्ञानं यावन् मार्गे धर्मज्ञानं. मार्गे ऽन्वयज्ञानस्य भावनामार्गसंगृहीतत्वात्. अष्टौ च सप्त च पंचदश भवन्ति. त एवं तत्रस्थाः पंचदश भवंति. एवम् एषां मार्गतः पंचदशधाभिन्नानां पुनर् एकैको वैराग्यतस् त्रिसप्ततिः. कथं. सकलबन्धनस् तावत् कामधाताव् एकः. कामवैराग्यान् नव. एकप्रकारवीतरागो यावन् नवप्रकारवीतरागः. एवं यावद् आकिंचन्यायतनवैराग्यान् नवेति. भवाग्रवैराग्यान् नवेति न संभवति. लौकिकस्य मार्गस्य भवाग्रप्रतिपक्षस्याभावात्. त एते ऽष्टौ नवका द्विसप्ततिः. [तिब्. 260ब्] सकलबन्धनेन पूर्वोक्तेन सह त्रिसप्ततिर् भवंति. पुनर् एते वैराग्यतः प्रत्येकं त्रिसप्ततिभिन्नाः. प्रत्येकम् आश्रयतो नव. कथम् इत्य् आह. त्रिद्वीपषड्देवनिकायजा इति. त्रयो द्वीपा उत्तरकुरुवर्ज्याः. उत्तरकुरौ मार्गाभावात्. षड् देवनिकायाः कामावचराः. तत ऊर्ध्वं दर्शनमार्गाभावात्. तेषु जाता इति. प्रत्येकम् एते नवगुणा भवंति. इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिता इति. निगमन उच्यते. इयन्त इति वृत्तौ लिखिताः. एवम् अन्ये ऽपि पुद्गलाः संभवतः संख्येया इति. धर्मानुसारिप्रभृतयः. यथेन्द्रियगोत्रमार्गवैराग्याश्रयतः श्रद्धानुसारिणः संख्याताः. तथैव संख्येयाः संभवत इति. धर्मानुसारिदृष्टिप्राप्तसमयविमुक्तानां गोत्रभेदो नास्ति. श्रद्धाधिमुक्तसमयविमुक्तयोस् तु गोत्रभेदो ऽप्य् अस्तीति. संभवत इत्य् उच्यते. तत्रेन्द्रियतस् त्रयो धर्मानुसारिणः. गोत्रत एक एवेति भेदो नास्ति. मार्गतः पंचदश अष्टक्षान्तिसप्तज्ञानस्थाः. वैराग्यतस् त्रिसप्ततिः. सकलबन्धनः. कामवैराग्यान् नव. एवं यावद् आकिंचन्यायतनवैराग्यात्. [तिब्. 261अ] आश्रयतो नव. त्रिद्वीपषड्देवनिकायजा इति. एवम् इन्द्रियमार्गवैराग्याश्रयतः पिण्डिताः. सहस्राण्य् एकान्नत्रिंशत् संपद्यंते. शतानि च पंच पंचषष्टिश् च. एवम् इन्द्रियतस् त्रयः श्रद्धाधिमुक्ताः. गोत्रतः पंच प्रत्येकं. वैराग्यतस् त्रिसप्ततिः प्रत्येकमेव पूर्ववत्. आश्रयतो नव. त्रिद्वीपषड्देवनिकायजा इति. एवम् इन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः. नव सहस्राणि संपद्यन्ते. ( अभिध्-क्-व्य् 596 ) शतानि चाष्टौ पंच पंचाशच् च. केवलफलस्थो षोडशचित्तप्राप्तो ऽधिकृतः.
श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदेत्य्
अनयो इह विवक्षितत्वात्.
भगवद्विशेषस् त्व् आह. मार्गतो नव भवंति. भावनामार्गस्थत्वाद् इति. तन् न बुध्यामहे केनाभिप्रायेणैवम् उक्तम् इति. यद्य् अयम् अभिप्रायो भवेत्. मार्गतो भूमौभूमौ नव भवन्तीति. वैराग्यतस् त्रिसप्ततिर् इति स एवार्थो दर्शितो भवेत्. ततव्यतिरेकाद् इति. युक्तं स्यात्. तद् एव हि परिमाणं स्यात्. अथ नवभूमिकानास्रवभावनामार्गस्थत्वान् नवत्वम् एषां व्यवस्थाप्येत. तथा सति. तत्परिमाणं पुनर् नवगुणीक्रियेत. एतावन्तश् च भवेयुर् अष्टाशीतिसहस्राणि. शतानि च षट्. पंचनवतिश् चेत्य् एवम् उत्तरत्रापि वक्तव्यं. यदि तु श्रद्धाधिमुक्त आ वज्रोपमात् समाधेर् गृह्येत. ततो ऽन्यथा गणयितव्यं. इन्द्रियतस् त्रयः श्रद्धाधिमुक्ताः. [तिब्. 261ब्] गोत्रतः पंच प्रत्येकं. वैराग्यत एकाशीतिः त्रिसप्तत्तौ भवाग्राष्टप्रकारवीतरागान् अष्टाव् अधिकान् प्रक्षिप्य. आश्रयत एकान्नत्रिंशत्. कथं कामधातौ नवोपपत्तिस्थानानि. रूपधातौ षोडश स्थानानि. चत्वारश् चारूप्या इति. एवम् इन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः सहस्राणि पंचत्रिंशत्. शते च द्वे. पंचत्रिंशच् चेति. दृष्टिप्राप्तस्य गोत्रभेदो नास्ति. इन्द्रियवैराग्याश्रयतः पिण्डिताः सहस्रं संपद्यन्ते. शतानि च नव. एका सप्ततिश् च. यदि त्व् आ वज्रोपमात् समाधेर् दृष्टिप्राप्तो गृह्यते. तत एवं संख्यातव्याः. इन्द्रियवैराग्याश्रयतः पिण्डिताः. सप्तचत्वारिंशद् अधिकानि सप्त सहस्राणि संपद्यन्ते. कायसाक्षी श्रद्धाधिमुक्तदृष्टिप्राप्तयोर् अन्तर्भूत इति न गण्यते. यदि पुनर् गण्यते इन्द्रियतस् त्रयः. यदि श्रद्धाधिमुक्तः स कायसाक्षी गोत्रतः पंच. यदि दृष्टिप्राप्तो नास्ति गोत्रभेदः. मार्गत उभयोर् अपि नास्ति भेदः. आकिंचन्यायतनवीतरागत्वात् वैराग्यतो ऽपि नास्ति भेदः. यद्य् अपि भवाग्रे सकलबन्दनः एकप्रकारवीतरागो यावद् अष्टप्रकारवीतराग इति. मार्गतो वैराग्यतो वास्ति भेदः. न तु मार्गवैराग्यकृतं कायसाक्षित्वम् इति. नास्य तत्कृतस् तद्भेदो व्यवस्थाप्यते. [तिब्. 262अ] आश्रयतो वा बहुधाभेदः. कामावचराश्रयत्वात् यावद् भवाग्राश्रयत्वाद् इति भगवद्विशेषः. कथम् आकाशानंत्यायतनाद्याश्रयः कायसाक्षी भवति. एवं तु युक्तं पश्यामः. आश्रयतः पंचविंशतिः. कामधातौ नवोपपत्तिस्थानानि. रूपधातौ च षोडश स्थानानिति. तत्र ह्य् आर्यो निरोधसमापत्तिम् उत्पादयेत्. यदि तु कामरूपाश्रयोत्पादितनिरोधसमापत्तियोगात् कायसाक्षीभूतस्यानागामिनः. तत्समन्वागममात्रप्रयोगात्. ( अभिध्-क्-व्य् 597 ) पश्चाद् अपि भवाग्राश्रयं कायसाक्षित्वम् इष्येत. भवाग्रं षड्विंशतितम आश्रयः स्याद् इत्य् अवगन्तव्यं. एवम् इन्द्रियगोत्राश्रयतः परिगण्य गणयितव्यः. प्रज्ञाविमुक्तस्यापि भेदः. इन्द्रियतस् त्रयः प्रज्ञाविमुक्तः. गोत्रतः पंच. यदि समयविमुक्ताः. अथासमयविमुक्ता नास्ति भेदः. एवम् उभयतोभागविमुक्तो ऽपि योजयितव्यः.
(वि.66च्द्) प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वाद् इति. प्रज्ञाबलेन क्लेशावरणविमुक्तत्वात्. समाधिबलेन च विमोक्षावरणविमुक्तत्वात्. विमोक्षाः पुनर् अष्टौ वक्ष्यन्ते रूपी रूपाणि पश्यतीति विस्तरः. तत्र क्लेशावरणम् [तिब्. 262ब्] इति. क्लेशा एवावरणं. विमोक्षावरणं इति. विमोक्षाणाम् आवरणं. तत् पुनः कायचित्तयोर् अकर्मण्यता. यया विमोक्षान् उत्पादयितुं न शक्नोतीति.

(वि.67) क्लेशान् प्रहायेह हि यस् तु पंचेति. पंचावरभागीयानि संयोजनानि सत्कायदृष्ट्यादीन्य् उक्तानि. अहार्यधर्मेत्य् अपरिहाणिधर्मेत्य् अर्थः. फलत एवेति विस्तरः. श्रद्धाधिमुक्तत्वान् नेन्द्रियतः परिपूर्णत्वम्. अकायसाक्षित्वान् न समापत्तितः. अनागामित्वात् तु फलतः परिपूर्णत्वम् अस्ति. इन्द्रियत एवेति. दृष्टिप्राप्तत्वाद् इन्द्रियतः परिपूर्णत्वम्. अवीतरागत्वात् तु न फलतो नापि समापत्तितः. अनागामिफलसमापत्त्योर् अभावात् एवम् अन्येषाम् अपि संभवतो योज्यं. समापत्तित एवेति. समापत्तित एव परिपूर्णत्वं नेन्द्रियफलाभ्याम् इति नास्त्य् एतत्. कस्मात्. न ह्य् असत्याम् अनागामिफलप्राप्तौ निरोधसमापत्तिर् अस्ति. समापत्तीन्द्रियतश् च विना फलेनेति. समापत्तीन्द्रियत एव च परिपूर्णत्वं न फलत इत्य् एतद् अपि नास्ति. यस्माद् अनागामिफलम् अप्राप्तस्य निरोधसमापत्तिर् नास्तीति. इन्द्रियतः समापत्तितश् चेति. [तिब्. 263अ] तीक्ष्णेन्द्रियतया निरोधसमापत्तिलाभतया चेत्य् अर्थः. इन्द्रियत एवेति विस्तरः. असमयविमुक्तस्येति वचनात्. अस्येन्द्रियतः परिपूर्णत्वं. प्रज्ञाविमुक्तस्येति वचनात्. न समापत्तितो ऽस्य परिपूर्णत्वं. अनिरोधसमापत्तिलाभी हि प्रज्ञाविमुक्त इत्य् उक्तं. समापत्तित एवेति. समयविमुक्तस्येति वचनात्. नेन्द्रियतः परिपूर्णत्वम् अस्य भवति. उभयतोभागविमुक्तस्येति वचनात्. समापत्तितो ऽस्य परिपूर्णत्वं. निरोधसमापत्तिलाभीत्य् उभयतोभागविमुक्त इत्य् उक्तं. इन्द्रियसमापत्तिभ्यां. किं. परिपूर्णत्वं. असमयविमुक्तत्वाद् इन्द्रियतः उभयतोभागविमुक्तत्वात् समापत्तित इति दर्शयति.
(वि.68) आनन्तर्यमार्गो येनावरणं प्रजहातीति. अप्रहाणमार्गसंभवात्. अस्ति स आनन्तर्यमार्गो येनावरणं न प्रजहाति. इन्द्रियसंचारादिषु. ( अभिध्-क्-व्य् 598 ) यस् तत्प्रहेयावरणनिर्मुक्तः प्रथमत इति. य आनन्तर्यमार्गप्रहेयेणावरणेन निर्मुक्तः. प्रथमत इति विशेषणं. यस्मात् तृतीयादिषु क्षणेषु तज्जातीयो [तिब्. 263ब्] मार्गो विशेषमार्ग इतीष्यते. तेन एव चाह. विशेषमार्गो य एभ्यो ऽन्यो मार्ग इति. प्रयोगमार्गादिभ्यो ऽन्य इत्य् अर्थः. किं च यदि प्रथमत इति न ब्रूयात्. विमुक्तिमार्गो यस् तत्प्रहेयावरणनिर्मुक्त इत्य् एतावद् ब्रूयात्. एवं सति दुःखधर्मज्ञानात् परेण सर्वे आनन्तर्यमार्गादयस् तत्प्रहेयावरणनिर्मुक्ता उत्पद्यन्त इति. सर्वे विमुक्तिमार्गाः स्युः. अनिष्टं चैतत्. आनन्तर्यमार्गादिष्व् अपि विमुक्तिमार्गप्रसंगात्. तस्माद् आनन्तर्यमार्गस्य दुःखधर्मज्ञानक्षान्त्यादेर् यत्प्रहेयम् आवरणं. दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्यः. तेन प्रहेयावरणेन निर्मुक्तो यः प्रथमत उत्पद्यते. स विमुक्तिमार्गः. नान्यस् तत् प्रहेयावरणनिर्मुक्तत्वे ऽपीति. य एभ्यः प्रयोगमार्गादिभ्यस् त्रिभ्यो ऽन्यः. स विशेषमार्गः. षोडशान् मार्गान्वयज्ञानक्षणात् परेण सप्तदशादयस् तज्जातीया ये ऽनास्रवाः क्षणाः. ते विशेषमार्गस्वभावा इत्य् अवगन्तव्यं. एवम् अन्यद् अपि विमुक्तिज्ञानं. यत् प्राकर्षिकं क्षयज्ञानादि. तद् अपि वक्तव्यं. यश् च दृष्टधर्मसखविहाराय वैशेषिकगुणाभिनिर्हाराय वा मार्गः. सो ऽपि विशेषमार्ग [तिब्. 264अ] एव प्रयोगमार्गो यस्माद् आनन्तर्यमार्गोत्पत्तिर् इत्य् उक्तं. अतो लौकिका अग्रधर्माः प्रयोगमार्ग इति गम्यते. यस् तु प्रतिलोमतः क्षान्त्यादिमार्गः. स कस्मिन्न् अन्तर्भवतीति वक्तव्यम्. आह. प्रयोगमार्ग एवान्तर्भवति. विप्रकृष्टस् त्व् असौ प्रयोगमार्ग इत्य् अयं तस्याग्रधर्मेभ्यो विशेषः. उदाहरणार्थत्वाच् चाचार्येण संनिकृष्ट एव प्रयोगमार्ग उक्त इति.

एष हि निर्वाणस्य पन्थाः. तेन तद्गमनाद् इति. लोके येन गम्यते. स मार्ग इति प्रतीतः. अनेन च निर्वाणं गम्यते प्राप्यते. तस्मान् मार्ग इति दर्शयति. मार्गयंत्य् अनेन वेति. मार्गो ऽन्वेषण इति धातुः पठ्यते. तस्यैतद् घञि रूपं मार्ग इति. येन निर्वाणम् अन्विष्यते. स मार्ग इति. विमुक्तिविशेषमार्गयोः कथं मार्गत्वम् इति. न हि ताभ्यां निर्वाणं प्राप्यते. प्रयोगानन्तर्यमार्गयोर् एव तत्प्राप्तौ सामर्थ्यान् न तयोर् इति अभिप्रायः. तज्जातीयाधिमात्रतरत्वाद् इति. प्रहाणमार्गजातीयौ चालंबनाकारानास्रवत्वसादृस्यात्. अधिमात्रतरौ च हेतूपचयतः. यथा ह्य् आनन्तर्यमार्गश् चतुःसत्यालंबनषोडशाकारो ऽनास्रवश् च. एवं विमुक्तिविशेषमार्गाव् अपि. अधिमात्रतरत्वेनैव तु तस्माद् विशेष इति. [तिब्. 264ब्] उत्तरोत्तरप्रापणात्. निरुपधिशेषप्रवेशाद् वेति. यस्माद् विमुक्तिमार्गेण विशेषमार्गेण च उत्तरोत्तरो ( अभिध्-क्-व्य् 599 ) मार्गः प्राप्यते. तस्मात् अनयोर् मार्गत्वम् इत्य् अर्थः. यस्माद् वा ताभ्यां निरुपधिशेषं निर्वाणं प्रविशति. यदुत्पत्तौ निरुपधिशेषनिर्वाणप्रवेश इति.
अपरे पुनर् एवं व्याचक्षते. उत्तरोत्तरप्रापणान् निरुपधिशेषप्रवेशः. तस्माद् अनयोर् मार्गत्वम् इति.
(वि.69) निर्वाणप्रतिपादनाद् इति. यस्माद् अनेन निर्वाणं प्रतिपद्यत इत्य् अर्थः. एवं सुखापि द्विविधेति. अस्ति प्रतिपत् सुखा धन्धाभिज्ञा. अस्ति सुखा क्षिप्राभिज्ञेति. अंगपरिग्रहणशमथविपश्यनासमताभ्याम् अयत्नवाहित्वाद् इत्य् अंगैः परिग्रहः. शमथविपश्यनयोः समत्वं. अंगपरिग्रहश् च शमथविपश्यनासमत्वं च. ताभ्याम् अयत्नवाहित्वं. तस्मात् सुखा प्रतिपत्. यस्माद् अंगपरिगृहीतानि ध्यानानि शमथविपश्यनाभ्यां समानि च. तस्माद् अयत्नवाहीनि. अतश् च सुखासौ प्रतिपद् इति. अंगापरिग्रहाद् इति विस्तरः. अंगापरिग्रहाद् अनागम्यध्यानांतरारूप्या यत्नवाहिनः. शमथविपश्यनान्यूनत्वाच् च संभवतस् ते [तिब्. 265अ] यत्नवाहिनः. शमथन्यूनत्वाद् अनागम्यध्यानांतरे यथवाहिनी. विपश्यनान्यूनत्वाच् चारूप्या यत्नवाहिनः. तद्भावात्. ते ऽनागम्यादयो दुःखा प्रतिपद् इति. धन्धाभिज्ञेति. धन्धाभिज्ञास्याम् इति. धन्धाभिज्ञा मन्दप्रज्ञेत्य् अर्थः. क्षिप्राभिज्ञेति तीक्ष्णप्रज्ञा. धन्धस्य मन्दस्य पुद्गलस्येयम् अभिज्ञा धन्धाभिज्ञेति. षष्ठीतत्पुरुषेणाप्य् एतत् सिध्यतीति दर्शयति. एवं क्षिप्रस्य तीक्ष्णस्य पुद्गलस्याभिज्ञा क्षिप्राभिज्ञेति योज्यं.
(वि.70) चत्वारि स्मृत्युपस्थानानि. कायवेदनाचित्तधर्मास्मृत्युपस्थानानि यथोक्तानि. चत्वारि सम्यक्प्रहाणानि. उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति. व्यायच्छते. वीर्यम् आरभते. चित्तं प्रगृह्णाति. प्रदधाति. अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दं जनयतीति पूर्ववत्. अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयतीति पूर्ववत्. उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये भूयोभावाय वृद्धिविपुलताज्ञानसाक्षात्क्रियायै छन्दं जनयतीति पूर्ववत्. चत्वार ऋद्धिपादाः. छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः. एवं वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः. ऋद्धिपादा ऋद्धिहेतव इत्य् अर्थः. [तिब्. 265ब्] पंचेन्द्रियाणि. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणि. पंच बलानि. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानि. सप्तबोध्यंगानि. स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षाबोध्यंगानि. स्मृतिर् एव संबोध्यंगं स्मृतिसंबोध्यंगम्. एवं यावद् उपेक्षैव संबोध्यंगं ( अभिध्-क्-व्य् 600 ) उपेक्षासंबोध्यंगम् इति. आर्याष्टंगो मार्गः. सम्यग्दृष्टिः. सम्यक्संकल्पः. सम्यग्वाक्. सम्यक्कर्मान्तः. सम्यगाजीवः. सम्यग्व्यायामः. सम्यक्स्मृतिः. सम्यक्समाधिर् इति. अशेषविद्याप्रहनाद् इति. यस्माद् अशेषत्रैधातुक्यविद्याप्रहाणं. तस्माद् उभयं बोधिः. अनेन शैक्षपृथग्जनानां प्रज्ञा न बोधिर् व्यवस्थाप्यत इति दर्शयति. किं च यथाक्रमं. ताभ्यां स्वार्थस्य यथाभूतं कृतापुनःकर्तव्यतावबोधाच् च. क्षयज्ञानेन यथाभूतं कृतावबोधात् तत् क्षयज्ञानं बोधिः. दुःखं मे परिज्ञातम् इति यथाभूतं प्रजानाति. समुदयो मे प्रहीण इति. निरोधो मे साक्षात्कृत इति. मार्गो मे भावित इति यथाभूतं प्रजानातीति. अनुत्पादज्ञानेन यथाभूतम् अपुनःकर्तव्यम् इति. [मार्गो मे भावितो न पुनर् भावयितव्य] तद् अनुत्पादज्ञानम् अपि बोधिः. दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यम्. [तिब्. 266अ] इति यथाभूतं प्रजानाति. समुदयो मे प्रहीणो न पुनः प्रहातव्य इति. निरोधो मे साक्षात्कृतो न पुनः साक्षात्कर्तव्य इति. मार्गो मे भावितो न पुनर् भावयितव्य इति यथाभूतं प्रजानातीति. दुःखं मे परिज्ञातम् इत्य् अनेन क्षयज्ञानं. न पुनः परिज्ञातव्यम् इत्य् अनेनानुत्पादज्ञानम्. इत्य् उभयम् अपि तीक्ष्णेन्द्रियस्य पुद्गलस्य दर्शयतीति सर्वं नेयं. तद् एवं क्षयज्ञानम् अनुत्पादज्ञानं च बोधिर् इत्य् अवयवार्थं प्रसाध्य समुदयार्थं प्रसाधयन्न् आह.
तादनुलोम्यतः
सप्तत्रिंशत् तु तत्पक्षा
इति. तस्या बोधेर् अनुलोमस् तदनुलोमः. तद्भावस् तादनुलोम्यं. तस्मात्. तादनुलोम्यतो बोधिपक्षा. बोधिपक्षे साधवो ऽनुलोमा इति बोधिपक्षाः. स्मृत्युपस्थानादयः सप्तत्रिंशद् उच्यंते प्रवाचने.
(वि.71) दश द्रव्याणीति. केषांचिन् मतेन. वक्ष्यति हि वैभाषिकाणाम् एकादश कायवाक्कर्मणोर् असंभिन्नत्वाद् इति.
प्रज्ञा हि स्मृत्युपस्थितिर्
इति. प्रज्ञा स्मृत्युपस्थानम् इत्य् अर्थः. स्मृतिर् उपतिष्ठते ऽनयेति कृत्वा. तथा हि सूत्र उक्तं. काये [तिब्. 266ब्] कायनुपश्यी विस्तरः.
वीर्यं सम्यक्प्रहाणाख्यम्
इति. यस्माद् उक्तम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति. व्यायच्छते. वीर्यम् आरभत इति सर्वं.
ऋद्धिपादाः समाधय

इति. यस्माद् उक्तं छन्दसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं ( अभिध्-क्-व्य् 601 ) भावयतीति सर्वं प्रहाणसंस्काराः पुनर् अत्राष्टौ सूत्रे पठ्यन्ते. कथं. तथाभूतस्य यश् छन्दः. यो व्यायामः. या श्रद्धा. या प्रश्रब्धिः. या स्मृतिः. यत् संप्रजन्यं. या चेतना. योपेक्षा. इम उच्यन्ते प्रहाणसंस्कारा इति. इन्द्रियाणि तावद् इति विस्तरः. स्वनामग्रहणेन यानीन्द्रियबलस्वभावानि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा द्रव्याणि पंच. तेषां प्रज्ञैव सा यानि चत्वारि स्मृत्युपस्थानानि. यच् च बोध्यंगेषु धर्मप्रविचयसंबोध्यंगं. या च मार्गांगेषु सम्यग्दृष्टिः. न द्रव्यान्तरं. वीर्यम् एव तद् यानि चत्वारि सम्यक्प्रहाणानि. यच् च बोध्यंगेषु वीर्यसंबोध्यंगं. यश् च मार्गांगेषु सम्यग्व्यायामः. समाधिर् एव च स ये चत्वार ऋद्धिपादाः. यच् च बोध्यंगेषु समाधिसंबोध्यंगं. [तिब्. 267अ] यच् च मार्गांगेषु सम्यक्समाधिः. किम् अवशिष्यते यन् न प्रज्ञेन्द्रियादिस्वभावं. बोध्यंगेषु प्रीतिप्रश्रब्ध्युपेक्षासंबोध्यंगान्य् अवशिष्यन्ते. मार्गांगेषु सम्यक्संकल्पाः. शीलांगानि च त्रीणि. सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीव इति. दश द्रव्याणीति. श्रद्धादीनि पंच. प्रीतिसंबोद्यंगादीनि च पंचेति. शीलांगानि त्रीण्य् अविज्ञप्तिस्वभावानीति कृत्वैकं द्रव्यं व्यवस्थाप्यते.
वैभाषिकाणाम् एकादश द्रव्याणि. कायवाक्कर्मणोर् असंभिन्नत्वात् द्वे द्रव्यं इति कृत्वा. अभिप्रायवशात् पक्षद्वये ऽप्य् अदोषः. यदि तु मुख्यवृत्त्या तस्मिन् कलापे यावंति द्रव्याणि संति. तावंति गण्येरन्. नैव तानि दश द्रव्याणि समाहितविज्ञप्तिरूपाणां सप्तद्रव्यत्वात्. षोडश द्रव्याणीति वक्तव्यं स्यात्.
(वि.72) प्रधानग्रहणेनैवम् उक्लं. प्रज्ञादिस्वभावाः स्मृत्युपस्थानादय इति. सर्वे तु प्रायोगिकगुणाः सास्रवानास्रवाः श्रुतचिन्ताभावनामया यथायोगं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः. प्राधान्यं पुनस् तद्बलेनान्येषां [तिब्. 267ब्] वृत्तेः. न पुनस् ते न सन्ति. प्रज्ञाप्रधानानि हि स्मृत्युपस्थानानीत्य् अतः प्रज्ञाग्रहणं. न तु प्रज्ञैव स्मृत्युपस्थानं. किं तर्हि. प्रज्ञावीर्यस्मृतिसमाधिप्रीतिप्रश्रब्ध्युपेक्षासम्यक्संकल्पादयो ऽपीति. प्रायोगिकग्रहणम् उपपत्तिलभ्यश्रद्धादिनिरासार्थं. एवं वीर्यप्रधानानि सम्यक्प्रधानानि. समाधिप्रधाना ऋद्धिपादा इति विस्तरेण वक्तव्यं.
ऋद्धिपादाः समाधय इति कुत एतत्. सूत्रात्. उक्तं हि छन्दं चापि भिक्षवो भिक्षुर् अधिपतिं कृत्वा लभते समाधिं. सो ऽस्य भवति छन्दसमाधिः. ( अभिध्-क्-व्य् 602 ) चित्तं वीर्यं मीमांसां चापि भिक्षवो भिक्षुर् अधिपतिं कृत्वा लभते समाधिं. सो ऽस्य भवति मीमांसासमाधिर् इति.
तेन हि सम्यक् कायवाङ्मनांसि प्रधीयंत इति. प्रधीयंते धार्यंते नियम्यन्ते प्रवर्त्यन्ते वा कदाचिद् अनेनेति प्रधानं. तत्प्रतिष्ठितत्वाद् इति. यस्मात् सर्वगुणसंपत्तिलक्षणा ऋद्धिस् तस्मिन् समाधौ प्रतिष्ठिता. ऋद्धेः पादः प्रतिष्ठेति ऋद्धिपाद इति.
ये त्व् आहुः समाधिर् एव ऋद्धिः. पादाश् छंदादयः. छन्दचित्तवीर्यमीमान्सा इति. तेषाम् एवंवादिनां वैभाषिकाणां त्रयोदश बोधिपक्षाः प्राप्नुवन्ति. छन्दचित्तयोर् आधिक्याद् एकादशसु [तिब्. 268अ] प्रक्षेपे. वीर्यप्रज्ञे त्व् अत्र नाधिके. सम्यक्प्रधानस्मृत्युपस्थानेष्व् अन्तर्भावात्. बहुधा भवतीति विस्तर इति. बहुधाभूत्वैको भवति. आविर्भवं. तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति. तिरः कुड्यं तिरः प्राकारम् असज्जमानः कायेन गच्छति. तद्यथाकाशे. पृथिव्याम् उन्मज्जननिमज्जनं करोति. तद्यथोदके. उदके ऽभिद्यमानेन स्रोतसा गच्छति. तद्यथा पृथिव्याम्. आकाशे पर्यंकेण क्रामति. तद्यथा शकुनिः पक्षी. इमौ वा पुनः भूयो चन्द्रमसाव् एवं महर्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि. यावद् ब्रह्मलोकं कायेन वशे वर्तयत इति. इयम् उच्यते ऋद्धिः. ऋद्धिपादाः कतमे. छन्दसमाधिः. वीर्यसमाधिः. चित्तसमाधिः. मीमान्सासमाधिः. इम उच्यन्ते ऋद्धिपादा इति. एवंलक्षणः समाधिः. तस्मान् न समाधिर् एव रुधिर् इति. अत्राचार्यसंघभद्र आह. न भवत्य् एष तेषां दोषः. समाधिं हि ते ऋद्धिपादम् इच्छन्ति. ऋद्धिर् अपीति. छन्दादयस् तूच्यन्ते समाधेश् चतुस्त्वज्ञापनार्थं. कश्चिद् धि समाधिः कुशलमूलप्रयोगावस्थायां प्रधानी भवति. कश्चित् कुशलमूलनिष्पन्नावस्थायां. पूर्वो ऽत्र र्द्धिपादः. उत्तर र्द्धिर् इति. सूत्रविरोधो ऽपि चैषां न भवति. ऋद्धिपादफलम् ऋद्धिशब्देनोक्तं. [तिब्. 268ब्] परिज्ञाफलस्य तच्छब्दाभिधानवद् इत्यादि.
मृद्वधिमात्रभेदाद् इति. मृदूनीन्द्रियाणि अधिमात्राणि बलानि. कथम् एषां मृद्वधिमात्रभेद इति हेतुम् आह. अवमर्दनीयानवमर्दनीयत्वाद् इति. तद्विपक्षभूतैर् आश्रद्ध्यकौसीद्यमुषितस्मृतिताविक्षेपासंप्रजन्यैर् अन्तरासमुदाचाराद् इन्द्रियाण्य् अवमृद्यन्ते न त्व् च्वं बलानीति. पुनस् तान्य् उक्तनि.
(वि.73) आदिकर्मिकनिर्वेधभागीयेष्व्
( अभिध्-क्-व्य् 603 ) इति. पंचावस्था इमे उक्ताः.
भावने दर्शन चेति.
द्वे अवस्थे इति. सप्तस्व् अवस्थासु
सप्त वर्गा यथाक्रमं
प्रभाव्यंते व्यवस्थाप्यन्ते प्रधानीक्रियन्ते वा. आदिकर्मिकावस्थायां स्मृत्युपस्थानानि. उष्मगतावस्थायां सम्यक्प्रधानानि. मूर्धावस्थायाम् ऋद्धिपादाः. क्षान्त्यवस्थायाम् इन्द्रियाणि. लौकिकाग्रधर्मावस्थायां बलानि. भावनामार्गावस्थायां बोध्यंगानि. दर्शनमार्गावस्थायाम् आर्याष्टांगो मार्ग इति. विशेषाधिगमहेतुर् वीर्यसंवर्धनं. तस्माद् उष्मगतेषु सम्यक्प्रधानानि. [तिब्. 269अ] अपरिहाणीयकुशलमूलप्रवेशत्वात्. मूर्धेष्व् इति. अपरिहाण्यनुकूलानां कुशलमूलानां प्रवेशो मूर्धतः.
मूर्धलाभी न मूलच्छिद्

इति वचनात्. प्रविशत्य् एभिर् इति कृत्वा प्रवेशः. अपरिहाणिर् हि क्षान्तिषु भवति. तदवस्थाः. समाधयः समृद्धेर् आश्रयीभवंतीति. मूर्धस्व् ऋद्धिपादा व्यवस्थाप्यंते. अपुनःपरिहाणित इति विस्तरः. यस्मात् क्षान्तिषु पुनःपरिहाणिर् नास्ति. आद्ययोर् एव हि परिहाणिसंभवः. तस्माद् आधिपत्यप्राप्तानि श्रद्धादीनि भवंति. तद्भावात् क्षान्तिष्व् इन्द्रियाणि व्यवस्थाप्यंते. क्लेशानवमर्दनीयत्वाद् इति. यस्मात् क्लेशैर् नावमृद्यन्ते. तस्याम् अवस्थायां क्लेशासमुदाचारात्. लौकिकान्यधर्मानवमर्दनीयत्वाद् वा. अथ वा लौकिकैर् अन्यैर् धर्मैर् अनवमर्दनीयत्वाद् अग्रधर्मावस्थायां श्रद्धादीनि बलानीति प्रभाव्यन्ते. बोध्यासन्नत्वाद् इति. क्षयानुत्पादज्ञानासन्नत्वाद् इत्य् अर्थः. भावनामार्गो हि क्षयानुत्पादज्ञानासन्नः. दर्शनमार्गस् तु दूरो तदन्तरालभावनामार्गव्यवहितत्वात्. गमनप्रभावितत्वाद् इति. मार्गो हि लोके गमनप्रभावितः. गच्छंत्य् अनेनेति मार्गः. गच्छतीति वा मार्गः. पाटलिपुत्रम् अयं पन्था गच्छतीति लोके वचनात्. दर्शनमार्गश् चातिशयेन गमनप्रभावितो न भावनामार्गः. कथम् इत्य् आह. तस्याशुगामित्वाद् [तिब्. 269ब्] इति. तद्वान् अपि तेनाशु गच्छति. भावनामार्गेण तु भूमिभेदेन प्राकर्षकत्वात् बहुना कालेन गच्छति.
अपरे पुनर् आहुर् इत्य् आचार्यः. अस्मदादय इत्य् अभिप्रायात्. यथा वैभाषिकैर् भिन्नः क्रमः. तथा तम् अभित्त्वा बोधिपक्षाणाम् आनुपूर्वीं वर्णयंति. दर्शनमार्गे बोध्यंगानीति कृत्वा. बहुविधेति विस्तरः. बहुप्रकारो विषयो रूपादिभेदात्. नीलादिभेदाच् च. तस्मिन् व्यासेको विक्षेपः. बहुविधविषयव्यासेकेन विसर्तुं शीलम् आसाम् इति. बहुविधविषयव्यासेकविसारिण्यो ( अभिध्-क्-व्य् 604 ) बुद्धयः. तासां निग्रहार्थं स्मृत्युपस्थानानि. गर्धाश्रितानां तृष्णाश्रितानाम् इत्य् अर्थः. स्मरसंकल्पानाम् इत्य् अनुभूतविषयस्मृतिसंकल्पानाम् इत्य् अर्थः. कामसंकल्पानाम् इति वा. तद्बलेनेति. चतुःस्मृत्युपस्थानबलेनेत्य् अर्थः. चतुर्विधकार्यसंपादनायेति. चतुर्विधं कार्यम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणम्. अनुत्पन्नानाम् अनुत्पादः. तथानुत्पन्नानां कुशलानाम् उत्पादः. उत्पन्नानां स्थित्यादीनि. ततः समाधिविशोधनाद् इति. ततः सम्यक्प्रधानेभ्यो ऽनतरं समाधेर् विशोधनाद् ऋद्धिपादाः [तिब्. 270अ] प्रभाव्यंते. लोकोत्तरधर्माधिपतिभूतानीति. तदावाहकत्वाद् अधिपतिभूतानि वेदितव्यानि. तान्य् एवेन्द्रियाणि. यदा निर्जितविपक्षसमुदाचाराणि. निर्जितश्रद्ध्यादिसमुदाचाराणि भवंति. तदा बलानि. इन्द्रियावस्थायां हि क्लेशसमुदाचारः संभवति. क्षान्त्यवस्थायाः प्राकर्षकत्वात्. दर्शनमार्गे बोध्यंगानीति. अनास्रवा प्रज्ञा बोधिर् इति कृत्वा. उभयोर् मार्गांगानीति. दर्शनभावनामार्गयोः. कथम् इत्य् आह. तथा ह्य् उक्तम् इति विस्तरः. भावनया परिपूरिर् भावनापरिपूरिः तां गच्छत्य् आर्याष्टांगो मार्गः. तस्मिन् गच्छति चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं यच्छंति. याचत् सप्त बोध्यंगानीति. भावनापरिपूरिं गच्छंतीति वचनात् भावनामार्गे ऽपि आर्याष्टांगो मार्गो भवतीति गम्यते. न हि दर्शनमार्गे भावना परिपूरिं गच्छति. किं तर्हि भावनामार्ग इति. पुनश् चोक्तम् उभयोर् मार्गांगानि व्यवस्थाप्यंत इति. चतुर्णाम् आर्यसत्यानाम् एतद् अधिवचनम् इति दर्शनमार्गं दर्शयति. यथागतेन मार्गेण प्रक्रमणम् इति विस्तरेण यावन् मार्गस्यैतद् [तिब्. 270ब्] अधिवचनम् इति भावनामार्गं दर्शयति. यथागतेन यथाप्राप्तेन मार्गेण प्रक्रमणं यावद् बोधिर् इति. तद् एवं दर्शनमार्गे भावनामार्गे च मार्गांगानि व्यवस्थाप्यन्त इति. अत उभयोर् आर्याष्टांगो मार्ग एष्टव्य इति.
(वि.74) सिद्धो ऽनुक्रमः. पूर्वं बोध्यंगानि पश्चाद् आर्याष्टांगो मार्ग इति.
अनास्रराणि बोध्यंगमार्गांगाणीति.
अनास्रवाण्य् एवेत्य् अवधारणं.
द्विधेतर
इति. स्मृत्युपस्थानादयो बलपर्यन्ताः.
(वि.75) बलवाहनीयत्वाद् इति. बलेन वीर्येण संमुखीकरणीयत्वात्. अनागम्ये प्रीत्यभावः. सुखाधिगम्यं चित्तं प्रीणाति. नेतरद् इति. किं चाधरभूमिसाशंकत्वाच् च. परिहाणिं प्रति साशंक इति. अतश् च तत्र प्रीत्यभावः. साशंकतायां हि चित्तं न प्रीयते. संकल्पवर्ज्या इति. संकल्पो ( अभिध्-क्-व्य् 605 ) वितर्कः.
कामधातौ भवाग्रे च बोधिमार्गांगवर्जिता
इति. कथं भवाग्रे कायस्मृत्युपस्थानं भवति. न हि तत्र कायो विद्यते. कायालम्बना हि प्रज्ञा कायस्मृत्युपस्थानं. न च भवाग्रं कामधातुं रूपधातुं चालाम्बते. [तिब्. 271अ]
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इति सिद्धान्तात्. नैतत् केनचिद् व्याख्याकारेण लिखितं. तद् इदम् अत्र व्यवस्थापयामः. कायस्य कः स्वभावः. भौतिकत्वम् इत्य् उक्तं. भूतं भौतिकं च काय इत्य् अर्थः. तत्र यदि केवलभूतालंबना केवलभौतिकालंबना तदुभयालंबना वा प्रज्ञा भवेत्. कायस्मृत्युपस्थानम् एव तद् भवेत्. भवाग्रे च कुशलसास्रवा प्रज्ञा मार्गत इति न्यायत इति वानास्रवसंवरमार्गालंबनत इति. सास्रवधरालंबना हि मौलाः कुशलारूप्या नेष्यंते. न त्व् अनास्रवधरालंबना इति. अतस् तद् अत्र कायस्मृत्युपस्थानं वेदितव्यं.
(वि.77, 78) चत्वारो ऽवेत्यप्रसादाः बुद्धे ऽवेत्यप्रसादो धर्मे संघे चार्यकान्तानि च शीलानीति. तत्र दुःखसत्यादीनां धर्मत्वाद् अबुद्धसंघस्वभावत्वाच् च. यथाक्रमं सत्यत्रयम् अभिसमयन् पश्यन् धर्मे चावेत्यप्रसादम् आर्यकान्तानि चाशीलानि अनास्रवाणि प्रतिलभते. न बुद्धे न संघे वा अवेत्यप्रसादं. [दुःखसत्यादीनां धर्मत्वाद्. अबुद्धसंघस्वभावत्वाच् च. यथा] मार्गसत्यम् अभिसमयतो बुद्धे तस्य च स्रावकसंघे ऽवेत्यप्रसादं प्रतिलभते. मार्गसत्यस्य बुद्धसंघस्वभावत्वात्. को ऽयम् इह धर्मो ऽभिप्रेत [तिब्. 271ब्] इति. बहवो धर्माः कुशला धर्मा इत्य् एवमादयः. तत् को ऽयम् इह धर्मो ऽभिप्रेतः. यद् उक्तं धर्मे चावेत्यप्रसादं प्रतिलभत इति. अथ वा बुद्धरत्नं संघरत्नं चेदम् उच्यते. तस्माद् इदम् अपि धर्मरात्नम् इहाभिप्रेतं भवेत्. रत्नत्रयस्य ह्य् अयं स्वभाव उक्तः.

बुद्धसंघकरां धर्मान् अशैक्षान् उभयांश् च सः
निर्वाणं चेति शरणं यो याति शरणत्रयम्
इति. तत् किम् अयं निर्वाणधर्मो ऽभिप्रेत इत्य् अतः पृच्छति. को ऽयम् इह धर्मो ऽभिप्रेत इति.
धर्मः सत्यत्रयम्
इति विस्तरः. दुःखसमुदयनिरोधसत्यानि. बोधिसत्त्वस्य च शैक्षावस्थायां ( अभिध्-क्-व्य् 606 ) अनास्रवो मार्गः. प्रत्येकबुद्धस्य च शैक्षाशैक्षलक्षणो मार्गो धर्म इहाभिप्रेत इति. अतश् चत्वार्य् अपीति विस्तरः. मार्गसत्यम् अप्य् अभिसमयन् धर्मम् अपि बोधिसत्त्वप्रत्येकबुद्धमार्गलक्षणम् अभिसमयति. तस्माच् चत्वार्य् अपि सत्यान्य् अभिसमयतो धर्मे ऽवेत्यप्रसादलाभ इत्य् उक्तम् इति. बुद्धसंघयोर् मार्गो धर्म इति नोच्यते. यस्मात् तदभिसमयतो बुद्धे संघे चावेत्यप्रसादलाभ इति. कथं पुनर् मार्गसत्याभिसमयतः श्रद्धालक्षणानां त्रयाणां बुद्धधर्मसंघावेत्यप्रसादानां युगपत् संमुखीभावः. सैव श्रद्धाधिष्ठानभेदापेक्षया [तिब्. 272अ] नामत्रयं लभत इत्य् अदोषः. अथ वा धर्मे ऽवेत्यप्रसादो वर्तमानः. अनागतास् तु त्रयो भाव्यंते. तेनोच्यते
लाभो मार्गाभिसमये बुद्धतत्संघयोर् अपीति.
यद्य् अधिष्ठानापेक्षयावेत्यप्रसादव्यवस्थानं धर्मावेत्यप्रसादः पूर्वं पठितव्यः स्याद् इत्य् अत आह. यथा तु व्युत्थितः संमुखीकरोति. तथैषाम् आनुपूर्वम् इति. वैद्यभैषज्योपस्थायकभूतत्वाद् इति. वैद्यभूतो भगवान् अनुत्तरो विषक् शल्यहर्तेति सूत्रात्. धर्मभैषज्यदैशिकत्वाच् च. भैषज्यभूतो धर्मः क्लेशव्याधिभैषज्यत्वात्. निर्वाणारोग्यसंप्रापकत्वाच् चोपस्थायकभूतः संघो निर्वाणारोग्यप्राप्तये परस्परोपस्थानात्. चित्तप्रसादकृतः शीलप्रसाद इति. त्रिविधश् चित्तप्रसादः. सम्यक्संबुद्धो बत भगवान्. स्वाख्यातो ऽस्य धर्मविनयः. सुप्रतिपन्नो ऽस्य श्रावकसंघ इति. तेन कृतः शीलप्रसादः. शीलम् एव प्रसादः. शीलस्य वा प्रसादो ऽनास्रवत्वं शीलप्रसादः. अन्ते त्रयाणां प्रसादानां चतुर्थ उक्तः शीलप्रसादः. कस्माद् इत्य् आह. एवं प्रसन्नस्य सम्यक्संबुद्धो बत भगवान् इति विस्तरेणैषा प्रतिपत्तिः. [तिब्. 272ब्] आर्यकान्तशीलप्रतिपत्तिर् इत्य् अर्थः. आरोग्यभूतत्वाद् वा. किम् अन्ते शीलप्रसाद उक्तः. वैयभैषज्योपस्थायकारोग्यानुक्रमतः. दैशिकमार्गसार्थिकयानवद् वा. किम्. अन्ते चतुर्थ उक्त इत्य् अधिकृतं. दैशिकभूतो भगवान्. मार्गभूतो धर्मः. सार्थिकभूतः संघः. यानभूतान्य् आर्यकान्तानि शीलानीति. आर्याणं कान्तानि प्रयाणीत्य् आर्यकान्तानीति.
(वि.79, 80) अष्टाभिर् इति. अष्टाभिर् अंगैः समन्वागतः शैक्षः. कतमैर् अष्टभिः. शैक्ष्या सम्यग्दृष्ट्या यावच् छैक्षेण सम्यक्समाधिनेति. दशभिर् अंगैः समन्वागतो ऽशैक्षः. कतमैर् दशभिः. अशैक्ष्या सम्यग्दृष्ट्या यावद् अशैक्षेण सम्यक्समाधिना अशैक्ष्या सम्यग्विमुक्त्या अशैक्षेण च सम्यग्ज्ञानेनेति. विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति. तस्यां ( अभिध्-क्-व्य् 607 ) विमुक्तौ प्रत्यात्मज्ञानं तत्प्रत्यात्मज्ञानं विमुक्तिश् च तत्प्रत्यात्मज्ञानं च. विमुक्तितत्प्रत्यात्मज्ञानं. ताभ्यां प्रभावितः. क्लेशविमुक्त्या क्लेशविमुक्तिप्रत्यात्मज्ञानेन च. क्लेशेभ्यो विमुक्तो ऽस्मीति प्रभावितः. प्रकर्षित इत्य् अर्थः. तस्यैवाशैक्षस्य तद्वचनं विमुक्तिवचनं विमुक्तिज्ञानवचनं च. न्याय्यं न शैक्षस्येति. अधिमोक्षः संस्कृता विमुक्तिर् [तिब्. 273अ] इति. धात्वर्थैकत्वात् अंगानां संस्कृतत्वाद् इति. यथा सम्यग्दृष्ट्यादीनि संस्कृतानि. तथा विमुक्तिर् अपि संस्कृतैव गृह्यते नासंस्कृता. विसभागत्वाद् विसदृशत्वात्. द्वे विमुक्ती सूत्र उक्ते इति. रागविरागाच् चेतोविमुक्तिः. अविद्याविरागात् प्रज्ञाविमुक्तिर् इति. चेतोविमुक्तिः प्रज्ञाविमुक्तिश् चेत्य् अर्थः. विमुक्तिस्कंधो ऽपि स एवेति. शीलस्कन्धः. समाधिस्कन्धः प्रज्ञास्कन्धः. विमुक्तिस्कन्धः. विमुक्तिज्ञानदर्शनश् चेत्य् अत्र द्रष्टव्यः.
यत् तर्हि सूत्र उक्तम् इति. चत्वारीमानि व्याघ्रबोध्यायनाः परिशुद्धिप्रधानानि. कतमानि चत्वारि. शीलपरिशुद्धिप्रधानं. समाधिपरिशुद्धिप्रधानं. दृष्टिपरिशुद्धिप्रधानं. विमुक्तिपरिशुद्धिप्रधानं चेति विस्तरेणोक्त्वाह. कतमच् च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानं. यावद् यश् छन्दो वीर्यम् इति विस्तरः. व्याघ्रबोध्यायना इति बहुवचनं. तेषां बहुत्वात्. विमुक्तिपरिशुद्धिप्रधानम् इति. विमुक्तेः परिशुद्धिः विमुक्तिपरिशुद्धिः. तस्यै प्रधानं वीर्यविमुक्तिपरिशुद्धिप्रधानं. [तिब्. 273ब्] तद् एवम् अत्र विमुक्तिपरिशुद्धिप्रधान इति प्रश्नत्रयं. तत्र इह भिक्षो रागाच् चित्तं विरक्तं भवति विमुक्तं. द्वेषात्. मोहाद् विरक्तं भवति विमुक्तं. विमुक्तिर् उक्ता. इत्य् अपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये. परिपूर्णस्य वानुग्रहायायेति. विमुक्तिपरिशुद्धिः परिपूर्यनुग्रहलक्षणोक्ता. यश् छन्दो वीर्यम् इति विस्तरेण प्रधानम् उक्तं. यत एवं रागादिभ्यो विमुक्तिः प्रहाणम् इत्य् एवंलक्षणा विमुक्तिर् उक्ता सूत्रे नाधिमुक्तिः. तस्मान् नाधिमोक्ष एव विमुक्तिः. किं तर्हि. तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यम् अनास्रवत्वम् अनर्थान्तरभूतं घृतमण्डस्वच्छतावद् इति अपर इत्य् आचार्यः.
(वि.81अब्) तदुत्पत्तिविबन्धत्वाद् इति. तस्याशैक्षस्य चित्तस्योत्पत्तौ विबन्धत्वात्. क्लेशप्राप्तिर् हि विबन्धः. यत् तर्हि नोत्पद्यमानम् इति. यद् अनागतं वज्रोपमात् समाधेर् अनन्तरं न भवत्य् अशैक्षम् एव. लौकिकं वेत्य् अशैक्षसंतान एव यल् लौकिकं. यत् तु नियतम् उत्पत्तौ. तद् एवोक्तम् इति. यद् उत्पादाभिमुखम् अनागतं. तद् एवोक्तं शास्त्रे विमुच्यत इति. तद्विमुच्यमानतया [तिब्. 274अ] सूपलक्ष्यत्वाद् इत्य् अभिप्रायः.
तत एवोत्पत्त्यावरणाद् इति. तत एव क्लेशप्राप्तितः. तदुत्पत्तिविबंधाद् ( अभिध्-क्-व्य् 608 ) इति तद् एवात्र कारणं वक्तव्यं. यद्य् अशैक्षसंतानलौकिकम् अपि विमुच्यत इत्य् अभ्युपगम्यते. शैक्षस्यापि लौकिकम् उत्पद्यते. कस्मान् न विमुच्यत इत्य् अभ्युपगम्यते. अत आह. न तत् तादृशम् इत्यादि. क्लेशप्राप्तिसहितं तच्छैक्षस्य लौकिकं. न त्व् अशैक्षस्य लौकिकम् एवं भवतीत्य् असाम्यं.
(वि.81च्द्) निरुध्यमान
इति. निरोधाभिमुखः.
तदावृतिम्
इत्य् अशैक्षचित्तावरणं.
(वि.82) या चासंस्कृता विमुक्तिर् उक्ता शास्त्रे इहैव वा
असंस्कृता क्लेशहानम्
इति. ये च त्रयो धातव उच्यंते. क्वोच्यंते. सूत्रे शास्त्रे ऽपि वा.
विरागो रागसंक्षय
इति. भेदविवक्षायाम् एवम् उच्यते. अभेदविवक्षायां तु यो विरागः. तत् प्रहाणम् अप्य् उच्यते. निरोधो ऽपीत्यादि.
(वि.83) वस्तुन इति. सास्रवस्य रूपादेः. चतुष्कोटिक इति. स्यान् निर्विद्यते न विरज्यते. स्याद् विरज्यते न निर्विद्यते. स्याद् उभयं. स्यान् नोभयम् [तिब्. 274ब्] इति.
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैर्
इति. अनेन वस्तुहेतुकं निर्वेदं दर्शयति.
विरज्यते सर्वैर् जहाति यैर्

इति प्रहाणक्रियाहेतुकं विरागं दर्शयति. एवं चतुष्कोटिकं सिध्यतीति. एवं निर्वेदविरागकारणं परिच्छिद्य योज्यम्. अनेन चतुष्कोटिकं सिध्यतीत्य् अभिप्रायः. कथम् इत्य् आह. निर्विद्यत एवेति विस्तरः. निर्विद्यत एव दुःखसमुदयक्षांतिभिर् दुःखसमुदयज्ञानैश् च निर्वेदवस्त्वालंबनत्वात्. दुःखसमुदयौ हि निर्वेदस्य वस्तुनी आलंबनम् इति. न विरज्यते. क्लेशान् अप्रजहद् इति वचनेन प्रहाणक्रियाया असंभवात्. विरज्यत एव निरोधमार्गक्षान्तिभिर् दर्शनमार्गे. निरोधमार्गज्ञानैर् भावनामार्गे. क्लेशान् प्रजहद् इति प्रहाणक्रियासंभवात्. न निर्विद्यते. प्रामोद्यवस्त्वालंबनत्वात्. निर्वाणमार्गौ हि प्रामोद्यवस्तुनी आलंबनम् इति. उभयपूर्वैः क्लेशान् प्रजहद् इति निर्विद्यते च विराज्यते च पूर्वैर् दुःखसमुदयक्षान्तिज्ञानैः. कथं. निर्विद्यते. निर्वेदवस्त्वालंबनत्वात्. विरज्यते. क्लेशान् प्रजहद् [तिब्. 275अ] इति वचनेन प्रहाणक्रियासद्भावात्. नोभयम् ( अभिध्-क्-व्य् 609 ) उत्तरैः क्लेशान् अप्रजहद् इति. न च निर्विद्यते. न च विरज्यते. उत्तरैर् निरोधमार्गक्षान्तिज्ञानैः प्रामोद्यवस्त्वालंबनत्वात् न निर्विद्यते. क्लेशान् अप्रजहद् इति वचनेन प्रहाणक्रियाया अभावात् न विरज्यते.
आह. अपदिष्टं प्रथमायां कोट्यं चतुर्थ्यां च क्लेशां अप्रजहद् इति. कः कान् क्लेशान् न प्रजहाति. तत्र वीतराग इति विस्तरः. तत्रार्थोपक्षेपार्थं. वीतरागः कामधातोर् यावद् आकिंचन्यायतनाद् अपि. सत्यानि पश्यन्न् अभिसमयन्. धर्मज्ञानक्षांतिभिर् धर्मज्ञानैर् धर्मज्ञानक्षान्तिभिश् च क्लेशान् न प्रजहाति. लौकिकेन भावनामार्गेण पूर्वं प्रहीणत्वात्. अनास्रवा तु केवलं विसंयोगप्राप्तिर् उत्पद्यते. अन्वयज्ञानक्षान्तिभिस् त्व् अवश्यं क्लेशान् प्रजहाति. न हि लौकिकेन मार्गेण भवाग्रवैराग्यम् अस्ति. ज्ञानैस् तु भावनामार्ग. प्रयोगविमुक्तिविशेषमार्गैर् आनन्तर्यमार्गैर् अप् इव कैश्चिद् इन्द्रियसंचाराद्यावस्थासु न क्लेशान् प्रजहाति. [तिब्. 275ब्] के ऽवशिष्यंते. तदन्य आनन्तर्यमार्गास् तैः क्लेशान् प्रजहातीति सिद्धं.
आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां षष्ठं कोशस्थानं समाप्तं.
( अभिध्-क्-व्य् 610 ) ब्लन्क्
विइ ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम्
(विइ.1) षष्ठात् कोशस्थानाद् अनन्तरं सप्तमस्योपन्यासे संबंधं दर्शयन्न् आह. क्षान्तयश् चोच्यन्ते. ज्ञानानि चेति विस्तरः.
लौकिकेभ्यो ऽग्रधर्मेभ्यो धर्मक्षान्तिर् अनास्रवेत्य्
अत्राष्टौ क्षान्तय उक्ताः.
कामदुःखे ततो ऽत्रैव धर्मज्ञानं. तथा पुनर्
इत्य् अत्र ज्ञानानि.
चेत् क्षयज्ञानम् अशैक्षी वा दृष्टिर्
इत्य् अत्र सम्यग्दृष्टिः.
सैव विमुक्ती द्वे ज्ञानं बोधिर् यथोदितेत्य्
अत्र सम्यग्ज्ञानं. इहैव वा षष्ठकोशस्थानावसान एतत् सर्वम् उक्तम्.
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैर् विरज्यते
सर्वैर् जहाति यैर्

इति. शास्त्रसंबन्धेन वायम् उपन्यस्यते. शास्त्रे हि क्षान्तयश् चोच्यन्ते. ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च. तत्प्रत्यायनाय चायम् आरभ्यत इत्य् अतः पृच्छति. किं पुनः क्षान्तयो न ज्ञानम् इति विस्तरः.
नामलाः क्षान्तयो ज्ञानम्
इति. अमला एव क्षान्तयो न ज्ञानम् इत्य् [तिब्. 276अ] अवधारणात् सास्रवाः क्षान्तयो ज्ञानम् इत्य् उक्तं भवति. संवृतिज्ञानं हि तद् इष्यते. तत्प्रहेयस्येत्य्. क्षान्तिप्रहेयस्य विचिकित्सानुशयस्याप्रहीणत्वात्. प्रहीयते हि तास्व् अवस्थास्व् अनुशयः. न प्रहीणो विप्रकृतावस्थत्वात्. निश्चितं च ज्ञानम् इष्यते. नानिश्चितम्. इति न क्षान्तयो ज्ञानं. क्षमणरूपेण च क्षान्तय उत्पद्यन्ते. न निश्चयरूपेणेति न ज्ञानम् इति वर्णयन्ति. विचिकित्सानुशयस्याप्रहीणत्वाद् ( अभिध्-क्-व्य् 612 ) इत्य् एतावति वक्तव्ये तत्प्रहेयस्येति विशेषणं किम् अर्थं. द्वितीये हि क्षणे प्रथमक्षान्तिप्रहेयो विचिकित्सानुशयः प्रहीणो भवतीति प्रथमैव क्षान्तिर् न ज्ञानम् इति गम्येत. न त्व् अन्याः क्षान्तयः. इत्य् अतस् तत्प्रहेयस्येति विशेषणं. [यद् वा दुःखधर्मज्ञानादीनां ज्ञानत्वप्रतिपादनार्थं. यदि विचिकित्सानुशयाप्रहीणत्वाद् इत्य् एतावद् उच्यते. एवं] संतीरणात्मकत्वाद् इति. उपनिध्यानस्वभावत्वाद् इत्य् अर्थः. असंतीरणापरिमार्गणाशयत्वाद् इति. नास्ति संतीरणम् अस्येत्य् असंतीरणं. परिमार्गणे आशयो ऽभिप्रायः परिमार्गणाशयः. नास्य परिमार्गणाशय इत्य् अपरिमार्गणाशयं. असंतीरणं च तद् अपरिमार्गणाशयं च असंतीरणापरिमार्गणाशयं. तद्भावः. तस्मात्. क्षयज्ञानम् अनुत्पादज्ञानं च न दृष्टिर् इत्य् [तिब्. 276ब्] अर्थः. यावद् अयम् अकृतकृत्यः. तावद् दुःखादीनि सत्यान्य् उपनिध्यायति परिमार्गयति चाशयतो यथोक्तैर् अनित्यादिभिर् आकारैः. कृतकृत्यस्य पुनर् यथा दृष्टिष्व् एव दुःखादिष्व् आर्यसत्येषु प्रत्यवेक्षणमात्रं ताभ्यां भवतीति दुःखं मया परिज्ञातं न पुनः परिज्ञेयम् इत्यादि. तस्मान् न ते दृष्टिस्वभावे.
तदन्योभयथार्या धीर्
इति. दुःखे धर्मज्ञानं यावन् मार्गे ऽन्वयज्ञानं. सा प्रज्ञोपनिध्यानप्रवृत्ता प्रहीणतद्विषयविचिकित्सा च.
अन्येति
लौकिकी. सा सर्वैव ज्ञानम् इत्य् अवधारणं. न सा प्रज्ञास्ति. यन् न ज्ञानम् इत्य् अर्थः. का पुनर् असौ प्रज्ञा. पंचविज्ञानकायिका कुशलाकुशलाव्याकृता मानसी या दृष्टिस्वभावक्लेशसंप्रयुक्ता अनिवृताव्याकृता च. या पुनर् दृष्टिस्वभावा या च मानसी कुशला. सा किं भवतीत्य् आह.
दृशश् च षड्
इति. एषा षड्विधा लौकिकी प्रज्ञा दृष्टिः. अन्या न दृष्टिः. षड् एवेत्य् अवधारणात्. का पुनर् अन्या. या पूर्वम् उक्ता लौकिकी. ज्ञानं त्व् एषा चान्या चेति. एषा च षड्विधा दृष्टिस्वभावा प्रज्ञा. ततो ऽन्या च पूर्वोक्ता ज्ञानम् इत्य् उच्यते. अत एव च
दृशश् च षड्
इति चकारः पठ्यते. यस्माद् एताः षट् ज्ञानानि चोच्यन्ते दृष्टयश् चेति.
(विइ.2, 3) दशभिर् ज्ञानैः. कतमैः. [तिब्. 277अ] धर्मान्वयसंवृतिपरचित्तदुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानैर् अवधारणार्थो ऽयम् आरम्भो दशैव ज्ञानानि. च्युत्युपपादपुद्गलज्ञानादीनाम् एषाम् एवान्तर्भावात्. ( अभिध्-क्-व्य् 613 ) समासेन तु द्वे एव सास्रवम् अनास्रवं चेति. प्रायेणेति विशेषणं. घटपटादिकं संवृतिसद्वस्तु संवृतिज्ञानम् आलंबते. स्वसामान्यलक्षणम् अपि तु कदाचिद् गृह्णाति. सांवृतम् इति. संवृतौ भवं सांवृतं.
अनास्रवम्
अपि संक्षिप्यमाणं
द्विधा धर्मज्ञानम् अन्वयज्ञान चेति.
दुःखज्ञानादीनाम् अनयोर् एवान्तर्भावात्. आलंबनं संभवत इति. यस्य यद् आलंबनं. तस्य तद् भवति. न हि चक्षुर्विज्ञानस्य शब्दालंबनं. तदालंबनत्वाद् इति. दुःखाद्यालंबनत्वाद् इत्य् अर्थः.
(विइ.4) एते चतुर्विधे
इति. एते एव धर्मान्वयज्ञाने द्वे दुःखाद्यालंबनभेदाच् चतुर्विधे. अदृष्टिस्वभावे सती क्षयज्ञानम् अनुत्पादज्ञानं चोच्यते.
ते पुनः प्रथमोदिते.
ते पुनः क्षयानुत्पादज्ञाने प्रथमोत्पन्ने सती
दुःखहेत्वन्वयज्ञाने भवतः.
दुःखसमुदयालंबने अवश्यं भवत इत्य् अर्थः. कस्माद् इत्य् आह. दुःखसमुदयाकारैर् भावाग्रिकस्कंधालंबनत्वाद् इति. [तस्य हि सर्वपश्चाद् भवाग्रम् एव प्रहीयते. तस्माद् येन च पीड्यते येन च बद्धं तत एव मोक्षं बहु मन्यमानो ऽनन्तरं क्षीणं भवाग्रम् आलंबते. तच् च दुःखं या समुदया चित्यतो दुःखसमुदयाकारैर् भवाग्रम् आलंबते.] यस्माद् अवश्यं ते प्रथमोत्पन्नक्षयानुत्पादज्ञाने [तिब्. 277ब्] दुःखाकारैर् अनित्यादिभिः समुदयाकारैर् वा हेत्वादिभिर् भावाग्रिकान् स्कंधान् आलंबते. अप्रथमोत्पन्ने त्व् अन्यसत्यालंबने अपि ते भवत इत्य् अर्थाद् उक्तं भवति. वज्रोपमानन्तरं क्षयज्ञानं भवति. तदनन्तरं चानुत्पादज्ञानम् इत्य् अतः पृच्छति. किं वज्रोपमो ऽपि ताभ्याम् एकालंबनो भवतीति. ताभ्याम् इति प्रथमोत्पन्नाभ्याम् इत्य् अर्थः. यथा क्षयानुत्पादज्ञाने एकालंबने किं वज्रोपमो ऽपि ताभ्याम् एकालंबन इत्य् अपिशब्दस्यार्थः. यदि दुःखसमुदयालंबनो भवति. किं. ताभ्याम् एकालंबनो ब्भवतीति संभवः. अथ निरोधमार्गालंबनो भवति नैकालंबनः. तयोर् नियमेन भावाग्रिकस्कंधालंबनत्वात्. यथा हि विषकाण्डविद्धस्य मृतस्य विषं सर्वम् अंगम् अभिव्याप्य व्रणदेश एव मरणकाले ऽवतिष्ठते नान्यत्र. तद्वद् अस्य योगिनः प्रहेय एव भावाग्रिकस्कंधलक्षणे ज्ञानम् अवतिष्ठते.
(विइ.5, 6) चतुर्भ्यः परचित्तविद्

इति. चतुर्भ्य एव धर्मज्ञानादिभ्यस् तत्संगृहीतत्वात्. न दुःखज्ञानादिभ्यः. अन्याकारत्वात्. अनास्रवं हि परचित्तज्ञानं मार्गाकारम् एव मार्गज्ञानत्वात्. यत् तु सास्रवं. तल् लौकिकाकारं सरागम् [तिब्. 278अ] विगतरागम् इत्यादि. श्रद्धाधिमुक्तसमयविमुक्तमार्गेणेति. यथासंख्यं श्रद्धाधिमुक्तमार्गेन दृष्टिप्राप्तमार्गं न जानाति. समयविमुक्तमार्गेणासमयविमुक्तमार्गं न जानाति. अधरेणोत्तरम् इति. अनागामिमार्गेणार्हन्मार्गं न जानाति. अर्हन्मार्गेण प्रत्येकबुद्धमार्गम् इत्यादि. कामधातूर्ध्वधातुप्रतिपक्षालंबनत्वात् तयोर् इति. तयोर् धर्मज्ञानपक्षान्वयज्ञानपक्षयोः. धर्मज्ञानपक्षस्य कामधातुप्रतिपक्ष आलंबनम्. अन्वयज्ञानपक्षस्य ऊर्ध्वधातुप्रतिपक्ष आलंबनम् इति नियमः. दर्शनमार्गे परचित्तज्ञानं नास्तीत्य् अव्यापारत्वात् दर्शनमार्गस्य. दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं चेति संभवं प्रत्य् एवम् उच्यते. कदाचिद् धि प्रयोगवशाद् दुःखे ऽन्वयज्ञानक्षान्तिं दुःखे ऽन्वयज्ञानं च ज्ञातुं संभवति. अष्टमं च समुदयान्वयज्ञानम् इति. धर्मज्ञानपक्षौ द्वौ क्षणौ ज्ञात्वान्वयज्ञानपक्षं परेण चित्तं ज्ञास्यामीति प्रयोगं कृत्वा समुदयान्वयज्ञानम् अष्टमं संभावयति. मृदुप्रयोगत्वाद् इति अल्पप्रयोगत्वाद् इत्य् अर्थः. श्रावकस्य हि महाप्रयोगसाध्यं तद् अन्वयज्ञानपक्षालंबनं [तिब्. 278ब्] परचित्तम्. अतो यावत् स तत्र प्रयोगम् आरभते. तावद् अयं षोडशं चित्तम् अनुप्राप्तो भवतीति. अंतरा न जानाति. प्रथमद्वितीयपंचदशान् इति एतान् एव त्रीन् जानाति. कथं. दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च ज्ञात्वा प्रयोगान्तरं च कृत्वा पंचदशक्षणं मार्गान्वयज्ञानक्षान्तिं जानातीति.
(विइ.7) कथम् अनास्रवेण ज्ञानेनैवं जनातीति. अनास्रवणां दुःखाद्याकारत्वत्. इदं च संवृत्याकारं दुःखं मे परिज्ञातम् इत्य् एवमाद्याकारत्वाद् अतः पृच्छति. तद्विशेषेण तयोर् विशेष इति. तस्य संवृतिज्ञानद्वयस्य तत्पृष्ठलब्धस्य विशेषेण दुःखं मे परिज्ञातं यावन् मे मार्गो भावित इति जानाति. दुःखं मे परिज्ञातं न पुनः परिज्ञेयं. यावन् मार्गो मे भावितो न पुनर् भावयितव्यः इति च जानातीत्य् एवंरूपेण तयोर् अनास्रवयोः क्षयानुत्पादज्ञानयोर् विशेषः शास्त्रे ज्ञापितो दर्शितः. अत एव तद् उपादायेत्य् उक्तं. तद् उपादायेति पूर्वीकृत्य तत् पुरस्कृत्येत्य् अर्थः. निष्यंदने तयोर् निर्विकल्पयोर् विशेषो ऽनुमीयत इत्य् अभिप्रायः.
अनास्रवेणाप्य् एवं जानातीति. षोडशाकारव्यतिरिक्तो ऽस्त्य् अनास्रव आकारः. ( अभिध्-क्-व्य् 615 ) तेनैवं जानातीत्य् अपरे. यदि तद् उपादाय यज् ज्ञानं दर्शनम् इति शास्त्रवचनेन दुःखपरिज्ञानादिसंवृतिज्ञानफलम् [तिब्. 279अ] अमास्रवं क्षयानुत्पादज्ञानम् उच्यते. यद् इदम् उच्यते.
क्षयानुत्पादधीर् न दृक्
इति न दृष्टिर् इति. तद् विरुध्यते. तेनाह. दर्शनवचनं तु भाष्याक्षेपाद् इति. यद् एतच् छास्त्रे वचनं यज् ज्ञानं दर्शनम् इति. भाष्याक्षेपाद् भवति. दुःखज्ञानादिषु हि ज्ञानं दर्शनं विद्या बुद्धिर् बोधिर् इति पठ्यते. तत्पाठाक्षेपेणायम् उपतिष्ठते तत्पाठिनां पाठः. न तु ते क्षयानुत्पादज्ञाने दर्शनस्वभावे. न दृष्टिस्वभावे इत्य् अर्थः. प्रत्यक्षवृत्तित्वाद् वेति. प्रत्यक्षा वृत्तिर् अस्य ज्ञानद्वयस्य. तद् इयं प्रत्यक्षवृत्तिः. तद्भावत्. अनयोर् दर्शनवचनं. न ह्य् एतज्ज्ञानद्वये आनुमानिकवद् आगामिकवद् वा परोक्षवृत्तिः. प्रत्यक्षवृत्तिश् च दर्शनम् इष्यते. तद्यथा चक्षुर्विज्ञानं. तद्साधर्म्याद् एतद् अपि ज्ञानद्वयं दर्शनम् इत्य् उक्तम्. अत एवोक्तम् इति. अत एव प्रत्यक्षवृत्तित्वाद् उक्तं शास्त्रे यत् तावज् ज्ञानं. दर्शनम् अपि तत्. स्यात् तु दर्शनं न ज्ञानम् अष्टाव् आभिसमयान्तिकाः क्षान्तयः. तद् इदम् उक्तं भवति दर्शनत्वम् अनयोर् इष्यते. न दृष्टित्वम् इति.
तत्रेति तेषु दशसु ज्ञानेषु संवृतिज्ञानं संवृतिज्ञानम् एव स्वभावसंग्रहतः. एकस्य च परचित्तज्ञानस्य भाग एकदेशः. तस्य हि सास्रवानास्रवस्य [तिब्. 279ब्] सास्रव एव भागः संवृतिज्ञानं. नानास्रवो भाग इति. धर्मज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं धर्मज्ञानम् एव. सप्तानां च भागो दुःखसमुदयनिरोधमार्गपरचित्तक्षयानुत्पादज्ञानानाम्. कथं. दुःखज्ञानं हि धर्मान्वयज्ञानस्वभावं. तस्य यो धर्मज्ञानभागः. तद् धर्मज्ञानम्. एवं समुदयज्ञास्य यावद् अनुत्पादज्ञानस्य धर्मान्वयज्ञानस्वभावस्य यो धर्मज्ञानभागः. तद् धर्मज्ञानं. न त्व् अन्वयज्ञानभाग इति. परचित्तज्ञानस्य तु धर्मान्वयमार्गसंवृतिज्ञानस्वभावस्य धर्मज्ञानभागो धर्मज्ञानम् इति. एवम् अन्वयज्ञानम् एकम् अन्वयज्ञानम् एव. सप्तानां च भागः. तेषाम् एव दुःखज्ञानादीनाम् यो ऽन्वयज्ञानभागः. तद् अन्वयज्ञानम् इति योज्यं. दुःखज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं. तद् एव दुःखज्ञानं. चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानाम्. एतानि हि धर्मज्ञानादीनि चत्वारि चतुःसत्यालंबनानि भवन्ति. य एषां दुःखसत्यालम्बनो भागः. तद् दुःखज्ञानं. नान्यो भागः. इत्य् एवं समुदयनिरोधज्ञाने ( अभिध्-क्-व्य् 616 ) योज्ये प्रत्येकम्. एकं ज्ञानं समुदयज्ञानं निरोधज्ञानं वा. चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानां यः समुदयालंबनभागो निरोधालंबनभागो वा. तत् समुदयज्ञानं निरोधाज्ञानं च. मार्गज्ञानं दशसु ज्ञानेष्व् [तिब्. 280अ] एकं ज्ञानं तद् एव मार्गज्ञानं. पंचानां च भागः. धर्मान्वयक्षयानुत्पादपरचित्तज्ञानानं. एतानि पंच मार्गज्ञानानि मार्गज्ञानस्वभावानि भवन्ति. य एषां मार्गज्ञानभागः. तन् मार्गज्ञानं नेतर इति. परवित्तज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं. चतुर्णां च भागो धर्मान्वयमार्गसंवृतिज्ञानानां. एतानि हि चत्वारि ज्ञानानि परचित्तापरचित्तज्ञानं स्वभावानि भावंति. य एषां परचित्तज्ञानभागः. तत् परचित्तज्ञानं. नेतर इति. क्षयज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं तद् एव क्षयज्ञानं स्वभावसंग्रहतः. षण्णां च भागो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां. क्षयज्ञानं दुःखं मे परिज्ञातम् इत्य् एवमाद्याकारज्ञाननिष्यन्दं. तत्र यत् कामावचरदुःखाद्यालंबनं. तद् धर्मज्ञने ऽन्तर्भवति. यद् रूपारूप्यावचरदुःखाद्यालंबनं. तद् अन्वयज्ञाने ऽन्तर्भवति. यत् प्रत्येकं दुःखाद्यालंबनं. तद् दुःखज्ञानं यावन् मार्गज्ञानं वा भवति. तत्र य एषाम् एवंलक्षणो भागः. तत् क्षयज्ञानं नेतर इति. षण्णां भाग इत्य् उच्यते. [तिब्. 280ब्] एवम् अनुत्पादज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं तद् एवानुत्पादज्ञानं. षण्णां च भगो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां यो भागः. दुःखं मे परिज्ञातं न पुनः परिज्ञेयम् इत्य् एवमाद्याकारनिष्यन्दं. तद् अनुत्पादज्ञानं. रूपारूप्यावच्रदुःखाद्यालंबनम्. तद् अन्वयज्ञानं. नेतरो भाग इति. षण्णां भाग इत्य् उच्यते.
(विइ.8) आकाराकारगोचराद्

इति. आकारश् च गोचरश् चाकारगोचरं. आकारश् चाकारगोचरं. आकाराकारगोचरम्. तस्मात्. स्वभावतः संवृतिज्ञानम् इति. स्वभावेन स्वभावतः. संवृतिज्ञानं. कस्माद् इत्य् आह. अप्रमार्थज्ञानत्वाद् इति. कामधातुप्रतिपक्षो धर्मज्ञानं. ऊर्ध्वधातुप्रतिपक्षो ऽन्वयज्ञानं. तथा हि शास्त्र उक्तं. धर्मज्ञानं कतमत्. कामप्रतिसंयुक्तेषु संस्कारेषु यद् अनास्रवं ज्ञानं. कामप्रतिसंयुक्तानां ( अभिध्-क्-व्य् 617 ) संस्काराणां हेतौ यद् अनास्रवं ज्ञानं. कामप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानं कामप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यद् अनास्रवं ज्ञानं. इदम् उच्यते धर्मज्ञानम्. अपि खलु धर्मज्ञाने धर्मज्ञानभूमौ च यद् अनास्रवं. इदम् उच्यते धर्मज्ञानम्. अन्वयज्ञानं कतमत्. रूपारूप्यप्रतिसंयुक्तेषु संस्कारेषु यद् अनास्रवं ज्ञानम्. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां [तिब्. 281अ] हेतौ यद् अनास्रवं ज्ञानं. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानं. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यद् अनास्रवं ज्ञानम्. इदम् उच्यते अन्वयज्ञानं. अपि खल्व् अन्वयज्ञाने अन्वयज्ञानभूमौ च यद् अनास्रवं ज्ञानम्. इदम् उच्यते ऽन्वयज्ञानम् इति. आकारतो दुःखसमुदयज्ञाने इति. आकारत एव नालंबनतः पंचोपादानस्कंधलक्षणत्वेन तयोर् अभेदात्. तथा हि शास्त्र उक्तं. दुःखज्ञानं कतमत्. पंचोपादानस्कंधान् अनित्यतो दुःखतः शुन्यतो ऽनात्मतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानं. इदम् उच्यते दुःखज्ञानं. समुदयज्ञानं कतमत्. सास्रवं हेतुकं हेतुतः समुदयतः प्रभवतः प्रत्ययतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते समुदयज्ञानं. आकारालंबनतो निरोधमार्गज्ञाने इति. आकारतश् चालंबनतश् च निरोधमार्गज्ञाने व्यवस्थाप्येते. तथा हि शास्त्र उक्तं. निरोधज्ञानं कतमत्. निरोधं निरोधतः शान्ततः. प्रणीततो निःसरणतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते निरोधज्ञानम् इति. मार्गज्ञानं कतमत्. मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते मार्गज्ञानम् इति. प्रथमत [तिब्. 281ब्] इति ग्रहणम् अनुत्पादज्ञानविशेषणार्थं. तद् अपि हि कृतकृत्यसंतान उत्पद्यते. सर्वानास्रवहेतुकत्वाद् इति. प्रथमोत्पन्नानि दश ज्ञानान्य् अधिकृत्य सभागहेतुना सर्वानास्रवहेतुकम् अनुत्पादज्ञानं. क्षयज्ञानं तु न सर्वानास्रवहेतुकं. न ह्य् अनुत्पादज्ञानम् अस्य हेतुर् भवति विशिष्टत्वात्.
(विइ.9) सकलस्य सकलप्रतिपक्षत्वाद् इति. सकलस्य कामधातोर् दर्शनभावनाप्रहातव्यसंगृहीतस्य पंचप्रकारस्य सकलं धार्मज्ञानं दर्शनभावनामार्गसंगृहीतं चतुरार्यसत्यालंबनं प्रतिपक्ष इति कृत्वा कामधातोर् एव प्रतिपक्षो धर्मज्ञानम् इत्य् उक्तम्. अपि त्व् अस्ति संभवो यद् रूपारूप्यधातोर् अपि धर्मज्ञानं प्रतिपक्षः. कतमत् तद् धर्मज्ञानं. यन् निरोधे मार्गे च धर्मज्ञानं. निरोधमार्गौ ह्य् अधातुपतितौ. ताव् अधराव् अपि न हिनौ व्यवस्थाप्येते. दुःखसमुदयसत्वे त्व् ( अभिध्-क्-व्य् 618 ) अधरभूमिके निहीने. न तद् आलम्बनं धर्मज्ञानं रूपारूप्यधातुप्रतिपक्ष इत्य् अवगंतव्यं.
भावनापथ-
ग्रहणं तु रूपारूप्यावचराणां दर्शनहेयानाम् अन्वयज्ञानक्षान्तिवध्यत्वात्. अन्वयज्ञानं तर्हि निरोधमार्गालंबनभावनामार्गसंगृहीतं कस्मात् त्रिधातुप्रतिपक्षो न भवति. कामधातोर् जितत्वात्. धर्मज्ञानेनैव कामधातुः [तिब्. 282अ] पूर्वतरजितो भवति. ततः पश्चाद् अन्वयम् उत्पद्यते. ततः कामधातोर् जितत्वान् न तत् कामधातुप्रतिपक्ष इति. धर्मज्ञानं तु रूपारूप्यधातोर् अजितत्वात् प्रतिपक्षो युज्यते. [कर्मान् निरोधमार्गधर्मज्ञानाभ्याम् एव त्रैधातुकभावनाप्रहातव्यक्लेशप्रहाणं न पूर्वाभ्यां. शान्तनैर्याणिकतासाभागात्. न हि कामावचरसंस्काराणां. निरोधात् प्रतिपक्षाद् वा रूपारूप्यावचरसंस्काराणां निरोधस्य प्रतिपक्षस्य वास्ति कश्चिद् विशेषः. सर्वो हि निरोधः कुशलो ऽसंस्कृतो मार्गश् च नैर्याणिकः.] अन्वयम् इत्य् अन्वेतीत्य् अन्वयं ज्ञानं.
(विइ.10-12अब्) सर्वथेति. भावनामार्गसंगृहीतम् अपि. तान् पुरस्ताद् इति. तान् अनित्यादीन् आकारान् ऊर्ध्वं व्याख्यास्यामः. षोडशाकारम् उष्मगतादिषु. स्वसामान्यलक्षणादिग्रहणाद् इति. स्वलक्षणग्रहणात् सामान्यलक्षणग्रहणाच् च. आदिशब्देन भुंक्ष्व तिष्ठ गच्छेत्य् एवम् आकारं च. न ह्य् एते स्वलक्षणाकाराः. किं तर्हि. एवमाकारा एवेति.
उभयम् अपि त्व् इति. सास्रवानास्रवं. यत् तर्हीति विस्तरः. रागस्य च चित्तस्य च युगपद्ग्रहणम् इत्य् अभिप्रायः. सूत्रं पुनर् एवं पठ्यते. सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति. यथा सरागं विगतरागम्. एवं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् [तिब्. 282ब्] अनुद्धतम् अव्युपशान्तं भावितम् अविमुक्तं विमुक्तम् इति यथाभूतं प्रजानातीति. वस्त्रमलायुगपद्ग्रहणवद् इति. यथा वस्त्रमलयोर् न युगपद्ग्रहणं. तद्वत्. कथं. यथा यदा वस्त्रम् इति परिच्छिन्नाकारं विज्ञानम् उत्पद्यते न तदा मलं गृह्णाति. यदा च मलम् इति परिच्छिन्नाकारं विज्ञानम् उत्पद्यते. न तदा वस्त्रं गृह्णाति.
संसृष्टसरागता संयुक्तसरागता चेति. संसृष्टसरागता संप्रयोगात्. संयुक्तसरागता रागप्राप्त्यनुबंधाद् इत्य् एके. अनुशयानरागालंबनत्वाद् इत्य् अपरे. द्वाभ्याम् इति. संसृष्टसरागतया संयुक्तसरागतया चेति. ततो ( अभिध्-क्-व्य् 619 ) ऽन्यत् सास्रवम् इति. यत् क्लिष्टम् अव्याकृतं कुशलं च लौकिकं. तत् संयोगसरागतया सरागं.
तद् एवम् उभयम् अप्य् एतत् सरागम् एवोक्तं. आह. किं पुनः कारणम् एकीयमतेन रागप्रतिपक्षो विगतरागम् इत्य् उच्यते. यतस् त आहुः. यदि हि रागेणासंप्रयुक्तं विगतरागं स्याद् अन्यक्लेशसंप्रयुक्तम् अपि. द्वेषादिसंप्रयुक्तम् अपि. स्यात् विगतरागं. [तिब्. 283अ] तद् अपि हि रागेणासंप्रयुक्तं संप्रयुक्तम् अपि. न च सूत्रे द्वेषादिसंप्रयुक्तं विगतरागम् इत्य् उक्तं. सद्वेषं समोहम् इत्यादिवचनात्. येषां पुना रागप्रतिपक्षो विगतरागम् इति. तेषाम् अयम् अदोषः. न हि रागप्रतिपक्षो द्वेषादिभिः संप्रयुज्यत इति.

एवं तर्हीति विस्तरः. यदि रागसंप्रयुक्तं चित्तं सरागं रागप्रतिपक्षो विगतरागं. तदप्रतिपक्षः सरागचित्तस्याप्रतिपक्षः. चित्तम् अक्लिष्टम् अनिवृताव्याकृतं. नैव सरागं रागेणासंप्रयोगात्. न वियतरागं रागस्याप्रतिपकेषत्वात्. एवमादीति. आदिशब्देन सद्वेषं समोहम् इति तुल्यप्रसंगो योज्यः. कथम्. अत्र तु सूत्रे द्वेषसंप्रयुक्तं चित्तं सद्वेषं द्वेषप्रतिपक्षो विगतद्वेषम् इति. यदि हि द्वेषेणासंप्रयुक्तं विगतद्वेषं स्यात्. अन्यक्लेशसंप्रयुक्तम् इति स्याद् इत्य् एके. एवं तर्हि तद् [तिब्. 283ब्] अप्रतिपक्षश् चित्तम् अक्लिष्टं नैव सद्वेषं स्यात् न विगतद्वेषम्. इत्य् एवं समोहं चित्तं विगतमोहम् इति वक्तव्यं. तस्माद् रागसंयुक्ततयापि सरागं चित्तम् अत्रेष्टव्यं. अपिशब्दाद् रागसंप्रयुक्ततयापीत्य् अपरे. आभिधार्मिकाः. एवं यावत् समोहं विगतमोहं चेति. तस्माद् द्वेषसंयुक्ततयापि सद्वेषं मोहसंयुक्ततयापि समोहम् अत्र सूत्रे एष्टव्यम् इति.
आलंबनाभिसंक्षेपाद् इति. कुशलं चित्तं विक्षेपेण न संप्रयुज्यते. तस्मात् तदालंबने तस्याभिसंक्षेप इति.

संक्षिप्तं विक्षिप्तं च स्यात्. क्लिष्टमिद्धसंप्रयोगाद् इति. द्विविधं मिद्धं. क्लिष्टम् अक्लिष्टं च. तद् एव हि चित्तं क्लिष्टं मिद्धसंप्रयुक्तम् इति संक्षिप्तं स्याद् इति. क्लिष्टम् इति च विक्षिप्तं स्याद् इति सांकर्यदोषः. सास्त्रविरोधश् चेति. कथं. संक्षिप्तं चित्तं यथाभूतं संप्रजानाति विस्तरेण यथा वृत्तौ. तेषाम् अन्वयज्ञानं तावत् संक्षिप्तचित्तालंबनं न संभवति. कामधातोर् ऊर्ध्वं मिद्धभावाद् अन्वयज्ञानस्य [तिब्. 284अ] ( अभिध्-क्-व्य् 620 ) च कामधात्वनालंबनत्वात्. मार्गज्ञानम् अपि संक्षिप्तचित्तालंबनं न संभवति. मार्गज्ञानं हि मार्गालंबनं. न च मार्गसंगृहीतं चित्तं मिद्धसंप्रयोगीति. तेनैवं वक्तव्यं अभविष्यत् तज्ज्ञानं द्वे [ज्ञाने]. धर्मज्ञानं संवृतिज्ञानं चेति. ये तु वर्णयन्ति संक्षिप्तं चित्तं कुशम् आलंबनाभिसंक्षेपाद् इति. तेषाम् एतद् दोषद्वयं न भवति. तद् अक्लिष्टेन मिद्धेन न संप्रयुज्यत इति संक्षिप्तं विक्षिप्तं च न प्राप्नोति. नापि शास्त्रविरोधः. कुशलं त्रैधातुकसंगृहीतम् असंगृहीतं च संक्षिप्तं चित्तं तज्ज्ञानं चत्वारि ज्ञानानीति सिद्धं. रूपारूप्यकुशलचित्तालंबनम् अनास्रवं ज्ञानं अन्वयज्ञानं भवति. मार्गसंगृहीतकुशलालंबनं मार्गज्ञानम् अपीति.
व्यवदानपरीत्तैर् निषेवितत्वाद् इति. अल्पकुशलमूलैर् निषेवितत्वाद् इत्य् अर्थः. तद्विपर्ययाद् इति. व्यवदानमहद्भिर् निषेवितत्वाद् इत्य् अर्थः. मूलादीनं बलान्तानां अल्पबहुत्वम् एकैकस्य मूलस्याल्पबहुत्वाद् यथाक्रमं परीत्तं च वेदितव्यं. कथम् इत्य् आह. क्लिष्टं हि [तिब्. 284ब्] द्वाभ्याम् अकुशलमूलाभ्यां समूलं मोहेन लोभद्वेषयोश् चान्यतरेण. एकस्मिन् कलापे ऽनयोर् असमवधानात्. कुशलं त्रिभिर् अलोभाद्वेषामोहैर् एषाम् अविनाभावात्. तज्जातीयानागतभावनाभावाद् इति. क्लिष्टजातीयस्यानागतस्य भावनायाः प्रतिलंभस्याभावात् कुशलसंस्कृता धर्मा भावयितव्या इति न्यायात्. त्रिभिश् च स्कंधैः सानुपरिवर्तं वेदनासंज्ञासंस्कारस्कंधैः. न विज्ञानस्कन्धेन. एकस्मिन् कलापे द्वितीयविज्ञानाभावात्. न च स्वात्मना स्वात्मनि वृत्तिविरोधात्. कुशलं तु महापरिवारं तज्जातीयानागतभावनासद्भावात्. चतुर्भिश् च स्कंधैः सानुपरिवर्तं. तैश् च वेदनादिभिस् त्रिभिः. रूपस्कंधेन च ध्यानानास्रवसंवरसंगृहीतेन चित्तानुपरिवर्तनासंभवयोगतः. अल्पबलं खल्व् अपि क्लिष्टम् इति. ननु च कुशलम् अपि दुर्बलम् एकेन मिथ्यादृष्टिक्षणेन कुशलपंचस्कंधसमुद्घातात्. न तद् अत्यंतम् उच्छिद्यते पुनः प्रतिसंधानात्. दुःखधर्मज्ञानक्षांत्य तु दशानाम् अनुशयानाम् अत्यंतसमुच्छेद इति तसाद् अपीत्य् अपिशब्देन पूर्वोक्ताद् अपीति. तत्प्रतिपक्षत्वाद् इति. औद्धत्यप्रतिपक्षत्वाद् इत्य् अर्थः. एवम् अव्युपशान्तं व्युपशान्तं चेति. अव्युपशांतं [तिब्. 285अ] क्लिष्टम् औद्धत्यसंप्रयोगात्. व्युपशान्तं कुशलं तत्प्रतिपक्षत्वाद् इति क्लेशसंप्रयोगासंप्रयोगतो वा तद् अव्युपशान्तं व्युपशान्तं च भवति. समाहितं कुशलं तत्प्रतिपक्षत्वाद् इति. विक्षेपप्रतिपक्षत्वात्. पृअतिलंभनिषेवणभावनाभ्याम् इति. अलब्धपूर्वस्य प्राप्तिः प्रतिलम्भः. संमुखीभावो ( अभिध्-क्-व्य् 621 ) निषेवणं. ते एव भावने. ताभ्याम् अभावितत्वात् अभावितं. न हि क्लिष्टं कुशलवद् अनागतं भाव्यते. न च निषेवणार्हं भवति निहीनत्वात्.
प्रतिलंभनिषेवाख्ये शुभसंसऋतभावने
इति. ताभ्याम् इति प्रतिलम्भनिषेवणाभ्याम् इत्य् अर्थः. स्वभावसंतानविमुक्तिभ्याम् अविमुक्तत्वाद् इति. क्लेशैः संप्रयोगान् न स्वभावविमुक्त्या विमुक्तं. क्षीणक्लेशसंतानानुत्पत्तेश् च न संतानविमुक्त्या च विमुक्तं. कुशलं तु क्लेशासंप्रयोगात्. क्षीणक्लेशसंतानोत्पत्तेश् च विमुक्तं.
स्त्यानमिद्धसहगतम् इति. स्त्यानमिद्धसंप्रयुक्तं अध्यात्मं संनिरोधसहगतम् इति. एतद् एव निगमयति न तु विपश्यनया समन्वागतम् इति. अनुविक्षिप्तम् इत्य् अस्य निर्देशं करोत्य् अनुविसृतम् इति.

मिद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानाद् [तिब्. 285ब्] इति. किम् इति कृत्वा विक्षिप्तत्वम् अत्र न प्रतिज्ञायते. किं मिद्धसहगते क्लिष्टे चित्ते विक्षिप्तत्वं नास्तीति न प्रतिज्ञायते. आहोस्विद् विद्यमानम् अप्य् अत्र विक्षिप्तत्वम्. संक्षिप्तत्वेनैव स्थापितत्वान् न प्रतिज्ञायते. उभयथापि व्याचक्षते. केचिद् व्याचक्षते. मिद्धसहगताद् धि क्लिष्टाद् यद् अन्यत् क्लिष्टं. तद् विक्षिप्तं प्रतिज्ञायते. मिद्धसहगतं तु क्लिष्टम् अक्लिष्टं चाविशेषेण संक्षिप्तम् एवेति. अपरे पुनर् व्याचक्षते. यन् मिद्धसंप्रयुक्तं. तत् संक्षिप्तम् एव न विक्षिप्तं. यत् तु विषयेषु विसृतं. तद् एव विक्षिप्तम् इत्य् अतो ऽत्र मिद्धसंप्रयुक्ते चित्ते. न प्रतिज्ञायत इति. वरं शास्त्रविरोध इति. अबुद्धोक्तम् अभिधर्मशास्त्रम् इत्य् अभिप्रायः. अभिन्नलक्षणवचनाद् इति. सर्वाणि तानि क्लिष्टान्य् उक्तानीति. क्लिष्टत्वलक्षणम् एषां विक्षिप्तादीनाम् अविमुक्तान्तानाम्. क्लिष्टत्वं पुनः क्लेशमहाभूमिकैः संप्रयोगः. संक्षिप्तप्रगृहीतादीनां चाभिन्नलक्षणवचनान् नार्थविशेष उक्तो भवतीति संबन्धः. आदिशब्देन महद्गतानुद्धतव्युपशान्तसमाहितभावितविमुक्तानां [तिब्. 286अ] ग्रहणं. कुशलम् एषाम् अभिन्नं. किं पुनः कुशलत्वं. कुशलं महाभूमिकैः संप्रयोगः. न वै नोक्त इति विस्तरः. वै इति निपातः. न नोक्त इति द्वौ प्रतिषेधौ उक्त एवेत्य् अर्थः. क उक्तः. पदानाम् अर्थविशेषः. इत्य् आह. क्लिष्टसामान्ये ऽपि विक्षिप्तादीनां तुल्ये क्लिष्टत्वे तेषां दोषाविशेषसंदर्शनाद् इत्य् अप्य् एतत् क्लिष्टं चित्तं विक्षेपयोगाद् विक्षिप्तं क्लिष्टं. कौसीद्ययोगाल् लीनम् औद्धत्ययोगाद् उद्धतम् इत्य् एवमादिदोषे विशेषसंदर्शनाद् उक्त एवार्थविशेषो भवति. एवं कुशलस्यापि संक्षिप्तादेर् ( अभिध्-क्-व्य् 622 ) गुणविशेषसंदर्शनाद् इत्य् अप्य् एतत् कुशलं चित्तं संक्षिप्तं प्रगृहीतम् इति विस्तरेणोक्त एवार्थविशेषो भवति. सूत्रविरोधस्यापरिहाराद् इति. सूत्रे हि स्त्यानमिद्धसहगतं संक्षिप्तम् उक्तं. स्त्यानयोगेन यत् क्लिष्टं मिद्धसंप्रयुक्तं. तत् संक्षिप्तं न कुशलं. स्त्यानस्य क्लेशमहाभूमिकत्वात्. यदि च सूत्रे इति विस्तरः. यदि [तिब्. 286ब्] युष्मन्नीत्या सूत्रे लीनम् एवोद्धतं भगवताभिप्रेतं स्यात्. लीनोद्धतयोः पृथग्वचनं नोक्तं स्यात्. कथम् इत्य् आह. यस्मिन् समये चित्तं लीनं कौसीद्यसंप्रयुक्तं. लीनाभिशंकि लीनम् एतद् भविष्यतीत्य् अभिशंकतो लीनाभिआशंकि. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया इत्य् एष नियमो न स्यात्. एवं च वक्तव्यं स्यात्. अकालस् तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया अपीति. किं कारणं. तद् एव लीनं चित्तम् उद्धतम् इति कृत्वा. तथा यस्मिन् समये उद्धतं चित्तं भवत्य् औद्धत्याभिशंकि. अकालस् तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इत्य् एष नियमो न स्यात्. एवं च वक्तव्यं स्यात्. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया अपीति. किं कारणं. तद् एवोद्धतं चित्तं लीनम् इति कृत्वा. अविभागेन वा वक्तव्यं स्यात्. यस्मिन् समये चित्तं लीनं भवति लीनाभिशंकि उद्धतं वा भवत्य् औद्धत्याभिशंकि. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षाधर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इति. स्मृतिसंबोध्यंगस्याग्रहणं सर्वत्रगत्वात् स्मृतेः. उभये ऽपि चित्ते ऽनुक्त सिद्धितः. [तिब्. 287अ] स्मृतिं खल्व् अहं सर्वत्रगतां वदामीति सूत्रे वचनात्. कथं पुनर् वैभाषिकेण यद् एव लीनं. तद् एवोद्धतम् इत्य् अभीष्टं गम्यते. लीनं चित्तं क्लिष्टं कौसीद्यसंप्रयोगात्. उद्धतं चित्तं क्लिष्टम् औद्धत्यसंप्रयोगाद् इति वचनात्. किं पुनर् अत्र बोध्यंगानां व्यग्रा भावनेति. किं कदाचित् प्रश्रब्ध्यादिभावनैव न धर्मप्रविचयादिभावना. कदाचिद् धर्मविचयादिभावनैव
न प्रश्रब्ध्यादिभावनेति व्यग्रा भावना. मनसिकरणं तेषां भावनेष्टा. न संमुखीभाव इति. मनसिकरणम् आलंबनीकरणं. लीने चित्ते अकालः प्रश्रब्ध्यादीनाम् आलंबनीकरणस्याभोगकरणस्येत्य् अर्थः. उद्धते च चित्ते अकालो धर्मविचयादीनाम् इति. न तु संमुखीभावो भावनेष्टा. तस्मिन् काले न प्रश्रभ्द्यादयः संमुखीकर्तव्याः. धर्मविचयादयस् तु संमुखीकर्तव्याः. धर्मविचयादयो वा न संमुखीकर्तवाः. प्रश्रब्ध्यादयस् तु कर्तव्या ( अभिध्-क्-व्य् 623 ) इति. कौसीद्याधिकम् अत्रेति विस्तरः. यत्र कौसीद्यम् [तिब्. 287ब्] अधिकम् औद्धत्यं तु न्यग्भावेन वर्तते. तल् लीनं. यत्र चौद्धत्यम् अधिकं कौसीद्यं तु न्यग्भावेन. तद् उद्धतम्. इत्य् अनयोर् विशेषाद् अविरोधः सूत्रस्य पृथग्वचने. तयोस् तु सहभावाद् एकस्मिन् कलापे युगपद् भावात् तद् एव लीनं तद् एवोद्धतम् इति ब्रूम इति. लीनं क्लिष्टं कौसीद्यसंयोगात्. उद्धतं क्लिष्टम् औद्धत्यसंयोगाद् इति. आचार्य आह. आभिप्रायिकं यावत् सूत्रे तु नायम् अभिप्राय इति. कौसीद्याधिकं लीनम् औद्धत्याधिकम् उद्धतम् इति. यस्माद् आह. यस्मिन् समये लीनं चित्तं भवति विस्तरेण न त्व् एवं विशिनष्टि कौसीद्याधिकम् अन्द्धत्याधिकम् इति वा.

यत् तूक्तं सर्वम् एव रागसंयुक्तं चित्तं सरागम् इति. कथम् उक्तं. तत्र रागसंप्रयुक्तं चित्तं द्वाभ्यां सरागं. ततो ऽन्यत् सास्रवं संयोगसरागम् इति वचनात्. तत्र रागसंयुक्ततयापि सरागं चित्तम् अत्रेष्टव्यम् इति वचनात्. अनास्रवम् अपि सरागं प्राप्नोति शैक्षम् इति. शैक्षसंताने रागस्य सावशेषत्वात्. [तिब्. 288अ] रागालंबनं चेत्. अथ मतं रागस्य यद् आलंबनं. तद् रागसंयुक्तं सरागं च भवति. अर्हतो ऽपि सास्रवं चित्तं परकीयस्य रागस्यालंबनत्वात् रागसंयुक्तम् इति कृत्वा सरागम् इति गृह्णीयात् परचित्तवित् परचित्तज्ञानं वा. अथ मतं न तद् रागेणालंब्यत इति. तत उच्यते. कथं वा तत् सास्रवम् इति. सामान्यक्लेशालंबनत्वाद् इति चेत्. अथ मतं सामान्यक्लेशानां दृष्टिविचिकित्साविद्यानाम् आलंबणं तद् अतः सास्रवम् इति. एवम् अपि समोहं ग्र्ःणीयात्. अर्हतः सास्रवं चित्तं मोहालंबनत्वात्. मोहो ऽपि सामान्यक्लेशः. परकीयस्य च मोहस्यार्हच्चित्तम् आलंबनीभवतीति. न च परचित्तज्ञानं प्राप्त्यालंबनम् इति. यस्मात् परचित्तज्ञानं चित्तचैत्तालंबनम् इष्यते. तस्मान् न रागप्रप्तिसहितत्वेन रागसंयुक्तत्वात् सरागम् इति. नापि तच्चितालंबनरागालंबनम् इति. तद् इति यत् तत् परकीयं चित्तं परचित्तज्ञानेन [तिब्. 288ब्] गृह्यते. तत् तच्छब्देनोच्यते. [तस्यालंबनः]. तच्चित्तालंबनस् तच्चित्तालंबनो रागः. आलंअबनम् अस्य परचित्तज्ञानस्येति तद् भवति तच्चित्तालंबनरागालंबनं. यस्माद् एवंविधं रागं नालंबते परचित्तज्ञानं विप्रकृष्टत्वात्. एकैकद्रव्यगोचरं हि परचित्तज्ञानं. न च परकीयचित्तज्ञानं तस्य चित्तस्यालंबनं गृह्णाति. आकारालंबननिरपेक्षं हि तद् इति वचनात्. रक्तम् इदं एइत्तं जानातीति वचनाच् च. तस्माद् अपि न रागसंयोगात् सरागं चित्तम् इति. असंप्रयुक्तं विगतरागम् इति. सत्याम् अपि रागप्राप्ताव् इत्य् अभिप्रायः. तत्र तत् संधायोक्तम् इति रागादिप्राप्तिविगमं. संधायोक्तं ( अभिध्-क्-व्य् 624 ) न संप्रयोगम् इति दर्शयत्य् अनावर्तिकधर्मि कामभवे रूपभवे आरूप्यभवे इति. त्रैधातुकवैराग्यसंदर्शनाद् इत्य् अभिप्रायः. ननु चोक्तम् इति विस्तरः. क्वोक्तम्. अत्र तु सूत्र इति विस्तरेण यावद् यदि हि रागेणासंप्रयुक्तं चित्तं विगतरागं स्याद् अन्यक्लेशसंप्रयुक्तम् [तिब्. 289अ] अपि विगतरागं स्याद् इत्य् अत्र. एतेनाभिसंधिना रायविप्रयुक्तत्वाद् विगतरागम् अन्यक्लेशसंप्रयुक्तम् अपीत्य् अनेन. यद्य् एवं सद्वेषं समोहम् इत्य् एवमादि. न वक्तव्यं स्याद् इत्य् अत आह. न तु तद् विगतरागम् इत्यादि. न तु तद् द्वेषादिसंप्रयुक्तं चित्तं विगतरागम् अपि सद् विगतरागम् इति कृत्वा गृह्यते. किं तर्हि. सद्वेषं समोहम् इत्य् एवमादि द्वेषादिसंप्रयोगितया विशिष्टत्वात्. आदिशब्देन चात्र संक्षिप्तं विक्षिप्तम् इत्य् एवमादिसूत्रोक्तानि पदानि गृह्यन्ते.
अन्यथा हीति विस्तरः. यद्य् अस्मिन् वस्तुनि रूपादिके रक्तम् इति विजानीयात् तद् रूपालंबनम् अपि स्यात्. तथा च सति न तत् परचित्तज्ञानं स्याद् रूपालंबनत्वात्. तदालंबनं च परचित्तं गृह्णतः स्वभावग्रहणं प्राप्नुयाद् इति. सालंबनपरचित्तग्रहणे हीष्यमाणे स्वात्मा परचित्तज्ञानेन गृह्येत. अस्ति हि संभवो यत् परचित्तविद् यस्य चित्तं गृह्णाति. असाव् अपि तस्य परचित्तविदश् चित्तम् आलंबेत. ततश् च परचित्तज्ञानस्य स्वालंबनपरिज्ञानात् [तिब्. 289ब्] स्वम् एवासौ परचित्तविच् चित्तम् आलम्बेत. न चैतत् प्राप्यं. यत् तेनैव चित्तेन तद् एव गृह्यते. सर्वं चेति विस्तरः. द्रव्यस्य स्वलक्षणं च चित्तचैत्ताश् च प्रत्युत्पन्नाश् च परसंततिश् च कामरूपप्रतिसंयुक्ताश् चाप्रतिसंयुक्ताश् च विषयो ऽस्येति समासविग्रहः. द्रव्यग्रहणं संवृतिसन्निरासार्थं. स्वलक्षणग्रहणं सामान्यलक्षणनिवृत्त्यर्थं. चित्तचैत्तग्रहणं रूपादिविशेषणार्थं. प्रत्युत्पन्नग्रहणम् अतीतानागतविवेचनार्थं. परसंततिग्रहणं स्वसंततिव्युदासार्थं. कामरूपप्रतिसंयुक्ताप्रतिसंयुक्तग्रहणं आरूप्यप्रतिसंयुक्तप्रतिषेधार्थं. दर्शनमार्गप्रतिषिद्धम् इति. दर्शनमार्गे वर्तमानः परचित्तज्ञानं न संमुखीकरोतीत्य् अतो दर्शननार्गसंगृहीतं नास्ति. न हि दर्शनमार्गो व्यवच्छिन्नचित्तचैत्तालंबनो भवति. भावनामार्ग उपलभ्यते. भावनामार्गसंगृहीतं भवतीत्य् अर्थः. शून्यतानिमित्तविप्रयुक्तम् इइत्. शून्यतासमाधिना आनिमित्तसमाधिना च विप्रयुक्तं. शून्यतासमाधिर् दुःखज्ञानसंयुक्तः. आनिमित्तसमाधिर् निरोधज्ञानसंप्रयुक्तः. न च परचित्तज्ञानं. [तिब्. 290अ] दुःखज्ञानं दुःखनिरोधज्ञानं वा भवत्य् आकारालम्बनभेदात्. अतस् ताभ्यां विप्रयुक्तम् उच्यते. अर्थाद् उक्तं भवत्य् अप्रणिहितसमाधिसंप्रयुक्तं ( अभिध्-क्-व्य् 625 ) संभवतीति. क्षयानुत्पादज्ञानसंगृहीतम् इति. क्षयज्ञानेनानुत्पादज्ञानेन न संगृहीतं. न क्षयानुत्पादज्ञानस्वभावम् इत्य् अर्थः. किं कारणं. द्रव्यस्वलक्षणसंतीरणपरिमार्गणाशयं परचित्तज्ञानं. न चैव क्षयज्ञानम् अनुत्पादज्ञानं चेति ताभ्याम् असंगृहीतं. आनन्तर्यमार्गं प्रतिषिद्धं चेति. स हि प्रहाणमार्गो भवति. परचित्तज्ञानं च विमुक्तिविशेषमार्ग इति. पारमार्थिकयोर् अपि संवृतिभजनाद् इति. परमार्थनिमित्ते परमार्थेन वा दीव्यतः पारमार्थिके. तयोः संवृतिभजनात्. यस्माद् एते संवृतिं भजेते. अतः शून्यानात्माकारौ न स्तः. कथं पुनर् एते संवृतिं भजेते. क्षीणा मे जातिः. नापरम् अस्माद् भवं प्रजानातीति यथाक्रमं. कथम् एते अनास्रवे सती एवमाकारे. तद्बलेनान्व्व्यवहारतः. अन्येन ज्ञानेनेति वाक्यशेषः. यस्मात् तत्पृष्ठनिर्जाते संवृतिज्ञाने एवमाकारे प्रवर्तेते. अतस् तन्निष्यन्देन तयोः संवृतिभजनम् इत्य् उच्यते. न तु मुख्यवृत्त्या तयोः संवृतिभजनम् [तिब्. 290ब्] इत्य् अभिप्रायः. यतश् चैव निष्यन्देनात्मदृष्टिं भजमाने इव ते प्रवर्तेते. अत्र तस्माच् छून्यानात्माकारविवर्जितैश् चतुर्दशभिर् एवाकारैः संप्रयुक्ते इति.

(विइ.12) अप्रतिसंयुक्तेनेत्य् अनास्रवेण. अनित्यम् इत्य् अनित्यतः. अयं हि तसिप्रत्ययः स्वार्थे प्रयुक्तः. एवं सर्वत्रायं प्रत्ययो ज्ञातव्यः. अथ वान्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भवति. अनित्येन रूपेण भावो ऽनित्यत इति. एवम् अन्यत्रापि योज्यं. अस्त्य् एतत् स्थानम् अस्त्य् एतद् वस्त्व् इति. एताव् अपि द्वाव् आकाराव् अनास्रवौ. अस्त्य् एतत् स्थानम् इत्य् अस्त्य् एतल् लक्षणम् इत्य् अर्थः. अस्त्य् एतद् वस्त्व् इत्य् अयं हेतुर् इत्य् अर्थः. योगविहिततो विजानीयाद् इति. अविपरीततो विजानीयाद् इत्य् अर्थः. नास्यायम् अर्थ इति विस्तरः. अस्येति वाक्यस्य पदद्वयस्य वा. अस्त्य् एतत् स्थानम् अस्त्य् एतद् वस्त्व् इत्य् अस्त्य् अयं संभवो ऽस्त्य् अयं योगो यद् अनित्यादितो विजानीयाद् इति मतं चेत्. न. नैतद् अस्ति. अन्यत्रावचनात्. अन्यत्र वाक्ये पदद्वयस्यावचनात्. दर्शनप्रहातव्येनेति. दर्शनप्रकारेण. आत्मत आत्मीयतश् चेति. सत्कायदृष्ट्या संप्रयुक्तेन चित्तेन. उच्छेदतः शाश्वत इति. अन्तग्राहदृष्ट्या. अहेतुतो ऽक्रियातो ऽपवादत इति मिथ्यादृष्ट्या. अग्रतः श्रेष्ठतो विशिष्टतः परमत इति दृष्टिपरामर्शेन. शुद्धितो मुक्तितो नैर्याणिकत इति शीलव्रतपरामर्शेन. [तिब्. 291अ] कांक्षातो विमतितो विचिकित्सात इति विचिकित्सात. रज्येतेति रागेण. द्विष्याद् इति द्वेषेण. मन्येतेति मानेन. मुह्येद् इति मोहेन. अयोगविहितता विजानीयाद् इति. एवम् आत्मादिभिर् विपरीतता विजानीयाद् इति निगमयति. अत्रापि वाक्ये एष ( अभिध्-क्-व्य् 626 ) पाठो ऽभविष्यद् इति. न चैवम्. अतो गम्यते नायम् अस्यार्थ इति.
(विइ.13) सप्त द्रवत इति. दुःखाकाराश् चत्वारो द्रव्यतो भवन्ति. समुदयाद्याकारास् त्व् एकैक इति सप्त. य एव हेत्वाकारः. स एव समुदयः प्रभवः प्रत्ययश् च पर्यायमात्रं नार्थभेदः. शक्र इन्द्रः पुरंदर इति यथा. एवं निरोध एव शान्तः प्रणीतो निःसरणम् इत्य् एक आकारः. मार्ग एव च न्यायः प्रतिपन् नैर्याणिक इत्य् एक आकार इति. तद् इदम् उक्तं भवति. दुःखाकारांश् चतुरः पृथग् योगिनः सम्मुखीकुर्युः. हेत्वाद्याकाराणां त्व् एकैकम् इत्य् एकीयमतं.
द्रव्यतः षोडशेति
वैभाषिका वर्णयन्ति दुःखाकारवत् समुदयाद्याकाराणां सर्वेषाम् अपि पृथक्पृथक् संमुखीकर्तव्यत्वात्. प्रज्ञास्वभावा ह्य् आकारा इति ब्रुवते. प्रत्ययाधीनत्वाद् इति विस्तरः. न नियतभवम् अनित्यं प्रत्ययाधीनत्वात् प्रत्ययप्रतिबद्धजन्मत्वाद् इत्य् अर्थः. पीडनात्मकत्वाद् [तिब्. 291ब्] इति. बाधनात्मकत्वाद् इत्य् अर्थः. विपक्षेणेति. प्रतिपक्षेणेत्य् अर्थः. विरुद्धः पक्षो विपक्ष इति कृत्वा. हेतुर् बीजधर्मयोगेनेति. प्रकृष्टावस्थतां हेतोर् दर्शयत्य् आदिबीजवत्. योगशब्दो ऽत्र न्यायर्थः. समुदयः प्रादुर्भावयोगेनेति. संनिकृष्टावस्थतां हेतोर् दर्शयति. यतः क्षणाद् अनन्तरम् उत्पद्यते समुदेत्य् अस्माद् इति कृत्वा. प्रभवः प्रबंधयोगेनेति. संततियोगेनानुच्छेदं दर्शयति. बीजांकुरकाण्डनालादिवत्. अभिनिष्पादनार्थेन प्रत्यय इति. हेत्वादिभ्यो बहुभ्य उत्पद्यत इति दर्शयति. तद्यथा मृत्पिण्डदण्डादिभ्यो बहुभ्यो निष्पद्यते घटः. तद्वत्. अग्निनिर्वापणाद् इति. रागद्वेषमोहाग्निनिर्वापणाद् इत्य् अर्थः. निरुपद्रवत्वाद् इति. निर्दुःखत्वाद् इत्य् अर्थः. सर्वापक्षालवियुक्तत्वाद् इति. सर्वदुःखकारणविमुक्तत्वात्. गमनार्थेन निर्वाणस्य. योगयुक्तत्वाद् उपपत्तियुक्तत्वाद् उपाययुक्तत्वाद् वा. सम्यक्प्रतिपादनार्थेन प्रतिपद् इति. प्रतिपद्यते निर्वाणम् अनयेति प्रतिपत्. नैर्याणिक इति. अत्यंतं निर्याणाय प्रभवतीति नैर्याणिकः.
अनात्यन्तिकत्वाद् [तिब्. 292अ] अनित्यम् इति. पूर्वं प्रागुत्पत्त्यभावेनानित्यम् उक्तम्. इदानीं प्रध्वंसाभावेनेति दर्शयति. अभिन्यासभूतत्वाद् इति. भारभूतत्वाद् इत्य् अर्थः. दुःखेन भारभूतेन हि स पुद्गलो भिद्यते. आक्रम्यत इत्य् अर्थः. अकामकारित्वाद् इति. कामतः कर्तुं शीलम् अस्येति कामकारी. न कामकार्य् अकामकारी. तद्भावात् अनात्मा. सूत्रे ऽप्य् अयम् अर्थ उक्तः. रूपं चेद् भिक्षव आत्माभविष्यत्. न रूपम् आत्मव्याबाधाय संवर्तेत. लभ्येत च रूपे एवं भवत्व् एवं मा भूद् इति कामकार्य् आत्मेति ( अभिध्-क्-व्य् 627 ) निरुक्तिपरिग्रहात्. हेतुर् आगमनयोगेनेति. हि गतौ हिनोत्य् अस्माद् इति हेतुः. अस्माद् उत्पद्यत इत्य् अर्थः. उन्मज्जनयोगेनेति. अनागताध्वन उन्मज्जतीवेत्य् अर्थः. प्रसरणयोगेनेति. प्रबन्धयोगेन. प्रतिसरणार्थेन प्रत्यय इति. जनिक्रियाप्रतिप्रधानभूत इत्य् अभिप्रायः. असंबन्धः संबंधोपरमाद् इति. पूर्वस्य दुःखस्योपरमात्. उत्तरस्य संबंधोपरमो निरोध इत्य् अर्थः. त्रिसंस्कृतलक्षणविमुक्तत्वात्. उत्पादव्ययस्थीत्य् [तिब्. 292ब्] अन्यथात्वविमुक्तत्वात्. परमाश्वासत्वाद् इति सर्वदुःखोच्छित्त्या परमक्षेमत्वात्. निर्वाणपुराविरोधनार्थेन प्रतिपद् इति. यस्माद् अनेन निर्वाणपुरं न विरोध्यते न विसंवाद्यते. किं तर्हि प्रतिपद्यत एवेत्य् अतः प्रतिपत्. प्रतिपद्यते अनयेति कृत्वा.
छन्दमूलका इति. छन्दहेतुका इत्य् अर्थः. तृष्णापर्याय इह छंदः. छन्दसमुदया इति. छन्दसमुद्गमा इत्य् अर्थः. छन्दजातीया इति. छन्दप्रत्यया इत्य् अर्थः. प्रभवशब्दः केवलं पश्चात् पठितव्यः. आभिधार्मिकैर् इति वाक्याध्याहारः. सूत्रानुसरणं हि कर्तव्यम् इत्य् अभिप्रायः. हेतुतः समुदयतः. प्रत्ययतः प्रभवतश् चेति.

कः पुनर् एषां [पदानां] छन्दानाम् [इव वा] विशेषः. अस्मीत्य् अभेदेनात्मभावच्छन्द इति. अनवधार्यैकं द्रव्यं समस्तेषु पंचसूपादानस्कंधेषु अस्मीत्य् अभेदेन प्रकारान्तरविशिष्टस्य प्रत्युत्पन्नस्यात्मभाववस्तुनो ऽनालंबनतः त्रैयध्विकात्मभावनालम्बनतो वा आत्मभावप्रार्थना आत्मभावच्छन्द इति प्रथमः. स्याम् इत्य् अभेदेनेति पुनर्भवमात्रप्रार्थना न विशेषरूपाप्रार्थनेति द्वितीयः. इत्थं स्याम् इति. इदंप्रकारः [तिब्. 293अ] स्याम् इति भेदेन पुनर्भवच्चन्दस् तृतीयः. प्रतिसंधिबन्धच्छन्दश् चतुर्थ इति. प्रतिसंधिर् एव बंधः. प्रतिसंधेर् वा बंधः प्रतिसंधिबंधः. तत्र छन्दः प्रार्थनेति चतुर्थः. कर्माभिसंस्कारच्छन्दो वा चतुर्थ इत्य् अधिकृतं. कर्मणो वाभिसंस्कारः. तत्र छन्दः. एवं चैवं च दानं दास्यामीति. कथं पुनस् ते छन्दा मूलादिशब्दवाच्या इति प्रतिपादयन्न् आह. तत्र प्रथम इति विस्तरः. आदिः कारणम् आदौ वा कारणम् आदिकारणं. तद्भावात् छन्दमूलकाः. हेत्वर्थो हि मूलशब्दः. फलस्येव बीजम् इति. यथा फलस्य बीजम् आदिकारणं विप्रकृष्टकारणं. तद्वद् अयम् आदिच्छन्दो दुःखस्य. तेन तत्समुदागमाद् इति. तेन द्वितीयेन छदेन पुनर्भवस्य समुदागमात् क्षणपरंपरया फलस्येवांकुरादिप्रसवः. यथा परंपरयांकुरादिप्रसवः फलस्य समुदयः. तद्वत्. तृतीयच्छन्द इत्थं स्याम् इति. तज्जातीयदुःखप्रत्यय इति. यत्प्रकारः पुनर्भवच्छन्दः. तत्प्रकारस्य दुःखस्य ( अभिध्-क्-व्य् 628 ) प्रत्ययः संभवति तस्य विशेषरूपत्वाद् विशेषफलरूपम् एव फलम् उत्पद्यत इत्य् अभिप्रायः. फलस्येव क्षेत्रोदकपाष्यादिकम् इति. पाषिः शुष्को गोमयः. आदिशब्देन [तिब्. 293ब्] वातातपादिर् गृह्यते. ततो ऽपि हि फलसंपद् इति. वीर्यं शीतवीर्यता उष्णवीर्यतेति. विपाकः उष्णपरिणामता मधुरपरिणामतेति. प्रभावः सामर्थ्यविशेषः. तद्यथाम्लत्वे तुल्ये बीजपूरकरसः पित्तं जनयत्य् आमलकरसं तु शमयतीति. तत एव तत्संभवाद् इति. तत एव प्रतिसंधिबंधच्छन्दात् तस्य पुनर्भवलक्षणस्य संभवाद् उत्पादात्. फलस्येव पुष्पावसानं. यथा पुष्पावसानं फलस्य प्रभवः. तद्वत्. अत्र चतुर्थच्चन्दः साक्षाद्धेतुः पुनर्भवस्य. पूर्वकास् त्रयः पारंपर्येण हेतवः. अथ चेति विस्तरः. तृष्णाविचरितानां द्वव् पंचकौ गणौ द्वव् चतुष्कौ चत्वारश् छन्दा यथाक्रमं भवन्ति. प्रथमच्छन्दः पंचाकारः. द्वितीयो ऽपि पंचाकारः. तृतीयश् चतुःप्रकारः. चतुर्थो ऽपि चतुःप्रकारः. कथम्. अस्मीति भिक्षवः सत्यात्मदृष्टौ सत्याम् इत्थम् अस्मीति भवतीदं प्रकारो ऽस्मीति भवति. तद्योगात् तृष्णाम् उत्पादयतीत्य् अर्थः. एवम् अस्मीति यथा पूर्वम् एव नान्यथेत्य् अर्थः. अन्यथास्मीत्य् अन्येन प्रकारेण वर्णप्रतिभानादिदर्शनात्. सद् अस्मीति भवति. विपर्ययाद् असद् अस्मीत्य् अयम् अभेदेन पंचधात्मभावच्चन्दः प्रथमः. भविष्यामीत्य् अस्य भवतीति शाश्वतरूपेण. न भविष्यामीत्य् उच्छेदरूपेण. इत्थं भविष्यामीति विस्तरेण पूर्ववद् व्याख्यानम्. [तिब्. 294अ] इत्य् अयम् अभेदेन पंचधापुनर्भवच्छन्दो द्वितीयः. स्याम् इत्य् अस्य भवति. इत्थं स्याम् एवं स्याम् अन्यथा स्याम् इत्य् अस्य भवतीत्य् अयं भेदेन चतुर्धापुनर्भवच्छंदस् तृतीयः. अपि तु स्याम् इत्य् अस्य भवत्य् अपीत्थं स्याम् अप्य् एवं स्याम् अप्य् अन्यथा स्याम् इत्य् अस्य चतुर्धाप्रतिसंधिबंधच्छन्दस् चतुर्थः. तत्र प्रथमो दुःखस्यादिकारणत्वान् मूलहेतुर् इति विस्तरेण पूर्ववद् योज्यं. प्रतिनियतत्वात् प्रतिपद् इति. नियतप्रतिपादनं प्रतिपत्. कथं पुनः प्रतिनियता. अनयैव तद्गमनात्.
यथोक्तम् इति विस्तरः. नित्यसुखात्मीयात्मदृष्टिचरितानाम् इति. नित्यं सुखम् आत्मीयं आत्मेति च दृष्टिचरितम् एषां. त इमे नित्यसुखात्मीयात्मदृष्टिचरिताः पुद्गलाः. तेषां प्रतिपक्षेण यथाक्रमम् अनित्याद्याकाराः. नास्ति हेतुर् इत्य् अहेतुदृष्टिचरितानां प्रतिपक्षेण हेत्वाकारः. एको हेतुर् ईश्वरः प्रधानं चेत्य् एकहेतुदृष्टिचरितानां समुदयाकारः. समुदयो हेतुर् नैकहेतुर् इति. परिणमते भाव इति परिणामदृष्टिचरितानां प्रभवाकारः. ( अभिध्-क्-व्य् 629 ) आदिभवो ऽयं. न तु पूर्वम् अवस्थितः परिणमत इति. बुद्धिपूर्वकृतो ऽयं लोक इति बुद्धिपूर्वकृतदृष्टिचरितानां [तिब्. 294ब्] प्रत्ययाकारः. नेदम् ईश्वरबुद्धिकृतं जगत्. किं तर्हि. तंतं प्रतीत्य तत्तद् भवतीति. वीप्सार्थो हि प्रतिशब्दः. तस्माद् अनेकप्रत्ययजनितं जगद् इति ज्ञापितं भवति.
एवं तु युक्तं स्याद् इति. सौत्रान्तिकमतम्. आलम्बनग्रहणप्रकार आकारा इति. नैरुक्ता विधिर् इति दर्शयत्य् आलम्बनशब्दाद् आकारं गृहीत्वा प्रकारशब्दाच् च कारशब्दं. शेषवर्णलोपे च कृते आकार इति रुपं भवति. तद् एवं सति प्रज्ञापि साकारा भवतीति सिद्धं. सालम्बा इति. आलम्बेत्य् आकारान्तम् एतच् छब्दरूपं. घञन्तं वा आलम्ब इति. सहालम्बेन सहालम्बया वा वर्तन्ते सालम्बः. सालम्बना इत्य् अर्थः.
(विइ.14, 15) कुशलादिभेदम् इति. आदिशब्देनाकुशलाव्याकृतभूम्याश्रयग्रहणं. श्लोकादौ भवत्वाद् आद्यम् इति इहाद्यं. न शास्त्रम् इति व्याचष्टे. शास्त्रे हि धर्मज्ञानम् आद्यं पठितम् इति.
धर्माख्यं षट्स्व्
इति.
कामावचरदुःखाद्यालम्बनत्वात्. आरूप्यत्रये चास्ति भावनामार्गसंगृहीतम् एवान्वयज्ञानं.
तथैव षड्
इति. दुःखज्ञानादीनाम् अन्वयज्ञानस्वभावत्वसम्भवात्. न रूपारूप्यधात्वोः संमुखीक्रियत इति. युक्तं तावद् आरूप्यधातौ धर्मज्ञानं न संमुखीक्रियत इति. आरूप्याणां कामावचरदुःखाद्यनालंबनत्वात्. रूपधातौ तु कस्मान् न संमुखीक्रियते. केचिद् आहुः. कामधातुविदूषणपरं धर्मज्ञानं. रूपधातूपपन्नस्य च धर्मज्ञानं न कामधातुं विदूषयितुम् [तिब्. 295अ] उपजायते. तस्य वैराग्यभूमिसंचारपरित्यक्तत्वात्. कामधातूपपन्नस् तु तद् वीतरागो ऽपि तत् संमुखीकरोति. कामधातूपपत्तेः सावशेषत्वाद् इत्य् अतो न रूपधातौ धर्मज्ञानं संमुखीक्रियते. आचार्यसंघभद्रस् त्व् आह. धर्मज्ञानं कामेधाताव् एव संमुखीक्रियते. न रूपारूप्य धात्वोः. तत्समापत्तिव्युत्थानचित्तानां कामधाताव् एव सद्भावात्. अनुपरिवर्तकाश्रयाभावाद् वा. धर्मज्ञानानुपरिवर्तकस्य हि शीलस्य कामावचराण्य् एव भूतान्य् आश्रयः. दौःशील्यसमुत्थापकक्लेशप्राप्तिविबंधकत्वात्. प्रातिपक्षिकत्वात्. तानि च तत्र न संतीति धर्मज्ञानम् कामधात्व् आश्रयं एवेति.

(विइ.16) निरोधज्ञानम् एकं धर्मस्मृत्युपस्थानं धर्मस्मृत्युपस्थाननिर्देश ( अभिध्-क्-व्य् 630 ) उक्तं. धर्माः कायवेदनाचित्तेभ्यो ऽन्य इति. अन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानीति. धर्मान्वयसंवृतिदुःखसमुदयमार्गक्षयानुत्पादज्ञानानि चतुःस्मृत्युपस्थानस्वभावानि सन्ति. दुःखज्ञानम् अपि हि कदाचित् कायालंबनं. कदाचिद् यावद् धर्मालम्बनं. एवं समुदयज्ञानं. मार्गज्ञानम् अपि यद् अनास्रवसंवरालम्बनं कायस्मृत्युपस्थानं तद् भवति. शेषं सुगमं.
(विइ.17) अन्यत्रान्वयज्ञानाद् इति. धर्मज्ञानं यद्य् अनास्रवं ज्ञानम् आलंबेत [तिब्. 295ब्] धर्मज्ञानपक्षम् एवालम्बेत. एवम् अन्वयज्ञानम् अन्वयज्ञानपक्षम् एवालम्बेतेति नियमः. तत्र धर्मज्ञानस्य मार्गज्ञानभूतस्य धर्मज्ञानान्तरं दुःखज्ञानादीनि चानुत्पादज्ञानान्तान्य् आलम्बनं संभवन्ति. दुःखसमुदयज्ञानभूतस्य तु संवृतिज्ञानम् आलंबनं संभवति. परचित्तज्ञानभूतस्य च परचित्तज्ञानम् आलंबनं संभवतीति. नव ज्ञानानि तस्यालंबनम् इति. एवम् अन्वयज्ञानम् अपि योज्यं. मार्गज्ञानस्यापि नवैवान्यत्र संवृतिज्ञानात्. न हि मार्गज्ञानं संवृतिज्ञानम् आलम्बते. अनास्रवमार्गालम्बननियमात्. द्वे संवृतिपरचित्तज्ञाने इति. दुःखसमुदयसत्यांतर्भूते. परचित्तज्ञानं यद् अनास्रवं. तस्य नवानास्रवाणि ज्ञानान्य् आलंबनं. यत् सास्रवं तस्य संवृतिज्ञानं प्रर्चित्तज्ञानं चालम्बनं संभवति. क्षयानुत्पादज्ञाने दुःखज्ञानादिस्वभाव इति दशापि ज्ञानानि तयोर् आलम्बनानि भुवन्ति.
(विइ.18, 19) संप्रयुक्तविप्रयुक्तभेदाद् इति.
संप्रयुक्ताश् चित्तचैत्ता
इति. विप्रयुक्ताः प्राप्त्यादयः. कुशलाव्याकृतभेदाद् इति. कुशलं प्रतिसंख्यानिरोधः परमक्षेमत्वात्. अव्याकृताव् [तिब्. 296अ] आकाशप्रतिसंख्यानिरोधाव् इति. कामावचरानास्रवाश् चत्वार इति. संप्रयुक्तविप्रयुक्तभेदात्. रूपारूप्यावचरानास्रवाः षड् इति. प्रत्येकं संप्रयुक्तविप्रयुक्तभेदात्. कामरूपारूप्यावचरा अपि तत एव भेदात् षट्. द्वाव् अनास्रवाव् इति. तत एव कामरूपावचरानास्रवः संप्रयुक्ता इति. आरूप्यावचरांआं चित्तचैत्तानां विप्रयुक्तासंस्कृतानां च सर्वेषां परचित्तज्ञानाविषयत्वात्. अव्याकृतम् असंस्कृतं मुक्त्वेति. क्षयानुत्पादज्ञानयोश् चतुःसत्यालम्बनत्वाद् अव्याकृतस्य चासंस्कृतस्य तद्व्यतिरिक्तत्वात्.
(विइ.20) स्याद् एकेन ज्ञानेन सर्वधर्मान् जानीयात्. न स्याद् इति. कथं गम्यते. सूत्रात्. इहास्माकं भो गौतम उपस्थानशालायां संनिषण्णानां संनिपतितानाम् एवंरूपान्तराकथासमुदाहारो ऽभूत्. श्रमणो गौतमः ( अभिध्-क्-व्य् 631 ) किलैवम् आह. नास्ति स कश्चिच् छ्रमणो वा ब्राह्मणो वा. यः सकृत् सर्वं जानीयात् सर्वं पश्येद् इति. तथ्यम् इदं भो गौतम स्मरामि भवतो ऽहम् एवं वक्तुम्. अपि तु नास्ति स कश्चिच् छ्रमणो वा ब्राह्मणो वा. यः सकृत् सर्वं ज्ञास्यति वा द्रक्ष्यति वेति.
विषयिविषयभेदाद् इति विस्तरः. [तिब्. 296ब्] विषयिणो विषयस्य च भेदात्. यस्माद् यो विषयी. न स एव तस्य विषयो भवति. स्वातमनि वृत्तिविरोधात्. न हि सैवासिधारा तयैव छिद्यते. तस्मात् तेन संवृतिज्ञानेन स्वभावो न गृह्यते. नापि तेन चैत्ताः सहभुवो गृह्यन्ते. एकालम्बनत्वात्. यद् एव हि तस्य संवृतिज्ञानस्यालम्बनं. तद् एव संप्रयुक्तानां. यदि च ते संप्रयुक्ता गृह्येरन् स्वभावालम्बनाः स्युः. संवृतिज्ञानेनैकालंबनात्. न चैतद् युक्तं. तस्मान् न ते तेन गृह्यन्ते. अतिसंनिकृष्टत्वाच् च. न तेन विप्रयुक्ताः सहभुवो ऽपि गृह्यन्ते. चक्षुषो ऽञ्जनाञ्जनशलाकादर्शनवत्. तच् चेति संवृतिज्ञानं. तस्य व्यवच्छिन्नभूम्यालम्बनत्वाद् इति. यस्माद् भावनामयं रूपावचरं संवृतिज्ञानं व्यवच्छिन्नम् एव भूमिम् आलम्बते. कामधातुं वा प्रथमं वा ध्यानं यावद् भवाग्रं वा. किं कारणम्. आनन्तर्यविमुक्तिमार्गाणाम् अधरोत्तरभूम्यालम्बनत्वात् यथाक्रमं.
शान्ताद्युदाराद्याकारा उत्तराधरगोचरा
इति वचनात्. यदि च तत् सर्वभुंयालम्बनं स्यात्. सर्वतो युगपद् वैराग्यं स्यात्. प्रयोगविशेषमार्गयोर् अपि यथासंभवं काचिद् एव भूमिर् आलम्बनं. कथं. निर्वेधभागीयप्रयोगमार्गसंगृहीतस्य हि यस्य कामधातुर् आलम्बनं. [तिब्. 297अ] न तस्येतरौ धातू. यस्येतरौ धातू. न तस्य कामधातुर् आलम्बनं. अशुभाप्रमाणाभिभ्वायतनादिविदूषणे विशेषमार्गसंगृहीतस्य कामधातुर् एवालम्बनं. नेतरौ धातू.
(विइ.21, 22) एकज्ञानान्वितो रागी प्रथमे ऽनास्रवक्षण
इति. यस्मात् क्षान्तिज्ञानं न भवति अन्येनापि अनास्रवेण ज्ञानेन समन्वागतो न भवति रागीति ग्रहणं. यस्माद् वीतरागः परचित्तज्ञानेनापि समन्वागतो भवति.
द्वितीये त्रिभिर्
इति. तद् एव दुःखे धर्मज्ञानं चोच्यते दुःखज्ञानं चेति. नामभेदात् द्वित्वोपचारे. धर्मज्ञानेन दुःखज्ञानेन संवृतिज्ञानेन चेति त्रिभिः समन्वागतः.
चतुर्ष्व्
इति दुःखे ऽन्वयज्ञानक्षणे समुदयमार्गनिरोधधर्मज्ञानक्षणेषु च. क्षान्तिषु पूर्ववद् एवासमन्वागमात् दुःखे ऽन्वयज्ञानक्षणे ह्य् अन्वयम् एव वर्धते. न धर्मज्ञानं. तेन समन्वागतपूर्वत्वात्. समुदयधर्मज्ञानक्षणे समुदयज्ञानम् एव वर्धते. [तिब्. 297ब्] न धर्मान्वयज्ञाने. पूर्वम् एव ताभ्यां समन्वागतत्वात्. एवं निरोधमार्गधर्मज्ञानक्षणयोर् निरोधमार्गज्ञाने एव वर्धेते इति वक्तव्यं. वीतरागस् तु सर्वत्राधिकेन परचित्तज्ञानेनेति. दुःखे धर्मज्ञानक्षान्तौ यावन् मार्गे धर्मज्ञानक्षणे परचित्तज्ञानेनापि समन्वागतः. तैश् च यथोक्तैर् ज्ञानैर् इति वेदितव्यं. मार्गे ऽन्वयज्ञाने तु तैर् एव सप्तभिर् अवीतरागः समन्वागतः. वीतरागस् त्व् अष्टाभिः. तैश् च परचित्तज्ञानेन चेति. क्षयानुत्पादज्ञानाभ्यां त्व् अर्हन्न् एव समन्वागत इति सुबोधान् न तदर्थं सूत्रितम् इत्य् अवगन्तव्यं.
(विइ.23, 24) यथोत्पन्नानि भाव्यंत

इति. इह द्विविधा भावनाधिकृता. प्रतिलंभभावना निषेवणभावना. प्रतिलंभभावना प्राप्तितः निषेवणभावना संमुख्ःइभावतः.
यथोत्पन्नानि भाव्यंत
इति यानियान्य् उत्पन्नानि तानितानि भाव्यंत इति. तद्यथा दुःखधर्मज्ञानक्षान्ताव् उत्पन्नायां तज्जातीया क्षान्तिर् एवानागता भाव्यते. तदाकाराश् चत्वार इति. क्षांत्याकारा अनित्याद्याश् चत्वारः सभागत्वात्. नान्ये. एवं दुःखे धर्मज्ञान उत्पन्ने तद् एवानागतं भाव्यते. तदाकाराश् चत्वार एव भावनां गच्छन्ति. एवं दुःखान्वयज्ञानक्षांत्यादिषु योज्यं. सभागज्ञानाकारभावनैवेति. कस्मात् [तिब्. 298अ] सभागज्ञानभावना सभागाकारभावना च दर्शनमार्ग एव भवति. न भावनामार्ग इति. क्षांतीनाम् अपरिप्रश्नः. भावनामार्गे तासाम् अभावात्. तासाम् अपि वा प्रश्नः कर्तव्यः. तासाम् अपि सभागभावनात्. न हि दुःखक्षान्ताव् उत्पन्नायां समुदयादिदुःखक्षान्त्याकरा भाव्यन्ते. उदाहरणमात्रार्थत्वात् तु ज्ञानपरिप्रश्नो न क्षान्तिपरिप्रश्न इति. गोत्राणाम् अप्रतिलब्धत्वाद् इति. सभागहेतुनाम् अप्रतिलब्धत्वाद् इत्य् अर्थः. कथं कृत्वा. दुःखे धर्मज्ञानक्षान्ताव् उत्पन्नायां तद्गोत्रं तदाकाराणां च चतुर्णां गोत्राणि लब्धानि भवन्ति. न दुःखधर्मज्ञानादीनां. किं पुनः कारणम् अनित्यादीनां आकाराणाम् एकैकस्मिन्न् आकारे संमुखीभूते परिशिष्टानाम् आकाराणां गोत्राणि प्रतिलभ्यंते. यतस् ते भावनां गच्छन्ति. तुल्यालम्बनतया सभागत्वात्. सर्वेषां गोत्राणि प्रतिलब्धानि भवन्ति. एवं दुःखे धर्मज्ञान उत्पन्ने यावन् मार्गे ऽन्वयज्ञानक्षान्ताव् उत्पन्नायां तद्गोत्राणि तदाकराणि च चतुर्णां ( अभिध्-क्-व्य् 633 ) गोत्राणि लब्धानि भवन्तीति तद् एव भावनां गच्छति नान्यत्. भावनामार्गे तु पुनः सर्वेषां ज्ञानानां सभागविसभागानां तदाकराणां च संमुखीभावात् सर्वेषां हेतवो लब्धा भवन्तीति. तद्विशिष्टा ज्ञानाकारा भावनां गच्छंत्य् अनागताः.
सांवृतं चान्वयत्रय
इत्य् अलब्धपूर्वं. न धर्मज्ञानेष्व् अकृत्स्नसत्याभिसमयाद् इति. [तिब्. 298ब्] न हि तदानीं रूपारूप्यावचरं दुःकं परिज्ञातं समुदयः प्रहीणस् तन्निरोधः साक्षात्कृत इति. मार्गस्य पूर्वं लौकिकेन मार्गेणानभिसमितत्वाद् इति. लौकिकमार्गेण पूर्वम् अनादिगतिसंसारे दुःखसमुदयनिरोधा अभिसमिताः. न तु संवृतिज्ञानेन कदाचिन् मार्गो मार्गादिभिर् आकारैर् अभिसमितः. तस्मात् त्रयाणाम् एकैकस्य सत्यस्याभिसमयान्ते भावनां. गच्छति. न मार्गान्वयज्ञाने. न तु मार्गः शक्यते कृत्स्नो भावयितुम् इति. संमुखीकर्तुम् इत्य् अर्थः. समुदयो ऽपि तदा न सर्वः प्रहीण इति. निरोधमार्गदर्शनभावनाप्रहातव्यः. दुःखं पुनः सर्वं त्रैधातुकं परिज्ञातं तस्य परिज्ञेयत्वाद् इत्य् अतः समुदयम् एव प्रतिचोद्यते. तत्सत्यदर्शनहेय इति. समुदयसत्यदर्शनहेय इत्य् अर्थः. बहुगोत्रत्वाद् इति. आत्मभावसंततिसामान्यविशेषो गोत्रं. तानि बहूनि गोत्राण्य् अस्येति बहुगोत्रो मार्गः. श्रावकगोत्रात् प्रत्येकबुद्धगोत्रम् अन्यत्. तथा बुद्धगोत्रं. श्रावकगोत्रम् अप्य् अन्योन्यं भिन्नं. मृद्वधिमात्रादिभेदात्. तेषां कश्चिद् एव दर्शनहेयप्रतिपक्षो भाव्यते संमुखीक्रियत इत्य् अर्थः.
न मार्गः. शक्यते कृत्स्नो भावयितुं. दर्शनमार्गपरिवारत्वाद् इति. दर्शनमार्गस्य [तिब्. 299अ] परिवारः संवृतिज्ञानम्. अतः सत्यत्रयांते एव दर्शनमार्गो भाव्यते. न मार्गसत्यंते तस्य भावनामार्गत्वात्.
साध्यत्वाद् अज्ञापकम् इति. साध्यम् इदं दर्शनमार्गपरिवार एव. न भावनामार्गपरिवारो ऽपीति. वयं हि भावनामार्गपरिवारो ऽपि तद् इति ब्रूमः.
सत्यालंबनं विशिष्टतरम् इति. दर्शनावस्थायां यल् लौकिकं पूर्वम् आसीत. ततो विशिष्टम् एव च लौकिकम् इत्य् अभिप्रायः. यस् तत्संमुखीभावसमर्थाश्रयलाभ इति. तस्य संवृतिज्ञानस्य संमुखीभावे समर्थाश्रयस्य यो लाभः. एष एव तस्य लाभः. नार्थान्तरभूत इति. गोत्रे ऽभिलब्धे लब्धं गौत्रिकम् इति. गोत्रं तदुत्पादनसमर्थो हेतुः. तत्र भवं गौत्रिकं संवृतिज्ञानम्. एतद् उक्तं भवति तत्संमुखीभावसमर्थाश्रयलाभे तद् अपि तेनाश्रयेणोत्पद्यमानं लब्धं भवतीति. अथ कस्माद् ( अभिध्-क्-व्य् 634 ) एवं नेच्छंति वैभाषिकाः. दर्शनमार्गलभ्यं तत्. तस्य कथं भावनामार्गे संमुखीभावो भविष्यतीति. दर्शनमार्गे चोत्पत्त्यनवकाशो ऽस्यास्ति तद् अनुत्पत्तिधर्मकम् इति वर्णयंते.
एवं यावच् चतुर्थध्यानभूमिक इति विस्तरः. प्रथमध्यानभूमिकश् चेद् भवति त्रिभूमिकं भाव्यते. प्रथमध्यानभूमिकम् अनागम्यभूमिकं [तिब्. 299ब्] कामावचरं च. ध्यनांतरभूमिकश् चेच् चतुर्भूमिकं भाव्यते. ध्यानान्तरभूमिकं प्रथमध्यानभूमिकादीनि च पूर्वोक्तानि एवं द्वितीयध्यानभूमिकश् चेत् पंचभूमिकं. द्वितीयध्यानभूमिकं यावत् कामावचरं. तृतीयध्यानभूमिकश् चेत् षट्भूमिकं. तृतीयध्यानभूमिकं यावत् कामावचरं. चतुर्थध्यानभूमिकश् चेद् भवति सप्तभूमिकं भाव्यते. चतुर्थध्यानभूमिकं. यावत् कामावचरं चेति. एकस्य परिसंख्यानात् सिद्धं भवति शेषं चत्वारीति. निरोधे ऽन्त्यम् एवान्त्यम् एव च निरोध इत्य् उभयावधारणाच् छेषं चतुःस्मृत्युपस्थानम् इति सिद्धं भवति. दुःखे ऽभिसमिते यत् संवृतिज्ञानं भाव्यते. तच् चत्वारि स्मृत्युपस्थानानि दुःखस्य कायादिस्वभावत्वात्. एवं समुदये ऽपि वक्तव्यं. तत् सत्याकारम् एवेति. दुःखे ऽभिसमिते यत् संवृतिज्ञानं भाव्यते. तत् प्रत्येकम् अनित्यदुःखशूयानात्माकारं. एवं समुदये निरोधे च वक्तव्यं. आलम्बनम् अस्य तद् एवेति. तस्याकारस्य तदालम्बनत्वात्. प्रायोगिकम् इति. नोपपत्तिलभ्यः. चतुःपंचस्कंधस्वभावानीति. कामावचरम् [तिब्. 300अ] अनुपरिवर्तकरूपाभावाच् चतुःस्कंधस्वभावं. वेदनासंज्ञासंस्कारविज्ञानस्कंधस्वभावम् इत्य् अर्थः. ऊर्ध्वभूमिकानि तु पंचस्वभावानि ध्यानसंवरलक्षणरूपस्कन्धस्वभावात्.
(विइ.25, 26) द्वे ज्ञाने प्रत्युत्पन्ने इति. अन्वयज्ञानं मार्गज्ञानं च. मार्गान्वयज्ञानस्य तदुभयस्वभावत्वात्. अनागतानि षड् इति. धर्मज्ञानादीनि. न संवृतिज्ञानं भाव्यते. लब्धपूर्वत्वात् वक्ष्यति हि
लब्धपूर्वं न भाव्यत
इति. न परचित्तज्ञानम् अवीतरागत्वात्.
तदूर्ध्वं सप्तभावनेति.

एकप्रकारप्रहाणे यावद् अष्टप्रकारप्रहाणे. यावन् न वीतरागो भवतीति. यावन् न प्रहीणनवप्रकाको भवति. अत्रान्तरे प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु भाव्यमानेषु सप्त ज्ञानानि भाव्यन्ते. धर्मज्ञानादीनि परचित्तज्ञानवर्जितानि भाव्यन्ते. लौकिकश् चेत्. यदि शांताद्युदाराद्याकारो भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नं. चतुर्णां धर्नज्ञानानाम् ( अभिध्-क्-व्य् 635 ) इति. दुःखसस्मुदयनिरोधमार्गधर्मज्ञानानाम् अन्यतमत्. अन्वयज्ञानानां कामधात्वप्रतिपक्षत्वान् नान्वयज्ञानानाम् अन्यतमत्. पंचसु चाभिज्ञास्व् इति. आस्रवक्षयाभिज्ञनम् अपास्य. [तिब्. 300ब्] चतुर्णाम् अन्वयज्ञानानाम् इति. दुःखसमुदयनिरोधमार्गान्वयज्ञानां. द्वयोश् च धर्मज्ञानयोर् इति. निरोधमार्गालंबनयोस् त्रिधातुप्रतिपक्षत्वयोगात्. संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वाद् इति. सप्तभूमिवैराग्ये लोकोत्तरे ऽपि भाव्यमाने संवृतिज्ञानं भाव्यते. संवृतिज्ञानम् अपि हि तस्य क्लेशप्रकारस्य प्रतिपक्षो भवति. न केवलं लोकोत्तरम् इति. संवृतिज्ञानम् अपि तत्र भाव्यते तज्जातीयम्. अकोप्यप्रतिवेधे तु न तथा प्रतिपक्षरूपं भूतं संवृतिज्ञानम् अस्ति. अतो ऽत्र न भाव्यते. तत्र क्षयज्ञानं सप्तमम् इति. आनन्तर्यमार्गस्थितत्वात् क्षयज्ञानं तत्र भाव्यते. नानुत्पादज्ञानं न ह्य् आनन्तर्यमार्गस्थितो ऽकोप्यधर्मा भवति. अकोप्यधर्मणश् चानुत्पादज्ञानं भाव्यत इति. भवाग्रवैराग्ये विमुक्तिमार्गेष्व् अष्टासु सप्तैव ज्ञानानि भाव्यन्त इति. परचित्तज्ञानं कथं भाव्यते. आनन्तर्यमार्गे प्रतिषिद्धं परचित्तज्ञानं न विमुक्तिमार्गे. अतः एकप्रकारे प्रहीणे यावद् अष्टप्रकारे प्रहीणे पूर्वपरचित्तज्ञानविशिष्टं परचित्तज्ञानं भाव्यते. यत् स एवंविध आर्यपुद्गलस् ततो मार्गाद् व्युत्थितः संमुखीकुर्यात्. संतानविशेषाद् धि परचित्तज्ञानविशेष इष्यते.
उभयोर् अपि सरागवीतरागयोर् [तिब्. 301अ] विमुक्तिमार्गे भावनेति. प्रयोगमार्गे तु तयोर् इति. तयोर् एव सरागवीतरागयोः संवृतिज्ञानस्यापि भावना. विमुक्तिमार्गे किम् अर्थं विवादः. दर्शनमार्गसादृश्यात् तत्र तद् आभिसमयान्तिकवद् भाव्येत इत्य् एके. न चाभिसमयो ऽस्ति दर्शनमार्गसादृश्यं चेत्य् अपर इत्य् एवं विवादः.
(विइ.28-30) षण्णां भावना पूर्ववद् इति. धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां. न संवृतिज्ञानस्य दर्शनमार्गसादृश्याद् इति. किम् अत्र दर्शनमार्गेण सादृश्यं. फलप्राप्तिः. यथा दर्शनमार्गेण स्रोतआपत्तिफलं वा सकृदागाम्यनागामिफलं वा प्राप्यते. एवम् अनेनाप्य् आनन्तर्यमार्गेण शैक्षस्य शैक्षेन्द्रियोत्तापनायां तीक्ष्णेन्द्रियसंगृहीतानि संस्कृतानि स्रोतआपत्तिफलादीनि प्राप्यंते. दर्शनमार्गे चानन्तर्यमार्गावस्थायां न संवृतिज्ञानभावनास्ति एवम् इहापि. इत्य् एवं दर्शनमार्गसादृश्याद् आनन्तर्यमार्गे न संवृतिज्ञानस्य भावना. तथैवेति. धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम्. अत्रापि संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वात्. न परचित्तज्ञानं सर्वानन्तर्यमार्गे प्रतिषेधत्वात्. ( अभिध्-क्-व्य् 636 ) [तिब्. 301ब्] किं पुनः शेषम् इति विस्तरः. कथं कामवैराग्ये नवमो विमुक्तिमार्गः शेषः.
सरागभावनामार्गे तदूर्ध्वसप्तभावनेति.
वचनात्. सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गाः शेषाः.
सप्तभूमिजयाभिज्ञाकोप्याप्त्याकिर्णभाविते
आनन्तर्यपथेष्व्
इति वचनात्. तथा यो ऽकोप्यतां संचरति. तस्याप्य् अन्ते विमुक्तिमार्गे दशानां भावनेति वचनात्. अष्टौ विमुक्तिमार्गाः शेषा भवन्ति. सर्वे च वीतरागस्यानागामिनः प्रयोगविशेषमार्गाः शेषास् तेषां भावनायाम् अवचनात्. शैक्षस्यैवम् इति यद् अपदिष्टं
प्रोक्तशेषे ऽष्टभावनेति.
कथं पुनः एवम् अविशेषिते विशेषप्रतिपत्तिर् लभ्यते. अशैक्षस्यावश्यं नवदशज्ञानभावनायोगात्. अत एवाहाशैक्षस्य पुनर् अभिज्ञादीति. आदिशब्देन व्यवकीर्णभावनाध्यानादिग्रहणम्. अभिज्ञाभिनिर्हारे व्यवकीर्णभावनायां च ये प्रयोगविमुक्तिविशेषमार्गाः. तेषु यदि समयविमुक्तो नवज्ञानानि भाव्यन्ते. अनुत्पादज्ञानं हित्वा. यद्य् अकोप्यधर्मा [तिब्. 302अ] दश तद् एव प्रक्षिप्य. अष्टौ नव चेति. समयविमुक्तस्याष्टौ अकोप्यधर्मणो नव परचित्तज्ञानं हित्वा. तस्यानन्तर्यमार्गेषु प्रतिषेधात्. द्वयोस् त्व् अभिज्ञाविमुक्तिमार्गयोर् इति. दिव्यश्रोत्रचक्षुरभिज्ञाविमुक्तिमार्गयोः.
अव्याकृते श्रोत्रचक्षुरभिज्ञे
इति वचनात् तद्विमुक्तिमार्गाव् अव्याकृतौ. न चाव्याकृतस्य धर्मस्यानागतभावनास्ति. पृथग्जनस्य तु कामत्रिध्यानवैराग्य इति. चतुर्थध्यानाग्रहणम्. यस्माच् चतुर्थध्यानवैराग्ये यो ऽन्त्यो विमुक्तिमार्गः. तत्र मौलाकाशानन्त्यायतनप्रतिलम्भः. न चारूप्यधातुसंगृहीतं परचित्तज्ञानम् अस्ति. रूपातीतार्थाभिनिष्पाद्यत्वात्. प्रयोगाभिज्ञात्रयो विमुक्तिमार्गप्रमाणादिगुणाभिनिर्हारेष्व् इति. प्रयोगमार्गाश् चाभिज्ञात्रयविमुक्तिमार्गाश् चाप्रमाणादिगुणाभिनिर्हाराश् चेति विग्रहः. आदिशब्देन विमोक्षाभिभ्वायतनादिगुणग्रहणम्. अप्रमाणादीनां गुणानाम् अभिनिर्हार इति. ध्यानभूमिकग्रहणं सामन्तकनिरासार्थं. [तिब्. 302ब्] तत्र हि परचित्तज्ञानं नास्ति. अभिज्ञात्रयम् ऋद्धिविषयाभिज्ञा पूर्वेनिवासानुस्मृत्यभिज्ञा चेतःपर्यायाभिज्ञा च. तेषु च कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ( अभिध्-क्-व्य् 637 ) ध्यानभूमिकेषु चाभिज्ञात्रयविमुक्तिमार्गेषु. अप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादिगुणाभिनिर्हारेषु च. ध्यानभूमिकेष्व् एव प्रयोगविमुक्तिविशेषमार्गेषु संवृतिज्ञानम् अनागतं भाव्यते. यत् तत्संगृहीतं परचित्तज्ञानं च विशिष्टम् एव भाव्यते. यत् तद्गुणविशेषलाभी संमुखीकुर्यात्. अन्यत्र निर्वेधभागियेभ्य ऊष्मगतादिभ्यः. तेषु हि निर्वेभभागीयेषु परचित्तज्ञानं न भाव्यते. किं कारणम् इत्य् आह. दर्शनमार्गपरिवारत्वाद् इति. यथा दर्शनमार्गे परचित्तज्नानं न भाव्यते. तथा तत्परिवारे ऽपि न भाव्यत इत्य् अभिप्रायः. अन्यत्रेति विस्तरः. पृथग्जनस्यैवान्यत्रापूर्वमार्गलाभे कामत्रिध्यानवैराग्ये ऽन्त्यविमुक्तिमार्गान् हित्वा यः प्रयोगानन्तर्यविमुक्तिमार्गलाभः. तस्मिन्न् अन्यत्रापूर्वमार्गलभे संवृतिज्ञानम् एवानागतं भाव्यते. न परचित्तज्ञानं [तिब्. 303अ] तथाभिज्ञात्रयप्रमाणादिगुणाभिनिर्हारेषु य आनन्तर्यमार्गलाभः. तस्मिंश् चान्यत्रापूर्वमार्गलाभे संवृतिज्ञानम् एवानागतं भाव्यते. प्रयोगमार्गेषु न परचित्तज्ञानं तदप्रतिपक्षत्वात्.

(विइ.31, 32) अथ कस्मिन् मार्ग इति लौकिके लोकोत्तरे वा. यद्भूमिको मार्ग इति. अनागम्यादिकः सास्रवो ऽनास्रवो वा. यां च भूमिं प्रथमतो लभत इति. वैराग्यतः प्रथमं ध्यानं यावद् भवाग्रं तद्भूमिकम् इत्य् अर्थः. कथं कृत्वा. यद्य् अनागम्यभूमिसंनिश्रयेण हि लौकिकेन मार्गेण कामधातुवैराग्यात् प्रथमं ध्यानं लभते अनाग्म्यभूमिकं सामन्तकस्वभावं प्रथमध्यानभूमिकं च मौलस्वभावं. नवमे विमुक्तिमार्गे संवृतिज्ञानं भाव्यते. एवं द्वितीयध्यानसामन्तकसंनिश्रयेण प्रथमध्यानवैराग्यात् द्वितीयं ध्यानं लभते. तथैव द्वितीयध्यानसामन्तकसंगृहीतं मौलद्वितीयध्यानसंगृहीतं च भाव्यते. एवं यावद् यदि नैवसंज्ञासंज्ञायतनसामन्तकसंनिश्रयेणाकिंचन्यायतनवैराग्याद् भवाग्रं लभत इति विस्तरेण योज्यं. यदाप्य् अनास्रवानागम्यभूमिसंनिश्रयेण कामधातुवैराग्यात् [तिब्. 303ब्] प्रथमध्यानं लभते. तदापि तथैव तत्संवृतिज्ञानं भाव्यते. यदापि मौलप्रथमध्यानभूमिकसंनिश्रयेण प्रथमध्यानवैरायानास्रव्सं प्रथमं ध्यानं लभते. तदापि प्रथमध्यानप्रथमप्रकारप्रतिपक्षभूतं यावन् नवमप्रतिपक्षभूतं द्वितीयध्यानसामन्तकसंगृहीतं संवृतिज्ञानं लभते. सा हि प्रथमतो भूमिस् तदा लभ्यते. नवमे तु विमुक्तिमार्गे मौलद्वितीयसंगृहीतम् अपि संवृतिज्ञानम् अनागतं भाव्यते. एवम् अनास्रवध्यानान्तरभूमिसंनिश्रयेण यावद् अनास्रवाकिंचन्यायतनभूमिसंनिश्रयेण संवृतिज्ञानभावना योज्य.
यद्वैराग्यायेति.
यस्या भूमेर् वैराग्राय.
यल्लाभः
यस्या भूमेर् लाभो यल्लाभः.
तत्रो-
भयत्रा-
धश्
च ततो
भाव्यते
ऽनास्रवज्ञानं. कथम् इति वृत्त्या व्याचष्टे. यद्भूमिवैराग्यायापि हि न केवलं यद्भूमिक इत्य् अपिशब्दः. द्विविधो ऽपि मार्गो भवतीति. लौकिको लोकोत्तरश् च. प्रयोगमार्गादि आदिशब्देनानन्तर्यविमुक्तिविशेषमार्गग्रहणं. यां च भूमिं लभते वैराग्यत इति. उपरिभूमिकं. तद्भूमिकान्य् अधोभूमिकानि वानास्रवाणि भावनां गच्छन्ति. तद्यथा द्वितीयम् अनास्रवं ध्यानं निश्रित्य तृतीयध्यानवैराग्यं [तिब्. 304अ] करोति. यद्भूमिको मार्गो द्वितीयध्यानभूमिकस् तद्भूमिकम् अनास्रवं ज्ञानं भावनां गच्छति. यस्याश् च भूमेर्वैराग्यं करोति तृतीयाया भूमेस् तद्भूमिकं तृतीयध्यानभूमिकं नवमे विमुक्तिमार्गे ऽनास्रवं ज्ञानं भावनां गच्छति. अधोभूमिकं च प्रथमध्यानभूमिकम् अनागम्यभूमिकं वानास्रवं ज्ञानं भावनां गच्छति. अधोभूमिकम् अपि हि तत्प्रयोगमार्गादिकं संभवामि तज्जातीयम् इति भावनां गच्छति. अथ तु तृतीयध्यानसामन्तकं निश्रित्य द्वितीयध्यानवैराग्यं करोति. तत्राष्टास्व् आनन्तर्यमार्गेषु विमुक्तिमार्गे च तस्य सामन्तकस्य सास्रवत्वात् तद्भूमिकम् अनास्रवं ज्ञानं न भावनां गच्छति. अभावात्. अधोभूमिकं तु तज्जातीयं द्वितीयध्यानभूमिकं ध्यानान्तरभूमिकं प्रथमध्यानभूमिकम् अनागम्यभूमिकं च तज्जातीयम् अनास्रवं ज्ञानं भावनां गच्छति. एवम् अन्यत्रापि योज्यम् एषा दिग् इति. सास्रवाश् च क्षयज्ञान इति. अनास्रवाश् चेति चशब्दः. यान् गुणान् अर्हद्भूत्वा संमुखीकुर्यात् ते सास्रवास् तस्याम् अवस्थायां. भावनां गच्छंति. अप्रमाणविमोक्षादय इति. आदिशब्देनाभिभ्वायतनकृत्स्नायतनादयो गृह्यन्ते. उच्छ्वसंतीव पेडासाधर्म्येणेति. [तिब्. 304ब्] या पेडा रज्ज्वा निपीड्य बद्धा. सा रज्जूच्छेदाद् उच्छ्वसतीव पेडोच्यते. उच्छ्वस्तीव प्रतिरूपकशब्दाभिधानात्. तस्य रज्जूच्छेदाद् उच्छ्वसन्तीव पेडायाः साधर्म्येण. यथासौ रज्ज्वा निपीड्य बद्धा ( अभिध्-क्-व्य् 639 ) पेडा रज्जूच्छेदाद् उच्छ्वसतीव. एवं यथोक्ता अशुभादयो गुणा वज्रोपमेन समाधिना क्लेशप्राप्तिरज्जूच्छेदाद् अशैल्षसंताने वर्त्स्यन्त उच्छ्वसन्तीव. उच्छ्वासस्य प्राणिधर्मत्वाद् औपमिकं. कस्माद् इत्य् आह. स्वचित्ताधिराज्यप्राप्तस्येति सर्वं. सर्वेषाम् राज्ञाम् अधिको राजाधिराजः. तद्भाव आधिराज्यं. स्वचित्ते ऽधिराज्यं क्लेशपराधीनताविगमात्. स्वचित्तैश्वर्यम् इत्य् अर्थः. तत्प्राप्तस्यार्हतः प्राप्तिभिः प्राभृतस्थानीयाभिः सर्वेषां कुशलानां धर्माणां प्रत्युद्गमनान्ते गुणा भावनां गच्छन्ति. आधिराज्ये प्राप्तौ कस्यचिद् राजाधिराजस्य प्राभृतेन वस्त्रादिना विषयाणां जनपदानां. यथा प्रत्युद्गमनं. तद्वत् तद् एव क्लेशप्राप्तिरज्जूच्छेदे सति स्वप्राप्तिलाभात् उच्छ्वसन्तीव गुणा उत्तप्ततराणां तेषां प्राप्तिर् उत्पद्यत इत्य् अर्थः. कामधाताव् अर्हत्त्वप्राप्ताव् एवाशुभादयो यथासंभवं श्रुतचिन्ताभावनामयास् त्रैधातुका भावनां गच्छन्ति. रूपारूप्यधात्वोस् त्व् अर्हत्त्वप्राप्तौ यथाक्रमं द्विधातुकैकधातुकाः. [तिब्. 305अ] एवं भूमितो ऽपि बोद्धव्यं नैवसंज्ञानासंज्ञायतनोपपन्नस्यार्हत्त्वप्राप्तौ तद्भूमिका एव इत्य् अवगंतव्यं. यत् किंचिल् लभ्यत इति विस्तरः. यद् विहीनं पुनर् लभ्यते संमुखीक्रियते संसारोचितं. न तद् अनागतं भाव्यते. भावितोत्सृष्टत्वात् संसारे. यद् एवात्र ध्यानाप्रमाणाद्यनुचितं संसारे विशिष्टाम् अनास्रवाणुगुणं. तत् संमुखीभावे तज्जातीयम् एवानागतं विशिष्टं भाव्यत इय्त् आचार्यो दर्शयति. आचार्यसंघभद्रो ऽप्य् एतम् एवार्थं व्याचष्टे. लब्धपूर्वं न भाव्यते. यत् प्रतिलब्धविहीनं पुनर् लभ्यते न तद् भाव्यं. अर्थाद् गम्यते यद् अलब्धपूर्वं लभ्यते तद् भाव्यते. यत्नाभिमुखीकरणात्. अप्रतिप्रस्रब्धो हि मार्गो यत्नेनाभिमुखीक्रियत इति. तदावेधस्य बलवत्त्वाद् अनागतो भावनां गच्छति. प्रतिप्रस्रब्धपूर्वस् त्व् अयत्नेन संमुखीभवति. भावितप्रतिप्रस्रब्धत्वात् कृतकृत्यदत्तफलत्वाच् च वेगहीन इति तत्संमुखीभावद् अनागतो न भाव्यत इति. यो ऽनागतो यत्नेन जन्यते. स भाव्यत इत्य् अभिप्रायः. तद् एवं सति यद् उक्तं संवृतिज्ञानं तावद् इति विस्तरेण. तद् आर्यसंतानपतितम् एव गृह्यते संसारानुचितत्वाद् इति आचार्यवसुमित्रेणात्र लिखितम्. अत्र किल वैभाषिका आहुः. नैतद् एवं. [तिब्. 305ब्] कुतः. यस्माद् अलब्धम् एव तद् भवति त्यक्तत्वात्. तस्माद् भावितोत्सृष्टस्यापि पुनर्लाभे भवत्य् एव भावनेति. कथं तद् अपूर्वं भवति यावता लब्धपूर्वम् इति. न ह्य् एवंविधं लोके पूर्वं प्रसिद्धम् इति. अपरे पुनर् व्याचक्षते. एकं जन्मेदम् अधिकृयोक्तम् न जन्मान्तरं. यद् विहीनम् अस्मिन्न् एव जन्मनि पुनर् लभ्यते. न तद् भाव्यते. भावितोत्सृष्टत्वात्. जन्मान्तरे तु यल् लभ्यते. तद् भाव्यते. न लभ्यते ( अभिध्-क्-व्य् 640 ) विस्मृतभावनत्वाद् इति.

(विइ.33) चतुर्विधा हि भावनेति. प्रतिलम्भ एव भावना प्रतिलम्भभावन. अनागतप्राप्तिर् एव भावनेत्य् अर्थः. एवं निषेवणम् एव प्रतिपक्ष एव विनिर्धावनम् एव भावानेति वक्तव्यं. किं निषेवणं. किं च यावद् विनिर्धावनम् इति. निषेवणं पुनःपुनःसंमुखीकरणं प्रतिपक्षो मार्गो यथोक्तं सूत्रे. भावितकायो भावितचित्त इति. भावितप्रतिपक्षकायचित्त इत्य् अर्थः. कायप्रतिपक्षः पुनश् चतुर्ध्यानविराग्याय यो मार्गः. तथा ह्य् उक्तं भावितकायो भिक्षुर् इत्य् उच्यते भावितचित्तो भावितशीलः. कत्ःअं भावितकायो भवति. कायाद् विगतरागो विगतस्पृहो विगतपिपासो विगतप्रेमा विगतनियंतिः. अथ वा यो ऽसौ रूपरागक्षयानन्तर्यमार्गः. सो ऽनेन विगतरागो भवतीत्य् [तिब्. 306अ] आगमः. विनिर्धावनं क्लेशप्राप्तिछेदः. अनागतानाम् एकेति. प्रतिलम्भभावना. प्रत्युत्पन्नानाम् उभे इति. प्रतिलम्भनिषेवणभावने. तद् एवम् इति विस्तरः. यस्मात् प्रतिलम्भनिषेवणभावने कुशलसंस्कृतानाम् इत्य् अविशेषेणोक्तं सास्रवाणाम् अनास्रवणां च. प्रतिपक्षविनिर्धावनभावने च सास्रवाणां धर्माणाम् इत्य् अविशेषेणोक्तं क्लिष्टानाम् अक्लिष्टानां च. तस्माद् एवम् इत्थं कुशलसास्रवाणां चतस्रो भावना भवन्ति. येषां भावना कुशलत्वात् प्रतिलम्भनिषेवणभावने भवतः. सास्रवत्वाच् च प्रतिपक्षविनिर्धावनभावने भवत इति. ये तर्हि न कुशलसास्रवाः ये संस्कृता ये ऽनास्रवा ये च क्लिष्टाव्याकृताः. तेषां कति भावना इत्य् आहानास्रवाणां द्वे इति. प्रतिलम्भनिषेवणभावने. क्लिष्टाव्याकृतानां च. किं द्वे भावने भवतः. प्रतिपक्षविनिर्धावनभावने इति.
इन्द्रियाणां पूर्वेति. चक्षुरादीनां संवरभावनेत्य् अर्थः. कायस्योत्तरेति. विभावनभावना. तत् पुनर् भावनाद्वयम् आगमेन यथाक्रमं दर्शयति. षड् इमानीन्द्रियाणीति विस्तरः. स पुनर् इन्द्रियसंवरः स्मृति [तिब्. 306ब्] संप्रज्ञानस्वभाव उक्तः. विभावनापि कायालम्बनस्य क्लेशस्य निर्धावनं. ते त्व् इति विस्तरः. ते तु संवरविभावनभावने प्रतिपक्षनिर्धावनभावनान्तर्भूते यथाक्रमम् उभयम् उभयत्रान्तर्भूतम् इत्य् अपि न विरुध्यते.
(विइ.34अब्) सामान्येन सर्वेषाम् इति. श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानां क्षयज्ञानक्षणे गुणभावनोक्ता
सास्रवाश् च क्षयज्ञान

इति वचनात्. दश बलानीति विस्तरः. एते बलाद्या महाकरुणान्ता अष्टादशावेणिका वैभाषिकैर् व्यवस्थाप्यंते. बलादिव्यतिरिक्तान् केचिद् अन्यान् अष्टादशावेणिकान् ( अभिध्-क्-व्य् 641 ) बुद्धधर्मान् वर्णयन्ति. तद्यथा. नास्ति तथागतस्य स्खलितं. नास्ति रवितं. नास्ति द्रवता. नास्ति नानात्वसंज्ञा. नास्त्य् अव्याकृतं मनः. नास्त्य् अप्रतिसंख्यायोपेक्षा. नास्त्य् अतीतेषु प्रतिहतं ज्ञानदर्शनं. नास्त्य् अनागतेषु प्रतिहतं ज्ञानदर्शनं. नास्ति प्रत्युत्पन्नेषु प्रतिहतं ज्ञानदर्शनं. सर्वं कायकर्म ज्ञानानुपरिवर्ति. सर्वं वाक्कर्म ज्ञानानुपरिवर्ति. सर्वं मनस्कर्म ज्ञानानुपरिवर्ति. नास्ति छंदहानिः. नास्ति वीर्यहानिः. नास्ति स्मृतिहानिः. नास्ति समाधिहानिः. [तिब्. 307अ] नास्ति प्रज्ञाहानिः. नास्ति विमुक्तिज्ञनदर्शनहानिर् इति. तत्र रवितं नाम सहसा क्रिया. द्रवता क्रीडाभिप्रायता. नानात्वसंज्ञा सुखदुःखादुःखासुखेषु विषयेषु रागद्वेषमोहतो नानात्वसंज्ञा. शेषं सुगमं. दश बलानि. स्थानास्थानज्ञानबलं. कर्मविपाकज्ञानबलं. ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं. इन्द्रियपरापरज्ञानबलं. नानाधिमुक्तिज्ञानबलं. नानाधातुज्ञानबलं. सर्वत्रगामिनीप्रतिपज्ज्ञानबलं. पूर्वनिवासानुस्मृतिज्ञानबलं. च्युत्युपपत्तिज्ञानबलं. आस्रवक्षयज्ञानबलं च. सूत्रं तु दशायुष्मन्तस् तथागतबलानि. कतमानि दश. इहायुष्मन्तस् तथागतः स्थानं च स्थानतो यथाभूतं प्रजानाति. अस्थानं चास्थानतः. इदं प्रथमं तथागतबलं. येन बलेन समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्ध उदारम् आर्षभस्थानं प्रतिजानाति ब्राह्मं चक्रं प्रवर्तयति. पर्षदि सम्यक्सिंहनादं नदति. पुनर् अपरम् आयुष्मन्तस् तथागतो ऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि [तिब्. 307ब्] स्थानतो हेतुतो वस्तुतो विपाकतश् च यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. यावद् विपाकतश् च यथाभूतं प्रजानाति. इदं द्वितीयं तथागतबलम्. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशव्यवदानव्यवस्थानविशुद्धिं यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः परसत्त्वानां परपुद्गलानां इन्द्रियपरापरतां यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं चतुर्थं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो नानाविमुक्तिकं लोकम् अनेकविमुक्तिकम् इति यथाभूतं प्रजानाति. यद् आयुष्मंतस् तथागतः पूर्ववत्. इदं पंचमं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मंतस् तथाग्तो नानाधातुकं अनेकधातुकम् इति यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः [तिब्. 308अ] पूर्ववत्. इदं षष्ठं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः ( अभिध्-क्-व्य् 642 ) पूर्ववत्. इदं सप्तमं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो ऽनेकविधं पूर्वनिवासम् अनुस्मरति. तद्यथैकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशतिं यावद् अनेकान् अपि संवर्तविवर्तकल्पान् अनुस्मरति. अमी नाम ते भवन्तः सत्त्वाः. यत्राहम् आस एवंनामा एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवं दीर्घायुर् एवंचिरस्थितिकः एवमायुष्पर्यन्तः सो ऽहं तस्मात् स्थानाच् च्युतो ऽमुत्रोपपन्नः तस्माद् अपि च्युत इहोपपन्नः. इति साकारं सनिदानं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदम् अष्टमां तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यति च्यवनान् अप्य् उपपद्यमानान् अपि सुवर्णान् दुर्वर्णान् दुर्बलान् हीनान् प्रणीतान् सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपगान् सत्त्वान् [तिब्. 308ब्] यथाभूतं प्रजानात्य् अमी भवन्तः कायदुश्चरितेन स्मन्वागता वाङ्मनोदुश्चरितेन समन्वगताः. आर्याणाम् अपवादकाः मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपाते नरकेषूपपद्यंते. अमी पुनर् भवन्तः सत्त्वाः कायसुचरितेन समन्वागताः वाङ्मनःसुचरितेन समन्वागताः आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् सुगतन् स्वर्गलोके देवेषूपपद्यन्ते. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं नवमं तथागतबलं . येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रतिवेदयते क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं दशमं तथगतबलं. येन बलेनेति पूर्ववत्.
(विइ.34च्द्-36) स्थानास्थाने दश ज्ञानानीति. स्थानं चास्थानं स्थानास्थानं. तत्र ज्ञानम् एव बलं ज्ञानबलं. तद् दशज्ञानानि. [तिब्. 309अ] दशज्ञानस्वभावम् इत्य् अर्थः. कथं कृत्वा. स्थानास्थानं समासेन संस्कृतं चासंस्कृतं च तद् अपि संस्कृतम् अष्टधा भेत्तव्यं. कामरूपारूप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात्. तथा संस्कृतं द्विधा भेत्तव्यं. कुशलाव्याकृतभेदात्. तत्र संवृतिज्ञानबलस्य दशापि धर्मा विषयः. ( अभिध्-क्-व्य् 643 ) दशस्व् अपि धर्मेषु तस्य वृत्तिर् इत्य् अर्थः. धर्मज्ञानस्य पंच. कामावचरानास्रवाश् चत्वारः कुशलं चासंकृतं. अन्वयज्ञानस्य सप्त. रूपारूप्यावचरानास्रवाः षट् कुशलं चासंस्कृतं. दुःखसमुदयज्ञानयोः षट् कामरूपारूप्यावचराः. निरोधज्ञानस्यैकः कुशलम् एवासंस्कृतं. मार्गज्ञानस्य द्वाव् अनास्रवौ. परचित्तज्ञानस्य त्रयः. कामरूपावचरानास्रवाः संप्रयुक्ताः. क्षयानुत्पादज्ञानयोर् नव धर्मा विषयः. अव्याकृतम् असंस्कृतं मुक्त्वा. एवं कृत्वा स्थानास्थानज्ञानबलं दश ज्ञानानि. कथं पुनर् दशा धर्माः स्थानास्थानम् इत्य् उच्च्यंते. संभवः स्थानं असंभवो ऽस्थानम् इति. अथ वा अस्थानम् अनवकाशो यः स्त्री बुद्धत्वं कारयिष्यति. स्थानम् एतद् यत् पुरुष इति. अस्थानम् अनवकाशो यः स्त्री ब्रह्मत्वं [तिब्. 309ब्] कारयिष्यति. स्थानम् एतत् पुरुस इति. तथा स्थानम् एतद् यद् दुःखस्य निरोध इति. एवमाद्याकारप्रवृत्तं स्थानास्थानज्ञानबलम् अवगंतव्यं. अष्टौ कर्मफल इति. कर्मणः सास्रवस्य तद्विपाकस्य च दुःखसमुदयसत्यसंगृहीतत्वात्. निरोधमार्गज्नाने न भवत इति. अतो ऽन्यानि तदालंबनानि अष्टौ ज्ञानानि संभवन्ति.
ध्यानाद्यक्षाधिमोक्षेष्व्

इति विस्तरः. ध्यानम् आदिर् आसाम् इति ध्यानादयो ध्यानविमोक्षसमाधिसमापत्तयः. ध्यानानि चत्वारि. विमोक्षा अष्टौ. समाधयस् त्रयः शून्यताद्याः. समापत्ती द्वे. असंज्ञिनिरोधसमापत्ती. नवानुपूर्वविहारसमापत्तयः. अक्षाणीन्द्रियाणि. अधिमोक्षाश् चैतसिकाः. ध्यानादयश् चाक्षाणि चाधिमोक्षाश् चेति द्वन्द्वः. तेषु नव ज्ञानानि निरोधज्ञानं हित्वा. कथं कृत्वा. ध्यानादीनां सास्रवानास्रवसंप्रयुक्तविप्रयुक्तभेदात् तदालंबनानि नव ज्ञानानि संभवन्ति. निरोधज्ञानं तु न भवति. [तेषां सन् निरोधज्ञानं तु न भवति.] तेषां संस्कृतत्वात्. इन्द्रियेष्व् अपि श्रद्धादिषु. [तिब्. 310अ] यत् प्रधानाप्रधानज्ञानं मृदुमध्याधिमात्रेन्द्रियभेदेन. तत् परापरज्ञानबलं. तेष्व् अपि सास्रवानास्रवभेदभिन्नेषु नव ज्ञानानि संभवन्ति निरोधज्ञानं हित्वा. प्रधानादिषु रुचयो नानाधिमुक्तयः. ताः पुनः सास्रवानास्रवास् त्रैधातुकाश् च तदालम्बनत्वात् निरोधज्ञानं हित्वा. एवं नानाधातुज्ञानबलं. तत्र हि धातुः पूर्वाभ्यासवासनासमुदागत आशयो धातुर् इत्य् आचार्यसंघभद्रः. स पुनस् तु एव ते चित्तचैत्ता विशिष्टाः. तेषां तथैव सास्रवानास्रवभेदभिन्नानां निरोधज्ञनं हित्वा नव ज्ञानानि भवन्तीति पूर्ववद् योज्यं. प्रतिपत्स्व् इति विस्तरः. बह्व्यो ऽत्र प्रतिपदो नरकादिगामिन्यः. नरकगामिनी प्रतिपत् ( अभिध्-क्-व्य् 644 ) यावद् देवगामिनी. निरोधगामिनि च. तत्र या नरकादिगामिन्यः प्रतिपदः. ता हेतुः. प्रतिपद्यन्ते ताभिर् इति कृत्वा. मार्गो हि प्रतिपद्य् उचते. तेन हि विसंयोगः प्रतिपद्यते. निरोधस् तु कथं. स चापि प्रतिपत्. प्रतिपद्यते तम् इति कृत्वा. प्रतिपत्फलं वा प्रतिपद् इत्य् उच्यते. अत एवाह. यदि सफला प्रतिपद् गृह्यत इति. हेतुर् हि सर्वत्रगामिनि प्रतिपद् इहेष्यते. [तिब्. 310ब्] तथा हि व्याचक्षते. सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् इति. सत्कायसमुदयगामिनीत्य् अर्थ इति. तत्र सत्कायः पंचोपादानस्कंधाः. समुदय उत्पाद इहाभिप्रेतः. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात्. सत्कायनिरोधो विसंयोगः. तत्र सर्वत्र गंतुं शीलम् अस्या इति सर्वत्रगामिनी चासौ प्रतिपच् च सर्वत्रगामिनीप्रतिपत्. तत् ज्ञानं तद् एव च बलम् इति. सर्वत्रगामिनीप्रतिपज्ज्ञानबलं. तद् दश ज्ञानानि योज्यानि. यदि निरोधज्ञानम् एवास्रवक्षयज्ञानम् इति. आस्रवाणां क्षये निरोधे ज्ञानम्. आस्रवनिरोधालम्बनं ज्ञानम् इत्य् अर्थः. एवं सति षड् ज्ञानानि भवन्ति. निरोधज्ञानजातिर् एव धर्मज्ञानादिभेदभेदिनीकृत्वा. अथ क्षीणास्रवसंतान इति. आस्रवक्षये सति यज् ज्ञानं. तद् आसवक्षयज्ञानम् इत्य् अर्थः. क्षीणास्रवसंताने सर्वाणि ज्ञानानि समुदाचरन्तीति दश ज्ञानानि भवंति.
अन्यत्र बुद्धानुत्पादाद् इति. जंबूद्वीपाद् अन्यत्र बुद्धानुत्पादद् इति जंबूद्वीपपुरुषाश्रयाणि दश बलानि बुद्धाश्रयोत्पत्तेर् इत्य् अभिप्रायः.
तद् एव दशविधज्ञानम् अन्यस्य बलं नोच्यत इति. अन्यस्याप्य् एतद् अस्ति न तु बलं व्याहतत्वात्. [तिब्. 311अ] यत् त्व् अव्याहतं. तद् बलम् आवेणिक इत्य् अभिप्रायः. प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानम् इति विस्तरः. प्रव्रजनं प्रव्रज्या प्रेक्ष्यते प्रव्रजनप्रेक्षः. तस्य प्रव्रजनप्रेक्षस्य पुरुषस्य प्रत्याख्यानं प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानं. तद् उदाहरणं यथा अन्यस्य व्याहन्यते ज्ञानम् इति. आर्यशारिपुत्रेण किल कस्यचित् प्रव्रज्याप्रेक्षस्य पुरुषस्य मोक्षभागीयं कुशलमूलं व्यवलोकयता न दृष्टम् इति प्रत्याख्यातो न प्रव्राजित इत्य् अर्थः. भगवता तु दृष्टं प्रव्राजितश् च. तं चाधिकृत्य भिक्षुभिः प्र्ष्टेन भगवतोक्तं. अनेनैवेदं कर्म कृतं. यद् अर्हत्त्वं प्राप्ता. न हि कर्माणि पृथिवीधातौ विपच्यन्ते. नाब्धातौ न तेजोधातौ न वायुधातौ. अपि तूपात्तेष्व् एव स्कंधधात्वायतनेष्व् इति विस्तरः. इदं चोक्तं.
मोक्षबीजम् अहं ह्य् अस्य स्वसूक्ष्मम् उपलक्षये.
धातुपाषाणविवरे निलीनम् इव काञ्चनम्
इति. उपपत्त्यादिपर्यन्ताज्ञानं चेति. आदिशब्देन च्युतिपर्यन्ताज्ञानं.
(विइ.37) नारायणं बलम्
इति. बलस्येयं संज्ञा नारायणम् इति. यस्य च तद् बलम्. असाव् अपि नारायण इत्य् उच्यते. चाणूरमहानग्नवत्.
भदन्त इति [तिब्. 311ब्] दार्ष्टांतिकः स्थविरः. अन्यथा हीति. यदि मानसवत् कायिकबलं नेष्यते. अनंतस्य ज्ञानबलस्य सहिष्णुर् न स्यात्. सहनशीलो भगवान् न भवेद् इत्य् अर्थः.
संधिष्व् अन्य इत्य् उक्तम् अस्थिसंधिविशेषोपन्यासः. नागग्रंथिर् इति विस्तरः. नागग्रन्थिसंधयो बुद्धाः. नागपाशो नागग्रंथिः. शंकलासंधयः प्रत्येकबुद्धाः. शंकुसंधयश् चक्रवर्तिनः.
दशाधिकं
हस्त्यादिसप्तकबलम्
इति. हस्त्यादीनां हस्तिगन्धहस्तिमहानग्नप्रस्कंदिवरांगचाणूरनारायणानां सप्तकं तस्य बलं दशभिर् अधिकं दशभ्यो वाधिकं. कथम् इत्य् आह. यद् दशानां प्राकृतहस्तिनां सानान्यहस्तिनां बलं. तद् एकस्य गन्धहस्तिनो बलं. एवं यद् दशानां गन्धहस्तिनां बलं. तद् एकस्य महानग्नस्य बलं. यावद् यद् दशानां चाणूराणां बलं. तद् एकस्य नारायणस्य बलम् इति.
दशोत्तरवृद्धिनगः. दशोत्तरवृद्ध्यार्धनारायणबलम् इति. आदितस् तथैव प्रक्रम्य यद् दशानां प्रस्कन्दिनां बलं. तद् अर्धनारायणं. तद्द्विगुणं नारायणम् इति.
यथा तु बहुतरं. तथा युज्यत इत्य् आचार्यः. पूर्वकम् एव पक्षं समर्थयति. अन्यथा ह्य् अनन्तज्ञानबलसहिष्णुर् न स्याद् इति तद् एव कारणं. देवदत्तहतहस्तिपादांगुष्ठसप्तप्राकारपरिखाक्षेपश् [तिब्. 312अ] चान्यथा न स्याद् इति.
महाभूतविशेष एवेति. महाभूतविशेषस्वभावम् एवेदं बलं न भौतिकम् इति दर्शयति.
उपादायरूपसप्तभ्यो ऽर्थान्तरम् इति. श्लक्ष्नत्वादिभ्यः पूर्वोक्तेभ्यो ऽन्यद् एव बलं नामोपादायरूपम् इत्य् अपरे.

(विइ.38अब्) यथासूत्रम् एवेति. चत्वारीमानि शारिपुत्र तथागतस्य वैशारद्य्नि. यैर् वैशरद्यैः समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्म्यं चक्रं प्रवर्तयति पर्षदि सम्यक् सिंहनादं नदति. कतमानि चत्वारि. सम्यक्संबुद्धस्य बत मे सतो इमे धर्मा ( अभिध्-क्-व्य् 646 ) अनभिसंबुद्धा इत्य् अत्र मां कश्चिच् छ्रमणो वा ब्राह्मणो वा सह धर्मेण चोदयेत्. स्मारयेत्. तत्राहं निमित्तम् अपि न समनुपश्यामि. एवं चाहं निमित्तम् असमनुपष्यन् क्षेमप्राप्तश् च विहराम्य् अभयप्राप्तश् च वैशारद्यप्राप्तश् च उदारम् आर्षभं स्थानं प्रतिजानामि ब्राह्म्यं चक्रं प्रवर्तयामि. पर्षदि सम्यक् सिंहनादं नदामि. इदं प्रथमं वैशारद्यं. क्षीणास्रवस्य बत मे सत इमे आस्रवा अप्रहीणा इत्य् अत्र मां कश्चिद् इति पूर्ववत्. यावत् पर्षदि सम्यक् सिंहनादं [तिब्. 312ब्] नदामि. इदं द्वितीयं वैशारद्यं. ये वा पुनर् मया श्रावकाणाम् आन्तरायिका धर्मा आख्याताः. तान् प्रतिषेवमाणस्य नालम् अन्तरायायेत्य् अत्र मां कश्चिद् इति पूर्ववत्. इदं तृतीयं वैशारद्यं. यो वा पुनर् मया श्रावकाणां मार्ग आख्यातः आर्यो नैर्याणिको नैर्वेधिको निर्याति. तत्करस्य सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै स न निर्यास्यतीत्य् अत्र मां कश्चिद् इति पूर्ववत्. इदं चतुर्थं वैशारद्यम् इति. यथा स्थानास्थानज्ञानबलम् इति विस्तरः. यथा स्थानास्थानज्ञानबलं दश ज्ञानानि सर्वभूमिसंगृहीतं च. एवं सम्यक्संबुद्धस्य बत मे सत इत्य् एतद् वैशारद्यं. तथैव दशधा धर्माणां भेदं कृत्वा योज्यं. यथास्रवक्षयज्ञानबलं षट् दश वा ज्ञानानि दशभूमिसंगृहीतं च. एवं क्षीणास्रवस्येति द्वितीयं वैशारद्यम् अत्रापि तथैव धर्माणां भेदं कृत्वा षट् दश वा ज्ञानानीति योज्यं. यथा कर्मस्वकज्ञानबलम् अष्टौ ज्ञानानि निरोधमार्गज्ञाने हित्वा सर्वभूमिसंगृहीतं च. एवं य वा पुनर् मया श्रावकाणाम् आन्तरायिका इति विस्तरेण तृतीयं वैशारद्यम्. अत्रापि तथैव धर्माणां भेदं कृत्वा दुःखसमुदयसत्यसंगृहीता एवान्तरायिकाः. न निरोधमार्गसत्यसंगृहीता [तिब्. 313अ] इत्य् अष्टौ ज्ञानानीति योज्यं. यथा सर्वत्रगामिनीप्रतिपज्ज्ञानबलं दश ज्ञानानि नव वा सर्वभूमिसंगृहीतं च. एवं यो वा मया श्रावकाणां निर्याणाय मार्ग आख्यात इत्य् एतद् वैशारद्यं. अत्रापि सफलसास्रवानास्रवमार्गग्रहणतो दश ज्ञानानि. अफलतद्ग्रहणतो वा नवेति योज्यं. निर्भयता हि वैशारद्यम्. एभिश् च ज्ञानैर् निर्भयो भवतीति ज्ञानानि वैशारद्यानीति वैभाषिकाः.
आचार्य आह. ज्ञानकृतं तु वैशारद्यं. न ज्ञानम् एवेति. अथ व आचार्यवचनम् एवैतत् सर्वं. निर्भयता हि वैशारद्यं. तथा हि तद्भयप्रतिपक्षो धर्मश् चैतसिकः. भयम् अपि चैतसिको धर्म इति. एभिश् च ज्ञानैर् हेतुभूतैर् निर्भयो भवतीति. तत् कथं ज्ञानम् एव वैशारद्यं. ज्ञानकृतं तु वैशारद्यं युज्यते न ज्ञानम् एवेति.
(विइ.38च्द्) यथासूत्रम् इति त्रीणीमानि भिक्षवः स्मृत्युपस्थानानि. यान्य् आर्यः. ( अभिध्-क्-व्य् 647 ) सेवते. यान्य् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुं. कतमानि त्रीनि. इह भिक्षवः शास्ता श्रवकाणां धर्मं देशयति अनुकंपकः कारुणिको ऽर्थकामो हितैषी करुणायमानः. इदं वो हिताय इदं वो सुखाय इदं वो हितसुखाय. [तिब्. 313ब्] तस्य मे श्रावकाः शुश्रूषन्ते. श्रोत्रम् अवदधति. आज्ञाचित्तम् उपस्थापयन्ति. प्रतिपद्यन्ते धर्मस्यानुधर्मन् प्रति. न व्यतिक्रम्य वर्तन्ते शास्तुः शासने. तेन तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम्. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं प्रथमं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुम्. पुनर् अपरं शास्ता धर्मं देशयति पूर्ववत्. तस्य ते श्रावका न शुश्रूषन्ते. न श्रोत्रम् अवदधति. नाज्ञाचित्तम् उपस्थापयन्ति. न प्रतिपद्यन्ते धर्मस्यानुधर्मं. व्यतिक्रम्य वर्तन्ते शास्तुः शासने. तेन तथागतस्य नाघातो भवति नाक्षान्तिर् नाप्रत्ययो न चेतसो ऽनभिराद्धिः. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं द्वितीयं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुं. पुनर् अपरं भिक्षवः यावच् छासने तत्र तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वं. नाघातो नाक्षान्तिर् नाप्रत्ययो [तिब्. 314अ] न चेतसो ऽनभिराद्धिः. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं तृतीयं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुम् इति.
स्मृतिसंप्रज्ञानम्
इति. उभयस्वभावम् इति दर्शयति. स्मृतः संप्रजानन्न् इति वचनात्. यदा श्रावकस्यापीति विस्तरः. यदा श्रावकस्यापि हीनक्लेशस्य शुश्रूषमाणेषु च शिष्येष्व् अशुश्रूषमाणेषु च उभयेषु च शुश्रूषमाणाशुश्रूषमाणेषु च. नन्दी अनुनयो म भवति. आघातो वा द्वेषो वा.
कस्माद् एते आवेणिका असाधारणा बुद्धधर्मा उच्यंते. सवासनप्रहाणड् इति. सवासनानाम् आनम्द्यादीनां प्रहाणात्. का पुनर् इयं वासना नाम श्रावकाणां. यो हि यत्क्लेशचरितः पूर्वं. तस्य तत्कृतः कायवागचेष्टाविकारहेतुसामर्थ्यविशेषश् चित्ते वासनेत्य् उच्यते. अव्याकृतश् चित्तविशेषो वासनेति भदन्तानन्तवर्मा. अथ वेति विस्तरेणाचार्यः. यस्य श्रावका बुद्धस्य भगवतः श्रावका भवन्ति नान्यस्य. किं कारणं. शुश्रूषमाणे चाशुश्रूषमाणे चोभयस्मिंश् च शुश्रूषमाणाशुश्रुषमाणेषु [तिब्. 314ब्] उभयेषु तस्यैव श्रवकवतस् ततनुत्पादः. आनन्द्याघातानुत्पादः. आश्चर्यम् अद्भुतं ( अभिध्-क्-व्य् 648 ) व्यवस्थाप्यते. नान्यस्य श्रावकस्येत्य् अर्थः.
(विइ.39) अन्यथा हीति विस्तरः. यदि संवृतिज्ञानस्वभावा न स्याद् अद्वेषस्वभावा स्यात् करुणावत्. न सर्वसत्त्वालंबना सिध्येत्. न त्रैधातुकसत्त्वालंबना सिध्येद् इत्य् अर्थः. यथा करुणा न त्रैधातुकसत्त्वालम्बना. किं तर्हि. कामावचरसत्त्वालंबना. दुःखितसत्त्वालम्बनत्वाद् एवं सिद्धं स्याद् इत्य् अभिप्रायः. न च त्रिदुःखताकारा सिध्येद् इति वर्तते करुणावत्. यथा करुणा दुःखताकारैव न त्रिदुःखताकारा दुःखदुःखतासंस्कारदुःखताविपरिणामदुःखताकरा. तथा न स्यात्. इष्यते च त्रिदुःखताकारेति. अतः संवृतिज्ञानस्वभावेति. महच्छब्दवाच्यताकारणं दर्शायन्न् आह.

कस्माद् इयम् इत्यादि. संभारेण महापुण्यज्ञानसंभारसमुदागमाद् इति. महापुण्यसंभारसमुदागमात्. महाज्ञानसंभारसमुदागमाच् चेत्य् अर्थः. तत्र महापुण्यसंभारस् तिस्रः पारमिताः. [तिब्. 315अ] दानशीलक्षान्तिपारमिताः. महाज्ञानसंभारः प्रज्ञापारमिता. वीर्यध्यानपारमिते तु द्विधा उभयत्रव्यापारात्. न हि विना वीर्येण दानं दीयते शीलं समादीयते क्षान्तिर् भाव्यत इति महापुण्यसंभारभागीयं वीर्यं भवति. तथा नान्तरेण वीर्यं प्रज्ञा भवतीति महाज्ञानसंभारभागीयं भवति. तथा मैत्र्यादिचतुर्विधाप्रमाणभावनापक्षं ध्यानं महापुण्यसंभारभागीयं. स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपक्षधर्मभावनापक्षं ध्यानं महाज्ञानसंभारभागीयं. तद् एवं महापुण्यज्ञानसंभाराभ्यां समुदागमान् निर्वृत्तेर् महतीयं करुणेति महाकरुणा. आकारेण त्रिदुःकताकरणात्. यस्मात् तिसृभिर् अपि दुःखताभिर् आकारयति न दुःखदुःकतयैव करुणावत्. आलम्बनेन त्रैधातुकसत्त्वालंबनत्वात्. यस्मात् त्रैधातुकोपपन्नन् सत्त्वान् आलम्बते न च कामधातूपपन्नान् एव करुणावत्.
कामसत्त्वास् तु गोचर
[तिब्. 315ब्] इति वचनात्. समत्वेन सर्वसत्त्वेषु समवृत्तित्वात्. यस्मात् सर्वसत्त्वेषु त्रैधातुकपर्यापन्नेषु समं वर्तते संस्कारदुःखताकारेण. अतो ऽपि महाकरुणेत्य् उच्यते. ततो ऽधिमात्रतराभावाद् इति. प्रज्ञास्वभावतया तीक्ष्णतरत्वात्. यथा हि तया करुणायते. न तथा करुणयेति. नानाकरणं विशेषः.
अद्वेषामोहस्वभावत्वाद् इति. यथाक्रमं करुणाया अद्वेषस्वभावत्वात्. महाकरुणायाश् चामोहस्वभावत्वाद् इत्य् अर्थः. एकत्रिदुःखताकारत्वाद् इति. एकदुःखताकारत्वात् करुणायाः. त्रिदुःखाकारत्वाच् च महाकरुणायः. इत्य् ( अभिध्-क्-व्य् 649 ) उभयत्रापि सर्वत्र याथासंख्येन योजयितव्ग्यं. चतुर्ध्यानचतुर्थध्यानभूमिकत्वाद् इति. करुणा चतुर्ध्यानभूमिक. अनागम्यध्यानान्तरयोः प्रथमध्यानग्रहणेन ग्रहणान् न षड्भूमिकेत्य् उक्तं. महाकरुणा तु चतुर्थध्यानभूमिकैव सर्वसमाधिकर्मण्यत्वेन तस्यैव तदुत्पादनसमर्थत्वात्. श्रावकादिबुद्धसंतानजत्वाद् इति. आदिशब्देन प्रत्येकबुद्धपृथग्जनां ग्रहणं. कामभवाग्रवैराग्यलभ्यत्वाद् इति. कामवैराग्यलभ्या करुणा. [तिब्. 316अ] भवाग्रवैराग्यलभ्या महाकरुणा. अपरित्राणपरित्राणत इति. करुणया श्रावकादयः करुणायन्त एव केवलं अनुग्लायंत्य् एवेत्य् अर्थः. न संसारभयात् परित्रायन्ते. महाकरुणया तु करुणायमानो भगवान् महतः संसारभयात् परित्राय्ते. अतुल्यतुल्यकरुणायनात्. करुणयातुल्यं करुणायते. दुःखितानाम् एव करुनायनात्. महाकरुणया तु तुल्यं सर्वसत्त्वसमक्रुणायनात्.
(विइ.40) पूर्वपुण्यज्ञानसंभारसंउदागमत इति. पूर्वेषु जन्मसु पुण्यसंभारेण पूर्वोक्तेन ज्ञानसंभारेण च समुदागमतः. धर्मकायपरिनिष्पत्तित इति. अनास्रवधर्मसंभारसंतानो धर्मकायः. आश्रयपरिवृत्तिर् वा. अर्थचर्यया चेति. स्वर्गापवर्गकारणम् अर्थो लोकस्य. तस्य संपादनम् अर्थचर्या. तुल्या हि सर्वेषां बुद्धानां महाकरुणा परार्थहेतुः. यथाकालम् इति. सर्वत्राभिसंबध्यते. कथं. चिराल्पजीवनाद् यथाकालं दीर्घायुषि प्रजायां दीर्गायुषो बुद्धा भवन्ति. अल्पायुष्य् अल्पायुषः. यथासंभवं क्षत्रियगुरुके लोके क्षत्रिया भवन्ति. ब्राह्मणगुरुके ब्राह्मणाः. यथाकालम् एव च काश्यपादिगोत्राः. [तिब्. 316ब्] गौतमादिगोत्राश् च. तथाल्पप्रमाणे लोके ऽल्पप्रमाणाः. अनल्पप्रमाणे ऽनल्पप्रमाणा इति. हेतुसंपदं पुण्यज्ञनसंभारलक्षणां. फलसंपदं धर्मकायलक्षणां. उपकारसंपदं जगदर्थचर्यालक्षणां. सर्वगुणज्ञानसंभाराभ्यास इति. गुणाः पंचपारमितास्वभावाः. ज्ञानानानि च प्रज्ञापारमितास्वभावानि. तेषां गुणज्ञानानां संभारः. तस्याभ्यासः पुनःपुमह्प्रयोगः. दीर्घकालाभ्यासस् त्रिभिर् असंख्येयैर् महाकल्पैः. निरन्तराभ्यासो ऽसान्तरतया. सत्कृत्यभ्यासस् तीव्रादरतया. चतुर्विधा फलसंपद् इति. धर्मकायपरिनिष्पत्त्या ज्ञानादिसंपदश् चतस्रो भवन्तीति ता अपि फलसंपद इति व्यवस्थाप्यन्ते. ज्ञानसंपच् चतुर्विधेति वक्ष्यति. तथा प्रहाणसंपत् प्रभावसंपत् रूपकायसंपच् च चतुर्विधेति वक्ष्यति. तद् एवासां व्याख्यानं भविष्यति. चतुर्विधोपकारसंपत्. क्थम् इत्य् आह. अपायत्रयसंसारदुःखत्यन्तनिर्मोक्षसंपद् इति. अपायत्रयं च नरकादि संसारश् च. तयोर् दुःखं. ( अभिध्-क्-व्य् 650 ) ततो ऽत्यन्तनिर्मोक्षः. सैव संपद् इति. यानत्रयसुगतिप्रतिष्ठापनसंपद् [तिब्. 317अ] वेति. यानत्रये च श्रावकयानादौ. सुगतौ च प्रतिष्ठापनं. सैव संपद् इति. इयं वा चतुर्विधोपकारसंपत्. अनुपदिष्टज्ञानम् इति स्वयम् अभिसंबोधनार्थेन. सर्वत्रज्ञानम्न् इति निरवशेषस्वलक्षणावबोधनार्थेन. सर्वथाज्ञानम् इति. सर्वप्रकारावबोधनार्थेन. अयत्नज्ञानम् इतीच्छामात्रावबोधनार्थेन सर्वक्लेशप्रहाणम् इति त्रैधातुकदर्शनभावनाहेयक्लेशोच्छित्तेः अत्यन्तप्रहाणम् इत्य् अपरिहाणितः. सवासनप्रहाणम् इति. अनुबंधाभावतः. सर्वसमापत्त्यावरणप्रहाणम् इत्य् उभयतोभागविमुक्तेः. बाह्यविषयनिर्माणपरिणामाधिष्ठानवशित्वसंपद् इति. तत्रापूर्वबाह्यविषयोत्पादनं निर्माणम्. अश्मादीनां सुवर्णादिभावापादनं परिणामः. दीर्घकालावस्थानम् अधिष्ठानम् इति. आयुष उत्सर्गे ऽधिष्ठाने च वशित्वसंपद् आयुरुत्सर्गाधिष्ठानवशित्वसंपद् इति. आवृतेति विस्तरः. आवृतगमनं चाकाशगमनं च सुदूरक्षिप्रगमनं च. ब्राह्मणाद् इत्य् अनवद् एकशेषः. अल्पे बहूनां प्रवेशः. परमाणौ बहूनां हस्त्यादीनां [तिब्. 317ब्] प्रवेशः. स चेत्य् आवृताकाशासुदूरक्षिप्रगमनाल्पबहुपहुप्रवेशः. तयोर् वशित्वसंपद् इति योज्यं. विविधा नानाप्रकारा निजाः स्वाभाविकाः. के. आश्चर्यधर्माः. तेषां संपद् इति योज्यं. धर्मतैषा बुद्धानां भगवतां यत् तेषां गच्छतां निम्नस्थलं च समीभवति. यद् उच्चं. तन् निचीभवति. यन् नीचं. तद् उच्चीभवति. अंधाश् चक्षूंषि प्रतिलभंते. बधिराः श्रोत्रम्. उन्मत्ताः स्मृतिम् इति यथासूत्रं सर्वम् अनुसर्तव्यं. लक्षणसंपद् इति. द्वात्रिंशतां महापुरुषलक्षणानाम् ऊर्णोष्णीषादीनां संपत्. अनुव्यंजनसंपद् इति. वृत्तांगुलिताम्रतुंगनखत्वादीनां अशीतेर् अनुव्यंजनानां संपत्. बलसंपन् नारायणं बलं. वज्रसाराण्य् अस्थीन्य् अस्येति वाज्रसारास्थि. वज्रसारास्थिशरीरम् अस्येति वज्रसारास्थिशरीरः. तद्भावः. तस्य संपद् इति. वज्रसारास्थिशरीरतासंपद् इति.

एतत् सामासिकं सांक्षेपिकं. ये केचित् प्रसादजाताः सत्पुरुषा बुद्धं भगवन्तम् अस्ताविषुः स्तुवन्ति स्तोष्यंति वा. सर्वे ते एतयैव त्रिविधया संपदेति. यद्य् अनेका असंख्येयाः कल्पा अस्येत्य् अनेकासंख्येयकल्पं जीवितं. तद् यद्य् अधितिष्ठेयुर् बुद्धा भगवन्तः. [तिब्. 318अ] एवं ते सकलं तन्माहात्म्यं ज्ञातुं वक्तुं वक्तुं च समर्थाः. तस्यानन्तप्रभेदत्वेनातिबहुत्वाद् इत्य् अब्जिप्रायः. एवं च तावद् इति विस्तरः. गुणाश् च ज्ञानानि च प्रभावश् ( अभिध्-क्-व्य् 651 ) चोपकारश् चेति द्वंद्वः. अनन्ताश् च ते ऽद्भुताश् चेति पुनः कर्मधारयः. एत एव महारत्नानि. तेषाम् आकरास् तथागताः. अथ च पुनर् बालाः पृथग्जनाः स्वगुणदारिद्र्येणानुमानभूतेन हताधिमोक्षा हतरुचयः यावद् बुद्धं नाद्रियंते बुद्धे नादरं कुर्वन्तीत्य् अर्थः. श्रद्धामात्रकेणापीति. निरधिगमेनेत्य् अर्थः. अनियतविपाकानाम् इति. नियतविपाकानाम् अलंघनीयत्वाद् इत्य् अभिप्रायः. देवेषु भस्वा दैवी. अवंध्येष्टप्रकृष्टाशुस्वंतफलत्वाद् इति. अवंध्यफलं फलदाननैयम्येनावस्थानात्. इष्टफलं दिव्यविषयफलत्वात्. प्रकृष्टफलं प्रभूतफलत्वात्. आशुफलं दृष्टधर्मादिवेदनीयफलत्वात्. स्वन्तफलं निर्वाणाफलत्वात्. तद्भावात्. अनुत्तरं पुण्यक्षेत्रम् उच्यंते तथागता इति. कारान् इत्य् उपकारान् पूजादिकान्.
(विइ.41) यथायोगम् इति. यथासंभवं. [तिब्. 318ब्] केचिद् गुणाः श्रावकसाधारणा बुद्धानां भगवतां अरणाप्रणिधिज्ञानादयः. केचित् पृथग्जनसाधारणाः अभिज्ञाध्यानाराप्यादयः. आदिशब्देन शून्यतानिमित्ताप्रणिहितादयो गृह्यन्ते.
(विइ.42) न कस्यचित् तदालंबनो राग उत्पद्यते द्वेषो मानो वेति. तेनात्मनो दर्शनादिपरिहारात्. यथायथा च तेनाभिसमितं भवत्य् अरणासमाधेर् अभ्युत्थितेनास्य मां दृष्ट्वा राग उत्पत्स्यते अस्य द्वेषः अस्य मान अस्याप्रसाद उत्पत्स्यते इति. तथातथा व्युत्थितो ऽपि तस्मात् समाधेर् अनुवेष्टते. परचित्तरक्षणोपायविशेषे तु तस्यारणासमाधेर् उत्पत्तिमात्रसामर्थ्याद् एव परेषां क्लेशो नोत्पद्यत इत्य् अर्थो गृह्यते. रणयतीति क्लेशयतीत्य् अर्थः. सुखप्रतिपदाम् अग्रत्वाच् चतुर्थध्यानस्य तद्भूमिकैवारणा. नान्यध्यानभूमिका. परिहर्तुं न शक्नोतीति परिहाणि संभवात्.
सवस्तुकाः क्लेशाः.
के. रागादयो भावनाप्रहातव्याः. अवस्तुकाः क्लेशा दर्शनप्रहातव्याः. सर्वत्रगाः सकलस्वभूम्यालंबनत्वात् परसंतत्यालंबना अपि भवन्तीति. परिहर्तुम् अशक्याः सर्वत्रगाः. [तिब्. 319अ]
(विइ.43) सर्वालंबनं तु तद्
इति. सर्वम् आलंबत इति सर्वालंबनं. सर्वो वास्यालंबन इति सर्वालम्बनं. नारणावत् क्लेशमात्रालम्बनं. किं तर्हि. रूपाद्यालंबनम् अपीत्य् अर्थः. आरूप्यस् तु न साक्षात् प्रणिधिज्ञानेन ज्ञायन्ते. किम् कारणं. यस्मात् प्रणिधिज्ञानं चतुर्थध्यानभूमिकं. वक्ष्यति च
स्वधोभूमिविषयाभिज्ञा

इति. प्रणिधिज्ञानं चाभिज्ञावत् भवतीति. निष्यन्दचरितविशेषाद् इति. तत्र निष्यंदो मन्दमन्दता. चरितम् आरूप्यसमापत्तिविहारः. तद् एवं कार्येणास्यानुमानं. कारणेन च कार्यास्येति परिदीपितम्. ततः प्रच्युतानां तत्समापत्तिलाभिणां च तद् उभयं प्रत्यक्षं. कार्षकनिदर्शनं चात्रेति. यथा कार्षकः फलेन बीजं प्रतिपद्यते. बीजेन वा फलम् इति. यथा वा कार्षको जानीते ईदृशे क्षेत्रे ईदृशाफलं धान्यं भविष्यतीति. धान्यं वा दृष्ट्वा क्षेत्रम् अनुमिनोति. ईदृशम् अस्य क्षेत्रम् इति. एवं शान्तमूर्तिं सत्त्वं दृष्ट्वा अनुमिनोति आरूप्याच् च्युतो ऽयम्. आरूप्येषु चोपपत्स्यत इति. वैभाषिका इति वचनं. परेषाम् अस्त्य् अनेनारूप्यज्ञानम् इति सूचयति. न हि बुद्दानाम् अस्त्य् अविषय इत्य् अभिप्रायः. [तिब्. 319ब्] प्रणिधिपूर्वकम् इत्य् आभोगपूर्वकं. प्रणिधायाभुज्येत्य् अर्थः. यावांस् तत्समाधिविषय इति. यावां च्छ्रावकस्य विषयः. तावज् जानाति. प्रत्येकबुद्धस्य च यावत्स्वविषय इत्यादि.
(विइ.43-45) धर्मप्रतिसंविद् इति. इह देशनाधर्मः. अनेकार्थो हि धर्मशब्दः. तद्यथा धर्मं वो भिक्षवो देशयिष्यामि. आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयिष्यामिति, अत्र देशनाधर्मः. धर्मः कतमः. आर्याष्टांगमार्ग इत्य् अत्र प्रतिपत्तिधर्मः. तथा धर्मं शरणं गच्छेतेत्य् अत्र फलधर्मो निर्वाणम् इत्यादि. अविवर्त्यम् इति. अशक्यं विवर्तयितुं. अकोप्यधर्ममनुष्याश्रयत्वम् इति तथाशब्देनेदम् एवार्थद्वयं संबध्यते. आलम्बनादीनां पृथग्वचनात्. युक्तमुक्ताभिलापितायाम् इति. युक्तम् अर्थसंबंधं. मुक्तम् असक्तं. युक्तमुक्तम् अभिलपतीति युक्तमुक्ताभिलापी. तद्भावः. तस्यां. युक्तमुक्ताभिलापितायां. समाधौ वशी समाधिवशी. समाधिवशिनः संप्रख्यानम् असंमोषः. समाधिवशिसंप्रख्यानं. [तिब्. 320अ] तत्र चाविवर्त्यं ज्ञानं प्रतिभानप्रतिसंविद् इति विशेषः. कथं. नवज्ञानस्वभावा प्रतिभानप्रतिसंवित्. या वागालम्बना. सा दुःखसमुदयधर्मान्वयक्षयानुत्पादसंवृतिज्ञानस्वभावा. या मार्गालम्बना. सा मार्गधर्मान्वयक्षयानुत्पादपरचित्तसंवृतिज्ञानस्वभावेत्य् अभिसमस्य नवज्ञानस्वभावा अन्यत्र निरोधज्ञानात्. सर्वधर्माश् चेद् अर्थो दश ज्ञानानीति. न हि सो ऽस्ति धर्मः. यो दशानां ज्ञानानां यथासंभवं नालम्बनीभवति. निर्वाणां चेद् अर्थः षट् ज्ञानानीति. निरोधज्ञानस्य धर्मज्ञानादिपंचस्वभावत्वात्. ( अभिध्-क्-व्य् 653 ) नामकायादिवागालम्बनत्वाद् इति. न हि दुःखादिज्ञानम् अनास्रवं दुःखैकदेशं समुदयैकदेशं वा स्वलक्षणाकारेणालम्बते. किं तर्हि. पंचोपादानस्कंधान् सामान्यलक्षणाकारैः. अतस् ते संवृतिज्ञानस्वभावे इति. ऊर्ध्वं नामकायभावाद् इति. आरूप्यधातौ धर्मप्रतिसंविन् नास्तीति. यत्र च नामकायाः. तत्रैव पदव्यञ्जनकाया इति [तिब्. 320ब्] तुल्यवार्त्ता. नामकायभाववचनेन पदव्यञ्जनकायाभावसिद्धिः. ऊर्ध्वं वितर्काभावाद् इति. द्वितीयध्यानादिषु. वितर्क्य विचार्य वाचं भाषत इति सूत्रं नामाद्यालम्बनत्वं पुनर् आसां प्रतिसंविदां समापन्नस्यापि. व्युत्थितस्यापि तत्पृष्ठलब्धैर् अविवर्त्यैर् ज्ञानैर् नामाद्यालम्बनत्वं. भाषणं पुनस् तत्पृष्ठेनैव. स्त्रीपुरुषाद्यधिवचन इति. आदिशब्देन कालकारकादिसंग्रहः. अधिवचनं पुनः पर्यायः. तद् अधिकृत्य वा वचनं तदधिवचनं. तस्यासक्ततायाम् इति. तस्याधिवचनस्य तस्य पदव्यञ्जनस्य वा. अत एवासां क्रमसिद्धिर् इति. यतः पदव्यञ्जनानुसारेणार्थप्रतिपत्तिः. तस्यैकद्विबहुस्त्रीपुरुषाद्यधिवचनं तस्यासक्ततेत्य् अतः क्रमसिद्धिर् इति.
तस्माद् रूपम् इत्य् एवंआदीति. आदिशब्देन विजानातीति विज्ञानं. चिनोतीति चित्तम् इत्य् एवमादि संग्रहतः. उत्तरोत्तरप्रतिभा प्रतिभानम् इति वादन्यायेन. यथाक्रमम् इति. धर्मप्रतिसंविदो गणितं पूर्वप्रयोगः. अर्थप्रतिसंविदो बुद्धवचनं. निरुक्तिप्रतिसंविदः शब्दविद्या. प्रतिभानप्रतिसंविदो हेतुविद्येति. बुद्धवचनम् एवेति वैभाषिकाः.
(विइ.46) तत् षड्विधम्
इति. [तिब्. 321अ] किंचिच् चतुर्थं ध्यानम् अरणात्मकं. किंचित् प्रणिधिज्ञानात्मकं. किंचित् त्रिप्रतिसंविदात्मकं. किंचित् तद्व्यतिरिक्तं केवलं प्रान्तकोटिकम् इति. तिस्रः प्रतिसंविद इति. निरुक्तिप्रतिसंविदं मुक्त्वा तत्र वितर्काभावात्. सवितर्कविचारेण तदुत्थापनं. कथं तर्ह्य् अविशेषेणैतद् उक्तं.
षड् एते प्रान्तकोटिका
इति. एते उच्यन्ते. निरुक्तिप्रतिसंविदः तद्बलेन लाभो न तु सा चौर्थध्यानभूमिका. किं तर्हि. कामधातुप्रथमध्यानभूमिकेत्य् अर्थः.
सर्वभूम्यनुलोमितम्
इति. सर्वभूम्यनुकूलितम् इत्य् अर्थः. प्रगता अन्ता कोटिर् अस्येति. प्रगता अन्तं प्रान्ता. प्रान्ता कोटिर् अस्येति प्रान्तकोटिका. चतुष्कोटिकवद् इति. यथा चतुष्कोटिकश् चतुःप्रकारप्रश्नः. तद्वत्.

(विइ.47-50) ऋद्धिविषयेति विस्तरः. षड् अभिज्ञाः. ऋद्धिविषयज्ञानसाक्षात्क्रियादिव्यश्रोत्रचेतःपर्यागपूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा इति. सूत्रं चात्र. इह भिक्षुर् अनेकविधम् ऋद्धिविषयं प्रत्यनुभवति. एको भूत्वा बहुधा भवति बहुधाभूत्वा एको भवतीति विस्तरग्रंथ ऋद्धिपादा इत्य् अत्र लिखितो द्रष्टव्यः. यावद् इयम् उच्यते ऋद्धिविषयज्ञानसाक्षात्क्रियाभिज्ञेति. इह भिक्षुर् दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण उभयां च्छब्दान् शृणोति मानुषान् अमानुषान् अपि ये वा दूरे [तिब्. 321ब्] ये वान्तिक इति. इयं उच्यते दिव्यश्रोत्रज्ञानसाक्षात्क्रियाभिज्ञा. इख भिक्षुर् दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यतीति बहुः सूत्रवद् ग्रन्थः. यावद् इयम् उच्यते दिव्यचक्षुर्ज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुर् अनेकविधं पूर्वनिवासम् अनुस्मरतीति बहुः सूत्रवद् ग्रन्थः. यावद् इयम् उच्यते पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुः परसत्त्वानां परपुद्गलानां वितर्कितं विचरितं मनसा मानसं यथाभूतं प्रजानाति. सरागचित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं विगतरागम् इति यथाभूतं प्रजानाति. सद्वेषं विगतद्वेषं समोहं विगतमोहं विक्षिप्तं संक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतम् अव्युपशान्तं व्युपशान्तं समाहितम् असमाहितम् अभावितं भावितम् अविमुक्तं चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति. विमुक्तं चित्तं विमुक्तं चित्तम् इति यथाभूतं प्रजानाति. इयम् उच्यते चेतःपर्यायज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुर् इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् [तिब्. 322अ] इति यथाभूतं प्रजानाति. तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते. भवास्रवाद् अविदास्रवाच् चित्तं विमुच्यते. विमुक्तस्य विमुक्तो ऽस्मीति ज्ञानदर्शनं भवति. क्षीणा मे जातिर् यावन् नापरम् अस्माद् भवं प्रजनामीति. इयम् उच्यते आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा. ऋद्धिः समाधिः. ऋद्धिविषयो निर्माणं गमनं च. ऋद्धिविषये ज्ञानं. तस्य साक्षात्क्रिया संमुखीभावः. ऋद्धिविषयज्ञानसक्षात्क्रियाभिज्ञा. दिव्यं श्रोत्रं. तत्र ज्ञानं. तस्य साक्षात्क्रिया दिव्यश्रोत्रज्ञानसाक्षत्क्रिया. चेतःपर्यायो विशेषः. रक्तं द्विष्टं मूढम् इति वा क्रमो वा पर्यायः. कदाचिद् रक्तं कदाचिद् द्विष्टं मूढं चेति. तत्र ज्ञानं. तस्य साक्षात्क्रिया. पूर्वेनिवासः स्कंधेग इवालुक्. तस्यानुस्मृतिः तत्र ज्ञानं. तस्य साक्षात्क्रियेति. ( अभिध्-क्-व्य् 655 ) च्युतिश् चोपपादश् च च्युत्युपपादौ. तयोर् ज्ञानं. तस्य साक्षात्क्रिया. आस्रवाणां क्षयः. तत्र ज्ञानं. तस्य साक्षात्क्रियाभिज्ञेति प्रत्येकम् अभिसंबंधः. श्रामण्यफलवद् इति. यथा संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावं. तद्वत्.
चेतसि ज्ञानपंचकम्
इति. चेतसि चेतःपर्यायैर् याभिज्ञा. [तिब्. 322ब्] सा ज्ञानपंचकस्वभावेत्य् अर्थः. अनास्रवस्य परचित्तज्ञानस्य धर्मान्वयमार्गपरचित्तज्ञानत्वसंभवात्. सास्रवस्य च संवृतिपरचित्तज्ञानसंभवात्.
बलं यद्वद्
इति. यथास्रवक्षयज्ञानबलम्. आस्रवक्षयज्ञानम् आस्रवक्षयालम्बनम् इति चेत्. षट् ज्ञानानि. निरोधज्ञानस्य धर्मान्वयक्षयानुत्पादज्ञानसंज्ञितत्वात्. संवृतिज्ञानस्य च निरोधालम्बनत्वसंभवात्. आस्रवक्षये सति यज् ज्ञानं. क्षीणास्रवसंताने तज् ज्ञानम् इति चेत्. दश ज्ञानानि. क्षीणास्रवसंताने दशज्ञानसद्भावात्. एवम् आस्रवक्षय आलम्बनभूते याभिज्ञा. सा चेद् आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा. षट् ज्ञानानि. तद्वत्. आस्रवक्षये सति याभिज्ञा. सा चेद् दश ज्ञानानि. तद्वद् इति. सर्वभूमिकाप्य् एषेति.
बलम् यद्वद्
इत्य् अनेनैव वचनेनायम् अर्थो लभ्यते. यस्माच् च
पंचैव ध्यानचतुष्टय
इत्य् अवधार्यते. तस्माद् अपीयम् षष्ठ्य् अभिज्ञा सर्वभूमिकेति गम्यते.
तिस्रस् तावन् न सन्तीति. ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा. कस्मात्. रूपालंबनत्वात्. न ह्य् आरूप्याणां रूपम् आलंबनम्. विभूतरूपसंज्ञात्वात्. रूपतीर्थाभिनिष्पाद्यत्वाद् [तिब्. 323अ] इति. रूपत्वद्वारनिष्पाद्यत्वात् रूपालंबनमार्गनिष्पाद्यत्वाद् इत्य् अर्थः. ईदृशे रूपे ईदृशं चित्तं भवतीति न चारूप्याणां रूपम् आलंबनं. पूर्वेनिवासानुस्मृतिर् अपि नास्त्य् अनुपूर्वावस्थान्तरस्मरणाभिनिष्पत्तेः. यस्माद् अनुपूर्वम् आत्मनो ऽवस्थान्तराणि स्मरन्तो निष्पादयन्ति. न चारूप्याणां कामावचरा धर्मा आलंबनं. वक्ष्यति हि
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इति. तानि चावस्थान्तराण्य् आत्मनः कामावचराण्य् अभिनिष्पादनकाले तस्यालम्बनम् इत्य् एतस्मात् तद्भूमिका नास्तीति. स्थानगोत्राद्यालम्बनत्वाच् च. तस्माद् अपि च्युतो ऽमुत्रोपपन्नः. तथा हि सूत्र उक्तं. अमी नाम ( अभिध्-क्-व्य् 656 ) ते सत्त्वाः. यत्राहम् अभूवम् एवंनामा एवंगोत्र एवंजातिर् एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुर् एवंचिरस्थितिक एवमायुष्पर्यन्तः. यो ऽहं तस्माच् च्युतो ऽमुत्रोपपन्नः. तस्माद् अपि च्युतो [ऽमुत्रोपपन्नः तस्माच् च्युत] इहोपपन्न इति साकारं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरतीति. न चारूप्याः स्थानगोत्राद्यालम्बनाः [तिब्. 323ब्] अधोभूम्यालम्बनाश् चेत्य् एतस्माद् अपि कारणान् नारूप्यभूमिकाः. कथं परचित्तज्ञानं रूपतीर्थाभिनिष्पाद्यम् इत्य् अत आह. परचित्तं हि ज्ञातुकाम इति विस्तरः. आभुजत इति. आभोगं कुर्वतः. निमित्तं उद्गृह्येति. चित्तप्रकारं परिच्छिद्येत्य् अर्थः. तत्प्रातिलोम्येनेति. तस्यैव चित्तस्य प्रतीपं समनन्तरनिरुद्धान्य् अवस्थान्तराणि मनसिकरोति. विलंघ्यापि स्मरणम् इति. एकं जन्म द्वे वा विलंघ्यापि व्यतिक्रम्यापि स्मरणं. शुद्धावासानां कथं स्मरणम् इति. यद्य् अनुभूतपूर्वस्यैव स्मरणं. न हि शुद्धावासानाम् इहागमनम् अस्त्य् अनागामित्वात्. तेन नैषाम् इहानुभूतिः. नापि तत्र. पृथग्जनानां तत्रानुपपत्तेः. श्रवणेवानुभूतत्वाद् इति. श्रुतं हि तेन भवति. शुद्धावासा नाम देवा एवंभूता इति. द्विविधो ह्य् अनुभवो दर्शनानुभवः श्रवणानुभवश् च. परसंतत्यधिष्ठानेनोत्पादनम् इति. ध्यानसंगृहीतं पूर्वेनिवासानुस्मृतिज्ञानं. तेन चारूप्यावचरं चित्तं न गृह्णाति. कथं च पुनः परसंतत्यधिष्ठानेनोत्पादनं. समनंतरनिरुद्धान् मनोविज्ञानात् परकीयान् निमित्तम् उद्गृह्येति विस्तरः. अन्येषाम् इति. य आरूप्येभ्यो न प्रच्युताः. तेषां स्वसंतत्यधिष्ठानेनैवोत्पादनं पूर्वेनिवासानुस्मृतिज्ञानस्य सुकरत्वात्.
ऋद्ध्यादीनाम् इति. ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञानां [तिब्. 324अ] तिसृणां यथाक्रमं लघुत्वमनसिकरणम् ऋद्धेः प्रयोगः. शब्दमनसिकरणं दिव्यश्रोत्रस्य. आलोकमनसिकरणं दिव्यचक्षुषः.

कथम् एता लभ्यंत इति प्राप्तिम् अधिकृत्य प्रश्नः. संमुखीभावस् तु चितानाम् अनुचितानां च प्रयोगत एव. अनुचिताः प्रयोगत इति. वैशेषिक्यो या अनुत्पादितपूर्वाः. सर्वासां तु प्रयोगेनोत्पादनम् इति. याश् च वैराग्याल् लभ्यन्ते. याश् च प्रयोगतः. तासां सर्वासां.
अन्यत्र शब्दाद् इति उच्छेदित्वाच् छब्दो न निर्मीयते. वक्ष्यति हि.
कामाप्तं निर्मितं बाह्यं चतुरायतनम्
इति.
कथं तर्हीति विस्तरः. यदि चक्षुरभिज्ञा रूपायतनालम्बना कथं तर्हि च्युत्युपपादज्ञानेनामी बत भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्य् एवमादि. न वाङ्मनस्कर्मसमन्वागमाश् चक्षुर्विज्ञानेन गृह्यन्ते. आदिशब्देन मिथ्यादृष्टिग्रहणम्. न तद् इति. तद् वाङ्मनस्कर्मसमन्वागमादि तेन चक्षुर्ज्ञानेन न जानाति. केन तर्हीत्य् आह. अभिज्ञापरिवारज्ञानं तु तद् इति. मानसं तद् इत्य् अर्थः. शेषे इति. पूर्वेनिवासानुस्मृत्यास्रवक्षयाभिज्ञे ते चतुःस्मृत्युपस्थानस्वभावे. [तिब्. 324ब्] कथम्. आस्रवक्षयाभिज्ञा चतुःस्मृत्युपस्थानस्वभावा दशज्ञानस्वभावत्वत्. षट्ज्ञानस्वभावत्वे ऽपि कायवेदनाचित्तस्मृत्युपस्थानान्य् अप्य् अनागतानि भाव्यन्ते.
कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः. न हि द्वितीयादिध्यानभूमिकं चक्षुर्ज्ञानं श्रोत्रज्ञानं वास्ति. चक्षुह्श्रोत्रविज्ञानसंप्रयुक्तत्वात्. तयोश् च द्वितीयादिषु ध्यानेष्व् अभावात्. वक्ष्यति हि
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत्
द्वितीयादौ तद् आद्याप्तम्
इति. आश्रयवशेनेति विस्तरः. चक्षुःश्रोत्राश्रयवशेन तज्ज्ञानयोर् अपि चतुर्ध्यानभूमिकत्वं. चक्षुह्श्रोत्रे चतुर्ध्यानभूमिके व्यवस्थाप्येते. प्राधानिक एष निर्देशो बाहुलिको वेति. प्रधाने भवः प्राधानिकः. एवं बाहुलिकः. कुशला अभिज्ञाः प्रधानभूताः. अतस् तदपेक्षया निर्देशः क्रियते. कुशला प्रज्ञाभिज्ञेति. अथ वा बाहुल्येनाभिज्ञाः कुशलाः. अत एवं निर्देश इति. मुद्गादिभावे ऽपि माषराशिव्यपदेशवत्.
(विइ.51) पूर्वन्तादौ निवर्तनात्
यावद् यथाक्रमम् इइत्. भगवद्विशेषादयस् तावद् आहुः. पूर्वान्तसंमोहं पूर्वेनिवासानुस्मृत्या निवर्तयति. च्युत्युपपादाभिज्ञय [तिब्. 325अ] मध्यसंमोहम्. आस्रवक्षयाभिज्ञयापरान्तसंमोहं. नापरम् अस्माद् भवं प्रजानामीति. तेषां व्याख्यानकाराणाम् अभिप्रायः. अतीतः प्रत्युत्पन्नो ऽनागतो ऽध्वेत्य् अध्वानुक्रमः. तस्माद् एवम् अर्थगतिर् इति.
आचार्यसंघभद्रस् तु व्याचष्टे. पूर्वान्तादौ निवर्तनात्. पूर्वेनिवासाभिज्ञा हि पूर्वान्तसंमोहं व्यावर्तयति. अपरान्तसंमोहं च्युत्युपपादाभिज्ञा. मध्यसंमोहम् आस्रवक्षयाभिज्ञा. इत्य् अतश् च तिसृणाम् एव विद्यात्वं पूर्वयात्मपरविपद्दर्शनात् संवेगोत्पत्तेः. परया परेषाम् एव. तथा संविग्नस्य भूतार्थावगमात् तृतीययेति. किम् अत्र प्रतिपत्तव्यं. ( अभिध्-क्-व्य् 658 ) आचार्यसंघभद्रव्याख्यानम् एव युक्तरूपं पश्यामः. आचार्यस्यापि तथैवाभिप्रायो लक्ष्यते. तथा हि पूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास् तिस्र इत्य् उक्त्वाह. एता हि पूर्वान्तापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् इति. कथं पुनर् गम्यतेति तिस्र एवाभिज्ञास् तिस्रो विद्या इति. यस्माद् एवम् आह. अशैक्षी [तिब्. 325ब्] पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रिया विद्या. अशैक्षी च्युत्युपपादज्ञानसाक्षात्क्रिया विद्या. अशैक्ष्य् आस्रवक्षयज्ञानसाक्षात्क्रिया विद्येति विद्यात्रयव्यवस्थापनानुसूत्राद् एव. एवं ह्य् आह. त्रिपिटो भवति त्रिविद्य इति. अशैक्षी विद्येति. अनास्रवत्वाद् इत्य् अभिप्रायः. नैव र्त्तते पूर्वेनिवासच्युत्युपपदाभिज्ञे न शैक्ष्यौ नाशैक्ष्यौ सास्रवत्वात्.
(विइ.52) त्रीणि प्रातिहार्याणि यथाक्रमम् इति. ऋद्धिविषयाभिज्ञा ऋद्धिप्रातिहार्यं. चेतःपर्यायाभिज्ञा आदेशनाप्रातिहार्यं. ईदृशं ते चित्तम् इति. आस्रवक्षयाभिज्ञा अनुशासनप्रातिहार्यं. यथाभूतोपदेश इत्य् अर्थः. प्रातिशब्दयोर् आदिकर्मभृशार्थत्वाद् इति. प्रशब्द आदिकर्मार्थः. इदम् अनेन कर्म प्रारब्धम् इति. अतिशब्दश् च भृशार्थः अतिगत इति. तद् इदम् उक्तं भवति. विनेयमनसाम् आदित आदौ अतिभृशं हरंत्य् एभिर् इति प्रातिहार्याणि. प्रतिहतमध्यस्थानाम् इति. नैरुक्तं विधिम् आश्रित्योक्तं. वर्णागमो वर्णविपर्ययश् चेति योज्यं.
अव्यभिचारित्वाद्
इति. क्लेशक्षयनान्तरीयत्वाद् इति.
(विइ.53, 54) ऋध्यतीति. संपद्यत इत्य् अर्थः. दूरस्यासन्नाधिमोक्षेणेति. अधिमोक्षेण निर्वृत्ता आधिमोक्षिकी. यद् दूरं. तद् आसन्नम् अधिमुच्य तेनाश्व् आगमनाद् आधिमोक्षिकीत्य् उच्यते.
बाह्यं चतुरायतनम्
इति. नाध्यात्मिकं निर्मीयते. तन्निर्माणे सत्य् अपूर्वसत्त्वप्रादुर्भावप्रसंगात्. स्वपरशरीरसंबद्धम् इति. यत् स्वात्मा सिंहायते नागायते वा. तत् स्वशरीरसम्बद्धं. [तिब्. 326अ] यस्त् स्वात्मनो बहिर् निर्मीयते सिंहो नागो वा. तत् परशरीरसंबद्धं. द्विविधं तथैवेति. स्वपरशरीरसंबधं. एवं रूपधाताव् इति. यथा कामधातूपपन्नो द्विविधं निर्माणं निर्मिणोति. कामावचरं रूपावचरं च. तद् अपि द्विविधां स्वपरशरीरसंबद्धम् इति चतुर्विधं. एवं रूपधातूपपन्नो ऽपि चतुर्विधं निर्मिणोतीति. अष्टविधं समासतो निर्माणं. वस्त्राभरणवन् न ( अभिध्-क्-व्य् 659 ) समन्वागम इति. यथा च वस्त्राभरणैः स्वशरीरसंबद्धैर् अप्य् असत्त्वसंख्यातत्वात् इन्द्रियाधिष्ठानासंबन्धत्वाद् वा न समन्वागमः. तद्वत्.

द्व्यायतनम् इति. रूपस्प्रष्टव्यायतनं. न गन्धरसायतनं. समन्वागमाभवाद् इत्य् अभिप्रायः. न शब्दायतनम् उच्छेदित्वात्. अभिघातजत्वाद् इत्य् अपरे. आगन्तुकत्वाद् इत्य् अभिप्रायः.
(विइ.55-58) द्वितीयध्यानफलं त्रीणीति. अधरभूमिके च द्वे स्वभूमिकं चेति. चत्वारि पंच च योज्यानीति. तृतीयध्यानभूमिकानि चत्वारि. अधरभूमिकानि त्रीणि स्वभूमिकं चेति. चतुर्थध्यानभूमिकानि पंचादरभूमिकानि चत्वारि स्वभूमिकं चेति. द्वितीयादिध्यानफलम् इति विस्तरः. [तिब्. 326ब्] द्वितीयध्यानफलं निर्माणम् यन् निर्मात्रा निर्मितं. प्रथमध्यानभूमिकान् निर्माणफलात् प्रथमध्यानफलाद् गतितो विशिष्यते. तद् द्वितीयध्यानफलं निर्माणं द्वितीयं ध्यानभूमिं गच्छति. प्रथमध्यानफलं तु तां न गच्छति. किं तर्हि. प्रथमध्यानभूमिम् एवेति गमनविशेषाद् विशिष्यते. एवं तृतीयादिध्यानफलम् योज्यं.
ध्यानवन् लाभ
इति मौलध्यानानाम् इव वैराग्यतो निर्माणचित्तानां लाभः. शुद्धकाद् ध्यानाद् अनंतरं निर्माणचित्तम् इति. निर्माणचित्तसंमुखीभावे यद् आदिं. तच् छुद्धकाद् उत्पद्यते. निर्माणचित्ताद् वेति द्वितीयादिप्रवाहे. निर्माणचित्ताद् अपि शुद्धकम् इति. निर्माणचित्ताद् व्युत्थाने निर्माणचित्तं च प्रवाहे. समाधिफलस्थितस्येति. समाधिनिर्माणचित्तस्थितस्य, ऊर्ध्वभूमिकस् त्व् इति. द्वितीयादिध्यानभूमिकः. प्रथमध्यानभूमिकेन भाष्यते. ऊर्ध्वं द्वितीयादिषु विज्ञप्तिसमुत्थापकस्य सवितर्कस्य सविचारस्य चित्तस्याभावात्. तथा ह्य् उक्तं. वितर्क्य विचार्य वाचं भाषत इति.
निर्माणचित्ताभावान् निर्मिताभाव इति. निमित्ताभावे नैमित्तिकस्याप्य् अभाव इत्य् असन्तं [तिब्. 327अ] कथम् एनं निर्मितं भाषयन्तीति अभिप्रायः.
अधिष्ठायान्यवर्तनाद्
इति. निर्माणचित्तेन निर्मितं निर्माय ततश् चाधिष्ठायावस्थानकामतया तिष्ठत्व् एतद् इति. तत उत्तरकालम् अन्येन विज्ञप्तिसमुत्थापकेन सवितर्कसविचारकेण चित्तेन वाचं प्रवर्तयन्ति निर्मातारः. पूर्वाभिप्रायं हि संततिर् अनुवर्तते. पूर्वं हि तेन चेतसि व्यवस्थापितं निर्माणं निर्मास्यामि तद् अधिष्ठास्यामि तद् वाचयिष्यामीति. अवस्थाद्वये ऽधिष्ठानसंभवात् पृच्छति. ( अभिध्-क्-व्य् 660 ) किं जीवित एवाधिष्ठानम् इत्यादि. आर्यमहाकाश्यपाधिष्ठानेनेति. आर्यमहाकाश्यपाधिमोक्षेणेत्य् अर्थः.
त्रिविधं तूपपत्तिजम्
इति. कदाचिद् धि देवादयः परानुग्रहार्थं परान् निर्मिण्वन्ति. कदाचिद् विहेठनार्थम् इत्यादि. तत्कृतं चेति विस्तरः. देवादिकृतं च स्वपरसम्बद्धं निर्माणं नवायतनिकं. कुतः. अशब्दरूप्यायतनत्वात्. यस्माद् अशब्दानि चक्षुरायतनरूपायतनादीनि तत्र सन्तीति. शब्दः संतानाभावान् न निर्मायते. अचित्तकत्वाच् च न मनोधर्मायतने. अचित्तको निर्मित इति कथं गम्यते. शास्त्रात्. एवं ह्य् आह. तन्निर्मितश् चातुर्महाभौतिको वक्तव्यो [तिब्. 327ब्] न चातुर्महाभौतिको वक्तव्यः. आह. चतुर्महाभौतिको वक्तव्यः. उपादायरूपिको नोपादायरूपिको वक्तव्यः. आह. उपादायरूपिको वक्तव्यः. अचित्तिको वक्तव्यः. कस्य चित्तवशेन वर्तत इति वक्तव्यं. आह. निर्मातुस् चित्तवशेन वर्तत इति. यदि तर्हि नवायतनिकं निर्मीयते. इन्द्रियनिर्माणात् कथं नापूर्वसत्त्वप्रादुर्भावो भवति. सत्त्वसंख्यातानि हीन्द्रियाणीति. अत आह. इन्द्रियाविनिर्भूतत्वाद् इति. यस्माच् चक्षुरादिभिर् इन्द्रियैः पंचभिः स्वपरशरीरसम्बद्धं निर्माणं रूपरसस्प्रष्टव्यस्वभावम् अविनिर्भागेनावस्थितं भवन् नवायतनिकम् इत्य् उच्यते. न त्व् इन्द्रियं निर्मीयत इति एष सिद्धान्तः. यत् पुनस् तद् एव स्वपरशरीरसम्बद्धं निर्मिणोति तच् चतुरायतनिकम् एव भवति.
(विइ.60अब्) यथा मांधातुर् आन्तराभविकानां चेति. कर्मजाया ऋद्धेर् एतद् उदाहरणम् उच्यते.
(विइ.59) किम् एते दिव्ये एवेति. किम् अयं दिव्यशब्दो मुख्यवृत्तिः. आहोस्विद् औपचारिक इत्य् अभिप्रायः. यदि ह्य् एते दिवि भवे दिव्ये इत्य् अर्थो गृह्यते. मुख्यवृत्तिर् अयं शब्दो भवति. अथ तु दिव्ये इवेति दिव्ये इत्य् औपचारिकः. यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् इति. औपचारिकत्वे दृष्टान्तं दर्शयति. विज्ञानसहितत्वाद् इति. [तिब्. 328अ] रूपदर्शनमुखेनाभिनिर्हृतत्वान् नित्यं विज्ञानसहितम् इति. सभागम् एव. काणविभ्रान्ताभावाद् इति. काणम् अभ्यन्तरविकलं. विभ्रान्तं केकरं सर्वतश् च न पश्यतीति. अर्थाद् उक्तं भवति. दिव्यं चक्षुः पृष्ठतो ऽपि पश्यति. पार्श्वतो ऽपि पश्यति न त्व् एवम् अदिव्यं चक्षुर् इति.
(विइ.60, 61) दिव्यश्रोत्रादिकम् अपि चतुष्टयम् इति. आदिशब्देन दिव्यं चक्षुः पूर्वेनिवासानुस्मृतिः परचित्तज्ञानं च. एतद् अपि दिव्यश्रोत्रादिकं चतुष्टयम्. ( अभिध्-क्-व्य् 661 ) उपपत्तिप्रतिलब्धम् अस्ति. दिव्यं चक्षुः केषाम् उपपत्तिप्रतिलंभिकं. कामावचराणां देवानाम् अनागामिनां च रूपावचराणां. नारूप्यावचराणां. तत्र रूपाभावत् दृष्टिर् गमनं निर्माणं च नास्ति. नापि दिव्यं श्रोत्रं चक्षुश् चास्ति. परचित्तज्ञानम् अपि नास्ति. स्वपरसंतानपरिच्छेदाभावात्. पूर्वेनिवासानुस्मृतिर् अपि नास्ति. कामरूपावचरसत्त्ववत् तादृशस्यात्मभावस्यासमुदागमात्. अथ वा सर्वा अप्य् अभिज्ञा न सन्ति. कामरूपावचरसत्त्ववत् तादृशस्यात्मभावस्यासमुदागमात्. न यथा भावनाफलं कुशलम् एवेति. विपरीतदृष्टान्तः. अन्यगतिस्था नित्यं जानत इति. ताभ्यां परचित्तपूर्वेनिवासानुस्मृतिभ्यां देवादिगतिस्था नित्यं जानते. [तिब्. 328ब्] दुःखवेदनानभ्याहतत्वात्.
नृणां नोत्पत्तिलाभिकम्
इति. मनुष्याणाम् एतद् यथोक्तम् ऋद्ध्यादिकं वैराग्यलाभिकं तर्कविद्यौइअधकर्मकृतं चास्ति. न तूपपत्तिकलाभिकम् अस्ति. यत् तर्हि प्रकृतिजातिस्मरा इति. प्रकृतिजातिस्मरत्वं पूर्वेनिवासानुस्मृत्या सा चोपपत्तौ भवतीति. कथम्. असाव् उत्पत्तिलाभिका न भवतीत्य् अभिप्रायः. आह. कर्मविशेषजासौ तेषाम् इति. तेषां बोधिसत्त्वानां कर्मविशेषनिर्वृत्ता. उपपत्तिलाभिकं हि नाम यद् उपपत्तिकाल एव सर्वेषां निसर्गतो लभ्यते. न तु यत् कस्यचिद् एवोपपत्तिकालाद् ऊर्ध्वं. यथा पक्षिणाम् आकाशगमनं. तस्मात् कर्मविशेषजासौ तेषां. कथम् इत्य् आह. त्रिविधा हीति विस्तरः. भावनाफलं यथोक्तम्. उपपत्तिप्रतिलब्धा देवादीनां. कर्मजा यथा तेषां बोधिसत्त्वानाम् इति.
आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायां सप्तमं कोशस्थानं.
( अभिध्-क्-व्य् 662 ) ब्लन्क्
विइइ (समापत्तिनिर्देशो नामाष्टमं कोशस्थानम्)
(विइइ.1, 2) सप्तमाद् अनन्तरम् अष्टमस्य कोशस्थानस्योपन्यासे संबंधं दर्शयन्न् आह. ज्ञानाधिकारेणेति विस्तरः. ज्ञानाधिकारेण दशानाम् ज्ञानानाम् अधिकारेण ज्ञानमयानां ज्ञानस्वभावानां प्रणिधिज्ञानाभिज्ञानादीनां कृतो निर्देशः अन्यस्वभावानां तु [तिब्. 329अ] समाध्यादीनां कर्तव्यः. सर्वगुणाश्रयत्वाद् इति कामम् आरूप्या अपि गुणाश्रया भवन्ति. न सर्वगुणाश्रयाः. ध्यानानि तु सर्वगुणाश्रया इति.
द्विधा ध्यानानीति

कार्यध्यानानि कारणध्यानानि चेत्य् अर्थः.
शुभैकाग्र्यम्
इति. शुभानां चित्तानाम् ऐकाग्र्यं. अभेदेनेति. सर्वेषाम् अपि लक्षणानाम्. एतल् लक्षणम् अत आह. समाधिस्वभावत्वाद् इति. ध्यानानाम् इति वाक्यशेषः. अथ वा अभेदेनेति समाधिमात्रग्रहणं. भेदेन
पंच स्कंधास् तु सानुगम्
इति. अविज्ञप्तिरूपस्कंधः.
एकालम्बनता एकालम्बनत्वं चित्तानां. किं पुनः कारणं चैत्तानाम् अप्य् एकालंबनत्वे एकालम्बनत्वं चित्तानाम् इत्य् उच्यते. न पुनर् एकालम्बनता चित्तचैत्तानाम् इत्य् उच्यते. प्राधान्यात् चित्तान्य् एवैकालम्बनानि समाधिर् इति. अवस्थाविशेषत्वाच् चित्रगुर्वावत्. वैभाषिक आह. न चित्तान्य् एव समाधिः. येन तु तान्य् एकाग्रानि वर्तन्ते समाहितानि. स धर्मः समाधिः. यथा वैशेषिकनये शुक्लगुणयोगाच् छुक्लः पटः. स एव गुणो ऽस्य [तिब्. 329ब्] शौक्लम् इत्य् उच्यते. तद्वत्. ननु च क्षणिकत्वात् सर्वं चित्तम् एकाग्रं. किम् इदम् उच्यते येन तु तान्य् एकाग्राणि वर्तन्ते. स धर्मः समाधिर् इति. द्वितीयस्य तस्माद् अविक्षेप इति चेत्. यद्य् एतत् स्याद् द्वितीयस्य चित्तस्य तस्मात् समाधेः ( अभिध्-क्-व्य् 664 ) [अविक्षेपः. कस्मिन्न् आलम्बने] न विक्षेपो ऽस्मिन्न् आलम्बन इति. संप्रयुक्ते समाधिवैयर्थ्यं. यत् प्रथमं चित्तं समाधिसंप्रयुक्तं. तस्मिन् संप्रयुक्ते समाधिवैयर्थ्यं. तत्र कारित्रं समाधिर् न करोति द्वितीये करोतीति कृत्वा. किं च यत एव च कारणात् समाधिर् एकाग्रतालक्षणो ऽभिप्रेतः. तत एव च कारणात् चित्तानाम् एकालंबनत्वं किं नेष्यते. किं समाधिना अर्थान्तरभूतेनेत्य् अभिप्रायः.
न. दुर्बलत्वात् समाधेः. न महाभूमिकत्वात् समाधेः सद्भावात् सर्वस्य चित्तस्यैकाग्र्यताप्रसंगः. यच् चित्तं दुर्बलेन समाधिना संप्रयुज्यते. न तद् एकाग्रं भवति. यत् पुनर् बलवता. तच् चित्तम् एकाग्रम् इति. सत्य् अपि महाभूमिकत्वे समाधेर् न सर्वचित्तानाम् एकाग्रताप्रसंगः.
चित्तान्य् एवेति विस्तरः. चित्तान्य् एवैकाग्राणि समाधिर् नार्थांतरभूत इति. तथा ह्य् अधिचित्तं शिक्षेति. अधिचित्तं शिक्षा कतमा. चत्वारि ध्यानानीति सर्वं. तथा चित्तपरिशुद्धिप्रधानं चत्वार्य् एव ध्यानानि. इत्य् उक्तानि. [तिब्. 330अ] लिखितम् इदं सूत्रम्
ऋद्धिपादाः समाधयः
इत्य् अत्र. यथा ह्य् अधिशीलम् शिक्षा शीलम् एव. न तस्माद् अन्या. अधिप्रज्ञां च शिक्षा प्रज्ञैव. न तस्या अन्या. एवम् अधिचित्तं शिक्षा चित्तम् एव. न तस्माद् अन्या. न चित्तव्यतिरिक्तसमाधिर् अस्तीत्य् अर्थः. अधिचित्तं हि शिक्षा समाधिर् इष्यते. यथा चास्मिन्न् एव सूत्रे शीलपरीशुद्धिप्रधानं विमुक्तिपरिशुद्धिप्रधानं इत्य् उक्ते. न शीलपरिशुद्धिः शीलाद् अन्या. एवं दृष्टिपरिशुद्धिः विमुक्तिपरिशुद्धिश् च. तथैव चित्तपरिशुद्धिर् अपि न चित्ताद् अन्या. चित्तपरिशुद्धिर् हि चतुर्ध्यानलक्षणसमधिर् इति.
एवं तर्हीति. यदि समाधिस्वभावानि ध्यानानि सर्वसमाधिध्यानप्रसंगः. कुशलक्लिष्टाव्याकृतनाम् अपि समाधीनां ध्यानप्रसंगः. समाधेर् महाभूमिकत्वात्. न. प्रकर्षयुक्त इति विस्तरः. नैतद् एवं प्रकर्षयुक्ते समाधौ ध्याननामविधानत्. भास्करवत्. तद्यथा य एव प्रकर्षेण भासं करोति. स एव भास्करः. [तिब्. 330ब्] न खद्योतकादिः. तद्वत्. स हीति विस्तरः. स ह्य् अंगसमायुक्तः समाधिः शमथविपश्यनाभ्यां युगनद्धाभ्याम् इवाश्वाभ्यां रथो वहतीति युगनद्धवाही. तद्भावात् दृष्टधर्मसुखविहार उक्तः सूत्रे. सुखा च प्रतिपद् इति. अंगसमायुक्त एव समाधिः. सुखा च प्रतिपद् इत्य् उक्त इति वर्तते. सुतरां तेन ध्यायन्ति सुखत्वात्. क्लिष्टय कथं ध्यानत्वम् इति. यदि कुशलांगसमायुक्तः समाधिर् ध्यानं. क्लिष्टस्यास्वादनासंप्रयुक्तस्य कथं ध्यानत्वयुक्तम् ( अभिध्-क्-व्य् 665 ) इति वाक्यशेषः. त्रिविधं ध्यानम्
आस्वादनासंप्रयुक्तं शुद्धकम् अनास्रवम्
इति वचनात्. मिथ्योपनिध्यानाद् इति. मिथ्यानितीरणाद् इत्य् अर्थः. अतिप्रसंग इति. कामरागपर्यवस्थितेनापि चेतसा मिथ्योपनिध्यानात् तत्प्रसंगः. न. तत्प्रतिरूप एवेति विस्तरः. नैतद् एवं अतिप्रसंग इति. तत् प्रतिरूप एव हि नातिबहुविलक्षणे क्लिष्टे ध्यानम् इति संज्ञासंनिवेशः. पूतिबीजवत्. यथा किंचिद् अबीजं पाषाणाद्य् अत्यन्ततज्जातिविलक्षणम् न पूतिबीजम् इत्य् उच्यते. किं तर्हि. बीजजातीयम् एवोपहतं यद् भवति. तस्मिन्न् एव संज्ञासंनिवेशः पूतिबीजम् इति. उक्तानि चाकुशलान्य् अपि ध्यानानीति. स कामरागपर्यवस्थितः [तिब्. 331अ] कामरागपर्यवस्थानम् अन्तरीकृत्वा ध्यायति प्रध्यायतीति विस्तरः. अनेन कामरागादिपर्यवस्थानस्यापि ध्यानत्वे सति न दोष इति दर्शयति. धूमाग्निवद् इति. यथा धूमो ऽत्रेति धूमवचनेनाग्निर् अप्य् उक्तो भवति साहचर्यात्. न विनाग्निना धूमो भवतीति. अनेनैव चाविनाभावित्वेन धूमस्याभ्यर्हितत्वं. यत्र हि धूमः. तत्राग्निः. न तु यत्राग्निः. तत्र धूमः. तथा ह्य् अयोगुडांगारादिष्व् अग्निर् एव गृह्यते. न धूमः. अस्माच् चाभ्यर्हितत्वाद् धूमस्य पूर्वनिपातो वासुदेवार्जुनवत्. अन्यथा हि द्वंद्वे ऽपीत्य् अग्निशब्दस्य पूर्वनिपातः स्यात्. कथं पुनः साहचर्येण हि प्रीतिसुखवान् विचारो विना वितर्केण नास्ति. यथा ध्यानान्तरविचारः. न प्रीतिसुखवान् इत्य् अवितर्कः. नैवम् अयं विचारः. विशेषितो ह्य् अयं विचारः. प्रीतिसुखसहपठितः.
विचारप्रीतिसुखवद्
इति. प्रीतिसुखवता विचारेण प्रीतिसुखेन च संप्रयुक्तं प्रथमं ध्यानम् इत्य् अर्थः. यदि पुनर् वितर्कप्रीतिसुखवद् इति सूत्रं क्रियेत को दोषः स्यात्. न शक्यम् एवं कर्तुं.
पूर्वपूर्वांगवर्जितम्
इति वक्ष्यति. वितर्कवर्जितं द्वितीयं ध्यानम् [तिब्. 331ब्] इति ध्यानान्तरम् अपि द्वितीयं ध्यानं प्राप्नोति. किं च चत्वार्य् अंगानि प्रथमध्याननिर्देशावसाने ऽनेनानुक्रमेणोक्तानि. सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरतीति. तत्र विचारप्रीतिसुखसमाधयः प्रथमे ध्याने भवंति. एभिश् चतुर्भिर् अंगैर् वितर्केण च सर्वप्रथमोक्तेन पंचांगम् उच्यते. द्वितीयं पुनर् उच्यते. अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरतीति. ( अभिध्-क्-व्य् 666 ) चतुर्णाम् एषां पूर्वांगेन विचारलक्षणेन वर्जितम् इति. तृतीयम् अप्य् एवम् उच्यते. स प्रीतेर् विरागाद् उपेक्षको विहरति विस्तरेण यावत् सुखविहारीति. तृतीयं ध्यानम् उपसंपद्य विहरतीति. प्रीतिलक्षणेनापरेणांगेन वर्जितम् इति. चतुर्थं पुनर् एवम् उच्यते. स सुखस्य च प्रहाणाद् विस्तरेण यावद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्दं चतुर्थं ध्यानम् उपसंपद्य विहरतीति. सुखेनाप्य् अंगेन वर्जितं समाधिर् एवात्र केवलम् अवशिष्यत इत्य् अत एव सूत्रं कृतं
विचारप्रीतिसुखवद्
इति.
(विइइ.2-4) एषाम् अपि चोपपत्तय उक्ता इति.
आरूप्यधातुर् अस्थान उपपत्त्या चतुर्विध

इति वचनात्. अनुपरिवर्तकरूपाभावद् इति. ध्यानानास्रवसंवराभावाद् [तिब्. 332अ] इत्य् अर्थः.
विवेक
इति. विविच्यते अनेनेति विवेकः. येन मार्गेणेति. आनंतर्यमार्गेण विमुक्तिमार्गेणापि वा तद् एककार्यत्वात्. वैराग्यगमनाद् इति. तद्वैमुख्यगमनाद् इत्य् अर्थः.
विभूतरूपसंज्ञाख्या
इति. विभूता रूपसंज्ञास्येति विभूतरूपसंज्ञः. विभूतरूपसंज्ञा इत्य् आख्या एषाम् इति विभूतरूपसंज्ञाख्याः.
साध्यं तावद् एतद् इति. निकायान्तरीयाः. यदि हि स्याद् हि स्याद् इति वैभाषिकाः. आपिंगलवद् इति. यथा ईषत् पिंगल आपिंगलः. एवम् ईषद् रूपा आरूप्या इति. कथं तदभावे तत्सण्वरौ कायवाक्संवरौ भविष्यतः. न चासति भूते आरूप्यावचरे संवरभौतिकम् आरूप्यावचरं युज्यते. अनास्रवसंवरवच् चेत्. तत्रैतत् स्यात्. यथा न संत्य् अनास्रवाणि भूतानि. अस्ति चानास्रवसंवरो भौतिकं रूपम्. एवम् इहापि नारूप्यावचराणि भूतानि स्युः. अथ वारूप्यावचरसंवरः स्यात् भौतिकं रूपम् इति. तच् च न. सास्रवभूतसद्भावात् सास्रवाणि [तिब्. 332ब्] भूतानि संति. तान्य् आरूप्येषु भवेयुः. अनास्रवाणि तु भूतानि न संति. अतो ऽनास्रवसंवरो यत्र जातः. तत्रत्यानि सास्रवाण्य् उपादाय भवतीत्य् अकल्पनेयम् असाम्यात्. समापत्ताव् अपि तत्प्रतिषेध उक्त इति. अनेनैवोपपत्तिरूपप्रतिषेधेन समापत्ताव् अपि रूपप्रतिषेध उक्तो भवति. नात्र यत्नांतरम् अनुष्ठेयं. कथं. यदि कायवाक्संवरमात्रं. ( अभिध्-क्-व्य् 667 ) कथं तदभावे तत्संवरो भविष्यति. न चासति भूते भौतिकं युज्यते. अनास्रवसंवरवच् चेत्. न. सास्रवभूतसद्भावाद् इति. सर्वशो रूपसंज्ञानां समतिक्रमाद् इति वचनात्. समापत्ताव् अपि तत्प्रतिषेध उक्त इत्य् अपरे. तद् एवं नारूप्यसमापत्तिषु नारूप्योपपत्तिषु रूपम् अस्तीति दर्शितं भवति. परिमाणाल्पत्वाच् चेत्. अथ मतं. परमाणुमात्रं रूपम् अस्ति. अतस् त ईषद्रूपा इष्यन्त इति. उदकजंतुकेष्व् अप्य् अणुत्वाद् अदृश्यरूपेषु प्रसंगः आरूप्यप्रसंग इत्य् अर्थः. अच्छताच् चेत्. तत्रैतद् स्याद् रूपस्याच्छत्वाद् आरूप्या इति. अन्तराभवरूपावचरेष्व् अपु प्रसंगः. अन्तराभवरूपावचरा हि वज्रमयेष्व् अपि पर्वतेष्व् अच्छत्वाद् असज्जमाना [तिब्. 333अ] गच्छंति. तेष्व् आरूप्यप्रसंगः. समापत्तिवत् तदुपपत्तिविशेषाद् इति. यथैव ह्य् आकाशानन्त्यादिसमापत्तयो विशिष्टतमाः. एवम् उपपत्तिविशेषो ऽपि तासाम् अभ्युपगन्तव्यो ऽच्छाच्छतरतम इति. अतः समापत्तिवद् उपपत्तिविशेषो ऽप्य् अच्छतरतम इति. तद् एवारूप्यं स्यात्. यदि चारूप्योपपत्तिरूपस्याधरभूमिकेनेन्द्रियेणाच्छतरत्वाद् अग्रहणम् इत्य् आरूप्या उच्यंते. ध्यानोपपत्तिरूपस्यापि चेति विस्तरः. एष संभवो ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेनेन्द्रियेणाग्रहणं. कथं. प्रथमध्यानभूमिकेनेन्द्रियेण द्वितीयभूमिकस्याग्रहणं. एवं यावत् तृतीयध्यानभूमिकेनेन्द्रियेण चतुर्थध्यानभूमिकस्य रूपस्याग्रहणं. ऊर्ध्वभूमिकस्याच्छतरतमत्वात्. तद् एवं ध्यानोपपत्तिरूपस्य चाधरभूमिकेनेन्द्रियेणाग्रहणात् कस् तत्र विशेषः. आरूप्यधातौ यद् अच्छतरतमाभ्यां सामान्ये ऽपि त एवारूप्या इष्यंग्ते न रूपावचराः. तस्मान् न तत्र रूपं. अथ मतं द्वयोर् धात्वोर् अन्वर्था संज्ञा. कामगुणप्रभावितः कामधातुः. रूपप्रभावितो रूपधातुर् इति. नारूप्यधातोर् [तिब्. 333ब्] अन्वर्था संज्ञा. किं तर्हि यादृच्छिकी ति. कात्र युक्तिः. द्वयोर् धात्वोर् अन्वर्था संज्ञा. नारूप्यधातोर् इति. युक्त्या प्रतिषिध्य नारूप्यधातौ रूपम् अस्तीति आगमं परिगृह्याशंकितं वार्यते. तत्र रूपप्रसिद्ध्यार्थम् आयुरूष्मणोर् इति विस्तरः. आरूप्येषु रूपास्तित्वसिद्धिर् इति चेद् इत्य् एतत् पदं प्रत्येकं योज्यं. कथम्. आयुरूष्मणोः संसृष्टवचनाद् रूपास्तित्वसिद्धिर् इति चेत्. तत्रैतत् स्यात् सूत्र उक्तं. यच् चायुष्मन् कौष्ठिल आयुर् यच् चोष्मकं संसृष्टाव् इमौ धर्मौ. न विसंसृष्टाव् इति विस्तरः. अतस् तत्रायुषि सत्य् ऊष्मणा भवितव्यं. ऊष्मा च रूपम् इति सिध्यति. नडकलापीद्वयवन् नामरूपयोर् ( अभिध्-क्-व्य् 668 ) अन्योन्यनिश्रितवचनात्. आरूप्येषु रूपास्तित्वसिद्धिर् इति चेत्. सूत्र उक्तं. तद्यथायुष्मन् शारिपुत्र द्वे नडकलाप्याव् आकाशे उच्छ्रिते स्यातां. ते अन्योन्यनिश्रिते अन्योन्यं निश्रित्य तिष्ठेयाताम्. तत्र कश्चिद् एकाम् अपनयेत्. द्वितीया निपतेत्. द्वितीयाम् अपनयेत्. एका निपतेत्. एवम् आयुष्मन् शारिपुत्र नामं च रूपं चान्योन्यनिश्रितं. अन्योन्यं निश्रित्य तिष्ठतीति विस्तरः. विज्ञानप्रत्ययं नामरूपम् इति वचनात्. तस्माद् आरूप्येषु रूपास्तित्वसिद्धिर् इति चेत्. [तिब्. 334अ] प्रतीत्यसमुत्पादसूत्र उक्तं. आरूप्यप्रसिद्धिक्षणे विज्ञानप्रत्ययं नामरूपम् इति वचनात् तस्माद् आरूप्येषु रूपम् अस्तीति सिध्यति. अन्यत्र रूपाद् इति विस्तरः. सूत्र उक्तं. रूपोपगं भिक्षवो विज्ञानं तिष्ठति. इति रूपालम्बनरूपप्रतिष्ठं. यः कश्चिद् भिक्षव एवं वदेत्. अहं अन्यत्र रूपाद् वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानस्यागतिं वा गतिं वा वदामीति. तस्य तद् वाग्वस्त्व् एव स्याद् इति.
अस्माद् अपि चागमाद् आरूप्येषु रूपम् अस्तीति सिध्यत्य् एवं चेत्. तन् न. संप्रधार्यत्वात्.
आहोस्वित् सर्वम् इति. कामरूपारूप्यावचरं. अयम् अत्राभिप्रायार्थः. कामावचरम् एवायुः संधायैवम् उक्तम् इति. तथा ह्य् उक्तं.
आयुर् ऊष्माथ विज्ञानं यदा कायं जहत्य् अमी.
अपविद्धस् तदा शेते यथा काष्ठम् अचेतन

इति. न चारूप्यधातौ कायो ऽस्ति. कुत एव कायनिधनं. रूपधातौ तु यद्य् अपि कायो ऽस्ति. न तु कायनिधनं प्रज्ञायत इति. यच् च नामरूपयोर् अन्योन्याश्रितत्वम् उक्तं. तद् अपि कामरूपावचरम् एव संधायोक्तम् इति लक्ष्यते. द्वयसंभवे ह्य् अन्योन्याश्रितत्वं संभवति. [तिब्. 334ब्] यच् च विज्ञानप्रत्ययं नामरूपम् इति. विज्ञानं प्रत्ययो ऽस्येति विज्ञानाप्रत्ययं नामरूपम् इत्य् एवं षष्ठीबहुव्रीहिसमासे. किम् अत्र सर्वविज्ञानं कामावचरसंस्कारप्रत्ययं यावद् आरूप्यावचरसंस्कारप्रत्ययं नामरूपस्य प्रत्ययः. आहोस्वित् सर्वं नामरूपं विज्ञानप्रत्ययम् इति. वयं ब्रूमो विज्ञानप्रत्ययं मामरूपम् इत्य् एवं सर्वस्य नामरूपस्य विज्ञानं प्रत्यय इत्य् अवधार्यते. न तु सर्वं विज्ञानं नामरूपस्य प्रत्यय इत्य् अवधार्यते. किंचिद् विज्ञानं नाम्न एव प्रत्ययो यद् आरूप्यावचरसंस्कारप्रत्ययं. किंचिन् नामरूपस्य यत् कामरूपावचरसंस्कारप्रत्ययं. तद् इदम् उक्तं भवति. प्रत्यय एव विज्ञानम् अस्य नामरूपस्य. न त्व् अस्यैव समुदितस्य नामरूपस्य प्रत्यय इति. संभवं प्रत्य् एवम् उच्यते. तथा ह्य् उपपादुकानां विज्ञानप्रत्ययं षडायतनम् एव भवति. न नामरूपम् अनिष्पन्नषडायतनावस्था हि पंच स्कंधा नामरूपम् ( अभिध्-क्-व्य् 669 ) इत्य् आख्यायन्ते. सूत्रं चैतम् एवार्थं द्योतयति. विज्ञानं चेद् आनन्द मातुः कुक्षिं नावक्रामेद् अपि तु तन् नामरूपं कललत्वाय संमूर्छेत्. न भदन्त. विज्ञानं चेद् आनन्दावक्राम्य क्षिप्रम् एवापक्रामेद् अपि तु तन् नामरूपम् इत्थव्ताय प्रज्ञायेत. [तिब्. 335अ] नो भदन्त. विज्ञानं चेद् आनन्द दहरस्य कुमारस्य कुमारिकाया वा उच्छिद्येत विनश्येन् न भवेद् अपि तु तन् नामरूपं वृद्धिं विपुलताम् आपद्येत. नो भदन्त. तद् अनेनापि पर्यायेण वेदितव्यं. यद् विज्ञानस्य प्रत्ययं नामरूपं. नामरूपप्रत्ययं च विज्ञानम् इति विस्तरः. किम् अत्र सर्वैर् एतै रूपादिभिर् विना तत्प्रतिषेध आगतिगतिप्रतिषेधः. तत्र पूर्वस्माल् लोकाद् अंतराभवसंतत्या इहोपपत्तिर् आगतिः. अंतराभवसंतत्या पुनर् अस्माल् लोकात् परलोक उपपत्तिर् गतिः. आहोस्विद् एकेनापि रूपादीनाम् अन्यतमम् एव. वयं ब्रूमः. सर्वैर् विना तत्प्रतिषेध इति. अविशेषवचनान् न संप्रधार्यम् इति चेत्. स्याद् एषा बुद्धिर् अविशेषेणेदं सूत्रवचनं. यच् चायुष्मन् महाकौष्ठिल आयुर् इति विस्तरेण यावद् रूपोपगं विज्ञानं तिष्ठतीत्य् अनेन सूत्रवचनेन विशेषितं कामावचरं रूपावचरं वायुः संधायोक्तं यावत् सर्वैर् एव तैर् विना रूपादिभिस् तत्प्रतिषेध इति. अत्रोच्यते. अस्तिप्रसंगः. बाह्यस्यापि ह्य् ऊष्मण आयुषा विनाभावो न प्राप्नोतीत्य् अविशेषवचनात्. न ह्य् एवं विशेषितं यच् चायुष्मन् कौष्ठिल आयुर् यच् चोष्मा आध्यात्मिक इत्यादि. [तिब्. 335ब्] बाह्यस्यापि च रूपस्य काष्ठकुड्यादेर् असत्त्वसंख्यातस्य विज्ञानाश्रितत्वं प्राप्नोत्य् अविशेषवचनात्. चतुर्विज्ञानस्थितिवच् चेति विस्तरः. यथा चतसृणां विज्ञानस्थितीनाम् अविशेषवचनाद् आरूप्यधातौ तव रूपास्तित्वम्. एवं तवाहारचतुष्कवचनाद् रूपारूप्यधातौ कवडीकाराहारप्रसंगः. एवं हि सूत्रं पठ्यते. चत्वार आहारा भूतानां सत्त्वानां स्थितये संभवैषिणां चानुग्रहाये. कतमे चत्वारः. कवडीकाराहारः औदारिकः सूक्ष्मः. स्पर्शो द्वितीयः. मनःसंचेतना तृतीयः. विज्ञानम् आहारश् चतुर्थ इति. एवम् आहारचतुष्कवचनात् सत्त्वानां स्थित्यार्थम् अविशेषेण. कामावचराणाम् इत्य् अविशेषितत्वात् तव रूपारूप्यधात्वोर् अपि कवडीकाराहारप्रसंगः. अतिक्रम्येति विस्तरः. तत्र निकायान्तरीयस्यैतत् स्यात्. अस्त्य् अस्योत्सर्गस्यापवाधः. अतिक्रम्य देवान् कवडीकाराहारभक्षान् इति वचनात्. उदायिसूत्रादिषु भेदाच् च कायस्यातिक्रम्य देवान् कवडीकाराहारभक्षान् अन्यतमस्मिन् दिव्ये मनोमयकाय उपपद्यत इति. प्रीत्याहारवचनाच् चेति. भवति भिक्षवः स समयो यद् अयं लोकः संवर्तते. संवर्तमाने लोके यद्भूयसा सत्त्वा [तिब्. 336अ] आभास्वरे ( अभिध्-क्-व्य् 670 ) देवनिकाये उत्पद्यन्ते. तत्र भवन्ति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वांगप्रत्यंगोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्यहारा दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्तीत्य् एवमादिषु सूत्रेषु वचनाद् अप्रसंगः कवडीकाराहारस्य. यद्य् एवम् आरूप्येष्व् अपि रूपस्याप्रसंगः. किं कारणम् अपवादात्. कथं. रूपाणां निःसरणम् आरूप्या इत्य् एकं सूत्रम् अपवादः. ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्य् आरूप्या इति द्वितीयम्. अरूपिणः सन्ति सत्त्वा इति तृतीयं. सर्वशो रूपसंज्ञानां समतिक्रमाद् इति चतुर्थम्. सति हि रूप इति. यद्य् आरूप्यसमापत्त्युपपत्तिषु रूपं स्यात्. सति हि रूपे स्वं रूपम् अवश्यं संजानीरन्न् इति सर्वशो रूपसंज्ञानां समतिक्रमाद् इति वचनं नोक्तं स्यात्. उक्तं तु. अतो ऽपि न तत्र रूपम् अस्ति. औदारिकं इति विस्तरः. तत्रैतत् स्यात्. [तिब्. 336ब्] औदारिकम् अधोभूमिकं रूपम् अभिसंधायोक्तं. ये ते शान्ता विमोक्षा इति विस्तरेण.
अत्र ब्रूमः. कवडीकाराहारे ऽपि तुल्यं. कथं. अतिक्रम्य देवान् कवडीकाराहारभक्षान् इत्य् औदारिकम् अधोभूमिकं कवडीकाराहारम् अभिसंधायोक्तम् न रूपावचरं कवडीकाराहारं सूक्ष्मम् इति. यदि चाधोभूम्यौदारिकरूपनिःसरणाद् आरूप्या इत्य् उच्यन्ते. ध्यानानाम् अपि चाधोभूमिनिःसरणत्वाद् आरूप्यत्वप्रसंगः. कथं. कामावचरौदारिकरूपनिःसरणं प्रथमं ध्यानम्. एवम् उत्तरोत्तरौदारिकरूपनिःसरणं. यावच् चतुर्थध्यानम् इत्य् आरूप्यत्वप्रसंगः. वेदनादिनिःसरणं च किं नोक्तं. यद्य् अधोभूमिकौदारिकनिःसरणात् सत्य् अपि स्वभूमिकरूपे आरूप्या इत्य् उच्यन्ते. वेदनादिनिःसरणाद् आरूप्या अवेदना इति किं नोच्यन्ते. सत्याम् अपि स्वभूमिवेदनायां. आदिशब्देन यावद् अविज्ञाना इति किं नोच्यन्ते. सत्य् अपि स्वभूमिविज्ञान इति. किं कारणम्. अधोभूमिकवेदनादिनिःसरणात्. अधोभूम्यौदरिकवेदनादिनिःसरणात् इत्य् अर्थः. रूपजातिं तु कृत्स्नाम् अतिक्रान्ता. [तिब्. 337अ] या काचिद् रूपजातिः औदारिकी वा सूक्ष्मा वा आध्यात्मिकी वा बाह्या वा. तां सर्वाम् अतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ. न वेदनादिजातिं न वेदनां सर्वाम् अतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ. अदुःखासुखवेदनास्तित्वात्. आदिशब्देन यावद् विज्ञानं वक्तव्यं. अतो रूपाणां निःसरणम् उक्तं. न वेदनादिनिःसरणं. तस्माद् एवंवादिनाम् अस्माकं न भवत्य् अयं प्रसंगः. अधोभूमिकवेदनादिनिःसरणात्. वेदनादिनिःसरणं च किं नोक्तम् इति.

आह. यदि रूपाणां निःसरणम् आरूप्याः. यत् तर्ह्य् उक्तं सूत्रे नाहं भवेन भवस्य निःसरणं वदामीति. तत् कथम् रूपभवस्यारूप्यभवेन ( अभिध्-क्-व्य् 671 ) निःसरणं. भवेनभवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणात्. तेनैव भवेन तस्यैव भवस्यानिःसरणात् एवम् उक्तम्. असर्वानत्यन्तनिःसरणाच् च. असर्वनिःसरनं. न हि रूपभवेन कामभवस्य निःसरणम् इति. आरूप्यभवस्यापि तेन निःसरणं भवति. न चात्यन्तनिःसरणं कामभवात् तेन भवति. पुनर् आगमनात्. तथारूप्यभवेन [तिब्. 337ब्] रूपभवस्य निःसरणं. न कामभवस्य. न चात्यन्तनिःसरणं रूपभवानाम् आरूप्यभवेन.
उक्तं यथा वर्तत इति.
निकायम् जीवितं चात्र निश्रिता चित्तसंततिर्
इत्यादि. त्रय इति पुल्लिंगनिर्देशः. आरूप्या इत्य् अभिसंबंधनात्. तथाप्रयोगाद् इति. प्रयोगकाले आकाशादीन्य् आलम्बनानि भवन्ति अन्यदा त्व् अन्ये ऽपि धर्मा यथासंभवम् आलम्बनानीति दर्शयति.
मांद्यात् तु न संज्ञानाप्यसंज्ञक
इति. चतुर्थ आरूप्यः कस्मान् न संज्ञीत्य् उच्यते. नाप्य् असंज्ञ इति. मांद्यात्. तुशब्देन तस्याकारो ऽन्तर्नीतरूपो वेदितव्यः. येन हि कारणेन स चतुर्थ आरूप्यो नैवसंज्ञानासंज्ञायतनम् इत्य् उच्यते. तद् एव कारणम् इत्य् उच्यते. मान्द्याद् इति. प्रयोगस् त्व् अस्यैवं सूचितो भवति. अन्वर्थसंज्ञाकरणात्. अत एवाह. यद्य् अपि तत्राप्य् एवं प्रयुज्यत इत्य् आदि. संज्ञा गण्डः गण्डवद् गण्डः. एवं यावच् छल्यः. असंज्ञकः संमोहम् इति. संज्ञाया अभावो हि संमोहकारणं. इत्य् अर्थः. शीयतेति संज्ञासमुच्छेदाद् इत्य् अभिप्रायः. एतच् छान्तं एतत् प्रणीतं. किं. तद् इत्य् आह. यद् उत नैवसंज्ञानासंज्ञायतनम् इति. संज्ञामान्द्यम् अभिप्रीयते. अत्र प्रश्नयितव्यम्. कस्मात् तु तैस् तद् एवं गृह्यत इति. तैर् इति तत्समापत्तिभिः. तद् इति नैवसंज्ञानासंज्ञायतनं. [तिब्. 338अ] एवं गृह्यत इति नैवसंज्ञानासंज्ञेति गृह्यत इत्य् अर्थः. तद् एवं परिप्रश्ने विगृहीतस्यावश्यम् इदं वक्तव्यं जायते. मृदत्वात् संज्ञानां. नैवसंज्नानासंज्ञायतनम् उच्यते इत्य् एतद् एवोक्तं.
(विइइ.5, 6) समापत्तिद्रव्याणि मौलानीति.
शखास् तेषां नोपनश्यन्त इत्य् अभिप्रायः. कथं सप्त त्रिविधानीत्य् आह.
आस्वादनवच् छुद्धानास्रवाणीति.
अनास्रवं नास्तीति संज्ञमान्द्यात्. यद् आस्वादयति. तस्माद् व्युत्थित इति. शुद्धकात्. येनास्वादयति. तत् समापन्न इति. आस्वादनासंप्रयुक्तं.
(विइइ.7, 8) यथान्त चतुरङ्गसेना नांगेभ्यो ऽर्थांतरभूता. एवं पंचांगध्यानं ( अभिध्-क्-व्य् 672 ) नार्थान्तरम् इति स्वमतं दर्शयति.
प्रीत्यादय
इति. पूर्वोक्ताः प्रीतिसुखचित्तैकाग्रताः.
अध्यात्मसंप्रसादश् चेति.
चतुरंगं द्वितीयम्.
तृतीये पंच पेक्षेति.
संस्कारोपेक्षात्र गृह्यते. या प्रीतिर् अनाभोगलक्षणा. स्मृतिर् उपेक्षानिमित्तस्यासंप्रमोषः. स्मृत्यसंप्रमोषे संप्रज्ञानता संप्रज्ञानं. चतुर्थे उपेक्षापरिशुद्धिः. उपेक्षायाः परिशुद्धिर् उपेक्षापरिशुद्धिः. [तिब्. 338ब्] अधोभूमिकपक्षालविगमात्. अष्टाव् अपक्षाला अपक्षीयन्ते. एवं स्मृतिपरिशुद्धिः.
(विइइ.9) प्रथमध्यानिकानीति. प्रथमध्याने भवानि. अत एवोच्यत इति. यस्माद् द्वितीयादिष्व् अध्यात्मसंप्रसादादयो वर्धन्ते. कथं. चतुष्कोटिकं. स्यात् प्रथमे ध्याने न द्वितीये. स्याद् द्वितीये न प्रथमे. स्याद् उभयोः. स्यान् नोभयोः. एवं सर्वाणि ध्यानांगानि परस्परं योज्यानि. कथं. यान्य् अंगानि प्रथमे ध्याने. तृतीये ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटिः वितर्कविचारप्रीतिसुखानि. द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि. तृतीया समाधिः. चतुर्थी कोटिर् उक्तनिर्मुक्ता धर्माः. यान्य् अंगानि प्रथमे ध्याने. चतुर्थे ऽपि तानि. चतुष्कोटिकम्. प्रथमा कोटिर् वितर्कविचारप्रीतिसुखानि. द्वितीया अदुःखासुखा वेदना उपेक्षापरिशुद्धिः. स्मृतिपरिशुद्धिश् च. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः [तिब्. 339अ] यान्य् अंगानि द्वितीये ध्याने. तृतीये ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटिर् अध्यात्मसंप्रसादप्रीतिसुखानि. द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्तधर्माः. यान्य् अंगानि द्वितीये ध्याने. चतुर्थे ऽपि वा तानि. चतुष्कोटिकं. प्रथमा कोटिर् अध्यात्मसंप्रसादप्रीतिसुखानि. द्वितीया तदंगानि समाधिं हित्वा. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः. यान्य् अंगानि तृतीये ध्याने चतुर्थे ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटीः समाधिवर्ज्यानि तदंगानि. द्वितीयाप्य् एवं. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः. एतच् च तद् एकावचरं नाम.
कस्मात् तृतीये ध्याने सुखं द्रव्यान्तरम् उच्यत इति. कथम् उच्यते. तान्य् एतान्य् अष्टादशध्यानांगानि भवन्तीति विस्तरेणोक्त्वा पुनर् आह. नामत एवं.
द्रव्यतो दश चैकं च
द्रव्यत एतान्य् एकादश भवन्ति. प्रथमध्यानिकानि पंच. द्वितीये ऽध्यात्मसंप्रसादो वर्धते. तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानीतिवचनात्. सुखेंद्रिययोगाद् इति. सुखेंद्रियसंभवात्. नास्त्य् एव चैतसिकं सुखेंद्रियं त्रिष्व् अपि हि ध्यानेषु. किं तर्हि. कायिकम् [तिब्. 339ब्] एव सुखम् अंगव्यवस्थापितं. समाहितावस्थांतरालसमुदाचारात्. दार्ष्टांतिकानां किलैष पक्षः. तेषां हि न द्विभूमिकम् एव सुखेन्द्रियं. कामप्रथमध्यानभूमिकम् इति. किं तर्हि. चतुर्भूमिकम् अपि सुखेन्द्रियं भवति. कामावचरं यावत् तृतीयध्यानभूमिकं इति. अत एव च विभाषायां भदन्तेन सौत्रान्तिकेनोक्तम्. आभिधार्मिकाणां अरघट्टेनेव चक्षुर्विज्ञानादिकम् अधस्ताद् ऊर्ध्वम् आकृष्यत इति. तद् एवम् अस्येष्टं भवति. चक्षुर्विज्ञानादिकं द्वितीयादिध्यानभूमिकम् अपि भवतीति.

अध्यारोपित एष पाठ इति. यो ऽयं चैतसिकम् इति पाठः. सुखं च कायेन प्रतिसंवेदयत इति स्वशब्देन वचनाच् चेति. तृतीयध्याननिर्देश एवम् उक्तं. स प्रीतेर् विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानमान्. सुखं च कायेन प्रतिसंवेदयते. यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरतीति. यदि हि तच् चैतसिकं स्यात् कथं तत् कायेन प्रतिसंवेद्येत्. मनः कायेनेति. मनः समुदायेनैवम् उक्त्वा. को गुण इति. सुखं च मनसा प्रतिसंवेदयति. सुखं च कायेन प्रतिसंवेदयत इत्य् एवं वा वक्तव्यं स्याद् इत्य् अभिप्रायः. चतुर्थे ध्याने प्रश्रब्धिभूयस्त्वे ऽपि सुखावचनाच् चेति. चतुर्थे ध्याने प्रश्रब्धिसुखं भूयो भवति बहुतरं भवति. ध्यानान्तरेभ्यश् चतुर्थस्य प्रश्रब्धतरत्वात्. तद्भूयस्त्वे [तिब्. 340अ] ऽपि सुखस्यावचनं. चतुर्थे ध्याने सुखं नोच्यते. तस्य सुखस्यावचनात्. वेदनासुखम् एव तत् तृतीये ध्याने गम्यते. न चतुर्थे सुखा वेदनास्तीति तत्र नोच्यत इत्य् अभिप्रायः. सुखवेदनानुकूला प्रश्रब्धिः सुखम् इति चेत्. स्यान् मतं. प्रथमद्वितीययोर् ध्यानयोः. सुखवेदनानुकूला प्रश्रब्धिः. तद्द्वयोः सुखम् इत्य् उक्त्वा चतुर्थे ध्याने प्रश्रब्धिः सुखवेदनानुकूला न भवतीति नोक्ता. यद्य् एवं तृतीये प्रश्रब्धिसुखावचनं कस्मात्. तृतीयध्यानप्रश्रब्धिर् अपि सुखवेदनानुकूला भवति. तत्र प्रश्रब्धिसुखं कस्मान् नोक्तं. वेदनासुखम् एव हि तत्र भवद्भिर् व्यवस्थापितं. न प्रश्रब्धिः सुखं. द्विःसुखपाठात्. उपेक्षोपहतत्वाद् इति चेत्. स्यान् मतं. तृतीये ध्यान उपेक्षा कर्मण्यतालक्षणा भवति. तयोपहता प्रश्रब्धिर् इति नोच्यते इति. न. उपेक्षयैव ( अभिध्-क्-व्य् 674 ) तद्वृद्धेः. नैतद् एवं. उपेक्षयैव तु तत्र तृतीये ध्याने प्रश्रब्धिसुखवृद्धेः. न ह्य् उपघातहेतुनैव वृद्धिर् युज्यत इति. कथम् उपेक्षयैव तद्वृद्धिर् इत्य् अतो ब्रवीति. पूर्विकाभ्यां तद्विशेषाद् इति. पूर्विकाभ्यां हि प्रथमद्वितीयध्यानप्रश्रब्धिभ्यां. [तिब्. 340ब्] तृतीयध्यानप्रश्रब्धिर् विशिष्टा. पूर्विकाभ्यां ध्यानाभ्यां तृतीयस्य विशिष्टत्वात्. यस्मिन् समय इति विस्तरः. यस्मिन् समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरति. पंचास्य धर्मास् तस्मिन् समये प्रहीयन्ते. पंच धर्मा भावनापरिपूरिं गच्छन्ति. अध्यात्मसंप्रसादः प्रीतिः प्रश्रब्धिः सुखं [प्रज्ञा] समाधिश् चेति. प्रश्रब्धिसुखयोर् अनन्यत्वे कथम् एषां पंचत्वं स्यात्. अर्थान्तरत्वे च सति कायिकम् एव सुखं त्रिष्व् अपि ध्यानेष्व् इति सिद्धं भवति. समापन्नस्य कथं कायविज्ञानम् इति. अत्रोच्यते. समाधिविशेषजेन प्रश्रब्धिनाम्ना सुखवेदनीयेन सुखवेदनानुकूलेन वायुना कायस्फरणात् कायध्मापनात्. किं. कायविज्ञानं भवत्य् एवेति. बहिर्विक्षेपात् समाधिभ्रंश इति चेत्. यदि मन्येत काय्विज्ञानोत्पत्त्या बहिर्विक्षेपाद् बाह्यविषयविक्षेपात् समाधिभ्रंश इति. न. समाधिजस्येति विस्तरः. नैतद् एवं भविष्यतीति. कस्मात्. समाधिजस्यांतःकायसंभूतस्याबहिर्जभूतस्येत्य् अर्थः. कायसुखस्य कायविज्ञानसंप्रयुक्तस्य वेदितसुखस्य समाध्यनुकूलत्वान् नास्मात् समाधिभ्रंश इत्य् अर्थः. न. [तिब्. 341अ] अत एवेति. न कायविज्ञानकाले व्युत्थितः स्यात्. अत एव कारणात् समाध्यनुकूलत्वाद् इत्य् अर्थः. तत्संमुखीभावान्तरं हि पुनर् उपतिष्ठते समाधिर् इत्य् अभिप्रायः. कामावचरेण कायविज्ञानेन रूपावचरस्य स्प्रष्टव्यस्याग्रहणाद् रूपावचरम् एतत् कायविज्ञानं न कामावचरम्. अत एव तत्संप्रयोगि सुखं ध्यानांगं न सिध्यति. प्रश्रब्धिज्ञानस्योत्पत्तेर् इति. रूपावचरस्याः कामावचरेण [कायविज्ञानेन] कायेन्द्रियेण समधिबलाधानतः. तद् धि कायेन्द्रियं समाहितस्य ताम् अवस्थां गतं. यद् ऊर्ध्वभूमिकस्य कायविज्ञानस्याश्रयो भवतीति. अनास्रवे अपीति. स्प्रष्टव्यं च प्रश्रब्धिलक्षणं तदालंबनं च कायविज्ञानं स्प्रष्टव्यकायविज्ञाने ऽनास्रवे अपि स्यातां. किं कारणम् इत्य् आह. मा भूत् किंचिद् अंगं सास्रवं किंचिद् अनास्रवम् इति चेत्. यद्य् एवं मन्येत. कायिकप्रश्रब्धिसंबोध्यंगवचनाद् इष्टे. यापि कायप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तते. यापि ( अभिध्-क्-व्य् 675 ) चित्तप्रश्रब्धिर् यावद् एव स्प्रष्टव्यानि संबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तत इति वचनात्. बोध्यंगवचनाद् इष्टे [तिब्. 341ब्] स्प्रष्टव्यकायविज्ञाने अनास्रवे इति. बोध्यंगानुकूलत्वाद् इति चेत्. अथैवं परिह्रियेत. यस्मात् कायिकी प्रश्रब्धिर् बोध्यंगानुकूला. तस्माद् बोध्यंगम् इत्य् उपचर्यते न तु बोध्यंगम् इति. अनास्रवत्वम्

अप्य् एवं. अनास्रवत्वानुकूलत्वात् ते स्प्रष्टव्यकायविज्ञाने अनास्रवे इत्य् उपचर्येते. न त्व् अनास्रवे एवेति. एवम् अनयोर् अनास्रवत्वं. सास्रवा धर्मा इति विस्तरः. सास्रवा धर्माः कतमे. यावद् एव चक्षुर् यावन्ति एव रूपाणि यावद् एव चक्षुर्विज्ञानं. यावद् यावान् एव कायो यावन्त्य् एव स्प्रष्टव्यानि यावद् एव कायविज्ञानम् इति. अस्य सूत्रस्य विरोध इति एवं चेन् मन्येत. तन् न. अन्यस्प्रष्टव्यकायविज्ञानाभिसंधिवचनात्. तत् प्रश्रब्धिव्यतिरिक्तानां स्प्रष्टव्यानां कायविज्ञानव्यतिरिक्तानां च कयविज्ञानानाम् अभिसंधिवचनात्. न चानास्रव इति विस्तरः. नन्व् अनास्रवे ऽनास्रववव्यवस्थाने किंचिद् अंगं सास्रवं किंचिद् अनास्रवं स्याद् इति. यद्य् एष दोष इति मन्येत. तत्स्प्रष्टव्यकायविज्ञानस्य सास्रवत्वात्. तदितरस्यानास्रवत्वात्. अत्रोच्यते. अयौगपद्यात् को दोष इति. [तिब्. 342अ] यदा सास्रवम् अंगं समुदाचरति. न तदानास्रवं समुदाचरति. यदानास्रवम् अंगं. न तदा सास्रवम् इत्य् अदोष एषः. सुखप्रीत्यसमवधानात्. सुखस्य कायिकस्य प्रीतेश् च मानस्याः असमवधानाद् अयौगपद्यात्. न पंचांगं प्रथमं ध्यानं स्याद् इति चेत्. यद्य् एवं मन्येत. न स दोषः. कस्मात्. संभवं प्रत्य् उपदेशाद् वितर्कविचारवत्. यथा सवितर्कं सविचारं प्रथमं ध्यानम् इति पर्यायेण वितर्कविचारौ भवतः. एवं सुखप्रीती अपि संभवं प्रत्य् उपदेशाद् अदोष एष इति. साध्यम् इति चेत्. वितर्कविचारौ पर्यायेण भवत इति साध्यम् इति. आह. सिद्धं. कथम् इत्य् आह. वितर्कविचारयोर् विरोधाद् इति. यद्य् औदारिकता चित्तस्य. सूक्ष्मता नास्ति. यदि सूक्ष्मता. औदारिकता नास्तीति. विरोधाद् वितर्कविचारयोर् अयौगपद्यं. दोषवचनाच् चेति. आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदाद् इत्य् आ भवाग्राद् वितर्कविचारौ स्याताम् इत्य् आदि. केषांचित् पाठो भवति दोषावचनाच् चेति. अस्मवधानेन च न कश्चिद् दोष उच्यत इत्य् अर्थः. द्वित्रिचतुरंगापकर्षेणेति. द्व्यङ्गापकर्षेण द्वितीयध्यानव्यवस्थानं. तत्र वितर्कविचारयोर् अभावत्. [तिब्. 342ब्] त्र्यंगापकर्षेण तृतीयध्यानव्यवस्थानं. तत्र प्रीतिर् अपि नास्तीति. चतुरंगापकर्षेण ( अभिध्-क्-व्य् 676 ) चतुर्थध्यानव्यवस्थानं. तत्र सुखम् अपि नास्तीति. न तु संज्ञादीनाम् अंगत्वम् उक्तम् इति. न हि संज्ञादीनां ध्यानान्तरेष्व् अपकर्सो ऽस्तीति. किम् अर्थं पंचानाम् एवांगत्वं. यद्य् अयम् अर्थो नाभिप्रेत इति. यद्य् उपकरत्वात् पंचानाम् एवांगत्वं. तन् न. वितर्कविचाराभ्यां स्मृतिप्रज्ञयोर् उपकरत्वात्. न हि. तथा वितर्कविचाराव् उपकरौ यथा स्मृतिप्रज्ञे इष्टे. सूपस्थितस्मृतेर् यथाभूतंप्रजानतो लयौद्धत्याद्यभावतः.
तस्माद् विचार्यम् एतद् इति. योगाचारभूमिदर्शनेन विचार्यम् एतद् इति तत्र कौतूहलं पातयत्य् आचार्यः. अयं चात्रार्थसंक्षेपो द्रष्टव्यः. किं पुनर् अधिकृत्य वितर्कादय एवांगत्वेन व्यवस्थापिताः सत्स्व् अन्येषु धर्मेषु. तावद्भिः. प्रतिपक्षानुशंसतदुभयाश्रयांगपरिसमाप्तेः. आरूप्येष्व् अंगव्यवस्थानं नास्ति. शमथैकरसताम् उपादाय. तद् उक्तं प्रतिपक्षांगम् उपदाय. अनुशंसाङ्गम् उपादाय. तदुभयसंनिश्रयांगं चोपादाय. प्रथमे तावद् ध्याने वितर्को विचारश् च प्रतिपक्षांगं. तभ्यां कामव्यापादविहिंसावितर्कप्रहाणात्. प्रीतिः सुखं चानुशंसांगं. [तिब्. 343अ] वितर्कविचाराभ्यां प्रतिपक्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात्. चित्तैकाग्रता तदुभयसंनिश्रयांगं. संनिश्रयबलेन वितर्कादिप्रवृत्तेर् इति. तथा द्वितीये ध्याने ऽध्यात्मसंप्रसादः प्रतिपक्षांगं. तेन वितर्कविचारप्रतिपक्षणात्. प्रीतिसुखे चित्तैकाग्रता च शेषे अंगे पूर्ववत्. तृतीये ध्याने उपेक्षास्मृतिसंप्रजन्यं च प्रतिपक्षांगः. तैः प्रीतिप्रतिपक्षणात्. सुखं चित्तैकाग्रता च शेषे अंगे यथाक्रमं पूर्ववत्. चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश् च प्रतिपक्षांगं. ताभ्यां ध्यानेषु सुखप्रतिपक्षणात्. अदुःखसुखा वेदना अनुशंसांगं. चित्तैकाग्रता तदुभयसंनिश्रयांगम् इति.
श्रद्धा प्रसाद इति. श्रद्धैव प्रसादः श्रद्धाप्रसादः.
कथम् असति द्रव्यान्तरत्वे चैतसिकत्वम् इति. वितर्कादीनां. अवस्थाविशेषो ऽपि हि नाम चेतसश् चैतसिको भवति. चेतसि भवत्वात्. पर्येषकमनोजल्पावस्था वितर्कः. प्रत्यवेक्षकमनोजल्पावस्था विचारः. वाक्समुत्थापिकावस्था चित्तस्य वितर्कः. तदन्यावस्था विचार इति भगवद्विशेषः. अविक्षिप्तावस्था समाधिः. [तिब्. 343ब्] प्रशान्तवाहितावस्था चित्तस्याध्यात्मसंप्रसाद इति.
न वै सुखं ध्यानेषु सौमनस्यं युज्यत इति. तुल्यसुखवेदनास्वाभाव्ये मानसत्वे ऽपि सति. कस्मात् सौमनस्यं सुखम् इति नोच्यते. अस्ति ( अभिध्-क्-व्य् 677 ) कारणं. इयं हि प्रीतिर् अनुपशांता. तया हि तत् समाहितम् अपि चित्तं क्षिप्यत इवोन्नम्यत इव सामोदं सहासं विप्लुतम् इव व्यवस्थाप्यते. तद् यदोपशांतं भवति. तदा भूम्यन्तरप्राप्ता तज्जातीयैव वेदना सुखम् इत्य् उच्यते.
(विइइ.10) क्लेशाविविक्तत्वाद् इति. तद्भूमिकैः क्लेशैर् अविविक्तत्वाद् इत्य् अर्थः. क्लेशाविलत्वाद् इति. क्लेशैर् अप्रसन्नत्वाद् इत्य् अर्थः. क्लिष्टसुखसम्भ्रमितत्वाद् इति. क्लिष्टेन सुखेन संभ्रमितत्वात्. स्मृतिः संप्रजन्यं च न भवतः. क्लेशमलिनत्वाद् इति. तद्भूमिकैः क्लेशैर् मलिनत्वात्. उपेक्षायाः स्मृतेश् च परिशुद्धिर् नास्ति.

कुशलमहाभूमिकत्वाद् अनयोर् इति. प्रश्रब्ध्युपेक्षे कुशलमहाभूमिके पठिते.
श्रद्धाप्रमादः प्रश्रब्धिर् उपेक्षा ह्रिर् अपत्रपा
मूलद्वयम् अहिंसा च वीर्यं च कुशलं सदेति
वचनात्. किं पुनर् एते पूर्वस्मिन् पक्षे क्लिष्टेष्व् अपि ध्यानेषु भवतः. न च भवत इत्य् आह. कस्माद् एतन् नोक्तं. अनुक्तसिद्धत्वात्. कुशलमहाभूमिकयोः प्रश्रब्ध्युपेक्षयोर् अपरिग्रहाद् भवत एव ते इत्य् अपरे.
(विइइ.11) श्वासे इति.
[तिब्. 344अ] आश्वासप्रश्वासौ. द्वित्वप्रदर्शनार्थं चात्र द्विवचननिर्देशः. वितर्कविचारप्रीतिसुखैर् अकंपनीयत्वाद् इति. यथा पूर्वकाणि त्रीणि ध्यानानि वितर्कादिभिः. कंप्यते प्रथमं ध्यानं वितर्कविचाराभ्यां कंप्यते. द्वितीयं प्रीत्या. तृतीयं सुखेन. नैवम् एभिश् चतुर्थं कंप्यते.
यथा निवाते दीपो न कंप्यते वायुना. तद्वद् इत्य् उक्तं सूत्र इत्य् अपर आहुः. अष्टापक्षालमुक्तत्वात्.
(विइइ.13) आद्याप्तम्
इति. आद्यध्यानसंगृहीतं. निर्माणचित्तवद् इति. यथाधरभूमिकं निर्माणचित्तं तद्भूमिकं निर्माणं निर्मातुकामा निर्मातारः संमुखीकुर्वन्ति. तद्वत्. न कुशलं हीनत्वाद् इति. तद् धि प्रथमध्यानभूमिकं कुशलं द्वितीयध्यानभूमिकान् निहीनं निकृष्टम्. अतो न संमुखीकुर्वन्ति. प्रयोजनेन हि ते प्रथमध्यानभूमिकं संमुखीकुर्वन्ति. न बहुमानेन. सविपाकं च तत् कुशलं. न च तद्विपाकेन ते ऽर्थिन इति कुशलचित्तसंमुखीकरणे यत्नं न कुर्वन्ति.
(विइइ.14) वैराग्येणोपपत्तित
इति. वैराग्येणोपपत्तितो वेति. वाशब्दो लुप्तनिर्देशः. अधोभूमिवैराग्याद् ( अभिध्-क्-व्य् 678 ) वा असमन्वागतस् तेन शुद्धकं प्रतिलभते ध्यानं आरूप्यं वा. कामवैराग्यात् प्रथमं शुद्धकं प्रतिलभते त्रिप्रकारम् अन्यत्र निर्वेधभागीयात्. एवं यावद् आकिंचन्यायतनवैराग्याद् [तिब्. 344ब्] भवाग्रं प्रतिलभते. अधोभूम्युपपत्तितो वा. उपरिष्टाद् अधरायां भूमाव् उपपद्यमानस् तल् लभते. अन्यत्र भवाग्राद् इति. तस्याधोभूमिवैराग्यत एव लाभः. प्रयोगतो निर्वेधभागीयम् इति. तस्य वैराग्योपपत्तिकृतः स लाभो न भवति. परिहाणितो ऽपि हानभागीयम् इति. स्थितिभागीयात् परिहीयमाणो हानभागीयं लभते. अत एवोच्यत इति. यस्मात् परिहीणो पि हानभागीयं लभते. एवं परिहाण्या चोपपत्त्यापि चेति योज्यं. कथं. स्याच् छुद्धकं परिहाण्या लभेत परिहाण्या विजह्यात्. स्याच् छुद्धकं ध्यानम् उपपत्त्या लभेत उपपत्त्या विजह्याद् इति. आह. स्यात्. कथम् इत्य् आह. हानभागीयं प्रथमं ध्यानम् इति. ब्रह्मलोकः प्रथमं ध्यानं त्रिभूमिकं. विशेषेण ब्रह्मलोके उपपद्यमान इति वचनात्. ब्रह्मलोकवैराग्येण त्यज्यत इति. यस्मात् प्रथमध्यानवैराग्येण हानभागीयं ध्यानं क्लेशानुगुण्यात्. तद्भूमिकक्लेशम् इव त्यजति. अतो ब्रह्मलोकवैराग्येण त्यज्यत इत्य् उच्यते. एवं तावत् प्रथमस्य प्रश्नस्य विवर्जनं. ब्रह्मलोकवैराग्यपरिहाण्या लभते. यदि ब्रह्मलोकवैराग्यपरिहाण्या परिहीयते पुनस् तद् धानभागीयं प्रतिलभते. तद्भूमिकक्लेशवत्. [तिब्. 345अ] कामधातुवैराग्यपरिहाण्या त्यज्यते. यदा कामधातुवैराग्यात् परिहीयते. तदा शुद्धकं त्यज्यते. उपरिष्टाद् ब्रह्मलोक उपपद्यमानो लभत इति. द्वितीयादिभ्यो ब्रह्मलोक उपपद्यमानो हानभागीयं तद्भूमिकक्लेशवद् एव लभते. तस्मात् कामधाताव् उपपद्यमानो विजहातीति. तस्माद् ब्रह्मलोकात् कामधाताव् उपपद्यमानो विजहातीति. इन्द्रियसंचारतो ऽपि शैक्षाशैक्षम् इति. श्रद्धाविमुक्तो दृष्टिप्राप्तायां शैक्षं लभते. समयविमिक्तो ऽप्य् अकोप्यप्रतिवेधे अशैक्षं लभते. नावश्यम्. आनुपूर्विकेनालाभाद् इति. यद्य् आनुपूर्विको ऽनागम्यसंनिश्रयेण नियामम् अवक्रामति न लभते.
(विइइ.15, 16) स्वभूमिके शुद्धानास्रवे इति. व्युत्थानकाले प्रवाहे च. द्वितीयतृतीयध्यानभूमिके चेति. मिश्रकामिश्रकानुलोमसमापत्तौ व्युत्क्रान्तकसमापत्तौ च. सप्त स्वभूमिके शुद्धकानास्रवे इति. पूर्ववद् विज्ञानाकाशानंत्यायतनभूमिके च. तथैव प्रतिलोमसमापत्तौ. भवाग्रं शुद्धकम् एवानास्रवाभावाद् इति. मांद्याद् अनास्रवं नास्तीत्य् उक्तं. अनुलोमसमापत्तौ तु व्युत्थानकाले तद् भवति. तृतीयचतुर्थप्रथमध्यानभूमिके चेति. अमिश्रकमिश्रकानुलोमप्रतिलोमव्युत्क्रान्तसमापत्तिकालेषु. [तिब्. 345ब्] ( अभिध्-क्-व्य् 679 ) आकाशानंत्यायतनचतुर्थध्यानभूमिकानि चत्वारीति. तेष्व् एव कालेषु. त्रीणीत्य् अनास्रवाभावात्. एवम् अन्यध्यानारूप्याद् अनंतरं दश द्रव्याणि योज्यानीति. तद्यथा तृतीयध्यानाद् अनन्तरं दश. स्वभूमिके द्वे शुद्धकानास्रवे. चतुर्थध्यानाकाशानंत्यायतनभूमिकानि चत्वारि. तथैव च प्रथमद्वितीयध्यानभूमिकानि चत्वारीति. चतुर्थध्यानाद् अनन्तरं दश. स्वभूमिके द्वे शुद्धकानास्रवे. आकाशविज्ञानानंत्यायतनभूमिकानि चत्वारि. द्वितीयतृतीयध्यानभूमिकानि चत्वारीति. आकाशानंत्यायतनाद् अनन्तरं दश. स्वभूमिके द्वे. विज्ञानाकिंचन्यायतनभूमिकानि चत्वारि. तृतीयचतुर्थध्यानभूमिकानि चत्वार्य् उत्पद्यन्त इत्य् एवं दश भवन्ति. अन्वयज्ञानानन्तरं चेति विस्तरः. इदं व्युत्पाद्यते. ऊर्ध्वाधरभूम्यालंबनत्वाद् ध्यानानम् अस्ति प्रसंग इति कृत्वा. तस्याधराश्रयालम्बनत्वाद् इति. यमात् तद् धर्मज्ञानम् अधराश्रयकामधात्वाश्रयम् अधरालम्बनं कामदुःखाद्यालम्बनं. तस्याधराश्रयालम्बनत्वान् न धर्मज्ञानानन्तरम् आरूप्यान् समापद्यन्ते. शेषं यथैवानास्रवाद् इति. स्वभूमिके च शुद्धानास्रवे उत्पद्येते. ऊर्ध्वाद् अधोभूमिके च [तिब्. 346अ] यावत् तृतीयाद् इति. प्रणिधायेति विस्तरः. यदि कश्चिद् एवं बुद्धिम् उत्पाद्यार्धरात्रे चन्द्रोदये चन्द्रास्तमये वा मया प्रबोद्धव्यम् इति स्वपेत्. स पूर्वाभिप्रायानुवर्तनात् संतततेः तस्मिन्न् एव काले प्रबुध्यते. यथास्यैवं प्रणिधाय सुप्तः. तस्याभिप्रेते काले प्रबोधो भवति. तद्वद् एतत्. सर्वथा नोत्पद्यत इति. नापि स्वभूमिकं नाप्य् अधरभूमिकम् उत्पद्यत इत्य् अर्थः. समापत्तिकालं प्रत्य् एतद् उक्तम् इति. शुद्धकात् क्लिष्टाच् च समनन्तरं स्वभूमिकम् एव क्लिष्टम् उत्पद्यते नान्यभूमिकम् इति. कथं. तथा शुद्धात् क्लिष्टं वापि स्वभूमिकं. क्लिष्टात् स्वं शुद्धकं क्लिष्टम् इत्य् एवं.
च्युतिकाले तु
मरणभवे. उपपत्तिलाभिकाच् छुद्धकाद् इति विस्तरः. उपपत्तिध्यानेषु यद् उपपत्तिलाभिकं कुशलसमाहितं. तद् अपि शुद्धकं ध्यानम् इत्य् उच्यते. अत इदम् उच्यते.
च्युतिकाले त्व्
इति विस्तरेण. किं कारणं. असमाहितत्वान् मरणभवस्य. न हि तदानीं शुद्धकं समापत्तिध्यानम् अस्तीति. अतः सर्वभूमिकं क्लिष्टम् उत्पद्यत इति. स्वभूमिकाधरोर्ध्वभूमिकं प्रतिसंधिचित्तं क्लिष्टम् असमाहितम् उत्पद्यत इत्य् अर्थः. नोर्ध्वभूमिकं. क्लिष्टसद्भावे सति तत्रोपपत्त्यसंभवात्.

(विइइ.17, 18) अन्यत्र विशेषभागीयाद् [तिब्. 346ब्] इति. इत ऊर्ध्वभूम्यभावात्. तस्माद् अनास्रवम् उत्पद्यत इति निर्वेधभागीयात्. हानस्थितिभागीये इति. हानभागीयं प्रवाहकाले. स्थितिभागीयं विशेषगमनकाले. अन्यत्र हानभागीयाद् इति. विशेषभागीयाद् धीयमानस्य स्थितिभागीयापरित्यागे तस्यैवोत्पत्तियोगात्. तद् एवैकं इति. तद् एव निर्वेधभागीयं प्रवाहयोगेन.
(विइइ.19) आकृष्टा इत्य् अनुक्रमेणेति. अनुलोमानुक्रमेण प्रतिलोमानुक्रमेण च.
(विइइ.20) विधीयत इति क्रियत इत्य् अर्थः. स्थाप्यत इति वा. किं कारणं. निहीनत्वात्.
आर्याकिंचन्यसांमुख्याद्
इति. आर्यम् अनास्रवं. अनास्रवस्याकिंचन्यायतनस्य सांमुख्यात् संमुखीभावात्. भवाग्रे जातस्यास्रवप्रहाणं भवति. तुशब्दो ऽपवादार्थं द्योतयति. स्वस्याभावाद् इति. भावाग्रिकस्यानास्रवस्य मार्गस्याभावाद् इत्य् अर्थः. तस्य चाभ्यासाद् इति. तस्याकिंचन्यायतनस्यानास्रवस्याभ्यासात् संनिकृष्टत्वात्.
(विइइ.21) तृष्णापरिच्छिन्नत्वाद् भूमीनाम् इति. या यस्यां भूमौ. तस्याम् एव भूमाव् अनुशयनात्. तया सा भूमिः परिच्छिन्ना भवति. अन्यथा हि तस्योत्तरत्वम् एव न सिध्येद् एकभूमिस्थानान्तरवत्. अत एवौत्तराधर्ये ऽपि स्थानान्तराणां त्रयाणां त्रयाणाम् अष्टानां [तिब्. 347अ] चैकभूमिता सिध्यति. तृष्णाव्यतिहारयोगात्. नानास्रवं कुशलत्वप्रसंगाद् इति. तत्प्रार्थना हि कुशलो धर्मच्छन्द इति.
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इति. मौलग्रहणं सामन्तकनिरासार्थं. आरूप्यसामन्तकानि ह्य् अधरां सास्रवां भूमिम् आलंबते. कुशलग्रहणम् आस्वादनासंप्रयुक्तनिरासार्थं. उभयकुशलग्रहणार्थं च. यदि ह्य् आरूप्या इत्य् एवोच्येत आस्वादनासंप्रयुक्ता मौला आरूप्या न सास्रवाधरगोचरा इति संभाव्येरन्. अनास्रवा एवारूप्या एवम् इति गृह्येरन्. आरूप्यग्रहणं ध्याननिरासार्थं. ध्यानानि हि मौलानि अपि सास्रवाधरवस्त्वालम्बनानि भवन्ति. समन्तालोचनत्वाद् ध्यानानां. सास्रवग्रहणम् अनास्रवनिवृत्त्यार्थम्. अनास्रवा ह्य् अधरा धर्मा मौलानां कुशलानां आरूप्यानाम् आलम्बनानि संभवन्ति. अधरग्रहणम् ऊर्ध्वविशेषणार्थं. ऊर्ध्वभूमिकसास्रवालम्बनसंभवात्. अनास्रवं त्व् आलम्बनम् इत्य् उद्ग्राह्य दर्श्यति सर्वान्वयज्ञानपक्ष इति. सर्व इति नवभूमिक इन्द्रियगोत्रादिभेदाभिन्नो ऽपि गृह्यते. अन्वयज्ञानपक्ष इति पक्षग्रहणेन दुःखाद्यन्वयज्ञानक्षान्तयः तत्सहभुवश् ( अभिध्-क्-व्य् 681 ) च गृह्यन्ते. [तिब्. 347ब्] न धर्मज्ञानपक्षः. कामदुःखाद्यालम्बनत्वेन विप्रकृष्टत्वात्. नाधोभूमिनिरोधः. अधोभूमिग्रहणप्रसंगाद् इति. व्याख्यातम् एतत् पुरस्तात्.
(विइइ.22) अनास्रवेण हीयन्ते क्लेशा
इति. ध्यानारूप्याणां यो ऽनास्रवः संभवति. तेन यथासंभवं क्लेशाः प्रहीयन्ते. कतमेनानास्रवेण मौलेन. वक्ष्यते हि
सामन्तकेन चेति.
अपवादरूपेण सामन्तकेन शुद्धकेन क्लेशाः प्रहीयन्त इत्य् अधिकृतं. कुत एव क्लिष्टेनेति. क्लिष्टेन क्लेशप्रहाणं नैव संभवतीत्य् अभिप्रायः. किं कारणं शुद्धकेन क्लेशा न प्रहीयन्त इत्य् आह. वीतरागत्वान् नाध इति विस्तरः. अधरभूमिवीतरागत्वान् न शुद्धकेनाधरभूमिकाः प्रहीयन्ते. कुत एव क्लिष्टेन. तस्यैव तदप्रतिपक्षत्वान् न स्वभूमौ. तस्यैव प्रथमध्यानस्य यावन् नैवसंज्ञानासंज्ञायतनस्य. तदप्रतिपक्षत्वात् तस्याप्रतिपक्षस् तदप्रतिपक्षः. तद्भावः. तस्मात्. तदप्रतिपक्षत्वान् न स्वभूमौ क्लेशाः प्रहीयन्ते. न हि भवेन भवस्य निःसरणम् अस्ति. विशिष्टतरत्वान् नोर्ध्वम् इति. नोर्ध्वभूमिकाः [तिब्. 348अ] क्लेशाः अधरभूमिकेन शुद्धकेन प्रहीयन्ते. विशिष्टतरत्वात् क्लेशानां. न च न्यूनम् आश्रित्य विशिष्टानां प्रहाणं युज्यते. इत्य् अनेन शुद्धकेनापि क्लेशा न प्रहीयन्ते. कुत एव क्लिष्टेनेति सिद्धम् एतत्. शुद्धकेनापीत्य् अपिशब्दाद् अनास्रवेणापीति. संभवतस् त्व् एतद् उक्तं. अत एवोच्यते. अधोभूमिप्रतिपक्षत्वात् इति. कामावचरा हि क्लेशाः प्रथमध्यानसामन्तकेन प्रहीयन्ते. प्रथमध्यानभूमिका द्वितीयध्यानसामन्तकेन. एवं यावद् आकिंचन्यायतनभूमिका नैवसंज्ञानासंज्ञायतनसामन्तकेनेति.
(विइइ.22) येन तत्प्रवेश इति. येन सामन्तकेन तेषां मौलानां ध्यानारूप्याणां प्रवेशः. किं तान्य् अपि त्रिविधानीति. आस्वादनासंप्रयुक्तादिभेदात्. तथैव च तेषु वेदनेति. प्रथमयोर् ध्यानयोः प्रीतिः. तृतीये सुखं. चतुर्थ उपेक्षेत्य् उक्तं. किम् एवं सामन्तकेषु. उपेक्षेन्द्रियसंप्रयुक्तानि च यत्नवाह्यत्वाद् इति. अनाभिसंस्कारवाही मार्गः प्रीतिसुखाभ्यां संप्रयुज्यते. तानि च सामन्तकानि यत्नवाह्यानि साभिसंस्कारवाह्यानीत्य् अत उपेक्षेन्द्रियसंप्रयुक्तानि. [तिब्. 348ब्] पुनर् अधोभूम्युद्वेगानपगमात् प्रीतिसुखयोर् अयोग इति. अतो ऽप्य् उपेक्षेन्द्रियसंप्रयुक्तानि. वैराग्यपथत्वाच् च. नास्वादनासंप्रयुक्तानीति. यदि ह्य् आस्वादनासंप्रयुक्तानि स्युर् वैराग्यमार्गो न स्यात्. न हि तृष्णासंप्रयुक्तो मार्गः क्लेशप्रहाणाय ( अभिध्-क्-व्य् 682 ) भवति. अथ वायम् अभिसंबन्धः. उपेक्षेंद्रियसंप्रयुक्तानि च यत्नवाह्यत्वात्. अधोभूम्युद्वेगानपगमाद् वैराग्यपथत्वाच् चेति द्वाभ्यां कारणाभ्यां नास्वादनासंप्रयुक्तानीति. पूर्ववद् वक्तव्यं शेषं. यद्य् अपि सामन्तकचित्तेन संधिबन्ध इति. अष्टास्व् अपि ध्यानारूप्येषु यस्य यत् सामन्तके. तस्य तेन सामन्तकचित्तेन क्लिष्टेनासमाहितेन संधिबन्ध इत्य् एष सिद्धान्तः इति. अत इदम् उच्यते. यद्य् अपि सामन्तकचित्तेनेति विस्तरः. आस्वादनासंप्रयुक्तम् अप्य् अनागम्यम् इति. अनागम्यस्य पटुत्वात्. यथा हि तद् अनास्रवम् अपि संभवति. तथास्वादनासंप्रयुक्तम् अपीत्य् अभिप्रायः. मौलप्रतिस्पर्धित्वाद् आस्वादनासमुत्पत्तिसद्भावाद् इति आचार्यसंघभद्रः.
(विइइ.23) ध्यानविशेषत्वाद् इति. तद् एव मौलं प्रथमं ध्यानं वितर्कापगन्माद् विशिष्टं [स] ध्यानान्तरम् इत्य् उच्यते [तिब्. 349अ] इत्य् अर्थः. विशेषाभावाद् इति. यथा प्रथमे ध्याने विशेषो भवति. क्वचिद् वितर्कविचारौ. क्वचिद् विचार एवेति. न तथा द्वितीयादिष्व् इति. अतो ध्यानेषु न व्यवस्थाप्यते ध्यानान्तरम्. अत एव दुःखा प्रतिपद् इति. अत एव हि संस्कारवाहित्वात्. वितर्कमात्रप्रतिषेधाद् इति.
अतर्कं ध्यानम् अन्तरं
इति वचनात्.

(विइइ.24, 25) तदालम्बनः समाधिर् आनिमित्त इति. अनिमित्ते भव आनिमित्तः. दशाकार इति. अनित्यदुःखाकारौ द्वौ. समुदयाकारश् चत्वारो मार्गाकारश् चत्वार इत्य् एते दशाकाराः. अनित्यदुःखतद्धेतुभ्य उद्वेगाद् इति. अनित्याद् दुःखात् तद्धेतोश् च. तस्य दुःखस्य हेतोश् च समुदयाद् उद्वेगात्. किं. अप्रणिहितः. अकृतसंस्कार इत्य् अर्थः. मार्गस्य कोलोपमतयावश्यत्याज्यत्वात्. कोल उच्यते उडुपः. स उपमास्येति कोलोपमः. मार्गः. तद्भावः. तया. कोलोपमतया मार्गस्यावश्यत्याज्यत्वं. तस्माद् अप्रणिहित इत्य् अधिकृतः. यथा हि कोलम् आश्रित्य नदीम् उत्तरन् न कोलनिष्ठो भवति. तस्यावश्यत्याज्यत्वात्. एवं मार्गम् आश्रित्य न मार्गनिष्ठो भवति. तस्यावश्यत्याज्यत्वात्. तदाकार इति. तद्दशाकारो [तिब्. 349ब्] यथोक्तः. तदतिक्रमाभिमुखत्वाद् इति. तस्य मार्गस्यातिक्रमे ऽभिमुखत्वात्. अनेनावश्यत्याज्यत्वम् अस्य दर्शयति. अनित्यदुःखतद्धेत्वतिक्रमाभिमुख इत्य् अनुक्तम् अप्य् एतद् गम्यत एव. शून्यता-अनात्मताभ्यां तु नोद्वेग इति. शून्यानात्माकाराभ्यां तु नोद्वेगो योगिनो भवति. यद्य् अपि हि दुःखसत्यं शून्यानात्माकाराभ्याम् आकार्यते. न तु ताभ्यां तस्माद् दुःखाद् उद्वेगः. कस्मात्. निर्वाणसामान्यात्. निर्वाणम् अपि शून्यानात्मलक्षणं. शून्यता-अनात्मते हि सर्वधर्माणां लक्षणम् ( अभिध्-क्-व्य् 683 ) इति. न च ताभ्यां तस्मान् निर्वाणाद् उद्वेगः. तस्मान् न तदाकारो ऽप्रणिहितसमाधिर् इति. लौकिका एकादशस्व् इति. कामधाताव् अनागम्ये ध्यानान्तरे ध्यानारूप्येषु चेति. यत्र मार्ग इति. कामधातुभवाग्रद्वितीयादिसामन्तकवर्जितासु भूमिषु. मोक्षद्वारत्वाद् इति. द्वारार्थो मुखार्थ इति दर्शयति.
(विइइ.25, 26) शून्यताद्यालम्बनत्वात् तन् नामेति. शून्यताप्रणिहितानिमित्तालम्बनत्वात्. शून्यताशून्यतेति नाम. अप्रणिहिताप्रणिहितेति. आनिमित्तानिमित्त इति च.
शून्यतश् चाप्य् अनित्यत
इति. यथासंख्येन. शून्यताशून्यता [तिब्. 350अ] हि शून्यताकारेणाशैक्षं शून्यतासमाधिम् आलम्बते नायम् आत्मीयम् इति. नानात्माकारेण.
आह. किम् अत्र कारणं यच् छून्यताशून्यतासमाधिः शून्यताकार एव. न पुनर् अनात्माकारो ऽपि शून्यतावद् इति. अत्रोच्यते. शून्यताकारप्रवृत्तशून्यतापृष्ठोत्पाद्यत्वात्. आह. किम् अर्थं पुनः शून्यताकारप्रवृत्तशून्यतापृष्ठेनोत्पत्तिर् न पुनर् अनात्माकारप्रवृत्तशून्यतापृष्ठेनेति. अत्रोच्यते. तदुत्पत्त्यानुकूल्यात्. स एव हि शून्यताकारप्रवृत्तशून्यतासमाधिस् तस्य शून्यताशून्यतासमाधेर् उत्पत्ताव् आनुकूल्येनावतिष्ठते. नानात्माकारः. न ह्य् एवम् अनात्मदर्शनम् उद्वेजयति यथा शून्यदर्शनं. दृष्टेष्व् अपि ह्य् अनात्मतो भवेष्व् अभिरतिर् अस्ति संसारे शून्यदर्शनाभावात्. तद्यथाध्वगस्यासंबंधाद् अध्वगदर्शनाद् अपि प्रीतिः. एकाकिनस् तु तच्छून्यत्वाद् अप्रीतिर् इति. तद्वत्.
अनित्याकारेणेति. दशानाम् आकाराणां. न दुःखत इति विस्तरः. न दुःखत आकारयंत्य् अनास्रवस्यातल्लक्षणत्वात्. आर्यप्रतिकूलतया हि दुःखम् इष्यते. न हेतुसमुदयप्रभवप्रत्ययाकारैर् अनास्रवस्यातल्लक्षणत्वाद् एवानास्रवस्यासमुदयादिलक्षणत्वाद् इत्य् अर्थः. न मार्गाकारैर् [तिब्. 350ब्] दूषणीयत्वाद् इति. सो ऽशैक्षः समाधिर् दूषयितव्यो न च मार्गाकारा दूषणरूपा इति. अतो न मार्गाकारैस् तं समाधिम् आलम्बते. निरोधाकारैस् तु नैव सम्बन्ध इति. न तैश् चिन्त्यते. पारिशेष्याद् अनित्याकारेणैव.
असंख्येयाक्षयम्
इत्य् अप्रतिसंख्यानिरोधम् इत्य् अर्थः. अशैक्षस्यानिमित्तस्य समाधेर् अप्रतिसंख्यानिरोधम् आलम्बते. शान्ततः शान्तो ऽयम् इति. कथं तस्याप्रतिसंख्यानिरोधः. अशैक्षाद् आनिमित्तात् समाधेर् व्युत्थितस्य तदनन्तरं ये सास्रवाः क्षणा अतिक्रामन्ति अन्ये चानास्रवाः. यदि ते नोत्पन्नाः. स्युः. अशैक्षा ( अभिध्-क्-व्य् 684 ) आनिमित्तक्षणा उत्पन्नाः स्युः. तेषां सास्रवाणाम् अन्यानास्रवाणां चोत्पत्तिकाले तेषाम् अशैक्षाणां आनिमित्तक्षणानाम् अप्रतिसंख्यानिरोधो लभ्यते. प्रत्ययवैकल्यात्. तम् अप्रतिसंख्यानिरोधम् आलम्बते शान्ताकारेण. अनास्रवस्य प्रतिसंख्यानिरोधाभावात्. न प्रतिसंख्यानिरोधम् आलम्बते. कस्मात् पुनर् अनास्रवस्य प्रतिसंख्यानिरोधो नास्ति. अप्रतिकूलत्वात्. यद् धि प्रतिकूलम् आर्याणां. तत् संयोगस्य विसंयोगाय यतस् ते यतन्ते. विसंयोगश् च प्रतिसंख्यानिरोधः. अतो ऽनास्रवस्य न प्रतिसंख्यनिरोधः. किं चाशैक्षस्यानिमित्तस्य समाधेः प्रतिसंख्यानिरोधाभावात्. [तिब्. 351अ] अप्रतिसंख्यानिरोधस्य च तत्प्रत्यर्थिकभूतत्वात्. तत्प्रोत्साहनेनैव तद्विदूषणम् अभिलषंस् तदप्रतिसंख्यानिरोधम् एवालम्बते. शत्रूपग्रहेण हि लोके मार्योपघातः क्रियमाणो दृश्यत इति. न निरोधप्रणीतनिःसरणाकारैर् इति. निरोधः साधारणाः. न निरोध इति. तद्भावः. तस्मात्. अनित्यतानिरोधसधारणत्वाद् अयम् अप्रतिसंख्यानिरोधो न निरोधाकारेणाकार्यते. अन्यथा हि शान्ताकारेण तद्विशिष्टेन नालम्बितः स्यात्. निरोधाकारेण ह्य् अनित्यतानिरोधेनैव दूषित एवासाव् अप्रतिसंख्यानिरोधः स्यात्. तद्दूषणेन नाशैक्ष आनिमित्तसमाधिदूषितः स्याद् इत्य् अभिप्रायः. न प्रणीताकारेण. अव्याकृतत्वाद् अप्रतिसंख्यानिरोधस्य. कुशलं हि प्रणीतं नाव्याकृतम्. अतो न प्रणीताकारेणालम्बते. अविसंयोगाच् चाप्रतिसंख्यानिरोधस्य. न निःसरणाकारेण तम् आलम्बते. संक्लेशवियोगो हि संक्लेशनिःसरणम् इष्यते. यस्मान् नाप्रतिसंख्यानिरोधेन संसारनिःसरणं भवति. तथा हि सत्य् अप्य् अप्रतिसंख्यानिरोधे केषांचित् कुशलाकुशलानां धर्माणां तैः संप्रयुक्त एव तत्प्राप्त्यविच्छेदात्. आर्यमार्गद्वेषित्वाद् [तिब्. 351ब्] इति. कथं द्विषति. शून्यतादिभिर् आकारैस् तद्वैमुख्यात्.

अकोप्यस्येति.
अकोप्यधर्मणः. तस्य तीक्ष्णेन्द्रियत्वात् तदुत्पादने सामर्थ्यम् अस्ति. नान्यस्यार्हतः. तेभ्यो दृष्टधर्मसुखविहारत्वाद् आसंगास्पदभूतेभ्यो ऽशैक्षेभ्यः शून्यतादिसमाधिभ्यो वैमुख्यार्थम् अपरसमाधीन् समापद्यन्ते.
(विइइ.27, 28) विस्तर इति. अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मसुखविहाराय वर्तते. अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तते. अस्ति समाधिभावनासेविता भाविता बहुलीकृता प्रज्ञाप्रभेदाय संवर्तते. अस्ति समाधिभावना ( अभिध्-क्-व्य् 685 ) आसेविता भाविता बहुलीकृता आस्रवक्षयाय संवर्तत इति सूत्रं. तत्रासेविता निषेवणभावनया. भाविता विपक्षप्रहाणतया. बहुलीकृता विपक्षदूरीकरणतया.
आह. दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तत इत्य् उक्तं. न च दिव्यचक्षुरभिज्ञासमाधिभावना. अत्रोच्यते. अयं फले हेतूपचारः. यस्य हेतोः समाधिभावनाया दिव्यचक्षुरभिज्ञाफलं. तत्र फले हेतूपचारः. ज्ञानदर्शनाय समाधिभवनेति. येषां पुनर् अयं पक्षः.
षड्विधा मुक्तिमार्गधीर्
इति ध्यानसंगृहीता एव मानसा विमुक्तिमार्गाः षड् अभिज्ञा इति. तेषाम् अचोद्यम् एवैतत्. तेषां विमुक्तिमार्गाणां समाहितत्वात्. पूर्वक एव तु पक्षो अभिधर्मकोशचिन्तकानाम् इत्य् अवगन्तव्यं. दिव्यचक्षुःश्रोत्रविज्ञानयोर् अभिज्ञत्वेनाभीष्टत्वात्. तदादिकत्वात्. अन्योन्यो ऽपीति. उदाहरणत्वरूपोक्तत्वात्. नावश्यं संपरायसुखविहारायेति. संपरायो ऽनागतं जन्म. तत्र सुखविहारः. तस्मै नावश्यम् एतत् भवति. कस्माद् इत्य् आह. परिहीणानां प्रथमध्यानात्. ऊर्ध्वोपपन्नानां द्वितीयादिषु. परिनिर्वृतानां च. संपरायसुखविहारस्याभावात्.
ज्ञानदर्शनायेति
ज्ञानाय दर्शनाय चेति समासः. तत्र [तिब्. 352अ] ज्ञानं मनोविज्ञानसंप्रयुक्ता प्रज्ञा. अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्य् एवमादिविकल्पाद् दर्शनं चक्षुर्विज्ञानसंप्रयुक्ता प्रज्ञा अविकल्पिका. त्रैधातुका अनास्रवा इति. त्रैधातुका अशुभानापानस्मृत्यरणाप्रणिधिज्ञानप्रतिसंविदभिज्ञाविमोक्षाभिभ्वायतनादयः. अनास्रवाः विमोक्षसुखव्युत्क्रान्तकसमापत्त्यास्रवक्षयाभिज्ञादयः. अत्र तु समाधिसंप्रयोगात् प्रायोगिकानां [तिब्. 352ब्] गुणानां समाधिभावनेत्य् उपचारः. प्रज्ञाप्रभेदायेति. प्रज्ञाविशेषकर्षाय. आत्मोपनायिका किलैषा भगवतो धर्मोपदेशनेति. आत्मन उपनायिका आत्मनो देशिकेत्य् अर्थः बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय निःक्रान्तो जम्बुमूले प्रथमं ध्यानम् उत्पादितवान्. बोधिमूले च देवपुत्रमारं भंक्त्वा प्रथमे यामे दिव्यं चक्षुर् उत्पादितवान्. तेन दिव्येन चक्षुषा सत्त्वांश् च्युत्युपपत्तिसंकटस्थान् अभिवीक्ष्य तत्परित्राणाय मध्यमे यामे ध्यानविमोक्षसमापत्तिः संमुखीकृतवान्. ते ऽस्य प्रायोगिका गुणाः प्रज्ञाप्रभेदाय जायन्ते. ततस् तृतीये यामे चतुर्थं ध्यानं निश्रित्य नियामम् अवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवान् इति. यस्माच् चैवम् आत्मोपनायिका धर्मदेशना. अतश् ( अभिध्-क्-व्य् 686 ) चतुर्थ एव.
वज्रोपमो ऽन्त्ये यो ध्यान
इति.
(विइइ.29-31) अप्रमाणसत्त्वालम्बनाद् इति. अप्रमाणसंज्ञाकरणे कारणम् एतत्.

यथासंख्यम् इति. व्यापादबहुलानां तत्प्रहाणाय मैत्री. विहिंसाबहुलानां तत्प्रहाणाय करुणा. अरतिबहुलानां तत्प्रहाणाय मुदिता. कामरागव्यापादबहुलानां तत्प्रहाणायोपेक्षेति. कामरागप्रतिपक्षत्वे को विशेष इति. कामरागबहुलात् [तिब्. 353अ] प्रतिचिन्ता. मतापितृपुत्रज्ञातिरागस्योपेक्षेति. यथैवसंबद्धाः पुरुषाः. एवम् एवैते इत्य् उपेक्षेत्य् अभिप्रायः. तस्य लोभाकृष्टत्वाद् इति. यस्माल् लोभाकृष्टो व्यापादः. तस्माल् लोभप्रतिपक्षरूपतां भजत इत्य् अभिप्रायः. उभयस्वभावात् त्व् असौ युज्यत इति. अलोभस्वभावा चाद्वेषस्वभावा च युज्यत इत्य् अर्थः. किं कारणम्. रागद्वेषयोः प्रतिपक्षत्वात्. अतस् तु नैको धर्म उभयस्वभाव इति ग्रहीतव्यं. किं तर्हि. अलोभाद्वेषयोर् उपेक्षाशब्दो वर्तत इति. सुखिता बत सत्त्वा इति. संत्व् इत्य् अभिप्रायः. दुःखिता बत सत्त्वा इति. दुःखिता दुःखाद् विमुच्यंतां इत्य् अभिप्रायः. तथा हि व्याख्यास्यते. व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते. अतस् तत्प्रतिपक्षत्वम् उक्तं. कथम् इति दर्शस्यति. कामधातुभूमिकानि अनागम्यभूमिकानि च मैत्र्यादीनि त्रीणि मौलप्रमाणसदृशानि विद्यन्ते. प्रयोगालम्बनाकारस्वभावसादृश्यात् मौलैः सदृश्यानि भवन्ति. तैर् अप्रमाणैस् त्रिभिस् तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैः. मैत्री विहिंसाबहुलानां तत्प्रहाणाय. माध्यस्थ्याद् इति. अपक्षपातिवेनाप्य् अनुनीतो नापि प्रतिहत इत्य् अर्थः. अश्रद्धताम् इति विस्तरः. असुखवतां. सुखम् अस्तीत्य् अधिमोक्षात् कथं न विपरीतत्वं भवति. संत्व् इत्य् अभिप्रायाद् इति. सुखिताः संत्व् इत्य् अभिप्रायात्. न विपरीतत्वम् इत्य् अभिप्रायः. आशयस्याविपरीतत्वाद् वेति. आशयः कुशला धर्माः सुखिता बत सत्त्वा इत्य् एते चित्तचैत्ताः सपरिवाराः. अस्याशयस्याविपरीतत्वान् न विपरीतत्वं [तिब्. 353ब्] भवति. कथं पुनर् आशयस्याविपरीतत्वम् इत्य् आह. अधिमुक्तिसंज्ञानाद् इति. अधिमुक्तेः संज्ञानम् अधिमुक्तिसंज्ञानं. तस्मात्. यस्मात् ताम् अधिमुक्तिं तथैव संजानीते. आधिमोक्षिको ऽयं मनस्कार इति परिच्छिनत्ति. अकुशलत्वम् इति. विपरीतग्रहणतः. न. कुशलत्वात्. नैतद् एवं. कस्मात्. कुशलमूलत्वात्. कथं पुनः कुशलमूलम् इत्य् आह. व्यापादादिप्रतिपक्षत्वात्. अद्वेषस्वभावत्वात् मैत्री व्यापादप्रतिपक्षः. दुःखापनयनाकारत्वाच् च करुणा ( अभिध्-क्-व्य् 687 ) दुःखोपसंहाराकाराया विहिंसायाः प्रतिपक्षो भवति. मुदिता चरतेः प्रतिपक्षः सौमनस्यारूपत्वात्. उपेक्षा च माध्यस्थ्यात् कामरागव्यापादयोः प्रतिपक्ष इति. तदालंबनानाम् इति. कामावचरसत्त्वालंबनानाम् इत्य् अर्थः. तद्भाजनेन भाजनगतं दर्शितम् इति. स्थानेन स्थानीयसत्त्वलोको दर्शित इत्य् अर्थः. समाहितासमाहितमौलप्रयोगग्रहणाद् इति. षट्पंचदशभूमिकत्वात् त्रयाणाम् अपि कारणम् उच्यते संभवतः. तत्रासमाहितः कामधातुः. प्रयोगाः सामन्तकानीति संभवतो योज्यं. षट्भूमिकव्यावस्थाने ऽनागम्यं सामन्तकम् अपीष्यते [तिब्. 354अ] सामन्तकान्य् अपि प्रयोगभूतानि गृह्यन्ते. किं मौलानीति. मौलध्यानभूमिकत्वाद् इति. मौलशुद्धकध्यानभूमिकत्वाद् इत्य् अर्थः. न हि शुद्धकैर् मौलध्यानैः क्लेशाः प्रहीयन्त इत्य् उक्तं प्राक्. अधिमुक्तिमनस्कारत्वान् न तैः क्लेशाः प्रहीयन्ते. तत्त्वमनस्कारेण हि क्लेशप्रहाणं. सत्त्वालम्बनत्वाच् च न तैः प्रहाणं. धर्मसामान्यलक्षणमनस्कारेण हि क्लेशप्रहाणम् इति सिद्धान्तः. कथं तर्हीत्य् आह. तत्प्रयोगेण त्व् इति विस्तरः. मैत्र्यादिप्रयोगेण व्यापादादिविष्कंभणात्. तत्प्रतिपक्षत्वम् उक्तम् इति. व्यापादादिप्रतिपक्षत्वम् उक्तं. विष्कम्भणप्रहाणानि तनीत्य् अर्थः. प्रहीणदूरीकरणाच् चेति. यस्माद् आनन्तर्यमार्गैर् लौकिकैर् लोकोत्तरैर् वा मार्गैर् व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते. अतस् तत्प्रतिपक्षत्वम् उक्तं. कथम् इति दर्शयति. कामधातुभूमिकान्य् अनागम्यभूमिकानि
च मैत्र्यादिनि त्रीणि [तिब्. 354ब्] मौलाप्रमाणसदृशानि संविद्यन्ते. प्रयोगालम्बनाकारस्वभावसादृश्यान् मौलैः सदृशानि भवन्ति. तैर् अप्रमाणैस् त्रिभिस् तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैर् आनन्तर्यमार्गैः प्रजहाति. बलवत्प्रत्ययलाभे ऽपीति. व्यापादादिप्रत्ययलाभे ऽपि बलवति सति तैः क्लेशैर् अनाधृष्यो भवति. संमुखीभावतः. अधिमात्र इति. मित्रपक्षे. परममित्रे हि सुकरा मैत्री. स्फरतीति. व्याप्नोति. पूर्वपुण्याफलसंदर्शनाद् इति. पूर्वपुण्यफलसंदर्शनात् समुच्छिन्नकुशलमूले ऽपि पुद्गले शक्यं गुणग्राहिणानेन भवितुं पुण्यम् अनेन कृतम् आसीद् येनास्य रूपादिसंपद् इति. प्रत्येकबुद्धे च दोषग्राहिणा नूनम् अनेनापुण्यं कृतम् आसीद् येनास्यैवं रूपादिवैकल्यम् इति. अपि एव दुःखाद् विमुच्येरन्न् इत्य् अधिमुच्यमानः करुणायां ( अभिध्-क्-व्य् 688 ) प्रयुज्यते. अप्य् एवाभिप्रमोदेरन्न् इत्य् अधिमुच्यमानो मुदितायां प्रयुज्यते. मुदितया न समन्वागत इति. तृतीयचतुर्थयोः सौमनस्याभावात्.
(विइइ.32-34) अष्टौ विमोक्षा
इति. यथासूत्रं. कथम्. अष्टौ विमोक्षाः. कतमे ऽष्टौ. रूपी रूपाणि पश्यतीत्य् अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि [तिब्. 355अ] पश्यतीत्य् अयं द्वितीयो विमोक्षः. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीत्य् अयं तृतीयो विमोक्षः. सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमात् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. तद्यथा देवा आकाशानन्त्यायतनोपगाः. अयं चतुर्थो विमोक्षः. पुनर् अपरं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानंतं विज्ञानम् अनंतं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. तद्यथा देवा विज्ञानानंत्यायतनोपगाः. अयं पंचमो विमोक्षः. पुनर् अपरं सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. तद्यथा देवा आकिंचन्यायतनोपगाः. अयं षष्टो विमोक्षः. पुनर् अपरं सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. अयं सप्तमो विमोक्षः. पुनर् अपरं सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञानिरोधं कायेन साक्षात्कृत्वोपसंपद्य [तिब्. 355ब्] विहरति. अयम् अष्टमो विमोक्ष इति. रूपी रूपाणीति. स्वात्मनि रूपाणि विभाव्य बहिर् अपि रूपाणि पश्यति. विनीलकाद्यालम्बनत्वात्. अशुभावन् नयो वेदितव्य इति. अधिरागस्य वर्णरागादिप्रतिपक्षम् आरभ्य संभवतो विस्तरेण योज्यं.
अलोभा दशभूः कामदृश्यालम्बा नृजाशुभेति.
यथासंख्यम् इति. कामावचरस्य वर्णरागस्य प्रतिपक्षेण प्रथमध्यानभूमिको विमोक्षः. प्रथमध्यानभूमिकस्यापि वर्णरागप्रतिपक्षेण द्वितीयध्यानभूमिको विमोक्षः. एतौ च द्वौ पुनर् दूरीभावप्रतिपक्षौ वेदितव्यौ.

आह. द्वितीयादिध्यानेषु वर्णरागो नास्तीति कथं गम्यते. चक्षुर्विज्ञानाभावात्. यो हि यस्माद् विषयाद् विरक्तः. नियतम् असौ तद्ग्राहकाद् अपि विज्ञानाद् विरक्तः. द्वितीयादिषु च ध्यानेषु चक्षुर्विज्ञानादि नास्तीति. अतो वर्णवीतरागास् त इति सिद्धं.
शुभारूप्या
इति शुद्धकानास्रवाः.
अन्यदाप्य् असमाहिताः संतीति. आरूप्येषु विपाकजांश् चित्तचैत्तान् अभिसंधायोच्यते. [तिब्. 356अ] पूर्वस्मिंस् तु पक्षे मरणभवावस्थायाम् एवासमाहिता आरूप्या इति दर्शयति. सामन्तकविमुक्तमार्गा अपि विमोक्षाख्यां लभन्त इति. किम् अंग मौला इत्य् अपिशब्दार्थः. नानन्तर्यमार्ग इति विस्तरः. यस्माद् अधरभूमिवैमुख्याद् विमोक्षा इत्य् उच्यन्ते. तस्माद् आनन्तर्यमार्गा न विमोक्षाख्यां लभन्ते. अधरालम्बनत्वात्. विमुक्तिमार्गास् तु लभन्ते. ऊर्ध्वालम्बनत्वात्.
निरोधस् तु समापत्तिः.
अष्टम इति वाक्यशेषः. संज्ञावेदितवैमुख्याद् इति. संज्ञावैमुख्याद् वेदितवैमुख्याच् च विमोक्षः. सर्वसंस्कृताद् वा वैमुख्याद् विमोक्षः.
समापत्त्यावरणविमोक्षणाद् विमोक्ष इति. समापत्त्यावरणविमोक्षवैमुख्याद् विमोक्ष इति. तत्र समापत्त्यावरणं यस्मिन्न् आवरणे चित्ताकर्मण्यता त्रैधातुकवीतरागा अपि संतः प्रथमम् अपि मौलं ध्यानं नोत्पादयन्ति.
यथायोगम् इति. द्वयोर् विनीलकाद्यमनोज्ञं रूपं आलम्बनं. तृतीयस्य मनोज्ञम् आलम्बनम् इति. तद्धेतुनिरोधौ चेति. तस्य दुःखस्य [तिब्. 356ब्] समुदयनिरोधौ. सर्वश् चान्वयज्ञानपक्ष इति. ऊर्ध्वाधः स्वभूमिक इत्य् अर्थः. अप्रतिसंख्यानिरोधश् चेति. अप्रतिसंख्यानिरोधश् चारूप्याविमोक्षाणां आलम्बनम् इति वक्तव्यं.
ये त्व् अरूपिणस्
ते ऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचरा
इत्य् अत्रवचनात्.
आह. कतमः पुनर् अप्रतिसंख्यानिरोधस् तेषाम् आलम्बनम्. अत्रोच्यते. अशैक्षस्यानिमित्तस्य समाधेर् अप्रतिसंख्यानिरोधम् आलम्बन्ते. ते च सप्त सामन्तकानि हित्वान्यास्व् एकादशसु भूमिषु कामधाताव् अनागम्ये ध्यानान्तरेषु ध्यनारूप्येषु चाष्टास्व् इति. सोपसंख्यानं शास्त्रम् इति शास्त्रलक्षणं दर्शितं भवति. आकाशं चैकस्येति. वक्तव्यं आकाशानंत्यायतनविमोक्षस्यालम्बनं. द्वितीयध्यानभूमिकवर्णरागाभावाद् इति. द्वितीयध्यानभूमिकस्य वर्णरागप्रतिपक्षयितव्यस्याभावाद् इत्य् अर्थः. तदभावः कायिकविज्ञानाभावात्. सुखमण्डेञ्जितत्वाच् च. सुखस्य मण्डः. सर्वसुखस्योपरिस्थं सुखम् इत्य् अर्थः. तेनेञ्जितत्वात् कम्पितत्वात्. न तृतीये ध्याने विमोक्षो व्यवस्थाप्यते.
[तिब्. 357अ] यदि तृतीयध्यानभूमिको वर्णरागो नास्ति. कस्माच् छुभं ( अभिध्-क्-व्य् 690 ) विमोक्षम् उत्पादयतीति. अत आह अशुभया लीनां संततिं प्रमोदयितुं जिज्ञासनार्थं वेति. विमोक्षादीनाम् इति. आदिशब्देनाभिभ्वायतनाद्युपग्रहः. क्लेशदूरीकरणार्थं. विमोक्षादीनं दूरिभावप्रतिपक्षत्वात्. समापत्तिवशित्वार्थं च. तच् च समापत्तिवशित्वम् अरणादिगुणाभिनिर्हाराय भवति. आर्यायाश् च र्द्धेः. किं. अभिनिर्हारायेति प्रकृतं. सा पुनर् यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनीति. तत्र वस्तुपरिणामं. यद् वस्तु यथाधिमुच्यते. तथैव तद् भवति. यथा सुवर्णस्य मृत्करणं. तथाधिमोक्षाद् अधिष्ठानं स्थिरस्य वस्तुनः. इमं तु कालम् अवतिष्ठताम् इति तथायुषा उत्सर्गः. आदिशब्देन सुमेरोः परमाणौ प्रवेश इत्य् एवम् अन्यच् च सूत्रे द्रष्टव्यं.
कस्मात् तृतीयाष्टमयोर् एव साक्षात्करणम् उक्तं. नान्येषाम् इति. कथं तृतीयस्य साक्षात्करणम् उक्तं. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति. अष्टमस्यापि. संज्ञावेदितनिरोधं [तिब्. 357ब्] कायेन साक्षात्कृत्वोपसंपद्य विहरतीति. अत्र साक्षात्कृत्वेति प्रत्यक्षीकृत्वेत्य् अर्थः. उपसंपद्य विहरतीति तां समापद्य समापत्तिं विहरतीत्य् अर्थः. अत्रोच्यते. प्रथमद्वितीयाभ्यां विमोक्षाभ्यां तृतीयस्य विमोक्षस्य प्राधान्यात्. रूपिविमोक्षावरणसाकल्यप्रहाणाद् आश्रयपरिवृत्तितस् तृतीयस्य साक्षात्करणम् उक्तम्. एवम् अष्टमस्यापि प्राधान्यात्. आरूप्याविमोक्षावरणसाकल्यप्रहाणाद् आश्रयपरिवृत्तितः साक्षात्करणम् उक्तं. धातुभूमिपर्यन्तावस्थितत्वाच् चेति. चतुर्थं ध्यानं रूपधातुभूमिपर्यंतावस्थितं. भवाग्रम् अप्य् आरूप्यधातुभूमिपर्यन्तावस्थितं.
(विइइ.35) एवम् अधिमात्राणीति. अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्य् अधिमात्राणि सुवर्णदुर्वर्णानीति विस्तरः यावद् इदं द्वितीयम् अभिभ्वायतनम्. अध्यात्मम् अरूपसंज्ञि एवम् एवेति. कथम्. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानीति पूर्ववद् यावद् इदं तृतीयम् अभिभ्वायतनं. तथा अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पशय्ति अधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववद् यावद् इदं तृतीयम् अभिभ्वायतनं. तथा अध्यात्मम् अरूपसंज्ञी पश्यत्य् अधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववत् यावाद् इदं चतुर्थम् अभिभ्वायतनम् इत्य् एतानि चत्वारीति. अरूपसंज्ञ्य् एव पुनर् नीलपीतलोहितावदातानि [तिब्. 358अ] पश्यतीति. कथम्. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि. तद्यथा उमकापुष्पं संपन्नं वाराणसेयं वा वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासं ( अभिध्-क्-व्य् 691 ) तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति. एवंसंज्ञी च भवतीदं पंचमं अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि. तद्यथा कर्णिकारपुष्पं वाराणसेयं वा वस्त्रं पीतम् इति विस्तरः. इदं षष्ठम् अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी रूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि. तद्यथा बंधूकपुष्पं संपन्नं वाराणसेयं वा वस्त्रं लोहितम् इति विस्तरः. इदं सप्तमम् अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति अवदातान्य् अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि. तद्यथा उशनस्तारका संपन्नं वा वाराणसेयं वस्त्रम् अवदातम् [तिब्. 358ब्] इति विस्तरः. इदम् अष्ट्मम् अभिभ्वायतनम् इति. मूर्धकानि चत्वारीमानि चात्यारीत्य् अष्टौ भवन्ति.
द्वयम् आद्यविमोक्षवद्
इति. यथा रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः. आत्मगतं रूपं पश्यन् बहिर्गतं रूपं पश्यति. एवम् आद्ये अभिभ्वायतने. तयोर् ह्य् एकम् आत्मगतं रूपं पश्यन् बहिर्गतं पश्यति. तथा ह्य् एतत् पठ्यते. अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानीति विस्तरः. द्वितीयम् अपि तथैव. अयं तु विशेषो बहिर्धा रूपाणि पश्यत्य् अधिमात्राणीति. किं च यथा प्रथमो विमोक्षः प्रथमध्यानभूमिकः कामावचरवर्णरागप्रतिपक्षः कामावचररूपायतनालम्बनश् च. तथेमे प्रथमे अभिभ्वायतने वेदितव्ये.
द्वे द्वितीयवद्

इति. यथाध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्य् एवंलक्षणो द्वितीयो विमोक्षः. एवंलक्षणे एवं तृतीयचतुर्थे अभिभ्वायतने. ते अपि ह्य् एवं पठ्येते. अध्यात्मम् अरूपसंज्ञीबहिर्धा रूपाणि पश्यति परीत्तानीति तृतीयः पठ्यते. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यत्य् अधिमात्राणीति चतुर्थः पठ्यते. किं च यथा द्वितीयो विमोक्षः द्वितीयध्यानभूमिकः प्रथमध्यानभूमिकवर्णरागप्रतिपक्षः [तिब्. 359अ] कामावचररूपालंबनश् च. तथा तृतीयं चतुर्थं चाभिभ्वायतनं.
अन्यानि पुनः शुभविमोक्षवद्
इति. यथा शुभो विमोक्षश् चतुर्थध्यानभूमिकः कामावचरमनोज्ञरूपायतनालम्बनश् च. तथा नीलपीतलोहितावदाताभिभ्वायतनानि. केवलं त्व् इह वर्णचतुष्टयं विभज्य गृह्यते. शुभस्य च विमोक्षस्यालोभः स्वभावः. एवम् एषाम् अपि. यथायं शुभो विमोक्षः सपरिवारग्रहणात् पंचस्कंधस्वभावः. तथैव तान्य् अपीत्य् अवगन्तव्यं. तैर् विमोक्षमात्रम् ( अभिध्-क्-व्य् 692 ) इति. नालम्बनाभिभवनं. कथं चाभिभ्वायतनैर् आलंबनाभिभवनम् इत्य् अत आह. यथेष्टम् अधिमोक्षाद् इति. यथेष्टं तैर् नीलपीताद्यधिमोक्षात्. क्षणेन नीलं क्षणेन पीतम् इत्यादि. अमनोज्ञस्य वा विनीलकादेर् मनोज्ञाधिमोक्षात्. क्लेशानुत्पादाच् चेति. शुभतो ऽपि च सांक्लेशिकं वस्त्व् आकारयतः क्लेशानुत्पत्तेस् तैर् अभिभ्वायतनैर् आलंबनाभिभवनं भवति.
(विइइ.36) निरन्तरकृत्स्नस्फरणाद् इति. निरन्तरं कृत्स्नानां पृथिव्यादीनां स्फरणाद् व्यापनात् तस्मात् कृत्स्नायतनानीत्य् [तिब्. 359ब्] उच्यन्ते. कामावचरं रूपायतनम् इति.
पृथिवी वर्णसंस्थानम् उच्यते लोकसंज्ञया

आपस् तेजश् च वायुश् च धातुर् एव तथापि चेति
वचनात्.
वायौ स्प्रष्टव्यायतनम् इत्य् एक इति. ये वायौ रूपायतनं नेच्छन्ति. त आहुः. वायौ स्प्रष्टव्यायत्नम् आलम्बनम् इति. विमोक्षप्रावेशिकानीति. प्रवेशा एव प्रावेशिकानि. इति स्वार्थवृद्धिविधानात्. प्रवेशे भवानि वा. उत्तरोत्तरविशिष्टत्वाद् इति. यस्माद् विमोक्षेभ्य उत्तराण्य् अभिभ्वायतनानि विशिष्टानि. अभिभ्वायतनेभ्य उत्तराणि कृत्स्नायतनानि विशिष्टानीति. तद् उक्तं भवति. विमोक्षान् उत्पाद्याभिभ्वायतनान्य् उत्पादयति. अभिभ्वायतनान्य् उत्पाद्य कृत्स्नायतनान्य् उत्पादयतीति. स्थापयित्वा निरोधविमोक्षम् इति. तस्यैकान्तेनार्यसंतानिकत्वात्.
(विइइ.37) उचितानुचितत्वाद् इति. उचितानि वैराग्यलाभिकानि. अनुचितानि प्रायोगिकानि.
शेषम्
इति विस्तरः. किं पुनः शेषं. प्रथमास् त्रयो विमोक्षाः अभिभ्वायतनान्य् अष्टौ. कृत्स्नायतनान्य् अष्टौ. एतन् मनुष्याश्रयम् एव. किं कारणम्. उपदेशसामर्थ्येनोत्पादनात्. अन्यत्र देवादिषूपदेशभावात्.
(विइइ.38) कथं [तिब्. 360अ] रूपारूप्यधात्वोर् आरूप्यध्यानविशेषोत्पादनम् इति. आरूप्यधातौ रूपधातौ वा यस्यां भूमाव् उपपन्नः. तदूर्ध्वं यद् आरूप्यं ध्यानं च. तत् ततो विशिष्यते इत्य् आरूप्यध्यानविशेषाः. तस्यारूप्यध्यानविशेषय कथम् उपदेशम् अन्तरेण भवतीति. यतः शेषं मनुष्याश्रयम् एव. उपदेशसामर्थ्येनोत्पादनाद् इत्य् उक्तम्. अतो ऽनेन संबन्धेन पृष्टं. कथं रूपारूप्यधात्वोर् इति विस्तरः. हेतुबालाच् चासन्नाभीक्ष्णाभ्यासाद् इति. आसन्नाभ्यासाद् अभीक्ष्णाभ्यासाच् च. कथं कृत्वा. कश्चिद् आरूप्यसमापत्तिं समापद्य ततश् च परिहायानन्तरम् एव रूपधाताव् उपपद्यते. आरूप्यसमापत्तिलक्षणस्य सभागहेतोर् बलीयस्त्वात् तस्य रूपधाताव् आरूप्यसमापत्तिर् उत्पत्स्यते. अभीक्ष्णाभ्यासाद् अपि. यदि कश्चिद् आरूप्यसमापत्तिम् ( अभिध्-क्-व्य् 693 ) अभीक्ष्णं समापद्य ततश् च परिहाय रूपधाताव् उपपद्यते. तस्यारूप्यसमापत्तिलक्षणस्य सभागहेतोर् बलीयस्त्वाद् रूपधाताव् आरूप्यसमापत्तिर् उत्पद्यते. एवं विज्ञानानन्त्यायतनसमापत्तेर् [तिब्. 360ब्] अपि परिहीणस्याकाशानन्त्यायतनोपपन्नस्य तथैव तत्समापत्तीनाम् उत्पादनं. एवं तदूर्ध्वोपपन्नस्य. कर्मबलाच् च. रूपधाताव् उपपन्नस्य अपरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात्. तद्वैराग्यानुकूला संततिर् अवतिष्ठते. न ह्य् अधस्ताद् अवीतरागेणोर्ध्वम् आरूप्यधातौ शक्यम् उपपत्तुम् इति. एवम् आरूप्येष्व् आकाशानन्त्यायतनोपपन्नस्य कर्मभलात्. ऊर्ध्वभूमिकस्य विज्ञानानन्त्यायतनभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात्. तद्वैराग्यानुकूला संततिर् अवतिष्ठते. न ह्य् अधस्ताद् अवीतरागेणोर्ध्वं शक्यम् उपपत्तुम् इति. एताभ्यां च हेतुकर्मबलाभ्यां. कथं प्रथमादिषु ध्यानेषु द्वितीयादिध्यानोत्पादनं. हेतुबलाच् चासन्नाभीक्ष्णाभ्यासात्. कर्मबलाच् चोर्ध्वभूमिकस्येति विस्तरेण योज्यं. धर्मतयापि चेति. कथं धर्मता नाम. केचित् तावत् सौत्रान्तिका आहुः. एषाम् एव धर्माणाम् उद्भूतवृत्तीनां पूर्वध्यानवासनाधिपत्यात् तदुत्पत्ताव् उपदेशम् अन्तरेण ध्यानोत्पत्ताव् आनुगुण्यं धर्मता प्रकृतिः स्वभाव इत्य् अर्थः. वैभाषिका अपि केचिद् आहुः. पौर्वजान्मनिकात् सभागहेतोः निष्यन्दफलं ध्यानोत्पादनं. तदुपदेशम् अन्तरेणान्यतो धर्मतेति. [तिब्. 361अ] कुशलानां धर्माणाम् उद्भूतवृत्तित्वाद् इति. तत्र संवर्तनीकाले कुशलानां कर्मपथानाम् इत्य् अर्थः. वृत्तिस् तेषाम् एव धर्माणां यत् कारित्रम्. उद्भूता उत्कृष्टा वृत्तिर् एषाम् इत्य् उद्भूतवृत्तयः. तद्भावः. तस्मात्. एतद् उक्तं भवति. तेषां कुशलानां प्रकर्षेणात्मलाभात् तदुत्पत्त्यानुगुण्येनात्मलाभात् तदुपदेशम् अन्तरेणान्यतः पूर्वध्यानवासनायां सत्यां ध्यानोत्पत्तिर् इति.
(विइइ.39) इम ईदृशा धर्माणां प्रकारा इति. सास्रवानास्रवाणां धर्मानां धातुभूम्यालंबनाकारादिप्रकारा यथायोगम् इत्य् अर्थः.
धातारस् तस्य वक्तारः प्रतिपत्तार एव चेति.
तस्यागमाधिगमात्मकस्य सद्धर्मस्य यथासंख्यम् आगमस्य ये वक्तारः. ते ऽस्य धातारः. अधिगमस्य च ये प्रतिपत्तारः. ते ऽस्य धातार इति. अधिगमस्यैवम् इति. वर्षसहस्रम् अवस्थानम् इति. आगमस्य तु भूयांसं कालम् इति. वर्षसहस्राद् ऊर्ध्वम् अपीत्य् अर्थः. एष एव पक्षो युक्त इति पश्यामः.
(विइइ.40) यो ऽयम् इति विस्तरः. यो ऽयम् इहाभिधर्मकोशलक्षणे ऽभिधर्म ( अभिध्-क्-व्य् 694 ) उक्तः. किम्. एष एव शास्त्रो ऽभिधर्मो ज्ञानप्रस्थानादिलक्षणो देशितः अत इदम् उच्यते.
काश्मीरवैभाषिकनीतिसिद्ध
इति विस्तरः. कश्मीरे [तिब्. 361ब्] भवाः काश्मीराः. विभाषया दीव्यन्ति वैभाषिका इति व्याख्यातम् एतत्. सन्ति काश्मीरा न वैभाषिकाः. ये विनयविदादयः सौत्रान्तिका भदन्तादयः. सन्ति वैभाषिका न काश्मीराः. ये बहिर्देशका वैभाषिका इत्य् उभयविशेषणं. तेषां नीत्या यः सिद्धो ऽभिधर्मः. स प्रायेणेह मया देशितः. अर्थाद् उक्तं भवति. अन्यनीतिसिद्धो ऽपि देशित इति
यद् दुर्गृहीतं
काश्मीरवैभाषिकनयेनान्यनयेन वा.
तद् इह
वचने
ऽस्मदागो
ऽस्मदपराधः. किं कारणम् इत्य् आह.
सद्धर्मनीतौ मुनयः प्रमाणम्
इति. सद्धर्मस्यागमाधिगमलक्षणस्य नीतौ वर्णने मुनयो बुद्धा भगवन्तो बुद्धपुत्राश् चार्यशारद्वतीपुत्रादयः प्रमाणं सर्वाकारसर्वधर्मावबोधे आप्ता इत्य् अर्थः.
(विइइ.41-43) निमीलिते शास्तरि लोकचक्षुषीति.
परिनिर्वृते भगवति लोकस्य चक्षुर्भूते मार्गामार्गसंदर्शके. अनेनान्धभूततां लोकस्य दर्शयति.
क्षयं गते साक्षिजने च भूयसेति.
साक्षाद्द्रष्टरि साक्षी मार्गामार्गज्ञो भगवान् इति यो ऽधिगततत्त्वो भगवतः साक्षिजनः सहायभूतः. तस्मिन् परिनिर्वाणे क्षीणे. [तिब्. 362अ] अविद्यान्धेन्-
आदृष्टतत्त्वैर् निरवग्रहैर्
निरंकुशैः
स्वयं
दृष्टिकतया
कुतर्क्-
आपन्नैर् भवधिर् भगवतः
शासनं
ग्रन्थतश् चार्थतश् च्ऽ
आकुलं कृतं.
गते हि शांतिं परमां स्वयंभुवि
इत्यादि पूर्वश्लोकोक्तस्यार्थस्य हेतुरूपो ऽयं द्वितीयः श्लोक उपन्यस्यते. बुद्धबुद्धपुत्रेषु हि
परिनिर्वृतेष्व्
अनाथे जगति
शासनान्तर्धानहेतुभिः. दृष्ट्यादिभिर्
मलैर्

दोषैर्
निरंकुशैः स्वैरं
यथेच्छम्
इह
लोके.
अद्य
संप्रति
चर्यते.
भावसाधनम् एतत्. ततश् च
एवं कण्ठगतं प्राणं
कण्ठगतप्राणम् इवेत्य् अर्थः. तद्
विदित्वा बलकालं च मलानां
दोशाणां विदित्वा
न प्रमाद्यं मुमुक्षुभिर्
इति भावसाधनम् इति.
( अभिध्-क्-व्य् 696 ) ब्लन्क्
इx (पुद्गलविनिश्चयः)
किं खल्व् अतो ऽन्यत्र मोक्षो नास्तीति.
न प्रमाद्यं मुमुक्षुभिर्
इति वचनाद् अयम् एव मोक्षोपायः. नास्त्य् अतो ऽन्यो मोक्षोपायः. तद् अत्र मोक्तुकामैः प्रमादो न कर्तव्य इत्य् अर्थाद् उक्तम् आचार्येन. चोदकः पृच्छति. किं खल्व् अत इति विस्तरः. अत्रोच्यते. नास्तीति. किं कारणम् इत्य् आह. वितथात्मदृष्टिनिविष्टत्वाद् इति. वितथायाम् आत्मदृष्टौ निविष्टाः कुतीर्थ्या वितथात्म [तिब्. 362ब्] दृष्टिनिविष्टाः. तद्भावः. तस्मात्. नास्त्य् अन्यत्र मोक्ष इति. स्तोत्रकारेणाप्य् एषो ऽर्थ उक्तः.
साहंकारे मनसि न शमं याति जन्मप्रबन्धो
नाहंकारश् चलति हृदयाद् आत्मदृष्टौ च सत्यां.
अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादी
नान्यस् तस्माद् उपशमविधेस् त्वन्मताद् अस्ति मार्ग
इति. साधनं चात्र. नास्ति कपिलोलूकादीनां मोक्षः. वितथात्मदृष्टिनिविष्टत्वात्. अदृष्टतत्त्वपुरुषवत्. आत्मग्राहप्रभवाश् च क्लेशाः इति यथोक्तं. यानि वा पुनर् इहैकत्यानां श्रमणब्राह्मणानां पृथग् लोके दृष्टिगतानि सत्कायदृष्टिमूलकानि तानीति विस्तरः. आत्मदृष्टौ च सत्याम् आत्मस्नेहादयः क्लेशाः प्रवर्तन्ते. स्कंधसंतान एवेदम् आत्माभिधानम् इति. आत्मेत्य् अभिधानम् आत्मप्रज्ञप्तिर् इत्य् अर्थः. नान्यस्मिन्न् अभिधेये स्कंधसंतानव्यतिरिक्ते कल्पित इत्य् अर्थः. कस्माद् एवम् इत्य् आह. प्रत्यक्षानुमानाभावाद् इति. प्रत्यक्षस्यानुमानस्य चाभावान् न तस्यास्तित्वम् इत्य् अभिप्रायः. आगमस्यानुमानान्तर्भावाद् अपृथग्वचनं. तेषां प्रत्यक्षम् उपलब्धिर् इति. [तिब्. 363अ] प्रत्यक्षम् इत्य् उपलब्धिविशेषणं. प्रत्यक्षं तदुपलब्धिः प्रत्यक्षत उपलब्धिर् इत्य् अर्थः. अथ वा प्रत्यक्षं प्रमाणम् उपलब्धिर् उपलभ्यते ऽनयेत्य् उपलब्धिः. असत्य् अंतराय इति. असत्य् उपलब्धिविघ्ने ऽतिसंनिकर्षातिविप्रकर्षादिके तेषां. षण्णां विषयाणाम् इति. रूपशब्दगन्धरसस्प्रष्टव्यायतनानां ( अभिध्-क्-व्य् 698 ) धर्मायतनस्य च वेदनादिलक्षणस्य योगिविषयस्य चागमविकल्पातीतस्येति. मनसश् च. किं. प्रत्यक्षम् उपलब्धिः. समनन्तरनिरुद्धं हि मनो ऽनन्तरोत्पन्नेन मनोविज्ञानेन विज्ञायते. रक्तं वा द्विष्टं वा सुखसंप्रयुक्तं वा दुःखसंप्रयुक्तं वा इत्य् एवमादि स्वसंवेद्यतयेत्य् अपरे. तद् एतद् द्विविधं प्रत्यक्षं ग्राह्यगतं ग्राहकगतं चेति. अनुमानं चेति विस्तरः. यत्र प्रत्यक्षस्याप्रवृत्तिः. तत्रानुमानतस् तदुपलब्धिः. तद्यथा पंचानाम् इंद्रियाणाम् इति. चक्षुरिंद्रियादीनां. सति कारणे क्षेत्रोदकादिके. कारणान्तरस्य बीजलक्षणस्याभावे कार्यस्यांकुराख्यस्याभावो दृष्टः. भावे च तस्य बीजस्य पुनर्भवो ऽंकुरस्य दृष्टः. तद्यथांकुरस्येति दृष्टांतोपन्यासः. एवं दृष्टान्तम् उपन्यस्य दार्ष्टांतिकम् उपदर्शयन्न् आह. सत्य् एव वाभासप्राप्त इति विस्तरः. विद्यमान एव संमुखीप्राप्ते विषये रूपादिके मनस्कारे च तज्जे कारणे. विषयग्रहणस्य चक्षुरादिविज्ञानस्याभावो दृष्टः. पुनश् च भावः. केषाम् इति [तिब्. 363ब्] यथासंख्यं दर्शयति. अन्धबधिरादीनाम् अभावः. अनन्धबधिरादीनं च भाव इति. आदिशब्देनोपहतानुपहतघ्राणेन्द्रियादीनां ग्रहणम्. अतस् तत्रापि कारणांतरस्य कस्यापि अनिर्भिन्नरूपस्याभावो भावश् च यथासंख्यम् एव निश्चीयते. किं पुनस् तद् इत्य् आह. यच् च तत् कारणान्तरम् अपेक्ष्यते. तद् इन्द्रियं. चक्षुरादिकम् इत्य् अभिप्रायः. साधनं चात्र. कारणान्तरसहितः स्वकार्यजनकः. पंचविज्ञानकायजनकसंमतो विषयमनस्कारलक्षणो भावः. कदाचिद् एव स्वकार्यनिर्वर्तकत्वात्. कदाचिद् एव स्वकार्यनिर्वर्तकं. तत् कारणांतरसहितस्वकार्यजनकं. तद्यथांकुरजनकं क्षेत्रोदकं. बीजलक्षणकारणान्तरसहितस्वकार्यान्तरजनकं हि क्षेत्रोदकं कदाचिद् एव स्वकार्यनिर्वर्तकं. बीजसद्भावावस्थायाम् अंकुरनिर्वर्तकत्वात्. बीजसद्भावावस्थायां च स्वकार्यजनकत्वात्. तथा च स विषयमनस्कारलक्षणो भावः. स ह्य् अनंधाबधिराद्यावस्थायां तस्य पंचविज्ञानकायलक्षणस्य स्वकार्यस्य जनको भवति. अन्धबधिराद्यावस्थायां चाजनकः. तस्माद् असौ कारणान्तरसहितः स्वकार्यजनक इति. तद् इन्द्रियम् इति. कथं तद् इन्द्रियम् इति परिच्छिद्यते. कारणांतरम् अत्रास्तीत्य् एतावद् एव हि परिच्छिद्यते. न तु तद् इन्द्रियम् इति. [तिब्. 364अ] सिद्धम् एवैतत्. महर्षिप्रणिधिज्ञानपरिच्छिन्नत्वाद् अस्त्य् एव चक्षुरादिकं इन्द्रियं चक्षुर्विज्ञानादिकारणम् इति. सर्वेषाम् अविवादाच् च. न चैवम् आत्मतो ऽस्तीति नास्त्य् आत्मेति निगमयति. उक्तं ह्य् एवम् अर्थतः साधनं. नास्त्य् आत्मा. प्रमाणेनानुपलभ्यमानत्वात्. अत्यन्ताभाववद् इति. अस्त्य् अनुमानम्. अतो ( अभिध्-क्-व्य् 699 ) सिद्धो हेतुर् इति चेत्. न. तस्याभिधेयत्वात्. यदि हि तद् अस्ति. तद् उच्यतां. न वान्मात्रेणासिद्धो ऽयं हेतुर् इति प्रत्यवस्थातव्यम् इति.
यत् तर्हि वात्सीपुत्रीया इति विस्तरः. वात्सीपुत्रीया अर्यसांमतीयाः. अनेन वितथात्मदृष्टिनिविष्टलक्षणो हेतुर् अनैकांतिक इति दर्शयति. न हि वात्सीपुत्रीयाणां मोक्षो नेष्यते. बौद्धत्वात्. अथ वा प्राक्पक्षविरोधसापक्षालो ऽयं पक्षो नास्त्य् आत्मेत्य् अनेन दर्शयति. स्वपक्षो हि वात्सीपुत्रीयो निकाय इति. विचार्यं तावद् एतद् इति. तन्निकाये प्रज्ञप्तिसत्पुद्गल इत्य् अदोष एष इत्य् अभिप्रायः.
किं वेदं द्रव्यत इति किं वा प्रज्ञप्तित इति चोदित अचार्य आह. रूपादिवद् भावान्तरं चेद् द्रव्यतः. यदि यथा रूपादिः शब्दादेर् भावान्तरम् अभिप्रीयते. द्रव्यतः पुद्गल इत्य् उपगतो भवति. [तिब्. 364ब्] भिन्नलक्षणं रूपं शब्दाद् इत्यादि. क्षीरादिवत् समुदायश् चेत् प्रज्ञप्तितः. यथा क्षीरगृहसेनादिकं रूपरसगंधस्प्रष्टव्येभ्यः. तृणकाष्ठेष्टीकादिभ्यः हस्त्यश्वरथादिभ्यश् च न भावान्तरम् इष्यते. किं तर्हि. तेषाम् एव समुदायमात्रम् इत्य् एवं चेत्. प्रज्ञप्तितः पुद्गल इत्य् उपगतो भवति. न हि रूपादिभ्यस् टृणादिभ्यो हस्त्यादिभ्यो वा क्षीरगृहसेनेति वा कश्चिद् भावो ऽस्ति. किं चातः कश् चातो दोष इत्य् अर्थः.
यदि तावद् द्रव्यत इति पक्षः आश्रीयते. स पुद्गलो भिन्नस्वभावत्वात् भिन्नस्वलक्षणत्वात् स्कंधेभ्यो ऽन्यो वक्तव्यः. न स्कन्धसमुदायमात्रः. इतरेतरस्कंधवत्. यथा रूपादिस्कन्धाद् वेदनास्कन्धो ऽन्यो भिन्नलक्षणत्वात्. एवं स्कंधेभ्यः पुद्गलः स्यात्. अरूपस्कन्धादिलक्षणत्वात् पुद्गलस्य. कारणं चास्य वक्तव्यं. यदि संस्कृत इत्य् अभिप्रायः. असंस्कृतो वा. अतस् तीर्थिकदृष्टिप्रसंगः. अतो ऽसंकृतत्वात् वात्सीपुत्रीयाणां तीर्थिकदृष्टिः प्रसज्यते. निःप्रयोजनत्वं चेति.

वर्षातपाभ्यां किं व्योम्नश् चर्मण्य् अस्ति तयोः [तिब्. 365अ] फलं.
चर्मोपमश् चेत् सो ऽनित्यः. खतुल्यश् चेद् असत् फलम्
इत्य् अर्थः.
इदम् अन्धवंचनम् अनुन्मीलितार्थम् इति. अन्धम् इवान्धं. कस्मात्. यस्माद् अनुन्मीलितार्थं अव्यंजितार्थम् इत्य् अर्थः. [इत्य् अतः] स्कंधान् आलंब्येति गृहीत्वेत्य् अर्थः. यथा रूपादीन् गृहीत्वापेक्ष्य क्षीरप्रज्ञप्तिः. न रूपादिव्यतिरिक्तं क्षीरम् अस्तीति. यदि तथा पुद्गल इति प्रज्ञप्तिर् असत्पुद्गलः प्राप्नोतीत्य् अर्थः. स्कंधान् प्रतीत्येति. यदि स्कंधान् प्रतीत्य प्राप्येति. स एव दोषः. तेष्व् एव स्कंधेषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्य् अर्थः अथ वा ( अभिध्-क्-व्य् 700 ) पुद्गलप्रज्ञप्तेः स्कंधाः प्रत्ययो न पुद्गलः. पुद्गलस् तु तथैव प्रज्ञप्तिसन्न् इति. स एव दोषः.
यथेन्धनम् उपादायाग्निः प्रज्ञप्यत इति. द्रव्यसन् पुद्गलः.
नान्यो नानन्य इति. स्वम् उपादानम् उपादाय प्रज्ञप्यमानत्वात्. यो हि भावो नान्यो नानन्य इति स्वम् उपादाय प्रज्ञप्यमानः. स द्रव्यसंस् तद्यथाग्निर् इति वात्सीपुत्रीयाभिप्रायः. अत एव चाह. यदि ह्य् अन्यः स्याद् इति विस्तरेण. लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति. शाश्वतप्रसंगात् ति. असंस्कृतवत्. उच्छेदप्रसंगाद् [तिब्. 365ब्] इति. स्कंधवत्.
अप्रदीप्तं काष्ठादिकम् इन्धनम् इति विस्तरः. अनेनासिद्धतां दृष्टान्तस्य दर्शयति. अन्यत्वम् एव ह्य् अग्नीन्धनयोर् इष्यते. तेन हि तद् इध्यते दह्यते चेति. तेनाग्निना. तद् इन्धनम् इध्यते. दीप्यत इत्य् अर्थः. दह्यते भस्मीक्रियते. संततिविकारापादनात्. भस्मतापादनाद् इत्य् अर्थः. इध्यते दह्यते चेति पर्यायाव् इत्य् अपरे. तच् चोभयम् अष्टद्रव्यकम् इति. इन्धनं चाग्निश् चैतद् उभयम् अप्य् अष्टद्रव्यकं. चेत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपं यावत् स्प्रष्टव्यम् इति.
कामे ऽष्टद्रव्यको ऽशब्द
इति सिद्धान्तात्.
भिन्नकालत्वाद् इति. पूर्वम् इन्धनं पश्चाद् अग्निः. भिन्नकालयोश् चान्यत्वं दृष्टं बीजांकुरयोः. अनित्यश् च प्राप्नोतीति. उत्पत्तिमतो रूपादेर् अनित्यत्वदर्शनात्. तत्रैव काष्ठादौ प्रदीप्त इति. तदुभयलक्षणे समुदाये. तयोर् अपि सिद्धम् अन्यत्वं लक्षणभेदाद् इति. तयोर् अप्य् अग्नीन्धनयोर् एवंलक्षणयोः सिद्धम् अन्यत्वं लक्षणभेदात्. पृथिवीधात्वादीनां लक्षणान्यत्वात्. भिन्नलक्षणानां ह्य् अन्यत्वं दृष्टं रूपवेदनादीनां. उपादयार्थस् तु वक्तव्य इति. अनन्यत्वाद् इत्य् अभिप्रायः. न हि तत् तस्य कारणम् इति. [तिब्. 366अ] न हि तद् इन्धनं भूतत्रयलक्षणं. तस्योष्णलक्षणस्याग्नेः कारणं युज्यते. सहजत्वात्. सव्येतरगोविषाणवत्. नापि तत् प्रज्ञप्तेर् इति. अग्निप्रज्ञप्तेः. यद्य् आश्रयार्थ इति. इन्धनम् उपादाय इन्धनम् आश्रित्येत्य् अर्थः. सहभावो ऽर्थो वेति. सहोत्पादार्थः. इन्धनं सहभूत्वेनागृह्येत्य् अर्थः. आश्रयसहभूताः प्राप्नुवन्तीति. आश्रयभूताः सहभूताश् च प्राप्नुवंतीत्य् अर्थः. स्कंधतः स्पष्टम् अन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः. तदभाव इति. स्कंधाभावे. अन्यभूतस्वभावत्वाद् इति. पृथिवीधात्वादिस्वभावत्वात्. अन्यद् अपीति न केवलम् औष्ण्यम् उष्णम्. अन्यद् अपि तत्प्रदीप्ताग्निसंबन्धं भूम्यादिकम् उष्णं सिध्यति. अतो यथा तस्यान्यत्वे न दोषः. तथास्यपीति. ततश् चावक्तव्य इति. तत्पक्षलोपः ( अभिध्-क्-व्य् 701 ) स्यात्. काष्ठादिकम् इति. काष्ठतृणगोमयादिकम्.
अवक्तव्यम् इति पुद्गलः. अनिर्भिन्नत्वान् नपुंसकलिंगता. किं ते जातम् इति यथा. न वक्तव्यं प्राप्नोतीति. पंचविधं ज्ञेयम् इति कथं तर्हि वक्तव्यम् इत्य् आह. नैव हि तद् अतीतादिभ्यः पंचमं नापंचमं वक्तव्यम् इति.
रूपस्यापीति विस्तरः. रूपस्यापि प्रज्ञप्तिर् वक्तव्या. चक्षुरादिषु सत्सु तस्योपलम्भात् तानि चक्षुरादीन्य् उपादाय रूपं प्रज्ञप्यत इति.

प्रतिविभावयतीत्य् उपलक्षयति. [तिब्. 366ब्] तदुपादानत्वात्. न तु वक्तव्यो रूपाणि वा नो वेति. अतल्लक्षणत्वद् अवक्तव्यत्वाच् च. एवं यावद् धर्मो वा नो वेति.
क्षीरं प्रतिविभावयत्य् उदकं चेति. उदाहरणद्वयं. तद् एवं वक्तव्यं. चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्य क्षीरं प्रतिविभावयति चक्षुर्विज्ञेयं क्षीरं वक्तव्यं. नो तु वक्तव्यं. रूपाणि वा नो वेति सर्वं. तथैतद् अपि वक्तव्यं. चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्योदकं प्रतिविभावयति. चक्षुर्विज्ञेयम् उदकं वक्तव्यं. नो तु वक्तव्यं. रूपाणि वा नो वेति सर्वं. मा भूत् क्षीरोदकयोश् चतुष्ट्वप्रसंग इति. रूपाणीति यद्य् उच्येत्. यावत् स्प्रष्टव्यानीति यद्य् उच्येत क्षीरस्योदकस्य वा चतुष्ट्वं प्रसज्येत्. चतुःप्रकारं क्षीरम् उदकं वा प्राप्नोतीत्य् अर्थः. शब्द आगंतुकत्वान् नात्राधिकृतः. अतो यथा रूपादीन्य् एव समस्तानि समुदितानि क्षीरम् इत्य् उदकम् इति वा प्रज्ञप्यते. तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धं.
रूपाणि पुद्गलोपलब्धेः कारणम् इति रूपाण्य् उअलभमानः पुद्गलम् उपलभत इति. को ऽनयोः पक्षयोर् विशेषः. [तिब्. 367अ] पूर्वस्मिन् पक्षे रूपाणां कारणत्वम् अधिक्रियते. द्वितीये न तु कारणत्वं. किं तर्हि. रूपाण्य् उपादाय पुद्गलोपलब्धिर् इति. तत्र रूपाणं यदि कारणत्वम् इष्यते. स च पुद्गलस् तेभ्यो रूपेभ्यो ऽन्यो न वक्तव्य इति. इदं तर्हि वः प्रसज्यते. रूपम् अपीति विस्तरः. यथा रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्यो ऽन्यो न वक्तव्यः. आलोकचक्षुर्मनस्कारा अपि रूपोपलब्धेः कारणं भवन्ति. तद् अपि रूपं तेभ्य आलोकादिभ्यो ऽन्यन् न वक्तव्यं भवद्भिः. तेषां तदुपलब्धिकारणत्वात्. तेषाम् आलोकादीनां रूपोपलब्धिकारणत्वात्. रूपाद् अभिन्नस्वभावः पुद्गलः प्राप्नोति. तयैवैकयोपलब्ध्योपलभ्यमानत्वात्. रूपान्तरवत्. रूप एव वा तत्प्रज्ञप्तिः. पुद्गलप्रज्ञप्तिः प्राप्नोतीति ( अभिध्-क्-व्य् 702 ) वर्तते. कुतः. तत एव हेतोः. इदं च रूपम् इति विस्तरः. उपलब्धेर् एकत्वे रूपपुद्गलयोः परिच्छेदो न प्राप्नोतीति. अथैवं न परिच्छिद्यते. इदं रूपम् अयं पुद्गल इति. कथम् उभयं प्रतिज्ञायते. रूपम् एव हि प्रतिज्ञातव्यं स्यात्. तदुपलब्धिसद्भावात्. एवं यावद् धर्मेभ्यो वक्तव्यम् इति. कथं. यच् चोच्यते. श्रोत्रविज्ञेयान् शब्दान् प्रतीत्य पुद्गलं प्रतिविभावयतीति को ऽस्य वाक्यस्यार्थः किं तावच् छब्दः पुद्गलोपलब्धेः [तिब्. 367ब्] कारणं भवन्ति. आहोस्विच् छब्दान् उपलभमानः पुद्गलम् उपलभत इति. यदि तावच् छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति. स च तेभ्यो ऽन्यो न वक्तव्यः. एवं तर्हि शब्दो ऽप्य् आलोकश्रोत्रमनस्कारेभ्यो ऽन्यो न वक्तव्यः. तेषां तदुपलब्धिकारणत्वात्. अथ शब्दान् उपलभमानः पुद्गलम् उपलभते. किं तयैवोपलब्ध्योपलभते. आहोस्विद् अन्यया. यदि तयैव शब्दाद् अभिन्नस्वभावः पुद्गलः प्राप्नोति. शब्द एव वा तत्प्रज्ञप्तिः. अयं च शब्दो ऽयं पुद्गल इति कथम् इदं परिच्छिद्यते. अथैवं न परिच्छिद्यते. कथम् इदं परिज्ञायते. शब्दो ऽप्य् अस्ति पुद्गलो ऽप्य् अस्तीति. उपलब्धिवशेन हि तस्यास्तित्वं प्रज्ञायते. अनया दिशा यावद् धर्मेभ्यो योजयितव्यं. नीलाद् इव पीतम् इति. यदा परिच्छेदेन नीलम् उपलभ्यते. न तदा पीतम् उपलभ्यते. पश्चात् तूपलभ्यत इति. अन्ययोपलब्ध्योपलभ्यते. तच् च नीलात् पीतम् अन्यद् इति प्रतीतं. तथा च पुद्गलो ऽन्ययोपलभ्योपलभ्यत इति. रूपाद् अन्यः प्राप्नोति. एवं क्षणाद् अपि क्षणान्तरम् अन्यद् इत्य् उदाहार्यम्. एवं यावद् धर्मेभ्यो वक्तव्यम् इति. कथम्. अथान्यया भिन्नकालोपलम्भाद् अन्यः शब्दः प्राप्नोति. यथा भेरीशब्दान् मृदांगशब्दः. क्षणाद् इव च क्षणान्तरं. यथापूर्वम् उक्तं. नीलाद् इव पीतं [तिब्. 368अ] क्षणाद् इव क्षणान्तरम् इति. भिन्नलक्षणे विषये अभिन्नलक्षणे च भिन्नकालोपलब्ध्यान्यत्वं दर्शितम् एव. अथान्ययेति विस्तरेण यावद् धर्मेभ्यो योज्यं.
आह रूपपुद्गलवद् इति विस्तरः. यथा रूपपुद्गलयोर् अन्यानन्यत्वम् अवक्तव्यम् एवं तदुपलब्ध्योर् अप्य् अन्यानन्यत्वम् अवक्तव्यम् इत्य् एवं यदि ब्रूयात्. तेन तर्हि संस्कृतम् अप्य् अवक्तव्यं भवति तदुपलब्धिलक्षणं संस्कृतम् अप्य् एतद् अवक्तव्यम् इति. सिद्धान्तभेदः. यो ऽयं सिद्धान्तः पुद्गल एवावक्तव्य इति. अयं भिद्यते. संस्कृतम् अप्य् अवक्तव्यम् इति कृत्वा. यदि चायम् इति विस्तरः. यद्य् एवं रूपाणि नो वेति न वक्तव्यः किं तर्हि एतद् भगवतोक्तं रूपम् अनात्मेति. यावद् विज्ञानम् अनात्मेति. एवं हि ब्रुवतो वक्तव्य एव पुद्गलो नावक्तव्य इति दर्शितं भवति.
शब्दादिवद् इति. न रूपविज्ञानेनोपलभ्यते पुद्गलः. तदनालम्बनप्रत्ययभूतत्वात्. शब्दवत्. आदिशब्देनात्र गन्धवद् रसवद् इत्यादि योज्यम्. एवं श्रोत्रादिविज्ञानानुपलभ्यमानत्वम् अस्य [तिब्. 368ब्] वक्तव्यम्. एषा हि दिक्. अनेन चोपन्यासेन धर्मिविशेषविपर्ययप्रतिज्ञादोष उद्भाव्यत इत्य् अवगन्तव्यं. द्वयं प्रतीत्येति. द्वयं प्रतीत्य न तु त्रयं प्रतीत्येति. अत इदम् उत्सूत्रम् इति.
चक्षुर् भिक्षो हेतुर् इति विस्तरः. हेतुर् आसन्नः प्रत्ययः. विप्रकृष्टस् तु प्रत्यय एव. जनको हेतुः. प्रत्ययस् त्व् आलम्बनमात्रम् इत्य् अपरे. पर्यायाव् एताव् इत्य् अपरे.
रूपाद् अन्यः पुद्गल इति पक्षप्रसंगः. श्रोत्रविज्ञानविज्ञेयत्वाच् छब्दवत्. तथा शब्दाद् अन्यः पुद्गल इति पक्षप्रसंगः. चक्षुर्विज्ञानविज्ञेयत्वाद् रूपवत्. इति एवम् अन्येभ्यो योज्यम् इति. रूपशब्दाभ्याम् अन्यः पुद्गल इति पक्षप्रसंगः. घ्राणविज्ञेयत्वात्. गन्धवत्. इत्य् एषा दिग् योजनं प्रतीति. स्वकं स्वकं गोचरविषयं प्रत्यनुभवन्तीति वचनात् पुद्गलेन प्रत्यनुभवन्तीत्य् उक्तं भवति. मनश् चैषां प्रतिसरणम् इति. अनुषंगेनेदम् उक्तं. नेदम् उदाहरणं. तथापि तु मनश् चैषाम् इन्द्रियाणां प्रतिसरणम् इति तदपेक्षाणीन्द्रियाणि विज्ञानोत्पत्तौ [तिब्. 369अ] कारणं भवन्तीत्य् अर्थः. न वा पुद्गलो विषय इति. यदि सूत्रं प्रमाणीक्रियते. ततः किम् इत्य् आह. न चेद् विषयः. यदि न कस्यचिद् विज्ञानस्य विषय न तर्हि विज्ञेयः. ततश् च पंचविधं ज्ञेयम् इति स्वसिद्धान्तो बाध्यते.

यद्य् एवं सूत्रे वचनान् नान्यद् अन्यस्य गोचरविषयं प्रत्यनुभवतीति पंचानां चक्षुरादीनां प्रमाणीक्रियते. स्वविषयाव्यभिचारः. स्वविषयाव्यभिचारे च न चक्षुर्विज्ञानादिभिर् विज्ञेयः पुद्गलः. तद् एवं सति मनैन्द्रियस्याप्य् अव्यभिचारः प्राप्नोति. षड् इमानीन्द्रियाणि नानागोचराणीति विस्तरेण सूत्रे वचनात्. कुक्कुरपक्षिशृगालशिशुमारसर्पमर्कटाः षट्प्राणकाः केनचिद् बद्धा मध्ये ग्रन्थिं कृत्वोत्सृष्टाः. ते स्वकं स्वकं गोचरविषयम् आकांक्षन्ते. ग्रामाकाशाश्मशानोदकान्तवल्मीकवनाकांक्षणात्. एवम् एव षड् इमानीन्द्रियाणि स्वकं स्वकं गोचरविषयम् आकांक्षन्ते. इत्य् एवम् उपमात्र क्रियते. अथ सत्य् अपि सूत्रवचने मनैन्द्रियस्य व्यभिचारः. एवं चक्षुरादीनाम् अपीन्द्रियाणां व्यभिचारः. व्यभिचारे च चक्षुर्विज्ञानादिभिर् विज्ञेयः पुद्गलो भविष्यतीति.
अत्र [तिब्. 369ब्] ब्रूमः. न तत्रेति विस्तरः. तत्र षट्प्राणकोपमे सूत्रे नेन्द्रियम् एव चक्षुरादिकम् इन्द्रियं कृत्वोक्तं. किं कारणं. चक्षुरादीनां ( अभिध्-क्-व्य् 704 ) पंचानाम् इन्द्रियाणां दर्शनाद्याकांक्षणासंभवात्. यस्माद् एषां दर्शनश्रवणाद्याकांक्षणं न संभवति रूपस्वभावत्वात्. तद्विज्ञानानां च. चक्षुरादिविज्ञानानां च दर्शनाद्याकांक्षासंभवात्. कस्माद् एषां दर्शनश्रवणाद्याकांक्षणं न संभवति. अविकल्पकत्वात्. तदाधिपत्याध्याहृतं तु मनोविज्ञानम् इन्द्रियम् इत्य् उक्तम् इन्द्रियम् इवेति कृत्वा. कथम् ज्ञायते तदाधिपत्याध्याहृतं तद् इति. यदि हि चक्षुरादिद्वारेण चक्षुर्विज्ञानादि नोत्पन्नं स्यात्. कथम् अन्यथा विकल्पकं मनोविज्ञानम् उत्पन्नं स्यात्. इत्य् अतो ज्ञायते. तदाधिपत्याध्याहृतम् इति. तन् मनोविज्ञानं चक्षुरादीन्द्रियभूतं स्वकं स्वकं गोचरविषयं रूपादिकम् आकांक्षतीति. यच् च तत् केवलम् इति विस्तरः. नैव तदन्येषां चक्षुरादीनां विषयम् आकांक्षति यन् मन-आधिपत्याध्याहृतं. किं तर्हि. स्वविषयम् एव धर्मायतनम् एवालम्बत इति. अतो नास्त्य् एष दोषः. यद्य् एवं मनैन्द्रियस्याप्य् [तिब्. 370अ] अव्यभिचारः प्राप्नोतीति यद् उक्तम् इति.
न पुद्गलः. किम्. अभिज्ञेयः परिज्ञेयश् चेति. तस्माद् विज्ञेयो ऽप्य् असौ पुद्गलो न भवति. ननु चासाव् अर्थाद् अभिज्ञेयः परिज्ञेयश् च न भवतीत्य् उक्तः. न त्व् अर्थो विज्ञेयः इति. अत आह. प्रज्ञाविज्ञानयोः समानविषयत्वाद् इति. विज्ञेयम् अपि हि चक्षुरादिकं भवति. न केवलम् अभिज्ञेयं परिज्ञेयं चेति.
अनात्मनेति. चक्षुषा चक्षुर्विज्ञानेनेत्य् अर्थः. नीतार्थं च सूत्रं प्रतिसरणम् उक्तम् इति. चत्वारीमानि भिक्षवः प्रतिसरणानि. कतमानि चत्वारि. धर्मः प्रतिसरणं न पुद्गलः. अर्थः प्रतिसरणं न व्यंजनं. नीतार्थसूत्रं प्रतिसरणं न नेयार्थं. ज्ञानं प्रतिसरणं न विज्ञानम् इति.
प्रज्ञप्तिम् अनूपपतित इति. यत्रैव प्रज्ञप्तिः कृता आत्मेति व्यवहारार्थं ताम् एवात्मेत्य् अभिनिविष्ट इत्य् अर्थः.
नास्तीह सत्त्व आत्मा चेति.
इदम् इहोदाहरणं
पुद्गलो नोपलभ्यत
इत्य् एतच् च.
न विद्यते सो ऽपि कश्चिद्
इतीदं वाप्य् उदाहरणं.
योग्य् अपि नास्ति यः शून्यताम् अभ्यस्यातीति.
आत्मदृष्टिर् भवति यावज् जीवदृष्टिर् इति प्रथमा आदिनवो निर्विशेषो भवति. तीर्थिकैर् [तिब्. 370ब्] इति द्वितीयः. उन्मार्गप्रतिपन्नो भवतीति तृतीयः. शून्यतायाम् ( अभिध्-क्-व्य् 705 ) अस्य चित्तं न प्रस्कन्दति यावन् नाधिमुच्यत इति चतुर्थः. आर्यधर्मा अस्य न व्यवदायन्त इति पंचमः.
न तर्हि तेषां बुद्धः शास्तेति. बुद्धवचनम् एषां न प्रमाणम् इत्य् अभिप्रायात्.
न किलैतद् बुद्धवचनम् इति. केनाप्य् अध्यारोपितान्य् एतानि सूत्राणीत्य् अभिप्रायः. सर्वनिकायान्तरेष्व् इति ताम्रपर्णीयनिकायादिषु. न च सूत्रं बाधते न च सूत्रान्तरं बाधते. न च सूत्रान्तरं विरोधयति. न धर्मतां बाधत इति प्रतीत्यसमुत्पादधर्मतां.
सर्वधर्मा अनात्मान इति. न चैत आत्मस्वभावाः. न चैतेष्व् आत्मा विद्यत इति अनात्मानः सर्वधर्माः. द्वयं प्रतीत्येति. चक्षू रूपाणि यावन् मनो धर्मान् इति. [न पुद्गलो न धर्मा इति] .
नात्मा स्कंधायतनधातव इति वचने यत् कश्चित् पूर्वं नो तु वक्तव्यं रूपाणि वा नो वेत्य् उक्तम्. अपोढम् अपास्तं तद् भवति आत्मनो ऽन्यत्वात्.
तस्मात् सर्व एवान्मात्मन्य् आत्मग्राह इति. नातो ऽन्यो ऽस्तीति दर्शयति.
यद्य् एवम् इति विस्तरः. यदीमान् एव पंचोपादानस्कन्धान् समनुस्मरन्तः समन्वस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा न पुद्गलं. कस्माद् आह रूपवान् अहं [तिब्. 371अ] बभूवातीते ऽध्वनीति. अहम् इति वचनात् पुद्गल उच्यते इति दर्शयति. एवम् अनेकविधं ये समनुस्मरन्ति. त एवम् अनुस्मरन्तीति वाक्याध्याहारः. अपाठ एव चात्र शरणं स्याद् इति. अहम् इति पाठे हि सति सत्कायदृष्टिपरिग्रहप्रसंगः स्याद् इत्य् अर्थः. विंशतिकोटिका हि सत्कायदृष्टिः पठ्यते. रूपम् आत्मेति समनुपश्यति. रूपवन्तम् आत्मानम्. आत्मीयं रूपं. रूपे आत्मेत्य् एवं यावद् विज्ञानं वक्तव्यं. राशिधारादिवद् इति. राशिवद् धारावच् च. आदिशब्देन पानकादिग्रहणं. एकस्मिन् क्षणे समवहितानां बहूनां राशिः. बहुषु क्षणेषु समवहितानां धारा. राशिदृष्टान्तेन बहुषु धर्मेषु पुद्गलप्रज्ञप्तिं दर्शयति धारादृष्टान्तेन बहुत्वे सति रूपवेदनादीनां स्कंधानां प्रवाहे पुद्गलप्रज्ञप्तिं दर्शयति.
कथम् इदं गम्यत इति. बुद्धाख्यायाः संततेर् इदं सामर्थ्यं. यद् आभोगमात्रेणाविपरीतम् ज्ञानम् उत्पद्यते यत्रेष्टं. न पुनः पुद्गलस्येति.
उच्यते. अतीतादिवचनात्.
ये चाभ्यतीता
इति विस्तरेणोक्त उपसंहारः. तस्मात् स्कंधसंतान एव बुद्धाख्या. न पुद्गल इति.
भारं च वो भिक्षवो देशयिष्यामीति विस्तरः. [तिब्. 371ब्] भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं च. तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये. भारः कतमः. पंचोपादानस्कंधाः. भारादानं कतमत्. तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी. भारनिक्षेपणं कतमत्. यद् अस्या एव तृस्णायाः पौनर्भविक्या नन्दीरागसहगतायाः तत्रतत्राभिनन्दिन्याः अशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमो ऽस्तंगमः भारहारः कतमः. पुद्गल इति स्याद् वचनीयं. यो ऽसाव् आयुष्मान् एवंनामा एवंजन्य एवंगोत्रः एवमाहारः एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुर् एवंचिरस्थितिक एवमायुष्मन्त इति. भारं हरतीति भारहारः. पुद्गल इत्य् अभिप्रायः. छेदम् उदाहरणम्. अत एवाह. न हि भार एव भारहार इति.

भारादानस्यापि यथोक्तलक्षणस्य स्कंधासंग्रहप्रसंगाच् च. पुद्गलवद् अस्कंधसंग्रहप्रसंगः. न चैवम् इष्यते. तस्माद् भारादानवन् न स्कंधेभ्यो ऽर्थान्तरभूतः पुद्गलः. इत्य् अर्थम् एव चेति विस्तरेण सर्वम् उक्त्वा वक्तव्यं मान्यथेति. यदि द्रव्यसन् स्यात् पुद्गलः भारहारः कतमः पुद्गल इति स्याद् वचनीयम् इत्य् एतावद् एवोक्तं स्यात् तत्र सूत्रे. परेण स न विभक्त्व्यः स्यात्. यो ऽसाव् आयुष्मान् इति विस्तरेण यावद् आयुःपर्यन्त इति. [तिब्. 372अ] प्रज्ञप्तिसत्पुद्गलप्रतिपत्त्यर्थं ह्य् एतत् परेण विशेषणम् इत्य् अभिप्रायः. स एव तु प्रज्ञप्तिसन् कुतो विज्ञायते. मान्यथा विज्ञायि नित्यो वावक्तव्यो वा द्रव्यसत्पुद्गल इति. स्कंधानाम् इति विस्तरः. तत्र ये उपघाताय संवर्तन्ते दुःखहेतवः स्कंधाः. ते भाव इति कृत्वोक्ताः. उत्तरे ये पीड्यन्ते. ते भारहार इति कृत्वोक्ता इति. उपपादुकत्वाद् इति. उपपदने साधुकारित्वाद् इत्य् अर्थः. पुद्गलस्य सत्येष्व् अनन्तर्भावाद् इति. यस्माद् यथापरिकल्पितस्य पुद्गलस्य सत्येषु दुःखादिसु नानन्तर्भावः. न हि पुद्गलो दुःखं यावन् मार्ग इति. अतो न सत्यदर्शनप्रहातव्यैषा पुद्गलापवादिक मिथ्यादृष्टिः. या हि दृष्टिर् यस्मिन् सत्ये विप्रतिपन्ना. तत्सत्यदर्शनात् तस्याः प्रहाणं भवेत्. तथा दुःखसमुदयसत्ययोः पुद्गलस्यानन्तर्भावान् नापि भावनाप्रहातव्या. भावनाप्रहातव्यो हि क्लेशो भावनाप्रहातव्यम् ( अभिध्-क्-व्य् 707 ) एव वस्तु दुःकं समुदयं वालंबत इत्य् एवं तस्या भावनाप्रहातव्यत्वं युज्यते. न च पुद्गलस् तयोर् अंतर्भूत इत्य् अतो भावनाप्रहातव्या सा न भवति. अथ वा न कदाचिद् अपि दृष्टिर् भावनाप्रहातव्येति नासौ भावनाप्रहातव्या.
एकतिलैकतण्डुलवद् एकराश्येकवचनवच् चेति. यथा [तिब्. 372ब्] ऽष्टद्रव्यकत्वे ऽप्य् एकतिल एकतण्डुल इति चोच्यते. तथा एको राशिर् एकवचनम् इति. तद्वद् एकः पुद्गल इति. उत्पत्तिमत्त्वाभ्युपगमाद् इति. उत्पद्यत इति वचनाद् उत्पत्तिमत्त्वम् अस्याभ्युपगतं भवति. ततश् च संस्कृत इति वक्तव्यो भवद्भिः.
स्कन्धान्तरोपादानाद् इति. नास्य संस्कृतत्वम् आप्द्यत इति अभिप्रायः. यथा हि याज्ञिको जात इति विद्योपादानाद् उच्यते. न चासौ भूतार्थेन जातः. तद्वद् इति सर्वं योज्यं.
कारकस् तु नोपलभ्यत इति विस्तरः. कर्मणः कारको नोपलभ्यते. कीदृशो ऽसाव् इति. आह. य इमांश् चैहिकां स्कन्धान् निक्षिपति त्यजत्य् अन्यांश् च पारत्रिकान् स्कंधान् प्रतिसंदधाति उपसंगृह्णाति. द्रव्यसन्न् अवस्थित इति. अन्यत्र धर्मसंकेताद् इति प्रतीत्यसमुत्पादलक्षणान्तेनाह यद् उतास्मिन् सतीति.
उपादत्त इति फाल्गुन न वदामीति. अहं चेद् एवं वदेयम् उपादत्त इति. अत्र ते कल्पः स्याद् वचनाय को नु भदन्त उपादानम् उपादत्त इति. तस्मान् नास्ति स्कन्धानां कश्चिद् उपादाता नापि निक्षिप्तेति.
तस्यापि तथेति. प्रतिक्षणम् अपूर्वोत्पत्तिर् एवेत्य् अर्थः. यदि पुद्गलः. सो ऽसिद्ध इत्य् एवमादिनोपन्यासेनासिद्धतां दृष्टान्तस्य दर्शयति.
शरीरविद्यालिंगवच् चेति. विद्या च लिंगं च विद्यालिंगं. शरीरं च विद्यालिंगं च शरीरविद्यालिंगं. [तिब्. 373अ] तयोर् इव शरीरविद्यालिंगवत्.
स्कन्धपुद्गलयोर् अन्यत्वम् आपद्यते. यथोपादेयाया विद्याया लिंगाच् च शरीरस्य अन्यत्वं. एवम् उपादेयात् स्कन्धात् पुद्गलस्यान्यत्वम् उपादातृत्वाद् इत्य् अभिप्रायः. जीर्णं तं शरीरान्तरम् एव व्याधितं चेति प्रतिक्षणम् अन्यत्वम् अवस्थानाद् इत्य् अभिप्रायात्. तत्र यद् उक्तं जीर्णो जातो व्याधितो जात इत्य् असिद्धो दृष्टान्त इति दर्शयति. अथापि स्याद् अवस्थितस्य शरीरस्यावस्थान्तरनिर्वृत्ताव् अवस्थान्तरप्रादुर्भाव इति. तच् च नाप्रतिषिद्धो हि सांख्येयः परिणामवादः पूर्वस्मिन् कोशस्थाने. कथम्. स एव हि धर्मी न संविद्यते. यस्यावस्थितस्य धर्मान्तरविकल्पः परिकल्पेत. तद् एव चेदं तथेत्य् अपूर्विका वाचोयुक्तिर् इति.
भूतानि चत्वारि रूपं चैकम् इति. रूपं कतमत्. चत्वारि महाभूतानीत्य् ( अभिध्-क्-व्य् 708 ) आदि.

पाक्षिक एव दोष इति एकस्मिन् पक्षे अयं दोषवाद इत्य् अर्थः.
भूतमात्रिकपक्ष इति स्थविरबुद्धदेवपक्षे नास्मत्पक्ष इत्य् अर्थः. तथापि त्व् इति. भूतमात्रिकपक्षे ऽपि भूतेभ्यो रूपं नान्यत्. भूतमात्रिकपक्षे ऽपि भूतेभ्यो रूपवत् स्कन्धेभ्यो नान्यः पुद्गल इत्य् उपगतं भवतीति स्वसिद्धान्तः परित्यागः स्याद् इत्य् अभिप्रायः. कस्माद् [तिब्. 373ब्] भगवता स जीवः. तच् छरीरम् अन्यो वेति न व्याकृतम् इति. अयम् एषाम् अभिप्रायः. यदि स्कन्धेषु पुद्गलोपचारः कस्माच् छरीरम् एव जीव इति नोक्तम् इति. पूर्वकैर् एवेति स्थविरनागसेनादिभिः. बहुवोल्लका इति. बहुप्रलापा इति.
इतराह. यदि पुद्गलो नावक्तव्यः कस्मान् नोक्तो नास्त्य् एवेति.
स च तद्देशनाया अक्षम इति. नैरात्म्यदेशनाया अयोग्य इत्य् अर्थः. पूर्वम् एवं संमूढ इति. सत्कायदृष्टिसहगतेन मोहेन. भूयस्या मात्रया संमोहम् आपद्येतेति उच्छेददृष्टिसहगतं दृष्ट्यन्तरम् उत्पादयेद् इत्य् अभिप्रायः. अत एवाह. अभून् मे आत्मा स मे एतर्हि नास्तीति. आह चात्रेति. भदन्तकुमारलातः
दृष्टिदंष्ट्रावभेदं चेति
विस्तरः. दृष्टिर् एव दंष्ट्रा. तयावभेदम्
अपेक्ष्य
देशयन्ति बुद्धा
भगवन्तो
धर्मं
नैरात्म्यं तत्प्रतिपक्षेण.
भ्रंशं च कर्मणाम् अपेक्ष्य
कृतविप्रणाशम् अपेक्ष्य. पुद्गलास्तित्वम् इव दर्शयन्तो ऽन्यथा देशयन्ति.
व्याघ्रि पोतापहारवद्
इति. यथा व्याघ्री नातिनिष्ठुरेण दन्तग्रहणेन स्वपोतम् अपहरति नयति. मास्य दंष्ट्रया शरीरं क्षतं भूद् इति. नाप्य् अतिशिथिलेन दन्तग्रहणेन तम् अपहरति मास्य भ्रंशपातो ऽस्मिन् विसये भूद् इति. युक्तेनैव ग्रहणेनापहरतीत्य् अर्तः. अपहरतीत्य् अपरे [तिब्. 374अ] पठन्ति स्थानान्तराद् अपहरत्य् अपनयतीत्य् अर्थः. तथार्थदर्शने कारणं दर्शयन्न् आह.
आत्मास्तित्वम्
इति विस्तरः.
आत्मास्तित्वं प्रतिपन्नश्
चेत् कश्चिद्
दृष्टिदंष्ट्रया
सत्कायदृष्टिलक्षणया
भिन्नः स
विनेयजनः स्यात्.
अप्राप्य संवृतिगतिं
धर्मसंकेतम् अजानानः.
कुशलपोतस्य
कुशलकर्मणो व्याघ्रीपोतभूतस्य
भ्रंशं
कुर्यात्. नास्ति कर्मणः फलम् इति.
प्राज्ञप्तिक
इति प्रज्ञप्तौ भवः प्राज्ञप्तिकः. संवृतिसन्न् अपि पुद्गलो नास्तीति कश्चिद् गृह्णीयाद् इत्य् अतो
नास्तीति नावोचत्.
सति त्व् अस्तीति नाह किम्
इति. यदि भूतार्थेन पुद्गलो ऽस्ति किम् इति कृत्वा भगवान् अस्ति पुद्गल इति न ब्रवीति. न हि रूपम् अस्तीति वचने दोषो भवति तस्यास्तित्वात्.
निर्ग्रन्थश्रावकचटकवद् इति. निर्ग्रन्थश्रावकेण चटकं जीवन्तं गृहीत्वा भगवान् पृष्टः. किम् अयं चटको जीवति न वेति. तस्यायम् अभिप्रायः यदि श्रमणो गौतम आदिशेज् जीवतीति. स तन् निपीडनेन मारयित्वा दर्शयेत्. यदि पुनर् भगवान् एवम् आदिशेन् मृत इति. स तं जीवन्तम् एव दर्शयेत्. कथं नामायम् अज्ञ इति लोको जानीयाद् इति तस्याभिन्वेशः. भगवता तु तस्याशयं विदित्वा न व्याकृतं. त्वच्चित्तप्रतिबद्धम् एवैतज् जीवति वा न वेति चेत्य् एवाभिहितं. तद्वद् [तिब्. 374ब्] एतन् न व्याकृतम् इति.
तुल्यार्थो ह्य् एष चतुष्क इति. शाश्वतो लोको ऽशाश्वतो लोक इत्य् अनेन चतुष्केन अन्तवान् लोको ऽनंतवान् इत्य् अयं चतुष्कस् तुल्यार्थः. यद्य् एवं कथं चतुर्दशाव्याकृतवस्तूनि भवंति. शाश्वतो लोक इत्य् एकचतुष्कः. अन्तवान् इति द्वितीयश् चतुष्कः. भवति तथागत इति तृतीयश् चतुष्कः. स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इति द्विकः. त्रयश् चतुष्काः एकश् च द्विक इति चतुर्दशाव्याकृतवस्तूनीति. पर्यायरूपत्वव्यावस्थाने ऽपि चतुर्दशत्वं भवतीत्य् अदोषः. त्वम् एवैतत् पृच्छसीति. अन्तवान् इति यं पृष्टवान्. कथं. किं नु सर्वो लोको ऽनेन मार्गेण निर्यास्यतीति अनेन अन्तवान् इति अशाश्वत इति च पृष्टं भवति. आहोस्विद् एकदेशो लोकस्येत्य् अनेनान्तवांश् चानन्तवांश् चेति ( अभिध्-क्-व्य् 710 ) शाश्वतश् चाशाश्वतश् चेति च पृष्टं भवति.
जीवन्तं पुद्गलम् अस्तीति व्याकरोतीति. तत्त्वान्यत्वेनावक्तव्यं सन्तम् एव पुद्गलं व्याकरोतीत्य् अभिप्रायः.
शाश्वतदोषप्रसंगाद् इति वात्सिपुत्रीयवचनं. इदं तर्हि कस्माद् व्याकरोतीति विस्तरेणाचार्यवचनं. सार्वज्ञम् इत्य् अण् भावप्रत्ययो यौवनम् इति यथा. न वक्तव्यं पश्यति वा न वेति. पश्यति न पश्यति न वक्तव्यम् इत्य् अर्थः. शनैःशनैर् अवक्तव्यं क्रियताम् [तिब्. 375अ] इति. सर्वज्ञो वा भगवान् न वेति न वक्तव्यम् इति. शनैःशनैर्ग्रहणं समानशाक्यपुत्रीयप्रकोपपरिहारार्थं. सत्यतः स्थितित इति. स्थितिरूपेणेत्य् अर्थः. दृष्टिस्थानम् उक्तम् इति. मिथ्यादृष्टिस्थानम् उक्तम् इत्य् अभिप्रायः.
आचार्य आह. अस्तीत्य् अपि दृष्टिस्थानम् उक्तम् इति. सत्कायदृष्टिस्थानम् उक्तम् इत्य् अर्थः.
उक्तोत्तर एष पक्ष इति. कथं च न. प्रतिक्षेपात्. सूत्र एव हि प्रतिक्षिप्तं भगवतेति विस्तरेण यावद् अपदृष्टान्ता एत इति. किम् इदम् उपादायेत्य् आरभ्यैतद् अपरेषां व्याख्यानं. स्वमतेन तु यथा संसरति. तथा दर्शयन्न् आह. यथा तु क्षणिको ऽग्निर् इति विस्तरः. क्षणिको ऽग्निः प्रसिद्धः. स च देशांतरोत्पत्तिसंतत्या संचरतीत्य् उच्यते. तथा सत्त्वाख्यस्कन्धसमुदायस् तृष्णोपादानः. तृष्णा उपादानम् अस्येति तृष्णोपादानः. क्षणिको ऽपि संतत्या संसरतीति.

सुनेत्रो नाम शास्तेति. सप्तसूर्योदयसूत्रे ऽयम् एव भगवान् ऋषिः सुनेत्रो नाम बभूवेति.
अन्यत्वात् स्कंधानम् इति. क्षणिकत्वे सत्य् अन्यत्वाद् इत्य् अभिप्रायः. एकसंतानतां दर्शयतीति. यस्मात् सुनेत्रो बुद्धसंतान एवासीत्. अतः स एवाहम् इत्य् अभेदोपचारः. [तिब्. 375ब्] यथा स एवाग्निर् यः पूर्वं दृष्टो दहन्न् आगत इति. संतानव्र्ट्त्या स एवेत्य् उच्यते. तद्वत्. सैषां स्यात् सत्कायदृष्टिर् इति. सैषां तथागतानाम् आत्मात्मीयाकारा सत्कायदृष्टिः स्यात्. दृढतरात्मात्मीयस्नेहपरिगाहितबंधनानाम् इति. आत्मदृष्टाव् आत्मीयदृष्टौ च सत्याम् आत्मस्नेह आत्मीयस्नेहश् च भवति. इत्य् अतो रागो बन्धनम् इति कृत्वा दृढीकृतबन्धनानां सतां मोक्षो दूरीभवेत्. नैव भवेद् इत्य् अभिप्रायः.
य एकेषां पुद्गलग्राह इति वात्सीपुत्रीयाणाम्. एकेषां सर्वनास्तिग्राह इति. मध्यमकचित्तानाम् इत्य् अभिप्रायः. स्मृतिविषयसंज्ञान्वयाच् चित्तविशेषाद् ( अभिध्-क्-व्य् 711 ) इति. स्मृतेर् विषयो ऽनुभूतो ऽर्थः. तत्र संज्ञा सान्वयो हेतुर् अस्येति स्मृतिविषयसंज्ञान्वयश् चित्तविशेषः. किंचिद् एव चित्तं. न सर्वम् इत्य् अर्थः. तस्मात् स्मरणं भवति प्रत्यभिज्ञानं वा.
एवम् उभयविशेषणे कृते पृच्छति कीदृशाच् चित्तविशेषाद् इति.
आह. तदाभोग इति विस्तरः. तस्मिन् स्मर्तव्य आभोगस् तदाभोगः. यत्र तेन सदृशाः संबंधिनश् च संज्ञादयो ये ते विद्यन्ते ऽस्येति तदाभोगसदृशसंबंधिसंज्ञादिमांश् चित्तविशेषः. आदिग्रहणेन प्रणिधाननिबन्धाभ्यासादिग्रहणं. [तिब्. 376अ] आश्रयविशेषश् च शोकतश् च व्याक्षेपतश् चादिर् एषाम् इति आश्रयविशेषशोकव्याक्षेपादीनि. तैर् अनुपहतप्रभावश् चित्तविशेषः. स एवम् अनेन दर्शितो भवति. तस्माद् ईदृशाच् चित्तविशेषात् स्मृतिर् भवति. तद् इदम् उक्तं भवति. तदाभोगवतः यदि तत्राभोगः क्रियते. सदृशसंज्ञादिमतः यत्र सादृश्यात् स्मृतिर् भवति. सम्बन्धिसंज्ञादिमतः यत्रान्तरेणापि सादृश्यं धूमादिदर्शनात् स्मृतिर् भवति. प्रणिधाननिबंधाभ्यासादिमतश् च यत्र प्रणिधानम् अत्र काले स्मर्तव्यम् अभ्यासो वास्य तत्स्मर्तव्यादि. आश्रयविशेषादिभिर् अनुपहतप्रभावत्वाद् इति. व्याधिलक्षणेनाश्रयविशेषेण शोकेन व्याक्षेपेणान्यत्र कार्ये. आदिशब्दगृहीतैश् च कर्मविद्यादिभिः. तादृशो ऽपीति विस्तरः. तदाभोगयावत्संज्ञादिमान् अनुपहतप्रभावो ऽपीत्य् अर्थः. अतदन्वय इति. अस्मृतिविषयसंज्ञान्वय इत्य् अर्थः. भावयितुम् उत्पादयितुं. अन्यादृश इति. अतदाभोगयावत्संज्ञादिमान् अनुपहतप्रभावो वा. अन्यस्य चित्तविशेषाद् अन्यस्य.
न. असंबंधाद् इति. देवदत्तयज्ञदत्तचेतसोर् अकार्यकारणभावेनासंबंधाद् [तिब्. 376ब्] इत्य् अर्थः. यथैकसांतानिकयोश् चेतसोः कार्यकारणभावात् संबंधो. नैवं देवदत्तयज्ञदत्तचेतसोः संबन्धः. इत्य् अनेन दृष्टान्तदार्ष्टान्तिकयोर् असाम्यं दर्शयति. तत्र यदि परेणैवं साधनम् अभिधीयते. न देवदत्तानुभवचित्तानुभूतम् अर्थं तत्स्मरणचित्तं स्मरति. अन्यत्वात्. यज्ञदत्तचित्तवद् इति. तद् असाधनं. हेतोः स्वयमनिश्चितत्वात् प्रत्यक्षविरोधेन च पूर्वपक्षसापक्षालत्वात्. अथ देवदत्तानुभवचित्तानुस्मरणचित्तयोर् अन्यत्वप्रतिज्ञायाम् इदं दूषणम् उद्ग्राह्येत्. तद् अदूषणं दृष्टबाधायां दूषणानुपपत्तेः. भवत्सिद्धान्ते ऽपि हि देवदत्तानुभवचित्तानुभूतम् अर्थं तत्स्मरणचित्तं स्मरतीति. न च ब्रूमो ऽन्येन चेतसा दृष्टम् अन्यत् अन्यत् स्मरतीति. न यत्किंचिद् अन्यत् ( अभिध्-क्-व्य् 712 ) स्मरतीत्य् अभिप्रायः. दर्शनचित्तात् स्मृतिचित्तम् अन्यद् एवोत्पद्यत इति. विद्यमानकारणत्वाद् विद्यमानबीजांकुरवद् इत्य् अर्थः. स्मरणाद् एव च प्रत्यभिज्ञानम् इति. स्मरणे सति प्रत्यभिज्ञानं. तद् एवेदं यन् मया दृष्टम् इति स्मरणात्.
यत् तर्हीति. यदि चित्तविशेष एव स्मरति. यत् तर्हि चैत्रः स्मरतीति तत् कथम् इति वाक्याध्याहारः. स चापि तस्येति विस्तरः. स चापि चैत्राभिधानः. संस्कारसमूहसंतानस् तस्य गवाख्यस्य देशांतरविकारोत्पत्तौ [तिब्. 377अ] देशान्तरोत्पत्तौ विकारोत्पत्तौ च कारणभावं चेतसिकृत्वा. किं. स्वामीत्य् उच्यते. न तु पुद्गलं. कार्यकारणभावापेक्षो ऽयं व्यवहारः. न पुद्गलापेक्ष इत्य् अभिप्रायः. अत एवाह. न तु कश्चिद् इति विस्तरः.
एवं को विजानातीति विस्तरः. असत्य् आत्मनि क एवं विजानाति. विजानातीति को ऽर्थः. विज्ञानेन विषयं गृह्णाति. किं तद् ग्रहणम् अन्यद् विज्ञानत्. विज्ञानं तर्हि करोति. उक्तः सः. यस् तत् करोति. विज्ञानहेतुर् इन्द्रियार्थमनस्काराः. चित्तविशेष इति तन् न वक्तव्यं. इन्द्रियादिहेत्वन्तरयोगात्. अत एव चोच्यते यथायोगम् इत्य् एष विशेष इति. यत् तर्हि चैत्रो विजानातीत्य् उच्यते. ततो हि चैत्राख्यात् संतानाद् भवदृष्टोच्यते. असत्य् आत्मनि कस्येदं विज्ञानं. किम् अर्थैषा षष्ठी. स्वाम्यर्था. यथा कस्य कः स्वामीति विस्तरेण यावत् क्व च पुनर् विज्ञानं विनियोक्तव्यं यत एतस्य स्वामी मृग्यते. विज्ञातव्ये ऽर्थे. किम् अर्थं विनियोक्तव्यं. विज्ञानार्थम्. अहो सूक्तानि सुखैधितानां. तद् एव हि नाम तदर्थं विनियोक्तव्यम् इति. कथं च विनियोक्तव्यं. उत्पादनत आहोस्वित् संप्रेषणतः. विज्ञानगत्ययोगाद् उत्पादनतः. [तिब्. 377ब्] हेतुर् एव तर्हि स्वामीति विस्तरेण यावद् यो ह्य् एव हेतुर्विज्ञानस्य तस्यैवासौ. यश् चापि स चैत्राभिधान इति विस्तरेण यावन् न तत्रापि हेतुभावं व्यतीत्यास्ति स्वामिभाव इति. आदिशब्देन को वेदयते कस्य वेदना. कः संजानीते कस्य संज्ञेत्य् एवमादि. एषा दिग् इति.
यो ऽप्य् आह. भावस्य भवित्रपेक्षाद् इति वैयाकरणः. तेन भवितव्यम् इति. विज्ञात्रा भवितव्यं पुद्गलेनेत्य् अभिप्रायः.
गच्छतिगमनाभिधानवद् इति. यथा ज्वाला गच्छति शब्दो गच्छतीति गच्छतिशब्दाभिधानं. यथा ज्वालायाः शब्दस्य वा गमनम्. एवं देवदत्तो गच्छति देवदत्तस्य गमनम्. अनेन दृष्टान्तेन विजानाति देवदत्त इति सिध्यति.
सादृश्येनात्मलाभाद् इति. कारणसादृश्येन कार्यात्मलाभात्. अकुर्वद् अपि किंचिद् इति. परिस्पन्दम् अकुर्वद् अपीत्य् अर्थः.
तदाकारतेति. नीलादिविषयाकारतेत्य् अर्थः. विज्ञाने कारणभावाद् इति. ( अभिध्-क्-व्य् 713 ) विज्ञानं विज्ञानान्तर्स्य कारणम्. अतो विज्ञानान्तरम् उत्पादाद् विजानातीत्य् उच्यते. कारणे कर्तृशब्दनिवेशाद् इति. कारणं कर्तृभूतम् इति कृत्वा. तद्यथा नादस्य कारणं घण्टेति घण्टा रौतीत्य् उच्यते. तद्वत्.

[तिब्. 378अ] प्रदीप इति. अर्चिषां संताने प्रदीप इति उपचर्यते. एक इवेति कृत्वा. स देशान्तरेषूत्पद्यमानः संतानरूपः प्रदीपदेशान्तरेषूत्पद्यमानः. तंतं देशं गच्छतीत्य् उच्यते. एवं चित्तानां संताने विज्ञानम् इत्य् उपचर्यते. एकम् इवेति कृत्वा. तत् संतानरूपं विज्ञानं विषयान्तरेषूत्पद्यमानं तंतं विषयं विजानातीत्य् उच्यते. संतानेन विज्ञानोत्पत्त्या विजानातीत्य् अभिप्रायः. यथा वा रूपं भवतीति विस्तरः. यथा भवितू रूपस्य भावाज् जनितुर् जातेः स्थातुः स्थितेर् अनर्थान्तरत्वम्. एवं विज्ञाने ऽपि स्यात्. विज्ञातुर् विज्ञानस्य भावाद् अनर्थान्तरत्वं. व्यतिरिक्तस्य भावस्यानुपलब्धेः. वैशेषिकसूत्रानुसाराद् वा.
नात्मन इति. यदि नात्मनो विज्ञानम् उत्पद्यते विज्ञानलक्षणस्याविशेषात् तादृशम् एव विज्ञानम् उत्पद्येत. यदि त्व् आत्मनः तस्याभिप्रायविशेषाद् विशिष्टं ज्ञानम् उत्पद्येतेत्य् अभिप्रायः. न च क्रमनियमेनेति. कस्माच् च न क्रमनियमेनोत्पद्यते. अनियमेनापि ह्य् उत्पद्यते गोबुद्धेर् अनन्तरं स्त्रीभुद्धिः. स्त्रीबुद्धेर् महिषभुद्धिः. कस्माद् गोबुद्धिर् एवानन्तरं नोत्पद्यते. अंकुरकाण्डपत्त्रादिवद् इति. अंकुरात् काण्ड एवोत्पद्यते [तिब्. 378ब्] न पत्त्रादि. काण्डात् पत्त्रम् एवोत्पद्यते न पुष्पाद्य् अंकुरादि वा. तद्वत्.
निकामध्यानसमाहितानाम् इति. निकामेन पर्याप्तेन समाप्तेन ध्यानेन समाहितानाम्. सदृशकायचित्तोत्पत्तौ सदृशस्य कायस्य चित्तस्य चोत्पत्तौ. स्वयंव्युत्थानम् इति. न परोपक्रमेणेत्य् अभिप्रायः. एवम् अनेन कस्मान् न नित्यं सदृशम् एवोत्पद्यत इत्य् यत् पृष्टं. तद् विसर्जनं. यत् तु पृष्टं न च क्रमनियमेनेति. तद् दर्शयन्न् आह. क्रमो ऽपि हि चित्तानाम् नियतम् एवेति. अभीष्टम् एवैतत्. गोत्रविशेषाद् इति भावनाविशेषात्. स्त्रीचित्ताद् इति विस्तरः. स्त्रीचित्तात् स्त्र्यालम्बनाच् चित्ताद् अनन्तरं तस्याः स्त्रियाः कायस् तत्कायः. तत्कायस्य विदूसाणायै यदि परिव्राजकस्यान्यस्य वा साधोश् चित्तम् उत्पन्नं भवति. तत्पतिपुत्रादिचित्तं वा. तस्याः पतिपुत्रादयः. आदिशब्देन दुहित्रादयो गृह्यन्ते. तदालम्बनं चित्तं तत्पतिपुत्रादिचित्तं. तद् वान्यतरद् यद् इदं तस्मात् स्त्रीचित्ताद् अनन्तम् उत्पन्नं भवति. पुनश् च कालान्तरेण संततिपरिणामेन स्त्रीचित्तम् उत्पद्यते. तत् पश्चाद् उत्पन्नं स्त्रीचित्तं ( अभिध्-क्-व्य् 714 ) समर्थं भवति तत्कायविदूषणाचित्तोत्पादने तत्स्त्रीकायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा समर्थं. कस्माद् इत्य् [तिब्. 379अ] आह. तद्गोत्रत्वाद् इति. तद्कायविदूसणाचित्तं तत्पतिपुत्रादिचित्तं वा गोत्रं बीजम् अस्येति तद्गोत्रं. चित्तं तस्य भावः. तस्मात्. तज्जातीयत्वाद् इत्य् अभिप्रायः. अन्यथेत्य् अतद्गोत्रं. अथ पुनः पर्यायेणेति विस्तरः. पर्यायेणायुगपत्. स्त्रीचित्तात् तत्कायविदूषणाचित्तं ततस् तत्पतिचित्तं ततस् तत्पुत्रचित्तं तत एव च तद्दुहितृचित्तं तत एव च तदुपकरणादिचित्तं उत्पन्नं भवति. ततः स्त्रीचित्ताद् अनंतरोत्पन्नेभ्यश् चित्तेभ्यो यद् बहुतरं प्रवाहतः पटुतरं शक्तितः आसन्नतरं वास्योत्पाद्यस्य चित्तस्य. तद् एव चित्तम् उत्पद्यते. तद्भावनाया बलीयस्त्वात् तस्य बहुतरस्य पटुतरस्यासन्नतरस्य वा भावनाया बलवत्तरत्वात्. अन्यत्रेति विस्तरः. तत्कालप्रत्युपस्थितस् तत्कालिकः कायप्रत्ययविशेषो बाह्यप्रत्ययविशेषश् च. तस्माद् अन्यत्र तस्माद् ऋत इत्य् अर्थः. तद् एव ह्य् उपपद्यते यस्य कायो बाह्यो वा प्रत्ययविषय उप्तिष्ठते.
सैव बलीयसीति. या बहुतरस्य पटुतरस्य आसन्नतरस्य वाभिहिता सैव बलीयसि भावना. कस्मान् नित्यं न फलति न हि तच् चित्तं निवर्तते.
वर्तत इतीतरेण चोदित आह. स्थित्यन्यथात्वलक्षणत्वात्. [तिब्. 379ब्] स्थितेर् अन्यथात्वं लक्षणम् अस्येति स्थित्यन्यथात्वलक्षणं. तद्भावात्. तस्य चान्यथात्वस्य संस्कृतलक्षणस्य. अन्यभावनाफलोत्पत्तौ अन्यभावनाफलस्य चित्तान्तरस्योत्पत्ताव् आनुगुण्यान् नित्यं न फलति तद् एवेत्य् अर्थसंबन्धः.
एवं ह्य् आहुर् इति स्थविरराहुलः.
सर्वाकारम्
इति सर्वप्रकारं. यावन्तो
मयूरचन्द्रकस्य
वर्णसंनिवेशादिप्रकाराः. तेषां
कारणम्
इदम् अस्य कारणं येनैवं वर्णः एवं संनिवेशः एवं स्निग्धतेति. एवमादिभिर् आकारैर्
न ज्ञेयं
न ज्ञातुं शक्यं. कैः.
असर्वज्ञैः
श्रावकप्रत्येकबुद्धादिभिः.
सर्वज्ञबलं हि तत् ज्ञानं
सर्वविद्बलं हि तज् ज्ञानं. येन तत् कारणं ज्ञायत इत्य् अभिप्रायः. प्राग् ( अभिध्-क्-व्य् 715 ) एवरूपिणां चित्तभेदानाम् इति. रूपकारणम् अपि सर्वथा ज्ञातुम् अशक्यं किम् अरूपिणाम् इत्य् अर्थः.

एकीयस् तीर्थिक इति वैशेषिकः. मनःसंयोगविशेषापेक्षत्वाद् इति चेत्. स्यान् मतं तुल्ये ऽप्य् आत्मप्रभवत्वे चित्तोत्पत्तेर् आत्मा कदाचित् कर्हिचिन् मनःसंयोगविशेषम् अपेक्षते. इत्य् अतो न नित्यं तादृशम् एव चित्तम् उत्पद्यते न च क्रमनियमेनांकुरकाण्डपत्त्रादिवद् इति. न. अन्यसंयोगासिद्धेः. [तिब्. 380अ] नैतद् एवं. कस्मात्. ताभ्याम् आत्ममनोभ्याम् अन्यस्य संयोगस्यासिद्धेः. न हि संयोगो नाम भावः कश्चिद् अस्माकं सिद्धो ऽस्ति. संयोगिनोश् चेति विस्तरः. अभ्युपगते ऽपि संयोगे संयोगिनोश् चेति विस्तरः. लोकप्रसिद्धयोः काष्ठयोर् अन्ययोर् वा कयोश्चित्. परिच्छिन्नत्वात् परिच्छिन्नदेशदृष्टत्वाद् इत्य् अर्थः. लक्षणव्याख्यान्दे चेति. वैशेषिकतंत्रे संयोगलक्षणनिर्देशात्. ततः किम् आत्मनः परिच्छेदप्रसंगः. परिच्छिन्नदेशत्वप्रसंगः. यत्रात्मा. न तत्र मनः. यत्र मनः. न तत्रात्मेति. अनेनानुमानागमापत्तितो धर्मिविशेषविपर्ययो ऽस्य पक्षस्य संदर्शितो भवति. मनसा संयोग आत्मन इति. आत्मा धर्मी. तस्य विशेषः सर्वगत्वं. तद्विपर्ययो ऽसर्वगतत्वम् इति. ततो मनःसंचाराद् आत्मनः संचारप्रसंगाद् इति. ततो लक्षणाद् अप्राप्तिपूर्विका प्राप्तिः संयोग इति मनःसंचाराद् यंयं शरीरप्रदेशं मनः संचरति. ततस्तत आत्मा संचरत्य् अपैतीति प्रसज्यते. तद्यथा यंयं पृथिवीप्रदेशं पुरुषः संचरति. ततस्तत आतपो ऽपसर्पति. तथा च सति निःक्रियत्वम् अस्य बाधितं भवतीति. स एव प्रतिज्ञादोषः. विनाशस्य वा. प्रसंग इति वर्तते. आत्मन इति च. यत्रयत्र मनः संचरति. तत्रतत्रात्मा विनश्यतीति. स एव चात्र प्रतिज्ञादोषः. आत्मनो नित्यत्वनिवृत्तेः. प्रदेशसंयोग [तिब्. 380ब्] इति चेत्. स्यान् मतम् आत्मना प्रदेशेन संयोगो मनसः. आत्मनो वा प्रदेशेन मनसा सह संयोगः. यस्मिं छरीरप्रदेशे मनो ऽवस्थितं भवति. तद्गतेनात्मप्रदेशेन मनो न संयुज्यते. प्रदेशान्तरेणान्यपार्श्वतः संयुज्यते. तस्ंआद् अप्राप्तिपूर्वकत्वे ऽपि संयोगस्याप्राप्तेनैवात्मप्रदेशेन मनः संयुज्यत इति. तन् न. तस्यैव तत्प्रदेशत्वायोगात्. न ह्य् आत्मनो ऽन्यप्रदेश विद्यंते. न चैवात्मैवात्मनः प्रदेशो युज्यते. अस्तु वा संयोग इति विस्तरः. अभ्युपेत्यापि संयोगं तथापि निर्विकारत्वाद् अविशिष्टे मनसि कथं संयोगविशेषः. कथं विशिष्टः संयोगो भवति. यते एवम् उक्तं मनःसंयोगविशेषापेक्षत्वाद् इति. बुद्धिविशेषापेक्षत्वाद् इति चेत्. स एवोपरि चोद्यते कथं बुद्धिविशेष इति. कस्मान् न नित्यम् ईदृशम् एवोत्पद्यते चित्तम् अविशिष्टे आत्मनीति. कारणविशेषाद् धि कार्यविशेष ( अभिध्-क्-व्य् 716 ) इष्यते शंखपटहादिशब्दवत्. संस्कारविशेषापेक्षाद् आत्ममनःसंयोगाद् इति चेत्. स्यान् मतं नित्यम् अविशिष्टे ऽप्य् आत्मनि मनसि च संस्कारविशेषापेक्षाद् आत्ममनसोः संयोगाद् बुद्धिविशेष इति. तद् उक्तं भवति. संस्कारविशेषाद् भावनाविशेषलक्षणाद् आत्ममनःसंयोगविशेषः. तद्विशेषाद् बुद्धिविशेष इति. अत्र ब्रूमः. चित्ताद् एवास्त्व् इति विस्तरः. अयम् इहाचार्यस्याभिप्रायः. [सान्तर्भवश् चित्तम् अस्तीत्य् अविवादः] मम तव च चित्तम् अस्तीत्य् अविवादः. [तिब्. 381अ] संस्कारविशेषो ऽप्य् अस्ति भावनाविशेषलक्षणो यो ऽसौ वासना बीजम् इति वास्माभिर् व्यवस्थाप्यते. भावान्तरं न वेति तुविशेषः. तस्माच् चित्ताद् एव संस्कारविशेषापेक्षाद् बुद्धिविशेषो ऽस्तु. किम् आत्मना तत्संयोगेन वा कल्पितेनेति. न हि किंचिद् इति विस्तरः. कुहकेनैकतरेण वैद्येन कस्मैचित् ग्लानायौषधं ददानेन चिन्तितं. इदम् औषधं सुलभं. विदितं चास्य सपरिजनस्य ग्लानस्य. एतेन चौषधेनास्य ग्लानस्य ग्लानोपशमो भवेत्. तद् एवं माम् अवधूयान्ये ऽपि करिष्यन्ति. ततश् च ममार्थलाभो न भविष्यति. इति चिन्तयित्वा तद् अभिमंत्र्य फूः स्वाहा फूः स्वाहेति जनस्य दर्शितम्. अनेन मन्त्रेणेदम् औषधं सिध्यतीति. तत्र यथा कुहकवैद्यफूःस्वाहानाम् औषधकार्यसिद्धौ सामर्थ्यं नास्ति. औषधस्यैव तु सामर्थ्यम्. एवम् आत्मनो बुद्धिविशेषोपत्तौ नास्ति सामर्थ्यं. चित्तस्यैव सामर्थ्यम् इति. सत्य् आत्मनि तयोः संभव इति चेत्. स्यान् मतं. सत्य् आत्मनि तयोः संस्कारचित्तयोः संभवः. इत्य् अतो ऽस्त्य् आत्मेति. अत्र ब्रूमो वाङ्मात्रं.
नात्र काचिद् युक्तिर् अस्तीति. आश्रयः स इति चेत्. स्यान् मतम्. आत्माश्रयस् तयोर् इति. यथा कः कस्याश्रय इति. आश्रयरूपेणोदाहरणं मृग्यते. तम् अस्याश्रयार्थम् अयुक्तं दर्शयन्न् आह. न हि ते [तिब्. 381ब्] इति विस्तरः. ते संस्कारचित्ते. चित्रबदरादिवत्. यथा कुड्ये चित्रम् आधार्यं बदरं च कुण्डे. आदिशब्देन भाजने भोजनम् इत्यादि. नैव ते संस्कारचित्ते तत्रात्मन्य् आधेये. धार्ये. नापि स कुड्यकुण्डादिवद् आधारो युक्तः. नापि स आत्मा कुड्यवत् कुण्डवच् चाधारो युक्तः. आदिशब्देन भाजनादिग्रहणं. किं करणम् इत्य् आह. प्रतिघातियुतत्वदोषाद् इति प्रतिघातित्वदोषाद् युतत्वदोषाच् च. सप्रतिघत्वप्रसंगात् पृथग्दशत्वप्रसंगाच् चेत्य् अर्थः. यथा चित्रबदरयोः कुड्यकुण्डयोश् चाधार्याधारभावे प्रतिघातित्वम् युतत्वं च दृष्टे. एवम् एतेषाम् अपि स्यात्. अनिष्टं चैतत्. अतो ऽनात्माश्रयः.
यथा न गन्धाधिभ्यो ऽन्या पृथिवी. तथा बुद्ध्यादिभ्यो ऽन्य आत्मेति. ( अभिध्-क्-व्य् 717 ) को हि सत्पुरुषो गंधादिभ्यो ऽन्यां पृथिवीं निधारयति. न हि पृथिवी कतमेत्य् उक्ते रूपगन्धरसस्पर्शेभ्यो ऽन्या दर्शयितुं शक्यते यथा रूपं गन्धादिभ्यो ऽन्यद् इति.
यदि न गंधादिभ्यो ऽन्या पृथिवी. कथम् अयं व्यपदेशः पृथिव्यां गन्धादय इति. अन्येन ह्य् अन्यस्य व्यपदेशो दृष्टः. चैत्रस्य कम्बल इति. अत उच्यते. व्यपदेशस् तु इति विस्तरः.
[तिब्. 382अ] विशेषणार्थं इत्य् अबादिभ्यो विशेषणार्थम् इत्य् अर्थः. कथम् इति प्रतिपाद्यति. ते ह्य् एवेति विस्तरः. ते ह्य् एवेत्य् एवकारस् तद्व्य्तिरिक्तपृथिवीद्रव्यनिवृत्त्यर्थः. ते एव गन्धादयः. तदाख्याः पृथिव्याख्याः. यथा विज्ञायेरन्. तथा विशेषणार्थं व्यपदेश इत्य् अभिसंबन्धः. नान्य इति. नाबाद्याख्याः. पृथिव्याख्येभ्यो ऽन्ये विज्ञायेरन्न् इत्य् अर्थः. काष्ठप्रतिमायाः शरीरव्यपदेशवद् इति. यथा काष्ठप्रतिमायाः शरीरम् इति व्यपदिश्यते. अन्याभ्यो मृन्मयादिविशेषणार्थं. न च काष्ठप्रतिमायाः शरीरम् अन्यत्. एवम् इहापि व्यपदेशः स्यात्. न च गन्धादिभ्यो ऽन्या पृथिवीति.
संस्कारविशेषापेक्षत्व इत्य् आत्ममनःसंयोगस्य.
यो हि बलिष्ठ इति. संस्कारविशेषः. तेनान्येषां संस्कारविशेषाणां प्रतिबन्धः.
स एव बलिष्ठः कस्मान् नित्यं न फलतीत्य् आचार्यवचनं.
स एव पुनर् आह. यो ऽस्य न्यायो यः संस्कारस्य न्यायो विनाशः प्रतिबन्धो वा.
सो ऽस्तु भावनाया बीजात्मिकायाः. आत्मा तु निरर्थको निःप्रयोजनः कल्प्यते. संस्कारार्था हि तत्कल्पना स्यात्. तस्य च संस्कारस्य यत् कार्यं. तद् भावनयैव क्रियत इति.

मूल पाठ: Sphuṭārthā abhidharmakośavyākhyā · Edition: Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936. · Data entry Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc