स्फुटार्था अभिधर्मकोशव्याख्या · भाग 6180
नेहानंतर्यकारिण
इति. आनंतर्यकारिण एव नेह प्रतिसंधिर् भवतीति. अर्थत एतद् उक्तं भवत्य् अनानंतर्यकारिण इह प्रतिसंधिर् भवतीति. अंतराभवस्थ इति. नरकगमनायांतराभवस्थः. च्युत्यभिमुख इति. [तिब्. 75ब्] नरकाच् च्युत्यभिमुखः. हेतुबलेनेति. सभागहेतुबलेन. यस्माद् येषां मिथ्यादृष्टिः स्वयं रोचते. प्रत्ययबलेनेति. परतो घोषबलेन. यस्माद् येषां मिथ्यादृष्टी रोचते. हेतुबलस्य सारत्वात्. एवं यः स्वबलेनेति. यः स्वतर्कबलेन. स च्यवमानः. यः परबलेन. परतः श्रुतबलेन. स उपपद्यमानः. ( अभिध्-क्-व्य् 414 ) य आशयविपन्न इति. मिथ्यादृष्टिसंमुखीभावेन विपन्नो विनष्टः. स दृष्टे धर्मे जन्मनि प्रतिसंदधाति. य आशयप्रयोगविपन्नः. यो मिथ्यादृष्टिसंमुखीभावेनानंतर्यकृइयया च विपन्नः. स भेदात् कायस्य प्रतिसंदधाति. अत्र च यः स्वबलेन परबलेनेति पूर्वोक्तस्यैवायं पर्यायः. एवं यो दृष्टिविपन्नो यो दृष्टिशीलविपन्न इति. अनंतरपूर्वोक्तस्यैवायं पर्याय इत्य् अवगंतव्यं.
पूरणादय इति. आदिशब्देन षट् शास्तारो गृह्यंते. तद्यथा पूरणकाश्यपः. मस्करी गोशालीपुत्रः. संजयी वैरटीपुत्रः. अजितः केशकंबलः. ककुदः कात्यायनः. निर्ग्रन्थो ज्ञातिपुत्र इति. ते समुच्छिन्नकुशलमूलाः. नास्तिकत्वात्. न मिथ्यात्वनियताः. अनानंतर्यकारित्वात्. [तिब्. 76अ] आनंतर्यकारिणो हि मिथ्यात्वनियताः अजातशत्रुर् मिथ्यात्वनियतः. आनंतर्यकारित्वात्. न समुच्छिन्नकुशलमूलः. सम्यग्दृष्टिकत्वात्. देवदत्तः समुच्छिन्नकुशलमूलश् च मिथ्यात्वनियतश् च. संघभेदकत्वात् तथागतदुष्टचित्तरुधिरोत्पादकत्वाच् च. चतुर्थ्य् एतान् आकारान् स्थापयित्वेत्य् अस्मदादयः.
(इव्.82) विनान्येनाभिध्यादीसंमुखीभाव इति. विनान्येन कर्मपथेन प्राणातिपातादिनाभिध्यादीनाम् अन्यतमसंमुखीभावे. सा चेतना एकेन कर्मपथेन सह वर्तते. अभिध्यया वा व्यापादेन वा मिथ्यादृष्ट्या वा. अक्लिष्टचेतसो वेति. कुशलाव्याकृतचित्तस्य. तस्य प्रयोक्तुः प्रयोगेण. रूपिणां प्राणातिपातादीनां काममिथ्याचारवर्ज्यानं अन्यतमस्य निष्ठापने. तेनैकेन सह चेतना वर्तते. अभिध्यादिव्यतिरिक्तक्लिष्टचित्तस्य वेति वक्तव्यं. तस्यापि ह्य् अयं अयं विधिः संभवति. व्यापन्नचित्तस्य प्राणिवध इति विस्तरः. व्यापादेन प्राणातिपातेन चेति द्वाभ्यां सह वर्तते. काममिथ्याचारे. संभिन्नप्रलापे च. द्वाभ्यां सह वर्तते. अभिध्यया काममिथ्याचारेण चेति द्वाभ्यां. संभिन्नप्रलापेनाभिध्यादीनां चान्यतमेन चेति. [तिब्. 76ब्] द्वाभ्याम् एव. इदं चोद्यते. व्यापन्नचित्तस्य प्राणिवध इत्य् अभिध्याविष्टस्य चादत्तादान इति. किम् इदं स्वयं कुर्वत उच्यते. उताहो परेण काऋअयतः. यदि स्वयं कुर्वतः. व्यापन्नचित्तस्याभिध्याविष्टस्य चेति विशेषणं न युज्यते. प्राणिवधे व्यापादस्यावश्यकत्वात्. अदत्तादाने चाभिध्यायाः. व्यभिचारे हि विशेषणम् इष्यते. अथ परेण कारयतः. अभिध्याव्यापादमिथ्यादृष्ट्यन्यतमचित्तस्य. प्राणिवधे. अदत्तादानकाममिथ्याचारसंभिन्नप्रलापेषु वेति वक्तव्यं. उच्यते स्वयं कुर्वत इति. ननु चोक्तं विशेषणं न युज्यत इति. नैष दोषः. न हीदं विशेषणम् उच्यते. किं तर्हि. स्वरूपाख्यानम् एतत्. व्यापादाभिध्ययोर् द्वितीयभूतयोस् तत्रास्तित्वं कथ्यत इति. एवम् अप्य् अभिध्याद्यन्यतरचित्तस्य तान् प्राणातिपातादीन् कारयतो ( अभिध्-क्-व्य् 415 ) द्वाभ्यां सह चेतना वर्तत इति संभवेत्. तस्मात् तद् अपि वक्तव्यं. सत्यं वक्तव्यम् एतत्. उदाहरणमात्रं त्व् एतद् उक्तम् इत्य् अदोषः. व्यापन्नचित्तस्य प्राणिमारणापहरणे युगपद् इति. यत्र मारणेनैवापहरणं सिध्यति. तत्र हि व्यापादप्राणिवधादत्तादानकर्मपथा युगपत् भवंतीति. न तर्हीति विस्तरः. यदि [तिब्. 77अ] परकीयद्रव्यापहरणकाले व्यापादो ब्व्हवति. न तर्हीदानीम् अदत्तादानस्य लोभेनैव निष्ठा सिध्यतीति. लोभद्वेषयोर् युगपदभावात्. अनन्यचित्तस्येति विस्तरः. अपहरणचित्तस्यैव तत्परिसमाप्ताव् अदत्तादानपरिसमाप्तौ स नियमो ज्ञेयः.
लोभतः
परस्त्रीगमनाभिध्यादत्तादानसमापनम्
इति. अन्यचित्तस्य तु मारणचित्तस्य नायं नियमः. भेदाभिप्रायस्यानृतवचन इति. भेदाभिप्रायत्वात् तद् एवानृतं पैशुन्यं भवति. तद् एव संभिन्नप्रलापः.
सर्वं क्लिष्टं भिन्नप्रलापितेति
सिद्धांतात्. एवं भेदाभिप्रायत्वात् तद् एव परुषवचनं पैशुन्यं. तथैव च संभिन्नप्रलाप इति. चतुर्भिः सह वर्तते. कथम् इत्य् आह. तत्र् हि मानस एको भवति. वाचिकास् त्रय इति. अनृतवचने ऽभिध्या व्यापादो वा भवेत्. वाचिकास् त्रयः. मृषावादपैशुन्यसंभिन्नप्रलापाः. परुषवचने ऽपि मानस एको व्यापादः. वाचिकास् त्रयः. पारुष्यपैशुन्यसंभिन्नप्रलापाः. नामत एवं त्रयो भवति. न तु स्वभावतः. तद् एव ह्य् अनृतवचनं पैशुन्यं संभिन्नप्रलाप इति चोच्यते. न तु त्रयः स्वभावा भवंति. एवं परुषवचनम् अपि त्रिनामकं भवतीति योज्यं. अपरे पुनर् व्याचक्षते. स्वभावभेदो ऽप्य् अस्तीति. मृषावादपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो हि भिद्यंते. तथा पारुष्यपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो भिद्यंत इति. [तिब्. 77ब्] अभिध्यादिगतस्येति विस्तरः. अभिध्यादिगतस्य वा चतुर्भिः सह वर्तते. तत्र मानस एको ऽभिध्यादीनाम् अन्यतमः. तत्प्रयोगेणाभिध्यादिगतप्रयोगेणान्यकर्मपथत्रयस्य प्राणिवधादिकस्य निष्ठागमने समाप्तिकाले. एवं पंचषट्सप्तभिर् योजयितव्या. का. चेतना. कथं. पंचभिस् तावत् वर्तते. अभिध्यादिगतस्य तत्प्रयोगेणान्यचतुष्टयनिष्ठागमने. एवम् अभिध्यादिगतस्यान्यपंचषट्निष्ठागमने षड्भिः सप्तभिश् च सह वर्तते. अष्टाभिः सह वर्तते. षट्सु प्राणातिपातादिषु प्रयोगं कृत्वाभिध्यागतस्य स्वयं काममिथ्याचारं कुर्वतः समं निष्ठागमने. नवभिः सह वर्तत इति नास्त्य् एतत्. मानसानां कर्मपथानां ( अभिध्-क्-व्य् 416 ) युगपदसंभवात्.
नैकाष्टपंचभिर्
इति. नैकेनैव मानसेन. कुशले चेतस्य अनभिध्याव्यापादयोर् अवश्यं भावात्. नापि रूपीनैकेन संवरसंगृहीतेन कर्मपथेन सह चेतना वर्तते. क्लिष्टाव्याकृतचित्तावस्थायाम् अपि उपासकसंवरादिषु प्राणातिपातादत्तादानकाममिथ्याचारमृषावादानाम् अवश्यं सहभावात्. न पंचभिर् एव. कुशले चेतस्य् अन्भिध्याव्यापादयोर् द्वयोर् अवश्यं सहभावात्. संवरसंगृहीतानां च प्राणातिपातादीनाम् [तिब्. 78अ] एषां चतुर्णां अवश्यं सहभावात्. नाष्टाभिर् एव. भिक्षुसंवरसंगृहीतानां कायिकवाचिकानां क्लिष्टाव्याकृतावस्थायां सप्तानाम् एव संभवात्. कुशलचित्तावस्थायां च नवानां दशानां वा संभवात्. पारिशेष्यात् द्व्यादिभिः सह वर्तत इत्य् उक्तं भवति. तत्र द्वाभ्याम् इति विस्तरः. तत्र द्वाभ्यां सह वर्तते. कुशलेषु पंचसु विज्ञानेष्व् अनभिध्या चाव्यापादश् च स्तः न सम्यग्दृष्टिः.
पंचविज्ञानसहजा धीर् न दृष्टिर् अतीऋअणाद्
इति सिद्धांतात्. अतो ऽनभिध्याव्याप्दाभ्यां द्वाभ्याम् एवात्र सह वर्तते. आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोर् इति. आरूप्यसमापत्तिसंगृहीतयोश् च क्षयानुत्पादज्ञानयोर् आभ्याम् एव द्वाभ्यां सह वर्तते.
क्षयानुत्पादधीर् न दृग्
इति तत्र सम्यग्दृष्ट्यभावात्. आरूप्यसमापत्तिग्रहणं ध्यानसमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिकवाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्त्यर्थं. क्षयानुत्पादज्ञानग्रहणं सम्यग्दृष्टिनिरासार्थं. क्षयानुत्पादज्ञानयोर् असम्यग्दृष्टिस्वभावत्वात्. त्रिभिः सह वर्तते. सम्यग्दृष्टिसंप्रयुक्ते [तिब्. 78ब्] मनोविज्ञाने. रूपिकर्मपथाभाव इति वाक्यशेषः. तत्र ह्य् अनभिध्याव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवंतीति. चतुर्भिर् इति विस्तरः. अकुशलाव्याकृतचित्तस्येति विशेषणान् मानसा न संतीति दशितं भवति. उपासकश्रामणेरसंवरसमादाने च. प्राणातिपातादत्तादानकाममिथ्याचारमृषावादविरतिलक्षणाश् चत्वार एव कर्मपथाः संति. मद्यपानादिविरतीनां दशकर्मपथानंतर्भावात्. पैशुन्यविरत्यादीनां चोपासकश्रामणेरसंवरसंग्रहात्. श्रामणेरसंवरसमादानवचनाच् चोपवाससंवरसमादानम् उक्तरूपम् अवगंतव्यं. श्रामणेरसंवरसमादाने त्व् अब्रह्मचर्याद् विरतिस् तृतीयः कर्मपथः. तत्र च काममिथ्याचारो ऽंतर्भूत एव. षड्भिः कुशलेषु पंचसु विज्ञानेषु तत्समादाने. उपासकश्रामणेरसंवरसमादाने तैश् चतुर्भिर् यथोक्तैर् ( अभिध्-क्-व्य् 417 ) अनभिध्याव्यापादाभ्यां चेति षड्भिः. पंचसु विज्ञानेषु सम्यग्दृष्ट्यभावात्. सप्तभिः कुशले मनोविज्ञाने तद्समादान एव. उपासकश्रामणेरसंवरसमादान एव तैर् एव यथोक्तैः सम्यग्दृष्ट्या च सप्तमेन कर्मपथेन. मनोविज्ञाने हि कुशले सम्यग्दृष्टिर् [तिब्. 79अ] अस्तीति. अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने सप्तभिर् एव रूपिभिः. न मानसैः. अकुशलाव्याकृतचित्तत्वात्. नवभिः कुशलेषु पंचसु विज्ञानेषु तत्समादाने. भिक्षुसंवरसमादाने. सम्यग्दृष्टेर् एवाभावात्. क्षयानुत्पादज्नानसंप्रयुक्ते च मनोविज्ञाने तैर् एव नवभिः सह वर्तते. तत्रापि सम्यग्दृष्ट्यभावात्. तस्मिन्न् एव चेति. क्षयानुत्पादज्ञानसंप्रयुक्त एव ध्यानसंगृहीते मनोविज्ञाने. नवभिर् एव. ध्यानसंवरसंगृहीतै रूपिभिः सप्तभिर् अनभिध्याव्यापादाभ्यां च. दशभिस् ततो ऽन्यत्रेति. क्षयानुत्पादज्ञानवर्जिते कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव. सर्वा चेति विस्तरः. सर्वा च ध्यानानास्रवसंवरसहवर्तिनी क्षयानुत्पादज्ञानसंप्रयुक्ता चेतना सप्तभिः कायिकवाचिकैर् ध्यानानास्रवसंवरसंगृहीतैः. त्रिभिश् च मानसैर् इति. दशभिः सह वर्तते. संवरसंगृहीतैः कर्मपथैः सहैव चेतना [तिब्. 79ब्] वर्तत इति दर्शितं.
संवरनिर्मुक्तेन त्व् अष्टविधसंवरनिर्मुक्तेन त्व् एकेनापि सह स्यात्. कथम् इत्य् आह. अन्यचित्तस्येति. तत्संवरनिर्मुक्तनिर्मुक्तकुशलकर्मपथसमुत्थापकाच् चित्ताद् अन्यचित्तस्य. क्लिष्टाव्याकृतचित्तस्येत्य् अर्थः. एकांगविरतिसमादाने. प्राणातिपातांगविरतेः. अदत्तादानविरतेर् वा समादाने. तेनैकेन कर्मपथेन सह वर्तते. पंचाष्टभिर् अपीति. कुशलमनोविज्ञानस्य पुद्गलस्य द्व्यंगसमादाने युगपन् मानसैस् त्रिभिः. रूपिभ्यां द्वाभ्याम् इति पंचभिः. पंचांगसमादाने युगपत् तैश् च रूपिभिः पंचभिः. मानसैश् च त्रिभिर् इत्य् अष्टाभिः. उदाहरणरूपं चैतद् उक्तम्. अतो ऽन्यथापि शक्यते वक्तुम्. क्लिष्टाव्याकृतचित्तस्य संवरासंगृहीतपंचांगसमादाने पंचभिः सह वर्तत इति.
(इव्.83, 85) रंजनीयवस्त्वभावाद् इति. नरके रंजनीयवस्त्वभावात् न संमुखीभावतो ऽभिध्यास्ति. कर्मफलप्रत्यक्षत्वाच् च न मिथ्यादृष्टिः. अत एवेति. प्रयोजनाभावान् न पैशुन्यं. नित्यभिन्नत्वाच् चान्योन्यसौहार्द्याद्यभावतः. अममपरिग्रहत्वान् न कुरौ [तिब्. 80अ] संमुखीभावतो ऽस्त्य् अभिध्याकर्मपथः. स्निग्धसंतानत्वाद् आघातवस्त्वभावाच् च न व्यापादः. अपापाशयत्वाच् च न मिथ्यादृष्टिः. त्रयो ऽप्य् एते ऽभिध्यादयो न संति.
स्वयम् अपीति.
अस्य संमुखीभावत इति व्याख्यानं. अपापाशयत्वान् न प्राणातिपातादयः षड् अपि संमुखीभावतः संति. नियतायुष्कत्वान् न प्राणातिपातः द्रव्यस्तृइपरिग्रहाभावाद् यथाक्रमं नादत्तादानं काममिथ्याचारश् च. प्रयोजनभावाच् च न मृषावादपैशुन्यपारुष्याणि.
यदि परिग्रहो नास्ति कथम् एषाम् अब्रह्मचर्यम् इति पृच्छति.
संवरनिर्मुक्ता इति. नैवसंवरनासंवरसंगृहीता इत्य् अर्थः. अन्यगतिस्थं तु मारयतीति. प्रेतादिगतिस्थं.
देवा अपि शिरोमध्यच्छेदान् म्रियंत इति. शिरश्छेदान् मध्यच्छेदाच् च देवा अपि म्रियंते. देवो देवं न मारयतीत्य् उक्ते अवध्या देवा इत्य् अभिप्रेतं. देवानां ह्य् अंगप्रत्यंगानि छिन्नानि छिन्नानि पुनर् जायंते. यद्य् अप्य् एवं तथापि शिरोमध्यच्छेदाच् छिरश्छेदान् मध्यच्छेदाच् च न पुनः प्रतिसंधानम् इत्य् अस्ति देवानाम् वध इत्य् अभिप्रायः.
यद्भूम्याश्रयम् इति विस्तरः. पंच भूमयः. यावाच् चतुर्थध्यानभूमिं. यद्भूमिर् आश्रयो ऽस्येति यद्भूम्याश्रयम्. अनास्रवं शीलम् आर्येणोत्पादितं [तिब्. 80ब्] निरोधितम्. उत्पादितं वर्तमानम् अध्वानं गमितं. निरोधितम् अतीतम् अध्वानं गमितम्. एकभूम्याश्रयं यावच् चतुर्भूम्याश्रयं वा. तेनारूप्येष्व् अतीतेन समन्वागतो भवति. पंचभूम्याश्रयेण त्व् अनागतेन. कामावचराश्रयेण यावच् चतुर्थध्यानाश्रयेण च. यत्रोपपन्नो यत्र वा नोपपन्नः. तदाश्रयेण. अन्यत्र नरकोत्तरकुरुभ्य इति. तत्र समादानशीलाभावात्. अन्यत्रोभयथेति. अन्यत्र कामधातौ देवेषूत्तरकुरुवर्ज्येषु च मनुष्येषूभयथा. संवरनिर्मुक्ताः संवरसंगृहीतश् च. त्रिविधः संवरः प्रातिमोक्षसंवरो ध्यानसंवरो ऽनास्रवसंवरश् च यथासंभवं ग्रहीतव्यः.
(इव्.86) आसेवितभावितबहुलीकृतैर् इति. प्रयोगमौलपृष्ठावस्थासु. किं तर्हि. तेनाल्पायुर् भवतीति. आयुषो ऽल्पत्वान् निष्यन्दफलम् इति दर्शयति. बाह्या भावाः. ओषधिभूम्यादयः. अल्पौजसो ऽल्पवीर्यः. अशनिरजोबहुला इति. अशनिः शिलावर्षं. रजो धूलिवृष्टिः क्षारवृष्टिर् वा. यतः सस्यादिविनाशः. रजोऽवकीर्णा इति धूलिर् उत्थिता. उत्कूलनिकालाः उन्नतनिम्नाः. ऊषरजंगलाः. ऊषराश् च जंगलाश् च ते. बाह्या भावा इत्य् अधिकृताः. ता भूमय इहाभिप्रेताः. प्रतिक्रुष्टा विगर्हिताः. विषमर्तुपरिणामा इति विषम ऋतुपरिणाम एषाम् इति विषमर्तुपरिणामाः [तिब् 81अ] सस्यादय ओषधयः. यस्मिन् ऋतौ वर्षितव्यं. तत्र न वर्षति. यस्मिं शीतेन भवितव्यं. तस्मिन् न शीतं. यस्मिन्न् उष्णेन भवितव्यं. तत्र तन् न भवतीति योज्यं.
तद् विपाकफलम् इति सत्त्वसंताने. इदं निष्यन्दफलम् इति बाह्यं ( अभिध्-क्-व्य् 419 ) तद् वस्त्व् इति. न तद् विपाकफलं.
तत्र प्रयोगेणेति विस्तरः. नरके प्राणातिपातप्रयोगेण तीव्रं दुःखम् अनुभवति. प्राणातिपातप्रयोगेण हि वध्यस्य प्राणिनो ऽतीवतीव्रं दुःखं भवति. इह मौलेनाल्पायुर् भवति. यथा तस्य वध्यस्य प्राणिन आयुर् उपद्रूयत इति. तादृशम् एवैतत्. क्षणिको हि मौलः कर्मपथः. तत्र च न दुःखा वेदनास्तीति युक्तम् इह मौलेनेति वक्तुं. आह. यदि तत्र प्रयोगेणेह मौलेन. कस्माद् एवम् उक्तं. प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते. प्राणातिपातेन मौलेनेति सूत्रार्थं पश्यन्न् एवं पृच्छति. सपरिवारग्रहणाद् इति. मौल एव प्राणातिपातः. तस्य प्रयोगः परिवारः. तस्मिं प्रयोगे प्राणातिपातोपचारं कृत्वैवम् उक्तं प्राणातिपातेनेति विस्तरः.
नैतद् द्वयम् अतिवर्तते. विपाकफलम् अधिपतिफलं चेति. स्वसंताने विपाकफलम् अन्यत्राधिपतिफलम् इति कृत्वा. सादृश्यविशेषत् तु तथोक्तम् इति. इष्टजीवितोपच्छेदभोगव्यसनादिलक्षणात् [तिब्. 81ब्] सादृश्यविशेषात् तु तथोक्तं. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर् भवत्य् अदत्तादानेन भोगव्यसनी भवतीति विस्तरेण. भवति ह्य् अत्र हेतुविपाकफलयोः सादृशम् इति. एवं कुशलेष्व् अपि वक्तव्यं. निष्यन्दफलं फलद्वयं नातिवर्तते. सादृश्यविशेषात् तु तथोक्तं. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां प्राणातिपातविरत्या दीर्घायुर् भवतीति विस्तरेण.
ओजो नाशितम्
इति. ओजो हृदयप्रदेशे भवति. एवम् अन्येषाम् अपि योज्यम् इति. अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखम् उत्पादितं. भोगव्यसनं कृतं. ओजो नाशितम्. अतो ऽस्य दुःखनाद् भोगत्याजनाद् ओजोनाशनाच् च त्रिविधं फलं. कथम् ओजो नाशितं. तद्धेतुनाशनात्. भोगव्यसनेन च तस्योपघातात्. अत एवोक्तं. अदत्तादानेनाशनिरजोबहुला इति. तेन तदोजसः सोपघातता भवतीति. एवं परदारम् अभिगच्छता परस्य दुःखम् उत्पादितं. स सपत्नदारता कृता. ओजो नाशितं. येनौजसा तेजस्वीति लोके निरुच्यते. अत एवोक्तं. काममिथ्याचारेण रजोऽवकीर्णा इति. एवम् अन्येषाम् अपि योज्यम्. एषा दिक्.
अकुशलविपर्ययेण सर्वं योजयितव्यम् इति. कथं. अदत्तादानविरत्यासेवितया [तिब्. 82अ] भावितया बहुलीकृतया देवेषूपपद्यते. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां स न भोगव्यसनी भवतीति. एवं काममिथ्याचारविरत्यासेवितया भावितयेति विस्तरेणोक्त्वा. यावन् मनुष्याणां ( अभिध्-क्-व्य् 420 ) सभागतां नाभ्याख्यानबहुलो भवतीति. अनया दिशा सर्वं योजयितव्यं. प्राणातिपाताद् विरमता परस्य दुःखं नोत्पादितं. न मारितः. नौजो नाशितम्. इत्य् अतस् त्रिविधं फलं. एवम् अदत्तादानात् प्रतिविरमता नार्थस्वामिनो दुःखम् उत्पादितं. न भोगव्यसनं कृतं. नौजो नाशितम्. अतो ऽस्य त्रिविधं फलं. काममिथ्याचाराद् विरमता परस्य दुःखं नोत्पादितं. न स सपत्नदारः कृतः. नाप्य् ओजो नाशितम्. अतो ऽस्य त्रिविधं फलं. एवम् अन्यत्रापि योजयितव्यं.
(इव्.87) विविधदृष्टिने ति.
कौतुकमंगलतिथिमुहूर्तनक्षत्रादिदृष्टिना.
परेष्व् आयत्तवृत्तिनेति.
कायस्थितिहेतवश् चीवरपिण्डपाताशयनासनादयो भिक्षोः परप्रतिभद्धाः. पिण्डपातं निश्रित्येति वचनात्. तस्य परधीनवृत्तेर्
भिक्षोर्
मिथ्याजीवा भवेयुः कुहना. लपना. नैमित्तिकता. नैष्पेषिता. लाभेन लाभनिश्चिकीर्षा च. ते
दुःशोधा
भवंति आजीवयोगा इति.
शीलस्कंधिकायाम् इति. शीलस्कंधिका नाम निपातः. तत्रोक्तं. यथा त्रिदण्डिन्न् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारंभानुयोगम् अनुयुक्ता विहरंति. तद्यथा. हस्तियुद्धे. ऽश्वयुद्धे. रथयुद्धे. पत्तियुद्धे. यष्टियुद्धे. मुष्टियुद्धे. सारसयुद्धे. वृषभयुद्धे. महिषयुद्धे. अजयुद्धे. मेषयुद्धे. कुक्कुटयुद्धे. वर्तकयुद्धे. लाबकयुद्धे. स्त्रीयुद्धे. पुरुषयुद्धे. कुमारयुद्धे. कुमारिकायुद्धे. इट्गालवशे. उत्सतिकायां. ध्वजाग्रे. बलाग्रे. [तिब्. 82ब्] सेनाव्यूहे. अनीकसंकर्शणे. महासमाजं वा प्रत्यनुभवन्त्य् एके. इत्य् अप्य् एवंरूपाच् छ्रमणो विविधदर्शनसमारंभानुयोगात् प्रतिविरतो भवति. यथापि तत्र त्रिदण्डिन्न् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधशब्दश्रवणसमारंभानुयोगयुक्ता विहरंति. तद्यथा. हस्तिशब्दे. अश्वशब्दे. रथशब्दे. पत्तिशब्दे. शंखशब्दे. भेरीशब्दे. आडंबरशब्दे. नृत्तशब्दे. गीतशब्दे. शय्याशब्दे. अच्छटाशब्दे. पाणिस्वरे ( अभिध्-क्-व्य् 421 ). कुंभतूणीरे कचिते. चित्राक्षरे. चित्रपदव्यंजने. लोकायतप्रतिसंयुक्ते. आख्यायिका वा श्रोतुम् इच्छन्त्य् एके. इत्य् अप्य् एवंरूपाच् छ्रमणो विविधशब्दश्रवणसमारंभानुयोगात् प्रतिविरतो भवतीत्य् एवमादि. मिथ्याविषयपरिभोगाद् असम्यग्विषयपरिभोगात्.
(इव्.88, 89) यानि पूर्वं पंच फलान्य् उक्तानीति. अधिपतिफलं. पुरुषकारफलं. निष्यन्दफलं. विपाकफलं. विसंयोगफलं च. प्रहाणार्थं मार्ग इति. भावसाधनं. प्रहाणाय मार्गः
प्रहाणमार्ग
इति. प्रहीयते ऽनेनेति करणसाधनं. प्रहाणो मार्ग इति च विग्रहः. समाधिजा उत्तरे सदृशा धर्मा इति. समाधिजग्रहणम् असमाधिजनिरासार्थम्. सदृशग्रहणम् [तिब्. 83अ] अनास्रवाव्याकृतनिरासार्थं. सहभुव इति. संप्रयुक्ताश् च तत्र वेदनादयः. विप्रयुक्ताश् च जात्यादयः. यच् चानागतं भाव्यत इति. अनागतो धर्मस् तद्बलेन प्राप्यत इति. तस्य तत् पुरुषकारफलम् अत एव तच् च प्रहाणं पुरुषकारफलं व्यवस्थाप्यते. न केवलं विसंयोगफलम् इति. पूर्वोत्पन्नवर्ज्या इति पूर्वोत्पन्नं फलं न युज्यत इति कृत्वा. तथा ह्य् उक्तं.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्
इति. विपाकफलं हित्वेति. अनास्रवस्याविपाकत्वात्. तस्य हि निष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः. विसंयोगफलं विसंयोग एव यत् तत् प्रहाणं. पुरुषकारफलं तदाकृष्टा धर्माः. तद्यथा विमुक्तिमार्गः. सहभुवः. यच् चानागतं भाव्यते. तच् च प्रहाणं. अधिपतिफलं स्वभावाद् अन्ये सर्वे संस्क्र्ताः पूर्वोत्पन्नवर्ज्याः.
यच् छुभाशुभम्
इति. प्रहाणमार्गाद् यद् अन्यसास्रवं कर्म समाहितम् असमाहितं च. तद् अपि चतुर्भिः फलैः सफलं विसंयोगफलं हित्वा. अप्रहाणमार्गत्वाद् अस्य विसंयोगफलं नास्ति. तस्य हि विपाकफलं स्वभूमाव् इष्टो ऽनिष्टो वा विपाकः. [तिब्. 83ब्] निष्यन्दफलं उत्तरे सदृशा धर्माः. पुरुषकारफलं तदाकृष्टा धर्माः सहभुवो ऽनंतरभुवो वा. अधिपतिफलं शेषं पूर्ववत्.
अनास्रवं पुनः शेषम्
इति. शेषग्रहणं प्रहाणमार्गनिरासार्थं. तत् पुनः कथं. शेषं प्रयोगविमुक्तिविशेषमार्गेषु. तस्याप्रहाणमार्गत्वाद् विसंयोगफलं नास्ति. ( अभिध्-क्-व्य् 422 ) अनास्रवत्वाच् च न विपाकफलं. शेषं पूर्ववत्. अव्याकृतं च यन् निवृताव्याकृतम् अनिवृताव्याकृतं च. तद् अपि त्रिभिः सफलं. सप्रहाणमार्गत्वान् न तस्य विसंयोगफलम्. अव्याकृतत्वाच् च न विपाकफलं. शेषं पूर्ववद् एवास्ति.
(इव्.90) चत्वारि द्वे तथा त्रीणि कुशलस्ये ति.
यथाक्रमम् एतत्. कथं. कुशलस्य कुशला धर्माश् चत्वारि फलानि. तस्यैवाकुशला द्वे फले. तस्यैवाव्याकृतास् त्रीणि फलानीति. विपाकफलं हित्वेति. विपाकस्याव्याकृत्वात्. अकुशला द्वे इति. पुरूषकाराधिपतिफले. न निष्यन्दफलं. यस्मात् कुशला धर्मा अकुशलानां न सभागहेतुर् इति. न विपाकफलं. अव्याकृतत्वाद् विपाकस्य. यस्माच् चाकुशला विपाकं प्रति व्याक्रियंते. न विसंयोगफलं. अकुशलत्वात्. [तिब्. 84अ] पारिशेष्यात् पुरुषकाराधिपतिफले एव. ते च पूर्ववद् व्याख्यातव्ये. अव्याकृताश् चत्वारीति. कथम् अकुशलस्याव्याकृता धर्मा निष्यन्दफलं. कथं च न भवितव्यं. विसदृशत्वात्. विसदृशा ह्य् अकुशालयाकृता धर्माः. सविपाकाविपाकत्वात्. नैष दोषः. अकूशलनिवृताव्याकृतानां हि धर्माणां क्लिष्टसामान्येनास्ति सादृश्यं. तस्माद् अकुशलानां निवृताव्याकृताः निवृताव्याकृतानां चाकुशलाः निष्यन्दफलं युज्यंते. तेनाह. अव्याकृते हीति विस्तरः. अकुशलानां सर्वत्रगाणां दुःखसमुदयदर्शनप्रहातव्यानां. दुःखदर्शनहेयानां च रागादीनां. सत्कायान्तग्राहदृष्टी निष्यन्दफलं. सभागसर्वत्रगयोर् निष्यन्दफलम् इति. अकुशला हीति विस्तरः. अकुशला दुःखादिदर्शनहेयाः पंचनैकायिकाः. अव्याकृतयोः सत्कायांतग्राहदृष्ट्योः निष्यन्दफलं. एतान्य् एव त्रीणि विपाकविसंयोगफले हित्वा.
(इव्.91) अतीतस्य कर्मणस् त्रियध्विका अतीतानागतप्रत्युत्पन्ना धर्माः. प्रत्येकं चत्वारि फलानि. विसंयोगफलं हित्वा. तस्यानध्वपतितवात्. कथं कृत्वा. अतीतस्य कर्मणः पश्चाद् अतीतस् तद्विपाको विपाकफलं. [तिब्. 84ब्] तदाकृष्टाः. सहजातीताः पश्चादनंतरातीता वा पुरुषकारफलं. स्वभाववर्ज्याः तेन सहोत्पन्नाः पश्चादुत्पन्नाश् चातीताः अधिपतिफलं. पश्चादुत्पन्नातीताः सदृशा धर्मा निष्यन्दफलं. अतीतस्यानागतस् तद्विपाको विपाकफलं. यद्बलेन प्राप्यते ऽनागतो धर्मः. तत् पुरुषकारफलं. अधिपतिफलं यद् अनागतं. तस्य फलं. निष्यन्दफलं तत्सदृशम् अनागतं. एवं प्रत्युत्पन्ना अपि तस्यातीतस्य चत्वारि फलानि योज्यानि.
नध्यमस्याप्य् अनागता
इति. प्रत्युत्पन्नस्याप्य् अनागता धर्माश् चत्वारि फलानि. एतान्य् एव विसंयोगफलं हित्वेत्य् अर्थः. तान्य् अप्य् एवम् एव योज्यानि. प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नस्य द्वे पुरुषकाराधिपतिफले इति. तस्य हि सहोत्पन्नं तद्बलाज् ( अभिध्-क्-व्य् 423 ) जातम् इति पुरुषकारफलम् अधिपतिफलं च भवत्य् एव. अविसंयोगस्वभावान् न विसंयोगफलं. पूर्वोत्तरताभावान् न निष्यन्दफलं. प्रवाहापेक्षत्वाद् विपाकस्य न वर्तमानं वर्तमानस्य विपाकफलं. निष्यन्दविसंयोगफले हित्वेति. अनागतो ऽनागतस्य न निष्यन्दफलं. यस्मात् सभागसर्वत्रगहेतू नानागतौ भवतः. तस्य विप्रकीर्णत्वात्. सादृश्येन चास्येदं फलम् इति परिच्छेत्तुम् अशक्यत्वात्. न विसंयोगफलं. यस्माद् अनागतो विसंयोगो न भवति. विपाकफलं तु भवेद् अनागतस्य ह्य् अकुशलस्य कुशलसास्रवस्य वानागतं पश्चादुत्पत्स्यमानं च विपाकफलं. पुरुषकारफलं [तिब्. 85अ]. सहजम् अनागतम् अनंतरभावि चानागतं. अधिपतिफलं तु सुगमम् इति न पुनर् उच्यते.
(इव्.92अब्) स्वभूमिका धर्मा
न विसंयोगफलं. विसंयोगस्याभूमिस्वभावत्वात्. अनास्रवाश् चेत् त्रीणि फलानीति. निष्यन्दफलस्य तृतीयस्य संभवात्.
अन्योन्यं नवभूमिस् तु मार्ग
इति हि सिद्धांतः.
(इव्.92च्द्, 93अब्) शैक्षस्य कर्मणः शैक्षा धर्मास् त्रीणीति. यस्माद् विपाकफलं न शैक्षं. विसंयोगश् चापि न शैक्षः. नैवशैक्षनाशैक्षा अपि त्रीणि. न विपाकफलम् अस्यास्ति. शैक्षस्याविपाकत्वात्. न निष्यन्दफलं. नैवशैक्षनाशैक्षस्य शैक्षेणासदृशत्वात्. विसंयोगफलं तु भवति. विसंयोगस्य नैवशैक्षनाशैक्षस्वभावत्वात्. पुरुषकारफलम् अपि भवति. शैक्षेण नैवशैक्षनाशैक्षाकृष्टिसंभवात्. अधिपतिफलं चास्त्य् एव. इति त्रीणि संभवंति. अशैक्षस्य त्व् इति विस्तरः. अशैक्षस्य शैक्षा धर्मा एकम् अधिपतिफलं. न निष्यन्दफलं. न्यूनत्वात्.
समविशिष्टयोर्
इति वचनात्. न पुरुषकारफलं. सहानंतरोत्पादाभावात्. न ह्य् अशैक्षानंतरं शैक्षम् उत्पद्यते. च नैवशैक्षनाशैक्षस्वभावम् इति. [तिब्. 85ब्] न चाशैक्षस्य विपाको भवतीत्य् अतो न विपाकफलं. अशैक्षास् त्रीणीति. पुरुषकाराधिपतिनिष्यन्दफलानि. न विपाकविसंयोगफले. तयोर् नैव शैक्षनाशैक्षस्वभावत्वात्. यच् चाशैक्षस्वभावं. तद् इह चिंत्यते. नैवशैक्षनाशैक्षा द्वे पुरुषकाराधिपतिफले इति. पुरुषकारफलं. तद्यथा. तदाकृष्टा अणंतरभाविनो धर्माः. अधिपतिफलं. पूर्ववत्. यथोक्तकारणत्वान् न फलत्रयं. अशैक्षा अप्य् एवम् इत्य्. द्वे पुरुषकाराधिपतिफले ( अभिध्-क्-व्य् 424 ) इत्य् अर्थः.
(इव्.93च्द्, 94) तदादय
इति. दर्शनहेयादयः.
त
इति. दर्शनहेयादयः. भावनाहेया द्वे इति. अनास्रवमार्गव्युत्थाने भावनाहेयाः कुशलाः पुरुषकारफलं. आद्यंतवद् इति विस्तरः. आद्यंतयोर् इवाद्यंतवत्. मध्ये ऽपि ज्ञापनार्थं पुनर् यथाक्रमग्रहणं. कथम्. आदौ यथाक्रमार्थो ऽनुक्रमशब्दः प्रयुक्तः.
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्य् अनुक्रमम्
इति वचनात्. अंते ऽपि प्रयुक्तः.
अप्रहेयस्य ते त्व् एकं द्वे चत्वारि यथाक्रमम्
इति. यथैवम् आद्यंतयोर् यथाक्रमार्थ उक्तः. [तिब्. 86अ] तथा मध्ये ऽपि अवगंतव्यः. एष हि पेयालधर्म इति. एषो ऽभिसंक्षेपन्यायः. अन्यथा ह्य्
अव्याकृतस्य द्वे तृईणि चैते शुभादय
इत्य् एवमादिषु यथाक्रमम् इति सर्वत्र वक्तव्यं.
(इव्.95) अयोनिशोमनस्कारसंभूतत्वाद् इति. अयोन्या अन्यायेन क्लेशयोगेन. यः प्रवृत्तो मनस्कारः. तत्र संभूतः. तद्भावः. तस्माद् इति. येन यथा गंतव्यं. येन पुद्गलेन यथा गंतव्यं. तथा न गच्छतीत्य् अस्यायोगविहितं कर्म.
विधिभ्रष्टम् अपीति.
अपिशब्देन क्लिष्टं चापीति गृह्यते.
तदुभाभ्याम् अन्यन् नोभयथेति. न योगविहितः. नायोगविहितः. किं च तदन्यद् अव्याकृतं कर्म विधिभ्रष्टविधिभ्रष्टाभ्याम् अन्यद् अव्याकृतम् इति.
(इव्.96अब्) जन्मेति निकायसभागस्याख्येति. चित्तविप्रयुक्तस्य संस्कारस्य. न तु जातेर् इत्य् अभिप्रायः. यत् तर्हीति. यद्य् एकम् एव कर्मैकम् एव जन्माक्षिपति. यत् स्थविरनिरुद्धेनोक्तं सो ऽहं तस्येति विस्तरेण. तत् कथं न विरुध्यत इति वाक्यार्थः. तेन जन्मान्तरे तगरशिखिने प्रत्येकबुद्धाय [तिब्. 86ब्] पिण्डपातो दत्तः. तेनैवम् उक्तं. सो ऽहं तस्येति विस्तरेण. निर्वर्त्येति. विठपित्वेत्य् अर्थः. तुल्ये ऽपि मानुष्ये कश्चित् सकलेन्द्रियो भवति कश्चिद् विकलेन्द्रियः. परिपूरकस्य कर्मणो भेदात् तद् अनुपपन्मम्. ( अभिध्-क्-व्य् 425 ) आक्षेपकर्मफलत्वाच् चक्षुरादीनां. षडायतनं ह्य् आक्षिप्यत इति. वर्णादयस् तु परिपूरकस्य कर्मणः फलम् इति. युक्तं वक्तुं. तुल्ये ऽपि मानुष्ये कश्चिद् वर्णवान् कश्चिन् नेति. तदुत्पत्तिविरोधिप्रत्ययपरिहारे परिपूरककर्मसामर्थ्यान् न विरोधः. अन्यथा हि न कश्चिद् विकलेन्द्रियः स्यात् सति जन्माक्षेप इति.
(इव्.96च्द्) अन्यद् अपि सविपाकम् इति. वेदनादिकं. कर्मसहभूत्वाद् इति. यस्मात् कर्मणा चेतनाख्येन सह ते समापत्ती न भवतः. नापि कायवाक्कर्मभ्याम् अचित्तिकत्वात्. प्राप्तिभिश् च नाक्षिप्यते सविपाकाभिर् अपि. कर्मणानेकफलत्वात्. तदाक्षेपकेण कर्मणा सह भवंत्यो ऽपि प्राप्तयो न तेन सहैकफला इति. वृक्षप्रपाटिका इव हि प्राप्तयो बहिरवस्थायिनो भवंति.
(इव्.97) कर्मावरणम् इति. कर्मैवावरणं. क्लेश एवावरणं. विपाक एवावरणम् इति. आर्यामार्गप्रायोगिकाणां च कुशलमूलानाम् इति. उष्मगतादीनां. अपायादिनियतानीति [तिब्. 87अ]. नरकतिर्यक्प्रेतनियतानि. आदिशब्देनासंज्ञिसमापत्तिमहाब्रह्मसंवर्तनीयं च नियतं कर्म गृह्यते. षण्ढपण्डकोभयव्यंजनसंवर्तनीयं च वक्तव्यं. तथाण्डजसंस्वेदजस्त्रीत्वाष्टमभवनियतानि कर्माणि वक्तव्यानि. आर्या हि नरकादिषु नोपपद्यंते. अण्डजां संस्वेदजां च योनिं न प्रतिपद्यंते. स्त्रीत्वम् अष्टमं च भवं न निर्वर्तयिष्यंति. सप्तकृत्वो भवपरमत्वात्. सुदर्शकानीति. सुखेन दृश्यंते परेभ्या इति सुदर्शानि. सुदर्शान्य् एव सुदर्शकानि. एवं सुखेन प्रज्ञप्यंते आत्मनेति सुप्रज्ञेयानि. सुप्रज्ञेयान्य् एव सुप्रज्ञपकानि. स्वार्थे कः. पर्याये द्वयं चैतत्. सुदर्शकानि सुप्रज्ञपकानीति. अधिष्ठानत इति. कर्मपथो ऽधिष्ठानं. त्रयाणाम् आनंतर्याणां प्राणातिपातः कर्मपथो ऽधिष्ठानं. एकस्य मृषावादः कर्मपथो ऽधिष्ठानं. पंचमस्य प्राणातिपातप्रयोगो ऽधिष्ठानं. एवम् अधिष्ठानतः सुदर्शकानि. सुप्रज्ञपकानि. फलतः. सर्वेषाम् अनिष्टफलत्वात्. गतितः. नरकगतिप्रापकत्वात्. उपपत्तितः. उपपद्यवेदनीयत्वात्. पुद्गलतः. गरिष्ठक्लेशसमुदाचारात् सुप्रज्ञातः पुद्गलः. अयं पितृघातकः. यावद् अयं तथागतशरीरे दुष्टचित्तरुधिरोत्पादक [तिब्. 87ब्] इति. अपरे पुनर् व्याचक्षते. अधिष्ठानतः. पूर्ववत्. फलतः. नरकफलत्वात्. गतितः. मनुष्यगतिकरणात्.
त्रिषु द्वीपेष्व् आनंतर्यम्
इति. वचनात्. उपपत्तितः. तथैवोपपद्यवेदनीयत्वात्. पुद्गलतः. स्त्रीपुंसौ. न षण्ढः पण्डको वा. इत्य् एवं पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानि. न तु पुनस् तान्य् अपायादिनियतानि कर्माणि पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानीति. न तान्य् उक्तानि. उत्तरोत्तरावाहनाद् इति. ( अभिध्-क्-व्य् 426 ) यस्मात् क्लेशावरणं कर्मावरणं आवहति. कर्मावरणं चापाये ऽनिष्टं विपाकम् आवहतीति. क्लेशावरणं सर्वपापिष्ठं. ततः कर्मावरणं लघु. ततो विपाकावरणं. विपाकावरणस्य हि दृष्ट एव धर्मे व्यापारः. न द्वितीय इति. यस्य धर्मस्य योगात् पितृवधादेः सो ऽनंतरो भवति. तस्याभिधाने भावप्रत्ययः. आनंतर्यम् इति. श्रामण्यवत्. यथा येनानास्रवेण मार्गेण योगाच् छ्रमणो भवति. तदभिधाने भावप्रत्ययः.
श्रामण्यम् अमलो मार्ग
इति. तद्वत्.
(इव्.98) नोत्तरकुराव् इति. नियतायुष्कत्वात्. प्रकृतिशीलत्वात्. तत्र शासनभावाच् च. यद् एवासंवरभावे कारणम् इति. पापे ऽप्य् अस्थिराशयत्वात्. यत्रैव च संवरः. तत्रासंवरो ऽपि. प्रतिद्वंद्वभावात्. इत्य् असंवरः
षण्ढादीनां
न भवतीति. [तिब्. 88अ] यद्विपादनाद् इति. यस्य ह्रीव्यपत्राप्यस्य विपादनाद् विकोपनाद् आनंतर्येण स्पृश्येरन् षण्ढादयः. तत् तेषां मातापित्रोर् अंतिके न तीव्रं भवति. इत्य् अतस् तेषाम् आनंतर्यं
नेष्यते.
यदि विकलात्मभावहेतुत्वाद् अल्पोपकारत्वम् इति. अतस् तेषाम् आनंतर्यं नेष्यते. जात्यन्धादीनाम् अपि स्त्रीपुंसानां मात्रादिवधाद् आनंतर्यं न स्यात्. न. अधिगमधर्मविरुद्धस्यात्मभाववैकल्यस्य विवक्षितत्वात्. यद् वैकल्यम् अधिगमधर्मविरोधि. तद् अधिकृतं तेनैव च मात्राल्पस्नेहत्वं. न जात्यन्धादिवैकल्येन. अत एव तिर्यक्प्रेतानाम् अपि नेष्येते.
अल्पोपकारालज्जित्वाद्
एव. अश्वाजानेयवद् इति. पटुबुद्धीनां स्याद् आनंतर्यं तिर्यक्प्रेतानाम् अपीत्य् अधिकृतं. अश्वाजानेयवद् इति. श्रूयते यथा कश्चिद् एव विशिष्टाश्व आजानेयो मातरं न गच्छतीति. वाससा मुखं प्रच्छाद्य मातरं गमितस् तेन पश्चात् ज्ञात्वा स्वम् अंगजातम् उत्पाटितम् इति. एवम् आजानेयो ऽश्वः पटुबुद्धिः. अस्यानंतर्यं स्याद् इत्य् अभिप्रायः. मनुष्यस्याप्य् अमानुषं मातापितरं मारयतो न स्याद् आनंतर्यं. नैव भवेद् आनंतर्यम् इत्य् अर्थः. कथम्.
अल्पोपकारालज्जित्वाद्
एव. न हि मनुष्यानुरूपम् उपकारम् अमनुष्यः कर्तुं समर्थः [तिब्. 88ब्] न च मनुष्यस्यामनुष्ययोर् मातापित्रोर् अंतिके तीव्रं ह्रीव्यपत्राप्यं संतिष्ठते. गतिवैलक्षण्येनाल्पस्नेहत्वात्.
(इव्.99) चत्वारि कायकर्मेति. मातृवधादीनि. एकं वाक्कर्मेति. संघभेदः. त्रीणि प्राणातिपात इति. मातृवधादीनि. एकं मृषावादः. संघभेदः ( अभिध्-क्-व्य् 427 ). एकं प्राणातिपातप्रयोगः. तथागतशरीरे दुष्टचित्तरुधिरोत्पादनं कस्मान् न प्राणातिपात इत्य् आह. अनुपक्रमधर्माणो हि तथागता इति. अपरोपक्रममरणधर्माण इत्य् अर्थः. हेतौ फलोपचाराद् इति. मृषावादो हेतुः संघभेदस्य चित्तविप्रयुक्तलक्षणस्य. तस्मिन् हेतौ फलोपचारः. चित्तविप्रयुक्तो धर्मः फलम् उपचर्यते. संघभेद इति. भिद्यते. वानेनेति. करणसाधनपरिग्रहाद् वा मृषावादः संघभेद इत्य् उच्यते. मृषावादेन हि संघो भिद्यते. न तु संघभेद इति भावसाधनपरिग्रहः.
(इव्.100) संघभेदस् त्व् असामग्री ति.
मुख्यवृत्त्या वैभाषिकाणां द्रव्यसत्ता. तेनाह.
स्वभावो विप्रयुक्तकः. अक्लिष्टाव्याकृतो धर्म
इति. स किम् आनंतर्यं भविष्यतीति. नैवासाव् एवंलक्षणम् आनंतर्यं भवतीत्य् अर्थः. नैव च तेन विप्रयुक्तेन धर्मेण भेत्ता समन्वागतः. तेन नासाव् आनंतर्यम् इत्य् अभिप्रायः.
(इव्.101) [तिब्. 89अ] स पुनर् मृषावादः संघभेदसहजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव इत्य् अर्थः.
(इव्.102) भिक्षुर् भिनत्तीति. बुद्धस्य भिक्षुत्वात्. तत्प्रतिस्पर्धिवृत्तित्वाच् च भेत्तुः. न गृही भिक्षुण्यादय इति. तेषाम् अनादेयाश्रयत्वात्. स च दृष्टिचरित एव. दृढगूढाशयत्वात्. सत्कायदृष्ट्यादिषु पंचसु चरितः प्रवृत्तो दृष्टिचरितः. दृष्टिर् वा चरितम् अस्येति दृष्टिचरितः. स ह्य् ऊहापोहसामर्थ्याद् अन्यं शास्तारं मार्गांतरं च ग्राहयितुं समर्थः. न तृष्णाचरित इति. संक्लेशव्यवदानपक्षयोर् अस्थिराशयत्वात्. दुष्प्रसहत्वाद् इति. दुरभिभवत्वात्. प्रत्यक्षधर्मत्वाद् इति. आगमाधिगमधर्मयोः साक्षात्कारित्वाद् इत्य् अर्थः. न क्षांतिलाभिन इति. न निर्वेधभागीयक्षांतिलाभिन इत्य् अर्थः. दृष्टसत्यकल्पत्वात्.
न विवसत्य् असौ.
न तां रात्रिं परिवसतीत्य् अर्थः. भिन्नम् भवतीति कथं भिन्नम् इत्य् आह. मार्गप्रवृत्तिविष्ठापनाद् इति. मार्गप्रवृत्तिविबन्धनाद् इत्य् अर्थः. यावद् धि संघो न प्रतिसंधीयते. तावन् मार्गप्रवृत्तिर् विष्ठिता भवति. न कस्यचित् संताने मार्गः. संमुखीभवतीत्य् अर्थः. चक्रभेदनिमित्तत्वात्. संघभेदश् चक्रभेद इत्य् उच्यते.
(इव्.103) अवश्यं हि संघेन द्वयोः पक्षयोः स्थातव्यम् इति. बुद्धपक्षे [तिब्. 89ब्] भेत्तृपक्षे च स्थातव्यम् इत्य् अर्थः. संघो हि चत्वारो भिक्षवः. ( अभिध्-क्-व्य् 428 ) संघद्वयेन च भवितव्यम् इत्य् अष्टाभिर् भिक्षुभिर् भेद्यैर् भवितव्यं. नवमेन च भेत्त्रा. अन्यस् तु संघभेद इति. चक्रभेदाद् अन्यः. नात्रानंतर्यम् इत्य् अभिप्रायः. यस्माद् असौ कर्मभेदाद् भवति. व्यग्रा इति. नानामतयः कर्माणि पोषधादीनि संघकर्माणि.
अष्टाभिर् अधिकैश् च स
इति. संघद्वयेनात्रापि भवितव्यं. न भेत्ता शास्तृमानी भवतीत्य् अष्टाभिर् एव भिक्षुभिर् भवितव्यं. न नवादिभिर् इति.
(इव्.104) एकरसो भवतीति. अव्यग्र एकमतिर् भवतीत्य् अर्थः. पूर्वस्याम् अवस्थायां प्रीतिप्रामोद्यजातः. पश्चिमायाम् अतीव मनसि उद्विग्नसंजातसंवेगः. अर्बुदात् पूर्वम् इति. दोषो ऽर्बुदं. दृष्ट्यर्बुदं शीलार्बुदं वा. अत्र दृष्ट्यर्बुदं. यथोक्तं. यथाहं भगवतो भाषितस्यार्थम् आजानामि. य इमे भगवतांतरायिका धर्मा आख्याताः. ते प्रतिषेव्यमाणा नालम् अंतरायेति. तथा तद् एव चित्तं संधावति संसरतीत्यादि. शीलार्बुदं दौःशील्यं. तेन च प्रतिसंधानीयत्वाद् इति. तेन च श्रावकयुगेन यस्मात् प्रतिसंधानीय इत्य् अर्थः. [तिब्. 90अ] अवश्यं च सर्वेषां बुद्धानां श्रावकयुगं भवति. एकः प्रज्ञावताम् अग्रः. द्वितीयः ऋद्धिमतां. इह शाक्यमुनेर् आर्यः शारद्वतीपुत्रः प्रज्ञावताम् अग्रः. आर्यो महामौद्गल्यायन ऋद्धिमतां. प्रतिद्वंद्वाभावाद् इति. यस्मात् परिनिर्वृते भगवति तस्य भेत्तुः प्रतिद्वंद्वभूतो नास्ति. सीमायाम् अबद्धायाम् इति. मण्डलसीमायाम्. एकस्यां हि सीमायां पृथक्कर्मकरणात् संघद्वैधं भवति. ननु च प्रकृतिसीमास्ति. ग्रामनगरादि. सत्यम् अस्ति. ज्ञप्तिसीमायां तु सत्यां सा प्रकृतिसीमा व्यवस्थाप्यत इति. तस्या अपि बन्धो व्यवस्थाप्यत एवेति वेदितव्यं. कर्माधीनत्वाद् इति. येन शिष्यसंघभेदसंवर्तनीयं कर्म कृतं भवति. तस्यैव तद्भेदो भवति. नान्यस्य. शाक्यमुनिना च किल बोधिसत्त्वावस्थायां पंचाभिज्ञस्य ऋषेः पर्षद्भेदः कृत आसीत्. येनास्य देवदत्तेन संघो भिन्न इति.
(इव्.105, 106अब्) गुणक्षेत्रत्वाद् इति. गुणानाम् आश्रयत्वाद् इत्य् अर्थः. अथ वा गुणैः क्षेत्रं गुणक्षेत्रं. गुणयोगाद् धि तत् पुण्यस्य क्षेत्रं भवति. यथा क्षेत्रे बीजम् उप्तं महाफलं भवति. एवं पुण्यबीजम् अत्रोप्तं महाफलम् भवति. नान्यत्रेति. न सामान्यस्त्रीवधादिषु.
उपकारिगुणक्षेत्रनिराकृतिविपादनाद्
इति. उपकारिक्षेत्रस्य गुणक्षेत्रस्य वा निराकृतेः परित्यागान् मातृपितृवधादिष्व् ( अभिध्-क्-व्य् 429 ) [तिब्. 90ब्] आनंतर्यं. तस्य विपादनाच् च विकोपाद् आनंतर्यं. तथागतशरीरे दुष्टचित्तरुधिरोत्पादनात्. संघस्यापि यद् भेदनं. तद् अपि तद्विपादनं. तद् एतद् उक्तं भवति. उपकारिक्षेत्रत्वात्. गुणक्षेत्रत्वाच् च. तन्निराकरणविपादनान् मातृवधादिष्व् एवानंतर्यं नान्यत्रेति.
यदि पुनर् मातुर् व्यंजनपरिवृत्तं स्यात् पितुर् वेति. व्यंजनपरावृत्त्या तन् मातृत्वं तत् पितृत्वं वा विनष्टम् इति. मातुर् मारणाभावात् पितुर् मारणाभावाद् वा न स्याद् आनंतर्यम् इति. तदभावाशंकया पृच्छति.
यच्छोणितोद्भव
इति. यस्याः शोणिताद् उद्भवो ऽस्येति
यच् छोणितोद्भवः.
सर्वकृत्येष्व् अवलोक्येति. सर्वमातृयोग्येषु कार्येषु द्रष्टव्येत्य् अभिप्रायः. मातृकल्पत्वात्. आप्यायिका कताहारिका. पोषिका स्तन्यदायिका. संवर्धिका औदारिकाहारादिकल्पिका. अपरे व्याचक्षते. आप्यायिका स्तन्यधातृकेति यो ऽर्थः. पोषिका औदारिकाहाराभ्यासतः. [तिब्. 91अ] संवर्धिका स्नानोद्वर्तनविषमपरिहारत इति. मंचतलावलीनेति. मंचोपरि प्रावरणकल्पनेन पुरुषो ऽत्र सुप्त इति मन्यमानेन पुत्रेण तत्रशस्त्रप्रहारः कृतः. तेन शस्त्रप्रहारेण मंचतलावलीना माता मारितेत्य् उदाहार्यं. धावकस्य च रजकस्य पुत्रेण मशकं मारायामीति मशकप्रयोगेण पितुर् मारनम् इति. द्वे अविज्ञप्ती आनंतर्यविज्ञप्तिः. केवलप्राणातिपातविज्ञप्तिश् च. विज्ञप्तिस् त्व् आनंतर्यम् एव तत्संगृहीतैव सा नान्येत्य् अर्थः. तस्याप्य् एकम् एवेति. अर्हद्वधाख्यं. गच्छ शिखण्डिनं ब्रूहीति रौरुके नगरे उद्रायणो नाम राजा शिखण्डिनं नाम पुत्रम् अभिषिच्य प्रव्रजितः. प्रव्रज्यार्हत्त्वं अधिगतवान्. स रौरुकाभ्याशम् आगतवान्. पुना राज्यम् आकांक्षतीति. अमात्यप्रक्रामितेन तेन शिखण्डिना राज्ञा स्वपिता मारितः. तेन तु मार्यमाणावस्थायां स मारको मनुष्य उक्तो गच्छ शिखण्डिनं ब्रूहीत्य् एवमादि. द्वाभ्यां कारणाभ्याम् इति वक्तव्यम् इति. गच्छ शिखण्डिनं ब्रूहि. द्वाभ्याम् आनंतर्यकारणाभ्यां भवता कृतम् आनंतर्यम् इति. तेन वक्तव्यं. द्वाभ्यां वा [तिब्. 91ब्] मुखाभ्यां परिभाषित इति. मुखद्वित्वाद् आनंतर्यद्वित्वोपचार इत्य् अभिप्रायः. कारणद्वित्वाद् धि गुरुतरं तद् आनंतर्यं.
(इव्.106च्द्) आश्रयस्यात्यंतं तद्विरुद्धत्वाद् इति. उत्पन्नार्यमार्गस्याश्रयस्य तैः कर्मपथैः विरुद्धत्वात्. एकावदानं चात्रोदाहरणं. छेकः किल शाक्यमनुष्यो विरूढकभयाद् विषमं वनप्रदेशम् आश्रित्य लुब्धकवृत्तिम् अशिश्रियत्. भगवता च त्रायस्त्रिंशेषु त्रैमास्यां कुर्वता ततो ऽवतीर्य ( अभिध्-क्-व्य् 430 ) छेकाय सपरिजनाय धर्मो देशितः. तेन स्रोतआपत्तिफलम् अधिगतं. तत्पुत्रैश् च फलप्राप्तैः पूर्वं प्रतानितानि कूटजालादीनि मृगेभ्यः. तत्प्रयोगेण च मार्यमाणेष्व् अपि मृगेषु फलप्राप्त्या न ते पुनर् अकुशलैः कर्मपथैः स्पृष्टा इति.
(इव्.107) पंचमतृतीयप्रथमानि गुरुतराणीति. इयम् आनंतर्यकर्मपाठानुपूर्वी. मातृवधः पितृवधो ऽर्हद्वधः संघभेदस् तथागते दुष्टचित्तरुधिरोत्पादनम् इति. पंचमं दुष्टचित्तरुधिरोत्पादनं. तत् संघ भेदवर्ज्येभ्यो ऽवशिष्टेभ्यश् चतुर्भो गुरुतरं. तृतीयम् अर्हद्वधः. तन् मातापितृवधाभ्यां गुरुतरं. प्रथमं मातृवधः. तत् पितृवधात् गुरुतरं. तेनाह. सर्वलघुः पितृवध इति. नियमस्येति. तद् एवावधार्येत्य् अर्थः. विपाकविस्तरम् अधिकृत्य संघभेदो महासावद्य [तिब्. 92अ] उक्तः. अंतरकल्पविपाकदानत्. महाजनव्यापादनम् अधिकृत्य मनोदण्डः. दण्डकारण्यादिशून्यकरणात्. न ह्य् अन्येन कायकर्मणा वाक्कर्मणा वा तावतो महाजनस्य व्यापादः संभवतीति. कुशलमूलसमुच्छेदम् अधिकृत्य मिथ्यादृष्टिर् महासावद्या. न ह्य् अन्यद् अकुशलमूलं कुशलमूलानि समुच्छिनत्ति. समुदाचारमात्रविरोधित्वाद् इति.
(इव्.108, 109अब्) न त्व् अनंतरम् एव्ति. नरके ऽवश्यम् उत्पत्त्या तानि तत्सादृश्यात् तत्सभागान्य् उच्यंते. न तु तत्रानंतरोत्पत्त्या. अन्यथा ह्य् आनंतर्याण्य् एव स्युर् इत्य् अपरेषां अभिप्रायः. अनंतरभावित्वे ऽपि न तान्य् आनंतर्याण्य् एव संभवंत्य् अतुल्यकालविपाकत्वाद् इति. प्रथमपाक्षिकाणां परिहारः.
दूषणं मातुर् अर्हंत्या
मातृवधानंतर्यसभागं. नियतिपतितबोधिसत्त्वमारणं पितृवधानंतर्यसभागं. शैक्षमारणं अर्हद्वधानंतर्यसभागं. संघायद्वारहारिका संघभेदानंतर्यसभागं. स्तूपभेदनं तथागतदुष्टचित्तरुधिरोत्पादानंतर्यसभागं. संघायद्वारहारिका पुनर् अक्षयनीव्यपहार इत्य् आचार्यवसुमित्रः. [तिब्. 92ब्] एवं तु व्याचक्षते सुखायद्वारहारिकेति. यत् सुखोपयोगिकं येन संघो जीविकां कल्पयति तस्यापहार इति.
(इव्.109च्द्) तद्विपाकभूम्यतिक्रमाद् इति.
क्षांतिलाभ्य् अनपायग
इत्य् अपायभूम्यतिक्रमात्. तथैवेति. तद्विपाकभूम्यतिक्रमात्. यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उत्तिष्ठंते तथैवेत्य् अर्थः.
(इव्.110) महासालकुलज इति. महाप्राकारकुलज इत्य् अर्थः. क्षत्रियमहाशालकुलजो यावत् गृहपतिमहाशालकुलज इति. महागृहपतिकुलज इत्य् अर्थः. कदर्थना महापरिभवपूर्विका विहेठना. ययोः कायवाचोः प्रवृत्त्या परस्य दुःखदौर्मनस्ये भवतस् तदपेक्षया तन्निग्रहो यंत्रणेत्य् उच्यते.
(इव्.111) एकनवतं कल्पम् उपादायेति. एकनवतेः पूरणः कल्प एकनवतः. तम् उपादाय. अशिबद्धकेन ग्रामण्या निर्ग्रन्थश्रावकेन भगवान् उक्तः. किम् अनर्थायासि भो गौतम कुलानां प्रतिपन्नो यस् त्वम् ईदृशे दुर्भिक्ष इयता भिक्षुसंघेन सार्धम् अशनिवद् उत्सादयं भिक्षाम् अटसीति. स भगवताभिहितः. इतो ऽहं ग्रामणि एकनवतं कल्पम् उपादायेति [तिब्. 93ब्] विस्तरः.
एतां चतुरो दोषान् व्यावर्तयतीति. दुर्गतिदोषम् अकुलीनतादोषं विकलेन्द्रियतादोषं स्त्रीभावदोषं चेति. द्वौ च गुणौ प्रतिलभते. जातिस्मरतागुणम् अनिवर्तकतागुणं चेति.
संनिकृष्टं बोधिसत्त्वं स्थापयित्वेति. यो लक्षणविपाककर्मकारी.
स् त्रिसाहस्रको निर्वर्तत इति. येन सर्वसत्त्वकर्माधिपत्येन त्रिसाहस्र
महासाहस्रप्रादुर्भावः. तस्य तत् परिमाणम् इति. उक्तं पुण्यस्य परिमाणं. तेषाम् एवंकृतपरिमाणानां शतेनैकं महापुरुषलक्षणं निर्वर्तते. एवं यावद् द्वात्रिंशत्तमम् अपीति. केचित् ते व्याचक्षते. बुद्धालंभनमनस्कारसंमुखीभावात् पंचाशच् चेतना भवंति. अहम् अपीत्थं स्याम् इत्य् अपराः पंचाशद् इत्य् एवं पुण्यशतं भवतीति. अपरे वर्णयंति. कामधातुर् विंशतिस्थानानि. रूपधातुः षोडश. आरूप्याश् चत्वारः. अष्टौ च शीतनरका इत्य् अष्टचत्वारिंशद् विकल्पं त्रैधातुकं भवति. तदालंबनम् अस्य बोधिसत्त्वस्य करुणाचित्तम् उत्पद्यते. ततस् तत्संप्रयुक्ताश् चेतना अष्टचत्वारिंशद् भवंति. अतो ऽनंतरं बुद्धालंबना चेतनोत्पद्यते. यथानेनास्मात् त्रैधातुकात् सत्त्वा मोचिता इत्य् एका चेतना. अतो ऽनंतरं द्वितीया चेतनोत्पद्यते. अहम् अप्य् एवं मोचयेयम् इत्य् आत्मालंबनेति. पंचाशच् चेतना भवंति [तिब्. 93ब्] तासां पुनर् द्विःसंमुखीभावाच् चेतनाशतं भवतीति. अन्ये आहुः. प्राणातिपातविरतिर् बुद्धस्य भगवतः पंचभिः कारणैर् उपेता भवति. पंच कारणानि. मौलकर्मपथपरिशुद्धिः. सामंतकपरिशुद्धिः. वितर्कानुपघातः. स्मृत्यनुपरिगृहीतत्वं. निर्वाणपरिणामितत्वं ( अभिध्-क्-व्य् 432 ) चेति. तदालंबना अपि चेतनाः पंच भवंति. एवं दशकर्मपथालंबना दश पंचकाश् चेतनानां पंचाशच् चेतना भवंति. तासां द्विःसंमुखीभावाच् चेतनाशतं भवतीत्य् एतत् पुण्यशतं. यथा अयम् असाधारणदशकुशलकर्मपथनिर्जातो भगवान् एवम् अहम् अपि स्याम् इति कृत्वा. तद् एवं सत्य् एकैकं पुण्यशतजम् इत्य् एतत् सिध्यति.
(इव्.112) पर्युपासयामासेति. लिट्य् आंप्रत्ययांतस्यासेर् एतद् रूपं. पर्युपासितवान् इत्य् अर्थः. यत्र भगवतेति विस्तरः. प्रभासनाम्ना कुंभकारकुमारभूतेनासुखोदकाभ्यंगपरिचर्याभिर् उपस्थानं कृत्वाद्यं प्रणिधानं कृतं.
(इव्.114, 115) तदास्य क्षांतिशीलपारमिते परिपूर्णे इति. चेतसा तावद् अकोपतः क्षांतिपारमितापरिपूरिः. कायवाग्भ्यां दुशरिताकरणाच् छीलपारमितापरिपूरिर् इति.
न दिवि भुवि वेति विस्तरः.
दिवि भुवि वेति
उद्देशपदन्यायेनोक्तं.
नास्मिन् लोके न वैश्रवणालये
न मरुभवने. दिव्ये स्थान
इति. तद्व्यक्त्यर्थं निर्देशपदानि.
अस्मिन् लोक
इति. मनुष्यलोके.
[तिब्. 94अ] वैश्रवणालय इति. चातुर्महाराजिकस्थाने.
मरुभवन
इति. मरुद्भवने त्रायस्त्रिंशभवन इत्य् अर्थः.
दिव्ये स्थाने
यामादिस्थाने. लोकधात्वंतरेष्व् अपि तत्सदृशस्याभावज्ञापनार्थम् आह.
न दिक्षु विदिक्षु चेति.
अथ न श्रद्धीयते.
चरतु
नरः कश्चिद्
वसुधाम्
इमां
कृत्स्नां स्फितां
बहुसत्त्वाध्यासितां. सह पर्वतैः काननैश् च.
सपर्वतकाननां
स्वयं प्रस्त्यवेक्षताम् इत्य् अभिप्रायः. नव च कल्पाः प्रत्युदावर्तिता इति. तेन वीर्यारंभेणैकनवत्या कल्पैः परिपूर्णा वीर्यपारमितेति कृत्वा. अत एवोक्तम् एकनवत्यां कल्पेष्व् आक्षिप्तम् इति. बोधेः पूर्वसमनंतरम् इति. क्षयानुत्पादज्ञानलक्षणाया बोधेः पूर्वसमनंतरं. किं कारणं. परिपूर्णपारमितो हि बोधिम् अधिगच्छति. नापरिपूर्णपारमित इति.
(इव्.116) यथायोगम् इति. किंचित् पुण्यं च क्रिया च. किंचित् पुण्यं च क्रिया च. किंचित् पुण्यम् एव. क्रिया च. किंचित् पुण्यं च वस्तु च. किंचिद् वस्त्व् एवेति. कथम् इत्य् आह. तद्यथेति विस्तरः. कर्म च ते पंथानश् च. प्राणातिपातादयः सप्त कर्मपथाः. कर्मस्वाभाव्याच् चेतनापथत्वाच् च. त्रयस् त्व् अभिध्यादयः पंथान एव कर्मणश् चेतनाख्यस्येति [तिब्. 94ब्] कर्मपथाः. कायवाक्कर्म त्रिविधेति. पुण्यं तावद् इष्टविपाकत्वात्. क्रिया कर्मस्वभावत्वात्. वस्तु तत्समुत्थानचेतनायास् तद् अधिष्ठाय प्रवृत्तेः. तत्समुत्थापिका चेतना कायवाक्कर्मसमुत्थापिका. पुण्यम् इष्टविपाकत्वात्. क्रिया मनस्कर्मत्वात्. न वस्तु क्रियानधिष्ठानत्वात्. तत्सहभुवो वेदनादयः. इष्टविपाकत्वात् पुण्यम् एव. न तु क्रियाधिष्ठानं वा. तल्लक्षणाभावात्. शीलमयम् इति. पूर्ववत् त्रैधं योज्यं. मैत्री पुण्यम् इति. पूर्ववद् योज्यं. पुण्यक्रियायाश् च वस्तु. तत्संप्रयुक्ताया मैत्रीसंप्रयुक्तायाश् चेतनायाः मैत्रीमुखेन मैत्रीवशेनाभिसंस्करणाद् अभिसंचेतनात्. तत्सहभूर् मैत्रीसहभूश् चेतना शीलं च ध्यानसंवरसंगृहीतं पुण्यं च क्रिया च पूर्ववत्. न हि ध्यानसंवरं प्रवर्तयेयम् इत्य् अधिष्ठाय चेतना प्रवर्तते. तेन न क्रियाधिष्ठानं. अन्ये तत्सहभुवो वेदनादयः पुण्यम् एव पूर्ववत्. तद् एवं. दानमये पुण्यं च क्रिया च वस्तु च. पुण्यं क्रिया च. पुन्यं च. पुण्यक्रियावस्तु. शीलमये पुण्यं च [तिब्. 95अ] क्रिया च क्रियावस्तु च. पुण्यक्रियावस्तु. भावनामये पुण्यक्रियावस्तु च. पुण्यं क्रिया च. पुण्यं चेति. पुण्यक्रियावस्तु. अवयवसरूपाणाम् अप्य् एकशेष इष्यते. गुणो यङ्लुकोर् इति यथा.
(इव्.117) यद् अपि दीयते तद् दानम् इति देयं वस्तु कर्मणि ल्युड् इति कृत्वा.
दीयते येन तद् दानम्
इति. इह तु कुशलम् इष्टं दानम् इति. देयस्य हि वस्त्रादेर् अव्याकृतत्वं. रागादिभिर् अपीत्य् आदिशब्देन क्रोधेर्ष्यादीनां ग्रहणं.
पूजानुग्रहकाम्ययेति
चैत्यापरिनिर्वृतेभ्यः पूजा. इन्द्रियमहाभूतानुग्रहकामा तया. येन कलापेनेति ( अभिध्-क्-व्य् 434 ) चित्तचैत्तकलापेन.
कुशलाः स्कन्धा
इति. पंच स्कंधाः. कायवाग्विज्ञप्तिस् तद् अविज्ञप्तिर् अपि वा रूपस्कंधो द्रष्टव्यः. स्वभावे चैष मयद् इति. न विकारादिषु. तद्यथा तृणमयं गृहम् इति. न तृणानां विकारो ऽस्ति. तैस् तु निर्विकारैर् एव तत् कृतम् इत्य् अतस् तृणमयं तृणस्वभावं तद् इति गम्यते. तत्स्वाभाव्ये ऽपि सति. तद्विकारतां परिकल्प्य मयत् क्रियत इत्य् अभिप्रायः. तत्प्रकृतिवचने मयद् इत्य् अनेन वा लक्षणेन मयद् विधीयते. एवं पर्णमयं भाजनम् इत्य् एतद् अपि वक्तव्यं.
(इव्.118अब्) स्थापयित्वा दृष्टधर्मवेदनीयम् इति. तद् उभयार्थम् इति कृत्वा स्थाप्यते. तद् विपाकभूमेर् [तिब्. 95ब्] अत्यंतसमतिक्रांतत्वात्. कामधातोर् अत्यंतसमतिक्रांतत्वाद् इत्य् अर्थः. कामधातुर् हि दानस्य विपाकभूमिर् इति.
(इव्.119) श्रुतादिगुणयुक्त इति. आदिशब्देन त्यागप्रज्ञाल्पेच्छतादिगुणयुक्तः. सत्कृत्यादि ददातीति. सत्कृत्येत्य् आदिर् अस्येति सत्कृत्यादि. क्रियाविशेषणम् एतत्. यथाक्रमं चत्वारो विशेषा इति. सात्कृत्यदाता सत्कारलाभी भवति. स्वहस्तदाता उदारेभ्यो भोगेभ्यो रुचिं लभते. कालदाता काले भोगाल् लभते. नातिक्रांतकालात्. यान् न भोक्तुम् एवासमर्थः. परान् अनुपहत्यदाता ऽनाच्छेद्यां भोगां लभते.
(इव्.120) ऋतुसुखस्पर्शानि चास्यांगानीति. शीते उष्णानि. उष्णे शीतानि. साधारणे साधारणानि.
(इव्.121अब्) शीतलिकादिषु चेति. आदिशब्देन वर्दलिकावर्षलिकादिषु. यथासूत्रम् उक्तम् एतत्. यथा मातापित्रोर् इति. उपकारित्वविशेषात् कारापकारौ महाफलौ तयोर् भवत इत्य् अर्थो ऽवगंतव्यः. ऋक्षमृगजातकाद्युदाहरणात् विपाक इति. एवं ऋक्षमृगयोर् गुहां प्रवेश्य गात्रोष्मशीतोपनयेनोह्यमाननद्युत्तारणेन वोपकारिणोर् अपकारकरणेन सद्यो ऽंगपातात्. [तिब्. 96अ] आदिशब्देन कपिजातकाद्य् उदाहार्यं. शीलवते दत्त्वा शतसहस्रगुणो विपाक इत्य् एवमादीति. आदिशब्देन स्रोतआपत्तिफलप्रतिपन्नकाय दत्त्वा अप्रमेयो भवति विपाकस् ततो ऽप्रमेयतरः स्रोतआपन्नायेत्यादि.
(इव्.121च्द्) तत् स्थापयित्वेति. अनंतरोक्तं बोधिसत्त्वदानं. तद् धि सम्यक्संबोध्यर्थं सर्वसत्त्वार्थं च. शेषं सुगमत्वान् न विभक्तम् इति. यद् एतद् अदान् मे दानम् इत्य् एवमादिकं. अदान् मे दानम् इति. दत्तम् अनेन मे ( अभिध्-क्-व्य् 435 ) पूर्वम् इति दानं तृतीयं. दास्यति मे दानम् इति चतुर्थं. दत्तपूर्वं मे पितृभिश् च पितामहैश् चेति दानम् इति पंचमं. स्वर्गार्थं दानम् षष्ठं. कीर्त्यर्थं सप्तमं. चित्तालंकारार्थं यावद् उत्तमार्थस्य प्राप्तये दानम् इत्य् अष्टमं. चित्तालंकारार्थं ऋद्ध्यर्थं. चित्तपरिष्कारार्थं अष्टौ चित्तपरिष्काराः मार्गांगानि. तदर्थं. योगसंभारार्थं योगनिदानार्थं. उत्तमार्थस्य प्राप्तिर् अर्हत्त्वं निर्वाणस्य वा प्राप्तिः. तस्मै प्राप्तये दानं. चतुर्भेदम् अप्य् एकम् अष्टमं भवति. निर्वाणप्रापकम् एवैतद् इति कृत्वा. सुगमम् उक्तम् आचार्येण.
(इव्.122) [तिब्. 96ब्] चतुर्विधे क्षेत्रविशेष इति. गतिदुःखोपकारिगुणक्षेत्रे कतमस्मिन् पक्ष इति. यस्माद् अस्य गतिक्षेत्रता गुणक्षेत्रता च न संभवति तस्मात् पृच्छति. समविषमस्य प्रकाशयितेति धर्मधर्मस्य.
(इव्.123) विपाकनैयम्यावस्थानाद् इति. नियतविपाकदानावस्थानाद् इत्य् अर्थः. कस्यचित् क्षेत्रवशेनैवेति. तद्यथा. सामान्यपुरुषवधात् पितृवधः. तत्रैव क्षेत्रे पुनर् अधिष्ठानवशाद् इति. कर्मपथवशात्. कथम् इत्य् आह. मातापित्रोः प्राणातिपातनात् गुरु कर्म न त्व् एवम् अदत्तादिकात् गुरु. न हि मातापित्रोर् द्रव्यापहरणकर्म तद्वधवत् गुरु भवति. तद्वधस्यानंतर्यस्वभावत्वाद् आदिशब्देन मृषावादपैशुन्यादिग्रहणं. एवम् अन्यद् अपि योज्यम् इति. कस्यचित् प्रयोगविशेषेण गुरु सम्पद्यते विपाकनैयम्यावस्थानात्. कस्यचिच् चेतनाविशेषेण. कस्यचिद् आशयविशेषेण.
(इव्.124) नाबुद्धिपूर्वं न सहसा कृतम् इति. अथ वा नाबुद्धिपूर्वं कृतम् इदं कुर्याम् इत्य् असंचिंत्य कृतं. तन् नोपचितम्. अव्याकृतं हि तत् कर्म. न सहसा कृतम् इति. बुद्धिपूर्वम् अपि न सहसा कृतं. यद् अभ्यासेन भाष्याक्षेपान् मृषावादाद्यनुष्ठानं कृतं तद् अकुशलं [तिब्. 97अ] न पुनर् उपचितं. यावत् त्रिभिर् इति. कायवाङ्मनोदुश्चरितैः. निष्प्रतिपक्षं चेति. प्रतिदेशनादिप्रतिपक्षाभावतः. अकुशलं चाकुशलपरिचारं चेति. यः कृत्वाप्य् अनुमोदत इति. विपाकदाने नियतम् इति. पुष्टाकुशललक्षणसमुत्पादात्. एवं कुशलम् अपि योज्यम् इति. कथं. संचेतनतः संचिंत्य कृतं भवति. नाबुद्धिपूर्वकृतं भवति. तद्यथा. अव्याकृतेन चित्तेन पाषाणं ददामीति सुवर्णपिण्डं दद्यात्. कृतं तन् न पुनर् उपचितं. अव्याकृतं हि तत् कर्म. न सहसा कृतं. यथा भाष्याक्षेपात् सत्यवचनं कृतं तत् कुशलं न पुनर् उपचितं. कश्चिद् एकेन सुचरितेन सुगतिं याति. कश्चिद् यावत् त्रिभिः. कश्चिद् एकेन कर्मपथेन. कश्चिद् यावद् दशभिः. तत्र यो यावता गच्छति. तस्मिन्न् असमाप्ते कृतं कर्म नोपचितं. समाप्ते तूपचितं. एवं यावद् विपाकदाने नियतम् इति. संभवतो योज्यम्.
(इव्.125अब्) चैत्ये सरागस्येति विस्तरः.
स्वपरार्थोभयार्थायेत्य्
अत्र. पुण्यम् एव त्यागान्वयम् अपश्यन्न् आह. कस्यचिद् अप्य् अनुग्रहाभावाद्. इति. सति हि प्रतिग्रहीतरि युक्तं त्यागान्वयं पुण्यं. तत्र हि प्रीत्यनुग्रहेण [तिब्. 97ब्] ग्रहीता युज्यत इति.
मैत्र्यादिवद् अगृह्णतीति.
मैत्र्यादिष्व् इव मैत्र्यादिवत्. अगृह्णति असति प्रतिग्राहके पुण्यं भवति. असत्य् अपि परानुग्रहे. कुशलमूलादिबलाधानात्. तथा ह्य् अतीते पि पुणवति तथागतादौ. तद् भक्तिकृतं चैत्यदानं पुण्यं भवति. दानमानक्रिया तर्हि व्यर्था प्राप्नोतीति. यदि स्वचित्ताद् एव पुण्यं भवेच् चित्तेनैव दानमानाव् अनुष्ठेयौ. तत एव पुण्यप्राप्तेः. न. तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात्. नैतद् एवं. कस्मात्. यस्माद् दानमानौ भगवतश् चित्तमात्रेण चिंतयतो या भक्तिः. तत इयं दानमानौ कुर्वतो भक्तिः प्रकृष्टतरा. कायवाक्कर्मणोर् अपि प्रवर्तनात्. चित्तमात्रेण हि चिन्तयतो भक्तिः कायवाक्कर्मणी न प्रवर्तयतः. यथा हीति विस्तरः. यथा हि शत्रुं हन्मीति कृताभिप्रायस्य कस्यचित् तत्समुत्थितं तदभिप्रायसमुत्थितं कायवाक्कर्म शत्रुसंज्ञया शत्रुर् अयं न तावन् म्रियत इत्य् अनया संज्ञया तस्मिन् मृते ऽपि कुर्वतो बहुतरम् अपुण्यं जायते चेतनानुबंधात्. नाभिप्रायमात्रेण क्रियाशून्येन. तथा ह्य् अतीते ऽपि परिनिर्वृते ऽपि भगवति तद्भक्तिसमुत्थां शास्तृभक्तिसमुत्थां दानमानक्रियां पृष्ठभूताम् इव कुर्वतो बहुतरं पुण्यं जायते. न भक्तिमात्रेण क्रियाशून्येनेति.
(इव्.125च्द्) कुक्षेत्रे तर्ह्य् [तिब्. 98अ] अनिष्टफलं भविष्यतीति. तस्करादिभ्यो दानम् आनिष्टफलम् इति निर्ग्रंथाः. सुक्षेत्रे हीष्टफलं. कुक्षेत्रे तु विपरीतम् इत्य् अतो ब्रवीति.
कुक्षेत्रे ऽपीष्टफलता फलबीजाविपर्ययाद्
इति. न क्षेत्रविशेषाद् इष्टं फलम् इति ब्रूमः. किं तर्हि. विशिष्टम् इति. न हि सुक्षेत्रे प्राणतिपातादिबीजस्येष्टं फलं भवतीति. कुक्षेत्रे ऽपि हि फलस्य मृद्वीकाफलस्य बीजात् मृद्वीकाबीजाद्. अविपर्ययो दृष्टः. मृद्वीकाफलम् एव मधुरं दृष्टम् इत्य् अर्थः. न तु निंबफलम् एवं. निंबबीजान् निंबफलम् एवेति. तिक्तम् इति. मृद्वीकाबीजं कुशलस्योदाहरणं. निंबबीजम् अकुशलस्य.
(इव्.126) दौःशील्यम् अशुभं रूपम्
इति. प्राणतिपातादिलक्षणं प्रकृतिसावद्यं रूपं दौःशील्यं.
प्रतिक्षिप्ताच् च बुद्धेनेति.
प्रज्ञप्तिसावद्यत्वात्. समात्तशिक्षस्य तु तदध्याचाराद् दौःशील्यम् इति. गृहीततद्विरमणस्य भगवद्वचनानादराद् दौःशील्यं जायते. अर्थाद् उक्तं भवति. असमात्तशिक्षस्य न दुःशील्यम् इति.
विशुद्धं तु चतुर्गुणम्
इति. चत्वारो गुणा अस्येति चतुर्गुणं. दौःशील्येन यथोक्तेनेति.
दौःशील्यम् अशुभं रूपम्
इत्य् अनेन. [तिब्. 98ब्] लोभादिभिर् इति. न तैर् दौःशील्यहेतुभिः समुदाचरद्भिर् उपहतं भवति. दौःशील्यविपक्षाश्रितम् इत्य् अर्थः.
मौलैः कर्मपथैर् विशुद्धम् इति. प्राणतिपातादिभिर् मौलैर् अखण्डितम् इत्य् अर्थः. सामंतकैर् विशुद्धम् इति. प्राणातिपातादिप्रयोगैर् अदूषितम् इत्य् अर्थः. वितर्कैर् इति. कामवितर्कादिभिः. स्मृत्यानुपरिगृहीतम् इति. कायादिस्मृत्युपस्थानैर् दृढीकृतं. शीलस्मृत्या वानुपरिगृहीतं.
आशास्तिशीलम् इति. आशास्तिः प्रार्थना. यद् भवभोगसत्कारतृष्णाकृतम् इति. भवे भोगे च सत्कारे च या तृष्णा. तया यत् समात्तम् इत्य् अर्थः. सम्यग्दृष्टिकानाम् इति. बुद्धशासनप्रतिपन्नानां. अन्यतीर्थिकानां हि न बोध्यंगानुकूलम् असद्दृष्टिकत्वात्.
(इव्.127अब्) समाहितं तु कुशलम्
इति. समाहितग्रहणम् असमाहितनिवृत्त्यर्थं. कुशलग्रहणं समाहितास्वादनासंप्रयुक्तक्लिष्टध्याननिवृत्त्यर्थं. तत् समाहितकुशलसदृशम् उत्पद्यते. समाधिस्वभावसहभू यद् इति. समाधिस्वभावं तेन च सह भवति यद् इत्य् अर्थः. तद् धि समाहितम् [तिब्. 99अ] इति विस्तरः. तत् समाहितं कुशलम् अत्यर्थं चित्तं संवासयति. भावयति. असमाहितम् अपि वासयति. न त्व् एवम् अत्यर्थम् इति दर्शयति. कथम् इत्य् आह. गुणैस् तन्मयीकरणात् संततेः. यस्मात् समाधिगुणैस् तन्मयी क्रियते चित्तसंततिः. अत्र दृष्टांतम् आह. पुष्पैस् तिलवासनावद् इति. यथा पुष्पैस् तिला भाव्यंते. पुष्पगंधमयीकरणात्. तद्वत्. तद् इदम् उक्तं भवति. भावना वासना. तत्स्वभावं पुण्यं भावनामयम् इति.
(इव्.127च्द्) अथ शीलं भावना च कस्मै संवर्तत इति वाक्यशेषतो ऽर्थं पृच्छति.
स्वर्गाय शीलं प्राधान्याद्
इति. शीलं प्राधान्येन स्वर्गाय भवति. अन्यत् तु न प्राधान्येन स्वर्गाय भवति. किम् अन्यत्. दानं. दानम् अपि हि स्वर्गाय संभवति. शीलम् अपि ( अभिध्-क्-व्य् 438 ) विसंयोगाय संभवति. शमथविपश्यनयोः शीलप्रतिष्ठानत्वात्. भावना प्राधान्येन विसंयोगाय. साक्षाद्विसंयोगप्रापकत्वात्. प्रहाणमार्गसंगृहीतत्वाद् वा. पुण्यक्रियावस्तुप्रसंगेनेदम् उपन्यस्यते.
(इव्.128अब्) सूत्र उक्तं. चत्वारः पुद्गलाः ब्राह्मं पुण्यं प्रसवंति. अप्रतिष्ठिते पृथिवीप्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति. अयं प्रथमः पुद्गलो ब्राह्मं पुण्यं प्रसवति. चातुर्देशे भिक्षुसंघे आरामं निर्यातयति तत्रैव चारामे विहारं [तिब्. 99ब्] प्रतिष्ठापयति. अयं द्वितीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति. भिन्नं तथागतश्रावकसंघं प्रतिसंदधाति. अयं तृतीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति. मैत्रीसहगतेन चित्तेनावैरेणासंस्पर्धेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशम् अधिमुच्य स्फरित्वोपसंपद्य विहरति. तथा द्वितीयां. तथा तृतीयां. तथा चतुर्थीम्. इत्य् ऊर्ध्वम् अधस् तिर्यक् सर्वतः सर्वम् इमं लोकं स्फरित्वोपसंपद्य विहरति. अयं चतुर्थः पुद्गलो ब्राह्मं पुण्यं प्रसवतीति. यल् लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तम् इति. यद् उक्तं संनिकृष्टं बोधिसत्त्वं स्थापयित्वा. यावत्सर्वसत्त्वानां भोगफलम् इत्य् एवमादि.
इदं ब्राह्मं पुण्यम् इति. ब्रह्मणाम् इदं ब्राह्मं. ब्रह्मपुरोहिताश् चात्र ब्रह्मशब्देनोच्यते. कस्मात्. ब्रह्मपुरोहितानां कल्पायुष्कत्वात्. ब्रह्मपुरोहितानां हि कल्पम् आयुर् उक्तं. अनेन च कर्मणा कल्पं स्वर्गेषु मोदते.
ब्राह्मं पुण्यं प्रसवति. कल्पं स्वर्गेषु मोदत
इति. निकायांतरपाठवचनात्. तत्साधर्म्याद् एतद् ब्राह्मं पुण्यम् उच्यते. ननु च कामधातौ नास्ति कुशलस्य कर्ंअणः कल्पं विपाक इति. सत्यम् एकस्य नास्ति. [तिब्. 100अ] एकाधिष्ठानास् तु बह्व्यश् चातना भवंति. यासां क्रमेण कल्पप्रमाणं स्वार्गिकं फलम् अभिनिर्वर्तते. च्युतस्य पुनस् तत्रैव जन्मसंधानात्.
बृहत्पुण्यं ब्राह्मम् इत्य् अपरे.
(इव्.128) सूत्रादीनाम्
इत्य्. आदिशब्देन द्वादशानाम् अंगानां ग्रहणं. सूत्रगेयव्याकरणगाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा इति द्वादशानाम् अंगानां. अक्लिष्टदेशनेति. अक्लिष्टचित्तसमुत्थापितेत्य् अर्थः.
(इव्.129) पुण्यभागीयम् इति. पुण्यस्य भागः प्राप्तिर् इति पुण्यभागः. इष्टफलप्राप्तिर् ( अभिध्-क्-व्य् 439 ) इत्य् अर्थः. तस्मै हितं पुण्यभागीयं. अत एवोक्तं यद् इष्टविपाकम् इति. तत्प्राप्त्यनुकूलम् इति. अथ वा त्रयो भागाः. पुण्यो भागः अपुण्यो भागः अनिंज्यो भागः. तस्मै हितं पुण्यभागीयं. अथ वा पुण्यं भजत इति पुण्यभाक्. पुण्यभाग् एव पुण्यभागीयं. स्वार्थे कप्रत्ययः. एवं मोक्षभागीयं. अथ वा संसारभागो मोक्षभागश् चेति द्वौ भागौ. [तिब्. 100ब्] तत्र यन् मोक्षभागाय हितं. तन् मोक्षभागीयं. मोक्षप्राप्तिर् वा मोक्षभागः. तस्मै हितं. तत्प्राप्त्यनुकूलम् इति मोक्षभागीयं. तस्य लक्षणं पश्चाद् वक्ष्यते. एवं निर्वेधभागीयम् अपि योज्यं. पश्चाद् व्याख्यास्याम इति.
तत उष्मगतोत्पत्तिर्
इत्य् अत्र. कर्माधिकारेणैषां कर्मस्वभावानां लक्षणम् उच्यते.
(इव्.130) यद् इदं लोक इत्यादि.
ससमुत्थानम्
इति. सचित्तचैतसिककलापं. येन तत् कायकर्मोत्थाप्यते. तत् कायकर्म ससमुत्थानं योगप्रवर्तितं. लिपिर् मुद्रा च. कारणे कार्योपचारात्. येन हि कायकर्मणा लिपिर् लिख्यते मुद्रा वा खन्यते. सा लिपिर् मुद्रा स शास्त्रे ऽभिप्रेते. न यथा लोके. ह्य् अक्षरचिह्नं पुस्तकादौ लिपिर् इष्यते. अक्षरानक्षरचिह्नं च मुद्रेति. गणना काव्यं च वाक्कर्म. योगप्रवर्तितं ससमुत्थानम् इति वर्तते. पंचस्कंधस्वभावानीति. लिपिमुद्रयोः कायकर्म रूपस्कंधः. गणनाकाव्ययोर् वाक्कर्म रूपस्कंधः. वेदनादयस् तूभयत्रापि समुत्थानभूताश् चत्वारः स्कंधा इति. पंचस्कंधस्वभावान्य् एतानि भवंति. यन् मनसा संकलनं धर्माणाम् इति. एकं द्वे त्रीणीत्य् एवमादि सा संख्या. [तिब्. 101अ] यत् तु वाचा न मनसा सा गणनेत्य् आभिधार्मिकाः. इयं च संख्या सपरिवारग्रहणाच् चतुस्कंधस्वभावा.
(इव्.131) लिप्यादिलक्षणनिर्देशानुषंगेण सावद्यादीनाम् अपि धर्माणां लक्षणनिर्देशोपन्यासः. धर्मस्कंधकविभाषायाम् एते पर्याया निदिष्टाः. तत्प्रत्यासन्नेयम् इति. इमे पर्याया उपन्यस्यंत इत्य् अपरः संबंधः. सहावद्येन क्लेशलक्षणेन वर्तंत इति
सावद्याः
क्लेशच्छादितत्वान्
निवृताः.
क्लेशा अपि हि संप्रयोगिणा क्लेशांतरेण निवृताः. निष्कृष्टत्वाद् आर्यैस् त्यक्तत्वाद् वा
हीनाः.
क्लिष्टास्
तु क्लेशयोगतो ऽवगंतव्याः.
शुभामलाः
कुशलानास्रवाः. ते
प्रणीताः.
शुद्धिप्रकर्षगतत्वात्. हीनप्रणीतेभ्यो ऽन्ये मध्या इति सिद्धम् इति. क्लिष्टा एव हीनाः. शुभामला एव च प्रणीता इत्य् अवधारणाद् अतो ऽन्ये न हीनाः. न प्रणीता इति मध्याः सिद्धाः.
संस्कृतशुभाः
सेव्या
इति. अविशेषेण सास्रवा अनास्रवा वा सेवितव्याः. पर्युपासितव्याः. संतानाध्या रोपणतः. शेषा असेवितव्या इति. के शेषा. असंस्कृताश् च. ये च न कुशलाः. क्लिष्टा [तिब्. 101ब्] निवृताव्याकृता इत्य् अर्थः. अनभ्यसनीयत्वाद् इति. पौनःपुन्येन कर्तुम् अशक्यत्वाद् इत्य् अर्थः. अनुत्पाद्यत्वाद् इत्य् अपरे. अफलत्वाच् चेति. संस्कृतस्य हि हेतुफले. नासंस्कृतस्य ते इति. सोत्तरा इति सातिशयाः. अकुशलाः निवृताव्याकृतैः सोत्तराः. निवृताव्याकृतानाम् अनिष्टविपाकाभावात्. निवृताव्याकृता अनिवृताव्याकृतैः संस्कृतैः सोत्तराः. तेषाम् अक्लिष्टत्वात्. ते ऽपि कुशलसास्रवैः सोत्तराः कुशलसास्रवाणाम् इष्टफलत्वात्. ते ऽप्य् अनास्रवैस् सोत्तराः. निह्क्लेशत्वात्. अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तराः. असंस्कृतानां नित्यत्वात्. असंस्कृताव् अप्य् आकाशप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ. प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात्.
मोक्षस् त्व् अनुत्तरः.
न हि निर्वाणाद् विशिष्टतमम् अस्ति. तथा ह्य् उक्तं ये केचिद् भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस् तेषां अग्र आख्यायत इति. प्रतिसंख्यानिरोधो हि नित्यत्वात् सर्वसंस्कृतेभ्य उत्कृष्टः. कुशलत्वाच् चासंस्कृताभ्याम् आकाशप्रतिसंख्यानिरोधाभ्याम् [तिब्. 102अ] उत्कृष्टतर इति.
आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां चतुर्थकोशस्थानं समाप्तं. 4.
व् (अनुशयनिर्देशो नाम पञ्चमं कोशस्थानम्)
(व्.1) कर्मजं लोकवैचित्र्यम्
इत्य् उक्तम् इति. चतुर्थस्यादाव् उक्तं. अतो ऽनेन संबंधेनानुशयोपन्यास इति संबन्धं दर्शयति. तानि च कर्माणि यथोक्तलक्षणप्रभेदानि अनुशयवशाद् उपचयं गच्छंति. विपाकनैयम्येनात्र उत्तिष्ठंते. विपाकदानाय नियतीभवंतीत्य् अर्थः. अंतरेण चानुशयान् विनानुशयैर् भवस्य जन्मनो ऽभिनिर्वर्तने उत्पादने न समर्थानि भवंति कुशलान्य् अकुशलानि वा कर्माणि. न ह्य् अर्हतः पौनर्भविकानि कर्माण्य् अनियतानि न संति. अनुशयाभावात् तु पुनर्भवाभिनिर्वर्तने न समर्थानि भवंति. अत एवैषाम् अनियतत्वं सिध्यति. ह्य् अर्थे चायं चः पठितव्यः. यस्माद् अंतरेणानुशयान् भवाभिनिर्वर्तने न समर्थानि भवंति. तस्माद् अनुशयवशाद् उपचयं गच्छंतीत्य् अभिप्रायः. अपरे पुनर् एतद् वाक्यद्वयम् एवं व्याचक्षते. तानि च कर्माण्य् अनुशयवशाद् उपचयं गच्छंति. यान्य् अकृतानि कर्माणि. तान्य् अनुशयवशात् पुनर्भवाभिनिर्वर्तन उपचीयंत इत्य् अर्थः. न ह्य् अर्हतां कर्माणि पुनर्भवाभिनिर्वर्तन उपचीयंते. अंतरेण चानुशयां भवाभिनिर्वर्तने न समर्थानि भवंतीति. यानि च कृतानि. तान्य् अप्य् अंतरेणानुशयां भवाभिनिर्वर्तने न शक्तानि भवंति. न ह्य् अर्हतां पृथग्जनावस्थायां कृतानि [तिब्. 102ब्] कुशलाकुशलानि पौनर्भविकान्य् अनियतानि कर्माणि न संति. अनुशयवैकल्यात् तु तानि भवाभिनिर्वर्तने न समर्थानि. इत्य् एवं पृथगर्थाभिधानात्. समुच्चये ऽयं चकार इति.
मूलं भवस्यानुशया
इति. पुनर्भवस्य कर्मभवस्य वा मूलम् अनुशयाः. तदुपचयसमुत्थानहेतुत्वाद् इत्य् अभिप्रायः. मूलं दृढीकरोतीति. प्राप्तिर् हि मूलं. ताम् अनुच्छेदार्थेन दृढीकरोतीत्य् अर्थः. संततिम् अवस्थापयतीति. परंपरया क्लेशप्रबंधं स्थापयतीत्य् अर्थः. क्षेत्रं आपादयतीति. आश्रयम् आत्मोत्पत्त्यनुकूलं ( अभिध्-क्-व्य् 442 ) करोतीत्य् अर्थः. निष्यन्दं निर्वर्तयतीति. स्वनिष्यन्दम् उपक्लेशं जनयति. तद्यथा राग आह्रीक्यौद्धत्यमत्सरान् जनयति. द्वेषः क्रोधेर्ष्ये इत्यादि. कर्मभवम् अभिनिर्हरतीति. कर्मैव भवः कर्मभवः. तं पुनर्भवाभिनिर्वृत्तये जनयतीत्य् अर्थः. इदम् अस्य
मूलं भवस्यानुशया
इत्य् अर्थसंदर्शनं. स्वसंभारं परिगृह्णातीति. स्वसंभारः क्लेशस्यायोनिशोमनस्कारः. तं परिगृह्णाति. तस्यानागतस्य हेतुभावेनावतिष्ठत इत्य् अर्थः. आलंबने संमोहयतीति. यथाभूतग्रहणात्. बुद्ध्युपघाताद् वा संमोहयतीति. विज्ञानस्रोतो नमयतीति. विज्ञानसंततिम् [तिब्. 103अ] आलंबने पुनर्भवे वा नमयति. यदि
मूलं भवस्येति
पुनर्भवग्रहणम् इदम् अस्योदाहरणं. कुशलपक्षाद् व्युत्क्रमयतीति. कुशलपक्षात् परिहापयति. बन्धनार्थं च स्फरति. बन्धनकार्यं व्याप्नोति तनोतीत्य् अर्थः. कथम् इत्य् आह. धात्वनतिक्रमणयोगेन धात्वनतिकमणप्रकारेणेत्य् अर्थः. तद् इदम् उक्तं भवति. यः क्लेशो यद्धातुकः स तं धातुं नातिक्रामयतीति. षोडशेत्य् अन्यः. एषु षट् प्रक्षिप्य. आश्रयदौष्ठुल्यं जनयत्य् अकर्मण्यतापादनात्. गुणान् द्वेट्ति तद्विरोधित्वात्. अपवादानाम् आस्पदीकरोति विद्वद्विगर्हितकायकर्मोत्थापनात्. सत्पथाद् उद्वर्तयति विपरीतदैशिकसंसेवाभिमुखीकरणात्. विविधानर्थबीजं रोपयति सर्वसंसारव्यसनानां तत्प्रभवत्वात्. आधिपत्यफलेन च लोकस्यानिष्टम् उपसंहरति तद्वेगेन बाह्यभावविकारापत्तेः. रागवशेनान्येषाम् अपीति. यत्र रागः. तत्रालंबने ऽन्ये प्रतिघादयो ऽप्य् अनुशेरते. प्रेमाद् द्वेषो जायते मानादयो ऽपीति सूत्रं. अत एव च रागानुशयनाभावाद् अनास्रवविसभागधात्वोः क्लेशा नानुशेरत इति. एतच् च पश्चात् प्रवेदयिष्याम इति. यद् धि वस्त्व् आत्मदृष्टितृष्णाभ्यां स्वीकृतं. तत्रान्ये ऽप्य् अनुशया अनुशयितुम् उतहंते. आर्द्र इव पटे रजांसि संस्थातुम् इत्य् एतत् ज्ञापयिष्यामः.
(व्.2) आहोस्वित् कामराग एवानुशय इति. वैभाषिकनयेन पर्यवस्थानम् एवानुशयः. वात्सीपुत्रीयनयेन प्राप्तिर् अनुशयः. सौत्रांतिकनयेन बीजम्. उत्तरनिःसरणम् इति. पश्चान्निःसरणम् इत्य् अर्थः. स्थामशः सुसमवहतं. ( अभिध्-क्-व्य् 443 ) बलशः सुष्ठु सम्यग् अवहतम् इत्य् अर्थः. सानुशयं प्रहीयत इति. इदम् अत्रोदाहरणं. [तिब्. 103ब्] इदम् अत्र विरुध्यते. सहयोगसमासे ह्य् अन्यत्वम् दृष्टं. तद्यथा सपुत्रो देवदत्त इति. तथा च सति सूत्रविरोधः. अभिधर्मविरोध इति. कामरागानुशयस् त्रिभिर् इन्द्रियैः संप्रयुक्तः. कतमैस् त्रिभिः. सुखसौमनस्योपेक्षेन्द्रियैः संप्रयुक्त इति. न हि विप्रयुक्तस्य प्राप्तिलक्षणस्य एभिर् इन्द्रियैः संप्रयोगो युज्यत इति शास्त्रविरोधः.
सानुश्यं सानुबन्धम् इत्य् अर्थाद् इति. कामरागस्यानुबन्धो ऽनुशयशब्देनोक्तः. अनुबंधः पुनः क्लेशांतरस्योत्पादानुकूल्येनवास्थानं. अनुवृत्तिर् वा अनुशयः. सानुशयं प्रहीयते. न पुनर् अनुवर्तते संक्लेश इत्य् अर्थः. औपचारिको वा सूत्रे ऽनुशयशब्दः उपचारे भव औपचारिकः. कुत्र्ऽ; औपचारिक इत्य् आह. प्राप्तौ. मुख्यवृत्त्या पर्यवस्थाने ऽनुशयशब्दो वर्तते. उपाचारेण तु प्राप्तौ. तस्यानुशयहेतुभावात्. तद्यथा दुःखवेदनाहेतुत्वात् अग्निर् दुःख इत्य् उच्यते. तद्वत्. लाक्षणिकस् त्व् अभिधर्मे ऽनुशयशब्दः. लक्षणे भवो लक्षणेन वा दीप्यति [तिब्. 104अ] लाक्षणिकः. लाक्षणिक इत्य् आह. क्लेश एवेति. आलंब्नसंप्रयोगतश् चानुशेरत इत्य् अनुशया इति. तस्मात् संप्रयुक्ता एवानुशयाः. अत्र चार्थे श्लोकम् उदाहरंति.
चित्तक्लेशकरत्वाद् आवरणत्वाच् छुभैर् विरुद्धत्वात्
कुशलस्य चोपलंभाद् अविप्रयुक्ता इहानुशया
इति. चित्तक्लेशकरत्वाद् इति. अस्य विवरणं. यस्माद् अनुशयैः क्लिष्टं चित्तं भवति. न विप्रयुक्तैः क्लिष्टं चित्तं भवति. आवरणत्वाद् इति. अस्य पदस्य विवरणं. अपूर्वं कुशलं नोत्पद्यत इति. सानुशये चित्ते कुशलम् अपूर्वं नोत्पद्यते. शुभैर् विरुद्धत्वाद् इति. अस्य पदस्य विवरणं. उत्पन्नाच् च परिहीयत इति. अनुशयाः शुभैर् विरुद्धाः. यस्माद् उत्पन्नात् कुशलात् परिहीयते. तस्मात् कुशलैर् विरुद्धा अनुशयाः. तस्मान् न विप्रयुक्ता इति. यस्माच् चेतस्य् अविद्यमानैस् तैर् यथोक्तक्लिष्टादि न संभवति. संप्रयुक्तैः पुनः सर्वम् एतद् युज्यत इति. अथ विप्रयुक्तैर् अप्य् एवं स्याद् इति. विप्रयुक्तैः क्लिष्टं चित्तं भवति. अपूर्वं कुशलं नोत्पद्यते. उत्पन्नाच् च परिहीयत इति. यद्य् एवं कुशलं न कदाचिद् अप्य् उपलभ्येत. तेषां विप्रयुक्तानां नित्यसंनिहितत्वात्. [तिब्. 104ब्] यस्मात् क्लिष्टावस्थायां कुशलावस्थायां अन्यस्यां वा ते विप्रयुक्ता वर्तंत इति उपलभ्येत च कुशलम्. अतः
कुशलस्य चोपलंभाद् अविप्रयुक्ता इहानुशया
इति स्थितम् एतत्.
आचार्य आह: तद् इदम् अज्ञापकं. यद् इदं वैभाषिकैर् उक्तं. चित्तक्लेशकरत्वाद् इत्यादि. यो हि विप्रयुक्तम् अनुशयम् इच्छतीति वात्सीपुत्रीयः. सर्वम् एतद् इति. चित्तक्लेशादि. क्लेशकृतम् एवेच्छतीति. पर्यवस्थानकृतम् एवेत्य् अर्थः. पर्यवस्थानं च न नित्यसंनिहितं भवतीति कुशलोपलंभसिद्धिः. कामरागस्यानुशय इति पक्षपरिग्रहे सानुशयं प्रहीयत इति नास्ति सूत्रविरोधः. किं तु विप्रयुक्तो ऽनुशय इति प्राप्नोति. अत आह. न चानुशयः संप्रयुक्तो न विप्रयुक्त इति. कथम् इत्य् आह. तस्याद्रव्यान्तरत्वाद् इति. शक्तिरूपस्य बीजस्य रागादिभ्यो ऽनर्थांतरत्वात्. आत्मभावस्याश्रयस्य. क्लेशजा पूर्वोत्पन्नक्लेशजनिता. क्लेशोत्पादनशक्तिः क्लेशोत्पादनाय [तिब्. 105अ] शक्तिः. यथानुभवज्ञानजा स्ंऋत्युत्पादनशक्तिर् न द्रव्यांतरभूता. तद्वत्. स्मृत्युत्पादनहेतुर् द्रव्यांतरभूतः कश्चिद् विप्रयुक्त इत्य् आशंक्य दृष्टान्तांतरम् उपन्यस्यति. यथा चांकुरादीनाम् इति विस्तरः. यथा चांकुरादीनां पूर्वोत्पन्ना शालिफलजा शालिफलांतरोत्पादनाय शक्तिर् न द्रव्यांतरभूता. तद्वत्. यस् त्व् इति. वात्सीपुत्रीयः. यदि क्लेशस्यानुशय इतीस्यते. यत् तर्हि सूत्र एव क्लेशो ऽनुशय उक्तः षट्षट्के सूत्रे. ऽस्य पुद्गलस्य भवति सुखायां वेदनायां रागानुशय इति. राग एवानुशयः. सुखवेदनावस्थायां हि रागः समुदाचरंन् एवम् उक्तः. न तु तस्य बीजम् इत्य् अभिप्रायः. भवतीति वचनान् नासौ तदैवानुशय इति. अनुशय एव रागस्यायम् उक्तः. न रागः. भवतीति वचनात्. तस्याम् अवस्थायाम् उत्पद्यमानस्य रागस्यानुशयो भवतीति. बीजम् उत्पद्यते. न तूत्पन्नम् इति. बीजप्रकृतावस्थात्र कथ्यत इत्य् अभिप्रायः. कदा तर्हि भवतीति. कदानुशयो ऽस्तीत्य् अर्थः. यदा प्रसुप्तो भवति. यदोपरतो भवतीत्य् अर्थः. हेतौ वा तदुपचार इति. हेतौ रागे अनुशयोपचारः. रागो हि रागानुशयस्य हेतुः. तथा हि [तिब्. 105ब्] रागजा रागोत्पादनशक्ती रागानुशय इत्य् उक्तम् इति. तद् इदम् उक्तं भवति. क्वचिद् अनुशयशब्देन बीजम् उच्यते. क्वचित् पर्यवस्थानम् इति.
समापत्तिरागो हि तेषां प्रायेणेति. आस्वादनासंप्रयुक्ते ध्याने प्रायेण तेषां रागः. विमानादिष्व् अपि तेषां रागो ऽस्तीत्य् अतः प्रायेणेति ग्रहणं. स चांतर्मुखप्रवृत्तः समाहितरूपत्वात्. तथा च सति मोक्षसंज्ञोपतिष्ठते. तद्विच्छन्दनार्थं भगवान् देशयामास कामरागो भवराग इत्य् एवमादि. ( अभिध्-क्-व्य् 445 ) भवे राग एषः. नैष मोक्षे. मोक्षे कुशलो धर्मच्छन्द इति. आत्मभाव एव तु भव इत्य् आचार्यमतं. समापत्तिं साश्रयाम् इति. समापात्तिं सात्मभावाम्. आस्वादयन्त आत्मभावम् एवास्वादयंति. न कामगुणान्. कामवीतरागत्वात्. अतः स रागो भवराग इत्य् उक्तो न कामराग इति दर्शयति.
(व्.3) अभिधर्म इति. न सूत्र इत्य् अभिप्रायः.
(व्.4, 5) सप्त समुदयदर्शनहेया इति. सत्कायदृष्टिः फलभूतान् पंचोपादानस्कन्धान् आलंबत इति दुःखदर्शनहेयैव. एवम् अंतग्राहदृष्टिः [तिब्. 106अ] तेषाम् एव स्कन्धानां शाश्वतोच्छेदांतग्रहणात्. शीलव्रतपरामर्शो ऽपि तान् एव स्कन्धां शुद्धितो मुक्तितो नैर्याणिकतश् चालंबत इति न समुदयदर्शनहेयः. एवं निरोधदर्शनहेया अपि योज्याः. अष्टौ मार्गदर्शनहेया इति. शीलव्रतपरामर्शम् अधिकं प्रक्षिप्य. मार्गेण शुध्यति. तम् अपास्यान्येन शीलव्रतेन शुद्धिं प्रत्येतीति विप्रतिपन्नत्वात्. मार्गदर्शनप्रहातव्यो भवति. यो हि क्लेशो यस्य सत्यस्यापवादाय प्रवृत्तः. स तस्मिन् दृष्टे प्रहीयते. सर्पभ्रांतिर् इव रज्जुदर्शनात्. सत्यानां दर्शनमात्रेण प्रहाणाद् इति. नाभ्यासेन प्रहाणाद् इत्य् अभिप्रायः. दृष्टसत्यस्य पश्चान् मार्गाभ्यासेन प्रहाणात्. किम् एते भावनाहेया इत्य् अधिकारः. तद् एवम् अभ्यासो भावना पुनःपुनरुत्पादनम् इत्य् अर्थः. सत्कायदृष्टिर् एकप्रकारेति. आत्मात्मीयाकारेण दुःखे विप्रतिपन्नत्वात् दुःखदर्शनहेयैव. एवम् अंतग्राहदृष्टिर् इति. असाव् अप्य् आत्माभिमतस्य वस्तुनः शाश्वतोच्छेदांतारोपाद् दुःख एव विप्रतिपन्नेति दुःखदर्शनहेयैव. मिथ्यादृष्टिश् चतुष्प्रकारेति. दुःखादिसत्यलक्षणापवादप्रवृत्तत्वात् सत्यचतुष्टये ऽपि विप्रतिपन्नेति. चतुःसत्यदर्शनहेया. एवं दृष्टिपरामर्शो ऽपि चतुष्प्रकार एव. स हि हीने ऽग्रदर्शनं. तत्र समुदयनिरोधमार्गप्रहेयालंबनः समुदयनिरोधमार्गदर्शनहेयः. शेषो दुःखदर्शनहेयः. एवं विचिकित्सा सर्वत्रसंशयाकारेति सर्वत्रविप्रतिपन्नत्वाच् चतुःसत्यदर्शनहेया. शीलव्रतपरामर्शो द्विष्प्रकार इति. ईश्वरादिष्व् अहेतुषु हेतुग्रहो नित्यात्मविपर्यासात् प्रवर्तत इति दुःखदर्शनहेयः. अमार्गे मार्गदर्शनं मार्गदर्शनहेयः.
कीदृशा एत इति. रागादयश् चत्वारः क्लेशाः. पर्यनुयुज्यंते हि रागप्रतिघमानाविद्या इत्य् अनंतराधिकृताः. ते चेमे दर्शनहेयाः. इमे भावनाहेया इति दुःपरिच्छेदाः. न तु सत्कायदृष्ट्यादयश् चित्यंते. ये हि दुःखसत्यविप्रतिपन्नाः. ते दुःखदर्शनहेया इति. एवं यावद् ये मार्गसत्यविप्रतिपन्नाः ते मार्गदर्शनहेया इति [तिब्. 106ब्] सुपरिच्छेदम् एतत्. तत्र ( अभिध्-क्-व्य् 446 ) य इति रागादयः. यस्य सत्यस्य दर्शनं यद्दर्शनम्. यद्दर्शनेन हेयाः. त आलंबनम् एषां. त इमे यद्दर्शनहेयालंबनाः. ते तद्दर्शनहेयाः. ते रागादयः. तस्य सत्यस्य दर्शनं तद्दर्शनं. तद्दर्शनेन हेयास् तद्दर्शनहेयाः. एतद् उक्तं भवति. ये रागादयो दुःखदर्शनहेयं यावन् मार्गदर्शनहेयं क्लेशम् आलंबंते. ते तद्दर्शनहेया इति. यदालंबना यद्दर्शनहेयालंबनाश् चेति वक्तव्यं. चतुरार्यसत्यालंबनो ऽप्य् अविद्यानुशयो भवतीति. न वक्तव्यं. एकशेषविधानसिद्धेः. यच् च सत्यं यद्दरशनहेयाश् च क्लेशा आलंबनम् एषां. त इमे यद्दर्शहेयालंबनाः. ते तद्दर्शनहेया इति. ननु च समुदयदर्शनप्रहातव्यः सर्वत्रगो ऽविद्यानुशयो दुःखनिरोधादिसत्यदर्शनहेयाद्यालंबनो ऽपि भवति. पंचनिकायालंबनत्वात्. ततश् चास्य दुःखनिरोधादिसत्यदर्शनहेयत्वप्रसंगः स्याद् इति. न दोषः. यद्य् अपि हि स पंचनिकायालंबनः समुदयरूपाकारतस् [तिब्. 107अ] तु तान् निकायान् आलंबते. तेन तथालंबनतः समुदयदर्शनप्रहातव्य एव स इति. एवं दुःखदर्शनप्रहातव्यो ऽपि संयोज्यः. एवं च सति ये ऽपि व्याचक्षते. ये यद्दर्शनहेयालंबना इति सर्व एव दर्शनहेया अधिक्रियंते न केवला रागादय इति. तेषाम् अपि व्याख्याने इमाव् एव चोद्यपरिहारौ वक्तव्यौ.
रूपारूप्यधात्वोर् दुःखाभावात् प्रतिघाभावः. दुःखायां हि वेदनायां प्रतिघो ऽनुशेते. सा चोपरि नास्तीति. द्वेषश् च रूक्षो वातव्याधिवत्. ते च सत्त्वाः शमथस्निग्धसंततय इति. विपाकाभावाच् च. अनिष्टो ह्य् अस्य विपाकः. तौ धातौ विगतानिष्टविपाकौ. आघातवस्त्वभावाच् च. न हि तत्र बाह्याः कुशक्षारकण्टकादयो नाध्यात्मिका तापापस्मारादयः संति. मैत्र्यादिकुशलमूलसंभूतत्वात् परिग्रहाभावाच् च. आकारप्रकारधातुभेदैर् इति. आकारभेदो दशानाम् अनुशयानां
आत्मात्मीयध्रुवोच्छेदनास्तिहीनग्रदृष्टय
इत्य् एवमादिकः. प्रकारभेदो दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्य इति. धातुभेदः कामावचरः. रूपावचरः. आरूप्यावचर इति. तत्र रागानुशयः प्रकारधातुभेदाभ्यां पंचदशविध इति. तस्य परस्परम् आकारभेदो नास्ति. सर्वो हि रागः सक्त्याकारः. तस्मान् नाकारभेदेन व्यवस्थाप्यते. प्रतिघानुशयः प्रकारभेदात् पंचविधः. न ( अभिध्-क्-व्य् 447 ) परस्परम् आकारभेदो ऽस्ति. सर्वस्य प्रतिघाकारत्वात्. धातुभेदो ऽपि नास्ति. रूपारूप्यधात्वोस् तदभावात्. मानानुशयः प्रकारधातुभेदाभ्यां पंचदशविधः. नाकारभेदो ऽस्ति. सर्वस्योन्नत्याकारत्वात्. तथा अविद्या पंचदशविधा. ताभ्याम् [तिब्. 107ब्] एव. नाकारभेदो ऽस्ति. सर्वस्या असंप्रख्यानाकारत्वात्. विचिकित्सा द्वादशविधा. ताभ्याम् एव. नाकारभेदः. सर्वस्याः संशयाकारत्वात्. दृष्ट्यनुशय आकारप्रकारधातुभेदैः षट्त्रिंशद्विधः. [एवम् एते षड् अनुशया इति विस्तरः.]
(व्.6) भवाग्रजाः क्षांतिवध्या
इति. क्षांतिवध्यग्रहणं भावनाहेयनिवृत्त्यर्थं. भवाग्रजग्रहणं तदन्यभूमिकविशेषणार्थं. न हि लौकिको ऽस्ति भवाग्रप्रतिपक्षभूतो भावनामार्ग इति. शेषासु भूमिष्व् इति. कामधातौ यावद् आकिंचन्यायतनभूमौ. यथायोगम् इति. कामधातौ धर्मज्ञानक्षांतिहेयाः. तत ऊर्ध्वम् अवशिष्टासु भूमिष्व् अन्वयज्ञानक्षांतिहेयाः. त एते आर्याणां दर्शनहेयास् त एव च पृथग्जनानां भावनाहेयाः. द्विविधो हि भावनामार्गः. लौकिको लोकोत्तरश् च. तथा हि शास्त्र उक्तं. भगवतः श्रावको दर्शनेन जहाति. पृथग्जनो भावनया जहातीति.
अक्षांतिवध्या भावनयैव त्व्
इति. अक्षांतिवध्यग्रहणं भावनाहेयोपसंग्रहार्थं. सर्वासु भूमिषु. कामधातौ यावद् भवाग्रे. ये रागप्रतिघमानाविद्यानुशया यथायोगं भवंति अक्षांतिवध्या ज्ञानवध्याः. [तिब्. 108अ] ते उभयेषाम् आर्याणां पृथग्जनानाम् च नित्यं भावनाहेया एव. लौकिकेन लोकोत्तरेण वा भावनामार्गेण. भवाग्रे तु लोकोत्तरेणैव. ऊर्ध्वभूमिकस्य लौकिकस्य मार्गस्याभावात्.
नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयंत इति. भावनाप्रहातव्या एव तेषां विष्कभ्यंते. दर्शनहेयास् तु सर्वास्व् अपि भूमिषु लोकोत्तरमार्गवध्या एव. तथा हि महाकर्मविभागसूत्रे. वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. इहानन्द एकत्यः प्राणातिपातात् प्रतिविरतो भवति. यावन् मिथ्यादृष्टेः. इहाचारतः प्रतिविरतः. कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातनरकेषूपपद्यते. तम् एवं यः पश्यति श्रमणो वा ब्राह्मणो वा बाह्यतीर्थिक ऋद्धिमान् दिव्यचक्षुः परचित्तवित्. तस्यैवं भवति. नास्ति कायसुचरितं नास्ति कायसुचरितस्य विपाकः. नास्ति वाङ्मनःसुचरितं. नास्ति वाङ्मनःसुचरितस्य विपाक ( अभिध्-क्-व्य् 448 ) इति विस्तरः. इयं मिथ्यादृष्टिः कामधात्वालंबना. तस्य कर्मणः कामावचरत्वात्. तत्रैव च नरकसंभवाद् इति. पूर्वांतकल्पकानां च शाश्वतवादिनां. [तिब्. 108ब्] ब्रह्मजालसूत्रे वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. पूर्वजन्मदर्शनानुसारेण य एवम् उत्पन्नदृष्टिकाः. ते पूर्वांतकल्पकाः. शाश्वतवादिनो बहवस् तत्रोक्ताः. तेषाम् उदाह्रणम् एकं दर्शयिष्यामः. इहैकत्यः श्रमणो वा ब्राह्मणो वारण्यगतो वा वृक्षमूल गतो वा शून्यागारगतो वा आतप्तान्वयात्. प्रहाणान्वयात्. भावनान्वयात्. बहुलीकारान्वयात् सम्यन्मनसिकारान्वयात्. तद्रूपं शांतं चेतःसमाधिं स्पृशति. यथा समाहिते चित्ते विंशतिं संवर्तविवर्तकल्पान् समनुस्मरति. तस्यैवं भवति. शाश्वतो ऽयम् आत्मा लोकश् चेति. तद् एवं सर्व एव एते पूर्वांतकल्पकाः शाश्वतवादिनः. अनया शाश्वतदृष्ट्यात्मानं लोकं चालंबमानाः कामधातुम् अप्य् आलंबंते. इत्य् एवं कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. तथा तस्मिन्न् एव ब्रह्मजालसूत्रे पूर्वांतकल्पकानां एकत्यशाश्वतिकानां वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. कथं. भवति भिक्षवः स समयो यद् अयं लोकः संवर्तते. संवर्तमाने लोके यद्भूयसा सत्त्वा आभास्वरे देवनिकाय उपपद्यंते. ते तत्र भवंति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वांगप्रत्यंगोपेताः शुभा वर्णस्थायिनः [तिब्. 109अ] स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाःब् प्रीत्याहारा दीर्घायुषा दीर्घम् अध्वानं तिष्ठंति. भवति भिक्षवः स समयो यद् अयं लोको विवर्तते. विवर्तमाने लोके आकाशे शून्यं ब्राह्मं विमानम् अभिनिर्वर्तते. अथान्यतरः सत्त्व आयुःक्षयात् पुण्यक्षयात् कर्मक्षयात् आभास्वराद् देवनिकायाच् च्युत्वा शून्ये ब्राह्मे विमान उपपद्यते. स तत्रैकाक्य् अद्वितीयो ऽनुपस्थायको दीर्घायुर् दीर्घम् अध्वानं तिष्ठति. अथ तस्य सत्त्वस्य दीर्घस्याध्वनो ऽत्ययात् तृष्णोत्पन्ना अरतिः संजाता. अहो बतान्ये ऽपि सत्त्वा इहोपपद्येरन् मम सभागतायां. एवं च तस्य सत्त्वस्य चेतःप्रणिधिः. अन्ये च सत्त्वा आयुःक्षयात् पुण्यक्षयात् कर्मक्षयात् आभास्वराद् देवनिकायाच् च्युत्वा तस्य सत्त्वस्य सभागतायाम् उपपन्नः. अथ तस्य सत्त्वस्यैतद् अभवत्. अहम् अस्म्य् एकाक्य् अद्वितीयो ऽनुपस्थायको दीर्घायुर् यावद् अन्ये ऽपि सत्त्वा इहोपपद्येरन् मम सभागतायाम्. एवं चेतःप्रणिधिः. इमे च सत्त्वा इहोपपन्ना मम सभागतायां. मयैते सत्त्वा निर्मिताः. अहम् एषां सत्त्वानाम् ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम् इति. तेषाम् अपि सत्त्वानाम् एवं भवति. इमं वयं ( अभिध्-क्-व्य् 449 ) सत्त्वम् अद्राक्ष्म एकाकिनम् अद्वितीयम् [तिब्. 109ब्] अनुपस्थायकं दीर्घायुषं दीर्घम् अध्वानं तिष्ठंतं. तस्यास्य सत्त्वस्य दीर्घस्याध्वनो ऽत्ययात् तृष्णोत्पन्ना अरतिः संजाता. अहो बतान्ये ऽपि सत्त्वा इहोपपद्येरन् मम सभागतायाम्. एवं चास्य सत्त्वस्य चेतसःप्रणिधिः. वयं चेहोपपन्ना अस्य सत्त्वस्य सभागतायाम्. अनेन वयं सत्त्वेन निर्मिताः. एषो ऽस्माकं सत्त्व ईश्वरो यावत् पितृभूतो भावानां. अथान्यतरः सत्त्व आयुःक्षयात् पुण्यक्षयात्. कर्मक्षयात् तस्मात् स्थानाच् च्युत्वा तेषाम् इत्थंत्वम् आगच्छति मनुष्याणां सभागतायां. स वृद्धेर् अन्वयाद् इन्द्रियाणां परिपाकात् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग एव श्रद्धया अगाराद् अनगारिकां प्रव्रज्यां प्रव्रजति. सो ऽरण्यगतो वा वृक्षमूलगतो वा विस्तरेण यावत् तद्रूपं शांतं चेतःसमाधिं स्पृशति. यथा समाहिते चित्ते पूर्वकम् आत्मभावं समनुस्मरति. तस्यैवं भवति. यो ऽसौ ब्रह्मा येन वयं निर्मिताः. स नित्यो ध्रुवः शाश्वतः अविपरिणामधर्मा. ये तु वयं तेन ब्रह्मणा निर्मिताः. ते वयं अनित्या अध्रुवा आशाश्वता विपरिणामधर्माण इति. तद् एवं कामधातुर् अपि तयांतग्राहदृष्ट्यालंबितो भवति. अतः कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. [तिब्. 110अ] तथा तत्रैव ब्रह्मजालसूत्रे अहेतुसमुत्पत्तिकानां पूर्वान्तकल्पानाम् इति प्रकृतं. वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. कथं. संति रूपधाताव् असंज्ञिसत्त्वा नाम देवाः. संज्ञोत्पादात् तेषां सत्त्वानां तस्मात् स्थानात् च्युतिर् भवति. अतो ऽन्यतमः सत्त्वस् तस्मात् स्थानाच् च्युत्वा इत्थंत्वम् आगच्छति मनुष्याणां सभागतायां. पूर्ववद् यावत् पूर्वकम् आत्मभावं समनुस्मरति. तस्यैवं भवति. अहेतुसमुत्पन्न आत्मा लोकश् च. तद् अनेनैवम् एव भवति. अहेतुसमुत्पन्न आत्मा लोकश् च. अहम् अस्मि पूर्वं नाभूवन् सो ऽस्म्य् एतर्हि संभूत इत्य् अहेतुसमुत्पन्न आत्मा लोकश् च. इत्य् एवम् आत्मानं लोकं चालंबमानास् तया मिथ्यादृष्ट्या कामधातुम् अप्य् आलम्बन्त इत्य् एतेषां कामधात्वालंबानां दृष्टीनां समुदाचार उक्तः. कथं च पुनर् एषाम् आत्मा लोकश् चाहेतुसमुत्पन्न इत्य् एवं मिथ्यादृष्टिर् भवति. पूर्वकृतं कुशलसास्रवम् अकुशलं वा न हेतुर् आत्मनो लोकस्येत्य् एवम् अपवदति. इति कामधातुवीतरागाणां तेषां रूपावचर्यस् ता दृष्टयो भविष्यंतीति वचनावकाशं मत्वाह. न च रूपावचराणां क्लेशानां कामधातुर् आलंबनं
वीतरागत्वाद् [तिब्. 110ब्] इति. नैताः कामावचर्यो दृष्टयः. मिथ्याज्ञानानि पुनर् एतानि. इति केचित् परिहरंति तद् एषां अयुक्तं. तद्दृष्टिरूपत्वात्.
परिहीणाः [कथं तर्हि वीतरागाणां कामालंबनदृष्टिसमुदाचार इत्य् आह. दृष्ट्युत्पादेत्यादि.] देवदत्त इवेति वैभाषिकाः. यथा देवदत्तो भगवतो ऽल्पोत्सुकविहारिताशयस्य भिक्षुसंघपरिकर्षणाय पापकेच्छासमुत्पादाद् ऋद्धेः परिहीणः. सूत्रे वचनात्. एवं हि सूत्रे पठ्यते. अथ देवदत्तस्य लाभसत्कारेणाभिभूतस्य इदम् एवंरूपं पापकम् इच्छागतं उत्पन्नम् अहो बत मे भगवान् भिक्षुसंघं प्रतिनिःसृजेत्. अहं भिक्षुसंघं परिकर्षयं भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्तः. सहचित्तोत्पादाद् देवदत्तस् तस्या ऋद्धेः परिहीण इति विस्तरः. एवं ते ऽपि दृष्ट्युत्पादसमकालं परिहीणा इति.
(व्.7) एतत्पूर्वको हि तेष्व् आत्मग्राह इति. नित्यपिण्डसंज्ञापूर्वकः.
सर्वैवेति. पंचप्रकारापि. सत्काय इति. पंचसूपादानस्कन्धेषु. सर्वैव हि विपरीतदृष्टिस्वभावप्रवृत्ता दृष्टिः मिथ्यादृष्टिः सत्कायदृष्ट्यादिका मिथ्योपनिध्यानात्. अन्यास् तु समारोपिका इति. कथम् उच्छेददृष्टिः समारोपिका. बाहुलिक एष निर्देषः. आर्यः प्रहीणत्वाद् इति. त्यक्तत्वात्. ओहाक् त्याग इत्य् एतस्य धातोर् ग्रहणात्. आदिशब्दलोपः कृत इति. दृष्ट्यादीनाम् उपादानस्कंधानां परत्वेन प्रधानत्वेनामर्शो दृष्टिपरामर्श इति. परशब्दप्रयोगेण चायम् अतिशयार्थो [तिब्. 111अ] लभ्यत इत्य् आचार्यसंघभद्रः. अहेतौ हेतुदृष्टिर् इति. दुःखदर्शनप्रहातव्य उच्यते. अमार्गे च मार्गदृष्टिर् इति. मार्गदर्शनप्रहातव्यः. शीलव्रतमात्रकम् इति. शीलव्रतम् अपि बौद्धानां मोक्षप्राप्तये भवति. न तु तन्मात्रकम् इत्य् अतस् तदन्येषां दृष्टिः. अत्रापि किल आदिशब्द इति. शीलव्रतादिपरामर्शः. शीलव्रतपरामर्शः. किं कारणं. शीलव्रतं हि रूपस्कंधसंगृहीतम्. अतो ऽन्यस्कन्धग्रहणार्थम् आदिशब्द इति.
(व्.8) कस्माद् अयं न समुदयदर्शनप्रहातव्य इति. हेतौ विप्रतिपन्नत्वाद् इत्य् अभिप्रायः. तत्कृतो ऽपि कारणाभिनिवेश इति. नित्यैकात्मकर्तृग्राहकृतो ऽपीत्य् अर्थः. तत एव प्रहीयत इति. दुःखदर्शनाद् एव प्रहीयते. यस् तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति. शीलव्रतेन वा शुद्धिम् इति. नायं तत्कृतः कारणाभिनिवेशः. कथं दुःखदर्शनात् प्रहीयते. तस्मात् समुदयदर्शनप्रहातव्यः एवायं भविष्यतीत्य् अभिप्रायाः. वैभाषिक आह. सो ऽपि दुःखदर्शनप्रहातव्य इति विस्तरः दुःखे विप्रतिपन्नत्वाद् इति वैभाषिकाः. कथं च पुनर् दुःखे विप्रतिपन्नः. [तिब्. 111ब्] तेन स्वर्गगमनाच् छुद्धिदर्शनाद् वा. अतिप्रसंग इति विस्तरेणाचार्यः. सर्वेषां सास्रवालंबनानां अदृष्टिस्वभावानां च दुःखादिदर्शनप्रहातव्यानां ( अभिध्-क्-व्य् 451 ) दुःखे विप्रतिपन्नत्वात्. सर्वं हि सास्रवं वस्तु दुःखम् इति दुःखदर्शनप्रहातव्यप्रसंगः. तथा च सति न कश्चित् समुदयादिदर्शनप्रहातव्यः स्यात्. इदं चापरं वक्तव्यं. कीदृशो वान्यः शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः स वक्तव्यः. यो ऽपि हि गोशीलादिना शुध्यति यावत् सुखदुःखव्यतिक्रमं चानुप्राप्नोतीति पश्यति. तस्याप्य् अयम् अकारणं कारणतः प्रत्येतीति दुःखदर्शनप्रहातव्यः शीलव्रतपरामर्श इति पठ्येत. वैभाषिक आह. यो मार्गदर्शनप्रहातव्यालंबन इति. यो मार्गदर्शनहेयान् अष्टौ मिथ्यादृष्ट्यादीन् आलंबते. स मार्गदर्शनप्रहातव्यः शीलवतपरामर्श इति. सो ऽपि हि नाम दुःखे विप्रतिपन्न इत्य् आचार्यः. मिथ्यादृष्ट्यादयो हि मार्गदर्शनप्रहातव्या अष्टाव् अनुशयः शीलव्रतपरामर्शस्यालम्बनं. ते च सास्रवत्वाद् दुःखसत्यसंगृहीताः. तत्र च स विप्रतिपन्न इति. दुःखदर्शनप्रहातव्य एव स्याद् [तिब्. 112अ] इत्य् अभिप्रायः. यस्य चेति विस्तरः. यस्य च पुद्गलस्य नास्ति मार्ग इति मार्गालंबना मिथ्यादृष्टिरस्ति विचिकित्सा वा. स पुद्गलो नास्ति मोक्षमार्ग इति पश्यन्. विचिकित्सन् वा. किम् अस्ति मार्गः. नास्तीति संदिह्यन्. कथं तया मिथ्यादृष्ट्या शुद्धिं प्रत्येष्यति प्रतिपत्स्यते एतया मिथ्यादृष्ट्या एतया वा विचिकित्सयेति. मिथ्यादृष्टिविचिकित्सायोगाद् एव हि तस्य शुद्धिप्रतिपत्तिर् नास्ति. अथान्यम् इति विस्तरः. अथान्यं सांख्यादिपरिकल्पितं मोक्षमार्गं परामृश्य गृहीत्वा. एष मोक्षमार्गो बौद्धीयो नास्तीत्य् आह. सो ऽपीति. तीर्थिकः. तेनैवान्येन सांख्यादिपरिकल्पितेन शुद्धिं प्रत्येति. न तया मिथ्यादृष्ट्येति कृत्वा. तस्याप्य् असौ शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यालंबनो न सिध्यति. किं तर्हि. सांख्यादिपरिकल्पितमार्गालंबन एवेति अयं चान्यो दोषः. यश् चापीति विस्तरः. यश् चापि मिथ्यादृष्टिकः समुदयनिरोधदर्शनप्रहातव्यया मिथ्यादृष्ट्या शुद्धिं प्रत्येति. स कस्मान् न तद्दर्शनहेयः. स शीलव्रतपरामर्शः कस्मान् न समुदयनिरोधदर्शनहेय इत्य् अर्थः. तस्मात् परीक्ष्य एषो ऽर्थ इति. यस्माद् अयं दुःखदर्शनप्रहातव्यः शीलव्रतपरामर्शो न संभवति. मार्गदर्शनप्रहातव्यश् च. अतिप्रसंगादिदोषात् [तिब्. 112ब्] तस्मात् परीक्ष्य एषो ऽर्थः. शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः मार्गदर्शनप्रहातव्यश् चेति. तद् इदम् आचार्येण संशयावद्यं कृतं. न स्वमतं दर्शितं.
अन्य आहुर् योगाचारमतिम् अपेक्ष्यैवं कृतं. योगाचारा ह्य् अष्टाविंशत्युत्तरं क्लेशशतं वर्णयंति. यथैव हि दुःखदर्शनप्रहातव्या इमे दशानुशया भवंति. सत्कायदृष्टिः. अंतग्राहदृष्टिः. मिथ्यादृष्टिः. दृष्टिपरामर्शः. ( अभिध्-क्-व्य् 452 ) शीलव्रतपरामर्शः. विचिकित्सा. रागः. प्रतिघः. मानः. अविद्या चेति. तथैवेमे दश समुदयदर्शनप्रहातव्याः. तथैव च दश निरोधदर्शनप्रहातव्याः. दश मार्गदर्शनप्रहातव्या इति. चत्वारिंशत् कामावचरा दर्शनहेया भवंति. भावनाहेयास् तु षट्. अकल्पिका सत्कायदृष्टिः. उच्छेददृष्टिः. सहजो रागः. प्रतिघः. मानः. अविद्या चेति. षट्चत्वारिंशत् कामवाचरा अनुशया भवंति. रूपावचरास् त्व् एकचत्वारिंशद् एत एव प्रतिघवर्ज्याः. यथा रूपावचराः. एवम् आरूप्यावचरा इति.
अत्र कश्चित् समाधिम् आह. यद् उक्तम् अतिप्रसंगः सर्वेषां सास्रवालंबनानां दुःखे विप्रतिपन्नत्वाद् इति. अत्र ब्रूमः नातिप्रसंगः. दुःखादिमुखेन विप्रतिपत्तेः. यद्य् अपि सास्रवालंबना [तिब्. 113अ] दुःखसत्यविप्रतिपन्नाः. तथापि तु केचिद् दुःखमुखेन विप्रतिपन्नाः. केचित् समुदयमुखेन. केचिन् निरोधविप्रतिपन्नविप्रतिपन्नाः. केचिन् मार्गविप्रतिपन्नविप्रतिपन्नाः. तत्र ये दुःखमुखेन दुःखे विप्रतिपन्नाः. ते दुःखदर्शनप्रहातव्याः. शीलव्रतपरामर्शश् च दुःखमुखेन दुःखे विप्रतिपन्नो नित्यात्मग्रहणात्. तस्माद् दुःखदर्शनप्रहातव्यः. यस् तु मार्गविप्रतिपन्नविप्रतिपन्नः. तद्यथा सांख्यनिर्ग्रंथादयः स्वपरिकल्पितं मार्गं गृहीत्वा नास्ति बौद्धानां मोक्षमार्ग इति मिथ्यादृष्टिम् उत्पादयंति. तां च मिथ्यादृष्टिं शीलव्रतपरामर्शो ऽग्रतः पश्यति. अयम् एषां शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः. मार्गविप्रतिपन्नविप्रतिपन्नत्वात्. नास्ति तु स शीलव्रतपरामर्शः यः समुदयमुखेन विप्रतिपद्येत. नापि यो निरोधमुखेन विप्रतिपन्नविप्रतिपन्नः स्यात्. तस्माद् दुःखमार्गदर्शनप्रहातव्य एव शीलव्रतपरामर्श इति. कथं पुनः समुदयनिरोधमुखेन न विप्रतिपद्यते. अत्राचार्यसंघभद्र आह. [तिब्. 113ब्] शूलव्रतपरामर्शः समुदयनिरोधदर्शनप्रहातव्यः. तच्छरीरानुपपत्तेः. अकारणे हि कारणभिनिवेशः. अमार्गे च मार्गाभिनिवेशेः. शीलव्रतपरामर्शशरीरं. समुदयापवादिकायां मिथ्यादृष्ट्यां शुद्ध्यभिनिवेशे नन्व् आकस्मिकाज् जन्मदर्शनम् अस्य स्यात्. क्वचिद् अपि कारणबुद्ध्यभावात्. दुःखसमुदययोर् हि द्रव्यतो ऽव्यतिरेकात्. ईश्वरादिस्कन्धा अपि तेनापोदिताः स्युः. निरोधापवादिकायां तु मिथ्यादृष्टौ शुद्धिप्रत्यागमनान् निरोधोपायकल्पनैव न संभवति. कथं नास्ति निरोध इति तद्दर्शनपृष्ठेन तदुपायकल्पना व्यर्था भवेत्. एवं च शीलव्रतपरामर्शशरीरानुपपत्तिः. मार्गदर्शनप्रहातव्यो ऽपि शीलव्रतपरामर्श एवं न संभवेत्. नास्ति ( अभिध्-क्-व्य् 453 ) मार्ग इति दर्शनपृष्ठेन मार्गपरिकल्पनानुपपत्तेः. यस्य हि मार्गालंबना मिथ्यादृष्टिर् विचिकित्सा वास्ति. स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यतीति. उपपद्यत एवस्यार्यमार्गापवादिकायां मिथ्यादृष्ट्यां शुद्ध्यभिनिवेशः. न्यायतस् तत्ग्रहणात्. अन्या हि तेन मोक्षमार्गो हृदि निवेशितो भवति. यतो ऽस्य सद्भूतमार्गापवादिकायां मिथ्यादृष्टौ न्यायबुद्धिर् उत्पद्यते. एष न्यायो यद् अन्यो मोक्षमार्गो नास्ति. यच् च स्यान् न वेत्य् अन्यं मोक्षमार्गं विचिकित्सतीति. न्यायतो हि शुद्ध्युपायग्रहणम् उपपद्यते. यश् चासाव् अन्यो मोक्षमार्गस् तेन हृदि निवेशितः. [तिब्. 114अ] स नैव तस्य मार्गदर्शनहेयस्य शीलव्रतपरामर्शस्य विषयः. स्वनैकायिकमात्रालंबनतवात्. अथ मतं निरोधदर्शनहेयो ऽपि प्रयुज्यते. तत्कल्पनासामर्थ्यात्. अन्यद् धि तेन मोक्षस्थानं हृदि निवेशितं भवति. यतो ऽस्य सद्भूतमोक्षापवादिकायां मिथ्यादृष्टौ न्यायतो ग्रहणं. अतः समानम् एतद् इति. तन् न. नित्यशांतग्रहणसामान्येन तदपवादे शुद्ध्यभिनिवेशानुपपत्तेः. द्रव्याद्रव्यसंप्रतिपत्तिभेदे हि कश्चिन् मोक्षोपायम् अन्वेषते. ध्रुवं तस्यास्ति मोक्ष इति निश्चयः. यस्य चास्ति मोक्षनिश्चयो ध्रुवं. तस्य तत्र नित्यशांतग्रहणम्. अन्यथा तत्र प्रार्थनानुपपत्तेः. तत्र यथेहधार्मिकाणां निवाणे द्रव्याद्रव्यसंप्रतिपत्तिभेदो ऽपि नित्यशांतग्रहणसामान्यात् तदपवादे दोषो दर्शनम् एव. येनपि किंचिन् मोक्षस्थानं हृदि निवेशितं स्यात्. तस्यापि नित्यशांतग्रहणसामान्यान् मोक्षापवादे न्यायग्रहणम् उपपद्यते. भिन्ना हि शीलव्रतादयः स्वभावतश् चाकारतश् चार्यमार्गात्. नास्ति तु नित्यशांतग्रहणभेद इति. नास्ति कल्पनासामान्यं. अतो मार्गदर्शनप्रहातव्य एव शीलव्रतपरामर्शः संभवति. न निरोधदर्शनप्रहातव्य इति. इह [तिब्. 114ब्] सीलव्रतपरामर्शो द्विप्रकार इष्यते आभिधर्मिकैः. तत्र कीदृशः शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यो व्यवस्थाप्यते. कीदृओ मार्गदर्शनप्रहातव्यः. यो ऽपिहि गोशीलादिना शुद्भिं प्रत्येति. सो ऽप्य् अमार्गे मार्गं पशतीति. यः शीलव्रतादिदुःखालंबनः शीलव्रतपरामर्शः. स दुःखदर्शनप्रहातव्यः. यो मार्गविप्रतिपत्त्यालंबनः. स मार्गदर्शनप्रहातव्यः. यः शीलव्रताद्यालंबनः. स न मार्गविप्रतिपत्तिः. तथा न बाधते. यथा मार्गविप्रतिपत्त्यालंबनः. यस्माच् छीलव्रताद्यालंबन औदारिकः. न दूरगतः न दृढाशयः अल्पयत्नघात्यः. तद्विपर्ययान् मार्गविप्रतिपत्त्यालंबन
इति.
(व्.9) दृष्टित्रयाद् विपर्यासचतुष्कम्
इति. दृष्टित्रयस्वभावा विपर्यासा इति दर्शयति. सत्कायदृष्टेर् आत्मदृष्टिर् आत्मविपर्यास ( अभिध्-क्-व्य् 454 ) इति. नात्मीयदृष्टिर् इत्य् अभिप्रायः.
सकलेत्य् अपर इति. सकला सत्कायदृष्टिः आत्मदृष्टिर् आत्मीयदृष्टिश् चात्मविपर्यास इत्य् अर्थः.
वैभाषिक आह. कथम् आत्मीयदृष्टिर् विपर्यास इति. न ह्य् आत्मीयविपर्यास इत्य् उच्यते. कथं च न भवितव्यम् इति परः. विपर्याससूत्राद् इति वैभाषिकः. [तिब्. 115अ] अनात्मनि आत्मेति विपर्यास इति सूत्रवचनात्. न पुनर् आत्मीय इति. अस्त्य् एवं सूत्रनिर्देशः. न पुनर् असाव् आत्मदृष्टेर् अर्थांतरभूता. कथं कृत्वा. आत्मानम् एव तत्र पंचोपादानस्कंधेषु वाशिनं पश्यन्न् आत्मीयं पश्यतीति. न केवलम् आत्मानं पश्यत्य् आत्मीयम् अपि पश्यतीत्य् अर्थः. आत्मदृष्टिर् एवासौ द्विमुखीति. आत्मात्मीयमुखी एका द्रव्यतो ऽस्तीति अहंकारममकारमुखद्वयवतीत्य् अर्थः. अथाहम् इत्य् एतस्मात् प्रथमनिर्दिष्टान् ममेति षाष्ठीनिर्दिष्टं दृष्ट्यंतरं स्यात्. मया मह्यम् इत्य् एतद् अपि स्यात्. दृष्ट्यंतरम् इति प्रकृतं. मयेति तृतीयानिर्देशान् मह्यम् इत्य् च चतुर्थीनिर्देशात्. अनिष्टं चैतत्. तस्मात् सकलेति सिद्धं.
कस्माद् अन्ये क्लेशा न विपर्यासा इति. सत्कायदृष्ट्यंतग्राहदृष्टिपरामर्शेभ्यो ऽन्ये उच्छेदमिथ्यादृष्टिशीलव्रतपरामर्शरागादयः. त्रिभिः कारणैर् इति.
विपरीतनितीरणसमारोपैर्
विपर्यासानां व्यवस्थानं. यत्रैतानि समस्तानि कारणानि संति. ते विपर्यासाः स्थापिताः. यत्र तु न समस्तानि. ते न विपर्यासा इत्य् उक्तं भवति. तन्मात्रशुद्ध्यालंबनाद् [तिब्. 115ब्] इति. यस्माच् छीलव्रतमात्रेण शुद्धिर् इत्य् आलंबते नितीरयति. तस्मान् नैकान्तविपर्यस्तः शीलव्रतपरामर्शः. न हि शीलव्रतं शुद्धिकारणं न भवति. केवलं तु न भवतीति. कथम् अस्य समारोपकत्वं. तन्मात्रेण शुद्धिकारणभावसमारोपात्. यद्य् असंतीरको न विपर्यासः यत् तर्हि सूत्र उक्तं. तत् कथं. न हि संज्ञा संतीरिका नापि चित्तं.
द्वादश विपर्यासा इति. चतुर्षु विपर्यासेषु प्रत्येकं संज्ञाचित्तदृष्टिविपर्यासा इति. कथम् इत्य् उच्यते. अनित्ये नित्यम् इति विस्तरः एवं यावद् अनात्मन्य् आत्मेति. दुःखे सुखम् इति संज्ञादृष्टचित्तविपर्यासास् त्रयः. अशुचौ शुचीत्य् एत एव त्रयः. यावद् अनात्मन्य् आत्मेति एत एव त्रय इति. तत्राष्टौ दर्शनप्रहातव्या इति. अनित्ये नित्यम् इति संज्ञाचित्तदृष्टिविपर्यासास् त्रयः. अनात्मन्य् आत्मेति पुनस् त्रयः. दुःखे सुखम् इति दृष्टिविपर्यासः. अशुचौ शुचीति दृष्टिविपर्यास इति. चत्वारो भावनाप्रहातव्याः. कतम इत्य् आह. दःखे च ( अभिध्-क्-व्य् 455 ) संज्ञाचित्तविपर्यासाव् अशुचौ चेति. दुःखे सुखम् इति संज्ञाचित्तविपर्यासौ द्वौ. अशुचौ शुचीति संज्ञाचित्तविपर्यासाव् अपरौ द्वाव् इति चत्वारः. अवीतरागस्यार्यस्येति. [तिब्. 116अ] स्रोतआपन्नस्य सकृदागामिनश् च.
तद्विपर्यासाव् अपीति. सत्त्वसंज्ञासमुदाचारात् सत्त्वचित्तसमुदाचाराच् च. तद्विपर्यासाव् अपि किं नेष्येते. सत्त्वालंबनसंज्ञाचित्तविपर्यासाव् अपि किं नेष्येते. आत्मविपर्यासाव् अपि किं नेष्येते इत्य् अभिप्रायः. किं कारणम् इत्य् आहुः. न हि स्त्रियाम् आत्मनि च विना सत्त्वसांज्ञया कामरागो युक्त इति. तस्माद् एताव् अप्य् अनात्मन्य् आत्मेति संज्ञाचित्तविपर्यासौ भावनाप्रहातव्याव् इति प्राप्तं. विस्तर इति वचनाद् एवं नेयं. दुःखे सुखम् इति अशुचौ शुचीति यावद् अनात्मन्य् आत्मेति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासः प्रहीयत इति. तास्माद् दृष्टिसमुत्थे एव दृष्टिसंप्रयुक्ते एव संज्ञाचित्ते विपर्यासौ नान्ये. नादृष्टिसंप्रयुक्ते इत्य् अर्थः. एतद् उक्तं भवति. अस्त्य् असौ संज्ञाचित्तविभ्रमः. न तु विपर्यासः. यस्माद् असौ दृष्टिसमुत्थो न भवति. कस्माद् इत्य् आह. तत्कालभ्रांतिमात्रत्वाद् इति. स्त्रीदर्शनकाले भ्रांतिमात्रत्वाद् इत्य् अभिप्रायः. यस्मात् तत्कालम् एव दर्शनकालम् एवार्याणां भ्रांतिः. तथा मिथ्याज्ञानं भवति. अलातचक्रचित्रयक्षभ्रांतिवत्. [तिब्. 116ब्] यथा अलात आशु भ्रम्यमाणे तत्कालमात्रं चक्रम् इति भ्रांतिर् उत्पद्यते. न पश्चात्. चित्रलिखितं च यक्षं दृष्ट्वा तत्कालं भ्रांतिर् उत्पद्यते यक्ष इति. तद्वत्. आर्यस्यात्र परिध्यानान् मुहूर्तं सुखशुचिभ्रांतिः सत्त्वभ्रांतिर् वा. न त्व् असौ विपर्यासः. उक्तं हि भगवता धन्धाः खलु भिक्षवः श्रुतवत आर्यश्रावकस्य स्मृतिसंप्रमोषा उत्पद्यंते. अथ च पुनः क्षिप्रम् एवास्तं परिक्षयं पर्यादानं गच्छंतीति.
यद्य् असौ संज्ञाचित्तभ्रमो न विपर्यासो यत् तर्हि स्थविरानन्देनेति विस्तरः. आर्येण वागीशेन स्थविरानन्द उक्तः.
कामरागाभिभूतत्वाच् चित्तं मे परिदह्यते.
अंग मे गौतम ब्रूहि शांतित्वम् अनुकम्पयेति.
आर्यानन्दस् तं प्रत्याह.
विपर्यासेन संज्ञानां चित्तं ते परिदह्यते
निमित्तं वर्ज्यतां तस्माच् छुभं रागोपसंहितम्
इति. स हि स्रोतआपन्नः. तस्य चानया गाथया विपर्यासास्तित्वं परिदीपितम् इति. तस्माद् इति विस्तरः. यस्मान् निकायांतरीयमतं वैभाषिकैर् आगमेन विरुध्यते. वैभाषिकमतं च निकायांतरीयैः. तस्मात् सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः ( अभिध्-क्-व्य् 456 ) शैक्षस्याप्रहीणा इत्य् अपरे. केचित् तृतीयपाक्षिकाः. सूत्रविरोधं च परिहरंति. कतरस्य सूत्रस्य. यद् इदं वैभाषिकैः सूत्रम् [तिब्. 117अ] आनीतं. यश् च श्रुतवान् आर्यश्रावक इति विस्तरेण यावत् प्रहीयत इति. ते ऽपि चार्यसत्यानाम् इति विस्तरः. ते ऽपि चाष्टौ संज्ञाचित्तविपर्यासा आर्यसत्यानां दुःखादीनां यथाभूतज्ञानात् प्रहीयंते. न विना तेन यथाभूतज्ञानेन. इत्य् उपायसमाख्यानाद् उपायप्रवर्तनान् नास्ति तस्य सूत्रस्य विरोधः. यद् इदम् उक्तम् इदं दुःखम् आर्यसत्यम् अयं दुःखसमुदयो ऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति. तन् न दर्शनमार्गम् एवाधिकृत्य. किं तर्हि. भावनामार्गम् अपीति. भावनामार्गो ऽपि ह्य् अनास्रवश् चतुरार्यसत्यालंबन एवेति.
(व्.10) प्रवृत्तिभेदाद् इति. आकारभेदाद् इत्य् अर्थः. अप्राप्ते विशेषाधिगम इति. समाधिसंनिश्रिताः सास्रवाश् चानास्रवाश् च धर्मा विशेषास् तस्याधिगमः साक्षात्करणं विशेषाधिगमः. तस्मिन्न् अप्राप्ते असंमुखीकृते. स विशेषाधिगमः प्राप्तो मयेत्य् अभिमानः. अगुणवतो गुणवान् अहम् इति. अगुणान्वितस्य गुणवान् अहम् अस्मीति विपरीतविषयो मानो मिथ्यामानः. मिथ्यामानाभिमानयोः कः प्रतिविशेषः. [तिब्. 117ब्] प्रतिलब्धविशेषाधिगमप्रतिरूपकगुणस्याभिप्राय इति सवस्तुको ऽभिमानः. मिथ्यामानस् तु निर्गुणस्य सतो गुणवान् अहम् अस्मीति निर्वस्तुकः. मानविधा इति. मानप्रकाराः. सदृशो हीनो ऽस्तीति मानविधा सडृशो ऽस्मीति मानविधा हीनो ऽस्मीति मानविधेति वक्तव्यं. दृष्टिसंनिश्रितास् त्रय इति. पृथग्जनम् अधिकृत्य दृष्टिसंनिश्रिता इत्य् उच्यंते. आत्मदृष्टिः पूर्वम् अहम् इति. पश्चाद् अनंतरम् इमे मानाः. अतिमानमानोनमाना यथाक्रमं एते भवंति. कथं श्रेयान् अहम् अस्मीति मानविधा दृष्टिसंनिश्रितो ऽतिमानः. ऽसदृशो ऽस्मीति मानविधा दृष्टिसंनिश्रितो मानः हीनो ऽस्मीति मानविधा दृष्टिसंनिश्रित ऊनमानः. द्वितीयं त्रयम् एतत्प्रातिलौम्येन यथाक्रमं नेयं. अस्ति मे श्रेयान् अस्ति मे सदृशः अस्ति मे हीन इति दृष्टिसंनिश्रिता ऊनमानमानातिमानाः. तृतीयं नास्ति मे श्रेयान् नास्ति मे सदृशो नास्ति मे हीन इति. यथाक्रमं दृष्टिसंनिश्रिता मानातिमानोनमानाः. प्राकरणं तु निर्देशं परिगृह्येति. प्रकरणपादनिर्देशः. को ऽसौ. यो ऽसौ पूर्वम् उक्तः. हीनाद् विशिष्टो ऽस्मि [तिब्. 118अ] समेन वेत्यादिनिर्देशः. श्रेयान् अस्मीति मानो ऽपि स्यात् हीनापेक्षया. हीनाद् विशिष्टो ऽस्मि समेन वेति मानलक्षणनिर्देशात्. अतिमानो ऽप्य् अयं स्यात् समापेक्षया. समाद् विशिष्टो ऽस्मीत्य् अतिमानलक्षणनिर्देशात्. मानातिमानो ऽप्य् अयं स्यात् विसिष्टापेक्षया. विशिष्टाद् ( अभिध्-क्-व्य् 457 ) विशिष्टो ऽस्मीति मानातिमानलक्षणनिर्देशात्.
सर्व इति ग्रहणम् अस्मिमानो ऽपि भावनाप्रहातव्यः. न केवलं शेषाः. शेषा अपि दर्शनप्रहातव्याः. न केवलम् अस्मिमान इति प्रदर्शानार्थं. नावश्यम् इति. प्रहीणं न समुदाचरतीति नियमः. तथा हि श्रद्धादिमिद्धदुःखेन्द्रियचक्षुर् आदयः प्रहीणा अपि संउदाचरंति. दर्शनहेयानाम् अन्तर्मुखत्वात्. भावनाहेयालंबनैव रागद्वेषमोहैर् विज्ञप्तिर् उत्थाप्यत इति. भावनाहेयम् एव वधादिपर्यवस्थानं.
वधादिपर्यवस्थानम्
इति. आदिशब्देनादत्तादानकाममिथ्याचारमृषावादग्रहणं. तद् भावनाहेयं भावनाहेयधर्मालंबनत्वाद् इति. भावनाहेया वधादिकसत्त्वादयः एव धर्मा अस्यालंबनम् इति कृत्वा. सत्कायदृष्ट्यादयो ऽपि हि यद्य् अपि भावनाहेयान् धर्मान् आलंबंते न तु केवलं भावनाहेया इत्य् अतो न ते भावनाहेयाः. तत्र प्रार्थनेति. तत्र त्रैधातुक्याम् अनित्यतायां प्रार्थना. किं तत्रापि प्रार्थना भवति. [तिब्. 118अ] भवतीत्य् आह. यथोक्तं सूत्रे. यावद् अयम् आत्मा जीवति तिष्ठति ध्रियते यापयति. तावत् सरोगः सगण्डः सशल्यः सज्वरः सपरिदाहकः. यतश् चायम् आत्मा उच्छिद्यते विनश्यति न भवति. इयतायम् आत्मा सम्यक् समुच्छिन्नो भवतीति. भवतृष्णायाः प्रदेशो गृह्यत इति. अहो बताहम् ऐरावणो नागराजः स्याम् इत्य् एवमादिका भवतृष्णा न समुदाचरति. आदिशब्देन कुवेरः स्यां स्त्री स्याम् इत्य् एवमादिका गृह्यते. प्रादेशग्रहणाद् इन्द्रः स्याम् इत्य् एवमादिका समुदाचरतीति दर्शितं भवति.
(व्.11) मानविधा अपि भावनाप्रहातव्याः सन्तीत्य् उक्तम् इति.
दृग्भावनाक्षया
इति वचनात्.
न चार्यस्य संभवंति विधादयो
नास्मितेति.
पूर्वं भावनाहेयपरिग्रहणं कृतं.
दृग्भावनाक्षयाः
वधादिपर्यवस्थानं हेयं भावनया तथा
विभवेच्छा
इत्य् अनेन ग्रन्थेन. संप्रति तेषां विधादीनां आर्यस्यासमुदाचार उच्यते.
न चार्यस्य संभवंति विधादयो
नास्मितेति.
आदिग्रहणेन यावद् भवतृष्णाया ग्रहणम् इति. वधादिपर्यवस्थानस्य विभवतृष्णायाः प्रदेशस्य भवतृष्णायाश् च ग्रहणम् इत्य् अर्थः. न संभवंति न समुदाचरंति.
दृष्टिपुष्टत्वाद्
इति. तत्पूर्वकत्वेन तदुपबृंहितत्वात्. वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टं तदभ्यासेन कर्मफलापवादित्वात्. भग्नपृष्ठत्वात् तत्पोषकाभावेन भगन्पृष्ठत्वाद् [तिब्. 119अ] इत्य् अर्थः. कौकृत्यं भावनाप्रहातव्यं. भावनाहेयधर्मालंबनत्वात्.
(व्.12, 13) सर्वत्रगा
इति. सर्वत्र गच्छंतीति सर्वत्रगाः. पंचापि निकायान् आलंबंत इत्य् अर्थः. पंचानाम् अपि निकायानां हेतुभावेनावतिष्ठन्त इत्य् अपरे. वक्ष्यति हि एषां प्रभावेनान्यनैकायिका अपि क्लेशा उपजायंत इति. एकादशानुशया इति विस्तरः. सप्त दृष्टयो दुःखदर्शनप्रहातव्याः सत्कायदृष्ट्यादयः पंच. समुदयदर्शनप्रहातव्ये द्वे दृष्टी मिथ्यादृष्टिपरामर्शदृष्टी इति सप्त. द्वे विचिकित्से दुःखसमुदयदर्शनप्रहातव्ये. द्वे अविद्ये दुःखसमुदयदर्शनप्रहातव्ये एव. एकदेशतो न साकल्यतः. ये ह्य् अविद्ये एतत्सर्वत्रगसंप्रयुक्ते. आवेणिक्यौ च. ते एव सर्वत्रगे भवतो न रागादिसंप्रयुक्ते. इत्य् एवम् एकादशानुशयाः सर्वत्रगाः. नवानुशयाः साकल्यतः. द्वाव् एकदेशत इति कृत्वा. धातुभेदेन तु त्रयस्त्रिंशत्. आवेणिकीति को ऽर्थः. एवम् आहुः. संपर्को वेणिर् इत्य् उच्यते न वेणिर् अवेणिः. पृथग्भाव इत्य् अर्थः. एवं ह्य् उक्तम् अवेणिर् भगवान् अवेणिर् भिक्षुसंघ [तिब्. 119ब्] इति. पृथग् भगवान् पृथग् भिक्षुसंघ इत्य् अभिप्रायः. अवेण्या चरत्य् आवेणिकी. नान्यानुशयसहचारिणीत्य् अर्थः. सकलस्वधात्वालंबनत्वाद् इति. यस्माद् एते सकलं स्वधातुम् आलंबंते. तस्मात् सर्वत्रगा इत्य् उच्यंते. कः सकलेनेति विस्तरः. कः सकलेन कामधातुना शुद्धिं प्रत्येति. अकारणं वा कारणतः सकलं कामधातुं प्रत्येतीत्य् अधिकृतं. तस्माच् छीलव्रतपरामर्शो न सर्वत्रग इत्य् अभिप्रायः. नोच्यते सकलं निरवशेषम् अनेकं भेदभिन्नं स्वधातुं युगपद् आलंबंते. अपि तु पंचप्रकारम् अपि सर्वयुगपद् आलंबंते. दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् इति. प्रकारसर्वतायां सर्वशब्दो ऽयं द्रष्टव्य इत्य् एष वैभाषिकाणां परिहारः. यात्रात्मदृष्टिर् इति. पंचसूपादानस्कन्धेषु. तत्रात्मतृष्णा तेषाम् आत्माभिनिवेशवस्तुत्वात्. यत्राग्रशुद्धिदृष्टी. यत्र वस्तुनि पंचोपादानस्कंधलकषणे ऽग्रदृष्टिर् दृष्टिपरामर्शः. शुद्धिदृष्टिश् च शीलव्रतपरामर्शः. तत्र प्रार्थना तृष्णालक्षणा. तत्र तत्प्रार्थनेति केचित् पठंति. तत्र वस्तुनि तस्य ( अभिध्-क्-व्य् 459 ) पुद्गलस्य प्रार्थना तत्प्रार्थनेत्य् अर्थः. तेन च मान इति. तेन च वस्तुना मानः. तद्द्वारेणोन्नतिर् इत्य् अर्थः. एवं सतीति. एवं तृष्णामानयोः सर्वत्रगत्वे सति. [तिब्. 120अ] सत्कायदृष्ट्यादिवद् दर्शनभावनाहेयालंबनत्वात् एतद् उभयं तृष्णामानलक्षणं किं प्रहातव्यं केन प्रहातव्यं. किं दर्शनप्रहातव्यम् उताहो भावनयेति. ये यद्दर्शनहेयालंबनाः. ते तद्दर्शनहेया इति नियमं मनसिकृत्वा पृच्छति. अन्यथा हि सत्कायदृष्ट्यादिवद् एवैतद् उभयं दर्शनप्रहातव्यम् एव स्याद् इति किम् अत्र प्रष्टव्यं स्यात्. न हि सत्कायदृष्ट्यादयो न दर्शनभावनाहेयालंबनाः. न च ते न दर्शनहेया भवंतीति. अत्राचार्यः समाधिम् आह. भावनाप्रहातव्यं व्यामिश्रालंबनत्वाद् इति. यदि तृष्णामानौ दर्शनप्रहातव्यालंबनाव् एव स्यातां दर्शनप्रहातव्यौ. न तु एवम्. अतो व्यामिश्रालंबनत्वाद् भावनाप्रहातव्यौ. अवशिष्टा भावनहेया इति लक्षणनियमात्. अथ वेति. स एवाचार्यः परावृत्य पुनर् ब्रवीति. पुनर् अस्तु दर्शनप्रहातव्यम् इति. किम्. एतद् उभयम् इति वर्तते. कस्माद् इत्य् आह. दृष्टिबलाधानवर्तित्वाद् इति. दृष्टेर् बलाधानम् सामर्थ्यं. दृष्टिबलाधानेन वर्तितुं शीलम् अस्येति दृष्टिबलाधानवर्ति तदुभयं. तद्भावः. तस्मात्. तदुभयं [तिब्. 120ब्] दर्शनप्रहातव्यम् अस्त्व् इति. वैभाषिक इदानीं स्वपक्षं स्थापयति. स्वलक्षणक्लेशाव् एतौ न सामान्यक्लेशौ भवतः. तस्मान् न सर्वत्रगाव् इति. यत्रात्मदृष्टिः. तत्र तृष्णामानौ. न तु युगपत् सर्वस्मिन्. स्वलक्षणक्लेशत्वात्. एकदेशालंबनौ हि तौ. तस्मान् न सर्वत्रगौ. न चेत् सर्वत्रगौ. तेन यौ यद्दर्शनहेयालंबनौ. तौ तद्दर्शनहेयौ. परिशिष्टौ भावनाहेयाव् इति सिद्धं.
कदाचित् विसभागम् एदं धातुम् आलंबते. कदाचिद् द्वाव् इति. कदाचित् त्रीं धातून् इति नोक्तम् एतत्. कामधातुस्थास् तु कदाचिद् विसभागम् एकरूपधातुम् आरूप्यधातुण् वालंबंते. कदाचिद् रूपारूप्यौ द्वाव् इति.
आत्मात्मीयत्वेनाग्रहणाद् इति. यस्मात् तं ब्रह्माणं आत्मत्वेनात्मीयत्वेन न गृह्णाति. अतः सत्कायदृष्टिर् न भवति ब्रह्मणि सत्त्वदृष्टिः. यस्माच् चान्तग्राहदृष्टिः सत्कायदृष्टिसमुत्थिता. अतो नित्यदृष्टिर् अपि तस्मिन् ब्रह्मणि नांतग्राहदृष्टिर् इति. का तर्हीयं दृष्टिर् इति. येयं ब्रह्मणि सत्त्वदृष्टिः. नित्यदृष्टिश् च. नेयं दृष्टिः मिथ्याज्ञानं पुनर् एतद् इति. विपरीतालंबनत्वान् मिथ्याज्ञानम् एतत्. न हि सर्वा विपरीतालंबना प्रज्ञा दृष्टिर् इष्यते. अनात्मन्य् एवात्मेति विपरीता [तिब्. 121अ] प्रज्ञा सत्कायदृष्टिर् इष्यते. तत्समुत्थापिता ( अभिध्-क्-व्य् 460 ) च नित्यदृष्टिर् अंतग्राहदृष्टिः. नान्या. यैव ह्य् अहंकारस्य संनिश्रयीभवति. सैव सत्कायदृष्टिः. महाब्रह्मणि च सत्त्वदृष्टिर् अहम् इत्य् अहंकारस्य न संनिश्रयीभवति. तेनोक्तम् आत्मात्मीयत्वेनाग्रहणाद् इति.
प्राप्तिवर्ज्याः सहभुव
इति. वेदनादयः. प्राप्तयस् तु नैवम् अनेकफलत्वाद् इति. अनेकफलविपाकनिष्यन्दा हि प्राप्तयः प्राप्तिमतेत्य् उक्तं. अतो न सर्वत्रगधर्मप्राप्तयः सर्वत्रगा व्यवस्थाप्यंते. अत एवेति. यस्मात् सहभुवो ऽपि सर्वत्रगा अवस्थाप्यंते. तस्माच् चतुष्कोटिकं क्रियते. प्रथमा कोटिर् अनागताः सर्वत्रगा अनुशया इति. एते सर्वत्रगस्य स्वाभाव्यात्. न सर्वत्वगहेतुर् अनागतावस्थायां सर्वत्रगहेतोर् अनवस्थापनात्. द्वितीया अतीतप्रत्युत्पन्नास् तत्सहभुवः. सर्वत्रगसहभुवो ऽतीतप्रत्युत्पन्नत्वात् सर्वत्रगहेतुर् भवंति. न सर्वत्रगा अनुशयाः अननुशयस्वभावत्वात्. तृतीयचतुष्ठ्यौ योज्ये. तृतीयातीतप्रत्युत्पन्नाः सर्वत्रगा अनुशयाः. चतुर्थी तान् आकारान् स्थापयित्वा. तद्यथा अनागतास् तत्सहभुवः [तिब्. 121ब्] प्राप्त्यादयश् च.
(व्.14-16) षड् अनास्रवगोचरा
इति. षड् एवेत्य् अवधारणं. तस्मान् न रागादयो ऽनास्रवालंबना युज्यन्ते.
न रागस् तस्य वर्ज्यत्वान् न द्वेषो ऽनपकारत
इत्यादिवचनात्. अविद्या च ताभ्याम् इति. मिथ्यादृष्टिविचिकित्साभ्यां या संप्रयुक्ता. या चावेणिक्य् अविद्या. स एको ऽविद्यानुशय इति. त्रयो निरोधदर्शनप्रघातव्या अनास्रवालंबनाः. एवं मार्गदर्शनप्रहातव्या अप्य् एत एव त्रय इति षड् भूमौभूमौ भवंति. तद्गोचराणां विषय इति. तौ निरोधमार्गौ. गोचर एषाम् इति तद्गोचराः. तेषां. यथाक्रमं त्रयाणां.
स्वभूम्युपरमः
स्वभूमिनिरोधः
गोचर
आलंबनं.
मार्गस्
तु धर्मज्ञानपक्ष्यः षड्भूमिको ऽन्वयज्ञानपक्ष्यो नवभूमिको मार्गगोचराणाम् अपरेषां त्रयाणाम् अनुशयानाम् आलंबनं. कथं कृत्वा. निरोधालंबना एते त्रयानुशया नवभूमिका भवंति. कामावचरा यावद् भावाग्रिकाः. तेषां कामावचराणां कामावचरधर्मनिरोध एवालंबनं. प्रथमध्यानभूमिकानां प्रथमध्यानभूमिकधर्मनिरोध एवालंबनं. तेषां यावद् भवाग्रभूमिकानां भवाग्रभूमिकधर्मनिरोध ( अभिध्-क्-व्य् 461 ) एवालंबनं. मार्गस् तु धर्मज्ञानपक्ष्यः [तिब्. 122अ] षड्भूमिकः. अनागम्यध्यानांतरभूमिकश् चतुर्ध्यानभूमिकश् च. स सर्व एव कामावचराणां एषां त्रयाणाम् अनुशयानाम् आलंबनं. अन्वयज्ञानपक्ष्यः पुनर् नवभूमिकः. अनागम्यध्यानांतरचतुर्ध्यानाकाशविज्ञानाकिंचन्यायतनभूमिकः. स सर्व एव प्रथमध्यानभूमिकानाम् एषां त्रयाणाम् अनुशयानाम् आलंबनम्. एवं यावद् भवाग्रभूमिकानाम् इति. कस्मात् पुनः स्वभूमिनिरोध एव तद्गोचरालम्बनं. मार्गस् तु षड्भूमिको ऽपि नवभूमिको ऽपि वा तेषाम् आलंबनम् इत्य् अत्र हेतुं दर्शयति. मार्गो ह्य् अन्योन्यहेतुक इति. कथम् अन्योन्यहेतुकः. षड्भूमिको धर्मज्ञानपक्ष्यो मार्गो ऽधरभूमिकस्योर्ध्वभूमिकस्य वा समस्य विशिष्टस्य वा धर्मज्ञानपक्ष्यांतरस्यान्वयज्ञानपक्ष्यस्यापि च मार्गस्य हेतुर् भवति. सो ऽपि तस्यान्वयज्ञानपक्षो नवभूमिको योज्यः विस्तरेणैतद् व्याख्यातं
अन्योन्यं नवभूमिस् तु मार्गः समविशिष्टयोर्
इत्य् अत्र. तद् एवं कामावचरानां मार्गालंबनानाम् अनागम्यभूमिको धर्मज्ञानपक्ष्यो यावच् चतुर्थध्यानभूमिक आलंबनं. अन्वयज्ञानपक्ष्यो ऽपि मार्गो ऽनागम्यभूमिको यावद् आकिक्ंचन्यायतनभूमिकः प्रथमध्यानभूमिकानाम् एषां मार्गालंबनानाम् आलंबनम्. एवं यावद् भवाग्रभूमिकानाम् इति. यदि [तिब्. 122ब्] कामावचरा मार्गालंबना मिथ्यादृष्ट्यादयो रूपारूप्यप्रतिपक्षम् अपि निरोधमार्गाख्यं धर्मज्ञानम् आलम्बंते. सकलो ऽपि हि धर्मज्ञानपक्ष्यो ऽन्योन्यहेतुक इति. कस्मात् त एव मिथ्यादृष्ट्यादयो ऽन्वयज्ञानपक्ष्यम् अपि मार्गं नालंबंते धर्मज्ञानान्वयज्ञानयोर् अन्योन्यहेतुकत्वाद् इत्य् आह. यद्य् अपि धर्मज्ञानान्वयज्ञान इति विस्तरः. अन्वयज्ञानं न कामधातुप्रतिपक्ष इति. न ते तद् आलंबंते. धर्मज्ञानं तु कामधातुप्रतिपक्ष इति रूपारूप्यप्रतिपक्षम् अप्य् आलम्बते. धर्मज्ञानं तर्हीति विस्तरः.
धर्मज्ञानं निरोधे यन् मार्गे वा भावनापथे
त्रिधातुप्रतिपक्षस् तद्
इति सिद्धान्ताद् धर्मज्ञानं रूपारूप्यप्रतिपक्षः तद्भावात् तद्भूमिकानां रूपारूप्यभूमिकानां मिथ्यादृष्ट्यादीनाम् आलंबनं भविष्यति. न तत् सकलम् इति विस्तरः. न तद् धर्मज्ञानं सकलं प्रतिपक्षो रूपारूप्यधात्वोः. किं तर्हि किं कारणं. दुःखसमुदयधर्मज्ञानयोर् भावनामार्गसंगृहीतयोर् एतदप्रतिपक्षत्वात्. रूपारूप्यधात्वोर् अप्रतिपक्षत्वाद् इत्य् अर्थः. अतो न रूपारूप्यावचराणां मिथ्यादृष्ट्यादीनां तद्धर्मज्ञानम् ( अभिध्-क्-व्य् 462 ) आलंबनं. [तिब्. 123अ] किं च नापि सकलयोर् इति विस्तरः. नापि सकलयो रूपारूप्यधात्वोस् तद्धर्मज्ञानं प्रतिपक्षः. किं कारणं. दर्शनप्रहातव्यानाम् अप्रतिपक्षत्वात्.
धर्मज्ञानं निरोधे यन् मार्गे वा भावनापथ
इति वचनात्. अत्र निगमनं करोति इत्य् आद्याभावान् न भवत्य् आलंबनम् इति. दुःखसमुदयनिरोधमार्गाणाम् आद्ययोर् दुःखसमुदयधर्मज्ञानयोर् यथोक्तरूपारूप्यप्रतिपक्षत्वं प्रत्य् अभावात्. रूपारूप्यावचराणां दर्शनभावनाप्रहातव्यानां चाद्येषु दर्शनप्रहातव्येषु प्रतिपक्षत्वं प्रति तस्य धर्मज्ञानस्याभावात्. न तद्भूमिकानां मिथ्यादृष्ट्यादीनां मार्गालंबनानां रूपारूप्यभूमिकानां धर्मज्ञानम् आलंबनं भवति. तद् एव त्रैधातुकान् अष्टादशानास्रवालंबनान् अपास्य शेषा अशीतिर् अनुशयाः सास्रवालंबना इति स्थापितं.
न वर्ज्यनीयः स्याद् इति. न प्राप्तिच्छेदेन प्रहेयः स्याद् इत्य् अर्थः. यथा कुशलो धर्मच्छन्दो ऽभिलाषरूपः सम्यग्दृष्टिर् इति न प्राप्तिच्छेदेन प्रहेयः. तद्वद् अयं स्यात्. अतो नानास्रवालंबनः.
न द्वेषो ऽनपकारत
इति. नवाघातवस्तुलक्षणव्यतीतत्वान् निरोधमार्गयोर् नात्र द्वेषः. भूतार्थशुद्धित्वाद् [तिब्. 123ब्] इति. भूतार्थेन शुद्धिर् निरोधः. क्लेशमलप्रहीणत्वात्. मार्गो ऽपि परमार्थशुद्धिः परमार्थेन शुध्यत्य् अनयेति कृत्वा. यस् तयोः शुद्धिर् इति ग्राहो न शीलव्रतपरामर्श इति युज्यते व्यवस्थापयितुं. अग्रौ च ताव् इति. भूतार्थशुद्धित्वात् तौ निरोधमार्गौ अग्रौ. अपि च परामर्शौ यद्य् अनास्रवालंबनौ स्यातां सम्यग्दृष्टिलक्षणं भजेतां. शुद्धत्वाद् अग्रत्वाच् चानास्रवाणाम्. अतश् च न दर्शनहेयौ स्यातां अग्रौ हीने च वस्तुन्य् अग्र इति ग्राहो दृष्टिपरामर्शो युज्यते. न चैवं निरोधमार्गाव् इति. न तयोर् अग्रग्राहो दृष्टिपरामर्शो भवति.
(व्.17, 18) कत्य् आलंबनतो ऽनुशेरते. कति संप्रयोगत एवेति. कत्य् आलंबनत एवेति नावधारणेन पृच्छति. यस्माद् य आलंबनतो ऽनुशेरते. ते ऽवश्यं संप्रयोगतो ऽनुशेरते इति. ये तु संप्रयोगत एवानुशेरते. ते नालंबनतो ऽनास्रवविसभागभूम्यालंबना अनुशया इति.
आनुगुण्यर्थो ऽत्रानुशयार्थः. न तद्भूमिकाः प्रत्ययास् तदुपपत्तये आनुगुण्येन वर्तन्त इति. न च ते तदनुगुणा इति. न च ते निरोधादयः तेषां मिथ्यादृष्ट्यादीनां अनुगुणाः. वातिकस्य रूक्षाननुशयनवत्. यथा वातिकस्य रूक्षं नानुशेत इत्य् उक्ते न कायस्यानुगुण्येन वर्तत इति गम्यते. ( अभिध्-क्-व्य् 463 ) पूर्वस्मिंस् तु पक्षे प्रतिष्ठालाभार्थो न तेषु प्रतिष्ठां लभत इति वचनात्.
[तिब्. 124अ] येन धर्मेणेति. वेदनादिना.
(व्.19) तच् च तयोर् नास्तीति. तच् च दुःखं तयोः रूपारूप्यधात्वोर् नास्ति. कस्मात्. परव्याबाधहेत्वभावात्. परव्याबाधस्य हेतुर् व्यापादादिः. तस्याभावात्. एतद् अग्रं दृष्टिगतानाम् इति. एतद् विशिष्टं दृष्टिप्रकारेभ्यः. नातिसावद्यम् इत्य् अर्थः. मोक्षो मार्गोपनिषत् उच्छेदस् तु निर्हेतुको ऽभिप्रेत इति भ्रांतेः सावद्यम् उच्छेददर्शनम् इति विशेषः. स्वद्रव्यसंमूढत्वाद् इति. स्वसंततिपतितानाम् उपादानस्कंधानाम् आत्मात्मीयत्वेन ग्रहणात् स्वद्रव्यसंमूढा सत्कायदृष्टिः. तेषाम् एव शाश्वतोच्छेदान्तग्राहदृष्टिर् अपि तथैव. यथा च ते दृष्टी. तथा तत्संप्रयोगिन्य् अप्य् अविद्येति. अपरपीडाप्रवृत्तत्वाच् च. किम्. अव्याक्टे सत्कायांतग्राहदृष्टी इति प्रकृतं. ते हि न काचिद् अपि परपीडां कुरुतः. स्वर्गतृष्णास्मिमानयोर् अप्य् एष प्रसंग इति. स्वर्गतृष्णाया अस्मिमानस्य च दानादिभिर् अविरोधात् स्वद्रव्यसंमूढात्वाद् अपरपीडाप्रवृत्तत्वाच् चाव्याकृतत्वप्रसंगः. न चेष्यते. तस्मान् नैभिः कारणैर् अनयोर् अव्याकृतत्वम् इत्य् अनेनाभिप्रायेण पूर्वाचार्यमतम् [तिब्. 124ब्] उपन्यस्यति. सहजा सत्कायदृष्टिर् इत्यादि. विकल्पिता त्व् अकुशलेति. यात्मवादिभिः कपिलोलूकादिभिर् विकल्पिता. सा नाव्याकृता. किं तर्हि. अकुशलेति. अन्तग्राहदृष्टिर् अपि. या तैर् विकल्पिता. साप्य् अकुशला. तत्पूर्वकत्वात् तु सा तुल्यवार्त्तेत्य् अनुक्तापि गम्यत एव.
शेषास् त्व् इहाशुभा
इति. इहेति. कामावचरशेषाभिसंग्रहार्थं. कामधातौ सत्कायदृष्ट्यादिशेषाः क्लेशा अकुशला एवेत्य् अवधार्यते.
(व्.20) कत्य् अकुशलमूलानि कति नेति. एषाम् अष्टानवतेर् अनुशयानाम् इत्य् अनुवृत्तत्वेनैवं विवर्जनं क्रियते.
कामे ऽकुशल्मूलानि रागप्रतिघमूढय
इति. कामधातौ ये रागप्रतिघमोहाः. ते सर्व एव पंच प्रकारा अप्य् अकुशलमूलानि. कुशलमूलविपक्षेण व्यवस्थानात्. नान्ये ऽनुशया इति. मूढिर् इति मोहपर्यायः. सर्वो मोहः अन्यत्र सत्कायांतग्राहदृष्टिसंप्रयुक्तान् मोहाद् इति. कथम् इह न सूत्रितं लभ्यते.
अशुभा
इत्य् अधिकाराद् एकदेशनिर्देशात्. अत एवोच्यते. यद्य् अकुशलं चाकुशलस्यैव च मूलम् इष्टम् इति. एत एवेत्य् अवधारणाच् छेषा अनुशया मिथ्यादृष्ट्यादयो ( अभिध्-क्-व्य् 464 ) नाकुशलमूलानीति सिद्धं.
(व्.20च्द्, 21) त्रीण्य् अव्याकृतमूलानीति.
एषाम् एवाष्टानवतेर् अनुशयानां.
त्रीण्य् अव्याकृतमूलानीति.
[तिब्. 125अ] त्रिग्रहणं बहिर्देशकमताद् विशेषणार्थः. त्रीण्य् एव न चत्वारीति दर्शितं भवति. कतमानि त्रीणीत्य् आह.
तृष्णाविद्या मतिश् च सा.
सेति अव्याकृततां दर्शयतीति. अव्याकृतमूलानीति. अनेनाव्याकृतशब्देन केवलेन तृष्णाविद्यामतयो विशेषिता इति दर्शयति. अत्र च मतिर् अक्लेशस्वभावाप्य् अव्याकृतमूलम् इतीष्यते वैभाषिकैः. या काचिद् अव्याकृता तृष्णेति. आस्वादनासंप्रयुक्तेषु ध्यानारूप्येषूपपत्तिकाले वा विमानादिषु संभवतः. या काचिद् अविद्या रूपारूप्यधात्वोः कामधातौ च सत्कायांतग्राहदृष्टिसंप्रयोगिणीति. एवं प्रज्ञा च या काचिद् अव्याकृता. अंततो विपाकजापि. कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनिर्माणचित्तसंप्रयुक्ता सत्कायांतग्राहदृष्टिसंप्रयुक्ता च रूपारूप्यधात्वोः सर्वक्लेशसंप्रयुक्ता प्रज्ञा. विपाकजादिसंप्रयुक्ता च यथासंभवम् अव्याकृता प्रज्ञा. द्वैधवृत्तेर् इति. द्विधाभावो द्वैधं. द्वैधे वृत्तिः. तस्याः. न विचिकित्सा मूलं भवितुम् अर्हति. द्वैधवृत्तितश् चलत्वात्. उन्नतिलक्षणेनेति [तिब्. 125ब्]. उन्नतेर् लक्षणं. तेन. ऊर्ध्ववृत्तिर् भवति. तस्मान् न मानो मूलं भवितुम् अर्हति. मूलानि स्थिराण्य् अधोवृत्तीनि चेति. मूलवैधर्म्यान् न विचिकित्सा मूलम् अस्थिरत्वात्. न मानो ऽनधोवृत्तित्वाद् इति वक्तव्यं.
ते इत्य् अव्याकृताः. अव्याकृता तृष्णेति. रूपारूप्यधात्वोः. दृष्टिर् अपि तयोश् च कामधातौ च सत्कायांतग्राहदृष्टिस्वभावा. अविद्यापि कामधातौ तत्संप्रयोगिण्य् एव. रूपारूप्यधात्वोश् च सर्वा. तृष्णादृष्टिमानोत्तरध्यायिन इति. य आस्वादनासंप्रयुक्तध्यानध्यायी. स तृष्णोत्तरध्यायी. यो ध्याननिश्रयेण शाश्वतादिदृष्टिम् उत्पादयति. स दृष्ट्युत्तरध्यायी. मानोत्तरध्यायी च. यस् तेन मन्यते लाभ्य् अहम् अस्य ध्यानस्य नान्ये तथेति. स मानोत्तरध्यायी. तत्र तृष्णोत्तरं तृष्णोपरिकं. ध्यातुं शीलम् अस्येति तृष्णोत्तरध्यायी. अथ वा. तृष्णोत्तरश् च तृष्णाधिक इत्य् अर्थः. ध्यायी च तृष्णोत्तरध्यायी. एवं दृष्ट्युत्तरध्यायी च. मानोत्तरध्यायी च. ते चाविद्यावशाद् भवंतीति. ते च त्रयो ध्यायिनो ऽविद्यावशाद् अविद्यायोगात् तथा भवंति. अतो ऽविद्याप्य् अव्याकृतमूलम् [तिब्. 126अ] इति. समापत्तिसमापन्नानां च एताः क्लेशसमुदाचारावस्थाः अव्याकृतानां धर्माणां मूलं कारणम् इति.
(व्.22) अव्याकृतसंबन्धेन पर्यनुयुंक्ते. यानि सूत्रे चतुर्दशाव्याकृतवस्तूनीति विस्तरः. शाश्वतो लोकः. अशाश्वतो लोकः. इत्य् एवमादि. किं तान्य् अव्याकृतत्वाद् इति. किं तानि नैव कुशलानि नाकुशलानीत्य् अव्याकृतत्वात्. नाव्याकृतवस्तून्य् अपदिश्यंते. स्थापनीयप्रश्नो ऽव्याकृत इति. यः स्थापनीयत्वेन न व्याकृतो न कथितः. सो ऽव्याकृतः प्रश्नः. तस्य वस्त्व् अधिष्ठानम् इत्य् अव्याकृतवस्तु. तत्प्रसंगेनेदम् उपन्यस्यते. चतुर्विधो हि प्रश्न इति विस्तरः.
मरणोत्पत्तिविशिष्टात्मान्यतादिवद्
इति. मरणवद् उत्पत्तिवद् विशिष्टवद् आत्मान्यतादिवद् इति. यथासंख्यम् एकांशव्याकरणादिषूदाहरणानि. मरिष्यंतीति मरणोदाहरणम् एकांशव्याकरणे. सक्लेशा जनिष्यंते न निःक्लेशा इत्य् उत्पत्त्युदाहरणं विभज्यव्याकरणे. कान् अधिकृत्य प्रश्नयसीति विशिष्टतोदाहरणं परिपृच्छाव्याकरणे. किम् अन्यः स्कन्धेभ्यः सत्त्व इति [तिब्. 126ब्] आत्मान्यतोदाहरणं स्थापनीयव्याकरण इति. किं सर्वसत्त्वा मरिष्यंतीत्य् एकांशेन व्याकर्तव्यम् इति. यथोक्तं भगवता अल्पकं भिक्षवो मनुष्याणां जीवितं. गमनीयः सम्परायः. चरितव्यं कुशलं. नास्ति जातस्यामरणम् इति. किम् अन्यः स्कन्धेभ्यो सत्त्वो ऽनन्य इति स्थापनीय इति. यथोक्तं भगवता. किं तु भो गौतम स करोति स प्रतिसंवेदयते. अव्याकृतम् एतत् ब्राह्मण. अन्यः करोत्य् अन्यः प्रतिसंवेदयते. अव्याकृतम् एतद् ब्राह्मण. स करोति स प्रतिसंवेदयत इति पृष्टो ऽव्याकृतम् एतद् इति वदसि. अन्यः करोति अन्यः प्रतिसंवेदयत इति पृष्टो ऽव्याकृतम् एतद् इति वदसि. तत् को ऽत्र खल्व् अस्य भवतो गौतमस्य भाषितस्यार्थः. स करोति स प्रतिसंवेदयत इति ब्राह्मण शाश्वताय परैति. अन्यः करोति अन्यः प्रतिसंवेदयत इति उच्छेदाय परैति. एतावंताव् अनुगम्य तथागतो मध्यया प्रतिपदा धर्मं देशयतीति.
अपर आहेति भदंतरामः. इदम् अप्य् एकांशेन व्याकर्तव्यं. न सर्वे जनिष्यंत इति. न केवलम् इदम् एकांशेन व्याकर्तव्यं. सर्वे सत्त्वा मरिष्यंतीति यस् तु पृच्छेद् इति विस्तरेणाचार्यः. यस् तु पृच्छेद् अनेन प्रकारेण ये मरिष्यंति. किं ते जनिष्यंत इति. तस्य विभज्यव्याकरणं स्यात्. न सर्व जनिष्यंते. किं तर्हि. सक्लेशा जनिष्यंते. न निःक्लेशा [तिब्. 127अ] इति. तस्माद् यद् उक्तम् इदम् एकांशेन व्याकर्तव्यं न सर्वे जनिष्यंत इति. तन् नोपपद्यते. तेन युज्यत एव वैभाषिकोदाहरणम् इत्य् अभिप्रायः. स एव भदन्तराम आह. मनुष्येषु चोभयम् अस्ति. हीनत्वं विशिष्टत्वं च. एतद् उभयम् आपेक्षिकम् अस्तीत्य् उभयम् एकांशेन व्याकर्तव्यं तत्यथा किं ( अभिध्-क्-व्य् 466 ) विज्ञानं कार्यं कारणम् इति प्रश्न एकांशेन व्याक्रियते. हेतुफलापेक्षया कारणं कार्यं चेति. तत्र यद् उक्तं किं मनुष्यो हीनो विशिष्ट इति. परिपृच्छ्य व्याकर्तव्यं कान् अधिकृत्य प्रश्नयसीति. तद् अयुक्तं. यस्माद् अयम् एकांशेन व्याकरणीयः प्रश्न इति. एकांतेन तु पृच्छत इत्य् आचार्यो वैभाषिकपक्षं समर्थयति. एकांतेन तु पृच्छतः किं मनुष्यो हीन एव विशिष्ट एवेति. नैकांतव्याकरणाद् धीन इति वा विशिष्ट इति वा. विभज्यव्याकरणं युज्यते कान् अधिकृत्य प्रश्नयसीति. तत्र तद् उक्तं मनुष्येष्व् एवोभयम् अस्तीति विस्तरेण. तद् अयुक्तं. स एवाह. स्कंधेभ्यो ऽन्यः सत्त्व इति सर्वं. यस् तु स्थापनीय इत्य् आचार्यः वैभाषिकनयेनोक्तम् [तिब्. 127ब्] एतच् चतुर्विधस्योदाहरनं.
आभिधार्मिका आहूर् इति. षट्पादभिधर्ममात्रपाठिनः. दुःखप्रज्ञप्तिर् यावन् मार्गप्रज्ञप्तिर् इति. चतुर्णाम् आर्यसत्यानां प्रज्ञप्तिः यथासूत्रं. अर्थोपसंहितत्वाद् इति. अर्थप्रतिसंयुक्तत्वाद् इत्य् अर्थः. एतद् एव शठस्येति. एतद् एव विभज्यव्याकरणीयप्रश्नवचनं. शठस्य विहेठनाभिप्रायस्य प्रष्टुः परिपृच्छाव्याकरणं वेदितव्यं. भदन्तराम आह. यदा ताव् इति विस्तरः. यदा तौ शठाशठौ न किंचित् पृच्छतः. केवलम् अध्येषयतो धर्मान् वदेति. तयोश् च शठाशठयोर् न किंचिद् व्याक्रियते इमे धर्मा रूपादयः सविस्तरप्रभेदा इति. केवलं परिपृछ्येते कतमान् वदामीति. तद् कथम् अनयोः शथाशठयोः प्रश्नो भवति. कथं च व्याकरणम् आभिधार्मिकस्य. यो हीति विस्तरेणाचारः. यो हि पन्थानं ब्रूहीति तदनभिज्ञ आह. किं तेन पंथा न पृष्टो भवति. अध्येषणमुखेनैवास्य इत्य् अभिप्रायः. यथा हि पन्थानं ब्रूहीति ब्रुवतोक्तं भवति कतमः पन्था इति. एवं धर्मान् वदेति ब्रुवतोक्तं भवति कतमे धर्मा इति. परिपृच्छ्यैव च व्याकरणात् बहवो धर्माः कतमान् वदामीति परिपृच्छ्यैव तस्य प्रश्नस्य तेषां वा धर्माणां व्याकरणात्. धर्मबहुत्वं व्याकृतम् इति कृत्वा. कथं न परिपृच्छाव्याकरणम् इति. परिपृच्छ्यव्याकरणम् [तिब् 128अ] इत्य् अर्थः. तत्र यद् उक्तं तयोश् च न किंचित् व्याक्रियते केवलं परिपृछ्येते यावत् कथं च व्याकरणम् इति. तद् अयुक्तं.
आचार्य आह. सूत्रान्ताद् एवेति विस्तरः. एवं तु सूत्रे व्याकृतं. संस्कृतेन व्यवस्थाप्य पठ्यते. संचेतनीयं कर्म कृत्वा किं प्रतिसंवेदयते. किं सुखं दुःखम् अदुःखासुखम् इत्य् एवं पृष्टेन विभज्यव्याकरणीयः ( अभिध्-क्-व्य् 467 ) प्रश्नः. संचेतनीयस्य कुशलादिभेदात्. कुशलसास्रवं संचेतनीयं कर्म कृत्वा सुखम् अदुःखासुखं वा प्रतिसंवेदयते. अकुशलसंचेतनीयं कर्म कृत्वा दुःखं प्रतिसंवेदयत इति. सचेद् एवं वदेद् औदारिकम् इति रूपि. विस्तरः प्रभेदो न भवति यावद् अन्यो जीव इति. यावच्छब्देन सर्वं वक्तव्यं. न भवति तथागतः परं मरणाद्. भवति च न भवति च तथागतः परं मरणात्. नैव भवति न न भवति तथागतः परं मरणात्. स जीवस् तच् छरीरम्. अन्यो जीवो ऽन्यच् छरीरम् इति.
(व्.23, 24) स तेन तस्मिं संयुक्त इति. पुद्गलस् तेनानुशयेन बद्ध इति ज्ञायत एवेत्य् अर्थः. स्वलक्षनाक्लेशाश् [तिब्. 128ब्] चेति. स्वलक्षणं सुखवेदनीयादि वस्तु. तत्र रागः सुखवेदनीयम् एव वस्तु आलंब्योत्पद्यत इति. स्वलक्षणक्लेश इत्य् उच्यते. तेन सुखवेदनीयेन वस्तुनालंब्यमानेनोन्नतिर् भवतीति मानो ऽपि स्वलक्षणक्लेशः. तथा दुःखवेदनीयं वस्त्व् आलंब्य प्रतिघ उत्पद्यत इति प्रतिघो ऽपि स्वलक्षणक्लेश इत्य् उच्यते. सामान्यक्लेशाश् च. दृष्टिविचिकित्सादयः सामान्याः सामान्येन वा क्लेशाः सामान्यक्लेशाः. एते ह्य् अविशेषेण सुखवेदनीयादिके वस्तुन्य् उत्पद्यंत इति. अतस् तद् आलंब्य उत्पन्नाः सामान्यक्लेशा इत्य् उच्यंते.
अतीतप्रत्युपस्थितैर्
इति. अतीतवर्तमानैः. रागप्रतिघमाना यस्मिं वस्तुन्य् उत्पन्ना इति विस्तरः. एते रागादयः षड्विज्ञानकायिका अप्य् अविशेषाभिध्यानाद् यथायोगं यस्मिं वस्तुन्य् उत्पन्नास् त्रैयध्विके दुःखदर्शनप्रहातव्ये यावद् भावनाप्रहातव्ये. न च प्रहीणाः. तस्मिन् वस्तुनि तै रागादिभिः संयुक्तः. दाम्नेव बलीवर्दः कीलके. एते हि स्वलक्षणक्लेशत्वान् न सर्वस्य पुद्गलस्यावश्यं सर्वत्रोत्पद्यन्त इति. कस्यचित् कस्मिंश्चिद् उत्पद्यंत इत्य् अर्थः. अतो
यत्रोत्पन्नाप्रहीणास् त
इति तद्विशेषणं. अप्रहीणा इति विशेषणं. यस्माद् यै रागादिभिर् यस्मिन् वस्तुनि [तिब्. 129अ] संयुक्त आसीत्. यदि ते प्रहीणा भवेयुर् न तैः सर्वत्र संयुक्तः. प्रहीणेन निरनुशयविषयत्वात्.
सर्वत्रानागतैर् एभिर् मानसैर्
इति मानसग्रहणं.
स्वाध्विके परैर्
इति पंचविज्ञानकायिकानाम् अन्यथा व्यवस्थाप्यमानत्वात्. रागप्रतिघविशेषणं ( अभिध्-क्-व्य् 468 ) चैतत्. मानस्यावश्यं मानसत्वात्. एभिर् अनागतैः सर्वत्र त्रैयध्विके पंचनैकायिके ऽपि यथास्वं संयुक्तः. न हि तत् सास्रस्वं वस्तु. यत् स्वलक्षणक्लेशेनापि रागेण न सरागं. द्वेषेन च न सद्वेषं. मानेन च न समानं. सर्वसास्रववस्त्वालंबना हि यथास्वं अपरिमिता अनागता रागादयो भवंति. अन्यै रागप्रतिघैर् अनागतैर् अनागत एव वस्तुनि संयुक्त इति. सर्वे चित्तचैत्ता आलंबने नियता इति. तैर् उत्पत्तिधर्मिभिर् अनागत एव वस्तुनि संयुक्तः. वर्तमानविषयत्वात् पंचानां विज्ञानकायानां. रागप्रतिघैर् इति मानवचनं मानानां मानसत्वात्.
समानमिद्धा दृग्घेया मनोविज्ञानभूमिका
इति वचनात्. पंचविज्ञानकायिकैर् अपि न केवलं मानसैर् इत्य् अपिशब्दो द्योतयति. तैर् अनुत्पत्तिधर्मिभिः सर्वत्र वस्तुनि त्रैयध्विके संयुक्तः. एते ह्य् अनुत्पत्तिधर्मिणो ऽनागत एवाध्वनि व्यवतिष्ठंते. [तिब्. 129ब्] एषां चालंबनानि संचरंति. ससंप्रयोगा हि क्लेशाः सुवर्चलावद् अनुत्पत्तिधर्मिणो विषयाभिमुखा एवावतिष्ठंते. तथा ह्य् अनुत्पत्तिधर्मिणो नैवालंबनम् आलंब्योत्पद्यंत इति. अतः केषांचिद् आलंबनम् अतीतं. केषांचिद् वर्तमानं. केषांचिद् अनागतं भवति. न ह्य् आलंबनानुत्पत्तित एव तेषाम् अनुत्पत्तिः. किं तरि. प्रत्ययवैकल्यात्. अवस्थाफलं हि सामग्र्यं न द्रव्यफलम् इति सिद्धांतः.
शेषैस् तु सर्वैः सर्वत्र संयुत
इति. त्रैयध्विकैर् अपि दृष्ट्यादिभिर् अनेकनैकायिकैर् अपि त्रैयध्विके पंचप्रकारे ऽपि वस्तुनि संयुतः संयुक्त इत्य् अर्थः. किं कारणम् इत्य् आह. सामान्यक्लेशत्वाद् इति. एते हि सर्वस्य सर्वस्मिन् संभवंति. पंचोपादानस्कंधालंबनत्वात्.
(व्.25) कथं तत्र तेन च संयुक्त इति. कथम् अतीतानागते वस्तुनि. तेन चातीतानागतेनानुशयेन संयुक्त इति. विसंयुक्तो वा. कथं वा अप्रहीणप्रहीणावस्थायां व्यवस्थाप्यंते. संस्कृतलक्षणयोगाद् इति. यस्मात् संस्कृतलक्षणानि जात्यादीनि संस्काराणाम् अर्थसंचाराय प्रवर्तन्ते. अतस् तेषां अशाश्वतत्वं प्रतिज्ञायते. रूपं चेद् भिक्षव इत्य् अस्य सूत्रस्यायम् आदितः पाठः. रूपम् अनित्यम् अतीतानागतं. कः पुनर् वादः प्रत्युत्पन्नस्य. एवंदर्शी श्रुतवान् आर्यश्रावकः अतीते रूपे ऽनपेक्षो भवति. अनागतं रूपं नाभिनन्दति. प्रत्युत्पन्नस्य रूपस्य निर्विदे [तिब्. 130अ] विरागाय निरोधाय प्रतिपन्नो भवति. अतीतं चेद् भिक्षवो रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावको अतीते रूपे ऽनपेक्षो ऽभविष्यत्. यस्मात् तर्ह्य् अस्त्य् अतीतं रूपं. तस्माच् ( अभिध्-क्-व्य् 469 ) छ्रुतवान् आर्यश्रावको अतीतरूपे ऽनपेक्षो भवति. अनागतं चेद् रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावको ऽनागतं रूपं नाभ्यनन्दिष्यत्. यस्मात् तर्ह्य् अस्त्य् अनागतं रूपं. तस्माच् छ्रुतवान् आर्यश्रावको ऽनागतं रूपं नाभिनन्दति. प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यद् इति विस्तरः. न श्रुतवान् आर्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यद् इति. निर्विषयत्वाद् वैराग्यकाले ऽतीतविषयापेक्षार्यश्रावकस्यानपेक्षा मतिर् न स्याद् इत्य् अर्थः. यदातीतं रूपम् अपेक्ष्यते. तदा तत्रासक्तिर् इति. अभ्यनन्दिष्यद् इत्य् अभ्यलषिष्यत्. प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावकः प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो ऽभविष्यद् इत्य् एतन् नोक्तम् उभयपक्षप्रसिद्धत्वात्.
द्वयाद्
इति पूर्वं कण्ठत उक्तम् इति प्रदर्शितम्. इदानीम् अर्थतो न कण्ठत इति विशेषः. [तिब्. 130ब्] न द्वयं प्रतीत्य मनोविज्ञानं स्यात्. यद् अतीतानागतालंबनम् इति विशेषः. ततो विज्ञानम् एव न स्यात् आलंबनाभावाद् इति. विज्ञेये सति विज्ञानम् इति कृत्वा. साधनं चात्र. सदालंबनम् एव मनोविज्ञानम्. उपलब्धिस्वभावत्वात्. चक्षुर्विज्ञानवद् इति.
फलाद्
इति. विद्यमानस्वलक्षणं शुभाशुभम् अतीतं कर्म. विपक्तिकाल उत्पद्यमानफलत्वात्. वर्तमानधर्मवद् इति.
(व्.26) भावान्यथात्वं भवतीति. अतीतानागतप्रत्युत्पन्नस्य भावस्यान्यथात्वं भवतीत्य् अर्थः. न द्रव्यान्यथात्वं. न रूपादिस्वलक्षणस्यान्यथात्वम् इत्य् अर्थः. अनागतो हि वर्तमानम् अध्वानं प्रतिपद्यमानो ऽनागतभावं जहाति. वर्तमानभावं प्रतिलभते. वर्तमानो ऽप्य् अतीतं. सुवर्णं क्षीरं चेति दृष्टांतद्वयं यथाक्रमं आकृतिगुणान्यथात्वज्ञापनार्थं. लक्षणान्यथिकस्य लक्षणवृत्तिलाभापेक्षो व्यवहारः. अत एवाह. धर्मो ऽध्वसु प्रवर्तमानो ऽतीतो ऽतीतलक्षणयुक्तः. अनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्याम् अवियुक्त इति विस्तरः. यद्य् अनागतम् अतीतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्. एवं सति नानागतम् एवोत्पन्नम् अतीतम् वेति स्यात्. अथातीतम् अनागतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्. नानागतं वर्तमानं चातीतं स्यात्. वर्तमानम् अतीतानागताभ्यां वियुक्तं स्यात्. अनागतम् एव वर्तमानं वर्तमानम् एवातीतं स्यात् लब्धवृत्तिना हि लक्षणेन युक्तो व्यवस्थाप्यते. तदन्येनावियुक्तो न विरहित इत्य् अर्थः. अत एवोदाहरति. ( अभिध्-क्-व्य् 470 ) तद्यथा. पुरुष एकस्यां स्त्रियां रक्तः [तिब्. 131अ] शेषास्व् अविरक्त इति. एकस्यां स्त्रियाम् अस्य रागाध्यवसानं वर्तते. शेषासु स्त्रीषु रागप्राप्तिर् एवास्ति. न समुदाचार इति. अवस्थान्यथिकस्यावस्थापेक्षो व्यवहारः. यस्याम् अवस्थायां सो धर्मः कारित्रं न करोति. तस्याम् अनागत उच्यते. यस्यां करोति. तस्यां वर्तमानः. यस्यां कृत्वा निरुद्धः. तस्याम् अतीत इत्य् अवस्थां अवस्थां प्राप्य अन्यो ऽन्यो निर्दिश्यते. अनागतावस्थां प्राप्यानागतो यावद् अतीतावस्थां प्राप्यातीत इति. अवस्थान्तरतः. न द्रव्यांतरत इति अभिन्नलक्षणो ऽनागताद्यवस्थाप्राप्तो ऽनागतादिशब्दनिर्देशः केवलं भवतीत्य् अर्थः. अत एवोदाहरति. यथैका वर्तिकेति विस्तरः. यथैका गुलिका एकांके निक्षिप्ता एकस्थाने स्थापिता एकम् इत्य् उच्यते. एवं शतांके शतं. सहस्रांके सहस्रम् इत्य् उच्यते. अवस्थांतरापेक्षया. न पुनस् तस्याः स्वभावान्यथात्वं. किं तर्हि. स्थानांतरविशेषात् संख्याभिद्योतकं संज्ञांतरम् उत्पद्यत इति. पूर्वापरम् अपेक्ष्यान्योन्य उच्यत इति. पूर्वम् अपरं चापेक्ष्यतीतानागतवर्तमाना उच्यंत इत्य् अर्थः. पूर्वम् एवातीतं वर्तमानं वापेक्ष्यानागत [तिब्. 131ब्] इति. पूर्वं वातीतं अपरं वानागतम् अपेक्ष्य वर्तमान इति. अपरम् एव वर्तमानम् अनागतं वापेक्ष्यातीत इति. पूर्वापरापेक्षो ऽन्यथान्यथिकस्य व्यवहारः. अत एवोदाहरति. यथैका स्त्री माता वोच्यते दुहिता चेति. यथैका स्त्री दुहितरम् अपेक्ष मातेत्य् उच्यते. मातरम् अपेक्ष्य दुहिता चेति. पूर्वापरापेक्षया न द्रव्यांतरतः. सांख्यपक्षे निक्षेप्तव्य इति. यः सांख्यपक्षे प्रतिषेधः. स एव तत्पक्षस्य प्रतिषेधः. सांख्यपक्षः प्रतिषिद्ध इत्य् अभिप्रायः. द्वितीयस्यापि भदन्तघोषकस्यापि अध्वसंकरः प्राप्नोति. यो ऽतीताध्वाभिप्रेतः. स वर्तमानः अनागतो ऽपि प्राप्नोति. कथं कृत्वा. ऽतीते अतीतलक्षणयुक्तो भवन्न् अनागतवर्तमानलक्षणाभ्याम् अवियुक्तः. युक्त एवेत्य् अर्थः. अनागतो ऽप्य् अनागतलक्षणयुक्तः अतीतवर्तमानलक्षणाभ्याम् अवियुक्तः. वर्तमानो ऽपि वर्तमानलक्षणयुक्तो ऽतीतानागतलक्षणाभ्याम् अवियुक्त इति कृत्वा. एकैकस्य त्रिलक्षणयोगात् अतीतो ऽनागतो वर्तमानश् च प्राप्नोति. इत्य् एवम् अनागतवर्तमानाव् अपि योज्यौ. किम् अत्र साम्यम् इति. पुरुषस्य कस्यांचित् केवलं समन्वागमः. किम् एवं धर्मस्यैकं लक्षणं विद्यते. इत एव लक्षणे [तिब्. 132अ] न विद्येते. यत एवम् उदाह्रियत इति असाम्यं. चतुर्थस्यापि भदंतबुद्धदेवस्यापि एकस्मिन्न् एवाध्वनि त्रयो ऽध्वानः प्राप्नुवन्तीति. एकस्मिन्न् एवतीते ( अभिध्-क्-व्य् 471 ) ऽध्वनि पूर्वापरक्षणव्यवस्थास्ति. तत्र पूर्वपश्चिमौ क्षणाव् अतीतानागतौ. पूर्वः क्षणो ऽतीतः पश्चिमो ऽनागतः. मध्यमः प्रत्युत्पन्नः. इत्य् अतीते ऽध्वनि त्रयो ऽध्वानः प्राप्नुवंति. अत एषां सर्वेषां
तृतीयः शोभन
इति वैभाषिकः. कथं कृत्वा शोभन इत्य् आह. यस्मात् तस्य
अध्वानः कारित्रेण व्यवस्थिताः.
कारित्रं पुनः चक्षुरादीनां दर्शनादीनीति. रूपादीनाम् अपि स्वेन्द्रियगोचरत्वं कारित्रं. गद्य् एवम् इति विस्तअरः. यदि कारित्रेण व्यवस्थापिताः. तत्सभागस्य चक्षुषः किं कारित्रं. यद् धि कारित्रलक्षणं स्वकर्म न करोति तत् तत्सभागः. तस्य च नास्ति कारित्रं दर्शनलक्षणं. कथं तत् प्रत्युत्पन्नम् इत्य् अभिप्रायः. फलदानप्रतिग्रह इति. तच् चक्षुः स्वनिष्यन्दफलं परिगृह्णाति आक्षिपति. फलं च ददाति निष्यन्दफलम् अनंतरं ददाति. पुरुषकारफलं च. यद्य् अपि दर्शनकारित्रं न करोति. अन्यत् तु फलं करोतीति. तस्य फलदानपरिग्रहसद्भावात् तत् प्रत्युत्पन्नम् इति व्यवस्थाप्यते. [तिब्. 132ब्] अतीतानाम् अपि तर्हि सभागहेत्वादीनाम् इति. आदिशब्देन विपाकहेत्वादीनां परिग्रहणं. तेषां फलदानात्.
वर्तमानाभ्यतीतौ द्वाव् एको ऽतीतः प्रयच्छति
इति वचनात्. कारित्रप्रसंगः. कारित्रम् अस्तीति. ततश् चैषां सभागहेत्वादीनां अतीतानां वर्तमानत्वप्रसंगः. वर्तमानवत् कारित्रसद्भावाद् इति लक्षणसंकरः. ब्रूयास् त्वं येषां फलपरिग्रहः फलदानं चोभयम् अस्ति. ते वर्तमानाः. येषां त्व् एकतरं. न ते वर्तमाना इति. तत इदम् उच्यते. अर्धकारित्रस्य वेति. प्रसंग इत्य् अधिकृतं. अर्धकारित्रस्य वा प्रसंगः. अर्धवर्तमाना इति वा ते ऽतीताः प्रसज्यंते. उपरतफलपरिग्रहकारित्रत्वाद् धि ते ऽतीतलक्षणयुक्ताः. वर्तमानफलदानकारित्रत्वाच् च वर्तमानलक्षणयुक्ता इति. स एव लक्षणसंकरदोषः. एतद् ध्य् अतीतादीनाम् अध्वनां लक्षणम् इष्टं. उपरतकारित्रम् अतीतम् अप्राप्तकारित्रम् अनागतं प्राप्तानुपरतकारित्रं वर्तमानम् इति.
(व्.27) किं विघ्नम्
इति. नपुंसकलिंगम् एतच्छब्दरूपं. को विबन्ध इत्य् अर्थः. को विघ्नो ऽस्येति किं विघ्नं कारित्रम् इत्य् अपरे. प्रत्ययानाम् असामग्र्यम् इति चेत्. तत्रैतत् स्यात्. प्रत्ययानां हेतुसमनंतरादीनाम् असामग्र्यम्. अतो न सर्वदा कारित्रं करोतीति. न. नित्यम् अस्तित्वाभ्युपगमात्. [तिब्. 133अ] न प्रत्ययानाम् असामग्र्यं कल्पयितुं युज्यते. यस्माद् इह भवद्भिर् नित्यं प्रत्ययानाम् ( अभिध्-क्-व्य् 472 ) अस्तित्वम् अभ्युपगम्यते. सताम् अविनाशात्. यच् च तत् कारित्रम् अतीतम् इति विस्तरः. यच् च कारित्रम् अतीतम् उच्यते अनागतं प्रत्युत्पन्नम् इति चोच्यते सिद्धांते उपरतकारित्रम् अतीतम् इत्य् एवमादिवचनात्. किं कारित्रस्याप्य् अन्यत् कारित्रम् अस्ति. यतस् तस्यातीतादित्वं कथ्यते. यद्य् अस्त्य् अनवस्थाप्रसंगः. न चेद् अस्ति अथानागतादित्वं कारित्रस्य स्वरूपसत्तापेक्षया एवं भावानाम् अप्य् अनागतादित्वं भविष्यति. किं कारित्रकल्पनया. कथं तद् अतीतम् इत्यादि. अथ तन् नैवातीतम् इति विस्तरः. यन् नैवातीतं नाप्य् अनागतं न प्रत्युत्पन्नं तद् असंस्कृतम् इत्य् असंस्कृतत्वान् नित्यम् अस्तीति प्राप्तं. कारित्रम् इत्य् अधिकृतं. ततः किम् इत्य् आह. अतो न वक्तव्यं. यदा कारित्रं न करोति धर्मस् तदानागत इति. कारित्रस्य कर्तुम् अशक्यत्वप्राप्तेः. स्याद् एष दोष इति विस्तरः. स्याद् एष दोषः कारित्रस्यान्यत् कारित्रम् इत्य् अतिप्रसंगो ऽसंस्कृतत्वप्रसंगो वा यदि धर्मात् कारित्रम् अन्यत् स्यात्. तत् तु खलु नान्यद् इति. नैष दोषः. तेनैवात्मनेति. यः प्रत्युत्पन्नस्य स्वभावः. तेनेत्य् अर्थः. किम् अस्य पूर्वं नासीद् इत्य् अनागतावस्थायां. यदि कारित्रम् अनन्यत्वाद् धर्म एव नासीद् इत्य् उक्तं भवत्. किं च पश्चान् नास्तीत्य् अतीतावस्थायां. यदि कारित्रं [तिब्. 133ब्] धर्म एव नास्तीत्य् उक्तं भवेत्. धर्मकारित्रयोर् अनन्यत्वात्. यद्य् अभूत्वा भवतीति नेष्यते प्रत्युत्पन्नो न सिध्यति. भूत्वा च पुनर् न भवतीति यदि नेष्यते अतीतो ऽध्वा न सिध्यति. अनागतस् तु यो न तावद् अभूत्वा भवतीत्य् अर्थाद् गम्यते एवम् अध्वत्रयं सिध्यत्य् अतो ऽन्यथा न सिध्यतीत्य् वाक्यार्थः. उत्पादविनाशयोर् अयोगाद् इति. सर्वकालास्तित्वाद् उत्पादविनाशयोर् अयोगः. तस्माद् वाङ्मात्रम् एतत् संस्कृतलक्षणयोगान् न शाश्वतत्वप्रसंग इति. अपूर्वैषा वाचो युक्तिर् इति. पूर्वापरविरुद्धैषा वाचो युक्तिर् इत्य् अर्थः. सर्वदा चास्त्य् उत्पादविनाशाभ्यां च युज्यत इति.
स्वभावः सर्वदा चास्तीति.
यद् रूपादेः स्वलक्षणं. तत् सर्वस्मिन् काले विद्यत इतीष्यते. यदि रूपादेः स्वभावः सर्वदास्ति तेन रूपादिभावो नित्यः प्राप्नोति. अत आह.
भावो नित्यश् च नेष्यते.
एवं सति तस्मात् स्वभावाद् भावो नूनम् अन्य इति. अत आह.
न च स्वभावाद् भावो ऽन्य
इति. तद् इदमिच्छामात्रत्वात्
व्यक्तम् ईश्वरचेष्टितं.
नात्र युक्तिर् अस्ति. अतीतं तु यद् भूतपूर्वम् इति. न स्वलक्षणेनास्तीति दर्शयति. ( अभिध्-क्-व्य् 473 ) अनागतं यत् सति हेतौ भविष्यतीति. अविद्यमानम् [तिब्. 134अ] अपि हेतुसद्भावाद् व्यवस्थाप्यत इति दर्शयति. एवं हि कृत्वास्तीत्य् उच्यत इति. भूतपूर्वं भविष्यति चेति कृत्वा. न तु पुनर् द्रव्यत एवं भवति. हेतुफलापवाददृष्टिप्रतिषेधार्थम् इति. हेत्वपवाददृष्टिप्रतिषेधार्थम् अस्त्य् अतीतम् इत्य् उक्तं. फलापवाददृष्टिप्रतिषेधार्थम् अस्त्य् अनागतम् इति. आसीद् अतीतं भविष्यत्य् अनागतम् इति वक्तव्ये ऽस्तीति वचनम् अस्तिशब्दस्य निपातत्वात्. त्रिकालविषयो हि निपातः. आसीदर्थे भविष्यदर्थे ऽपि वर्तते. यथास्ति दीपस्येति विस्तरः. यथास्ति दीपस्य प्राग् अभावो ऽस्ति पश्चाद् अभाव इति वक्तारो भवंति. न च द्रव्यतो ऽस्ति. यथा चास्ति निरुद्धः. स प्रदीपो न तु मया निरोधित इति वक्तारो भवंति. न चास्तिप्रयोगान् निरुद्धो ऽप्य् असाव् अस्तीति. ननु च वैधाषिकस्य निरुद्धो ऽप्य् असाव् अस्तीति. सत्यम् अस्ति. न तु प्रदीपरूपताम् एव भिभ्राणः सो ऽस्ति. एवम् अतीतानागतम् अस्तीत्य् उक्तं असत्य् अपि द्रव्यसत्त्वे. अन्यथा ह्य् अतीतानागत एव न सिध्येत्. यदि तेनैव लक्षणेन विद्येतातीतानागत एव न सिध्येद् इत्य् अर्थः. यद्य् अतीतं भूतपूर्वं यत् तर्हि लगुडशिखीयकान् इति विस्तरः. लगुडशिखीयकैः परिव्राजकैर् नार्यो निदानं. नालंदाया [तिब्. 134ब्] बुद्धभाषितं च सूत्रं. संयुक्तकागमे च. आर्यमहामौद्गल्यायनश् च मारित इत्य् आहुर् अभियुक्ताः. यतो नो मारित इत्य् अत्र सूत्र एवं पठ्यते. लगुडशिखीयकाः परिव्राजका आनंतर्यकारिणो यत् कर्माभ्यतीतं. तन् नास्तीत्य् एवंवादिन इति विस्तवः. किं ते लगुडशिखीयकाः परिव्राजकास् तस्य कर्मण आनंतर्यस्य भूतपूर्वत्वं नेच्छंति. एतद् उक्तं भवति. इच्छंति स्म ते तस्य कर्मणो भूतपूर्वत्वं. किं तु न द्रव्यम् इति तस्मिं कर्मणि ते विप्रतिपन्नाः. नास्ति तत् कर्माभ्यतीतम् इति. यतो भगवता यत्र ते विप्रतिपन्नाः स्वभावे. तत् कर्माभ्यतीतम् अस्तीति विस्तरेण. तस्माद् अस्ति स्वभावेनातीतम् इति विस्तरः. तत्र पुनः सूत्रे यद् भूतपुर्वं कर्म. न तद् एवातीतम् इत्य् अभिसंधायोक्तं तत् कर्मास्तीति. किं तर्हि. तदाहितं तेन भूतपूर्वेण कर्मणा आहितम् अर्पितं. तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् इत्य् अनेनाभिप्रायेणोक्तम् इति. कथं गम्यत इत्य् आह. अन्यथा हि स्वेन भावेन विद्यमानम् अतीतं न सिध्येद् इति. स्वलक्षणेन विद्यमानं तत् कर्म प्रत्युत्पन्नलक्षणेन विद्यमानम् अतीतम् इति न सिध्येत्. प्रत्युत्पन्नम् एव सिध्येद् इत्य् अभिप्रायः. तदाहितम् इति विस्तरेणैवम् ( अभिध्-क्-व्य् 474 ) उच्यमाने ऽभ्यतीतं तत् कर्मास्तीति सिध्यति. इत्थं चैतद् एवम् इति. यथानागतं [तिब्. 135अ] द्रव्यतो नास्त्य् अतीतं चेति. वर्तमाने ऽध्वनीति विस्तरः. वर्तमानभावेनाभूत्वा भवतीत्य् अर्थः. न. अध्वनो भावाद् अनर्थांतरत्वात्. नैव तद् एवम्. अध्वनः प्रत्युत्पन्नस्य भावाच् चक्षुःसंज्ञकाद् अनर्थांतरत्वात्. अद्रव्यांतरत्वाद् इत्य् अर्थः. य एव वर्तमानो ऽध्वा. स एव भावः. तत् कथं स एव वर्तमानः स्वात्मन्य् अध्वय् अभूत्वा भविष्यति. तथा ह्य् उक्तं
त एवाध्वा कथावस्त्व्
इति. अथ स्वात्मनि चक्षुषि चक्षुर् अभूत्वा भवति सिद्धम् इदम् अनागतं चक्षुर् नास्तीति. आलंबनमात्रम् इति. मात्रशब्दो जनकत्वव्यावर्तनार्थः. तद्रूपोत्पत्तेर् आलंबनं धर्मा इत्य् अभिप्रायः. यद् अनागतं सहस्रैर् इति. संनिकृष्टम् अप्य् अनागतं जनकं न युज्यते. किम् अंगातिचिरेण कालेन यद् भविष्यति. न हि पूर्वकालीनस्य फलस्य पश्चात्कालीनो हेतुर् युज्यत इति. निर्वानं चेति. निर्वाणं हि विज्ञानं निरुद्धान् न जनयेत्. संसारप्रवृत्तिनिरोधाद् इत्य् अभिप्रायः. अभूद् भविष्यति चेति. यद् वर्तमानावस्थायां रूपम् अभूत् भविष्यति च. तद् आलंबनम् इत्य् अर्थः. कथं ज्ञायते एवं तद् आलंब्यते न पुनर् अस्तीत्य् [तिब्. 135ब्] अत आह. न हि कश्चिद् अतीतं रूपं वेदनां वा स्मरन्न् अस्तीति पश्यति. किं तर्हि. अभूद् इति स्मरति तद् रूपं यथादृष्टं यथानुभूतां च वेदनां चक्षुर्विज्ञानानुभवबलेन. यथा खल्व् अपीति विस्तरेणाचार्य एवोपचयहेतुम् आह. वर्तमानरूपम् इव भूतं भविष्यच् च गृह्यत इत्य् अभिप्रायः. यदि च तथैवास्तीति यथा वर्तमानं. वर्तमानं तत् प्राप्नोति. अथ नास्ति तत् तथैव असद् अप्य् आलंबनं भवतीति सिद्धं. वर्तमानवद्रूपस्याभावात्. तस्य च स्मर्यमाणत्वात्. तद् एव तद्विकीर्णम् इति. यद् एव तद् वर्तमानं. तद् एव विकीर्णम् अतीतानागतं. न. विकीर्णस्याग्रहणाद् इति. न युक्तम् एतत्. विकीर्णस्याग्रहणात्. पूर्वं न विकीर्णम् इदानीं विकीर्णम् एतद् रूपम् इत्य् एवम् अस्याग्रहणात्. यदि च तत् तद् एवेति विस्तरः. यदि च वर्तमानावस्थायां पिण्डीभूतं रूपं. तद् अतीतावस्थायाम् अनागतावस्थायां च परमाणुशो विभक्तम् अतो न वर्तमानवत् गृह्यते. एवं सति तादवस्थ्यान् नित्याः परमाणवः स्युः. अनागताः प्रत्युत्पन्ना अतीताश् च त एव त इति. एवं च सति परमाणुसंचयविभागमात्रम् एव प्राप्नोति. न तु कश्चिद् उत्पादो नापि निरोध इत्य् आजीविकानां पाषण्डिनां वादः परिगृहीतो भवति. तथा चेष्यमाणे सूत्रम् अपास्तं भवति. चक्षुर् भिक्षव उत्पद्यमानम् ( अभिध्-क्-व्य् 475 ) न कुतशिच्द् आगच्छति. निरुध्यमानं न क्वचित् संनिचयं गच्छति. इति हि भिक्षवश् चक्षुर् [तिब्. 136अ] अभूत्वा भवति भूत्वा च प्रतिविगच्छतीति. कथक्ं पुनर् इदं सूत्रम् अपविद्धं विरोधितं भवति. यस्माच् चक्षुर् उत्पद्यमानं स्वेन रूपेण न कुतश्चिद् आगच्छतीत्य् एतत् पदं बाधितं भवति. निरुध्यमानं न क्वचित् संनिचयं गच्छतीत्य् एतद् अपि पदं बाधितं भवति. अतीते ऽध्वनि तत्परमाणूनां विप्रकीर्णसंचितत्वाभ्युपगमात्. अपरमाणुसंचितानाम् इति. वेदनादीनाम् अपरमाण्वात्मनां कथं विप्रकीर्णत्वं. मूर्तानां हि संचितत्वं विप्रकीर्णत्वं वाभवद् भवेन् नामूर्तानां. ते ऽपि च यथोत्पन्नानुभूताः स्मर्यन्त इति. वर्तमानरूपा एव स्मर्यन्ते. यदि च ते तथैव संति. यथा वर्तमाना नित्याः प्राप्नुवंति. अथ न संति तद्रूपाः असद् अप्य् आलंबनम् इति सिद्धं. त्रयोदशम् अप्य् आयतनम् आलंबनं स्याद् इति. त्रयोदशानाम् आयतनानां पूरणं त्रयदशम् आयतनं. तद् विज्ञानस्यालंबनं स्यात्. असदालंबनत्व इष्यमाणे तदालंबनं वा विज्ञानं स्यात्. एवं वैभाषिकेणोक्ते आचार्य आह. अथ त्रयोदशम् इति विस्तरः. एतद् एव नामेति वैभषिकाः. यद् एतन् नाम त्र्योदशम् आयतनम् इति. तद् आलंबनं. एवं तर्हि नामैव नास्तीति [तिब्. 136ब्] प्रतीयेत. नाभिधेयं त्रयोदशायतनाभावलक्षणं. किं च यश् च शब्दस्य प्रागभावम् आलंबते. किं तस्यालंबनं. भवतीति वाक्यशेषः. एवं प्रकृते वैभाषिक आह. शब्द एवालंबनम् इति प्रकृतं. एवं तर्हीति विस्तरेणाचार्यः. यः शब्दस्य प्रागभावम् आलंबते. शब्द एव तेनालंबितो भवति. न प्रागभावः. प्राप्तम् इदं भवति. यः शब्दाभावं प्रार्थयते. तस्य शब्द एव कर्तव्यः स्याद् इति. अनागतावस्थ इति चेत् स्यान् मतं. यस्यासौ प्रागभावः. सो ऽनागतावस्थस् तेनालंब्यते. तस्माद् यः शब्दाभावं प्रार्थयते. न तस्य शब्द एव कर्तव्यः स्याद् इति. तद् उच्यते. सति कथं नास्तीति बुद्धिर् इति. विद्यमाने तस्मिं शब्दे यस्यासौ प्रागभावः कथम् अस्य नास्तिबुद्धिर् या प्रागभावम् आलंबते. वर्तमानो नास्तीति चेत्. तत्रैतत् स्यात् वर्तमानो नास्तीत्य् एवं तदालंबनान् नास्तिबुद्धिस् तस्योत्पद्यत इति. न. एकत्वात्. यद् एव तद् अनागतं. तद् एव वर्तमानं भवति. न तस्माद् अन्यद् इति. कथं तस्मिन्न् एव वर्तमाने नास्तिबुद्धिर् उत्पद्यते. यो वा तस्य विशेषः. यो वा तस्यानागतस्य पश्चाद् विशेषो वर्तमानावस्थायां भवति. तत्र विशेषे वर्तमानो नास्तीति तद्बुद्धिर्
उत्पद्यते. ऽतस्याभूत्वाभावसिद्धिः. तस्य विशेषस्याभूत्वा पूर्वं पश्चाद् भावः. तस्य सिद्धिर् इति. [तिब्. 137अ] भावश् चाभावश् चेति. भावो वर्तमानावस्थ्यायाम् अभावो ऽतीतानागतावस्थयोः. इति विज्ञानस्योभयम् आलंबनं भवति. यद्य् अभावो विज्ञानस्यालंबनं यत् तर्हीति विस्तरः. ( अभिध्-क्-व्य् 476 ) बोधिसत्त्वेन चरमभविकेनैवम् उक्तं. यल् लोकेनास्ति. तज् ज्ञास्यामीत्य् एष संभवो नास्तीति वचनाद् अभावालंबनं न भवतीति दर्शितं भवति. आचार्यो ऽन्याभिप्रायताम् अस्य सूत्रस्य दर्शयन्न् आह्. अपरे आभिमानिका इति विस्तरः. अपरिशुद्धसमाधयो ऽपरे आभिमानिका भवंति. असंतम् अप्य् अवभासं दिव्यचक्षुरवभासं प्रयोगावस्थायां संतम् इत्य् एव पश्यंति. अहं तु सन्तम् एवावभासं पूर्वरूपं दिव्यचक्षुषो ऽस्तीति पश्यामीत्य् अयं तत्र सूत्रे ऽभिप्रायः. कुतो ऽस्य विमर्श इति. सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतो ऽस्य विमर्शविचारः संदेहो वा स्यात्. यद् उत लोके नास्तीति विस्तरेण य उक्तः. सदसदालंबने तु बुद्धीनाम् अयं विमर्शः संभवति. नान्यथा. को वा विशेष इति. को वा बोधिसत्त्वस्यान्येभ्यो विशेषः यदि ते ऽपि सन्तम् एवावभासं पश्यंति नासंतं. सदसदालंबनत्वे हि बुद्धीनाम् अयं विशेषो भवति. इत्थं चैतद् एवं [तिब्. 137ब्] सत्. असदालंबना बुद्धय इति. सच् च सतो ज्ञास्यत्य् असच् चासत इतीदम् अत्रोदाहरणं. सच् च वस्तु सत्त्वतः परैष्यति ज्ञास्यति असच् चासत्त्वत इत्य् असदालंबना बुद्धय इति सिद्धं. तस्माद् अयम् अप्य् अहेतुर् इति. यद् एतद् बोधिसत्त्वेनोक्तम् इति. तत्पूर्वकाद् इति. कर्मपूर्वकात् चित्तसंतानविशेषात्. आत्मवादप्रतिषेध इति. शास्त्रावसाने वात्सीपुत्रीयमतप्रतिषेधे. उत्पादस् तर्हि अभूत्वा भवतीति. उत्पादः पूर्वं नास्तीदानीं भवतीति सिद्धो ऽपूर्वप्रादुर्भावः. उत्पादस्योत्पादवता सह तुल्यवार्त्तत्वात्. अथ सर्व एवस्तीति. उत्पादो ऽपि यद्य् अस्ति न केवलं हेतुर् अनागतं च फलम् इत्य् अभिप्रायः. कस्येदानीं क्व सामर्थ्यम् इति. कस्य हेतोः क्व फले सामर्थ्यं. हेतुश् च यथोक्तः उत्पादः फलं चानागतम् अस्तीति. वर्तमानीकरण इति वैभाषिकः. किम् इदानीं वर्तमानीकरणम् इति विस्तरेणाचार्यः. नोत्पादो वर्तमानीकरणं. तस्य विद्यमानत्वात्. अत एवं पृच्छति. देशांतराकर्षणं चेत्. यदि मन्यसे हेतुना फलस्य देशांतराकर्षणं वर्तमानीकरणम् इति. अत्र ब्रूमः. नित्यं प्रसक्तं फलम् इति वाक्यशेषः. केवलं देशांतराद् देशांतराकर्षणं. न किंचिद् अपूर्वम् उत्पद्यत इति. नित्यं प्रसक्तं. अरूपिणां च [तिब्. 138अ] वेदनादीनां. कथं तद्देशांतराकर्षणा. अमूर्तत्वेनादेशस्थत्वान् न तद् युज्यत इत्य् अभिप्रायः. यच् च तदाकर्षणं क्रियासंज्ञकं. तद् अभूत्वा भूतम् इत्य् अभूत्वाभावसिद्धिर् इत्य् अभिप्रायः. स्वभावविशेषणं चेत्. यदि मन्यसे हेतुना स्वभावो ऽस्य फलस्य विशेष्यते. तेन फलविशेषणं. भवतीति. अत्र ब्रूमः. सिद्धम् अभूत्वाभवनम् इति. सिद्धम् अभूत्वा विशेषणस्य ( अभिध्-क्-व्य् 477 ) भवनं प्रादुर्भाव इति. अध्वत्रयं वा. किं. सर्वम् अस्तीत्य् अधिकृतं. यथात्र तद् अस्ति तथोक्तम् इति. यद् भूतपूर्वं तद् अतीतं. यत् सति हेतौ भविष्यति. तद् अनागतं. यद् भूत्वाविनष्टं. तत् प्रत्युत्पन्नम्. इत्य् एवं सर्वास्तिवादः शासने साधुर् भवति. कथं तेन तस्मिं वा संयुक्ता इति. कथं तेनातीतानागतेन क्लेशेन तस्मिन् वा अतीतानागते वस्तुनि कथं संयुक्त इति. तज्जतद्धेत्वनुशयभावात् क्लेशेनेति. तस्माद् अतीताज् जातस् तज्जः. तस्यानागतस्य हेतुस् तद्धेतुः. तज्जश् चासौ तद्धेतुश् च तज्जतद्धेतुः. तज्जतद्धेतुर् अनुशयो बीजं तज्जतद्धेत्वनुशयः. तस्य भावात्. अतीतेनानागतेन च क्लेशेन यथाक्रमं संयुक्तः. तद् अतीतानागतं वस्त्व् आलंबनम् अस्येति तदालंबनः क्लेशस् तस्यानुशयः. तस्य भावाद् अतीते ऽनागते च वस्तुनि यथाक्रमं संयुक्त इति
धर्मतेति. [तिब्. 138ब्] धर्माणां स्वभावः. अतीतादिकाध्वव्यवस्थाने सति तत्संव्यवहारव्युत्पादनार्थम् आह. अस्ति पर्याय इत्यादि. अस्ति वचनक्रमः. यद् उत्पद्यते. तन् निरुध्यत इत्य् उक्त्वा. दृष्टांतम् आह. रूपम् उत्पद्यते रूपं निरुध्यते द्रव्यानन्यत्वात्. अन्यद् उत्पद्यते ऽन्यन् निरुध्यते. अनागतम् उत्पद्यते ऽन्यद् उत्पादाभिमुखत्वात्. वर्तमानं निरुध्यते ऽन्यन् निरोधाभिमुखत्वात्. अध्वाप्य् उत्पद्यते उत्पद्यमानस्य धर्मस्याध्वसंगृहीतत्वाद् अध्वस्वभावत्वाद् इत्य् अर्थः.
त एवाध्वा कथावस्त्व्
इति लक्षणात्. अध्वनो ऽप्य् उपादानरूपाद् उत्पद्यते धर्मः. कस्माद् इत्य् आह. अनेकक्षणिकत्वाद् अनागतस्याध्वन इति. यस्माद् अनेकेषां क्षणानाम् अनागतानां राशिरूपाणां कश्चिद् एव क्षण उत्पद्यते. अतो ऽध्वनो ऽप्य् उत्पद्यत इत्य् उच्यते.
(व्.28) प्रसंगेनागतम् इति.
शेषैस् तु सर्वैः सर्वत्रेति
प्रसंगेनागतम् अतीतानागतविचारणं. यद् यस्तु प्रहीणम् इत्यादि. इह प्रहाणं प्राप्तिविगमात्. विसंयोगस् तदालंबनक्लेशप्रहाणात्. दर्शनभावनामार्गाव् अधिकृत्य
प्रहीणे दुःखदृग्घेय
इत्यादि. प्राक् प्रहीणे इत्यादि.
शेषसर्वगैर्
इति. समुदयदर्शनप्रहातव्यैः सर्वत्रगैः.
शेषैस् तद्विषयैर् मलैर्
इति. प्रहीणप्रकारविषयानुशयैर् इत्य् अर्थः. तद्यथाधिमात्राधिमात्रे प्रकारे प्रहीणे ऽधिमात्रमध्यादिभिः शेषैर् अप्रहीणैर् अनुशयैः संयुक्तः. तथा ह्य् असाव् अधिमात्राधिमात्रेण प्रहीणेन क्लेशप्रकारेण विसंयुक्तो ऽपि स संयुक्त एव तैः शेषैर् इति.
(व्.29-31) पिण्डविभाषां कुर्वंति. संक्षेपव्याख्यां कुर्वंतीत्य् अर्थः. के. वैभाषिकाः. षोडशेति. कामावचराः पंच प्रकाराः. [तिब्. 139अ] दुःखसमुदयनिरोधमार्गदर्शनप्रहातव्याश् चत्वारो भावनाप्रहातव्यश् च पंचमः. एवं यावद् आरूप्यावचराः पंच प्रकारा इति पंचदश. अनास्रवश् च षोडश इति षोडश धर्माः. इमे च धर्माः ये दर्शनप्रहातव्याः. ते चतुःस्कन्धस्वभावाः. ये भावनाप्रहातव्याः. ते पंचस्कन्धस्वभावाः. कथं. या वेदना यैर् दर्शनप्रहातव्यैर् अनुशयैः संप्रयुक्ताः. स वेदनास्कन्धः. याः संज्ञाः. स संज्ञास्कन्धः. ये ऽनुशयाः ये च तत्संप्रयुक्ताश् चेतनादयो याश् चैषां वेदनादीनां सर्वेषां चैतसिकानां प्राप्तयो जातिजरास्थित्यनित्यताश् च विप्रयुक्ताः. स संस्कारस्कन्धः. यच् चैभिः संप्रयुक्तं मनोविज्ञानं. स विज्ञानस्कन्धः. इति चतुःस्कन्धस्वभावा दर्शनप्रहातव्याः. भावनाप्रहातव्याः पुनर् अतो ऽन्ये सास्रवा धर्माः. कथं. बाह्याध्यात्मिकं सर्वं सास्रवं रूपं रूपस्कन्धः. अनास्रवदर्शनप्रहातव्यवर्ज्याश् च वेदनासंज्ञासंस्कारविज्ञानस्कन्धा इति पंचस्कन्धस्वभावा भावनाप्रहातव्या वेदितव्याः. चित्तान्य् अपि षोडशैतान्य् एवेति. कामावचरं दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् [तिब्. 139ब्] इति पंच चित्तानि. एवं रूपावचराण्य् आरूप्यावचराणि च पंचपंच अनास्रवं च चित्तम् इति षोडश चित्तानि. तानि तत्षोडशधर्मालंबनानि वर्ण्यंते. अमुष्मिन्न् इयंतो ऽनुशया इति. अमुष्मिं धर्मे इयंतो ऽनुशया ये तेन चित्तेन संप्रयुक्ता आलंबनतः संप्रयोगतो वानुशेरत इत्य् एतद् अभ्यूहितव्यं.
दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजा
इति. दुःखसमुदयदर्शनभावनाप्रहेयाः कामावचरा इत्य् अर्थः. एषा विग्रह जातिर् इति. स्वकत्रयं चैकरूपाप्तं चामलं च. स्वकत्रयैकरूपाप्तामलानि विज्ञानानि.
स्वकत्रयैकरूपाप्तामलविज्ञानि.
तेषां
गोचराः.
कामावचरास् तावद् इति विस्तरः. कामावचरा दुःखसमुदयदर्शनप्रहातव्या ( अभिध्-क्-व्य् 479 ) यथाक्रमं दशसप्तानुशयाः. तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. भावनाहेयाश् चतुरनुशयास् तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. सर्वं सास्रवं रूपं. अन्ये चाक्लिष्टा धर्माः. एते धर्माः पंचानां चित्तानाम् आलंबनं. केषाम् इत्य् आह. स्वधातुकानां त्रयाणां तेषाम् एवेति. कामावचराणां दुःखसमुदयदर्शनभावनाहेयानां. [तिब्. 140अ] कथं कृत्वा. दुःखदर्शनहेयास् तावद् दुःखदर्शनहेयस्य सर्वत्रगासर्वत्रगसंप्रयुक्तस्य. समुदयदर्शनप्रहातव्यस्य च सर्वत्रगसंप्रयुक्तस्य. भावनाहेयस्य च कुशलस्य. रूपावचरस्यैकस्य भावनाहेयस्यैव. लौकिकेन मार्गेण कामधातूपपन्नस्य कामावचरधर्मालंबनावस्थायां. रूपधातूपपन्नस्य च कामधातुदर्शनावस्थायां. अनास्रवस्य च धर्मज्ञानपक्षस्य चेति पंचानां चित्तानाम् आलंबनं भवंति. न कामावचरयोर् निरोधमार्गदर्शनहेययोश् चित्तयोर् आलंबनम्. अनास्रवालंबनयोश् चित्तयोर् निरोधमार्गालंबनत्वात्. सास्रवालंबनयोर्श् च निरोधमार्गदर्शनहेयमात्रालंबनत्वात्. नोर्ध्वभूमिकानां क्लिष्टानां. अधरभूमिकानालंबनत्वात्. नारूप्यावचरस्य कुशलस्य. चतसृभिर् दूरताभिर् दूरत्वात्. एवं समुदयदर्शनहेया द्विप्रकारस्य समुदयदर्शनहेयस्य. दुःखदर्शने हेयस्य च सर्वत्रगसंप्रयुक्तस्य. भावनाहेयस्य कुशलस्य. रूपावचरस्यैकस्य भावनाहेयस्यैव. अनास्रवस्य चेति. पंचानाम् एवालंबनं भवंति. व्याख्यानं च पूर्ववद् एव कर्तव्यं. भावनाहेया अपि पंचानाम् एवालंबनं भवंति. दुःखसमुदयदर्शनहेययोः [तिब्. 140ब्] सर्वत्रगसंप्रयुक्तयोश् चित्तयोर् भावनाहेयस्य च कुशलाकुशलाव्याकृतस्य यथासंभवं. रूपावचरस्यैकस्य भावनाहेयस्यैव. अनास्रवस्य चेति. पूर्ववद् एव वाच्यं.
स्वकाधरत्रयोर्ध्वैकामलानाम्
इति. स्वकानाम् अधराणां च त्रयं स्वकाधरत्रयं च ऊर्ध्वैकं चामलं चेति विग्रहः. रूपावचरास् त एव त्रिप्रकारा धर्मा इति. दुःखसमुदयदर्शनभावनाहेयास् तेषाम् अधिकृतत्वात्. ते ऽष्टानां चित्तानाम् आलंबनं. स्वधातुकानां त्रयाणां तेषाम् एव दुःखसमुदयदर्शनभावनाहेयानां पूर्ववद् व्याख्येयं. अधरधातुकानां त्रयाणां तेषाम् एव. तेषां दुःखसमुदयदर्शनहेययोर् विसभागधातुसर्वत्रगसंप्रयुक्तयोश् चित्तयोर् भावनाहेयस्य च श्रुतमयस्य च चिन्तामयस्य वा. ऊर्ध्वधातुकस्यैकस्य भावनाहेययैवाकाशानांत्यायतनसामन्तकसंगृहीतस्य अनास्रवस्य चान्वयज्ञानपक्षस्येति.
त्रिधात्वाप्तत्रयानास्रवगोचरा
इति. त्रिधात्वाप्तानां त्रयाणाम् अनास्रवस्य च गोचराः. त एवेति त एव दुःखसमुदयदर्शनभावनाहेया [तिब्. 141अ] अधिकृताः. त्रिप्रकराणां तेषाम् एवेति. कामरूपावचराणां दुःखसमुदयदर्शनहेयानां विसभागधातुसर्वत्रगसंप्रयुक्तानां चतुर्णां भावनाप्रहातव्ययोर् द्वयोर् यथायोगं. स्वधातुकानां च त्रयाणां. कतमेषां. सर्वत्रगासर्वत्रगसंप्रयुक्तयोर् यथायोगं द्वयोर् भावनाप्रहातव्यस्य चानास्रवस्य चेति. दशानां चित्तानाम् आलंबनं भवंति.
निरोधमार्गदृग्घेयाः सर्वस्वाधिकगोचरा
इति. सर्वग्रहणं त्रैधातुकोपसंग्रहार्थं.
स्वस्याधिकस्य गोचरा
इति वचनात् पूवोक्तानां च गोचरा इत्य् अर्थाद् उक्तं भवति. अथ वा स्वेनाधिकानि स्वाधिकानि. स्वाधिकानां गोचराः स्वाधिकगोचरा इति. तस्याधिकस्येति. रागादिसंप्रयुक्तस्य. न मिथ्यादृष्ट्यादिसंप्रयुक्तस्य. तस्य नित्यं निरोधमार्गालंबनत्वात्. पूर्वोक्तानां पंचानाम् इति. कामावचराणां त्रयाणां. द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां. रूपावचरस्य भावनाप्रहातव्यस्यैव. अनास्रवस्य चेति. मार्गदर्शनप्रहातव्या अप्य् एवम् इति. किम् एवं. [तिब्. 141ब्] षण्णां चित्तानाम् आलंबनम् इति. नवानाम् एकादशानां च चित्तानाम् आलंबनं भवतीति. रूपावचरा निरोधमार्गदर्शनप्रहातव्या नवानां चित्तानाम् आलंबनं भवंति. आरूप्यावचरा एकादशानाम् इति. कथं. रूपावचरा निरोधमार्गदर्शनप्रहातव्या धर्माः कामावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाहेयानां त्रयाणां. स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां. आरूप्यावचरस्य भावनाप्रहातव्यस्याकाशानंत्यायतनसंगृहीतस्य. अनास्रवस्य चान्वयज्ञानपक्षस्य. तस्यैव चाधिकस्य निरोधदर्शनप्रहातव्यस्य मार्गदर्शनप्रहातव्यस्य वा चित्तस्य. इति नवानां प्रत्येकम् आलंबनं भवंति. आरूप्यावचरा अपि निरोधमार्गदर्शनप्रहातव्या धर्माः प्रत्येकम् एकादशानां चित्तानाम् आलम्बनं भवंति. कामरूपावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां षण्णां. स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तकभावनाप्रहातव्यानां. निरोधमार्गदर्शनप्रहातव्यस्य च प्रत्येकम् अधिकस्य. अनास्रवस्य चान्वयज्ञानपक्षस्य. इत्य् एकादशानाम् आलंबनं भवंति.
अनास्रवास् त्रिधात्वंत्यत्रयानास्रवगोचरा
इति. अनास्रवा निरोधादयः. त्रिषु धातुषु [तिब्. 142अ] यान्य् अन्त्यानि त्रयाणि ( अभिध्-क्-व्य् 481 ) निरोधमार्गदर्शनभावनाप्रहातव्यलक्षणानि. तेषां यथायोगम् अनास्रवस्य च गोचराः. कथं. प्रतिसंख्यानिरोधार्यमार्गौ तावत् तदालंबनानां मिथ्यादृष्टिविचिकित्साविद्यासंप्रयुक्तानां भावनाप्रहातव्यानाम् अनास्रवस्य च धर्मज्ञानान्वयज्ञानपक्षस्य यथायोगम् आलंबनं. आकाशाप्रतिसंख्यानिरोधौ तु भावनाप्रहातव्यस्यैवाक्लिष्टस्य चित्तस्यालंबनम् इति वेदितव्यं. आचार्यगुणमतिवसुमित्रौ तु व्याचक्षाते आकाशाप्रतिसंख्यानिरोधौ भावनाप्रहातव्यस्य क्लिष्टाक्लिष्टस्यालंबनम् इति. तद् अयुक्तं.
मिथ्यादृग् विमती ताभ्यां युक्ताविद्याथ केवला
निरोधमार्गदृग्घेयाः षड् अनास्रवगोचरा
इति नियमात्. अतो न क्लिष्टचित्तस्य भावनालंबनम् इति सिद्धांतः.
पंचाष्टदशविज्ञानदशविज्ञानगोचरा
इति. कामावचराः दुःखसमुदयदर्शनभावनाहेयाः पंचानां गोचराः. रूपावचरा अष्टानाम्. आरूप्यावचरा दशानाम्. अमला अपि दशानाम् एवेति. पूर्वव्याख्यानानुसारेण योज्यं. एतान्य् एव षोडश चित्तानि षट्त्रिंशद् भवंति. कामधातौ दुःखसमुदयदर्शनहेयम् असर्वत्रगसंप्रयुक्तं सभागविसभागसर्वत्रगसंप्रयुक्तं च. एवं रूपधातौ दुःखसमुदयदर्शनहेयं प्रत्येकं त्रिप्रकारं. आरूप्यधाताव् अन्यत्र विसभागधातुभूमिसर्वत्रगसंप्रयुक्तात्. निरोधमार्गदर्शनहेयं धातुत्रये ऽपि प्रत्येकं द्विधा सास्रवानास्रवालंबनत्वात्. भावनाहेयम् अपि क्लिष्टाक्लिष्टभेदात् द्विप्रकारं. अनास्रवम् अपि धर्मज्ञानपक्षम् अन्वयज्ञानपक्षं चेति द्विधा.
कामावचरं भावनाप्रहातव्यम् इति. पंचविज्ञानकायिकं सुखेन्द्रियं. रूपावचरं पंचप्रकारम् [तिब्. 142अ] इति. प्रथमध्यानभूमिकं त्रिविज्ञानकायिकं. तृतीयध्यानभूमिकं मानसम् इत्य् अभिसमस्य यथायोगं पंचप्रकारं दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यं. अनास्रवं च तृतीयध्यानभूमिकम् एव.
कामावचरस्य चतुःप्रकारस्येति. दुःखसमुदयमार्गदर्शनभावनाप्रहेयस्य. दुःखसमुदयदर्शनहेययोः सुखेन्द्रियम् आलंबनं भवति. यस्माद् दुःखसमुदयसत्यसंगृहीतं स्वभूमिकम् ऊर्ध्वभूमिकं वा सुखेन्द्रियं सत्कायमिथ्यादृष्ट्यादीनाम् आलंबनं भवति. मार्गदर्शनहेयस्य च मिथ्यादृष्ट्यादिसंप्रयुक्तस्य मार्गसत्यसंगृहीतं सुखेन्द्रियम् आलंबनं. भावनाहेयरागादिसंप्रयुक्तस्य च चित्तस्य ( अभिध्-क्-व्य् 482 ) तत्पंचविज्ञानकायिकं सुखेन्द्रियम् आलंबनम्. इति चतुष्प्रकारस्यास्य तद् आलंबनं. न तु निरोधदर्शनहेयस्य चित्तस्य. तत्र मिथ्यादृष्ट्यादीनां निरोधालंबनत्वात्. दृष्टिपरामर्शादीनां च स्वनिकायालंबनत्वात्. तत्र च सुखेन्द्रियाभावात्. तेनोच्यते ऽन्यत्र निरोधदर्शनहेयाद् इति. रूपावचरस्य पंचप्रकारस्येति. यस्मात् तृतीयध्यानसंगृहीतं पंचप्रकारं सुखेन्द्रियं भवति. मार्गदर्शनभावनाहेयस्येति. आरूप्यावचरस्य मार्गदर्शनहेयस्य मिथ्यादृष्ट्यादिसंप्रयुक्तस्य चित्तस्य मार्गसंगृहीतं सुखेन्द्रियम् आलंबनं. तद् एव च भावनाहेयस्य कुशलस्य चित्तस्यालंबनम्. अनास्रवस्य च सर्वम् अप्य् आलंबणं [तिब्. 143अ] भवति. तत्र यथासंभवम् इति. यस्माद् अनास्रवे अनुशया नानुशेरते. यस्मात् क्वचिद् एव केचिद् अनुशेरते. तस्माद् यथासंभवम् इत्य् उच्यते. तत्र विज्ञाने कामावचराश् चत्वारो निकायाः. तद्यथा निथ्यादृष्टिसंप्रयुक्ते सुखेन्द्रियालंबने दशापि दुःखदर्शनप्रहातव्या अनुशया आलंबनतो ऽनुशेरते संप्रयोगतो वा यथासंभवं. एवं समुदयदर्शनप्रहातव्याः. मार्गदर्शनप्रहातव्या अपि तत्र सुखेन्द्रियालंबने विज्ञाने ऽनुशेरते. मार्गसुखेन्द्रियालंबने हि मिथ्यादृष्ट्यादिसंप्रयुक्ते विज्ञाने मिथ्यादृष्ट्यादयः संप्रयोगतो ऽनुशेरते. दृष्टिपरामर्शादयो ऽप्य् आलंबनतो ऽनुशेरते. तस्मात् सो ऽपि निकायस् तत्रानुशेते. भावनाहेयो ऽपि निकायो ऽत्रानुशेते. तत्र रागादीनां सुखेन्द्रियालंबनविज्ञानालंबनयोगात्. निरोधदर्शनप्रहातव्यनिकायस् तु तत्र नानुशेते. सुखेन्द्रियालंबनविज्ञानाभावात्. रूपावचराः संस्कृतालंबना इति. रूपावचरं सुखेन्द्रियालंबनं पंचप्रकारम् अस्ति. तत्र चत्वारो निकाया अनुशेरत इति सुगमम् एतत्. निरोधदर्शनप्रहातव्यास् [तिब्. 143ब्] तु संस्कृतालंबनाः कथम् अनुशेरते. तृतीये ध्याने दृष्टिपरामर्शादयः सुखेन्द्रियेण संप्रयुज्यंते. ते चान्योन्यालंबनाः. ते तत्र सुखेन्द्रियालंबनविज्ञाने संप्रयोगत आलंबनतो वानुशेरते. आरूप्यावचरौ द्वौ निकायाव् इति. मार्गदर्शनभावनाहेयनिकायौ. मार्गसुखेन्द्रियालंबने मिथ्यादृष्ट्यादिसंप्रयुक्ते मिथ्यादृष्ट्यादयः संप्रयोगतो ऽनुशेरते. दृष्टिपरामर्शादयस् तु तत्रालंबनतो ऽनुशेरते. भावनाहेयो ऽपि निकायो ऽनुशेते. भावनाहेयं हि कुशलं चित्तं मार्गम् आलंबते. तत्र स रागादिनिकायो ऽनुशेते. सर्वत्रगाश् चारूप्यावचरा अनुशयास् तत्रैव विज्ञाने मार्गालंबनमिथ्यादृष्ट्यादिसंप्रयुक्ते वा विज्ञाने ऽनुशेरत इति विज्ञातव्यं.
तस्यैव द्वादशविधस्येति. कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात्. ( अभिध्-क्-व्य् 483 ) रूपावचरस्य पंचप्रकारस्यारूप्यावचरस्य च द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य चेत्य् अन्योन्यालंबनयोगतस् तस्य सुखेन्द्रियालंबनं विज्ञानम् आलंबनं भवति. आरूप्यावचरस्य च भूयो द्विप्रकारस्य तत् सुखेन्द्रियालंबनं विज्ञानम् आलंबनं भवति. कतमस्येत्य् आह. दुःखसमुदयदर्शनप्रहातव्यस्येति. [तिब्. 144अ] आरूप्यावचरस्य सर्वत्रगसंप्रयुक्तस्य हि दुःखसमुदयदर्शनहेयभेदात् द्विप्रकारस्य चित्तस्यारूप्यावचरमार्गदर्शनहेयमिथ्यादृष्ट्यादिसंप्रयुक्तं विज्ञानं मार्गालंबनं चारूप्यावचरं भावनाहेयं कुशलम् आलंबनं भवति. एवम् इदं चतुर्दशविधं सुखेन्द्रियालंबनविज्ञानालंबनं तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वेति. पूर्वं सर्वत्रगा एवारूप्यावचराः सुखेन्द्रियालंबने विज्ञाने ऽनुशेरते. सुखेन्द्रियालंबनालंबने तु सकलाव् अप्य् आरूप्यावचरौ दुःखसमुदयदर्शनहेयौ निकायाव् अनुशयाते. तस्मात् तत्र सर्वत्रगसंप्रयुक्ते चित्ते दुःखसंउदयदर्शनहेया अनुशयाः संप्रयोगत आलंबनतो वा यथायोगम् अनुशेरते. शेषास् तु पूर्ववद् योज्याः.
अनया वर्तन्यान्यद् अपि गंतव्यम् इति. अनेन वर्त्मनान्यद् अपि बोद्धव्यं. कथं. दुःखेन्द्रियालंबने कत्य् अनुशया अनुशेरत इति प्रश्न आगते विचारयितव्यं. दुःखेन्द्रियम् एकविधं कामावचरं भावनाप्रहातव्यं पंचविज्ञानकायिकत्वात्. तत् समासतः पंचविधस्य विज्ञानस्यालंबनं भवति. कामावचरस्य [तिब्. 144ब्] त्रिप्रकारस्य. दुःखसमुदयदर्शनहेययोः सर्वत्रगसंप्रयुक्तयोर् विज्ञानयोर् भावनाप्रहातव्यस्य च. रूपावचरस्य च भावनाप्रहातव्यस्य. अनास्रवस्य च. इदं पंचविधं दुःखेन्द्रियालंबनं विज्ञानं. तत्र यथासंभवं कामावचरास् त्रयो निकाया दुःखसमुदयदर्शनभावनाहेयाः. तत्र हि सर्वत्रगसंप्रयुक्ते चित्ते भावनाहेये च दुःखसमुदयदर्शनहेयौ निकायौ संप्रयोगत आलंबनतो वा यथासंभवम् अनुशयाते. भावनाहेये च भावनाहेयो निकायो ऽनुशेते. रूपावचर एको भावनाहेयः. तत्र भावनाहेये चित्ते ऽनुशेते. सर्वत्रगाश् च रूपावचरास् तत्रैवेत्य् अवगंतव्यं. दुःखेन्द्रियालंबनालंबने विज्ञाने कत्य् अनुशया अनुशेरते. तत् पुनर् दुःखेन्द्रियालंबनं पञ्चविज्ञानं कतमस्य विज्ञानस्य आलंबनं. तस्यैव पंचविधस्यान्योन्यालंबनयोगेन. कामावचरस्य च भूयो मार्गदर्शनहेयस्य अनास्रवालंबनस्य. रूपावचरस्य च सर्वत्रगसंप्रयुक्तस्यालंबनं भवति. तेन हि रूपावचरं दुःखेन्द्रियालंबनं कुशलं भावनाप्रहातव्यम् ( अभिध्-क्-व्य् 484 ) आलंब्यते. आरूप्यावचरम् अप्य् आकाशानंत्यायतनसामन्तकसंगृहीतौदारिकाद्याकारं [तिब्. 145अ] दुःखेन्द्रियालंबनम् आलंबते. तद् इदम् अष्टविधं दुःखेन्द्रियालंबनालंबनं विज्ञानं. तत्र कामावचराश् चत्वारो निकायाः. दुःखसमुदयमार्गदर्शनभावनाहेयाः. रूपावचरास् त्रयो निकायाः. दुःखसमुदयदर्शनभावनाप्रहातव्याः. आरूप्यावचर एको भावनाप्रहातव्यः. सर्वत्रगाश् चानुशया अनुशेरत इति विज्ञातव्यं. सौमनस्येन्द्रियालंबने विज्ञाने कत्य् अनुशया अनुशेरत इति प्रश्ने विचारयितव्यं. तत् पुनः सौमनस्येन्द्रियालंबनं विज्ञानम् एकादशविधं. कामरूपावचरं पंच प्रकारम् अनास्रवं चेति. तद् एतत् समासतस् त्रयोदशविधस्य विज्ञानस्यालंबनं भवति. कामावचरस्य पंचप्रकारस्य संस्कृतालंबनस्य तस्य संस्कृतत्वात्. एवं रूपावचरस्य. आरूप्यावचरस्य तु द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य. अनास्रवस्य च. इदं त्रयोदशविधं सौमनस्येन्द्रियालंबनविज्ञानं. तत्र यथासंभवं कामावचररूपावचराः पंचनिकायाः संस्कृतालंबनाः. आरूप्यावचरौ द्वौ निकायौ. सर्वत्रगाश् चानुशयाः अनुशेरत इति विज्ञातव्यं. सौमनस्येन्द्रियालंबनालंबने विज्ञाने कत्य् अनुशया अनुशेरते. तत् पुनः सौमनस्येन्द्रियालंबनं [तिब्. 145अ] त्रयोदशविज्ञानं कतमस्य विज्ञानस्यालंबनं. तस्यैव त्रयोदशविधस्य. आरूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य. इदं पंचदशविधं सौमनस्येन्द्रियालंबनं विज्ञानं. तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा. कामावचररूपावचराः संस्कृतालंबनाः. आरूप्यावचराश् चत्वारो निकायाः अन्यत्र निरोधदर्शनहेयात्. अनुशया अनुशेरत इति विज्ञातव्यं. अनया दिशा अन्यद् अपि गंतव्यम् इति.
(व्.32) द्विधा सानुशयं क्लिष्टम्
इति. अनुशयानैर् अननुशयानैश् चानुशयैः सानुशयं क्लिष्टम् इत्य् अर्थः. तत्सहितत्वात् सदावस्थितत्वात्. अक्लिष्टं चित्तम् अनुशयानैर् एव सानुशयं विवेचयितुं शक्यत्वात्. तथा हि वक्ष्यति
प्रहातव्यः क्लेश आलंबनात्मत
इति.
(व्.33) सर्वस्य सर्वानंतरम् उत्पत्तिसंभवान् नास्त्य् एषाम् उत्पत्तौ सार्वजन्यः क्रमनियमः. दुःखतः स्कन्धान् अपोह्येति. नेदं दुःखम् इत्य् आत्मतो ऽभिनिवेशात्. रूपम् आत्मेत्य् एवंदृष्टिकस्य वेदनाद्यात्मग्राहदृष्टिः ( अभिध्-क्-व्य् 485 ) प्रत्यनीका.
(व्.34) अप्रहीणो भवत्य् अपरिज्ञात इति. अप्रहीणस् तत्प्राप्त्यनुच्छेदात्. अपरिज्ञातस् तत्प्रतिपक्षस्य चानुत्पत्तेः. कामरागपर्यवस्थानीया इति. पर्यवतिष्ठते एभिर् इति पर्यवस्थानीयाः स्नानीयवत्. कामरागस्य पर्यवस्थानीया अनुकूला इति. कामराग एव वा पर्यवस्थानं [तिब्. 146अ] कामरागपर्यवस्थानं. तस्मै हिताः कामरागपर्यवस्थानीयाः. ते पुना रूपादयो विषयाः आभासगता भवंतीति. विषयरूपताम् आपन्ना भवंतीत्य् अर्थः. तत्र चायोनिशोमनस्कार इति. तत्र चाभासगतेषु विषयेषु विपरीतः समनंतरप्रत्यय इत्य् अर्थः. हेतुविषयप्रयोगबलानीति. हेतुबलं कामरागोत्पत्तये कामरागानुशयो ऽप्रहीणो भवत्य् अपरिज्ञातः. कामरागपर्यवस्थानीया विषयबलं. तत्र चायोनिशोमनस्कारः प्रयोगबलं. एवम् अन्यो ऽपि क्लेश उत्पद्यत इति. प्रतिघानुशयो ऽप्रहीणो भवत्य् अपरिज्ञातः. प्रतिघपर्यवस्थानीया धर्मा आभासगता भवंति. तत्र चायोनिशोमनस्कार इत्य् एष नयः.
(व्.35-38) चत्वारो योगा एत एवेति. कामयोगो भवयोगो दृष्टियोगो ऽविद्यायोगश् चेति.
विना मोहेनेति.
अविद्यास्रवस्य पृथगुक्तत्वात्. सह पर्यवस्थानैर् आह्रीक्यादिभिर् वक्ष्यमाणैः एकचत्वारिंशद् द्रव्याणि. एकत्रिंशद् अनुशया इति. द्वादश दृष्टयः. दुःखदर्शनप्रहात्व्या पंच. समुदयदर्शनप्रहातव्ये द्वे. निरोधदर्शनप्रहातव्ये द्वे एव. [तिब्. 146ब्] तिस्रो मार्गदर्शनप्रहातव्याः. चतस्रो विचिकित्साः. पंच रागाः. एवं प्रतिघा मानाश् च. दश पर्यवस्थानानीत्य् एवम् एकचत्वारिंशत्.
अनुशया एवेति.
एवकारः पर्यवस्थाननिरासार्थः. षड्विंशतिर् अनुशया इति. द्वादश दृष्टयश् चतस्रो विचिकित्साः पंच रागाः पंच माना इति. ननु च तत्राप्य् अस्ति पर्यवस्थानद्वयम् इति. तत्र रूपारूप्यधात्वोः.
स्त्यानौद्धत्यमदा धातुत्रय
इति वचनात्. कस्माद् इह तस्याग्रहणम् इति. तस्य पर्यवस्थानद्वयस्य. अस्वातंत्र्याद् इति. कथम् अस्वातंत्र्यं. रागादिसंप्रयोगित्वाद् ईर्ष्यादिवद् अविद्यामात्रासंप्रयोगित्वाच् च. एतद् धि द्वयं रागादिभिः संप्रयुज्यते. न तथा ईर्ष्यामात्सर्यकौकृत्यक्रोधम्रक्षाः. स्वतंत्राः. अविद्यामात्रेण संप्रयोगाद् इति. ते ह्य् उभये ऽपीति. रूपारूप्यावचरा अपीत्य् अर्थः. अंतर्मुखप्रवृत्ता इति. न विषयप्रधाना इत्य् अर्थः. येनैव च कारणेन भवराग उक्त इति.
अन्तर्मुखत्वात् तन्मोक्षसंज्ञाव्यावृत्तये कृत
इति. अनेन च भवास्रव इति. अविद्यास्रव इति सिद्धम् इति. अविद्या पूर्वोक्ताभ्याम् आस्रवाभ्यां बहिष्कृता. तस्मात् सा त्रैधातुक्य् अपि अविद्यास्रव इति सिद्धम् एतत्. पंचदशद्रव्याणीति. त्रिष्व् अपि धातुष्व् अविद्यायाः प्रत्येकं पंचप्रकारत्वात्. सर्वेषां तेषाम् इति. कामास्रवादीनां संसारस्य च. उक्तो ह्य् अविद्या हेतुसंरागायेत्यादि.
याः काश्चन दुर्गतयः अस्मिन् लोके परत च
अविद्यामूलिकाः सर्वा इच्छालोभसमुत्थिता
इति च.
तथौघयोगा
इति. आस्रवा [तिब्. 147अ] एवौघा योगाश् च भवंति. केवलं
दृष्टयः पृथग्
अवस्थाप्यन्ते.
कथम् इति विव्रियते. कामास्रव एव कामौघः कामयोगश् च. एवं भवास्रव एव भवौघो भवयोगश् च. अविद्यौघयोगस् तु पूर्ववद् एवावगंतव्यः. दृष्टियोग इह चतुर्थ उक्तः. तेनाह अन्यत्र दृष्टिभ्य इति. ताः किलेति. किलशब्दः परमतद्योतकः. विनेयजनवशात् तु दृष्टियोगः पृथग् उक्त इत्य् अभिप्रायो युज्यते. आस्रवेषु दृष्टयः किमर्थं न पृथग् स्थापिता इत्य् आह.
नास्रवेष्व् असहायानाम्
इत्यादि. असहायानां दृष्टीनाम् आस्यानुकूलता अवस्थानानुकूलता चलत्वात् पटुत्वाच् च न भवति. नासनानुकूलतेत्य् अर्थः. आसेति रूपे प्राप्ते आपिशलेष्ट्या आस्येति रूपं भवति. तद् इदम् उक्तं भवति. यस्माद् एता दृष्टयो ऽसहाया नासनानुकूलाः ससहायास् त्व् आसनानुकूला भवंति. तस्मात् ससहाया एवैता आस्रवेषूक्ताः. मिश्रीकृत्योक्ता इत्य् अर्थः. किमर्थम् इत्य् आह. आसयंतीत्य् आस्रवाणां निर्वचनं पश्चाद् वक्ष्यतीत्य् अत आसनार्थम् आस्रवेषु भवितव्यम् इत्य् अभिप्रायः. तद् एवं कामौघ एकान्नत्रिंशद् द्रव्याणीति. द्वादशदृष्ट्यपनयनान् नास्रववद् एकचत्वारिंशद् द्रव्याणि भवंति. किं तर्ह्य् एकान्नत्रिंशद् द्रव्याणि भवंति. कथम् इत्य् आह. रागप्रतिघमाना इति सर्वं. भवौघो [तिब्. 147ब्] ऽष्टाविंशतिर् द्रव्याणीति. भवास्रवो द्वापंचाशद् द्रव्याण्य् उक्तानि. ततश् चतुर्विंशतिर् दृष्टीर् अपनीयाष्टाविंशतिर् द्रव्याणि. रागमाना विंशतिर् इति द्विधातुका रागा दश भवंति. माना अपि दशेति विंशतिः. दृष्ट्योघः ( अभिध्-क्-व्य् 487 ) षट्त्रिंशद् द्रव्याणीति. त्रिषु धातुषु त्रिद्वादश दृष्टय इति. अविद्यौघः पंचदश द्रव्याणि. पूर्ववत्. ओघवद् योगा इति. कामयोग एकान्नत्रिंशद् द्रव्याणि. रागप्रतिघमानाः पंचदश विचिकित्साश् चतस्रः दश पर्यवस्थानानीति. भवयोगो ऽष्टाविंशतिर् द्रव्याणि. रागमाना विंशतिः विचिकित्सा अष्टौ दृष्टियोगः षट्त्रिंशद् द्रव्याणि. अविद्यायोगः पंचदश द्रव्याणि.
यथोक्ता एव साविद्या
इति विस्तरः. के यथोक्ताः. योगा इत्य् अधिकृतं तस्माद् विव्रियते. कामयोग एव सहाविद्यया कामोपादानम् इति. अविद्या कामोपादानात्मवादोपादानयोर् यथास्वम् अंतर्भाव्यते.
द्विधादृष्टेः
पृथक्करणाच् चतुष्ट्वं. कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मवादोपादानम् इति. दृष्टियोगाच् छीलव्रतं निष्कृष्येति. षट्त्रिंशद्द्रव्यकाद् दृष्टियोगात् धातुभेदेन षच्छीलव्रतपरामर्शान् निष्कृष्य. दृष्ट्युपादानं त्रिंशद् द्रव्याणि. शीलव्रतोपादानं षड् द्रव्याणि कामधातौ द्वे एवं रूपधाताव् [तिब्. 148अ] आरूप्यधातौ चेति. मार्गप्रतिद्वंद्वाद् इति. सांख्ययोगज्ञानादिभिर् मोक्षप्राप्तिदर्शनान् मार्गप्रतिद्वंद्वभूतं शीलव्रतोपादानं. उभगपक्षविप्रलंभनाच् चेति विस्तरः. गृहिप्रव्रजितपक्षविप्रलंभनाच् चेत्य् अर्थः. अनशनादिभिर् इति. आदिशब्देन जलाग्निप्रपतनमौनवीरादानादिर् गृह्यते. अनशनादीनि शीलव्रतसंगृहीतानीष्टविषयपरिवर्जनं च. इष्टविषयपरिवर्जनेनेति. रसपरित्यागभूमिशय्यामलपंकधारणनग्नचर्याकेशोल्लुंचनादिना शुद्धिप्रत्यागमनात्.
अविद्या तु ग्राहिका नेति मिश्रितेति.
न केवलाविद्या भवम् उपाददाति. कस्माद् इत्य् आह. असंप्रख्यानलक्षणतया अपटुत्वाद् इति. मिश्रिता त्व् अन्यक्लेशसंपर्कवशाद् उपाददातीत्य् अभिप्रायः. एतः किलेति. किलशब्दः परमतद्योतकः. तेन स्वमतम् उच्यते. सूत्रे तु भगवतोक्तम् इति विस्तरेण. एवं यावद् दृष्टियोग इति. कथं. दृष्टियोगः कतमः. विस्तरेण यावद् यो ऽस्य भवति दृष्टिषु दृष्टिरागो दृष्टिच्छन्दो दृष्टिस्नेह इति पूर्ववत्. छन्दरागश् चोपादानम् उक्तं सूत्रांतरेषु. कथम्. उपादानं कतमत्. यो ऽत्र छन्दराग इति. एतद् आचार्यमतं. तद् उक्तं भवति राग एवात्र योगः. [तिब्. 148ब्] उपादानं वा. नान्ये क्लेशा इति. तेनोच्यते कामादिषु यश् छन्दराग इति.
(व्.39) अणव
इति विस्तरेण. अणवः शेरते इत्य् अनुशयाः. नैरुक्तेन विधिनास्य सिद्धिः.
सूक्ष्मप्रचारत्वाद् इति. सूक्ष्मप्रवृत्तित्वाद् इत्य् अर्थः. कथं पुनः सूक्ष्मा प्रवृत्तिः. अरूपिणां दुर्विज्ञानतया. आलंबनतश् छिद्रान्वेषिशत्रुवत् दृष्टिविषवच् च. संप्रयोगतो ऽयोगुडोदकसंतापवत् स्पर्शविषवच् च. उभयतो धात्र्यः कुमारकम् अनुशेरते. एवम् एते ऽप्य् आलंबनात् संप्रयुक्तेभ्यो वा स्वाम् संततिं वर्धयंतः प्राप्तिभिर् उपचिंवंति. अनुबध्नंतीति. अनुक्रान्तेश् चातुर्थकज्वरवन् मूषिकाविषवच् चेत्य् अन्ये. अप्रयोगेण अनाभोगेन. प्रतिनिवारयतो ऽपि निषेधयतो ऽपि पुद्गलस्य पुनःपुनः संमुखीभावाद् अनुबध्नंत्य् अतो ऽनुशया इति. आसयंति संसार इत्य् आस्रवा इति. नैरुक्तो विधिः. आसनार्थो वा. आस्रवंति भवाग्राद् यावद् अवीचिम् इति. षड्भिर् आयतनव्रणैश् चक्षुरादिभिर् आयतनैर् व्रणभूतैर् आस्रवंति क्षरंति. भवाग्राद् यावद् अवीचिं गच्छंति. भवाग्रावीतरागस्याप्य् आवीचिकक्लेशसमुदाचारात् तदुत्पन्नस्य वा तत्रोत्पत्तिसंभवात्. क आस्रवंति. अनुशयाः. आस्रवंतीत्य् आस्रवा इत्य् अच्प्रत्ययः. हरंतीत्य् ओघाः. श्लेशयन्तीति योगाः. उपगृह्णंतीत्य् उपादानानीत्य् अर्थप्रदर्शनम्. एतद् उक्तं वैभाषिकैः. वहन एतद् रूपम् ओघा इति. वहंति हरंति गत्यंतरं विषयांतरं वेति ओघाः. योजयंति श्लेषयंति गत्यन्तरे विषयांतरे वेति योगाः. उपाददत्य् उपगृह्णंति पुनर्भवे कामादिषु वा विज्ञानसंततिं इत्य् उपादानानीति. एवं तु साधीयः स्याद् इति. एवं तु साधुतरं स्याद् इत्य् आचार्यः. [तिब्. 149अ] कथम् इत्य् आह. आस्रवति गच्छत्य् एभिर् अनुशयैः संततिर् विज्ञानसंततिर् विषयेष्व् इत्य् आस्रवाः. करणसाधनं. महताभिसंस्कारेण कुशलैर् धर्मैश् चित्तसंतानः प्रतिस्रोतो नीयते विषयेभ्यो निवार्यते. तेषाम् एव संस्काराणां प्रतिप्रश्रब्ध्येति. तेषाम् एव प्रयत्नानां व्युपरमेणेत्य् अर्थः. अधिमात्रवेगत्वाद् ओघा इति. ओघसाधर्म्यं दर्शयति. ओघ इवौघा इति कृत्वा. तदनुविधानाद् इति. रागाद्यनुविधानात्. नाधिमात्रसमुदाचारिणो हि योगा इति. ओघयोगानां नानाकरणं दर्शयति. ये हि नाधिमात्रसमुदाचारिणः. ते योगाः. ये त्व् अधिमात्रसमुदाचारिण एव. त ओघा इति. कथं च ते योगा इत्य् आह. विविधदुःखयोजनाज् जात्यादिभिर् विविधैर् दुःखैर् योजनाद् इत्य् अर्थः. अभीक्ष्णानुषंगतो वा. यस्माद् वा संतताव् अभीक्ष्णं युज्यंते. तस्माद् योगा इति. कामाद्युपादानाद् इति. यैः कामादयः उपादीयंते. तानि कामाद्युपादानानि छन्दरागात्मकानि.
(व्.40अब्) त एवानुशयाः पुनर् यावत् पर्यवस्थानभेदेन पंचधा भित्त्वोक्ता इति. त एवानुशया आस्रवादिभेदेन चतुर्धोक्ताः. संयोजनबंधनानुशयोपक्लेशपर्यवस्थानभेदेन [तिब्. 149ब्] पुनः पंचधा भित्त्वोक्ताः सूत्रे ऽभिधर्मे च. ननु चानुशयव्यतिरिक्तान्य् आह्रीक्यादीनि पर्यवस्थानानि निर्दिश्यंते. कथम् इदम् उच्यते. अनुशया एव पर्यवस्थानानीति. सत्यं भवंति तद्व्यतिरिक्तानि. अव्यतिरिक्तान्य् अपि त्व् इष्यन्ते. तथा हि वक्ष्यति. क्लेशो ऽपि हि हर्यवस्थानं. कामरागपर्यवस्थानप्रत्ययं दुःखं प्रतिसंवेदयत इति सूत्रे वचनाद् इति.
(व्.40च्द्-42) एवम् अन्यान्य् अपि यथासंभवं योज्यानीति. प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामावचराणि. मानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि त्रैधातुकानि. दृष्टिसंयोजनं तिस्रो दृष्टय इति. सत्कायांतग्राहमिथ्यादृष्टयः. परामर्शसंयोजनं द्वे दृष्टी इति. दृष्टिशीलव्रतशीलव्रतपरामर्शौ. अत एवोच्यत इति. यत एव तिस्रो दृष्टयो दृष्टिसंयोजनं द्वे दृष्टी परामर्शसंयोजनम्. अत एवोच्यते. स्याद् दृष्टिसंप्रयुक्तेष्व् इति विस्तरेण प्रश्नः. दृष्टिसंप्रयुक्तेष्व् इति. परामर्शदृष्टिसंप्रयुक्तेषु वेदनादिषु. अनुनयसंयोजनेन संयुक्तो रागेण. न दृष्टिसंयोजनेन सत्कायदृष्ट्यादिलक्षणेन. न च तत्र दृष्ट्यनुशयो नानुशयीतेति. न च तत्र दृष्टिसंप्रयुक्तेषु धर्मेषु दृष्ट्यनुशयो नानुशयीत. [तिब्. 150अ] किं तर्हि. अनुशयीत. द्विः प्रतिषेधः प्रकृतिं गमयति. आह स्याद् इति विस्तरेण प्रश्नविसर्जनं. समुदयज्ञान उत्पन्न इति विशेषणं सर्वत्रगदृष्टिसंयोजनप्रहाणसंदर्शानर्थं. निरोधज्ञाने ऽनुत्पन्न इति. परामर्शदृष्टिद्वयाप्रहाणेन तत्संप्रयोगसत्ताप्रदर्शनार्थं. निरोधमार्गदर्शनप्रहातव्येषु यावद्धर्मेष्व् इति. वेदनादिषु. तेषु ह्य् अनुनयसंयोजनेन निरोधदर्शनहेयेन मार्गदर्शनहेयेन वा संयुक्तः. कीदृशेन. तदालंबनेन. यस्माद् असाव् एतान् निरोधदर्शनमार्गप्रहातव्यान् दृष्टिपरामर्शशीलव्रतपरामर्शसंप्रयुक्तान् वेदनादिधर्मान् आलंब्य राग उत्पद्यते. तस्माद् आलंबनतस् तेन संयुक्तः. दृष्टिसंयोजनेनासंयुक्तः. कस्माद् इत्य् आह. सर्वत्रगस्य दुःखसमुदयदर्शनहेयस्वभावस्य समुदयज्ञानोत्पत्तेः प्रहीणत्वात्. असर्वत्रगस्य च तदालंबनसंप्रयोगिणो दृष्टिसंयोजनस्याभावाद् इति. यद्य् अपि ह्य् असर्वत्रगं मिथ्यादृष्टिस्वभावं निरोधमार्गदर्शनप्रहातव्यं दृष्टिसंयोजनम् अस्ति. न तु तत् परामर्शदृष्टिसंप्रयुक्तवेदनादिधर्मालंबनम्. अनास्रवालंबनत्वात्. तस्मान् नालम्बनतो [तिब्. 150ब्] दृष्टिसंयोजनेन संयुक्तः. न चापि तत् तैर् वेदनादिभिः संप्रयोगि. तत्पृथक्कलापत्वात्. ( अभिध्-क्-व्य् 490 ) तस्मात् संप्रयोगतो ऽपि न तेन संयुक्तः. दृष्ट्यनुशयश् च तेष्व् अनुशेते. कीदृशस् स इत्य् आह. ते एव परामर्शदृष्टी संप्रयोगत इति. दृष्टिपरामर्शः शीलव्रतपरामर्शो वा तेषु वेदनादिषु धर्मेषु संप्रयोगतो ऽनुशेते. स्वकलापसंभूतत्वात्. न च तत्र दृष्टिसंयोजनम् अनुशेते. तयोर् दृष्टिसंयोजनम् इत्य् असंज्ञितवान् न दृष्ट्यनुशयग्रहणे पंचदृष्टिग्रहणम् भवति. दृष्टिसंयोजनग्रहणे तु सत्कायांतग्राहमिथ्यादृष्टीनाम् एव ग्रहणं. न परामर्शदृष्ट्योर् इत्य् अवगंतव्यं.
दृष्टिसंयोजनांतरम्
इति. परामर्शदृष्टी. अष्टादश द्रव्याणि तिस्रो दृष्टयो भवंतीति वाक्यशेषः. अष्टादशसंख्येयद्रव्याः सत्कायांतग्राहमिथ्यादृष्टय इति वाक्यार्थः. अष्टादशैव द्रव्याणीति प्रकृतं. द्वे परामर्शदृष्टी भवंति. कथं. कामधातौ सत्कायांतग्राहदृष्टी द्वे. ते च दुःखदर्शनप्रहातव्ये एवेष्टे. मिथ्यादृष्टिश् चतुःप्रकाराः. दुःखदर्शनप्रहातव्या यावन् मार्गदर्शनप्रहातव्या. इत्य् एवं कामधातौ षड् भवंति. यथा कामधातौ षड् एवं रूपधाताव् आरूप्यधातौ [तिब्. 151अ] चेत्य् अष्टादश भवंति. अष्टादशैव द्वे परामर्शदृष्टी. कथं. कामधातौ दृष्टिपरामर्शो दुःखदर्शनप्रहातव्यो यावन् मार्गदर्शनप्रहातव्य इति चतुःप्रकाराः. शीअव्रतपरामर्शो ऽपि दुःखदर्शनप्रहातव्यः. मार्गदर्शनप्रहातव्यश् चेति द्विप्रकारः. इत्य् एवं कामधातौ षड् भवंति. यथा कामधाताव् एवं रूपधाताव् आरूप्यधातौ च. इत्य् एवम् अष्टादशैव द्रव्याणि भवंति. न शेषा इति दृष्टयः. ग्राह्यग्राहकभेदाद् इति. दृष्टिसंयोजनं ग्राह्यं. परामर्शसंयोजनं ग्राहकम् इति. यत इति. यतः कारणात्. एकांताकुशलत्वस्वातंत्र्यलक्षणात्.
एषूक्तम्
इति. एष्व् आह्रीक्यादिषु पर्यवस्थानेषु निष्कृष्योभयम्
ईर्ष्यामात्सर्यम्
उक्तं. न ह्य् अन्यत् पर्यवस्थानम् एवंजातीयकम् इति. अनाह्रीक्यानपत्राप्यम् अप्य् एकांताकुशलं. न तु स्वतंत्रं रागादिक्लेशसंप्रयोगात्. कौकृत्यम् अपि स्वतंत्रम् अविद्यामात्रसंप्रयोगात्. न त्व् एकांताकुशलं. तद् धि कुशलम् अपि. स्त्यानौद्धत्यमिद्धान्य् अप्य् अस्वतंत्राणि रागादिसंप्रयोगात्. [तिब्. 151ब्] न त्व् एकांताकुशलानि. कुशलव्याकृतान्य् अपि हि तानि भवंति. यत्रैतद् उभयम् इति. यत्रैकांताकुशलत्वं च स्वातंत्र्यं चेत्य् एतद् उभयं स्यात्. तद् एवंजातीयकम् अन्यत् पर्यवस्थानं नास्तीत्य् अभिसंबन्धः. ( अभिध्-क्-व्य् 491 ) यस्य पुनर् दशेति. यस्य वैभाषिकस्य दश पर्यवस्थानानि. तस्य क्रोधम्रक्षाव् अप्य् उभयप्रकाराव् एकांताकुशलौ स्वतंत्रौ चेति. तस्मान् न भवत्य् अयं परिहार इति. कस् तर्हि परिहारस् तस्य इति. अत्राचार्यसंघभद्र आह. अभीक्ष्णसमुदाचारित्वाद् ईर्ष्यामात्सर्ययोः पृथक्संयोजनम् इति. अत एव च षट्त्रिंशत्संयोजनत्वे ऽपि कामधातूपपन्नानां ईर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इत्य् उक्तम्. आधिक्येन हि सुगताव् एतत् क्लेशद्वयं बन्धनम् इति. अथ वा.
अल्पेशाख्याल्पभोगकारणत्वात् सर्वसूचनात्
द्विपक्षसंक्लेशत्वाच् च. मात्सर्येर्ष्ये पृथक् कृते.
यद् अयं सुगताव् अप्य् उपपन्नः प्रगाढं परिभवम् उद्वहति. तत्रेर्ष्यामात्सर्ये कारणं. तथा ह्य्
अल्पेशाख्यो ऽल्पभोगश् च बन्धनाव् अप्य् उभयान् मत
इति. द्विविधाश् चोपक्लेशाः संतापसहगताः. आमोदसहगताश् च. त आभ्यां सर्वे सूचिता भवंति. गृहिपक्षश् चाभ्यां भोगाधिष्ठानाभ्याम् अतीव क्लिश्यते. प्रव्रजितपक्षो ऽपि धर्माधिष्ठानाभ्यां. देवासुरपक्षौ वा भिन्नोदरहेतोर् अत्यर्थं क्लिश्यतः. अत एवोक्तं भगवता. ईर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इति. [तिब्. 152अ] तस्माद् दशभ्यः पर्यवस्थानेभ्य एतद् एव द्वयं संयोजनम् इति.
(व्.43-44) अवरो हि भागः कामधातुर् इति. त्रैधातुकसमुदायापेक्षया कामधातुर् अवरो निहीनो धातुर् एकांतसमाहितत्वात्. अकुशलधर्मापायगतिदुःखदौर्मनस्यसद्भावात्. घनक्लेशत्वाच् च.
द्वाभ्यां कामानतिक्रम
इति. तदप्रहाणे कामधात्वनतिक्रमात्. दौवारिकानुचरसाधर्म्याद् इति. दौवारिकसधर्मणौ कामछन्दव्यापादौ. तौ हि कामधातुबन्धनागारान् निःक्रमणं न दत्तः. दौवारिकवत्. अनुचरसधर्माणः सत्कायदृष्ट्यादयः. यथा हि दौवारिकप्रमादे बन्धनागारात् पुरुषो निष्क्रांतो ऽपि दौवारिकानुचरैर् निवर्त्यते. तथेहाप्य् अमीभिर् इति. त्रिभिः. सत्त्वावरताम् इति. पृथग्जनत्वलक्षणां सत्त्वावरतां सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासंयोजनैर् नातिक्रामति. द्वाभ्यां कामछन्दव्यापादाभ्यां. धात्ववरतां कामधातुस्वभावां नातिक्रामति. नातिवर्तते. आर्येभ्यो ह्य् अवराः पृथग्जनाः. धातुषु च कामधातुर् अवरः. तस्माद् एव तान्य् अवरभागीयानि ( अभिध्-क्-व्य् 492 ) अपरे योगाचाराः.
पर्यादाय त्रिसंयोजनप्रहाणाद् इति. निरवशेषतः सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासम्योजनप्रहाणाद् इत्य् अर्थः. षट् क्लेशाः [तिब्. 152ब्] प्रहीणा इति. पंच दृष्टयो विचिकित्सा च. न तु रागादय उक्ताः सवशेषत्वात्. तिस्रो दृष्टीर् अपहायेति. अंतग्राहमिथ्यादृष्टिदृष्टिपरामर्शदृष्टीः. त्रयम् एवाहेति. सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सात्रयम् एवाह. क आह. भगवान्. तथा हि सूत्रे पठ्यते. कियता भदंत स्रोतआपन्नो भवति. यतश् च महानामन्न् आर्यश्रावकः इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथभूतं प्रजानाति. त्रीणि चास्य संयोजनानि प्रहीणानि भवंति परिज्ञातानि. तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विव्चिकित्सा च. स एषां त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नो भवत्य् अविनिपातधर्मा संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संसृत्य संधाव्य दुःखस्यांतं करिष्यतीति. सर्वम् एतद् वक्तव्यं स्यात्. भवेद् इत्य् अर्थः. त्रिप्रकाराः किल क्लेशा इति. दर्शनहेया इहाधिकृताः. एकप्रकाराः सत्कायांतग्राहदृष्टयः दुःखदर्शनमात्रप्रहेयत्वात्. द्विप्रकाराः शीलव्रतपरामर्शाः. चतुष्प्रकाराः विचिकित्सामिथ्यादृष्टिपरामर्शाः. तत्र सत्कायदृष्टिर् मुखम् एकप्रकाराणां. अतः सत्कायदृष्टिग्रहणाद् अन्तग्राहदृष्टिर् [तिब्. 153अ] अपि गृहीता भवति. विचिकित्सा मुखं चतुःप्रकाराणां. अतस् तद्ग्रहणान् मिथ्यादृष्टिपरामर्शानां ग्रहणं भवति. शीलव्रतपरामर्शस् तु साक्षाद् एव गृहीतः. ये तु रागादयो दर्शनहेयाः. ते ऽपि तदालंबनत्वात् गृहीता एवेति शक्यते वक्तुम् इति. अंतग्राहदृष्टिः सत्कायदृष्टिप्रवर्तितेति. आत्मनः शाश्वतोच्छेदानुग्रहणात्. दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तित इति. येन शुद्धिं प्रत्येति. तस्याग्रतो ग्रहणात्. मिथ्यादृष्टिर् विचिकित्साप्रवर्तितेति. संशयितस्य मिथ्याश्रवणचिन्तनान् मिथ्यानिश्चयोत्पत्तेः. अतो मूलग्रहणान् मूलसंभूतग्रहणसिद्धिर् इत्य् अंतग्राहदृष्ट्यादयो ऽप्य् उक्तरूपा वेदितव्याः.
अपरे पुनर् आहुर् इत्य् अयम् एवाचार्यः. मार्गविभ्रमः कथम् इत्य् आह. अन्यमार्गसंश्रयणाद् इति.
(व्.45) अवरभागीयसंयोजनवचनाद् अन्यभागीयम् अप्य् अस्तीत्य् अर्थाद् उक्तं भवति. अत इदम् उच्यते.
पंचधैवोर्ध्वभागीयम्
इति. संयोजनप्रसंगः.
(व्.46) संयोजनादिभेदेन पुनस् ते पंचधोदिता
इत्य् अनेन संबंधेन संयोजननिर्देशानंतरं बंधननिर्देशावसरो ऽपरपर्यायः. रागो बन्धनं सर्व इति. सर्व इति प्रकारतो धातुतश् च. सर्वद्वेषः. किं सर्वः. प्रकारत एव [तिब्. 153ब्] मोहः सर्वः प्रकारतो धातुतश् च. आलंबनसंप्रयोगाभ्याम् इति. स्वपरसांतानिक्यां सुखायां वेदनायां यथायोगं रागो ऽनुशेते. दुःखायां वेदनायां द्वेषः आलंबनसंप्रयोगाभ्याम् इत्य् एव. अदुःखासुखायां मोहः ताभ्याम् इत्य् एव. ननु च रागद्वेषाव् अप्य् अदुःखासुखायां यथायोगं तथैवानुशयाते. कस्मान् मोह एवोच्यत इति आह. न तथा रागद्वेषाव् इति. रागद्वेषाव् अप्य् अनुशयाते. न तु तथा यथा मोहः. मोहो ह्य् अपटुत्वाद् अपट्व्याम् अदुःखासुखायां वेदनायाम् अनुकूलत्वात् सुतराम् अनुशेत इति. स्वासांतानिकालंबनतो वा नियम इति. स्वासांतानिकसुखाद्यनुभूतिसामर्थ्यात् तथा नियमः. स्वसंतानवेदनायां हि सुखायां रागो दुःखायां द्वेषो ऽदुःखासुखायां मोहः संप्रयोगत इति.
अपरे तु व्याचक्षते. न तथा रागद्वेषाव् इति. सुखायां यथा रागो ऽनुशेते न तथा द्वेषः. किं पुनः सुखायाम् अपि द्वेषो ऽनुशेते. अनुशेते शत्रुसुखे आलंबनतः. यथा च दुःखायां द्वेशो ऽनुशेते [तिब्. 154अ] न तथा रागः. किं पुनर् दुःखायाम् अपि रागो ऽनुशेते. अनुशेते शत्रुदुःखे आलंबनतः. स्वासांतानिकालंबनतो वा नियम इति. अथ वा स्वासांतानिके सुखे आलंबनतः संप्रयोगतो वा रागो ऽनुशेते. न परसांतानिके शत्रुसुखे. एवं दुःखे स्वासांतानिके द्वेशो ऽनुशेते आलंबनतः संप्रयोगतो वा. न पारसांतानिके शत्रुदुःखे. इत्य् एवं स्वासांतानिकालंबनतो नियमः. सुखायां वेदनायां रागो ऽनुशेतो. आलंबनसंप्रयोगाभ्यां दुःखायां द्वेष इति.
(व्.46) चित्तोपक्लेशनाद् इति. चित्तक्लिष्टकरणात्.
ये ऽप्य् अन्ये चैतसा
इति. क्लेशेभ्यो ऽन्य इत्य् अर्थः. त उपक्लेशा एवेति. क्लेशसमीपरूपाः. क्लेशो वा समीपवर्त्य् एषाम् इति. क्लेशप्रवृत्त्यनुवृत्तेर् अपरिपूर्णक्लेशलक्षणत्वाच् चोपक्लेशाः. उपक्लेशाश् चैतसा एव ते न चित्तविप्रयुक्ताः. ये क्षुद्रवस्तुके पठिता इति. क्षुद्रवस्तुके प्रवचनभागे ये पठिताः. न तु चेतनादय एवेत्य् अभिप्रायः. तद्यथा अरतिर् [तिब्. 154ब्] विजृंभिका चेतसो लीनत्वं तन्द्री भक्षे ऽसमता नानात्वसंज्ञा अमनसिकारः कायदौष्ठुल्यं शृंगी भित्तिरीका अनार्दवता अनार्दवता अस्वभावानुवर्तिता कामवितर्को व्यापादवितर्को विहिंसावितर्को ज्ञातिवितर्को जनपदवितर्को ऽमरवितर्को ऽवमन्यनाप्रतिसंयुक्तो वितर्कः कुलोदयताप्रतिसंयुक्तो वितर्कः शोकः दुःखं दौर्मनस्यम् ( अभिध्-क्-व्य् 494 ) उपायास इति. [तन्द्रीति जडता.]
(व्.47-49अब्) तत्राह्रीक्यानपत्राप्ये व्याख्याते इति.
अह्रीर् अगुरुतावद्ये भयादर्शित्वम् अत्रपेति.
धर्मामिषेति विस्तरः. धर्मस्यामिषस्य कौशलस्य च प्रदाने विरोधी चित्तस्याग्रहो मात्सर्यं. मा मत्तः सरत्व् इत्य् आकारो मत्सरः. मत्सर एव मात्सर्यं. मत्सरिणो वा भावो मात्सर्यं. कौकृत्यं स्त्यानं च व्याख्याते इति. कुकृतभावः कौकृत्यं. इह तु तदालंबनो धर्मः कौकृत्यं. कायचित्ताकर्मण्यता स्त्यानम् इति. चित्ताभिसंक्षेपो मिद्धम् इत्य् एतावत्य् उच्यमाने समापत्ताव् अपि प्रसंग इत्य् अतो विशेष्यते. कायसंधारणासमर्थ इति. तत् तु क्लिष्टम् एव पर्यवस्थानं. कौकृत्यं चेति. यत् क्लिष्टं मिद्धं. तत् पर्यवस्थानं. यत् तु कुशलम् अव्याकृतं वा न तत् [तिब्. 155अ] पर्यवस्थानं. त्रिविधं हि मिद्धम् इष्यते. कौकृत्यं च. यत् क्लिष्टं. तत् पर्यवस्थानं. न कुशलं. कुशलाकुसलं हि तद् इष्यते. व्यापादविहिंसावर्जितः सत्त्वासत्त्वयोर् आघातः क्रोध इति. सत्त्वविषये आघातविशेषो व्यापादः. अमी भवंतः सत्त्वा हन्यंतां वा बध्यंतां वा शीर्यंतां वा अनयेन व्यसनम् आपद्यंताम् इत्य् आकारप्रवृत्तो व्यापादः. सत्त्वाकर्षणसंत्रासनतर्जनादिकर्मप्रवृत्ता विहिंसा. ताभ्याम् अन्यः सत्त्वासत्त्वयोर् आघातः क्रोधः. तद्यथा शिक्षाकामस्य भिक्षोश् चित्तप्रकोपः. कंटकादिषु च प्रकोप इति. यथाक्रमं ज्ञाताज्ञातानाम् इति. राजादिभिर् ज्ञातानां म्रक्षवतां पुद्गलानां म्रक्षस् तृष्णानिष्यन्दः. मा मे लाभसत्कारो न भवैष्यतीति. अज्ञातानाम् अविद्यानिष्यन्दः कर्मस्वकताम् अश्रद्दधानः तद् अवद्यं प्रच्छादयति. न परस्यांतिके विशुद्ध्यर्थं देशयतीत्य् एवम् उभयनिष्यन्दो म्रक्ष इत्य् एके. कथम् अनपत्राप्यम् अविद्यानिष्यन्दः. यस्माद्
अवद्ये भयादर्शित्वम् अत्रपेति.
[तिब्. 155ब्] कौकृत्यं विचिकित्साजम्
इति. यत् क्लिष्टं. तद् एव पर्यवस्थानाधिकारात्.
(व्.49च्द्, 50) क्लेशमला
इति. यथा शरीरान् मला जायंते एवम् इमे मायादयो मला इव क्लेशेभ्य उत्पद्यंते. क्षिपति प्रेरति. मदः पूर्वोक्तः
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतस
इति.
(व्.51) यश् च यद्दर्शनहेयसंप्रयुक्त इति. यस्य सत्यस्य दर्शनं यद्दर्शनं. यद्दर्शनेन हेयो यद्दर्शनहेयः. तेन संप्रयुक्तो यद्दर्शनहेयसंप्रयुक्तः. स तद्दर्शनहेयः. स तस्य सत्यस्य दर्शनेन हेयः. कः. आह्रीक्यादिः. तदन्ये भावनाहेया एव.
तेभ्यो ऽन्य
इति. आह्रीक्यादिभ्यो ऽन्ये ईर्ष्यादयो भावनाहेया एव. न दर्शनहेयाः.
स्वतंत्राश् चैते.
न रागादिपरतंत्रा इत्य् अर्थः.
(व्.52) स्त्यानौद्धत्यमिद्धान्य् अकुशलाव्याकृतानीति. पर्यवस्थानाधिकारान् मिद्धं कुशलम् अपीति नोच्यते.
परेणाव्याकृतास् तत
इति. यथासंभवम् इति. कामधातोः परेण यावंतः संभवंति. ते पुनर् मायाशाठ्यादयः.
(व्.52) वितथात्मसंदर्शनतयेति. वितथस्यात्मनः संदर्शनतया महाब्रह्मा आयुष्मंतम् अश्वजितं वंचयितुं प्रवृत्तः. कुत्रेमानि ब्रह्मन् महाभूतान्य् अपरिशेषं निरुध्यंत इति पृष्टो [तिब्. 156अ] ऽप्रजानन् क्षेपम् अकार्षीत्. अहम् अस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम् इति मायया वंचयितुम् आरब्धः. अथ स महाब्रह्मा आयुष्मंतम् अश्वजितं करे गृहीत्वा एकांते अस्थाद् एकांतस्थितश् चेदम् उक्तवान्. विद्यमाने तथागते मां प्रष्टव्यं मन्यसैतीदम् अस्य शाठ्यं दृश्यते. स्वपरिषल्लज्जया ह्य् आत्मीयज्ञानतां निगूहमानः स तथा कृतवान् इति. उक्तम् अपि शाठ्यम् इति तथा हि
कौकृत्यमिद्धाकुशलान्य् आद्ये ध्याने न संत्य् अत
इति. अत्रोक्तम् अपि प्रसंगेनेति
परेणाव्याकृतास् तत
इति प्रसंगेनेति. पंचापनीयेति मायाशाठ्यस्त्यानौद्धत्यमदान्.
(व्.53) तेहि सकले मनोभूमिके इति. मानमिद्धे.
उपक्लेशाः स्वतंत्राश् चेति
ईर्ष्यामात्सर्यादयः. ये च क्लेशमहाभूमिकेषूक्ता इत्य् आश्रद्ध्यकौसीद्यप्रमादा एव. नान्ये स्त्यानौद्धत्ययोर् इहैव पूर्वं गृहीतत्वात्. मोहस्य क्लेशग्रहणेन ग्रहणात्.
(व्.54,55) सुखाभ्याम्
इति. सुखवेदनास्वभावाभ्याम् इन्द्रियाभ्याम् इत्य् अर्थः. हर्षदैन्याकारवर्तित्वाद् इति. हर्षाकारवर्ती रागो दैन्याकारवर्ती द्वेष इति यथासंख्येन. [तिब्. 156ब्] षड्विज्ञानभूमिकत्वाच् चेति. पंचविज्ञानभूमिकत्वाद् रागः सुखेन्द्रियेण संप्रयुक्तः. द्वेषश् च दुःखेन्द्रियेण. मनोविज्ञानभूमिकत्वात् तु रागः सौमनस्येन्द्रियेण. द्वेषश् च दौर्मनस्येन्द्रियेण संप्रयुक्तः. पुण्यकर्मणां पापकर्मणां च यथाक्रमं इति. पुण्यकर्मणां मिथ्यादृष्टिर् दौर्मनस्येन संप्रयुक्ता. पुण्यक्रियाया नैरर्थक्यदर्शनात्. पापकर्मनां मिथ्यादृष्टिः सौमनस्येन सस्ंप्रयुक्ता. स्वकृतपापवैफल्यदर्शनात्. चतस्रो दृष्टय इति. सत्कायदृष्टिर् अंतग्राहदृष्टिर् दृष्टिपरामर्शः शीलव्रतपरामर्सश् च. कथम् उच्छेददृष्टिः सौमनस्येन संप्रयुक्ता. तस्याभिनतत्वात्. उपेक्षा संतिष्ठत इति विनाशावस्थायां मन्दत्वात्. यस्यां भूमौ यावन्तीन्द्रियाणीति.
सौमनस्यसुखोपेक्षाः उपेक्षासुमनस्कजे.
सुखोपेक्षे उपेक्षा च विदो ध्यानोपपत्तिषु
इति अवगंतव्यं. तत्रप्य् ऊर्ध्वभूमिषु. चतुर्विज्ञानकायिकाः प्रथम एव ध्याने. चक्षुःश्रोत्रकायमनोविज्ञानभूमिकाः. प्रथमे हि ध्याने त्रिविज्ञानकायिकं सुखेन्द्रियम् अस्ति. [तिब्. 157अ] मनोविज्ञानकायिकं सौमनस्येन्द्रियं. चातुर्विज्ञानकायिकं उपेक्षेन्द्रियं. तत ऊर्ध्वं मनोभूमिकम् एव. द्वितीये ध्याने सौमनस्योपेक्षेन्द्रिये. तृतीये सुखोपेक्षेन्द्रिये. चतुर्थे ध्याने आरूप्येषु चोपेक्षेन्द्रियम् एव. तत्र सर्वे ऽप्य् अनुशया यथायथं वेदनेन्द्रियेण संप्रयुक्ताः. तत्र शमथस्निग्धसंतानत्वात् हर्षदैन्याकारव्यवस्था नास्ति. दैन्याकारवर्तित्वाद् एषां कौकृत्यादीनां न सौमनस्येन संप्रयोगः. मनोभूमिकत्वा न दुःखेन्द्रियेण.
(व्.56-57) लोभान्वयत्वेनेति. लोभहेतुदत्वेन. लोभसमुत्थेनेत्य् अर्थः.
मदः सुखाभ्याम्
इति. सुखसौमनस्याभ्यां. तृतीये ध्याने सुखेनेति. मदस्य मानसत्त्वात्. यथा अविद्याया इति. यथा अविद्यायाः न क्वचित् क्लेशे उपक्लेशे वा संप्रयोगप्रतिषेधो ऽस्ति. एवम् उपेक्षाया अपीति. अकुशलमहाभूमिकत्वात् आह्रीक्यानपत्राप्ययोः.
अकुशले त्व् आह्रीक्यम् अनपत्रपेति
वचनात्. क्लेशमहाभूमिकत्वाच् च स्त्यानौद्धत्ययोः. षड् विज्ञानकाया अकुशलाः क्लिष्टाः संभवंतीत्य् अतः पंचभिर् अपीन्द्रियैः संप्रयोग एषां [तिब्.157ब्] संभवतीति.
(व्.58) किं त्रैधातुक्यस्त्यानौद्धत्यविचिकित्सा गृह्यंत इति. आसां त्रैधातुकत्वात् ता एव निष्कृष्य पृच्छ्यंते. केवलो ऽयम् इति विस्तरः अकुशला राशिर् इति भिक्षवो यद् उत पंच निवरणानीति ते सम्यग् वदमाना वद्युः. तत् कस्य हेतोः. केवलो ऽयं भिक्षवः परिपूर्णाकुशलराशिर् यद् उत पंच निवरणानीति विस्तरेणैकांताकुशलत्ववचनात्. कामे निवरणानि नान्यत्रेति. वृत्तिसूत्रपदयोर् एकवाक्यता. निवरणानीति ध्यानसमापत्त्यादीनाम् आवरणानीत्य् अर्थः.
एकविपक्षाहारकृत्यत
इति. एकविपक्षाहारकृत्यत्वाद् इत्य् अर्थः. अंतरेणापि हि भावप्रत्ययं भावप्रधाने निर्देशो भवेत्. अथ वा एकं विपक्षाहारकृत्यं एकविपक्षाहारकृत्यं. तत इति. विपक्षः प्रतिपक्ष इति. श्लोकबन्धानुगुण्येन प्रतिपक्ष इह विपक्षो ऽभिप्रेतः. क्लेशविरुद्धः पक्षो विपक्ष इति कृत्वा. अभिधर्मे तु कृष्णः पक्षो विपक्षः शुक्लविरुद्धः पक्षो विपक्षः. शुक्लपक्षः प्रतिपक्ष इति प्रतीतं.
भक्ते असमतेति. अतिबहुभुक्त्वाहारस्य यः कायोपरोधः. अनाहार इति प्रतिपक्षः.
स्त्यानमिद्धेन प्रज्ञास्कन्धस्य. किं. विघात इति प्रकृतं. [तिब्. 158अ]
एतस्यां तु कल्पनायाम् इति विस्तरः. शीलस्कंधः समाधिस्कंधः प्रज्ञास्कन्ध इति. ययानुपूर्व्या स्कन्धा व्यवस्थिताः. तयैवानुपूर्व्या तद्विपक्षभूतानि निवरणानि पठ्येरन्. कामच्छन्दो व्यापादः औद्धत्यकौकृत्यं स्त्यानमिद्धं विचिकित्सा चेति. औद्धत्यकौकृत्यनिवरणस्य पूर्वं ग्रहणं प्राप्नोति. समाधिस्कंधस्य प्रज्ञास्कंधात् पूर्वम् उक्तत्वात्. न चैवम् अतो नैतत् कारणम् इत्य् अभिप्रायः. किं पुनर् अत्र कारणम् इत्य् आह. अतो यथासंख्यम् एताभ्यां स्त्यानमिद्धेन औद्धत्यकौकृत्येन च निवरणाभ्यां समाधिप्रज्ञास्कंधयोर् उपघात इति. कथम् इत्य् आह. समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद् भयं समानरूपकल्पत्वात्. एवं धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्याद् भयम् इति.
अन्ये त्व् अन्यथा वर्णयंतीति पूर्वाचार्यः. [तिब्. 158] चारगतस्येति पिण्डपातार्थं परिभ्रमतः. निमित्तग्राहात्. स्त्रीरूपम् इति स्त्रीशब्द इति वा ग्रहणात्. विहारगतस्य प्रतिसंलीनस्य स्थितस्य वा निषण्णस्य वा चंक्रम्यमाणस्य वा. तत्पूर्वकौ प्रियाप्रियविषयनिमित्तग्राहपूर्वकौ प्रियाप्रियविषयपूर्वकौ वा. यथाक्रमं शमथविपश्यनयोर् अंतरायं कुरुत इति. शमथस्य स्त्यानमिद्धम् अंतरायं करोति. प्रत्यासन्नरूपतया स्त्यानमिद्धोपस्थानात्. विपश्यनाया औद्धत्यकौकृत्यविचिकित्से अंतरायं ( अभिध्-क्-व्य् 498 ) कुरुतः. औद्धत्यकौकृत्यस्य कृतद्वंद्वैकवद्भावस्य विचिकित्सया सह पुनर् द्वंद्वः. औद्धत्यकौकृत्यं च विचिकित्सा च औद्धत्यकौकृत्यविचिकित्से इति. विचिकित्सा तु पुनर् व्युत्थितस्यापि तस्य धर्मनिध्यानकाले ऽंतरायं करोति.
अपरे पुनर् एवं पाठं पठंति. स्त्यानमिद्धम् औद्धत्यकौकृत्यं विचिकित्सा चेति. एवं च व्याचक्षते. स्त्यानमिद्धं शमथस्यांतरायं करोति. औद्धत्यकौकृत्यं विपश्यनायाः. विचिकित्सा च व्युत्थितस्य धर्मनिध्यानकाले ऽंतरायं करोतीति.
(व्.59) विसभागधातुसर्वत्रगाणाम् इति. विस्तरः. विसभागधातुसर्वत्रगाणां दुःखसमुदयदर्शनहेयत्वेन द्विभेदानां मिथ्यादृष्ट्यादीनां. यद् आलंबनं परिज्ञायते दुःखसमुदयान्वयज्ञानपक्षेण मार्गेण रूपारूप्यधात्वालंबनावस्थायां. न ते तदा प्रहीयंते. दुःखधर्मज्ञानेन समुदयधर्मज्ञानेन च यथायोगं पूर्वम् एव प्रहीणत्वात्. धर्मज्ञानवध्या हि ते कामावचरत्वात्. निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालंबनानां [तिब्. 159अ] दृष्टिपरामर्शादीनां यदालंबनं निरोधमार्गदृग्दृग्घेयं मिथ्यादृष्ट्यादिकं दुःखसमुदयसत्यस्वभावं दुःखसमुदयधर्मज्ञानपक्षेणान्वयज्ञानपक्षेण वा यथाधातु परिज्ञायते. न ते तदा प्रहीयंते. निरोधमार्गदर्शनप्रहेयत्वाद् इति. न च तथा तेषाम् आलंबनं परिज्ञायते पूर्वम् एव ज्ञातत्वात्. कथम् एषां प्रहाणम् आलंबनपरिज्ञानात् तत्प्रहाणं न युज्यत इत्य् अभिप्रायः. तत्रालंबनपरिज्ञानात् कामावचराः स्वधात्वलंबना रूपारूप्यावचराश् च दुःखसमुदयदृग्घेयाः प्रहीयंते. तत्र विसभागधात्वालंबनानाम् आलंबनं परिज्ञया पश्यतः प्रहाणां दुःखसमुदयान्वयज्ञानक्षांत्योर् युगपद् द्विधात्वालंबनत्वात्. स्वभूम्यालंबनानाम् इति विशेषणं. विसभागधातुसर्वत्रगनिरासार्थं. तदालंबनसंक्षयाद् इति. विसभागधातुसर्वत्रगा आलंबनम् एषां सत्कायदृष्ट्यादीनाम् इति. तदालंबनाः सभागधातुसर्वत्रगाः. तेषां क्षयात् प्रहाणात्. ते विसभागधातुसर्वत्रगाः प्रहीयंते. [तद्धेतुत्वेनोपस्तंभप्रहाणाद् विसभागधातुसर्वत्रगानां प्रहाणम् आलंबनप्रहाणा]. आलंबनप्रहाणाद् इति. दृष्टिपरामर्शाद्यालंबनानां निरोधमार्गदर्शनहेयानां मिथ्यादृष्ट्यादीनां प्रहाणात्. ते ऽपि दृष्टिपरामर्शादयः सास्रवालंबनाः प्रहीयंते.
प्रतिपक्षोदयात् क्षय
इति. भावनाहेयानां प्रतिपक्षोदयाद् एव क्षयः नालंबनपरिज्ञानादिभ्य ( अभिध्-क्-व्य् 499 ) इति दर्शयति. पश्चात् प्रवेदयिष्याम इति.
नवप्रकारा दोषा हि भूमौभूमौ तथा गुणा
इत्य् अत्र वक्ष्यति.
(व्.60अब्) प्रहाणप्रतिपक्ष आनंतर्यमार्ग इति. [तिब्. 159ब्] विपक्षप्रतिद्वंद्वी पक्षः प्रतिपक्षः. प्रहाणाय प्रतिपक्षः प्रहाणप्रतिपक्षः. विमुक्तिमार्गो ऽपि हि प्रतिपक्षो न तु प्रहाणायेत्य् अत इत्थं विशेषणं. प्रहीयते वानेनेति प्रहाणं. प्रहाणश् चासौ प्रतिपक्षश् च प्रहाणप्रतिपक्षः. तद्यथा दुःखधर्मज्ञानक्षांतिः. आधारप्रतिपक्षस् तस्मात् परेणेति. तस्माद् आनंतर्यमार्गात् परेण. यो मार्गो विमुक्तिमार्गः. स ह्य् आधारः प्रहाणस्य तत्प्राप्त्याधारणात्. आधार्यते ऽनेनेत्य् आधारः. स एव प्रतिपक्षः आधारप्रतिपक्षः. तद्यथा दुःखधर्मज्ञानक्षांतेः परं दुःखधर्मज्ञानम् इति तेनोच्यते. येन तत्प्रापितम् इति विस्तरः. येन मार्गेण तत्प्रापितम् आनंतर्यमार्गप्रापितं प्रहाणम् आधार्यते. तत्प्राप्त्यनुच्छेदात्म आधारप्रतिपक्ष इति. दूरीभावप्रतिपक्ष इति विस्तरः. क्लेशप्राप्तिर् दूरीभवति येन स दूरीभावः. स एव प्रतिपक्षो दूरीभावप्रतिपक्षः. दूरीभवनं वा दूरीभावः. तस्मै प्रतिपक्षो दूरीभावप्रतिपक्षः. विमुक्तिमार्गात् परेण यो मार्ग इति. यो ऽसौ विमुक्तिमार्गो दुःखे धर्मज्ञानं. तस्मात् परेण यो मार्गो दुःखे ऽन्वयज्ञानक्षांत्यादि. स दूरीभावप्रतिपक्ष इति दर्शयति.
विमुक्तिमार्गो ऽपीत्य् अपर इति. [तिब्. 160अ] स चाप्य् आद्यो विमुक्तिमार्गो दूरीभावप्रतिपक्ष इत्य् उच्यते. सो ऽपि हि तां क्लेशप्राप्तिं दूरीकरोति. एवं च सति विमुक्तिमार्ग आधारप्रतिपक्षो दूरीभावप्रतिपक्ष इति वच नामद्वयं लभत इत्य् उक्तं भवति. तं धातुं दोषतो दर्शनाद् विदूषयतीति. अनित्यादिभिर् आकारैर् येन तं धातुं विदूषयतीत्य् अर्थः. तद् एवं सति यो ऽपि दुःखसमुदयालंबनः प्रहाणप्रतिपक्षादिः. स चापि विदूषणाप्रतिपक्ष इति दर्शितं भवतीति. अपि त्व् इयम् आनुपूर्वी साध्वी भवेद् इत्य् आचार्यः. सोपानन्यायसमाश्रयात् लक्षणासांकर्याच् चेयम् आनुपूर्वी साध्वीति दर्शयति. दुःखसमुदयालंबनः प्रयोगमार्ग इति. प्रयोगमार्ग एवोष्मगतादि गृह्यते. नानंतर्यमार्गादि. प्रहाणप्रतिपक्षादित्वेन तद्व्यवस्थापनात्. सर्वानंतर्यमार्ग इति. पश्चात्कालीनो ऽपि यो ऽन्यः. विमुक्तिमार्गः सर्व इत्य् एव चाधिक्रियते. विशेषमार्गस् तु य एतत्त्रयव्यतिरिक्तः. स इह गृह्यते.
(व्.60च्द्) न हि संप्रयोगात् क्लेशो विवेचयितुं शक्यत इति. स्वकलापात् विवेचनाशक्यत्वात्. [तिब्. 160ब्] अनागतस् तावच् छक्येतालंबनाद् विवेचयितुं. विवेचितस्य
( अभिध्-क्-व्य् 500 ) तस्य न पुनस् तद् वस्त्व् आलंब्योत्पत्तिर् इत्य् अतः कारणात्. अतीतस् तु कथं यद् वस्त्वालंब्योत्पन्नः. न ह्य् आलंबितं वस्त्व् अनालंबिनीकर्तुं शक्यते. एषो ऽपि नैकांत इति. चतुर्भिः प्रकारैः क्लेशानां क्षय इष्यते.
आलंबनपरिज्ञानात् तदालंबनसंक्षयात्
आलंबनप्रहाणाच् च प्रतिपक्षोदयात् क्षय
इति. तस्माद् आलंबनपरिज्ञानाद् इति नायम् एकांतः. तस्माद् वक्तव्यम् एतद् इति परिहर्तव्यम् एतद् इत्य् अर्थः. अत्राचार्यसंघभद्रः परिहरति. आलंबनात् क्लेशाः प्रहातव्याः. आलंबनपरिज्ञानबलेन हि क्लेशाः प्रहीयंते. द्विविधं चानुशयालंबनं. संयोगवस्तु असंयोगवस्तु च. तत्र संयोगवस्तुविषयाणाम् अनुशयानां तदनुशयबलोत्पादितानाम् अतद्विषयाणाम् अपि पुद्गलस्य संताने प्राप्तिर् अक्लिष्टचित्तस्याप्य् अविच्छेदेन प्रवर्तते. अनागतातीतक्लेशहेतुफलभूता. एवम् असंयोगवस्तुविषयाणाम् अतद्विषयाणाम् अपि च तद्विषयक्लेशपृष्ठसमुदाचरिणां क्लेशानां प्राप्तिर् वेदितव्या. सा ह्य् अनागतानाम् उत्पत्तौ प्रत्ययगमनाद् धेतुभूता भवति. अतीतानां च निष्यन्दभावात् [तिब्. 161अ] फलभूता. सा च तत्प्रहाणप्रतिपक्षनिष्यन्दप्राप्तिसमवधानविरुद्धा. तदाधारितत्वात् क्लेशानाम्. अतो येनालंबनेनोत्पन्नाः क्लेशा अन्यालंबनान् अपि क्लेशान् प्रवर्तयंति. तदालंबनप्रहाणप्रतिपक्षनिष्यन्दोत्पत्तौ तत्प्राप्तिविगमे ते क्लेशास् तदालंबना अपि संतो हेतुफलापक्रांताः प्रहीणा इत्य् उच्यंते. तद् यस्माद् अपरिज्ञाते कस्मिंश्चित् क्लेशविषये अतद्विषयाणाम् अपि क्लेशानां तद्विषयक्लेशबलेनप्राप्तिर् अनागतातीतक्लेशहेतुफलभूता संततौ प्रवर्तते यथा वस्तु. तस्माद् आलंबनात् क्लेशाः प्रहातव्या इत्य् अभिमतं इति.
ननु च तदालंबनप्रहाणादिभिर् अपि क्लेशाः प्रहीयंत इत्य् अभिप्रेतं. किम् इदम् उक्तम् आलंबनपरिज्ञानबलेन क्लेशाः प्रहीयंत इति. ते ऽपि दुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंते. तद्भावाभावयोगे तद्भावाभावयोगात्. येषाम् अपि हि प्रतिपक्षोदयात् प्रहाणम् उच्यते. ते ऽपि भावनाहेयाः. क्लेशा आलंबनदुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंत इत्य् अवगंतव्यं. व्यवस्थामात्रं तु तद् यद् उक्तं. तदालंबनप्रहाणादिभिर् [तिब्. 161ब्] अपि क्लेशाः प्रहीयन्त इत्य् अभिप्रायो लक्ष्यते.
स्वासांतानिकः प्राप्तिच्छेदाद् इति विस्तरः. स्वसंतानक्लेशः प्राप्तिविगमात् प्रहीणो वक्तव्यः. परसंतानक्लेशस् तु न प्राप्तिच्छेदात्. स्वसंताने तत्प्राप्त्यभावात्. किं तर्हि तदालंबनस्वासांतानिकक्लेशप्रहाणात्. पारसांतानिकक्लेशालंबनस्वासांतानिकक्लेशप्राप्तिच्छेदाद् इत्य् अर्थः. सर्वं ( अभिध्-क्-व्य् 501 ) रूपं कुशलाकुशलाव्याकृतं. अक्लिष्टश् च धर्म इत्य् अरूपी कुशलसास्रवं अनिवृतव्याकृतश् च. तथैव तदालंबनस्वासांतानिकक्लेशप्रहाणात् प्रहीणो वक्तव्य इति.
(व्.61) भूतशीलप्रदेशाध्वद्वयानाम् इव दूरतेति.
इवशब्दो ऽत्रोदाहारणं. तद्यथार्थे द्रष्टव्यः. वैलक्षण्याल् लक्षणदूरता. तद्यथा भूतानां. भिन्नलक्षणो हि पृथिवीधातोर् अब्धातुस् तस्मात् पृथिवीधातोर् अब्धातुर् दूरे भवति. विपक्षत्वाद् विपक्षदूरता. तद्यथा शीलस्य दौःशील्यं. देशविच्छेदात् देशदूरता. तद्यथा प्रदेशस्य पश्चिमसमुद्रस्य पूर्वसमुद्रात्. कालतः कालदूरता. तद्यथाध्वद्वयस्यातीतानागतलक्षणस्य. [तिब्. 162अ] तद् ध्य् अतीतानागतं दूरम् उच्यते. क्वोच्यते. अभिधर्मे. एवं ह्य् आह. दूरे धर्माः कतमे. अतीतानागता धर्माः. अंतिके धर्माः कतमे. प्रत्युत्पन्ना धर्माः. असंस्कृतं चेति. तद् दूरम् इति. तद् अतीतानागतम्.
उत्पद्यमानं चेति. उत्पादाभिमुखम् अनागतं चेत्य् अर्थः. न चिरभूतभावित्वेनेति. न चिरभूतत्वेनातीतं नापि चिरभावित्वेनानागतं दूरम् इत्य् अर्थः. वर्तमानम् अप्य् एवं दूरं प्राप्नोतीति. अध्वनानात्वेन प्रत्युत्पन्नो ऽध्वतया वर्तमानम् अपि दूरं प्राप्नोति. यथातीतानागतम् अतीतानागताध्वतया. अकारित्रात् तर्हि तद् दूरम् इति. उपरतकारित्रम् अतीतम् अप्राप्तकारित्रम् अनागतम् इति. तद् अतीतानागतं दूरम् उच्यते. असंस्कृतस्य कथम् अंतिकत्वम् इति. तस्य कारित्राभावाद् अंतिकत्वं न स्यात्. तच् चेष्यते अंतिके धर्माः कतमे. प्रत्युत्पन्ना धर्माः. असंस्कृतं चेति शास्त्रपाठात्. सर्वत्र तत्प्राप्तेर् इति. सर्वत्र देशे तस्यासंस्कृतस्य प्रतिसंख्याप्रतिसंख्यानिरोधस्य प्राप्त्युत्पादात्. अतीतानागते ऽपि [तिब्. 162ब्] प्रसंग इति कुशलादेर् अतीतानागतस्य सर्वत्र देशे प्राप्तिः संभवतीत्य् अतीतानागते ऽप्य् अंतिकत्वप्रसंगः. आकाशं च कथम् इति. आकाशं च कथम् अंतिकं. न हि तस्य प्राप्तिर् अस्तीति. अतीतानागतम् अन्योन्यम् इति. अतीताद् अनागतं दूरम् अनागताच् चातीतम् इत्य् अर्थः. असंस्कृतं चाव्यवहितत्वाद् इति. न केनचिद् व्यवहितं. यथा वर्तमानेनातीतानागतम् इति. एवं तस्यांतिकत्वं. एवम् अपीति. अस्याम् अपि कल्पनायां. यद् अनंतरम् अतीतानागतं. तद् वर्तमानस्यांतिकत्वाद् उभयं प्राप्नोति. दूरम् आसन्नं चेति. तद् ध्य् अतीतं वर्तमानांतरितत्वाद् अनागताद् दूरं. वर्तमानाच् चाव्यवहितत्वाद् अंतिकम् इति प्राप्नोति. इत्य् एवम् अनागतम् अपि नेयं.
एवं तु युक्तं स्याद् इति. स्वमतम् आचार्यस्य. धर्मस्वलक्षणाद् अनागतं दूरं. कस्मात्. असंप्राप्तत्वात्. यस्माद् अनागतेन स्वलक्षणं न संप्राप्तम् ( अभिध्-क्-व्य् 502 ) इति. अथ वा यस्मात् तत्स्वलक्षणम् असंप्राप्तम् अनुपस्थितम् इति. अतीतं च. किं धर्मस्वलक्षणाद् दूरं. तत्प्रच्युतत्वात्. यस्मात् तद् धर्मस्वलक्षणं. तस्माद् अतीतात् प्रच्युतं. तद् ध्य् अतीतं यद् धर्मस्वलक्षणात् प्रच्युतम् इति.
(व्.62) प्रतिपक्षोदयात् क्षय
इत्य् उक्तम्. अतः पृच्छति. किं मार्गविशेषगमनाद् इति विस्तरः. प्रहाणविशेष [तिब्. 163अ] इति. विशिष्यते प्रहाणम् इत्य् अर्थः. प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्न् अभिप्रेत इति. तस्य विसंयोगप्राप्तिसहोत्पादाद् आनंतर्यमार्गे हि न तावद् विसंयोगप्राप्तिर् अस्ति. उत्पादाभिमुखत्वात्. विमुक्तिमार्गो ऽपि हि प्रतिपक्ष इति शक्यते व्यवस्थापयितुं. मुख्यप्रतिपक्षेणानंतर्यमार्गेण सहैककार्यत्वात्. तथा ह्य् उक्तम् उभाभ्यां हि तस्य प्राप्तिः विसंयोगप्राप्तेर् आवाहकसंनिश्रयत्वाद् इति. फलानि चत्वारीति. चतुर्ग्रहणम् एकान्ननवतिफलप्रतिपत्तिनिरासार्थं. पुरुषकारादिपंचफलप्रतिपत्तिनिरासार्थं वा. फलप्राप्तिर् अपि विमुक्तिमार्गावस्थायाम् एव गृह्यते. विसंयोगलाभास्तित्वयोगाद् इन्द्रियविवृद्धिः इन्द्रियसंचार इति. इन्द्रियाधिक्यप्रतिपत्तिनिरासार्थम् एतद् अर्थप्रदर्शनं इन्द्रियविवृद्धिर् इत्य् उच्यते. फलप्राप्तिवचनेनैव सिद्धेर् इत्य् आचार्यसंघभद्रः. अत्र ब्रूमः. सत्यं फलप्राप्तिर् एवेन्द्रियविवृद्धिः. फलप्राप्तिविशेषस् तु प्रदर्शयितव्यो यत्र पुनर् विसंयोगफललाभो भवति. अन्यथा हि फलप्राप्तिवचनम् अपि न कर्तव्यं स्यात्. प्रतिपक्षोदयवचनेनैव तत्सिद्धेः. [तिब्. 163ब्] इत्य् अलम् अनयातिखलिनिकया. केषांचिद् यावद् द्वयोर् इति. केषांचित् क्लेशानां षट्सु कालेषु विअंयोगलाभः. यावच्छब्देन केषांचित् पंचसु. केषांचिच् चतुर्षु. केषांचित् त्रिषु. केषांचिद् द्वयोर् इति. केषांचिद् द्वयोर् इति. केषांचिद् एकास्मिन् काल इति नोक्तं. पुनःप्राप्तस्य विसंयोगस्याधिकृतत्वात्. संभवति हि भावाग्रिकस्य नवमस्य प्रकारस्यैकस्मिन्न् एव काले तीक्ष्णेन्द्रियस्य विसंयोगलाभः. स तु न पुनर्लाभ इति नोच्यते. तत्र तावन् मृद्विन्द्रियस्य षट्सु कालेषु विसंयोगलाभः. दुःखसमुदयनिरोधदर्शनहेयानां कामावचराणां मार्गदर्शनहेयानां प्रतिपक्षोदयकाले. स्रोतआपत्तिफलकाले सकृदागामिफलकाले ऽनागामिफलकाले ऽर्हत्त्वफलकाले इन्द्रियसंचारकाले चेति षट्सु कालेषु विसंयोगलाभः. संभवं च प्रत्य् एवम् उच्यते. न हि मृद्विन्द्रियो ऽवश्यम् इन्द्रियाणि संचरति. तस्यैव मृद्विन्द्रियस्य रूपारूप्यावचराणां मार्गदर्शनहेयानां मार्गान्वयज्ञानकाले प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वा गृहीते प्रथमतो विसंयोगलाभः. पुनः सकृदागामिफलप्राप्तिकाले ( अभिध्-क्-व्य् 503 ) यावद् इन्द्रियसंचारकाल इति पंचसु कालेषु. भावनाहेयानाम् अपि तस्यैवे कामावचराणां पंचप्रकाराणां अधिमात्राधिमात्रस्य यावन् मध्यमध्यस्य. [तिब्. 164अ] तेष्व् एव स्रोतआपत्तिफलकालवर्ज्येषु पंचसु कालेषु विसंयोगलाभः. मध्यमृदोस् तु षष्ठस्य प्रकारस्य तस्यैव चतुर्षु कालेषु. प्रतिपक्षोदयफलप्राप्तिकालयोर् एकत्वात्. तस्मिन्न् अन्यतरस्मिन्. अनागामिफलकाले. अर्हत्त्वफलप्राप्तिकाले. इन्द्रियसंचारकाले चेति. तस्यैव मृद्वधिमात्रस्य मृदुमध्यस्य च सप्तमाष्टमयोः प्रकारयोः प्रतिपक्षोदयकाले ऽनागामिफलकाले यावद् इन्द्रियसंचारकाले वेति चतुर्ष्व् एव कालेषु विसंयोगलाभः. तस्यैव मृदुमृदोर् अंत्यस्य प्रकारस्य प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वैकतरस्मिन्. अर्हत्त्वफलकाले. इन्द्रियसंचारकाले चेति त्रिषु कालेषु विसंयोगलाभः. तस्यैवार्हत्त्वफलं प्राप्नुवतो ये नवप्रकारा रूपारूप्यावचराः क्लेशा भावनाप्रहातव्याः प्रहीणाः अधिमात्रधिमात्रो यावन् मृदुमृदुर् इति. तेषां भावाग्रिकं मृदुमृदुप्रकारम् अंत्यं हित्वा सर्वेषां त्रिष्व् एव कालेषु विसंयोगलाभः. प्रतिपक्षोदयकाले ऽर्हत्त्वफलकाले इन्द्रियसंचारकाले
चेति. यस् त्व् अस्यैवारूप्यावचरो मृदुमृदुर् अंत्यः क्लेशप्रकारः. तस्य प्रतिपक्षोदयार्हत्त्वफलप्राप्तिकालैकत्वात्. प्रतिपक्षोदयकाल इति वार्हत्त्वफलकाल इति वा अन्यतरस्मिन्न् इन्द्रियसंचारकाले चेति. [तिब्. 164ब्] द्वयोः कालयोर् विसंयोगलाभ इति. एवं तावन् मृद्विन्द्रियस्योक्तं. तीक्ष्णेन्द्रियस्य पुनः केषांचित् क्लेशानां पंचसु कालेषु. केषांचिद् यावद् द्वयोर् इति वक्तव्यं. इन्द्रियसंचारकालम् एकम् अपास्य. तस्य हि सर्वत्रेन्द्रियसंचारो नास्ति. तस्यैकस्मिन्न् एव काले क्लेशानां विसंयोगलाभो ऽस्ति. भावाग्रिकस्य भावनाहेयस्य मृदुमृदोः प्रकारस्य. स तु पुनर्लाभो न भवतीति न वक्तव्य इति पश्यामः.
(व्.63, 64) फले हेतूपचाराद् इति. प्रहाणं फलं परिज्ञा ज्ञानस्वभावो हेतुः तस्मिन् प्रहाणे. फले हेतूपचारः. प्रहाणं परिज्ञेति. तद्यथा षड् इमानि स्पर्शायतनानि पूर्वम् अभिसंस्कृतान्य् अभिसंचेतितानि पौराणं कर्म वेदितव्यं इति. कः पुनः प्रहाणं परिज्ञाशब्देनापदिशते. सूत्रे एवं हि पठ्यते. परिज्ञेयांश् च वो भिक्षवो धर्मान् देशयिष्यामि. परिज्ञां च परिज्ञावन्तं च पुद्गलं. परिज्ञेया धर्माः कतमे. पंचोपादानस्कन्धाः. परिज्ञा कतमा. यद् अत्र च्छन्दरागप्रहाणं. छन्दरागसमतिक्रमः. इयम् उच्यते परिज्ञेति विस्तरः.
कामाद्यप्रकारद्वयसंक्षय
एकेति.
अनास्रववियोगाप्तेर् भवाग्रविकलीकृतेः
हेतुद्वयसंउद्घातात् [तिब्. 165अ] परिज्ञा धात्वतिक्रमात्
इत्य् अत्र परिज्ञाव्यवस्थापने कारणं वक्ष्यते. अवरभागीयप्रहाणम् इति. कामधात्वास्रवप्रहाणम् इत्य् अर्थः. इयम् एव चास्याः संज्ञा. रूपास्रवप्रहाणम् इति. रूपधात्वास्रवप्रहाणम् इत्य् अर्थः. रूपरागक्षयपरिज्ञेत्य् अस्या नाम. यद्य् अप्य् अन्येषां क्लेशोपक्लेशानां मानादीनां रूपावचराणां प्रहाणम् इयं परिज्ञा व्यवस्थाप्यते. रागस्य तु तत्र प्राधान्याद् ऊर्ध्वभागीयस्य संयोजनस्य प्रहाणं रूपरागक्षयपरिज्ञेत्य् उक्तं. सर्वसंयोजनपर्यादान [कुन् तु स्ब्योर् ब थम्स् चद् योङ्स् सु ग्रुग्स् पःइ] योङ्स् सु शेस् पःओ. षेस् ब्य ब ःदि नि zअग् प थम्स् चद् स्पङ्स् पःइ मिङ् यिन् नो. योङ्स् सु शेस् प नि थ दद् पर् ब्स्तन् ल. षेस् ब्य ब नि ब्स्ग्रोम्स् पस् स्पङ् बर् ब्य ब ग्zउग्स् न स्प्योद् प र्नम्स् स्पङ्स् प नि ग्zउग्स् क्यि ःदोद् छग्स् zअद् पःइ योङ्स् सु शेस् प यिन् नो. ग्zउग्स् मेद् पर् नम्स् क्यि नि कुन् तु स्ब्योर् ब थम्स् चद् योङ्स् सु ग्रुग्स् पःइ योङ्स् सु शेस् प यिन् नो. षेस् ःब्युङ् बःइ फ्यिर् रो. म्थोङ् बःइ स्पङ् बर् ब्य बर् नम्स् क्यि नि म यिन् ते. षेस् ब्य ब नि चिःइ फ्यिर् ग्zउग्स् दङ् ग्zउग्स् मेद् प न स्प्योद् पःइ म्थोङ् बस् स्पङ् बर् ब्य बर् नम्स् क्यि योण्स् सु शेस् प सो सोर् मि ब्स्तन् ते. दे ब्षिन् दु ग्zउग्स् दङ् ग्zउग्स् मेद् प न स्प्योद् प म्थोङ् बस् स्पङ् बर् ब्य बर् नम्स् स्पङ्स् प यङ् योङ्स् सु शेस् प ग्सुम् यिन् ते. षे ःब्युङ् बःइ फ्यिर् रो. ब्स्गोम् प स्पङ् बर् ब्य बर् नम्स् क्यि ग्ञेन् पो मि ःद्र बःइ फ्यिर् रो षेस् ब्य ब नि ःदि ल्तर् स दङ् स न ग्zउग्स् न स्प्योद् [तिब्. 165ब्] पःइ ब्स्गोम् पस् स्पङ् बर् ब्य ब र्नम् प द्गुःइ ग्ञेन् पो बर् छद् मेद् प दङ् र्नम् पर् ग्रोल् बःइ लम् zअग् प मेद् प मि ल्चोग्स् प मेद् प ल सोग्स् पःइ स दङ् zअग् प दङ् ब्चस् प ब्सम् ग्तन् ग्ञिस् पःइ ञेर् ब स्तोग्स् क्यिस् ब्स्दुस् प नस् नम् म्खः म्थः यस् स्क्ये म्छेद् क्यि ञेर् ब्स्दोग्स् क्यिस् ब्स्दुस् पःइ बर् र्नम् प द्गु योद् ल ग्zउग्स् मेद् प न स्प्योद् प र्नम्स् क्यि ग्ञेन् पो बर् छद् मेद् पःइ लम् दङ्. र्नम् पर् ग्रोल् बःइ लम् इन् चि रिग्स् पर् zउग् प मेद् पःइ स ःओग् म प ःअम्. चि रिग्स् पर् zअग् प दङ् ब्चस् प गोङ् मःइ ञेर् ब्स्दोग्स् क्यिस् ब्स्दुस् प दग् योद् दे. ग्षन् खो न यिन् पस् ग्ञेन् पो मि ःद्र बःइ फ्यिर् ःदि दग् गिस् योङ्स् सु ऽशेस् प थ दद् पर् स्तन् तो. म्थोङ् बस् स्पङ् बर् ब्य ब र्नम्स् क्यि ग्ञेन् पो नि ःद्र स्ते. र्जेस् सु शेस् पःइ ब्zओद् प ल सोग्स् प ग्zउग्स् न स्प्योद् पर् नम्स् क्यि ग्ञेन् पो दे दग् ञिद् ग्zउग्स् मेद् पर् नम्स् क्यि यङ् यिन् पस् योङ्स् सु शेस् प थ तद् दु र्नम् पर् मि ब्षग् गो.
(व्.64-66) थ मःइ छ दङ् म्थुन् प स्पङ्स् प ल सोग्स् प योङ्स् सु शेस् प स्ते षेस् ब्य ब नि थ मःइ छ दङ् ंथुन् प स्पङ्स् पःइ योङ्स् सु शेस् प दङ्. ग्zउग्स् क्यि ःदोद् छग्स् zअद् पःइ योङ्स् सु शेस् प दङ्. कुन्तु स्ब्योर् ब थम्स् चद् योङ्स् सु ग्तुग्स् पःइ योङ्स् सु शेस् पःओ. ःदि दग् नि ब्स्गोम् पःइ लम् ग्यि ःब्रस् बु यिन् पःइ फ्यिर् शेस् पःइ ःब्रस् बु यिन् ते. ब्स्गोम् पःइ लम् ल ब्zओद् प दग् नि मेद् दो.
जि ल्तर् योङ्स् सु शेस् प ब्zओद् पःइ ःब्रस् बु यिन् षेस् ब्य ब नि योङ्स् सु शेस् प दङ् शेस् प षेस् ब्य ब दोन् ग्चिग् स्ते. शेस् प दङ् योङ्स् सु शेस् प नि zअग् प मेद् पःइ ये शेस् यिन् नो षेस् ःब्युङ् बःइ फ्यिर् रो. बम् पो ब्षि ब्चु र्त्स ब्षि प.
द्रि मेद् ब्zओद् र्नम्स् शेस् प मेद्.
षस् ःब्युङ् बस् ब्zओद् प नि शेस् पःइ ङो बो [तिब्. 166अ] ञिद् यिन् पर् यङ् मि रुङ् न. दे जि ल्तर् योङ्स् सु शेस् प ब्zओद् पःइ ःब्रस् बु यिन् ते. ःब्रस् बु ल र्ग्यु ब्तग्स् ब्यस् न यङ् मि रुङ् ङो स्ञम् दु ब्सम् प यिन् नो. ःदिर् ब्zओद् प र्नम्स् नि शेस् पःइ ःखोर् चन् यिन् पःइ फ्यिर् षेस् ब्य ब स्मोस् ते. ःदि दग् ल ःखोर् शेस् प योद् पस् न शेस् पःइ ःखोर् चन् ते. ब्zओद् पर् नम्स् सो. देःइ फ्यिर् शेस् पःइ ःब्रस् बु यङ् ब्zओद् पर् नम्स् क्यि ःब्रस् बु षेस् ब्यःओ. र्ग्यल् बःइ ःखोर् ल र्ग्यल् पो ञे बर् ब्तग्स् प ब्षिन् ते द्पेर् न र्ग्यल् पोःइ ःखोर् ल र्ग्यल् पो ञे बर् ब्तग्स् पःइ फ्यिर् ःखोर् ग्यिस् ब्यस् प ल यङ् र्ग्यल् पोस् ब्यस् प षेस् ब्यअ दङ् ःद्र ःओ. शेस् प दङ् ःब्रस् बु ग्चिग् फ्यिर् रो षेस् ब्य ब नि ब्zओद् प दग् नि शेस् प दङ् ल्हन् चिग् ःब्रस् बु ग्चिग् प यिन् ते. ब्zओद् प दग् गि ःब्रस् बु गङ् यिन् प दे ञिद् शेस् र्नम्स् क्यि यिन् पस् ब्zओद् पःइ ःब्रस् बु यङ् योङ्स् सु शेस् पर् रुङ् ङो.
मि ल्चोग्स् मेद् ःब्रस् थम्स् चद् दो
षेस् ब्य ब नि ःदि ल्तर् मि ल्चोग्स् पःइ स पःइ लम् ग्यिस् खम्स् ग्सुम् पःइ म्थोङ् ब दङ् ब्स्गोम् पस् स्पङ् बर् ब्य बःइ zअग् प र्नम्स् स्पङ् ब स्रिद् दे.
zअग् मेद् मि ल्चोग्स् मेद् प यिस्. थम्स् चद् लस् नि ःदोद् छग्स् ब्रल्.
षेस् ःब्युङ् बःइ फ्यिर् रो. ग्zउग्स् दङ् ग्zउग्स् मेद् प न ञोन् मोङ्स् प स्पङ्स् पःइ रङ् ब्षिन् गङ् दग् यिन् पःओ. षेस् ब्य ब नि ब्ये ब्रग् तु स्म्र ब र्नम्स् न रे ग्zउग्स् दङ् ग्zउग्स् मेद् प न स्प्योद् पःइ म्थोङ् बस् स्पङ् बर् ब्य ब र्नम्स् स्पङ्स् प जि स्कद् ब्शद् पःइ योङ्स् सु शेस् प ग्सुम् दङ्. ब्स्गोम् पस् स्पङ् बर् ब्य ब ग्zउग्स् न स्प्योद् प र्नम्स् स्पङ्स् प ग्zउग्स् क्यि ःदोद् छग्स् zअद् पःइ योङ्स् सु शेस् प दङ् ग्zउग्स् मेद् प न स्प्योद् प र्नम्स् स्पङ्स् प कुन् तु स्ब्योर् ब थम्स् चद् योङ्स् सु ग्तुग्स् पःइ [तिब्. 166ब्] योङ्स् सु शेस् प षेस् ब्य ब ल्ङ स्ते. ब्सम् ग्तन् ग्यि द्ङोस् ग्षि ल ब्र्तेन् नस् ग्zउग्स् दङ् ग्zउग्स् मेद् प न स्प्योद् पःइ ञोन् मोङ्स् प स्पोङ् ब स्रिद् पःइ फ्यिर् रो. ःदोद् प न स्प्योद् पःइ ञोन् मोङ्स् प स्पङ्स् प नि ब्सम् ग्तन् गि द्ङोस् ग्षिःइ ःब्रस् बु म यिन् ते. ब्सम् ग्तन् ग्यि द्ङोस् ग्षि र्नम्स् नि ःदोद् पःइ ( अभिध्-क्-व्य् 506 ) खम्स् क्यि ग्ञेन् पो म यिन् पःइ फ्यिर् रो. दे ल्त बस् न ःदोद् छग्स् दङ् ब्रल् ब र्नम्स् ल ब्रल् बःइ थोब् प zअग् प मेद् प योद् दु zइन् क्यङ् थ मःइ छ दङ् म्थुन् प स्पङ्स् पःइ योङ्स् सु शेस् प ब्षिन् दु ःदोद् प न स्प्योद् प म्थोङ् बस् स्पङ् बर् ब्य ब स्पङ्स् प नि ब्सम् ग्तन् ग्यि द्ङोस् ग्षिःइ ःब्रस् बु म यिन् नो षेस् zएर् रो. ब्त्सुन् प द्ब्यङ्स् स्ग्रोग्स् क्यि लुग्स् क्यिस् नि ब्र्ग्यद् दे. षेस् ब्य ब नि ब्त्सुन् प द्ब्यङ्स् स्ग्रोग्स् दे नि ःदोद् पःइ ःदोद् छग्स् दङ् ब्रल् बःइ गङ् zअग् गि यङ् ःदोद् प न स्प्योद् प म्थोङ् बस् स्पङ् बर् ब्य ब र्नम्स् स्पङ् स्प योङ्स् सु शेस् प ग्सुम् ग्यि ङो बो ञिद् ःफग् पःइ लम् ग्यि ःब्रस् बु यिन् पर् ःदोद् दो. चिःइ फ्यिर् षे न. ब्रल् बःइ थोब् प zअग् प मेद् प र्ञेद् पःइ फ्यिर् ते. ब्सम् ग्तन् ग्यि द्ङोस् ग्षि ल र्तेन् नस् ङेस् प ःजुग् प न यङ् म थोङ् बस् स्पङ् बस् स्पङ् बर् ब्य बःइ zअग् प स्ङोन् ःजिग् र्तेन् पःइ लम् ग्यिस् स्पङ्स् प र्नम्स् क्यिस् ब्रल् बःइ थोब् प zअग् प मेद् प यङ् ःथोब् ल दे ल न म्थोङ् बःइ लम् ग्यिस् नुस् प योद् पस् ग्zउग्स् दङ् ग्zउग्स् मेद् प ब स्प्योद् पःइ म्थोङ् बस् स्पङ् बर् ब्य ब स्पङ्स् प ब्षिन् दु. ःदोद् प न स्प्योद् पःइ म्थोङ् बस् स्पङ् बर् ब्य ब स्ङोन् स्पङ्स् पःइ योङ्स् सु शेस् प यङ् द्ङोस् ग्षि ब्सम् ग्तन् ग्यि ःब्रस् बुःओ षेस् ब्य बर् र्नम् प ब्षग् गो. दे ल्त ब स्न ःदोद् प न स्प्योद् पःइ म्थोङ् बस् स्पङ् बर् ब्य ब स्पङ्स् पःइ योङ्स् सु शेस् प ग्सुम् पो ःदि द्ग दङ् स्ङर् ब्शद् प ग्zउग्स् दङ् ग्zउग्स् मेद् पःइ योङ्स् सु शेस् प दङ् ब्चस् प योङ्स् सु शेस् प ब्र्ग्यद् ब्सम् ग्तन् ग्यि ःब्रस् बु यिन् [तिब्. 167अ] नो. शेस् ब्य ब नि ब्त्सुन् प द्ब्यङ्स् स्ग्रोग्स् क्यि ग्षुङ् लुग्स् यिन् नो. थ मःइ छ दङ् म्थुन् प स्पङ्स् पःइ योङ्स् सु शेस् प नि मि ल्चोग्स् प मेद् पःइ ःब्रस् बु खो न यिन् नो. षेस् ब्य ब नि ःदोद् प लस् ःदोद् छग्स् म ब्रल् ब नि मि ल्चोग्स् प मेद् प खो नस् थ मःइ छ दङ् म्थुन् प स्पोङ् बर् ब्येद् क्यि द्ङोस् ग्षिस् नि म यिन् ते. दे न म थोब् पःइ फ्यिर् रो. ःदोद् छग्स् दङ् ब्रल् ब स्तोन् दु ःग्रो ब यङ् गङ् गि त्स्हे ब्सम् ग्तन् ल ब्र्तेन् नस् ञेस् प ल देस् क्यङ् सो सोःइ स्क्ये बोःइ स्नस् स्कब्स् न ःजिग् र्तेन् पःइ लम् ग्यिस् ःदोद् प न स्प्यद् पःइ ञोन् मोङ्स् प थम्स् चद् स्पङ्स् पस् दे ब्सम् ग्तन् ग्यि द्ङोस् ग्षिःइ ःब्रस् बु म यिन् नो. सेम्स् क्यि स्कद् चिग् म ब्चु द्रुग् ल देःइ थ मःइ छ दङ् म्थुन् प स्पङ्स् प योङ्स् सु शेस् प ब्सम् ग्तन् ग्यि द्ङोस् ग्षि ल ब्र्तेन् पर् यङ् र्नम् पर् ब्षग् मोद् क्यि देःइ ःब्रस् बु षेस् ब्य बर् र्नम् पर् ब्षग् प नि म यिन् नो. ःओ न चि षे न. ग्नस् स्कब्स् दे न थ मःइ छ दङ् म्थुन् प स्पङ्स् प ःजिग् र्तेन् पःइ लम् ग्यिस् थोब् पःइ ब्रल् बःइ थोब् प zअग् प मेद् प यङ् ःथोब् पस् दे स्पङ् स्पःइ योङ्स् सु शेस् पर् र्नम् पर् ब्षग् स्ते. देःइ त्स्हे नि म्थोङ् बस् स्पङ् बर् ब्य ब स्ङ म स्पङ्स् पस् स्ङर् म्थोङ् बःइ लम् ग्यिस् स्पङ् बर् ब्य ब स्पङ्स् प गङ् यिन् प दङ्. स्ङर् स्पङ्स् प थ मःइ छ दङ् म्थुन् प स्पङ्स् प ब्स्दोम्स् नस् थ मःइ छ दङ् म्थुन् प स्पङ्स् पःइ योङ्स् सु शेस् प ग्चिग् तु र्नम् पर् ब्षग् स्ते.
खम्स् लस् ःदोद् छग्स् ब्रल् ब दङ् ःब्रस् बु थोब् फ्यिर् दे दग् ब्स्दोम्स् षेस् थम्स् चद् ब्स्दोम्स् पःइ ग्तन् त्स्हिग्स् योद् पःइ फ्यिर् रो. दे ल्त बस् न थ मःइ छ दङ् म्थुन् प स्पङ्स् पःइ योङ्स् सु शेस् प दे नि मि ल्चोग्स् प मेद् पःइ ःब्रस् बु खो नर् र्नम् प ब्षग् गि. द्ङोस् ग्षिःइ ःब्रस् बु नि म [तिब्. 167ब्] यिन् ते. ःदि ल नि ब्ये ब्रग् तु स्म्र ब दङ्. ब्त्सुन् प द्ब्यङ्स् स्ग्रोग्स् क्यि ग्षुङ् लुग्स् म्थुन् नो.
ब्सम् ग्तन् ख्यद् पर् चन् यङ् ब्सम्स् ब्षिन् दु ब्ल्त बर् ब्यःओ षेस् ब्य ब नि ब्सम् ग्तन् ख्यद् पर् चन् ग्यि zअग् प मेद् पस् क्यङ् ञोन् मोङ्स् प स्पोङ् बर् ःग्युर् ते. दे ल्त बस् न मि ल्चोग्स् प मेद् प दङ्. द्ङोस् ग्षिःइ ब्सम् ग्तन् र्नम्स् खो नःइ ःब्रस् बु खो न ब्शद् क्यि. ब्सम् ग्तन् ख्यद् पर् चन् ग्यि नि म यिन् नो. देःइ फ्यिर् ब्सम् ग्तन् ख्यद् पर् चन् यङ् ब्सम् ग्तन् ब्षिन् दु ब्ल्त बर् ब्यःओ षेस् ब्य ब स्मोस् ते. ब्सम् ग्तन् ख्यद् पर् चन् नि ब्सम् ग्तन् दङ् पो खो न र्तोग् प दङ् ब्रल् बस् ख्यद् पर् दु ःफग्स् पःइ फ्यिर् रो. [नम् म्खः म्थः यस् स्क्ये म्छेद् क्यि ञेर् ब्स्दोग्स् क्यि षेस् ब ब नि.] ध्यानांतरं भवतीति. आकाशानंत्यायतनसामंतकस्येति. लौकिकस्यापि तस्य परिज्ञा फलं व्यवस्थाप्यते. आर्यस्यैवानास्रवविसंयोगप्राप्तिसंभवात्.
मौलारूप्यत्रयस्य चेत्य्
अनास्रवस्य.
लौकिकस्य मार्गस्य द्वे
इति. आर्यस्य लौकिकेन मार्गेण कामरूपधातुवैराग्ये.
अन्वयज्ञानस्यापि द्वे
इति. भावनामार्गसंगृहीतस्य. पश्चिमे रूपरागक्षयसर्वसंयोजनपर्यादानअपरिज्ञे.
धर्मज्ञानस्य तिस्र
इति. भावनामार्गसंगृहीतस्य.
धर्मज्ञानं निरोधे यन् मार्गे वा भावनापथे
त्रिधातुप्रतिपक्षस् तद्
इति. तस्य पश्चिमास् तिस्रः फलम् अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः. कस्माद् इत्य् आह. [तिब्. 168अ] त्रैधातुकभावनाहेयप्रतिपक्षत्वाद् इति.
षट् तत्पक्षस्य पंच वेति.
तयोर् धर्मज्ञानान्वयज्ञानयोः पक्षस्य. षट् पंच च यथायोगं पक्षग्रहणेन क्षांतिज्ञानयोर् ग्रहणं. या एव धर्मज्ञानक्षांतिज्ञानानाम् ( अभिध्-क्-व्य् 508 ) इति. धर्मज्ञानक्षांतीनां धर्मज्ञानानां चेति समासः. धर्मज्ञानक्षांतीनां कामावचरदर्शनहेयप्रहाणस्वभावा यथोक्तस् तिस्रः परिज्ञाः फलं. धर्मज्ञानानाम् इति भावनामार्गे. दुःखसमुदयज्ञानसंगृहीतानाम् एकावरभागीयप्रहाणपरिज्ञा. निरोधमार्गसंगृहीतानां तु तिस्रो ऽप्य् अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः. या एवान्वयक्षांतिज्ञानानाम् इति. अन्वयज्ञानक्षांतीनां अन्वयज्ञानानां च. ताश् च रूपारूप्यावचरदर्शनहेयप्रहाणस्वभावा यथोक्तास् तिस्रः परिज्ञाः द्वे च पश्चिमे इति.
(व्.67) कस्मान् नैकैकं प्रहाणम् इति. दुःखदर्शनहेयप्रहाणसमुदयदर्शनहेयप्रहाणं विस्तरेण यावद् भावाग्रिकस्य मृदुमृदोः प्रकारस्य प्रहाणम् इति कस्मान् न गृह्यते.
अनास्रववियोगाप्तेर् [तिब्. 168ब्]
इति. अनास्रवविसंयोगप्राप्तेर् इत्य् अर्थः.
भवाग्रविकलीकृतेर्
इति. भवाग्रप्रदेशप्रहाणाद् इत्य् अर्थः.
हेतुद्वयसमुद्घाताद्
इति. दुःखसमुदयदर्शनहेयसर्वत्रगहेतुद्वयप्रहाणाद् इत्य् अर्थः. तत्प्रहाणं
परिज्ञेति.
एभिः कारणैः प्रकृष्टं तत्प्रहाणम् इत्य् अत्र परिज्ञेति व्यवस्थाप्यत इत्य् अभिप्रायः. अन्येषु धर्मान्वयज्ञानेष्व् इति. समुदयधर्मज्ञानम् आरभ्य यावत् क्षयज्ञानम् इत्य् एतेषु धर्मज्ञानान्वयज्ञानेषु. ज्ञानफलं तु प्रहाणम् इति. भावनामार्गे. तद् धि न क्षांतिफलम् इति.
धात्वतिक्रमाद्
इति. चशब्दो लुप्तनिर्दिष्टः. धात्वतिक्रमाच् चेति. अत एव विव्रियते चतुर्थाच् चेति. यदा धातुं समतिक्रामतीति. कामधातुं रूपधातुम् आरूप्यधातुं वा समतिक्रामति. तदा परिज्ञाख्यां लभत इति वाक्यशेषः. कस्मात्. कृत्स्नधातुवैराग्यात्. कृत्स्नस्य धातोर् वैराग्यात्. न विकलीकरणमात्रत्वात्. तदा हि सुष्ठु प्रहाणम् इत्य् अभिप्रायः.
उभयसंयोगविसंयोगम् इति. आलंब्यालंबकक्लेशलक्षणः संयोग उभयसंयोगः. तस्माद् विसंयोग उभयसंयोगविसंयोगः. तत् पंचमं कारणम् आहुर् आभिधार्मिकाः. [तिब्. 169अ] अनेन च कारणेन प्रहाणं परिज्ञेत्य् उच्यत इति. यः प्रकारः प्रहीण इति दुःखदर्शनप्रहातव्यो यावं मार्गदर्शनप्रहातव्यो भावनाप्रहातव्यश् च. यदि तत्र प्रहीणे ( अभिध्-क्-व्य् 509 ) प्रकारे अन्येन तदालंबनेन क्लेशेन दर्शनप्रहातव्येन भावनाप्रहातव्येन विसंयुक्तो भवति. एवम् इदम् अपि पंचमं कारणं प्रहाणस्य परिज्ञाविधाने आहुर् अपरे. स तु नान्यद् इति विस्तरः. स तूभयसंयोग उभयहेतुसमुद्घातात् दुःखदर्शनप्रहातव्यस्य समुदयदर्शनप्रहातव्यस्य च सर्वत्रगहेतोः समुद्घाताद् धातुसमतिक्रमाच् च नान्यः. तथा हि दुःखदर्शनप्रहातव्येषु प्रहीणेष्व् अपि न तावद् अस्ति हेतुद्वयसमुद्घातो यावत् तदालंबनः समुदयदर्शनप्रहातव्यः सर्वत्रगहेतुर् अप्रहीणो भवति. भावनाप्रहातव्येषु च प्रहीणेष्व् अपि यावद् अष्टासु प्रकारेषु न तावद् धात्वतिक्रमो ऽस्ति यावन् न नवमस्यापि प्रकारस्य प्रहाणम् इत्य् अतो न पुनर् ब्रूमः.
(व्.68) नैकयेति
विस्तरः. पृथग्जनस् तावन् नैव समन्वागतः. अनास्रवविसंयोगप्राप्त्यभावात्. आर्यो ऽपि दर्शनमार्गस्थो यावत् समुदयधर्मज्ञानक्षांतौ. यावच्छब्देन दुःखधर्मान्वयज्ञानक्षांतिज्ञानेषु समुदयधर्मज्ञानक्षांतौ च नैव समन्वागतः. हेतुद्वयस्याप्रहीणत्वात्. समुदयधर्मज्ञान एकया समन्वागतः समुदयान्वयज्ञानक्षांताव् अप्य् एकयैव समन्वागत इत्य् अवगंतव्यं. समुदयान्वयज्ञाने द्वाभां पूर्वोक्तया एकया कामावचरदुःखसमुदयदर्शनहेयप्रहाणपरिज्ञया रूपारूप्यावचरदुःखसमुदयदर्शनप्रहाणपरिज्ञया च. निरोधधर्मज्ञानक्षांताव् अपि द्वाभ्याम् एव. निरोधधर्मज्ञाने तिसृभिर् इति नेयं. यावत् पंचभिर् दर्शनास्थः समन्वागतो न षड्भिः षोडशस्य क्षणस्य भावनामार्गसंगृहीतत्वात्. मार्गान्वयज्ञाने षड्भिर् इति. पूर्वोक्ताभिश् च रूपारूप्यावचरमार्गदर्शनप्रहाणपरिज्ञया च. ननु च पश्चाद् वक्ष्यति.
चतुःफलव्यवस्था तु पंच कारणसंभवात्
पूर्वत्यागो ऽन्यमार्गाप्तिः क्षयसंकलणं फले
ज्ञानाष्टकस्य लाभो ऽथ षोडशाकारभावनेति.
भवति प्रहाणसंकलनं. न तु परिज्ञासंकलनम् इत्य् अविरोधः. यावत् कामवैराग्यं न प्राप्त इति. यावच्छब्देन भावनाहेयक्लेशप्रथमप्रकारप्रहाणे [तिब्. 170अ] यावद् अष्टमप्रकारप्रहाणे ऽपि षड्भिर् एव समन्वागतः. परिहीणो ऽपि तत इति. कामवैराग्यपरिहाण्या हि तत्संकलनविगतः. कामवैराग्यं प्राप्तः पूर्वं पश्चाद् वेति. अभिसमयात् पूर्वं पश्चाद् वा. कथं. लौकिकेन मार्गेण कामवीतरागो भूत्वा नियामम् अवक्रांतो मार्गे ऽन्वयज्ञाने एकयावरभागीयप्रहाणपरिज्ञया समन्वागतः. यस्माद् असाव् आर्यः षोडशक्षणं प्राप्तो ऽनागाम्य् एव भवति. न स्रोतआपन्नः. सकृदागामी ( अभिध्-क्-व्य् 510 ) वा. पंचावरभागीयप्रहाणाच् चानागामी इति पठ्यते. तस्माद् दर्शनहेयप्रहाणानां पंचावरभागीयप्रहाणस्य च संकलनाद् एकयैवावरभगीयप्रहाणपरिज्ञया समन्वागतः. पश्चाद् वाभिसमयाद् आनुपूर्विकः कामवैराग्यप्राप्त एकयैवावरभागीयप्रहाणपरिज्ञया समन्वागतः. अर्हत्त्वप्राप्त एकयैवेति. तदा परिज्ञासंकलनात्. परिहीणो ऽपि रूपावचरेणेति. विशेषणं कामावचरेण परिहाणौ षट्परिज्ञासमन्वागमपरिहारार्थम् आरूप्यावचरेण च परिहाणौ द्विपरिज्ञासमन्वागमपरिहारार्थम् इति. रूपवैराग्यं [तिब्. 170ब्] प्राप्तो द्वाभ्याम् इति. अनागामी रूपवीतराग इत्य् अर्थः. धातुवैराग्येण कस्मान् न संकलनं भवति. फलप्राप्त्यभावात्. धातुवैराग्यफलप्राप्तिभ्यां समस्ताभ्यां कारणाभ्यां परिज्ञासंकलनम् इष्यते. न केवलेन परिहीणो ऽपि. आरूप्यावचरेणेत्य् अर्हत्त्वप्राप्तिसंकलितयोर् अवरभागीयप्रहाणरूपरागक्षयपरिज्ञयोर् आरूप्यावचरेण क्लेशेनार्हत्त्वात् परिहाणौ पुनर्लाभात्. रूपावचरेण तु परिहाणाव् एकया समन्वागतः स्यात्. कामावचरेण च षढिः समन्वागतः स्याद् इत्य् आरूप्यावचरपर्यवस्थानग्रहणं.
(व्.69अब्) अनागाम्यर्हतोर् इति. कामवीतरागानागामीह विवक्षितः. रूपवीतरागानागामिनः परिज्ञाद्वयसमन्वागमवचनात्. न भूयस्य इति. न बहुतराः. आनुपूर्विकस्रोतआपन्नवद् इत्य् अभिप्रायः. द्वाभ्यां कारणाभ्याम् इति व्याख्यातं. संकलनम् इति को ऽर्थः एकत्वेन व्यवस्थापनम् इति यो ऽर्थः. तयोश् चावस्थयोर् इति. कामवीतरागानागाम्यर्हत्त्वावस्थयोर् एतद् उभयं. धातुवैराग्यं फलप्राप्तिश् चेति. एकपरिज्ञोच्यत इति. रूपवीतरागस्यानागामिन [तिब्. 171अ] एकावरभागीयप्रहाणपरिज्ञा अर्हतो ऽप्य् एका सर्वसंयोजनपर्यादानपरिज्ञेति.
(व्.69च्द्) एकां द्वे
इति विस्तरः.
एकां
कश्चिज् जहातीति
त्यजतीत्य् अर्थः.
कश्चिद्
द्वे
कश्चित्
पंच
कश्चित्
षट्
जहाति. आप्नोति वा
कश्चिद् एकां कश्चिद् द्वे कश्चित् षट्. कश्चित् पंचाप्नोतीत्य् एतन् नास्ति. अत आह.
पंच नेति.
पंच नैव कश्चिद् आप्नोति. इति सूत्रार्थनयः. वृत्तिस् तु विव्रियते अर्हत्त्वात् परिहीयमाणो येन केनचित् चित्तेन सर्वसंयोजनपर्यादानपरिज्ञाम् एकां त्यजति. संकलने तस्या एकैकस्या अर्हत्त्वावस्थायाम् अस्तित्वात्. एवं कामवैराग्यात् परिहीयमाणो रूपवीतरागो ऽनागामी एकाम् एवावरभागीयप्रहाणपरिज्ञां. द्वे परिज्ञे त्यजतीति. अवरभागीयप्रहाणपरिज्ञां. रूपरागक्षयपरिज्ञां च. को ऽसाव् इत्य् आह. अनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाण इति. पंच त्यजति वीतरागपूर्वी मार्गान्वयज्ञान [तिब् 171ब्] इति. अभिसमयचित्ते षोडशे. स ह्य् अवरभागीयप्रहाणपरिज्ञालाभे. लौकिकमार्गप्राप्तस्य तस्यानास्रवविसंयोगप्राप्त्या पूर्विकाः पंच परिज्ञाः पंचदशक्षणलब्धास् त्यजति. षष्ठीं तु रूपारूप्यावचरमार्गदर्शनहेयप्रहाणपरिज्ञां न त्यजति. किं तु धातुवैराग्यफललाभतो ऽत्रावरभागीयप्रहाणपरिज्ञायां संकलितेति नष्टरूपेव सा नोपन्यस्यते. आनुपूर्विको यो न वीतरागपूर्वी कामवैराग्यात् कारणात् षट् त्यजति. यास् त्रैधातुकानां दर्शनप्रहातव्यानां प्रहाणपरिज्ञाः.
लाभो ऽप्य् एवम् इति. कश्चिद् एकां लभते. पंचेति मुक्त्वा. यावत् षट् लभते. यः कश्चिद् अपूर्वं लभत इति. दर्शनमार्गस्थो भावनामार्गस्थो वा नवानां परिज्ञानां यो प्रतिलब्धपूर्वां प्रतिलभते प्रथमतः. स ताम् एकां लभते. भावनामार्गे ऽपि हि वीतरागपूर्वी दर्शनमार्गांते अवरभागीयप्रहाणपरिज्ञाम् एकां लभते. आनुपार्विको ऽपि कामवैराग्ये नवमे विमुक्तिमार्गे ताम् एव लभते. अर्हन्न् अप्य् अन्याम् लभत इति. केवलाद् आरूप्यवैराग्यात् परिहीयत इति. नान्यवैराग्याद् इति दर्शयति. स ह्य् अवरभागीयप्रहाणपरिज्ञां [तिब्. 172अ] रूपरागक्षयपरिज्ञां च लभते. कश्चित् षड् यो ऽनागामिफलात् परिहीयत इति. आनुपूर्विको ऽनागामी. न हि वीतरागपूर्विणः परिहाणिर् अस्ति. तद्वैराग्यस्य द्विमार्गप्रापणात्. अत एव च नैव कश्चित् पंच लभते. वीतरागपूर्विणो हि यदि परिहाणिर् अभविष्यत्. स एव युगपत् पंच परिज्ञा अलप्स्यतेति.
आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याक्यायाम् अनुशयनिर्देशो नाम पंचमं कोशस्थानं समाप्तं.
( अभिध्-क्-व्य् 512 ) ब्लन्क्
वि (पुद्गलमार्गनिर्देशो नाम षष्ठं कोशस्थानम्)
(वि.1) पंचमस्य षष्ठस्य च कोशस्थानयोः संबंधम् उपदर्शयन्न् इदम् उपन्यस्यति. उक्तं यथाप्रहाणम् इत्यदि. यथाप्रहाणं परिज्ञा लभत इति. फले हेतूपचाराद् इति वचनात्. तद् अपि च
क्लेशप्रहाणम् आख्यातम्
उक्तं. कथम् इत्य् आह.
सत्यदर्शनभावनाद्
इति. द्वंद्वैकवद्भावनिर्देशः. सत्यानां दर्शनाद् भावनाच् च भावनाया इति वा. सत्यदर्शनभावनात् कारणाद् दर्शनहेया भावनाहेयाश् च क्लेशा इति विस्तरेणोक्तं
दशैत सप्त सप्तष्टौ त्रिद्विदृष्टिविवर्जिताः
यथाक्रमं प्रहीयंते कामे दुःखादिदर्शनैः.
चत्वारो भावनाहेया
इत्य् आदिना. [तिब्. 172ब्] सत्यदर्शनं च दर्शनमार्गेण सत्यभावनं च भावनामार्गेणेत्य् अत इदम् उच्यते. ताव् इदानीं दर्शनभावनामार्गौ किम् अनास्रवौ सास्रवाव् इति. मार्गनिर्देशोपन्यास इति संबन्धः. त्रैधातुकप्रतिपक्षत्वाद् इति दर्शनमार्गस्य. लौकिकत्वे सति भवाग्रप्रतिपक्षो न स्याद् इति. किं च नवप्रकाराणां दर्शनहेयानां सकृत्प्रहाणाच् च. न भावनामार्गवत्. न हि लौकिकस्यैषा शक्तिर् अस्ति. त्रैधातुकप्रहाणे च प्रकारप्रहाणे च. यदि लोकोत्तरस्य नवप्रकारसकृत्प्रहाणे शक्तिः. भावनाहेयानाम् अपि लोकोत्तरेण सकृत्प्रहाणप्रसंगः. लोकोत्तरेणैव सकृत्प्रहाणम् इत्य् अवधार्यते. न तु सकृत्प्रहाणम् एव लोकोत्तरेणेति अतो न तत्प्रसंगः. भावनाहेया हि क्लेशा दृढाः सवस्तुकत्वात्. अतो लोकोत्तरेणाप्य् एषां न सकृत्प्रहाणं.
(वि.2) इतरथा हीति. यदि यथाभिसमयं निर्देशो नाभिप्रीयेत. पूर्वं हेतुनिर्देशः समुदयसत्यनिर्देशः. हेतूनां लोके पूर्वं दृष्टत्वात्. यथा स्मृत्युपस्थानध्यानादीनाम् इति. तद्यथा स्मृत्युपस्थानादीनाम् उपपत्त्यनुकूला देशना. कायस्मृत्युपस्थानं हि पूर्वम् उत्पद्यते. यथौदारिकालंबनतः [तिब्. 173अ] सूक्ष्मौदारिकप्रचारतो वा पूर्वोत्तरहेतुफलभावतो वा. ततो वेदनास्मृत्युपस्थानं. ततश् चित्तस्मृत्युपस्थानम् इत्य् एषाम् उपपत्त्यनुकूला देशना एवं ध्यानानाम्. आदिशब्देन विमोक्षाभिभ्वायतनकृत्स्नायतनादीनाम् अप्य् उपपत्त्यनुकूला देशना. केषांचित् प्ररूपणानुकूलेति. प्रदर्शनानुकूला अवबोधानुकूलेत्य् अर्थः. यथा सम्यक्प्रहाणानाम् इति. कृष्णशुक्लपक्षयोः प्रत्येकम् उत्पन्नानुत्पन्नभेदतः. उत्पन्नं हि सुखावबधं नानुत्पन्नं. कृष्णपक्षो वा विनेयजनेन सुखम् अवबुध्यते. कथम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति व्यायच्छते. वीर्यम् आरभते चित्तं प्रगृह्णाति प्रणिदधाति. अनुत्पन्नानाम् अनुत्पादाय छन्दं जनयतीति पूर्ववत्. अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयतीति पूर्ववत्. उत्पन्नानां स्थितये असंमोषतायै छन्दं जनयतीति पूर्ववत्. न ह्य् एष नियमो यत् पूर्वम् उत्पन्नानां प्रहाणाय छन्दं जनयति. पश्चाद् अनुत्पन्नानाम् अनुत्पादायेति. किं तर्हि. पूर्वं चानुत्पन्नानाम् अनुत्पादाय छन्दं जनयति. [तिब्. 173ब्] पश्चाच् चोत्पन्नानां प्रहाणायेत्य् एतद् उदाहरणं. एवं शुक्लपक्षो ऽपि योज्यः. सत्यानां त्व् अभिसमयानुकूलेति हेतुफलयोः पूर्वपश्चाद्भावेन दुःखसमुदयसत्ययोः पश्चात्पूर्वनिर्देशप्रसंग इति दर्शयति. यत्र हि सक्त इति. दुःखसत्ये. येन बाध्यत इति तेनैवं. यतश् च मोक्षम् इति. तत एव दुःखसत्यात्. तद् एवादौ पयोगावस्थायां. कस्माद् इत्य् आह. व्यवचारणावस्थायां परीक्षावस्थायां निर्वेधभागीयावस्थायाम् इत्य् अर्थः. व्याधिं दृष्ट्वेति. व्याधिर् दुःखसत्यस्योपमानं. तन्निदानं समुदयसत्यस्य. तत्क्षयो निरोधसत्यस्य. तद्भेषजं मार्गसत्यस्योपमानं. सूत्रे ऽप्य् एष सत्यानां दृष्टांत इति. व्याध्यादिसूत्रे. कथं. चतुर्भिर् अंगैः समन्वागतो भिषक् शल्यापहर्ता राजार्हश् च भवति राजयोग्यश् च राजांगत्वे च संख्यां गच्छति. कतमैश् चतुर्भिः. आबाधकुशलो भवति. आबाधसमुत्थानकुशलः. आबाधप्रहाणकुशलः. प्रहीणस्य चाबाधस्यायत्याम् अनुत्पादकुशलः. एवम् एव चतुर्भिर् अंगैः समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरो भिषक् शल्यापहर्तेत्य् उच्यते. कतमैश् चतुर्भिः. इह भिक्षवस् [तिब्. 174अ] तथागतो ऽर्हन् सम्यक्संबुद्ध इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. ( अभिध्-क्-व्य् 515 ) इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं प्रजानातीति. पूर्वावेधाद् इति. पूर्वाक्षेपात्. दृष्टभूमिनिःसंगाश्वप्रसरणवद् इति. यथा भूमौ दृष्टायां निःसंगम् अश्वस्य प्रसरणं. तद्वत्. अश्वधावनवद् इति केचित् पठंति. धावि प्रकृत्यंतरं व्याचक्षते. इणो बोधनार्थत्वाद् इति. सर्वो गत्यर्थो बोधनार्थो ऽपि भवतीति. द्रव्यतो ऽपीत्य् अपिशब्दान् नामतो ऽपीति दर्शितं. अविपरीतत्वाद् इति. यस्मात् तद् आर्याणाम् अन्येषां चाविपरीतं. दुःखम् एव नान्यथा. आर्यैस् तु यथैतानि सत्यानि. तथा दृष्टानि. दुःखसत्यं दुःखत अनित्यतः शून्यतो ऽनात्मतश् च. एवं यावन् मार्गो मार्गतः न्यायतः प्रतिपत्तितो नैर्याणिकतश् च. नान्यैर् अनार्यैः एवं दृष्टानि. अत आर्याणाम् एतानि सत्यान्य् उच्यंते. न त्व् अनार्याणां सत्यान्य् उच्यंते. कस्मात्. विपरीतदर्शनात्. ते हि दुःखम् अदुःखत [तिब्. 174ब्] इत्य् एवमादिभिर् आकारैर् दुःखसत्यं पश्यंति. सम्दयम् असमुदयत इत्य् एवमादिभिः. निरोधम् अनिरोधत इत्य् एवमादिभिः. मार्गम् अमार्गत इत्य् एवमादिभिर् इति.
तत् परे दुःखतो विदुर्
इति. तद्यथा निरोधसत्यं व्यथंते ऽपुनर्भवात् प्रपाताद् इव बालिशा इति.
आर्यास् तु दुःखतो विदुर्
इत्य् उपादानस्कंधपंचकः.
द्वे आर्याणां सत्ये इति. दुःखसम्दयसत्ये अविपरीतदर्शनात्. द्वे आर्ये. कुशलतयानास्रवतया च. आर्याणां च सत्ये. अविपरीतदर्शनात्. एवम् एकशेषनिर्देशाच् चार्यसत्ये इति भवति.
(वि.3) यदा वेदनैकदेशो दुःखस्वभाव इति. वेदनास्कन्धैकदेशो दुःखदौर्मनस्यस्वभावः.
यथायोगम् अशेषत
इति. मनआपा अपि विपरिणामदुःखतया संस्कारदुःखतया च दुःखा. अमनआपा दुःखदुःखतया संस्कारदुःखतया च. तदन्ये दुःखाः संस्कारदुःखतयैवेति यथायोगार्थः. मन आप्नुवंतीति मनआपाः. पुनः संधिकरणं चात्रेति व्याख्यातं. तेभ्यो ऽन्य इति मनआपामनआपेभ्यो ऽन्य इति.
तिस्रो वेदना यथाक्रमम् इति. सुखा वेदना [तिब्. 175अ] मनआपा दुःखा अमनआपा अदुःखसुखा नैव मनआपा नामनआपेत्य् अर्थः. तद्वशेनेति. वेदनावशेन. अवेदनास्वभावा अपि रूपशब्दादयस् तदनुकूलत्वान् मनआपादिसंज्ञां लभंते. विपरिणामेन दुःखतेति. अनित्यताविपरिणामेनेत्य् ( अभिध्-क्-व्य् 516 ) अर्थः यथोक्तं.
हा चैत्ररथ हा वापि हा मंदाकिनि हा प्रिये
इत्य् आर्त्ता विलपंतो ऽपि गां पतंति दिवोकस
इति. दुःखस्वभावेनैवेति. उपघातस्वभावेनेत्य् अर्थः. दुःखा वेदना उत्पाददुःखा स्थितिदुःखेति. नन्व् एषा अर्थापत्तितो विपरिणामसुखा प्राप्नोति. तथा च सति लक्षणसंकरः स्यात्. नेदम् अस्या लक्षणं. किं तर्हि विदूषणार्थम् अयम् उपदेश इति. अथ वा भवत्व् एव सात्त्र. येन रूपेण विदूष्यते. तद् एवापेक्षते इति. दुःखैव भवति. यथा सुखा वेदना उत्पादस्थितिसुखत्वात् सुखापि सती विपरिणामदुःखतया दुःखेत्य् एव विदूष्यते विदूषणीयत्वेनाभिप्रीयमाणत्वाद् इति. संस्कारेणैव दुःखतेति. संस्करणेनैव जननेनैवेत्य् अर्थः. यद् अनित्यं. तद् दुःखं. यन् न नियतस्थितं. तद् दुःखं. यज् यायते विनश्यति च. तद् दुःखम् [तिब्. 175ब्] इत्य् अर्थः. तेनोक्तं. प्रत्ययाभिसंस्करणाद् इति. प्रत्ययैर् अभिसंस्क्रियते यस्मात्. तस्मात् तद् दुःखम् इति. वेदनावत् तद्वेदनीया अपि संस्कारा वेदितव्या इति. सुखवेदनीयानां संस्काराणां विपरिणामेन दुःखता. सुखवेदनीयाः संस्कारा उत्पादसुखाः स्थितिसुखा विपरिणामदुःखा इति. दुःखवेदनीयानां संस्काराणां दुःखवेदनीयस्वभावेनैव दुःखता. दुःखवेदनीयाः संस्कारा उत्पाददुःखा स्थितिदुःखा इति. अदुःखासुखवेदनीयानां संस्काराणां संस्कारेणैव दुःखता. प्रत्ययाभिसंस्करणात्. यद् अनित्यम्. तद् दुःखम् इति.
दुःखम् एव दुःखता दुःखदुःखता. यावद् इति वचनात् विपरिणाम एव दुःखता विपरिणामदुःखता संस्कार एव दुःखता संस्कारदुःखतेति वाच्यम्. अयं पर्यायो विग्रहेणैव विशिष्टो नार्थेन. स एव ह्य् अत्रार्थो ग्रहीतव्यः. असाधारणत्वाद् इति विस्तरः. मनआपाः संस्काराः असाधारणा दुःखदुःखतायाः. अतस् तेषाम् असाधारणत्वाद् विपरिणामदुःखतोक्ता. अमनआपाश् चासाधारणा विपरिणामदुःखतायाः. अतस् तेषाम् असाधारणत्वाद् दुःखदुःखतोक्तेति. [तिब्. 176अ] सर्वे तु मनआपादयः संस्कारदुःखतया दुःखाः तस्या व्यापिनीत्वात्. यदि सर्वे ऽपि तथा दुःखाः कस्मात् सर्वे (विपरिणामदुःखतया) न पश्यंतीति अत आह. तां त्व् आर्या एव पश्यंति नान्ये. कथम् इतीदम् उपन्यस्यते आह चात्रेति सर्वम्.
एवं तर्हीति यदि संस्कारदुःखतया सर्वे ऽपि संस्कारा दुःखाः मार्गे ऽपि संस्कारदुःखताप्रसंगः. संस्कृतत्व्ता प्रत्ययजनितत्वाद् इत्य् अर्थः. ( अभिध्-क्-व्य् 517 ) प्रतिकूलं हि दुःखम् इति लक्षणान् मार्गो न दुःखम् इति. किम् इदम् अन्यद् एवोच्यते. पूर्वम् उक्तं प्रत्ययाभिसंस्करणात् सर्वसंस्कारा अनित्याः. यच् चानित्यं. तद् दुःखम् इति. मार्गश् च प्रत्ययाभिसंस्कृतत्वाद् अनित्यः. तस्माद् दुःखम् इति प्रसज्येत्. यदि हि प्रतिकूलतैव दुःखलक्षणम् इष्येत्. तत् पूर्वोक्तम् अलक्षणं स्यात्. तच् चेद् दुःखतालक्षणम्. इदम् अलक्षणम् इति. नैष दोषः. कथं. यद् अनित्यम् आर्याणां प्रतिकूलं. तद् दुःखम् इत्य् अयम् अत्राभिप्रेतो ऽर्थः. किं चानित्यम् आर्याणां प्रतिकूलं यत् सास्रवं वस्तु. कस्मात् पुनर् अनास्रवो मार्गस् तथैवानित्यो ऽपि न चार्याणां प्रतिकूल [तिब्. 176ब्] इत्य् अत आह. न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनाद् इति. अविशेषाभिधाने ऽपि हि लोके विशेषप्रतिपत्तिर् दृष्टा. तद्यथा गमनाद् गौः न च गमनान् महिषो ऽपि गौर् भवति. एवं ह्य् अर्थे नियते गौः [कास्मिंचिद् भवति.] कस्माद् भवति. यस्मात् गच्छतीति. एवम् इहापि यत् सास्रवं वस्तु. तत् प्रतिकूलम् आर्याणां. कस्मात्. अनित्यत्वाद् इति. यद् एव दुःखतो दृष्टम् इति. सास्रवं वस्तु. तस्यैव निरोधं शांततः पश्यंति. न मार्गस्येत्य् अवगंतव्यं. मुद्गादिभावे ऽपि माषराश्यपदेशवद् इति. माषराशौ मुद्गमसूरकलायादिसद्भावे ऽप्य् अल्पत्वान् मुद्गादीनां माषराशिर् इति लोके व्यपदेशो दृश्यते. तद्वत्. परिषेकसुखाणुकेनेति. सुखं च तद् अणुकं च सुखाणुकं. परिषेकेण सुखाणुकं परिषेकसुखाणुकं. तेनाह खल्व् अपीति. भदन्ककौमारलातः दुःखसंतत्यां.
दुःखस्य च हेतुत्वाद्
इति. सुखं दुःखस्य हेतुर् दुःखवेदनीयेन कर्मणा संप्रयुक्तत्वाद् इति.
दुःखैश् चानल्पकैः समुदितत्वात्.
यस्माच् चातिबहुभिर् दुःखैः परसेवाकृत्यादिकृतैः समुदितं सुखम् [तिब्. 177अ] उत्पद्यते.
दुःखे च सति तदिष्टेः.
यस्माच् च क्षुत्पिपासादिकृते दुःखे सति. भोजनपानादिकृतं सुखं इष्टं. नान्यथा. अत एभ्यः कारणेभ्यो
दुःखम् इति सुखं व्यवस्यंतीति.
सहैव तु सुखेनेति. तुशब्दः पूर्वपक्षव्यावर्तनार्थः. संस्कारदुःखतैकरसत्वाद् इति. संस्काऋअदुःखतैकप्रकारत्वात्. कथम् इदानीं सुखस्वभावाम् इति. कथम् अदुःखस्वभावां वेदनां दुःखतः पश्यंति. अनित्यतया प्रतिकूलत्वाद् इति. अनित्यत्वात् प्रतिकूलं प्रतिकूलत्वाद् दुःखतः पश्यंतीत्य् ( अभिध्-क्-व्य् 518 ) अर्थः. यथा रूपसंज्ञादीन्य् अपीति. यथा रूपसंज्ञासंस्कारविज्ञानान्य् अपि दुःखतः पश्यंति. न च तान्य् एवं दुःखानि. यथा दुःखा वेदना. तस्या उपघातकस्वभावत्वात्. तेषां वा तल्लक्षणत्वात्. यस् तु मन्यत इति भदन्तकुमारलातः. तस्य भदन्तस्यासौ समुदयाकारः स्यान् न दुःखाकारः. दुःखहेतुतो दर्शनात्. किं चार्याणां चानागामिनां रूपारूप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तते. नैव प्रवर्तते इत्य् अर्थः. न हि तेषाम् अनागामिनां दुःखवेदनाहेतुः दुःखाया वेदनाया हेतुः. [तिब्. 177ब्] के. स्कंधा रूपारूप्यावचराः. कस्मान् न हेतुः. पुनर् दुःखस्थानानागमनात्. संस्कारदुःखत च सूत्रे किम् अर्थम् उक्ता भवेद् इति. यदि दुःखहेतुत्वात् सुखम् अपि दुःखतः पश्यंति. येयं संस्कारदुःखतोक्ता यद् अनित्यं. तद् दुःखम् इति. सा किंप्रयोजना दुःखहेतुत्वेनैव तत्प्रयोजनसिद्धेः. दुःखहेतुवाद्य् आह. यदि तर्हीति. यदि यद् अनित्यं. तद् दुःखम् इत्य् अनित्यत्वाद् दुःखतः पश्यंति न दुःखहेतुत्वाद् अनित्यदुःखाकारयोः कः प्रतिविशेषः.
अत्राचार्य आह. उदयव्ययधर्मित्वाद् इति विस्तरः. यथा प्रतिकूलत्वाद् दुःखं. तथा तत् प्रतिपादयन्न् आह. अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्य् अनित्याकारो दुःखाकारम् आकर्षतीति. तद् उक्तं भवति. यद् इदम् उक्तं यद् अनित्यं. तद् दुःखम् इति. नाकारैकत्वाद् एवम् उक्तं. अप्य् त्व् अनित्यं तत् सुखं पश्यतां प्रतिकूलं भवति. प्रतिकूलत्वाद् दुःखतः पश्यंतीति.
एकीया इति भदंतश्रीलातादयः. इदम् अत्र दुःखस्येति. इदम् अत्र दुःखस्य लक्षणम् इत्य् अर्थः. सुखा वेदना दुःखतो द्रष्टव्येति. अपरं सूत्रपदं. शीतोष्णादय [तिब्. 178अ] इति. आदिशब्देनाम्लमधुरादयो गृह्यंते. अत्युपयुक्ता अतिपरिभुक्ताः. अकालोपयुक्ताश् चेति. तद्यथा शीता हेमंते उष्णा गृईष्मे. समेन वेति. सुखहेतुना. एवम् ईर्यापथविकल्पे ऽपि वक्तव्यम् इति. य एव हि शयनादय इष्यंते सुखहेतवः. त एवेति सर्वं यावद् व्यक्तिम् आपदयंत इति वक्तव्यं. दुःखप्रतीकारे च सुखबुद्धेः. किं. नास्ति सुखा वेदनेति प्रकृतं. दुःखविकल्पे च. किं. सुखबुद्धेः. तथैव नास्ति सुखा वेदनेति. दुःखप्रतीकारे सुखबुद्धिं प्रतिपादयन्न् आह. न हि तावत् सुखम् इति विस्तरः. दुःखविकल्पेनेति प्रतिपादयन्न् आह. दुःखविकल्पे च बाला इति विस्तरः. अंसाद् अंसं भारं संचारयंतो भारवाहका दुःख एवावस्थिते भारातिक्रामणे सुखम् इति बुद्धिम् उत्पादयंति.
एष एव च न्याय इत्य् आचार्यः. अनभिप्रीतं भवत्य् आर्याणाम् इति कामसुखं. ( अभिध्-क्-व्य् 519 ) अन्यथानभिप्रेतत्वाद् इति. प्रमादपदत्वादिनाकारांतरेण. तदर्थं दर्शयन्न् आह. या हि वेदनेति विस्तरः. प्रमादपदम् इति. कुशलप्रच्युतिकारणम् इत्य् अर्थः. महाभिसंस्कारसाध्यां च विपरिणामिनीं च. [तिब्. 178ब्] समनंतरदुःखोत्पादिनीम् अदुःखासुखोत्पादिनीं चेत्य् अर्थः. न्यूनरूपत्वम् आपन्नाम् इति वा. अनित्यां च विनाशिनीं चेत्य् अर्थः. न तु खलु स्वलक्षणाकारेणेति. अनुग्राहकस्वलक्षणाकारेण आर्याणाम् अपि हि सुखवेदनानुग्राहकेभ्य विसंवादः. यदि चासौ सुखा वेदना स्वेनात्मनानुग्राहकात्मनानभिप्रेता भवेत् नैव तस्यां सुखायां वेदनायां कस्यचिद् रागो भवेत्. दुःखवेदनावद् इत्य् अभिप्रायः. यतो वैराग्यार्थम् इति. यतः कारणात् वैराग्यार्थम् आकारांतरेणापि दोषवतीं पश्येयुः. अन्यथानायासेनैव रागाभावसिद्धेः वैराग्यार्थं प्रयत्नो ऽनर्थकः स्यात्. उक्तं चेदं भगवतेति स्थविरानन्दवचनम् एवैतत् सूत्रपदं. एवं हि सो ऽप्रक्ष्यद् इति. यत्किंचिद् वेदितम्. इदम् अत्र दुःखस्येति एतद् अयुक्तरूपं वचनम् इति पश्यं स्थविरानन्दस् तद् एव पृष्टवान्. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विरुद्धम् एवेति कृत्वा. यदि तु तिस्रो वेदना इत्य् एतद् अयुक्तरूपम् अद्रक्ष्यत्. तद् एवाप्रक्ष्यत् किं नु संधाय भगवता भाषितं तिस्रो वेदना इत्य् एतद् विरुद्धम् एवेति कृत्वा. भगवान् [तिब्. 179अ] अपि चैवं व्याकरिष्यद् इदं मया संधाय भाषितं तिस्रो वेदना इति. न त्व् एवं व्याकरिष्यत्. संस्कारानित्यताम् आनन्द संधाय मया भाषितं. संस्कारविपरिणामतां. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति. न त्व् एवम् आह. पुनश् च तिसृणां वेदनानां वचनात् तस्मात् संत्य् एव स्व्भावतस् तिस्रो वेदनाः. इदं तु संधाय मया भाषितं यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति वेदनाद् आभिप्रायिकम् एतद् वाक्यं दर्शयति भगवान्. यत्किंचिद् वेदितम् अत्र दुःखस्येति संस्कारविपरिणामताभिप्रायात्. विपरिणामानित्यधर्मित्वाद् इति. विपरिणामधर्मित्वाद् अनित्यधर्मित्वाच् च. विपरिणामः पुनर् अन्यथात्वं. कामगुणा इति. इष्टानां रूपशब्दगन्धरसस्प्रष्टव्यानाम् इयं संज्ञा. उपपत्तेर् अपीष्टस्य जन्मनः संज्ञा. एवम् उपपत्तिं अल्पसुखां बहुदुःखाम् एकांतसुखां पश्यतो विपर्यासः.
लोकानुवृत्त्येति. चेत्. अथ मतं लोकस्य वेदनां व्यवस्यतो ऽनुवृत्त्या तिस्रो वेदना इति वचनं. तन् न भवति. सर्ववेदितदुःखत्वस्य संधाय भाषितम् इति भगवतो वचनात्. संस्कारानित्यताम् आनन्द मया संधाय भाषितं संस्कारविपरिणामतां. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येत्य् [तिब्. 179ब्] अतो न लोकानुवृत्त्या तिस्रो वेदना इति वचनं. किं तर्हि. स्वलक्षणतो ( अभिध्-क्-व्य् 520 ) निधार्येत्य् अभिप्रायः. यथाभूतवचनाच् च. न लोकानुवृत्त्या तिस्रो वेदना इति वचनं. कथम् इत्य् आह. यच् च सुखेन्द्रियं यच् च सौमनस्येन्द्रियं. सुखैषा वेदना द्रष्टव्येति. विस्तरेणोक्त्वेति. यच् च दुःखेन्द्रियं यच् च दौर्मनस्येन्द्रियं. दुःखैषा वेदना. यद् उपक्षेन्द्रियम्. अदुःखासुखैषा वेदना इत्य् एवंआदिना विस्तरेणोक्त्वा येनेमानि पंचेन्द्रियाण्य् एवं यथाभूतं सम्यक्प्रज्ञया दृष्टानीति. इदम् अत्र वेदनात्रयसद्भावे ज्ञापकं. यथाभूतम् इत्य् अध्यारोपापवादाभावात्. लोको ऽपि च कथं दुःखां वेदनां त्रिविधां सुखां दुःखाम् अदुःखासुखां व्यवस्येद् दुःखस्वाभाव्येन दुःखव्यवसायस्यैव प्राप्तेः. मृद्वधिमात्रमध्यास्व् इति विस्तरः. अथ मतं मृदुनि दुःखे सुखबुद्धिर् अधिमात्रे दुःखबुद्धिः मध्य अदुःखासुखबुद्धिर् इति. अत्र ब्रूमः. सुखस्यापि त्रिविधत्वाद् इति विस्तरः. [तिब्. 180अ] मृदुमध्याधिमात्रभेदेन मृद्वादिषु दुःखेषु मृदुमध्याधिमात्रेषु. अधिमात्रादिसुखबुद्धिः स्याद् अधिमात्रमध्यमृदुः सुखबुद्धिः स्याद् इत्य् अर्थः. कथं. मृदुनि दुःखे अधिमात्रसुखबुद्धिः. मध्ये मध्यसुखबुद्धिः. अधिमात्रे मृदुसुखबुद्धिर् इति. न चाधिमात्रे दुःखे मृदुसुखबुद्धिर् युक्ता. किं कारणं. अधिमात्रम् एव तद् दुःखं न स्याद् यदि तत्र मृदुसुखबुद्धिः स्यात्. मृदुनि च दुःखे यद्य् अधिमात्रसुखबुद्धिः कथं तस्य दुःखस्य मृदुत्वं. न हि तथा व्यक्तस्यानुभवस्य मृदुत्वं युज्यत इति. अदुःखासुखानंतरं सुखानुभवं पश्यन्न् आह. यदा गंधरसस्प्रष्टव्यविशेषजम् इति. मध्यं हि दुःखम् अदुःखासुखं भवतां. न मृदुप्रकारम्. अतो वक्तव्यं. तदा कतमद् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर् भवतीति. विषयबलाद् एव हि तत् सुखम् उत्पद्यते. मृदुदुःखसमनंतरप्रत्ययबलाद् अधिमात्रदुःखसमनंतरप्रत्ययबलाद् वेति. किं च यदि मृदुनि दुःखे सुखबुद्धिर् इति मन्यसे. अनुत्पन्नविनष्टे च तस्मिन् मृदुनि दुःख इति. [तिब्. 180ब्] अनुत्पन्ने विनष्टे च तस्मिन् मृदुनि दुःखे. सुतरां सुखबुद्धिः स्यात् अशेषदुःखापगमात्. यस्माद् अशेषं दुःखम् अपगतं. सशेषापगते ऽपि हि दुःखे सुखबुद्धिम् इच्छसि. किम् अंगाशेषापगत इत्य् अभिप्रायः. एवं कामसुखसंमुखीभावे ऽपि वक्तव्यम् इति. यथा गन्धरसस्प्रष्टव्यविशेषजं सुखम् उक्तम्. एवं कामसुखसंमुखीभावे ऽपि वक्तव्यं. कथम्. मृदुनि रागदुःखे कामसुखबुद्धिर् भवति. अनुत्पन्ने विनष्टे च तस्मिन् रागदुःखे सुतरां कामसुखं स्यात्. न चैवं दृष्टम् इति. कथं च नामेति विस्तरः. कथं च नामैतद् योक्ष्यते. यन् मृदुनि ( अभिध्-क्-व्य् 521 ) वेदिते यन् मृदुनि दुःख इत्य् अर्थः. तीव्रानुभवो गृह्यत इति वक्तव्यं. सुखं गृह्यते. मध्ये पुनर् अव्यक्त इति. मध्यदुःखे अदुःखासुखा वेदना गृह्यते इत्य् अर्थः. मृदुनि दुःखे तेनाव्यक्तेन भवितव्यम् इत्य् अभिप्रायः. त्रिषु चेति विस्तरः. त्रिषु च ध्यानेषु प्रथमद्वितीयतृतीयेषु सुखवचनात्. सुखा वेदना तत्रेति सूत्रे वचनात्. मृदुदुःखं स्यात्. किं कारणं. मृदुनि दुःखे सुखबुद्धिर् इति तवाभिप्रायात्. ऊर्ध्वं चतुर्थे ध्याने आरूप्येषु चादुःखासुखवचनात् [तिब्. 181अ] सूत्रे. मध्यं दुःखं स्यात्. कस्मात्. मध्ये दुःखे अदुःखासुखम् इति तवैवाभिप्रायात्. इत्य् अतो न युज्यते मृद्वादिषु दुःखेषु सुखादिवेदनाव्यवस्थानं. कथं हि नामाधोध्यानेषु मृदु दुःखम्. ऊर्ध्वे पुनर् मध्यम् इति युज्यते. रूपं चेन् महानामन्न् इति. रूपं चेन् महानामन्न् एकांतदुःखम् अभविष्यत् न सुखं न सुखानुगतं न सौमनस्यं न सौमनस्यानुगतं न सुखवेदितं हेतुर् अपि न प्रज्ञायते रूपे संरागाय. यस्मात् तर्हि अस्ति रूपं सुखं सुखानुगतं पूर्ववद् अतो रूपे हेतुः प्रज्ञायते यद् उत संरागायेति.
सुखहेत्वव्यवस्थानाद् इत्य् अत्र ब्रूमः. यदि सुखहेत्वव्यवस्थानान् न सुखम् अस्ति वः. दुःखम् अप्य् असत् स्यात् दुःखहेत्वव्यवस्थानात्. अपि च व्यवस्थित एव सुखहेतुः. कथम् इत्य् आह. आश्रयविशेषापेक्षो हीति विस्तरः. यदि हि केवल एव विषयो हेतुः स्यात् स्याद् एवाव्यवस्थितो हेतुः. न तु केवलो विषयो हेतुः. यस्माद् आश्रयविशेषो ऽपि हेतुर् इति. स एवाग्निर् इति. तद्यथा स एवाग्निः पाक्यभूतविशेष [तिब्. 181ब्] ईषत्पक्वावस्थे तण्डुलसमूहे स्वादुपाकहेतुर् भवति. अभिमतौदनपाकहेतुत्वात्. स एवास्वादुपाकहेतुः. तद्दाहहेतुत्वाद् इत्य् अर्थः. न तु या पाक्यभूतावस्थां प्राप्य स्वादुपाकहेतुर् आसीत्. तां पुनः प्राप्य पश्चान् न हेतुः स्वादुपाकस्य तादृशस्येत्य् अर्थः. एष दृष्टांतः तस्य पूर्वोक्तस्य दार्ष्टांतिकस्यार्थस्य. ध्यानेषु च कथं न व्यवस्थितः सुखहेतुर् इति. न हि तद् एव ध्यानं प्रथमं यावत् तृतीयं चिरकालम् अपि समापन्नानां दुःखहेतुर् भवतीति. ध्यानजे च सुखे कस्य प्रतीत्कार इति. न हि ध्यानेषु दुःखम् अस्तीति. आदिशब्देनेदम् अपि वक्तव्यं. यदि दुःखप्रतीकारेषु सुखबुद्धिः स्यात्. रूपं चेन् महानामन्न् एकांतदुःखम् अभविष्यत् न सुखं न सुखानुगतम् इत्य् एवमादि नोक्तं स्याद् इति. सुखम् एवोत्पद्यत इति. सुखैव सा वेदनोत्पद्यते. न सा दुःखा वेदना सुखत्वेन कल्पितेति. यावद् असौ तादृशी कायावस्थेति. सुखोत्पत्त्यनुकूला. अन्यथा हि यद्य् अवस्थांतरजं सुखम् एव नोत्पद्यते यावद् असौ ( अभिध्-क्-व्य् 522 ) तादृशी कायावस्था नांतरीयते. अन्यथा पश्चाद् भूयसी सुखबुद्धिः स्यात्. अंते कुत इति विस्तरः. अथ मतं पानभोजनाद्यंते कुतो दुःखबुद्धिः स्यात् यदि तस्यादितत्प्रारंभो नासीद् इति. अत्र ब्रूमः. कायपरिणामविशेषात्. [तिब्. 182अ] कायस्य तादृशः परिणामविशेषाः पश्चाद् उत्पद्यते पानाद्यासेवनात् यत् सुखोत्पत्त्यवस्थायां दुःखं नोत्पद्यते. अंते तूत्पद्यत इति. किम् एवेत्य् आह. मद्यादीनाम् अंते माधुर्यशुक्ततावद् इति. यथा मद्यक्षीरादीनां तादृशः पश्चात्परिणामवीशेषो भवति. यत् पूर्वं मधुरतावस्थायां माधुर्यस्याविद्यमाना शुक्तता अम्लता अंते उत्पद्यते. अथ वा यथा मद्यादीनां परीणामवीशेषान् माधुर्यम् एषाम् आदौ भवति. आम्लं वा. तच् चिकित्सौषधकृतात् परिणामविशेषान् माधुर्यं भवति. परिणामविशेषाद् एव च पश्चाच् छुक्तता. माधुर्यम् इह सुखस्योदाहरणं. शुक्तता दुःखस्येति.
यत् तु समुदयसत्यं. तद् एवोच्यत इति. हेतुभूताः शमुदयसत्यम् इति वचमात्. प्रथमे वा कोशस्थाने
दुःखंसमुदयो लोक
इति वचनात्. शूत्रे हि तृष्णैवोक्तेति. समुदयसत्यं कतमत्. यासौ तृष्णा नन्दीरागसहगता तत्रतराभिनन्दिनीति. वैभाषिक आह. प्राधान्याद् इति. अन्यत्रान्यस्यापि वचनात्. [तिब्. 182ब्] अन्यत्र सूत्रे अन्यस्यापि कर्माविद्यादेर् वचनाद् अन्ये ऽपि समुदय इति.
अभिसंपराये
आयत्यां परलोक इत्य् अर्थः. पुनश् चोक्तम् अन्यत्र शूत्रे. यतश् च भिक्षवः पंच बीजजातान्य् अखण्डानि अच्छिद्राणी अपूतीनि अवातातपहतानि नवानि साराणि सुखशयितानि. पृथिवीधातुश् च भवत्य् अब्धातुश् च. एवं तानि बीजानि वृद्धिं विरूढिन् विपुलताम् आपद्यंते. इति हि भिक्षव उपमेयं कृता यावद् एवास्यार्थस्य विज्ञप्तय इतीमं दृष्टांतम् उपन्यस्येदम् उक्तं. पंच बीजजातानीति भिक्षवः सोपादानस्य विज्ञानस्यैतद् अधिवचनं पृथिवीधातुर् इति चतसृणां विज्ञानस्थितीनाम् एतद् अधिवचनम् इति. बीजं पुनर् हेतुः. यश् च हेतुः. स समुदयः विज्ञानस्थितयो ऽपि प्रतिष्ठाहेतुः. तस्माद् इति. यतः कर्मादीनाम् अपि हेतुत्ववचनात् समुदयसत्यत्वं सिद्धं. तस्माद् आभिप्रायिकः. अभिप्राये भवः अभिप्रायेण वा दीव्यतीत्य् आभिप्रायिकः सूत्रे निर्देशः तृष्णाधिकृतं पुद्गलम् अधिकृत्य कृत इत्य् अभिप्रायः. लाक्षणिकस् त्व् अभिधर्मे लक्षणे भवो लाक्षणिको निर्देशो ऽभिधर्मे. सर्वं सास्रवं वस्तु समुदय इति सास्रवस्य स्कंधपंचकस्य समुदयसत्यत्वलक्षणयोगात्. स एव वैभाषिकस् तृष्णादीनाम् आभिप्रायिकं समुदयसत्यत्वं विवक्षुर् [तिब्. 183अ] ( अभिध्-क्-व्य् 523 ) आह. अपि त्व् इति विस्तरेण. अभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता सूत्रे. उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रुवता यावत् कर्म च तृष्णा चाविद्या चोक्ता. उपपत्तिहेतुः कर्म. अभिनिर्वृत्तिहेतुस् तृष्णा भवेषु. तयोः पुनस् तद्धेत्वोः कर्मतृष्णयोर् अविद्या हेतुर् इत्य् आह. कथम् एतद् गम्यते. गाथायाम् उपपत्तिहेतुः कर्माभिनिर्वृत्तिहेतुस् तृष्णेति. कर्म हेतुर् उपपत्तये तृष्णा हेतुर् अभिनिर्वृत्तय इति सूत्रात्. सूत्रांतरे वचनाद् इति. सहेतुसप्रत्यय इति विस्तरः. अत्र सूत्रे क्रमेण वा. कारणपरंपराक्रमेण वा. गाथायाम् एष निर्देशः. कर्मतृष्णाविद्या संकाराणां चक्षुरादीनां हेतुर् अभिसंपराय इति. तद् एतद् उक्तं भवति. कर्म हेतुर् उपपत्तय इति. अतो वा सूत्रात्. सहेतुसप्रत्ययक्रमसूत्राद् वा. अयं ईदृशः गाथार्थ इति. कथं चक्षुर् भिक्षवः सहेतु सप्रत्ययं सनिदानं. कश् च भिक्षवश् चक्षुषो हेतुः कः. प्रत्ययः. किं निदनं. चक्षुषो भिक्षवः कर्म हेतुः. कर्म प्रत्ययः कर्म निदानं. कर्मापि भिक्षवः सहेतु सप्रत्ययं सनिदानं. कश् च भिक्षवः कर्मणो हेतुः. कः प्रत्ययः. किं निदानं. [तिब्. 183ब्] कर्मणो भिक्षवस् तृष्णा हेतुः. तृष्णा प्रत्ययः. तृष्णा निदानं. तृष्णा भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवस् तृष्णाया हेतुः. कः प्रत्ययः. किं निदानं. तृष्णाया भिक्षवो ऽविद्या हेतुः. अविद्या प्रत्यय्ः. अविद्या निदानं. अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवो ऽविद्याया हेतुः. कः प्रत्ययः किं निदनं. अविद्याया भिक्षवः अयोनिशोमनस्कारो हेतुः. अयोनिशोमनस्कारः प्रत्ययः. अयोनिशोमनस्कारो निदानम् इति. बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयो ऽप्य् उक्ता विज्ञानं बीजं. तस्य क्षेत्रं वेदनादयः स्कन्धाः. ते ऽप्य् उक्तः समुदयसत्यं. न केवलं तृष्णादय इत्य् आभिप्रायिकः सूत्रे निर्देश इति साधितं. सर्वस्य च दुःखस्य लाक्षणिकः समुदयभाव इति. योन्यादिप्रकारभेदेनेति. आदिशब्देन जातिस्त्रीपुरुषादिप्रकारभेदेनेति गृह्यते. अभेदेनेति. धातुगत्य्योन्यादीनां. तयोर् यथाक्रमम् इति. उपपत्तेः कर्म हेतुर् अभिनिर्वृत्तेस् तृष्णेति. तद्यथा बीजम् इति विस्तरः. शालिबीजं शाल्यंकुरोपपादनस्य हेतुः यवबीजं यवांकुरोपपादनस्येत्यादि. आपः पुनर् अभेदेन. यथा शाल्यंकुरप्ररोहस्य हेतुः. एवं यवांकुरस्यापीत्यादि. अतस् ताः सर्वांकुरप्ररोहमात्रस्य हेतुर् इति विना तृष्णया जन्माभावाद् इति. अत्र साधनं. हेतुर् जन्मनस् [तिब्. 184अ] तृष्णा. तद्भावाभावभाव्यभावित्वात्. तक्यथा बीजम् अंकुरस्य. संततिनामनाच् चेत्य् अस्यार्थं विवृण्वन्न् आह. यत्र च सतृष्णेति विस्तरः. यत्र विषये रूपादौ सतृष्णा. का. चित्तसंततिः. तत्राभीक्ष्णं चित्तसंततिं नमंतीं पश्यामः. तस्नात् पुनर्भवे ऽप्य् एवम् इति. पुनर्भवे ऽप्य् एवं सतृष्णा चित्तसंततिः. ( अभिध्-क्-व्य् 524 ) तस्मात् तन् नमतीति. यत्र च नमति. तत्र च प्रवर्तत इति व्यवस्यामः. साधनं चात्र प्रवर्तते. पुनर्भवे चित्तसंततिः. सतृष्णानमनात्. रूपादिविषयवत्. शुष्कमसूरोपस्नानलेपांगवद् इति. मसूर उपस्नानं. तस्य लेपः शुष्कः. मसूरोपस्नानलेपो ऽस्येति शुष्कमसूरोपस्नानलेपम् अंगं. तद्वद्. यथा शुष्केण मसूरोपस्नानलेपेनागृहीतम् अंगं. एवं तृष्णयात्मभाव इति दर्शितं
भवति. एषा युक्तिर् इति. तृष्णाभिनिर्वृत्तिहेतुर् इति.
(वि.4) अत्रार्थे द्वे अपि सत्य इति सत्यप्रसंगेनेदम् उच्यते.
घटांबुवद्
इति. दृष्टांटद्वयोपन्यासो भेदद्वयोपप्रदर्शनार्थः. उपक्रमभेदिनश् च घाटादयः. बुद्धिभेदिनश् च जलादय इति. जलादिषूपक्रमेण रसाद्यपकर्षणानुपपत्तेः. अथ वा द्विविधा संवृतिः. [तिब्. 184ब्] संवृत्यंतरव्यपाश्रया द्रव्यांतरव्यपाश्रया च. तत्र यासौ संवृत्यंतरव्यपाश्रया. तस्यां भेदो ऽपि संभवति अन्यापोहो ऽपि. या त्व् असौ द्रव्यांतरव्यपाश्रया. तस्याम् अन्यापोह एव संभवति न भेदः. न हि परमाणोर् अष्टद्रव्यकस्यावयवविश्लेषः शक्यते कर्तुम् इति. संवृतिसद् इति. संव्यवहारेण सत्. परमार्थसद् इति. परमार्थेन सत्. स्वलक्षण सद् इत्य् अर्थः. एवं वेदनाद्यो ऽपि द्रष्टव्या इति. वेदनाचेतनासंज्ञादयो ऽपि द्रव्यसंत एव द्रष्टव्याः. कथं. वेदनादीन् धर्मान् अपोह्य बुद्ध्या वेदनास्वभावे बुद्धिर् भवतीति. द्रव्यसती वेदना. एवं संज्ञाचेतनादयो ऽपि योज्याः. घटश् चांबु चास्तीति ब्रुवंतः सत्यम् एवाहुः. न मृषेति. संवृतिसत्यस्य वचने प्रयोजनं दर्शयति. उक्तं च.
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना.
लोकसंवृतिसत्यं च सत्यं च परमार्थत
इति. तथा परमार्थसत्यम् इति. परमस्य ज्ञानस्यार्थः परनार्थः. परमार्थश् च सत्यं च तत् परनार्थसत्यं यथान्येन ज्ञानेन लौकिकेन गृह्यते. तथा संवृतिसत्यं. संवृत्या संव्यवहारेन ज्ञानेन वा क्लिष्टेनाक्लिष्टेन वा गृह्यत इति संवृतिसत्यं. त्रिविधं हि योगाचाराणां सत्. [तिब्. 185अ] परमार्थसंवृतिसत् द्रव्यसच् च. द्रव्यतः स्वलक्षणतः सद् द्रव्यसद् इति.
(वि.5) वृत्तस्थ
इति विस्तरः. वृत्तं शीलं. तद् अव्यासंगकारणम् अविक्षेपकारणम् आचारकारणं च. सत्यदर्शनस्यानुलोमम् इति. यच् छ्रुतं सत्यदर्शनाधिकारिकं ( अभिध्-क्-व्य् 525 ) तच् छ्रुतम् उद्गृह्णाति पठति. अर्थं वा शृणोति तदर्थं श्रोत्रद्वारेण विजानाति. कथम्. उभयालंबना चिन्तामयीति दर्शयन्न् आह. कदाचिद् व्यंजनेनार्घम् आकर्षति. व्यंजननिर्वृत्तेन नाम्नार्थम् आकर्षत्य् अयम् अस्य नाम्नो ऽर्थ इति. कदाचिद् अर्थेन व्यंजनम् आकर्षति. इदम् अस्याभिधेयस्यार्थस्य व्यंजनं नामेत्य् अर्थः. अयं हि व्यंजनशब्दो नाम्नि प्रयुक्तः. सूत्रे ऽपि चोक्तं. स्वर्थं सुव्यंजनम् इति. अस्यां तु कल्पनायाम् इति विस्तरेणाचार्यः. चिन्तामयी प्रज्ञा न सिध्यतीति. श्रुतभावनामयीलक्षणसंकीर्णं लक्षणम् उच्यते. नासंकीर्णम् इति न सिध्यति. युक्तिनिध्यानज इति. युक्त्या निध्यानं नितीरणं. ततो जात इति. हेतौ मयड्विधानाद् इति. आप्तवचनं श्रुतं सहेतु श्रुतमय्याः प्रज्ञायाः. अत्र मयड्विधानं. श्रुतहेतुका प्रज्ञा श्रुतमयीति. एवं युक्तिनिध्यानं चिन्ता सहेतुश् चिन्तामय्याः. अत्र मयड्विधानात्. समाधिर् भावना सहेतुर् भावनामय्याः. अत्र मयड्विधानं. तत्प्रकृतिवचने मयड् इति लक्षणात्. तस्य विकार इति वा लक्षणात्. औपचारिकस् तु विकारः. श्रुतविकार इव श्रुतमयीति लक्षणांतरं चोपसंख्यातव्यं. अन्नमयाः प्राणास् तृणमय्यो गाव इति लोके प्रयोगदर्शनात्.
(वि.6-8) संसर्गाकुशलवितर्कदूरीकरणाद् इति. संसर्गदूरीकरणं यद् अद्वितीयविहारित्वं. तस्मात् कायेन [तिब्. 185ब्] व्यपकृष्टो भवति. अकुशलवितर्कदूरीकरणं यत् क्लिष्टवितर्कविवर्जनं. तस्माच् चित्तेन व्यपकृष्टो भवति. लब्धेनाप्रणीतेनाप्रभूतेन परितास इति. परितासो दौर्मनस्यं. तेन हि परितस्यति. उपक्षीयत इत्य् अर्थः. अप्रणीतत्वाद् अप्रभूतत्वाद् वा. तेन लब्धेन परितासो ऽसंतुष्टिः. अलब्धे तु प्रणीते ऽपि वा प्रभूते ऽपि वा इच्छाभिलाषा महेच्छतेत्य् आचार्यमतं. कामावचर्याव् एवेति. लोभाकुशलस्वभावत्वात्.
प्रहाणभावनारामता निरोधमार्गारमता. सा न संतुष्टिस्वभावेति. कथं चतुर्थो ऽप्य् अयम् आर्यवंशो भवत्य् अलोभस्वभाव इत्य् अत आह. भवकामरागवैमुख्याद् इति. भवरागवैमुख्यात्. कामरागवैमुख्याच् च. वैमुख्यं चालोभ इति. परित्यक्तस्ववृत्तिकर्मांतेभ्य इति. परित्यक्तस्ववृत्तिभ्यः परित्यक्तस्वकर्मांतेभ्यश् च. तत्र वृत्तिजीविका यया जीव्यते अन्नपानादिना. कर्मांतः कृषिशिल्पादिः. इति भवविभवहेतोर् इति. इतिशब्दो भवविभवप्रकाराभिद्योतकः. तत्र भवप्रकारे तृष्णा अहो बताहं इन्द्रः स्यां चक्रवर्ती स्याम् इति एवमादि. [तिब्. 186अ] विभवतृष्णापि विणाशतृष्णा. अहो बतोच्छिद्येयं न भवेयं परं मरणाद् इत्यादि.
(वि.9) स्मृतिर् एव स्मृतम् इति. भावे क्तविधानम् इति दर्शयति. अवतारस् तीर्थं येनावतरति. प्रत्यासन्नम् अत्यर्थं रागचरित इति. यस्याल्पेन रागः शीघ्रम् उपतिष्ठते. स प्रत्यासन्नं रागचरितः. यस्याधिमात्रो रागः. सो ऽत्यर्थं रागचरितः.
अविचित्रालंबनत्वाद् इति. वायौ वर्णसंस्थानवैचित्र्यानुपलब्धेः.
अबहिर्मुखत्वाद् अंतर्मुखत्वात्. एषा वितर्कोपच्छेदाय संवर्तत इति प्रकृतं. तद्विषयोपनिध्यानाद् इति. चक्षुर्विषयनिरूपणाद् इत्य् अर्थः.
(वि.10, 11) विनीलकाद्याकारालबनाम् इत्य् आदिग्रहणेन विपूयकादिग्रहणं. विपटुमकम् इति यद् उत्पन्नक्रिमिकं. चतुर्विधं रागवस्तु नास्तीति. वर्णसंस्थानस्पर्शोपचारात्मकम्. अधिमुक्तिप्रादेशिकमनसिकारत्वाद् इति. अधिमुक्तिमनसिकारत्वात् प्रादेशिकमनसिकारत्वाच् चेत्य् अर्थः. अधिमुक्तिप्रधानो ऽयं मनसिकारः. प्रादेशिकश् चायम् अव्यापीत्य् अर्थः. न ह्य् अशुभा पंचस्कन्धालंबना. सकलभूम्यालम्बना वा. किं तर्हि. रूपस्कन्धैकदेशालंबना [तिब्. 186ब्] तद्भावात्. नाशुभया क्लेशप्रहाणं विष्कंभणामात्रं तु भवतीत्य् अर्थः. स्वांगावयवे चित्तम् उपनिबध्नातीति वचनात् न तावत् स्त्र्यंगावयवे प्रयोगकाल एव संरागहेतुपरिहारात्. अस्थि विशोधयन्न् इति. अस्थिनो मांसम् अपनयन् सकलाम् अस्थिशंकलां पश्यति. यथोक्तं.
यो भवेन् नवको भिक्षुः शैक्षो ऽसंप्राप्तमानसः
गच्छेद् असौ शिविपथिकां हंतुं रागं यदीच्छति
ततो विनीलकं पश्येत् ततः पश्येद् विपूयकं.
ततो व्याध्मातकं पश्येद् अस्थिशंकलिकाम् अपीति.
अत्र समासतो ऽशुभायां वर्तमानो योगाचारस् त्रिविधः. आदिकर्मिकः कृतपरिजयः अतिक्रांतमनसिकारश् च. तत्र संक्षेपचित्त आदिकर्मिको योगाचार एकस्मिन् पादांगुष्ठे मन उपनिबध्य पादांगुष्ठं क्लिद्यमानं पश्यत्य् एतन् मांसम् एवं यावत् सर्वं शरीरम् अस्थिशंकलाम् अधिमुच्यते. कृतपरिजयस् तु तथैव यावत् कपालार्धं. अतिक्रांतमनसिकारस् तथैव यावद् भ्रुवोर् मध्ये चित्तं धारयति. विस्तरचित्तस् तु आसमुद्रास्थिविस्तारः संक्षेपाद् आदिकर्मिक इत्य् एवमादित्रिविध इति. एवं च कृत्वा चतुष्कोटिकः प्रश्नो भवतीति. जिताजितमनस्कारयोर् इति विस्तरः. [तिब्. 187अ] प्रथमा कोटिर् जितमनस्कारस्य स्वकायालंबना अशुभा आलंबनपरीत्ततया परीत्ता कायस्याल्पत्वात्. ( अभिध्-क्-व्य् 527 ) न वशितापरीत्ततया जितमनस्कारत्वाद् अतिक्रांतमनसिकारत्वाद् इत्य् अर्थः. द्वितीया कोटिर् अजितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा. वशितापरीत्तततया परीत्ता अजितमनस्कारत्वात्. नालंबनपरीत्ततया समुद्रपर्यंतालंबनत्वात्. तृतीया कोटिर् अजितमनस्कारस्य स्वकायालंबना अशुभा. आलंबनपरीत्ततयापि परीत्ता कायस्याल्पत्वात्. वशितापरीत्ततयापि अजितमनस्कारत्वात्. चतुर्थी कोटिर् जितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा. नाप्य् आलंबनपरीत्ततया परीत्ता समुद्रपर्यंतालंबनत्वात्. नापि वशितापरीत्ततया जितमनस्कारत्वात्.
(वि.12) स सामांतकध्यानांतरेष्व् इति. सामंतकेषु ध्यानांतरे चतुःषु ध्यानेषु कामधातौ चेति दश भूमिका. ध्यानसामंतकानां चतुष्ट्वात्. अत एवार्थालंबनेति. वर्णसंस्थानालंबनत्वाद् अर्थालंबना. न तु नामालंबनेत्य् अभिप्रायः. नाम्नैव सिद्धम् अशुभाकारेत्य् आकारार्थं न सूत्रयितव्यम् इत्य् अभिप्रायः. यदध्विका तदध्विकालंबनेति. चक्षुर्विज्ञानवद् अतीताया अतीतम् आलंबनम् एवं यावत् प्रत्युत्पन्नायाः प्रत्युत्पन्नम् इति. स्वालंबननियतत्वात्. अधिमुक्तिमनसिकारत्वान् न सूत्रितं. उचितानुचितत्वाद् इति. अनादिम् अतिसंसारे उचितत्वाद् वैराग्यलाभिकी. अनुचितत्वात् प्रायोगिकी.
(वि.13) कायस्मृत्युपस्थानादीनि प्रज्ञास्वभावानि. [तिब्. 187ब्] तद्बलाधानवृत्तित्वात्. तस्याः स्मृतेर् बलस्याधानेन वृत्तिर् एषाम् इति स्मृतिबलाधानवृत्तीनि कायस्मृत्युपस्थानादीनि कायप्रज्ञाद्रव्यादीनि स्मृत्युपथानीत्य् उच्यंते. तद्वद् आनापानप्रज्ञा स्मृतिबलाधानवृत्तित्वाद् आनापानस्मृतिर् इत्य् उच्यते. पंचसु भूमिष्व् इति. त्रिषु सामंतकेषु चतुर्थसामंतकवर्ज्येषु. ध्यानांतरे. कामधातौ चेति पंचसु भूमिषु. किं कारणं. उपेक्षासंप्रयोगित्वात्. यस्मात् प्रथमध्याने सामंतकादिषूपेक्षावेदना भवति. चतुर्थध्याने सामंतके तु यद्य् अप्य् उपेक्षास्ति. सा त्व् अभूमिर् आश्वासप्रश्वासानां. अथ किम् अर्थम् एषोपेक्षा संप्रयोगिण्य् एवावधार्यत इति. अतो ब्रवीति वितर्कानुगुणत्वाद् इति. तत्प्रतिपक्षस्य वितर्कप्रतिपक्षस्यानापानस्मृतेस् ताभ्यां सुखदुःखाभ्याम् असंप्रयोगः. सुखसौमनस्ययोश् चावधानपरिपंथित्वात्. आभोगप्रत्यनीकत्वात्. तस्याश् चानापानस्मृतेर् अवधानसाध्यत्वात् ताभ्याम् असंप्रयोग इति. वितर्कानुगुणत्वात्.
किलेति. किलशब्दः परमतद्योतकः. तेनेदं पक्षांतरम् उपन्यस्यते ये तु मौलेष्व् इति विस्तरः. परेणेति. चतुर्थाद् ध्यानाद् आरभ्य. [तिब्. 188अ]
कामधात्वाश्रयेति. तत्र वितर्कभूयस्त्वात्. प्रायोगिकी अनुचितत्वात्. वैराग्यलाभिकी उचितत्वात्. इदंधर्माणाम् इति. अयं धर्मो बौद्ध एषाम् ( अभिध्-क्-व्य् 528 ) इति इदंधर्माणः. तेषाम् एव बौद्धानाम् इत्य् अर्थः. उपदेशाभावाद् इति. बाह्यानां हि प्राणायामोपदेशो ऽस्ति नानापानस्मृत्युपदेश तित्. स्वयं च सूक्ष्मधर्मानभिसंबोधाद् इति. उपदेशम् अंतरेण यस्माद् बाह्यानां नास्ति स्वयं सूक्ष्मधर्माभिसंबोधः. सूक्ष्मत्वं पुनर् अस्याः षट्कारणयुक्तत्वात्. कायं चित्तं वाध्युपेक्ष्येत्य् अनासज्येत्य् अर्थः. वितस्तिव्यामांतरम् इति. बलवद्दुर्बलप्राणियोगात्.
यावद् वायुमण्डलम् इत्य् अधस्ताद् अनुगच्छति. वैरंभाश् च वायव इत्य् उपरिष्ठात्. तत्त्वमनसिकारत्वान् न युक्तम् एतत्. यावद् वायुमण्डलं वैरंभाश् च वायव इति. अधिमुक्तिमनस्कारस्यैषा कल्पना युज्येत.
किम् अनुग्राहका एते यावद् उष्णा इति. स्थापनैवेयं द्रष्टव्या. कायप्रदेश एवानुग्राहकादिविशेषस्थापनतः. तदाश्रिताश् चित्तचैत्त इति. तत्प्रतिबद्धवृत्तय इत्य् अर्थः. [तिब्. 188ब्] उत्तरोत्तरेषु कुशलमूलेष्व् इति. स्मृत्युपस्थानोष्मगतादिष्व् इति. दर्शनमार्गादिष्व् इत्य् आदिशब्देन भावनामार्गग्रहणं.
क्षयज्ञानादिविशुद्धिर् इति. आदिशब्देन अनुत्पादज्ञानाशैक्षसम्यग्दृष्टिग्रहणं.
(वि.14) नापानौ यतः काय
इति. आनापानस्मृतिसंबंधेन सर्वभूमिकाव् आनापानौ निर्दिश्यते. यद्भूमिको हि काय इति. कामावचरः यावत् तृतीयध्यानभूमिकस् तद्भूमिकाव् एतौ. नान्यभूमिकौ. कायचित्तविशेषसंनिश्रिता इति. कायविशेषसंनिश्रिताः चित्तविशेषसंनिश्रिताश् चाश्वासप्रश्वाशाः. कस्माद् इत्य् आह. आरूपोयकललादिगतानाम् अभावाद् इति. कायाभावाद् आरूप्यगतानां न भवंति. कललादिगतानां च. कललार्बुदपेश्यादिगतानां च न भवंति. कायविशेषाभावात् सुषिरकायाभावाद् इत्य् अर्थः. अचित्तानां च न भवंति. चित्ताभावात्. चतुर्थध्यानसमापन्नानाम् अपि न भवंति. आश्वासप्रश्वासभूमिचित्तविशेषाभावात्. अत एवाह. यदि कायः सुषिर इति विस्तरः. इन्द्रियविनिर्भागित्वाद् इति. इन्द्रियपृथग्वृत्तित्वाद् इत्य् अर्थः. कायोपचयेनापचयान् नौपचयिकौ. [तिब्. 189अ] उच्छिन्नानां चाश्वासप्रश्वासानां पुनःप्रतिसंधानान् न विपाकजौ. न ह्य् एतद् विपाकरूपस्यास्ति विपाकात्मकस्य रूपस्य चक्षुरादेर् एतत् पुनःप्रतिसंधानं नास्ति. अरूपस्य तु चित्तचैत्तस्य पुनःप्रतिसंधानं न वार्यते. नाधरेणैर्यापथिकनैर्माणिकेनेति. ऐर्यापथिकं नैर्नाणिकं च चित्तम् अधरभूमिकं संमुखीभवति यावच् चतुर्थध्यानोपपन्नस्येत्य् ( अभिध्-क्-व्य् 529 ) अत आशंक्योच्यते. नाध्गरभूमिकाभ्यां ताभ्याम् उपलक्षणम् इति.
(वि.15, 16) विपश्यनायाः संपादनार्थम् इति. प्रज्ञायाः संपादनार्थम् इत्य् अर्थः. निष्पन्नसमाधेर् अपि हि प्रज्ञाम् अंतरेण क्लेशा न प्रहीयंते. ज्ञानवध्याः क्लेशा इति वचानात्. कुतः प्र्नर् एतत् स्मृत्युपस्थानभावनया विपश्यना संपद्यत इति. सूत्रात्. एकायनो ऽयं भिक्षवो मार्गो यद् उत स्मृत्युपस्थानानि. केवलो ऽयं कुशलराशिः यद् उअत् चत्वारि स्मृत्युपस्थानानीति वचनात्.
कायविद्
इति वेदना वित्. स्वभाव एवैषां स्वलक्षणम् इति. कः स्वभावः. कायस्य भूतभौतिकत्वं. वेदनाया अनुभवत्वं. चित्तस्योपलब्धित्वम्. एभुअस् त्रिभ्यो ऽन्येषां यथास्वं स्वभावः. दुःखता सास्रवाणाम् इति. [तिब्. 189ब्] आर्यप्रतिकूललक्षणं दुःखम् इति व्याख्यातम् एतत्. धर्मास् त्रिभ्यो ऽन्य इति असंभिन्नव्यवस्थाम् अभिसंधायैवम् उच्यते. स्ंभिन्नव्यवस्थायां तु कायादयो ऽपि निगृह्यंते. पुनः सर्वे संस्कृता असंस्कृताश् च धर्मा द्रष्टव्याः.
स्वभावस्मृत्युपस्थानं
प्रज्ञेति.
यस्मात् संसर्गालंबनम् अपेक्ष्येयं प्रज्ञोपतिष्ठते. तस्मात् स्मृत्युपस्थानम् इत्य् उच्यते.
श्रुतादिमयी
ऽति विशेषणं. यस्मात् स्मृत्युपस्थानानि प्रायोगिकाणि नोपपत्तिलभ्यानि. कस्मात् प्रज्ञास्वभावम् इत्य् उच्यते. किम् अन्यथापि स्मृत्युपस्थानम् अस्तीति. उच्यते.
अन्ये संसर्गालंबनाद्
इति. अन्ये तत्सहभुवो वेदनादयः. संसर्गेण स्मृत्युपस्थानं संसर्गस्मृत्युपस्थानम्. स्वभावस्मृत्युपस्थानसंसर्गात्. तदालंबनाद् इति. स्वभावसंसर्गस्मृत्युपस्थानालंबनाद् आलंबनस्मृत्युपस्थानं. तदालंबना आलंबनस्मृत्युपस्थानम् इत्य् अपरे पठंति. आलंब्यंत इत्य् आलंबनाः. के. कायवेदनाचित्तधर्माः. तद् एवं सति तद् आलंबनस्मृत्युपस्थानं सर्वधर्मस्वभावं भवति. उक्तं च भगवता. [तिब्. 190अ] सर्वधर्मा इति भिक्षवश् चतुर्णां स्मृत्युपस्थानानाम् एतद् अधिवचनम् इति.
तया हि प्रज्ञया तद्वान् प्रज्ञावान्. अनुपश्यः क्रियत इति. अनुपश्यतीत्य् ( अभिध्-क्-व्य् 530 ) अनुपश्यः. पाघ्राध्माधेट्दृशः श इति शप्रत्ययः. अनुपश्यं पुद्गलं करोतीत्य् अनुपश्ययति. प्रज्ञास्वभावे त्व् एवं विग्रहः. अनुपश्यस्य करणम् अनुपश्यनेति. तया हि प्रज्ञया तद्वान् प्रज्ञावान् अनुपश्यः क्रियते. यथा प्रज्ञायोगात् प्राज्ञः पुद्गल उच्यते. एवम् अनुपश्यनायोगाद् अनुपश्य इत्य् अतो ऽनुपश्यना प्रज्ञेति सिद्धं. यतश् चोक्तं भगवता. अध्यात्मं प्रत्यात्मं काये कायानुपश्यी कायानुदर्शी विहरतीति. तेनापि ज्ञायते ऽनुपश्यना प्रज्ञेति. कथम् इति साधयत्य् अनुपश्यम् अस्यास्ति. किं तद् दर्शनं. दर्शनलक्षणं ह्य् अनुपश्यम्. अतो ऽनुपश्यी पुद्गलो दण्डिवत्. ततः सप्तमीतत्पुरुषः. काये ऽनुपश्यी कायानुपश्यीति. कायम् अनुपशयितुं शीलम् अस्येति कायानुपश्यीति णिनिर् अपि यदि विधीयेत तथाप्य् एतद्रूपं सिध्यतीति पश्यामः.
स्मृत्युद्रेकत्वाद् इति. स्मृत्यधिकत्वाद् इत्य् अर्थः. [तिब्. 190ब्] स्मृतिबलाधानवृत्तित्वाद् इति. बलस्याधानं. स्मृतेर् बलाधानं स्मृतिबलाधानं. स्मृतिबलाधानेन वृत्तिर् अस्या इति स्मृतिबलाधानवृत्तिः प्रज्ञा. तद्भावः. तस्मात्. दारुपाटकीलसंधारणवद् यथा दारुपाटेन तीक्ष्णकीलेन दारुपाटस्य संधारणम्. एवम् अस्याः प्रज्ञायाः स्मृतिबलाधानेनालंबने वृत्तिर् इति. यदि हि स्मृतिर् आलंबनं धरयत्य् एवं प्रज्ञा प्रजानातीति. तद् एवं स्मृत्योपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञेति वैभाषिकीयो ऽर्थः कृत्यल्युटो बहुलम् इति कर्तर्य् अपि ल्युड् भवतीति.
एवं तु युज्यत इत्य् आचार्यः. करणसाधनम् एतत्. स्मृतिर् अनयोपतिष्ठत इति. अर्थप्रदर्शनमात्रम् एतत्. विग्रहस् त्व् एवं कर्तव्यः. उपतिष्ठते ऽनेनेत्य् उपस्थानं. स्मृते उपस्थानं स्मृत्युपस्थानम् इति. कथं स्मृतिर् अनयोपतिष्ठत इत्य् आह. यथादृष्टस्याभिलपनाद् इति. यस्माद् यथादृष्टो ऽर्थः प्रज्ञया. तथैवाभिलप्यते. स्मृत्योद्गृह्यत इत्य् अर्थः. क्व पुनर् उपतिष्ठते. काये यावद् धर्मेषु. काये स्मृत्युपस्थानं कायस्मृत्युपस्थानं. एवं यावद् धर्मेषु स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् इति. यथा च स्वभावस्मृत्युपस्थानस्य. एवं संसर्गस्मृत्युपस्थानस्यापि. यथैव हि प्रज्ञया स्मृतिर् उपतिष्ठते कायादिषु. एवं तत्संप्रयुक्तैर् अपीति.
इदानीं सूत्रोक्तां स्मृत्युपस्हानानां कर्णसाधनत्वम् असंबध्यमानं दृष्ट्वा कारकांतरेणार्थं विवक्षुर् [तिब्. 191अ] आह. यत्र तूक्तम् इति विस्तरः. यथा कायस्य समुदयास्तंगताव् उक्तौ. एवं वेदनादीनाम् अपि वक्तव्यौ. कथं. स्पर्शसमुदयात् वेदनायाः समुदयो भवति. स्पर्शनिरोधाद् ( अभिध्-क्-व्य् 531 ) वेदनाया अस्तंगमः. नामरूपसमुदयाच् चित्तस्य समुदयो भवति. नानरूपनिरोधाच् चित्तस्यास्तंगमाः. मनसिकारसमुदयाद् धर्माणां समुदयो भवति. मनसिकारनिरोधाद् धर्माणाम् अस्तंगम इति. अत्र सूत्रे आलंबनम् एव कायवेदनाचित्तधर्माः स्मृत्युपस्थानं. स्मृतिर् अत्र कायादिषूपतिष्ठत इति कृत्वा. तद् एवम् अधिकरणसाधनं दर्शितं भवति. उपतिष्ठते स्मृतिर् अस्मिन्न् इत्य् उपस्थानम्. स्मृतेर् उपस्थानं स्मृत्युपस्थानं. एवं यावद् धर्मा एव स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् इति विग्रहः. यदि चात्र सूत्रे आलंबनं स्मृत्युपस्थानं नाभिप्रेतम् अभविष्यत्. न भगवान् एवम् अवक्ष्यत्. कथं च भिक्षवश् चतुर्णां स्मृत्युपस्थानानां समुदयश् च भवत्य् अस्तंगमश् च. आहारसमुदयात् कायस्य समुदयो भवति. आहारनिरोधात् कायस्यास्तंगम इति विस्तरः. कायादीनां हि स्मृत्युपस्थानत्वे सति तथा वचनं युज्येत. तस्मात् कायादय आलंबनस्मृत्युपस्थानम् इति सिद्धं.
यथालंबनं चैषां नामेति. एषां कायस्ंऋत्युपस्थानादीनां [तिब्. 191ब्] आलंबनापेक्षया कायस्मृत्युपस्थानं यावद् धर्मस्मृत्युपस्थानम् इति नाम व्यवस्थापते. स्वपरोभयसंतत्यालंबनत्वात्. परसंतत्यालंबनत्वात्. उभयसंतत्यालंबनत्वाच् च प्रत्येकम् एकैकशः एषां कायस्मृत्युपस्थानादीनां त्रैविध्यं भवति. सूत्रे वचनात्. कथम्. अध्यात्मं काये कायानुपश्यी विहरति. आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. बहिर्धा ये कायनुपश्यी विहरति आतापीति पूर्ववत्. अध्यात्मबहिर्धा काये कायानुपश्यी विहरतीति पूर्ववत्. एवं तावत् कायस्मृत्युपस्थानस्य त्रैविध्यं. वेदनास्मृत्युपस्थानादीनाम् अप्य् अध्यात्मं वेदनानां वेदनानुपश्यी विहरतीति विस्तरेण त्रैविध्यं योज्यं. औदारिकस्य पूर्वं दर्शनाद् इति. कायस् त्रिभ्य औदारिकः. षड्विज्ञानविज्ञेयत्वाद् इति. तस्य पूर्वं दर्शनं. द्वाभ्यां वेदना प्रकारौदारिकतयेति तदनंतरं तस्या दर्शनं. सूक्ष्मप्रचारत्वाद् दुर्विज्ञतया धर्माः सूक्ष्मा इत्य् अतस् तेभ्यः पूर्वं चित्तस्य दर्शनम्. अंते धर्माणाम् इति. स चेति कामरागः. स च चित्तस्येति स वेदनाभिलाषः. तत्क्लेशाप्रहाणात्. तददांतत्वं. यथाक्रमम् इति. [तिब्. 192अ] शुचिविपर्यासस्य प्रतिपक्षेण कायस्मृत्युपस्थानं. सुखविपर्यासस्य प्रतिपक्षेण वेदनास्मृत्युपस्थानं. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति. नित्यविपर्यासस्य प्रतिपक्षेण चित्तस्मृत्युपस्थानानां. चित्तस्य लघुपरिवर्तित्वात्. आत्मविपर्यासस्य प्रतिपक्षेण धर्मस्मृत्युपस्थानं. पिण्डविभागतो धर्माणाम् अनात्मकारित्वाद् धर्ममात्रं रहितम् आत्मनेति ( अभिध्-क्-व्य् 532 ) धर्मनिर्वचनतः. धर्मा इमे पृथग्पृथग् अवस्थिताः. न च कश्चित् स्वतंत्र आत्मेति. तद्दर्शनाद् वा. चतुर्थम् उभयथेति. धर्मस्मृत्युपस्थानम् असंभिन्नालंबनम् अमिश्रालंबनं भवति. कायवेदनाचित्तव्यतिरिक्तधर्मालंबनत्वसंभवात्. संभिन्नालंबनम् अपि भवति. कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यतीति. यदि कायं वेदनां च द्वे पश्यति धर्मस्मृत्युपस्थानं. तत् संभिन्नालंबनं. यदि कायम् यावद् धर्मांश् च पश्यति. तद् अपि तथैव. यद् अपि कायं वेदनां चित्तं धर्मांश् च समस्तान् पश्यति. तद् अपि संभिन्नालंबनं धर्मस्मृत्युपस्थामम् इति.
(वि.17) समस्तालंबने स्थित
इति. कायवेदनाचित्ताधर्मान् अभिसमस्य.
(वि.18-20) उष्मगतम्
इत्य् उष्मप्रकारं कुशलमूलं. पूर्वरूपत्वाद् इति. प्रथमनिमित्तत्वात्. पूर्वस्वभावत्वाद् वा. प्राकर्षकत्वाद् इति. [तिब्. 192ब्] प्राबंधिकत्वाद् इत्य् अर्थः. एषां तु विशेषणं पश्चाद् वक्ष्याम इति सप्तमे कोशस्थाने
द्रव्यतः षोडशाकारा
इति अत्र. यदि ते ऽपि तादृशाः. अथ किम् अर्थम् उपदिश्यंत इत्य् अत आह. उत्कृष्टतरत्वात् तु नामांतरम् इति. अथ कस्मान् मूर्धान इत्य् उच्यंत इत्य् आह. चलकुशलमूलमूर्धत्वाद् इति. मूर्धशब्दो ऽयं प्रकर्षपर्यंतवाची. तथा हि लोके वक्तारो भवंति. मूर्धगता खल्व् अस्य श्रीर् इति. द्वे हि कुशलमूले चले. उष्मगतमूर्धलक्षणे परिहाणिसंभवात्. द्वे अचले क्षांतिलौकिकाग्रधर्मलक्षणे विपर्ययात्. तत्र तयोर् यन् मृदु. तद् उष्मगतं. यद् अधिमात्रं. ते मूर्धानः. अचलयोर् अपि यन् मृदु. सा क्षांतिः. यद् अधिमात्रं. ते लौकिकाग्रधर्माः. एभ्यो हि पातो ऽतिक्रमो वेति. मूर्धभ्यः पातः परिहाणिः. अतिक्रमो वा क्षांतिसंमुखीभावो वा. मूर्ध्नां चलत्वात्. वृक्षादिमूर्धेभ्यो हि लोके पातो वा भवेद् अतिपातो वा. उपरिष्ठानुप्राप्तिर् इति मूर्धसाधर्म्यं. सत्येष्व् आकाराणां प्रथमतो विन्यसनम् इति. सत्येष्व् अनित्याद्याकाराणाम् आदित उपनिपातनं. तदालंबनानां प्रवर्तनम् इत्य् अर्थः.
अन्यैर् अपीति.
धर्मस्मृत्युपस्थानाद् [तिब्. 193अ] अन्यैर् अपीत्य् अर्थः.
वर्धनम्
अभ्यासेनोत्तोप्तीकरणं. विवर्धयत इति विस्तरः. विवर्धयतो योगिनो वर्धनेन ( अभिध्-क्-व्य् 533 ) विशिष्टानां कुशलमूलानां संमुखीभावः. पूर्वप्रतिलब्धानाम् इति. अविशिष्टानाम् असंमुखीभावः. कस्मात्. अबहुमानात्. न्यूनत्वेनावहुमानाद् इत्य् अर्थः. अधिमात्रसत्यक्षमणाद् इति. उष्मगतावस्थायां मृदु सत्यं क्षमते रोचते. मूर्धावस्थायां मध्यं. तदनंतरम् इदानीम् अधिमात्रसत्यक्षमणात् क्षांतिर् उत्पद्यते. कथम् इत्य् अत आह. अपरिहाणित इति. यस्मात् क्षांतिर् न परिहीयते. मूर्धभ्यस् तु परिहीयत इत्य् अस्ति संभवः.
द्विधा तद्वद्
इति. मृदुमध्ये क्षांती तथैव. यथा मूर्धान उक्ताः. तथैवाकरणात् धर्मस्मृत्युपस्थानेन. सत्येष्व् आकाराणाम् आकरणाद् इत्य् अर्थः. सर्वस्या इति. मृदुमध्याधिमात्रभेदभिन्नायाः सर्वस्याः क्षांतेः. धर्मस्मृत्युपस्थानेनैव वचनं. नान्येन कायस्मृत्युपस्थानादिना. कस्मात्. अग्रधर्मश्लेषात्. अग्रधर्मा हि दर्शनमार्गश्लेषात्. धर्मस्मृत्युपस्थानात्मक एवेति. अग्रधर्मश्लेषाद् इति [तिब्. 193ब्] अग्रधर्माणां कामावचरदुःखसत्यालंबनानाम् अनंतरोत्पादात् क्षांतेः कामावचरत्वदुःखसत्यालंबनम्. अग्रधर्मश्लेषाद् धि तत्सादृश्यम् इति. नियमावचनाद् इति. अधिमात्रक्षांतिवद् उष्मगतादीनाम् आलंबनं प्रतिनियमावचनात्. अधिमात्रक्षांत्यवधारणेनैव हि त्रैधातुकदुःखाद्यालंबनत्वम् एषाम् उष्मगतादीनां सिध्यति. कथं. कामाप्तम् एव दुःखं विषयो ऽस्याम्. सेयं कामाप्तदुःखविषया अधिमात्रा क्षांतिः. क्षांतेर् एवेत्य् अवधारणात् अन्यान्य् उष्मगतादीनि त्रैधातुकदुःखाद्यालंबनानीति सिद्धं. यदा किलेति विस्तरः. यदा किल रूपारूप्यप्रतिपक्षादीनाम्. अदिशब्देन रूपारूप्यनिरोधसमुदयदुःखानां कामावचरप्रतिपक्षादीनां च ग्रहणं. एकैकसत्याकारालंबनापह्रासेनैकैकस्य सत्याकारस्य एकैकस्य सत्यालंबनस्य चापह्रासेन यावत् कामावचरम् एव दुःखं द्वाभ्यां क्षणाभ्यां मनसिकरोति. एषा सर्वैव रूपाराप्यप्रतिपक्षाकारह्रासात् प्रभृति मध्या क्षांतिः. कथम्. अन्वयज्ञानपक्षं तावन् मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश् चेति [तिब्. 194अ] तैश् चतुर्भिर् आकारैर् आकारयति. ततस् त्रिभिर् एकं हित्वा. ततो द्वाभ्यां द्वौ हित्वा. तत एकेन. ततो मार्गसत्यं हित्वा. रूपारूप्यनिरोधं चतुर्भिः स्वैर् आकारैर् आकारयति. ततस् त्रिभिः द्वाभ्याम् एकेनैव चाकार्य निरोधसत्यं चापास्य. समुदयसत्यं चतुर्भिः स्वैर् आकारैः. त्रिभिः द्वाभ्याम् एकेन चाकार्य. तथैव तद् अपास्य. दुःखसत्यं स्वैर् आकारैर् यावद् एकेनाकार्य. तद् अपि सत्यम् अपास्य. कामावचरप्रतिपक्षं स्वैश् चतुर्भिर् आकारैः त्रिभिः द्वाभ्याम् एकेन चाकारयति. तद् अपास्य. ( अभिध्-क्-व्य् 534 ) कामावचरनिरोधसमुदयसत्ये तथैव स्वाकारह्रासक्रमेणाकार्यापास्य च. कामावचरं दुःखसत्यं चतुर्भिर् आकारैर् आकारयति. ततस् त्रिभिः ततो द्वाभ्याम् आकारयतीति. एवं हि ह्रासारंभात् प्रभृति सर्व एते क्षणा मध्या क्षांतिर् इत्य् उक्तं भवति. तृतीये क्षणे तदालंबनैवाधिमात्रा क्षांतिः. चतुर्थे अग्रधर्मास् तदालंबना एव. म्र्द्वी तु क्षांतिर् या पुरस्ताद् अधिमात्रेभ्यो मूर्धभ्यो ऽनंतरं कामावचरं दुःखसत्यं यावन् मार्गसत्यं. रूपारूप्यावचरं च. स्वैःस्वैः सर्वैर् आकारैर् अनपह्रासं मनसिकुर्वत इत्य् अवगंतव्यं.
[तिब्. 194ब्] एवं तावद् एके व्याचक्षते. आकारापह्रासपूर्वक आलंबनापह्रास इति.
अपरे पुनर् व्याचक्षते. एकैकसत्याकारालंबनापह्रासेनेति. नैवं ग्रहीतव्यं एकैकसत्याकारालंबनापह्रासेने चेति. किं तर्हि. रूपारूप्यप्रतिपक्षादीनाम् एकैकेषां सत्यानां ये आकाराः. तेषाम् आलंबनह्रासेनेति व्याख्यातव्यम् इति.
एकान्नविंशतिक्षणशतं मध्या क्षांतिर् इति वर्णयंति. आकारापह्रास. पूर्वके ह्य् आलंबनापह्रासे सति अतिबहवश् चित्तक्षणा विसर्पंति. न चैतन् न्याय्यं. न हि सत्येषु विद्यमानेषु आकारत्यागो युज्यते. यदा तु सत्यानि त्यक्तानि भवंति. तदाकारत्याग इति युक्तं. एवं च सति पूर्वं सत्यालंबनह्रासं करोति पश्चाद् आकारह्रासं. न हि मौले विषये ऽनपाकृते तदालंबनापाकरणं न्याय्यं. समाहितासमाहितदुःखसमुदयनिरोधमार्गा अष्टौ व्यवस्थाप्यंते. एषाम् आकारा द्वात्रिंशद् भवंतीत्य् एतद् अधुना न्यायांतरम् उपदिश्यते. कथं कृत्वा. यदा कामावचरं दुःखं चतुर्भिर् आकारैर् मनसिकरोति. एवं यावद् रूपारूप्यावचराणां प्रतिपक्षं चतुर्भिर् आकारैर् मनसिकरोतीयं मृद्वी क्षांतिः. यदा पुनः कामावचरदुःखं चतुर्भिर् आकारैर् मनसिकरोतीत्य् एवं यावत् कामावचराणां [तिब्. 195अ] संस्काराणां प्रतिपक्षं मनसिकरोति चतुर्भिर् आकारैः. रूपारूक्यावचराणां संस्काराणां प्रतिपक्षं परित्यजतः प्रभृति मध्या क्षांतिर् आरब्धा. तत्र च रूपारूप्यावचरप्रतिपक्षपरित्यागे ऽष्टाविंशतिश् चित्तक्षणा भवंति. कामावचरसंस्कारप्रतिपक्षपरित्यागे चतुर्विंशतिः. रूपारूप्यावचरसंस्कारनिरोधपरित्यागे विंशतिः. कामावचरनिरोधपरित्यागे षोडश रूपारूप्यावचरसमुदयपरित्यागे द्वादश. कामावचरसमुदयपरित्यागे ऽष्टौ. रूपारूप्यावचरदुःखपरित्यागे चत्वारः. कामावचरं दुःखं चतुर्भिर् आकारैर् मनसिकरोति. तस्य भवंत्य् आकाराश् चत्वारः. स च योगाचारो द्विविधः. ( अभिध्-क्-व्य् 535 ) दृष्टिचरितः. तृष्णाचरितश् च. दृष्टिचरितो ऽपि द्विविधः. आत्मदृष्टि चरितः. आत्मीयदृष्टिचरितश् च. यो ह्य् आत्मदृष्टिचरितो भवति. सो ऽनात्माकारेण नियामम् अवक्रामति. यस् त्व् आत्मीयदृष्टिचरितः. स शून्याकारेण. तृष्णाशरितो ऽपि द्विविधः. अस्मिमनोपहतः. कौसीद्याधिकश् च. तत्र यो ऽस्मिमानोफतः. सो ऽनित्याकारेण नियामम् अवक्रामति. यः कौसीद्याधिकः. स दुःखाकारेण. तत्रात्मदृष्टिचरितो योगाचारः पुनस् तत् कामावचरं दुःखं त्रिभिर् आकारैर् मनसिकरोति. एकम् आकारं हित्वा. ततो द्वाभ्याम् अनात्मशून्यताकाराभ्यां. तत एकम् अनात्माकारं द्विः संमुखीकरोति. दुःखधर्मज्ञानक्षांतिदुःखधर्मज्ञानसदृशम् [तिब्. 195ब्] इति. एषा मध्या क्षांतिर् इत्य् एवम् एकान्नविंशं चित्तशतं भवति. एवम् आत्मीयाधिमुक्तस्य तु शून्यानात्माकाराभ्याम् आकारयतः शून्याकारं द्विः संमुखीकरोति. एषास्य मध्या क्षांतिः एवम् एकान्नविंशक्षणशतम्. एवं तृष्णाचरितो द्विप्रकारः. अस्मिमानोपहतः. कौसीद्याधिकश् च वक्तव्या इति. अधिमात्रा तु क्षांतिर् एकम् एव क्षणं. सा यथापुद्गलचरितम् अनित्याकारेण वा दुःखाकारेण वा शून्याकारेण वा अनात्माकारेण वा संप्रयुक्तेति. अथ किम् अर्थम् एकैकसत्याकारालंबनह्रासः क्रियते. पूर्वं हि तेन त्रैधातुकं विदूषयता समस्तः प्रतिपक्ष आलंबितः. पश्चात् कामधातोः पूर्वं प्रहेयपरिज्ञेयत्वात् कामावचर एव दुःखे ऽवतिष्ठत इति. तत्पुरुषकारेण मार्गाकर्षणाद् इति. विना सभागहेतुना. पूर्वस्यानास्रवस्याभावात्. लौकिकाग्रधर्मपुरुषकारेण मार्गसत्यस्याकर्षणात्. सर्वलौकिकश्रेष्ठत्वम् अग्रधर्माणां गम्यते.
सर्वे तु पंच स्कंधाः सपरिवारग्रहणाद् इति. समाहितभूमिदत्वाद् उष्मगतादीनाम् अविज्ञप्तिलक्षणो रूपस्कंधो ऽस्तीति [तिब्. 196अ] पंच स्कंधा उष्मगतादयः सपरिवारग्रहणात् सपरिवारा गृह्यंते इति. मा भूद् आर्यस्येति. प्राप्तिसंमुखीभावात् आर्यपुद्गलस्योष्मगतादीनां फलप्राप्तिप्रयोगभूतानां संमुखीभावो मा भूद् इति प्राप्तयो नोष्मगतादिषु गृह्यंते. न हि प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसंमुखीकरणं न्याय्यम् इति.
त्रिसत्यालंबनोष्मगताकरण इति. दुःखसमुदयमार्गालंबनोष्मगताकरणे. धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. यत्नजन्यस्य कार्यस्याकरणे समस्तालंबनत्वेन धर्मस्मृत्युपस्थानस्यैव समर्थत्वात्. प्रतिनियतालंबनत्वेन हि कायस्मृत्युपस्थानादीन्य् असमर्थानीति अनागतानि चत्वारि ( अभिध्-क्-व्य् 536 ) भाव्यंत इति. यस्मात् स्मृत्युपस्थानेन कायवेदनादयो ऽपि दुःखसत्यादिसंगृहीता गृह्यंते. कायस्मृत्युपस्थानादीनि च पूर्वप्रतिलब्धानि भवंतीत्य् अतश् चत्वार्य् अपि भाव्यंते प्राप्त्युत्पादाद् इति. निरोधसत्यालंबने तद् एवोभयथेति. निरोधसत्यालंबने उष्मगताकरणे. धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. तद् एव चानागतं भाव्यते. न कायस्मृत्युपस्थानादीनि. निरोधसत्ये कायाद्यभावात्. [तिब्. 196ब्] सर्वत्राकाराः सभागा इति. त्रिसत्यालंबनस्य निरोधसत्यालंबनस्य चोष्मगतस्याकरणे सदृशा एवाकारा भाव्यंते. दुःखसत्यालंबने दुःखसत्याकारा एव चत्वारो भाव्यंते. न समुदयसत्याद्याकाराः. समुदयसत्याद्याकारालंबने समुदयसत्याद्याद्याकारा एव चत्वारो भाव्यंते. नान्य इत्यादि. विवर्धन इति. त्रिसत्यालंबने. कायस्मृत्युपस्थानादीनाम् अन्यतमत् प्रत्युत्पन्नं संभवति. मिरोधसत्यालंबने ऽन्त्यं प्रत्युत्पन्नं. उभयत्रानागतानि चत्वारि. आकारः सर्वे ऽपि षोडशापि भाव्यंते. किं कारणं. लब्धत्वात् गोत्राणां संभवस्तश् चतुःसत्यालंबनकायस्मृत्युपस्थानादिजातीनां लब्धत्वाद् इत्य् अर्थः. मूर्धाकरण इति विस्तरः. मूर्धाकरणे सर्वत्रापि धर्मस्मृत्युपस्थानम् एव प्रत्युत्पन्नं. कायादिस्मृत्युपस्थानानाम् आकरणे ऽसामर्थ्यात्. निरोधालंबनविवर्धने ऽपि अंत्यं धर्मस्मृत्युपस्थानं प्रत्युपन्नम्. इतरेषाम् अयोगात्. त्रिसत्यालंबनविवर्धने तु चतुर्णाम् अन्यतमत् प्रत्युत्पन्नम्. अनागतानि सर्वत्र चत्वारि. आकारा अपि सर्वे. लब्धत्वात् गोत्राणाम् इत्य् अवगंतव्यं. [तिब्. 197अ] क्षांतीनां सर्वत्रांत्यम् इति. आकरणे विवर्धने चांत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. तथा ह्य् उक्तं. सर्वस्याः क्षांत्या धर्मेण वर्धनम् इति. अग्रधर्मेष्व् अंत्यम् इति. अग्रधर्मेषु संमुखीक्रियमाणेष्व् अंत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्. अनागतानि चत्वारि अनुत्पत्तिधर्मान्य् एव प्राप्यंते. आकारश् चत्वारि एवेति. अनित्यदुःखशून्यानात्माकाराः. अन्याभावाद् इति. यस्माद् अन्यसमुदयाद्याकारा अग्रधर्मा न संति दुःखमात्रालंबनत्वात्. यथा तर्ह्य् अग्रधर्मास्वभावकायस्मृत्युपस्थानाद्यसंमुखीभावे ऽप्य् अग्रधर्मसमुदाचारावस्थायाम् अनागतानि कायस्मृत्युपस्थानादीनि भाव्यंते. एवम् अग्रधर्मास्वभावसमुदयाद्याद्याकारा आनगता भाव्यंत इति किं नेष्यत इत्य् अतः पुनर् आह. दर्शनमार्गसादृश्याच् चेति. दुःखाकारा एव चत्वारो भाव्यंते. कस्मात्. दर्शनमार्गसादृश्यात्. दर्शनमार्गे हि यस्य सत्यस्य दर्शनं भवति. तदाकारा एव भाव्यंते. दर्शनमार्गसदृश्या ह्य् अग्रधर्माः. किं पुनर् ( अभिध्-क्-व्य् 537 ) एषां दर्शनमार्गेण सादृश्यं अनुश्लेषात्. तथैव प्रथमतः कामावचरदुःखालंबनत्वं [तिब्. 197ब्] तुल्यभूमिकत्वं वा. तथा हि दर्शनमार्गम् अधिकृत्य वक्ष्यति.
सो ऽग्रधर्मैकभूमिक
इति . यद् वा पृथग्जनत्वघाताय दुःखधर्मज्ञानक्षांतेर् आनंतर्यमार्गभूता अग्रधर्मा भवंति. तद् एषां दर्शनमार्गेण सादृश्यं. सदृशा ह्य् आनंतर्यमार्गा विमुक्तिमार्गैर् इति.
(वि.21-23) विध विभाग इति विस्तरः. तस्य धातोर् एतद् यञिरूपं. निश्चित इति. निःशब्दस्यार्थं दर्शयति. कथं पुनर् निश्चितो वेध इत्य् आह. तेन विचिकित्साप्रहाणात् निश्चितः. सत्यानां च विभजनात्. इदं दुःखम् अयं यावन् मार्ग इति. निर्वेध आर्यमार्गः. तस्य भागो दर्शनमार्गैकदेशः. तस्यावाहकत्वेनाकर्षकत्वेन हितत्वात् तस्मै हितम् इति छः. तेन निर्वेधभागीयम् इति भवति.
अनागम्यांतरध्यानभूमिकम्
इति. अनागम्यं चांतरं च ध्यानानि च भूमयो ऽस्येत्य्
अनागम्यांतरध्यानभूमिकं.
नोर्ध्वम् इति. नारूप्येषु निर्वेधभागीयम् अस्ति. दर्शनपरिवारत्वात्. दर्शनमार्गप्रयोगत्वाद् इत्य् अर्थः. तदभावः. दामधात्वालंबनत्वाद् इति. तस्य दर्शनमार्गस्याभावस् तदभावः. क्व. ऊर्ध्वम् इति वर्तते. आरूप्येष्व् इत्य् अर्थः. कस्मात्. काम धात्वनालंबनात्. यस्माद् आरूप्याः कामधातुं [तिब्. 198अ] नालंबंते. आह. किं कामधात्वालण्बनेन दर्शनमार्गेण प्रयोजनम् इति. अत उच्यते. तस्य पूर्वं परिज्ञेयप्रहेयत्वाद् इति. तस्य कामधातोर् दुःखरूपस्य पूर्वं परिज्ञेयत्वात्. समुदयरूपस्य च प्रहेयत्वात्. अत्र च हेतुर् यस्मात् स योगी कामावचरेण दुःखेन विहन्यते. तेन स पूर्वं ततो मोक्षम् अन्वेषत इति. तेषां रूपधातौ पंचस्कंधको विपाक इति. तेषां निर्वेधभागीयानां रूपावचरत्वात् यदि च योगी रूपधाताव् उपपद्येत. ततस् तस्य तत्र पंच स्कंधको विपाको ऽभिनिर्वर्तते. परिपूरिकाण्य् एव च तानीष्टवेदनीयजननात्. नाक्षेपकाणि निकायसभागस्य. भवद्वेषित्वात्. अनित्यादिभिर् आकारैर् भवं द्विषंतीति.
द्वे प्रथमे इति उष्मगतमूर्धस्वभावे.
कामाश्रयाणीति.
यस्माद् इहैव सत्याभिसमयओ नान्यधातौ. नोर्ध्वं हि दृक्पथः असंवेगात्. इह विधा तत्र निष्ठेति चागमाद् इति. त्रिषु द्वीपेषूत्तरकुरुवर्ज्येष्व् इति व्याख्यायते. उत्तरकौरवाणां मृद्विन्द्रियत्वात्. देवेषु संमुखीभाव इति. कामावचरेषु. चतुर्थं निर्वेधभागीयं [तिब्. 198ब्] देवेष्व् अपि. तेष्व् एव च नान्यत्र.
तृईणि निर्वेधभागीयान्य् अन्यत्र अग्रधर्मेभ्यः. इहैव जन्मनि स्त्रीपुरुषेन्द्रियपरावृत्तौ उभयाश्रयाणि स्त्रीपुरुषेन्द्रियाश्रयाणि स्त्रियः पुरुषाश् च लभंते. स्त्रियो ह्य् एतान्य् उत्पाद्य जन्मांतरस्त्रीभावप्रादुर्भावे स्त्र्याश्रयाणि संमुखीकुर्वंति. जन्मांतरपुरुषभावप्रादुर्भावे तु पुरुषाश्रयाणि संमुखीकुर्वंति. न हि तल्लाभिनीनां स्त्रीणां जन्मांतरे स्त्रीभावो न संभवति. पुरुषा अपि तथैव स्त्रीभावे जन्मांतरे सति स्त्र्याश्रयाणि संमुखीकुर्वंति. पुरुषभावे पुरुषाश्रयाणीति. अग्रधर्मान् प्रत्य् आह.
अग्रधर्मान् द्व्याश्रयान् लभते ऽंगनेति.
स्त्र्य् एवोभयाश्रयान् अग्रधर्मान् लभते. न पुरुषः. तथा हि स्त्री तान् लब्ध्वा स्त्र्याश्रयैस् तैस् तदानींतनैः समन्वागता भवति. जन्मांतरपरावृत्तौ च कामधातौ पुरुषाश्रयप्रादुर्भावे पुरुषाश्रयैः स पुरुषः समन्वागत इति. पुरुषस् तु पुरुषाश्रयान् एव लभते. कस्माद् इत्य् आह. स्त्रीत्वस्याप्रतिसंख्यानिरोधलाभाद् इति. तस्मिं जन्मनि स्त्रीत्वं जन्मांतरे ऽपि पुनर् नास्तीत्य् अस्याप्रतिसंख्यानिरोधलाभः. यो ह्य् अग्रधर्मान् उत्पादयति. सो ऽवश्यम् अनंतरं दर्शनमार्गम् उतपादयेन् [तिब्. 199अ] न च दृष्टसत्यस्य पुनः स्त्रीत्वप्रादुर्भाव इति सिद्धांतः.
भूमित्यागाद्
इति विस्तरः. यद्भूमिकानि निर्वेधभागीयानि प्रतिलब्धानि प्रथमध्यानभूमिकानि यावच् चतुर्थध्यानभूमिकानि. तां भूमिं त्यजन् प्रथमं ध्यानं यवच् चतुर्थं त्यजन्न् आर्यस् तान्य् अपि यथास्वं प्रथमध्यानधूमिकानि यावच् चतुर्थध्यानभूमिकानि त्यजति. नान्यथा न मृत्युना परिहाण्या वा. यथा पृथग्जन इत्य् अर्थः. भूमित्यागः पुनर् भूमिसंचाराद् इति. न वैराग्यत इति दर्शयति. पृथग्जनस् त्व् इति विस्तरः. पृथग्जनस् तु निकायसभागत्यागेनैव त्यजति निर्वेधभागीयानि सत्य् असति वा भूमिसंचारे. तथा हि पृथग्जनो यद्भूमिकनिर्वेधभागीयलाभी भवति. तत ऊर्ध्वम् उपपद्यमानस् तानि भूमिसंचारे ऽपि मृत्युनैव त्यजति. अवीतरागस् त्व् असति भूमि संचारे मृत्युना त्यजति. कामधाताव् एवोपद्यते. न त्व् एवम् ( अभिध्-क्-व्य् 539 ) आर्यपुद्गलस् तत् कुशलमूलसंततेर् दर्शनमार्गोपबृंहितत्वात्. पृथग्जन एव तथा त्यजतीति कथं गम्यते. अण्डकललादिगतः पृथग्जनः कायेन समन्वागतः. न कायकर्मणेति शास्त्रे वचनात्.
आचर्यवसुमित्रस् तु व्याचष्टे. पृथग्जनस् तु निकायसभागत्यागेनैव त्यजति. सत्य् असति वा भूमिसंचार इति. सकलं ध्यानम् अत्र भूमिग्रहणेन [तिब्. 199ब्] गृह्यते. तत्र पृथग्जनो यदा ब्राह्मकायिकेभ्यश् च्युत्वा ब्रह्मपुरोहितेषूपपद्यते. तदा निकायसभागत्यागेन त्यजति. यदा तु प्रथमात् ध्यानाच् च्युत्वा द्वितीय उपपद्यते. तदा भूमित्यागनिकायसभागत्यागाभ्याम् इति. तद् अयुक्तं. ब्रह्मलोकोपपन्नानां निर्वेधभागीयाभावात्. कामधातौ हि निर्वेधभागीयान्य् उत्पद्यंते. कामधातुच्यवनाद् एव च तेषां निर्वेधभागीयत्याग इति. आचार्यसंघभद्रेणापि दर्शितम् एतत्. ननु च पृथग्जनो ऽपि यद्भूमिकनिर्वेधभागीयलाभी भवति. तत ऊर्ध्वम् उपपद्यमानो निर्वेधभागीयानि विजह्याद् इति. नास्त्य् एतत्. निकायसभागत्यागाद् एव त्यक्तत्वात्. मरणभवास्थितो हि तानि त्यजति. अंतराभवस्थितेन तु त्यक्तानि. अत ऊर्ध्वम् उपपद्यमानस्य तन् मस्ति यद् विजह्याद् इति. मृत्युनैवेत्य् उच्यत इति. प्रातिमोक्षसंवरवद् इति. यथा प्रातिमोक्षसंवरस् त्यक्तः पुनर् आदीयमानो ऽपूर्व एव लभ्यते. कस्मात्. अनुचितयत्नसाध्यत्वात्. अनुचितत्वात् यत्नसाध्यत्वाच् च. यस्माद् अनादिम् अतिसंसारे नोचितानि भवंति. आर्यमार्गपरिवारत्वात्. तस्मान् न वैराग्यलभ्यानि. यस्माद् यत्नसाध्यानि. तस्मान् न पूर्वत्यक्तानि लभ्यंत इति. सति प्रतिसीमादैशिक इति. सीमा नाम [तिब्. 200अ] मर्यादा. तस्या दैशिको देशयिता प्रणिधिज्ञानलाभी. तस्मिन् सति लब्धविहीनात् परेणोत्पादयति. यद् अनुत्पादितं. तद् उत्पादयतीत्य् अर्थः. असति प्रतिसीमदैशिके मूलाद् एवोष्मगतात् प्रभृतीत्य् अर्थः. एते पुनर् विहानिपरिहाणी इति.
भूमित्यागात् त्यजत्य् आर्य
इत्यादिवचनाद् विहानिर् उक्ता.
आद्ये द्वे परिहाण्या चेति
वचनात् प्रैहाणिर् अप्य् उक्ता. तेनैते इति निर्दिशति.
हानी
इति विहानिपरिहाण्योः सामान्यरूपपरिग्रहाद् उभयोर् ग्रहणं. परिहाणिस् तु दोषकृता. क्लेशकृतेत्य् अर्थः. नावश्यं विहानिर् इति. सा हि गुणकृतापि भवति न केवलं दोषकृता. गुणकृता तद्यथा दर्शनमार्गोत्पत्तौ पृथग्जनत्वस्य ( अभिध्-क्-व्य् 540 ) विहानिः. दोषकृता तु तद्यथा मिथ्यादृष्ट्या कुशलमूलविहानिः. प्रतिसंधिचित्तेन वा केषांचिद् धर्माणां विहानिर् इति. तद् एवं या परिहाणिः. विहानिर् अपि सा. या तु विहानिः. नावश्यम् असौ परिहाणिः. गुणविशेषेभ्य एव हि परिहाणिर् इति.
(वि.24) अनुत्पत्तिधर्मतां प्रतिलभत इति. अप्रतिसंख्यानिरोधं तेषां गत्यादीनां प्रतिलभत [तिब्. 200ब्] इत्य् अर्थः. तां तु यथायोगम् इति. तां त्व् अनुत्पत्तिधर्मतां. यथासंभवं मृद्व्याम् अधिमात्रायां च क्षांतौ प्रतिलभत इति वर्तते. कथं कृत्वा. मृद्व्यां क्षांत्याम् अपायगतीनाम् अनुत्पत्तिधर्मतां प्रतिलभते. अधिमात्रायम् अण्डजसंस्वेदजयोन्योः. मृद्व्याम् असंज्ञित्वोत्तरकुरुमहाब्रह्मोपपत्तीनां. अधिमात्रायां षण्ढपण्डकोभयव्यंजनाश्रयाणाम्. अधिमात्रायाम् अष्टमादिभवानां. अष्टमादिनवमादिभवानां. दर्शनहेयक्लेशानां चानुत्पत्तिधर्मताम् एवेति.
(वि.25) तस्यैव तु गोत्रस्येति. क्षांतिपरिभावितस्य श्रावकगोत्रस्येत्य् आचार्यमतं. तस्य क्षांतिपरिभावितत्वेनाविवर्त्यत्वाद् इत्य् अभिप्रायः.
त्रीण्य् अपीतर
इति. प्रत्येकबुद्धः क्षांतिम् अपि श्रावकगोत्राद् विवर्त्य स्यात्. न हि ते परार्थम् अपायान् अवगाहन्त इत्य् अभिप्रायः. आनिंज्यपटुसमाधित्वाद् इति. अष्टपक्षाल्मुक्तत्वाद् आनिंज्यः समाधिः. अत एव पटुर् उत्तप्ततीक्ष्णेन्द्रियत्वाद् वा.
येषां तु खड्गाद् अन्यो ऽपीति. येषाम् आभिधार्मिकाणां मतेन खड्गाद् अन्यो ऽपि प्रत्येकबुद्धो ऽस्ति. उत्पादितनिर्वेधभागीयमात्रो ऽपि वर्गचारी प्रत्येकबुद्ध इत्य् अभिप्रायः. तेषाम् उष्मगतमूर्धभ्यां तद्गोत्राणां व्यावर्तनस्याप्रतिषेधः खड्गविषाणकल्पस्यैवावधारणात्. [तिब्. 201अ]
(वि.26) क्षिप्रं मोक्षस् त्रिभिर् भवैर्
इति. यः क्षिप्रं मोक्षं प्राप्नोति. स एकस्मिं जन्मनि मोक्षभागीयम् उत्पादयेत्. द्वितीये निर्वेधभागीयानि. तृतीये आर्यमार्ग इति. यस् तु पूर्वस्मिन् जन्मनि संभृतमोक्षभागीयो भवति. स एकस्मिन्न् अपि जन्मनि निर्वेधभागीयान्य् आर्यमार्गं चोत्पादयतीत्य् अवगंतव्यं बीजावरोपणेत्यादि बीजावरोपणं मोक्षभागीयोत्पादनं. सस्याभिवृद्धिर् निर्वेधभागीयोत्पत्तिः. फलोत्पत्तिर् आर्यमार्गः. अस्यां धर्मतायाम् इति. प्रवचनधर्मतायाम्. अवतारपरिपाकविमुक्तयो भवंतीति. अवतारो मोक्षभागीयेन. परिपाको निर्वेधभागीयैः. विमुक्तिर् आर्यमार्गेणेति. तत्प्रणिधानपरिग्रहणाद् इति. ( अभिध्-क्-व्य् 541 ) मनःप्रणिधानपरिग्रहात्. प्रणिधानं पुनश् चेतनाविशेशः. एकभिक्षाम् अपि दत्त्वेति कायकर्म. एकशिक्षाम् अपि चादायेति वाक्कर्म. तच् च मनस्कर्मोत्थानम् इति. त्रिकर्मस्वभावम् अल्पकम् अप्य् एतत् मोक्षाभिलाषबलाधानान् मोक्षभागीयम् आक्षिपति. मोक्षस्य भागः प्राप्तिर् मोक्षभागः. [तिब्. 201ब्] तस्मै हितं मोक्षभागीयम् इति. नान्यत्र प्रज्ञानिर्वेदयोर् अभावाद् यथायोगम् इति. कुरुषु तावद् उभयं नास्ति. अपायेषु निर्वेदो ऽस्ति प्रज्ञा नास्ति. देवेषु प्रज्ञास्ति निर्वेदो नास्तीति. अतो मनुष्येष्व् एव त्रिषु द्वीपेष्व् आक्षिप्यते. नान्यत्र.
(वि.27-28) अभिसमयक्रमस् तु वक्तुम् आरब्ध इति
वृत्तस्थः श्रुतचिंतावान् भावनायां प्रयुज्यत
इत्य् आरभ्य निर्वेधभागीयानुक्रमः. तत्प्रसंगेन मोक्षभागीयोपन्यास इति.
धर्मक्षांतिर् अनास्रवेति.
निर्वेधभागीयैर् अपि धर्मक्षमणम्. अतो निष्यन्देन विशेषणं. यस्या धर्मज्ञानं निष्यंदः. सा धर्मज्ञानक्षांतिः. धर्मज्ञानार्थं क्षांतिर् धर्मज्ञानक्षांतिः. पुष्पफलवृक्षवद् यथा पुष्पार्थं वृक्षः पुष्पवृक्षः. फलार्थं वृक्षः फलवृक्षः. कारिकायां तु धर्मक्षांतिर् इति वचनम् एकदेशग्रहणतो देवदत्तो दत्त इति यथा. सम्यक्त्वं निर्वाणम् इत्य् उक्तम् इति. सम्यक्तवं कतमत्. यत् तत् पर्यादाय रागप्रहाणम् इति विस्तरः. तत्र नियमो नियाम इति. तत्र सम्यक्त्वे नियम एकांतीभावो नियाम इति घञि रूपं. अपि तु नियम इति यमः समुपनिविषु चेत्य् अप्प्रत्ययस्य विभाषितत्वात्. तस्याहिगमनम् अवक्रमणम् इति. [तिब्. 202अ] तस्यैकांतीभावस्याभिगमनं प्राप्तिः. तद् एव विपर्यासस्यापक्रमान् नियामावक्रांतिर् इत्य् उच्यते. तस्यां चेति धर्मज्ञानक्षांतौ. प्रदीपजातिवद् इति. प्रदीपस्येव जातेर् इव चेत्य् अर्थः. यथा प्रदीपस्यानागतस्य तमोविनाशने सामर्थ्यं. जातेश् चानागताया जन्यजनने. तथा पृथग्जनत्वव्यावर्तने सामर्थ्यम् अनागताया धर्मज्ञानक्षांतेर् अभ्युपगम्यते. नान्यद् इति. क्लेशप्रहाणां कारित्रं. लौकिकैर् अग्रधर्मैर् इति अपर इति. पृथग्जनत्वं व्यावर्तत इति प्रकृतं. न. तद्धर्मत्वाद् इति. न युक्तम् एतल् लौकिकैर् अग्रधर्मैस् तद्व्यावर्तन इति. कस्मात्. ते ऽपि हि पृथग्जनधर्माः. कथं पृथग्जनधर्मस्य पृथग्जनधर्मं व्यावर्तिष्यंत इति. तद्विरोधित्वाद् अदोषः. अग्रधर्माणां पृथग्जनन्त्वविरोधित्वात् अदोष एषः. किं. ( अभिध्-क्-व्य् 542 ) यथेत्य् आह. शत्रुस्कन्धारूढतद्घातनवद् इति. यथा शत्रुस्कन्धारूढ एव कश्चिच् छत्रुं घातयेत्. एवं किलाग्रधर्माः पृथग्जनत्वशत्रुस्कन्धारूढास् तद् एव पृथग्जनत्वं घातयेयुर् इति.
उभयैर् इति. लौकिकैर् अग्रधर्मैः [तिब्. 202ब्] क्षांत्या च पृथग्जनत्वं व्यावर्त्यते. कथम् इत्य् आह. आनंतर्यविमुक्तिमार्गसाधर्म्याद् इति. लौकिकानाम् अग्रधर्माणाम् आनंतर्यमार्गेण साधर्म्यं. क्षांतेर् विमुक्तिमार्गेण. यथा ह्य् आनंतर्यमार्गेण क्लेशः प्रहीयते. विमुक्तिमार्गेण प्रहीणः एवं लौकिकैर् अग्रधर्मैः पृथग्जनत्वं विहीयते. क्षांत्या विहीनम् इति.
अनास्रवाधिकारः सर्वत्रेति. तेन ततो ऽत्रैव धर्मज्ञानम् अनास्रवम् इति गम्यते. तद् दुःखे धर्मज्ञानम् इत्य् उच्यते इति. शास्त्रे तेन नाम्ना व्यवहार इत् दर्शयति. समस्तालंबना रूपारूप्यावचरदुःखालंबनत्वात्. प्रथमतो धर्मतत्त्वज्ञानाद् इति. आदितो दुःखादिधर्मतत्त्वज्ञानाद् इत्य् अर्थः. तदन्वयत्वाद् इति. तद्धेतुकत्वाद् इत्य् अर्थः. तथैवानुगमाद् इति. यथैव धर्मज्ञानेनानुगतं परिज्ञातं दुःखादिसत्यं दुःखादिभिर् आकारैः. तथैव रूपारूप्यावचरदुःखाद्यनुगमाद् अन्वयज्ञानम् एतद् इति विस्तरः. एवं समनंतरोत्पत्तिक्रमेण शेषे समुदये रूपारूप्यावचरे ऽन्वयज्ञानक्षांतिर् [तिब्. 203अ] इति विस्तरेण योज्यं.
निकायांतरीया आर्यधर्मगुप्तप्रभृतयः. अभेदेन ह्य् अभिसमय उच्यत इति. षोडश चित्तो ऽयं सत्याभिसमय इति. दर्शनाभिसमय आलंबनाभिसमयः कार्याभिसमयश् चैवं षोडशचित्तक इत्य् अभेदः.
दर्शनाभिसमय इति. दर्शनम् एवाभिसमयः. एवम् आलंबनाभिसमयः कार्याभिसमयश् च. दर्शनाभिसमयो ऽनास्रवया प्रज्ञया. तद् धि भिक्षवो दृष्टं. यद् अनास्रवया प्रज्ञया दृष्टम् इति वचनात्. प्रज्ञैव दर्शनम् इति व्यवस्थाप्यते. आलंबनं ग्रहणं तत्संप्रयुक्तैर् अपि वेदनादिभिर् भवति. अपिशब्दात् प्रज्ञयापि. यस्माच् चित्तचैत्तैः सत्यान्य् आलंब्यंते. कार्यं यस्य सत्यस्य यत् कर्तव्यं. तद्यथा दुःखस्य परिज्ञानं. समुदयस्य प्रहाणं. निरोधस्य साक्षात्करणं. मार्गस्य भावनं. तद् विप्रयुक्तैर् अपि शीलजात्यादिभिर् भवति. अपिशब्दात् प्रज्ञातत्संप्रयुक्तैर् अपि. प्रज्ञासंप्रयुक्तविप्रयुक्तैर् हि तत्कार्यचतुष्टयं [तिब्. 203ब्] क्रियते. जात्यादिभिर् इत्य् आदिशब्दाल् लक्षणांतराणि प्राप्तयश् च गृह्यंते. दुःखे हीति विस्तरः. दुःखे हि दृश्यमाने प्रज्ञया. तस्याभिसमयितुर् दुःखस्य वा त्रिविधो ( अभिध्-क्-व्य् 543 ) ऽभिषमयो यथोक्तः. कथम् इत्य् आह. समुदयादीनां समुदयनिरोधमार्गाणाम् अभिसमयः प्रहाणसाक्षात्करणभावनाद् यथाक्रमं प्रहाणं समुदयस्य क्लेशप्राप्तिच्छेदात्. साक्षात्करणं निरोधस्य तत्प्राप्त्युत्पादात्. भावनं मार्गस्य संमुखीभावात्. आकारभेदाद् इति. प्रत्येकम् एषां दुःखादीनाम् आकारभेदात्. न च दुःखाकारेण समुदयादीनां दर्शनं युज्यते. तदाकारार्थभेदतः. अथाप्य् अनात्माकारेण सर्वेषां सत्यानां दर्शनम् इति ब्रूयात् निकायांतरीयः. शून्यतानात्मते सर्वसत्यानां सामान्यं लक्षणम् इति कृत्वा. न तर्हि सत्यानां दुःखादितो दर्शनं स्यात्. दुःखतः समुदयतो निरोधतो मार्गत इति. तथा च सत्य् अनात्माकारेण सर्वेषां दर्शनम् इति ब्रुवन् सूत्रविरोधः. यस्मात् सूत्र एवम् उक्तम् आर्यश्रावकस्येति विस्तरः. अथ मन्यसे नास्ति सूत्रविरोधो यस्माद् अभिसमयावस्थायाह् पूर्वं प्रयोगावस्थायाम् [तिब्. 204अ] आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इत्य् एवमादि. अतो ऽनात्माकारेण सर्वेषां दर्शनाद् एकाभिसमय एवेति. तच् चायुक्तम्. अनास्रवेण मनसिकारेण संप्रयुक्तो धर्माणां विचय इति वचनात्. न हि प्रयोगावस्थायाम् अनास्रवमनसिकारः संभवति. भावनामार्ग एवम् इति चेद् य आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इति विस्तरेण. न. यथा दर्शनं भावनात्. नैतद् एवं. यथैव हि पूर्वं सत्यानां दर्शनं. तथैव तेषां पश्चाद् भावनं. भावनामार्गो भवतीत्य् अर्थः. शेषेषु वशित्वलाभाद् इति. अंतरेण प्रयोगं समुदयादिदर्शनसंमुखीभावशक्तिलाभो वशित्वलाभः. तस्माद् इति. अंतरा तु व्युत्थानाम् अस्ति नास्तीति विचार्यं स्याद् इति. शेषेषु वशित्वलाभाद् अंतरा व्युत्थानं प्राप्नोतीति दोषः स्याद् इत्य् अभिप्रायः. उभयथापि च विचार्यमाणे बहूनां सूत्राणां विरोधः. यथा च तेषां विरोधः. तथागमेषु श्रोतव्यः. एकस्य दर्शने शेषाणां कार्याभिसमयवचनाद् इति. यस्माद् अस्त्य् एतत् वचनं. दुःखे हि दृश्यमाने तस्य त्रिविधो ऽभिसमयः. समुदयादीनां कार्यभिसमयः प्रहाणसाक्षात्करणभावनाद् इत्य् [तिब्. 204ब्] अतो ऽस्माभिर् अप्य् एवम् अभ्युपगमान् नास्ति दोषः. आह. यद्य् अप्य् अभ्युपगम्यत इत्य् अभिसमयः. सूत्रे सत्यानां क्रमेणाभिसमयो विरुध्यते. अत उच्यते. दर्शनाभिशमयं तु प्रतीति विस्तरः. सदृष्टांतानि त्रीणि सूत्राणीति. संयुक्तागमे पठ्यंते. कथं. अनाथपिण्डद आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. आहोस्विद् एकाभिसमय इति. चतुर्णां गृहपते आर्यसत्यानाम् अनुपूर्वाभिसमयो न त्व् एकाभिसमयः. यो गृहपते एवं वदेद् अहं ( अभिध्-क्-व्य् 544 ) दुःखं आर्यसत्यम् अनभिसमेत्य समुदयम् आर्यसत्यम् अभिसमेष्यामीति विस्तरेण यावद् दुःखनिरोधगामिनीं प्रतिपदम् आर्यसत्यम् अभिसमेष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यद् दुःखम् आर्यसत्यम् अनभिसमेत्य समुदयम् आर्यसत्यम् अभिसमेष्यति पूर्ववत्. यावन् नेदं स्थानं विद्यते. स्थानम् एतद् इति पूर्ववत्. तद्यथा गृहपते य एवं वदेद् अहं कूटागारस्य वा कूटागारशालाया वा वा मूलपादम् अप्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामि. भित्तिम् अप्रतिष्ठाप्य तलकं. [तिब्. 205अ] तलकम् अप्रतिष्ठाप्य च्छदनं प्रतिष्ठापयिष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यत् कूटागारस्येति पूर्ववत्. यावत् स्थानम् एतद् विद्यते. यन् मूलपादं प्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामीति पूर्ववत्. यावद् एवम् एव गृहपते नेदं स्थानं विद्यते. यद् दुःखसत्यम् अदृष्ट्वा समुदयसत्यं द्रक्ष्यतीति विस्तरः. अथान्यतरो भिक्षुर् आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. आहोस्विद् एकाभिसमय इति. भगवान् आह. चतुर्णां भिक्षो सत्यानाम् इति. पूर्ववद् यावत् तद्यथा भिक्षो य एवं वदेद् अहं चतुष्कडेवरस्य सोपानस्य प्रथमसोपानकडेवरम् अनभिरुह्य द्वितीयम् अभिरोक्ष्यामीति. द्वितीयम् अनभिरुह्य तृतीयं. तृतीयम् अनभिरुह्य चतुर्थम् अभिरोक्ष्यामीति. मैवं वोच इति
स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यच् चतुष्कडेवरस्य सोपानस्य प्रथमसोपानकडेवरम् अनभिरुह्य द्वितीयकडेवरम् अभिरोक्ष्यति. एवं यावत् तृतीयम् अनभिरुह्य चतुर्थम् अभिरोक्ष्यति. एवम् इहापि नेदं स्थानं विद्यते. यद् दुःखसत्यम् अदृष्ट्वा समुदयसत्यं द्रक्ष्यतीत्यादि. [तिब्. 205ब्] तथार्यानन्द आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. उताहो एकाभिसमय इति. पूर्वसूत्रवत्. यावत्. तद्यथानन्द य एवं वदेद् अहं चतुष्पदिकाया निःश्रेण्याः प्रथमं निःश्रेणीपदम् अनभिरुह्य प्रासादम् अभिरोक्ष्यामीति. मैवं वोच इति स्याद् वचनीयः. विस्तरेण यावद् एवम् एवानन्द य एवं वदेद् अहं दुःखम् आर्यसत्यम् अनभिसमेत्य समुदयसत्यम् अभिसमेष्यामीति विस्तरेण यावन् नेदं स्थानं विद्यत इति. एतानि त्रीणि सूत्राणि. यो दुःख इति विस्तरः. अथ मतं स्याद् यो दुःके निष्कांक्षो निर्विचिकित्सो बुद्धे ऽपि स इति सूत्राद् एकाभिसमय इति. कथम्. अशैक्षा हि धर्मा बुद्धः. त एवाशैक्षा धर्मा मार्गः. तस्माद् दुःखाभिसमयान् मार्गो ऽपि तेनाभिसमितो यस्माद् दुःखवद् बुद्धे ऽपि निष्कांक्षो निर्विचिकित्स इति. कांक्षा विचिकित्सेत्य् अनर्थांतरः. अथ वानिश्चयाभिलाषः कांक्षा विमतिर् विचिकित्सा ( अभिध्-क्-व्य् 545 ) यथोक्तलक्षणा. नासमुदाचारावश्यंप्रहाणाभिसंधिवचनाद् इति. नैतद् एवं सूत्राद् एकाभिसमय इति. असमुदाचारस्य [तिब्. 206अ] वश्यंप्रहाणस्य चाभिसंधिवचनात्. दुःखे ऽभिसमिते बुद्धविषये विचिकित्साया असमुदाचारो ऽवश्यंप्रहाणं च भवति. अतो यो दुःखे निष्कांक्षो निर्विचिकित्सो बुद्धे ऽपि. स इत्य् उक्तम् अभिसंधिः.
(वि.30अब्) ते पुनः षड्भूमिका इत्य् उक्तं प्राग् इति.
अनागम्यांतरध्यानभूमिकम्
इति वचनात्.
(वि.30च्द्) अनंतर्यशक्यत्वाद् इति. कृत्याश् च शकि लिङ् चेति शक्यार्थे कृत्यप्रत्ययः अंतरयितुं शक्या अंतर्याः. नांतर्याः अनंतर्याः. क्लेशप्राप्तिं ते विच्छिन्दंति. विप्रकृतावस्था सा तेषाम् इष्यते. आनंतर्यमार्गेणेति भावे स्वर्थे वृद्धिविधानं. अनन्तरभावो अनंतरमार्गो वा आनंतर्यं. तस्य मार्गा आनंतर्यमार्गाः. विमुक्तिमार्गाः. विमुक्तिमार्गा इति. विमुक्तौ मार्गा विमुक्तिमार्गाः. क्लेशविमुक्त्यवस्थामार्गा इत्य् अर्थः. द्वाभ्यां चौरनिष्कासनकपाटपिधानवद् इति. यथा द्वाभ्याम् एकेन चौरो निष्कास्यते. द्वितीयेन तदप्रवेशाय कपाटः पिधीयते. एवम् आनंतर्यमार्गेण क्लेशचौरो निष्कास्यते. तत्प्राप्तिच्छेदतः. विमुकित्मार्गेण च विसंयोगप्राप्तिकपाटं पिधीयते. वर्तमानीकरणतः. यदि पुनर् इति विस्तरः. [तिब्. 206ब्] यदि पुनर् द्वितीयेनानंतर्यमार्गेणैव दुःखे ऽन्वयज्ञानक्षांत्या सह विसंयोगप्राप्तिर् उत्पद्येत. नैव दुःखे धर्मज्ञानम् उत्पद्यते. यद् अनेन कर्तव्यं. तद् दुःखे ऽन्वयज्ञानक्षांत्यैव क्रियेतेत्य् अभिप्रायः. प्रहीणविचिकित्सं ज्ञानं तत्रैवालंबने कामावचरदुःखे प्रहीणविचिकित्सं ज्ञानं नोत्पन्नं स्यात्. तत्र हि दुःखे धर्मज्ञानक्षांतिः सविचिकित्सैव वर्तते विचिकित्साया अप्रहीणत्वात्. न च तत्र दुःखे ऽन्वयज्ञानक्षांतिः प्रहीणविचिकित्सेति शक्यते व्यवस्थापयितुं. अतद्विषयत्वात्.
क्षांतिभिर् इति विस्तरः. क्षांतिभिः क्लेशप्रहाणाद् यो ऽयं सास्त्रपाठः. नवसंयोजननिकायाः. दुःखधर्मज्ञानप्रहातव्यः संयोजननिकायः. समुदयधर्मज्ञानप्रहतव्यो निरोधधर्मज्ञानप्रहातव्यो मार्गधर्मज्ञानप्रहातव्यः दुःखान्वयज्ञानप्रहातव्यः समुदयान्वयज्ञानप्रहातव्यो निरोधान्वयज्ञानप्रहातव्यो मार्गान्वयज्ञानप्रहातव्यो भावनाप्रहातव्यश् च संयोजननिकाय इति. सूत्रे ऽप्य् उक्तम्. इति हि भिक्षवो ज्ञानवध्याः क्लेशाः. विद्युदुपमं चित्तम् इति. तस्य विरोधः. न हि तत्र ( अभिध्-क्-व्य् 546 ) क्षांतिप्रहातव्यः संयोजननिकाय इत्य् उक्तं. न क्षांतीनाम् इति [तिब्. 207अ] विस्तरः. नैतद् एवं. कस्मात्. क्षांतीनां ज्ञानपरिवारत्वात्. क्षांतयो ज्ञानस्य परिवारा इत्य् अतः क्षांतिप्रहातव्यः संयोजननिकायो ज्ञानप्रहातव्य उच्यते. राजपरिवारकृतस्य राजकृतव्यपदेशवत्. यथा राजपरिवारकृतस्य कस्यचिद् अर्थस्य राजकृत इति व्यपदेशो भवति. तद्वद् भावनाप्रहातव्यस् तु संयोजननिकायो ज्ञानप्रहातव्य एव. तत्र आनंतर्यमार्गो ऽपि ज्ञानस्वभाव इति. क्लेशप्रहाणे ह्य् आनंतर्यमार्ग एव विशेषेणाधिक्रियते.
(वि.31अब्) अदृष्टसत्यदर्शनाद् इति ज्ञानेन कथम् अदृष्टसत्यदर्शनं भवति. तद् अप्य् अदृष्टे सत्यांतरे सति भवतीति दर्शनमार्गांतरालवर्तिज्ञानं दर्शनमार्गः पारंपर्यम् अभिसंधाय. तेनाप्य् अदृष्टम् इव पश्यतीति. अथ वा अदृष्टदृष्टेर् अडृष्टदर्शनात्. पंचदशक्षणा दर्शनमार्गो यावद् अस्य पुद्गलस्यादृष्टदर्शनं प्रवर्तते. तावद् अस्य क्षणा दर्शनमार्गः. तस्य दृष्टे ऽपि दुःखे अदृष्टदर्शनम् अस्य समुदये प्रवर्तत एवेत्य् आह. भावनामार्ग एव षोडश क्षण इति वाक्याध्याहारः.
ननु च तेनाप्य् अदृष्टं पश्यति किं तद् अदृष्टम् इत्य् आह. मार्गान्वयज्ञानक्षांतिम् इति. मार्गान्वयज्ञानक्षांतिर् आत्मानं विरहय्य शेषम् अन्वयज्ञानपक्ष्यं मार्गम् आलंबते. स्वात्मनि [तिब्.207ब्] वृत्तिविरोधात्. तेनोच्यते. मार्गान्वयज्ञानक्षांतिम् अदृष्टां पश्यतीति. सत्यं प्रति चिंतेति विस्तरः. सत्यं प्रति चिन्ता दृष्टं न दृष्टम् इति. न तु क्षणं प्रति दृष्टः क्षणो न वेति. कस्मात्. पंचदशेन क्षणेन यद् अन्वयज्ञानपक्षलक्षणं सत्यं दृष्टं. तद् एव षोडशेनापीति. नास्त्य् अपूर्वदृष्टसत्यदर्शनम् इति. न षोडशक्षणो दर्शनमार्ग इति व्यवस्थाप्यते. न ह्य् एकक्षणेनादृष्टेन मार्गान्वयज्ञानक्षांतिलक्षणेन सत्यं तन्मार्गसत्यम् अडृष्टं भवति. लौकिकं दृष्टांतम् आह. यथा नैकलुङ्गेन एकसस्यशलाकया दात्रेणालूनेनाच्छिन्नेन केदारम् अलूनं भवति. किं तर्हि. लूनम् एवेत्य् अर्थः. तथा हि केचित् प्रमादाद् अलूने ऽपि एकलुंगे वक्तारो भवंति लूनम् अस्माभिः केदारम् इति. फलत्वाद् इति विस्तरः. फलत्वाद् इत्यदिहेतुभिर् भावनामार्गम् एव षोडशक्षणं साधयति. भावनामार्गः षोडशः क्षणः. संस्कृतश्रामण्यफलत्वात्. सकृदागामिफलवत् यावद् अर्हत्त्वफलवद् वा. तथा भाविताष्टज्ञानषोडसाकारत्वाद् विहीनप्रतिपन्नकमार्गत्वात् प्राबंधिकत्वाच् च. [तिब्. 208अ] फलांतरवद् एव भावनामार्गः. षोडशे हि क्षणे ऽष्टौ ज्ञानानि भाव्यंते. दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं यावन् ( अभिध्-क्-व्य् 547 ) मार्गे ऽन्वयज्ञानम् इति. आकारा अपि षोडशानित्याद्या भाव्यंते. तद्वद् एव च दर्शनमार्गे ऽष्टज्ञानषोडशाकारभावना नास्ति. तत्र हि सभागज्ञानाकारभावनैव
यथोत्पन्नानि भाव्यंते क्षांतिज्ञानानि दर्शन
इति वचनात्. मार्गान्वयज्ञाने च पूर्वमार्गस्य प्रतिपन्नकमार्गस्य विहानिः. न च दर्शनमार्गे पूर्वमार्गविहानिर् इति. प्राबंधिकं चेदं मार्गान्वयज्ञानं. न च दर्शनमार्गे क्षांतिर् ज्ञानं वा किंचित् प्राबंधिकम् अस्तीत्य् अतो ऽपि मार्गान्वयज्ञानं भावनामार्ग इति. इतरः प्रत्यवस्थानं करोति. दर्शनमार्गः षोडशः क्षणः. अवश्यकापरिहाणित्वात्. दुःखधर्मज्ञानक्षांत्यादिवद् इति. पूर्वपक्षं वा दूषयति. अनुमानपतितधर्मस्वरूपविपर्ययापक्षालो ऽयं पक्ष इति. भावनामार्गत्वे ऽपि साध्यमाने तद् अपरिहाणित्वम् अनेनानुमानेनापततीति. तद् इदम् अंतर्नीतम् अभिसमीक्ष्य पुनर् आह. अपरिहाणिस् त्व् इति विस्तरः. यस्माद् दर्शनहेयानां क्लेशानां प्रहाणं मार्गान्वयज्ञानेनाधारप्रतिपक्षेण [तिब्. 208ब्] संधार्यते. यदि च तस्मात् फलमार्गात् षोडशात् क्षणात् परिहाणिः स्यात् स्रोतआपत्तिफलात् परिहाणिः स्यात्. न च स्रोतआपत्तिफलात् परिहाणिर् इत्य् अतो न तस्मात् परिहीयते. इतर आह. अत एवेति. किम् अयम्. अपरिहाणिहेतुर् एवोच्यते. वयम् अप्य् एतम् अर्थम् अभिदध्महे. किम् अयम् उपलब्धिसमम् इति चोत्तरम् उद्ग्राह्यते. आचार्य आह. अत एव दर्शनमार्ग इति चेत्. यदि मन्यसे यत एव दर्शनहेयप्रहाणसंधारणं मार्गान्वयज्ञानेन. अत एव दर्शनमार्ग इति. तन् न. अतिप्रसंगात्. यदि मार्गान्वयज्ञानेन दर्शनहेयप्रहाणसंधारणम् इत्य् अतो दर्शनमार्गः स्यात्. एवं सत्य् अतिप्रसंगः स्यात्. तस्मान् मार्गान्वयज्ञानात् परेण सर्वेण भावनामार्गेण दर्शनहेयप्रहाणसंधारणम् इति सर्व एव दर्शनमार्गः स्यात्. अनिष्टं चैतत्. षोडश एव हि क्षणो दर्शनमार्गो भवधिर् इष्यते. न सप्तदशाष्टदश इत्यादिकः क्षणः प्रवाहन्यायेनोत्पद्यते. द्वितीये तृतीये वा दिवसे य उत्पद्यते तज्जातीयो विशेषमार्गसंगृहीतः. तन् नास्ति. ततो ऽपि हि नास्ति परिहाणिः. तद् एवं सत्य् आवश्यकापरिहाणित्वं यो हेतुर् उक्तः. सो ऽनैकांतिक इति दर्शितं भवति. [तिब्. 209अ] तदनैकांतिकत्वाच् चाप्रतिसाधनं तत्. न पूर्वपक्षदूषणं चेति. आह. सप्त ज्ञानानि दुःखे धर्मज्ञानं यावन् मार्गे धर्मज्ञानं कस्माद् दुर्शनमार्गो न पुनर् अष्टमं मार्गे ऽन्वयज्ञानम् ( अभिध्-क्-व्य् 548 ) इत्य् अभिप्रायः. दर्शनस्यासमाप्तत्वाद् इति. मार्गान्वयज्ञानक्षांतौ दर्शनं समाप्तं. सर्वेषां सत्यानां तदानीं दृष्टत्वात्. दुःखे धर्मज्ञान उत्पन्ने यद्य् अपि कामावचरं दुःखं दृष्टं. रूपारूप्यावचरदुःखादि तु न तावद् दृष्टम्. एवं यावत्. मार्गे धर्मज्ञान उत्पन्ने रूपारूप्यप्रतिपक्षो न तावद् दृष्ट इति. सावशेषं दर्शनं न समाप्तम् इति. तदंतरालत्वाद् इति. दर्शनमार्गांतरालत्वात्. तयोर् वा द्वयोः क्षांत्योर् अंतरालत्वात्. तान्य् अपि सप्त ज्ञानानि दर्शनमार्गः. शेषद्रष्टव्यसाकांक्षत्वात् तस्य योगिन इत्य् अभिप्रायः.
(वि.31च्द्, 32) पूर्वं परप्रत्ययेन परोदितेन अर्थानुसरणाद् दुःखादिसत्यप्रतिपत्तेर् इत्य् अर्थः. पूर्वम् इति विशेषणेन भावनाकाले परोपदेशनिरपेक्षम् अर्थानुसरणम् इति कथितं भवति. एवं धर्मानुसारीति. धर्मैर् अनुसारो धर्मानुसारः. सो ऽस्यास्तीति धर्मानुसारी. धर्मैर् अनुसर्तुं शीलम् अस्येति वा. [तिब्. 209ब्] पूर्वं स्वयम् एव सूत्रादिभिर् धर्मैर् द्वादशांगैः प्रवचनैर् अर्थानुसरणात्. पूर्ववद् व्याख्यानं. यावत् पंच प्रकाराः प्रहीणा भवंतीति. यावच्छब्देन यद्य् एको द्वौ त्रयश् चत्वारः पंच प्रहीणाः प्रकारा भवंति. तथैव प्रथमफलप्रतिपन्नकाव् उच्येते. यथा सकलबन्धनौ.
द्वितीये ऽर्वाङ् नवक्षयाद्
इति. द्वितीये इति द्वितीयनिमित्तम् इत्य् अर्थः. चर्मणि द्वीपिनं हंतीति यथा. अर्वाङ् नवक्षयात्. नवप्रकारप्रहाणाद् अधरतः नवप्रकारप्रहाणपरिहारेणार्थाद् उक्तं भवति. यदि तयोः पुद्गलयोस् तस्मात् पंचप्रकारप्रहाणात् परेण षट् सप्तष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति. तौ द्वितीयफलप्रतिपन्नकाव् इति. द्वितीय इति वचनात्. प्रतिपन्नकाव् इति चाधिकाराद् एवं पदार्थव्यवस्था लभ्यते. ऊर्ध्वं चेति प्रथमध्यानवीतरागौ. यावद् आकिंचन्यायतनाद् वीतरागौ.
(वि.33) अर्हत्त्वं तु न शक्यम् आदितः प्राप्तुम् इति. अनागामिफलम् अप्राप्यादित एवार्हत्त्वं प्राप्तुं न शक्यते. कस्माद् इत्य् आह. भावनाहेयप्रहाणात्. न हि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणम् अस्तीति. यथा दर्शनमार्गस्वभावेषु पंचदशसु क्षणेषु वर्तमानः अदितस् तृतीयफलप्रतिपन्नकाद् [तिब्. 210अ] अर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नकः स्यात्. षोडशे तु चित्त उत्पन्ने आदितो ऽनागामिनो ऽर्हन् स्यात्. भावाग्रिकभावनाहेयप्रहाणाद् ध्य् अर्हत्त्वं प्रतिस्थाप्यते. आह. यदि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणं नास्तीति अतो ऽर्हत्त्वं अशक्यं ( अभिध्-क्-व्य् 549 ) पूर्वम् एव. तर्हि पृथग्जनावस्थायाम् एव भावनामार्गेण भवाग्रवैराग्यात् तत्फलप्रतिपन्नकः. तेषु वर्तमानो ऽर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नको भविष्यति. षोडशे तु चित्तक्षण आदितो ऽर्हन्न् इति. अत उच्यते. पूर्वं च भवाग्रवैराग्यसंभवाद् इति. न हि पूर्वं पृथग्जनावस्थायां लौकिकेन मार्गेण भवाग्रवैराग्यसंभवः. उपरिभूम्यभावात्. तस्माद् आदितः प्रतिपन्नको ऽर्हंश् च न स्याद् इति. श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वाद् इति. श्रद्धाधिकत्वेनाधिमोक्षप्रभावितत्वाच् छ्रद्धाधिमुक्तः. श्रद्धाधिको मुक्तः श्रद्धाधिमुक्त इति कृत्वा. न तु तस्य प्रज्ञा नैवास्ति. तया न तु प्रभावित इति. न तन् नाम लभते. प्रज्ञाधिकत्वेन दृष्टिप्रभावितत्वात् दृष्टिप्राप्तः. न तु तस्य श्रद्धा नासीति पूर्ववद् वाच्यं. अपरे तु पुनः. [तिब्. 210ब्] नैरुक्तविधिम् आलंब्य व्याचक्षते. श्रद्धाधिपत्येन दर्शनहेयेभ्यो मुक्तः श्रद्धाधिमुक्तः. दृष्ट्याधिपत्येन प्राप्तफलो प्राप्तफलाः दृष्टिप्राप्त इति.
(वि.34) यावत् पंचप्रकारघ्नाव्
इति उक्तम्. अतः पृच्छति किं पुनः कारणम् इति विस्तरः. फलविशिष्टो मार्गो न लभ्यत इति. फलाद् विशिष्टो मार्गः सकृदागामिफलप्रतिपन्नकादिः. प्रथमादिप्रकारभावनाहेयप्रतिपक्षमार्गो न भाव्यत इत्य् अर्थः. यावन् न विशेषाय प्रयुज्यत इति. यावन् नाप्रहीणक्लेशप्रहाणाय फलांतरप्राप्तिनिमित्तं प्रयोगं करोति. तावत् प्रतिपन्नको नोच्यते. यदा प्रयुज्यते. तदा प्रतिपन्नक इत्य् अर्थाद् उक्तं भवति. तदा हि पूर्वप्रहीणक्लेशप्रतिपक्षस्याप्रतिलब्धपूर्वस्य तत्प्रहाणस्य चानास्रवा प्राप्तिर् उत्पद्यत इति सिद्धांतः. एवम् अन्यत्रापि फले वेदितव्यम् इति. षोडशे चित्ते स्रोतआपन्न एवोच्यत इति वचनात्. स्रोतआपन्न उक्त इत्य् अतो ऽन्यत्रापि. सकृदागामिफले अनागामिफले च वेदितव्यं. लौकिकेन मार्गेण प्रहीणाष्टप्रकारो ऽपि षोडशे चित्ते सकृदागाम्य् एवोच्यते. नानागामिफलप्रतिपन्नकः. यस्मात् फले फलविशिष्टस्य मार्गस्य लाभो नास्तीति. एवं कामवीतराग ऊर्ध्वं वा षोडशे चित्ते नार्हत्त्वफलप्रतिपन्नक उच्यते. यस्मात् फले फलविशिष्टस्येति [तिब्. 211अ] पूर्ववत्. यस् तु तृतीयध्यानवीतराग इति विस्तरः. तृतीयध्यानवीतरागः अधरां भूमिं निश्रित्यानागम्यं ध्यानांतरं प्रथमं द्वितीयं वा ध्यानं निश्रित्य नियामम् अवक्रामतीत्य् अस्ति संभवः. सो ऽवश्यं फलविशिष्टं मार्गं संमुखीकरोति तृतीयध्यानसंगृहीतं वा. यतस् तृतीयध्यानसंगृहीतम् अनास्रवं सुखेन्द्रियं लभ्यते. अस्ति हि सम्भावना यद् असौ फलविशिष्टमार्गं संमुखीकुर्यात्. यस्माद् अस्य तृतीयध्यानभूमिकः क्लेशः प्रहीण इति. तेन सो ऽवश्यं फलविशिष्टं मार्गं ( अभिध्-क्-व्य् 550 ) संमुखीकरोतीति नियम्यते. अन्यथा हि यदि न संमुखीकरोतीत्य् अर्थः. स तस्माद् ऊर्ध्वोपपन्नः. स आर्यः. तस्मात् तृतीयध्यानाद् ऊर्ध्वं चतुर्थे ध्याने आरूप्येषु वा सुखेन्द्रियेणासमन्वागतः स्यात्. यद् धि सास्रवं सुखेन्द्रियं. तद् भूमिसंचारात् त्यक्तं. यद् अपि चानास्रवं. तद् अपि. यदि न संमुखीकृतं स्याद् उभयेनापि सुखेन्द्रियेनासमन्वागतः स्याद् आर्याणां चोर्ध्वोपपन्नानाम् अवश्यं सुखेन्द्रियेणासमन्वागम उक्तः. सुखेन्द्रियेण चतुर्थध्यानारूप्योपन्नः पृथग्जनो न समन्वागतः. आर्यस् तु समन्वागत इति वचनात्. यश् चापि सौमनस्येन्द्रियेण समन्वागतः. सो ऽवश्यं पंचभिर् उपेक्षाजीवितमनःसुखसौमनस्येन्द्रियैर् इत्य् एवमादिवचनाच् च. [तिब्. 211ब्] अत्र ब्रूमः. अस्त्य् एष विभाषायां लिखितपक्षः. स तु न स्थापनापक्षो लक्ष्यते. अपर आहुर् इति वचनात्. यो हि चतुर्थध्यानलाभी षण्णां भूमीनाम् अन्यतमां भूमिं निश्रित्य नियामम् अवक्रामति. स षड्भूमिकेनानागामिफलेनानागम्यभूमिकेन यावच् चतुर्थध्यानभूमिकेन षोडशे चित्ते समन्वागतो भवति. तथा वीतरागत्वात्. यस् तृतीयध्यानलाभी. स पंचभूमिकेन. चतुर्थध्यानभूमिकं हित्वा. एवं यो द्वितीयध्यानलाभी. स चतुर्भूमिकेन. तृतीयचतुर्थभूमिके हित्वा. यस् तु वीतरागः प्रथमध्यानलाभी वा द्वितीयालाभी. स यद्य् अनागामिफलं प्राप्नोति. त्रिभूमिकेनासाव् अनागामिफलेन समन्वागतः. अनागम्यध्यानांतरप्रथमध्यानभूमिकेन. सर्वजघन्यो ऽपि ह्य् अनागाम्य् अवश्यम् एव त्रिभूमिकेनानागामिफलेन समन्वागत इति वर्णयंति. तस्माद् अपरपक्षापेक्षयैवम् उक्तम् आचार्येणेति युक्तं स्यात्.
(वि.35अब्) एवं तावद् भूयःकामवीतरागाणाम् इति. भूयोवीतरागाणां. कामवीतरागाणां च. तत्र भूयोवीतरागो यस्य सप्ताष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति. यस्य [तिब्. 212अ] नव प्रकाराः प्रहीणाः. स कामवीतरागः. भूयोवीतरागाणां पुद्गलव्यवस्था
द्वितीये ऽर्वाङ् नवक्षयाद्
इति वचनात्. कामवीतरागाणां
कामाद् विरक्ताद् ऊर्ध्वं चेति
वचनात्. यथैते कामधाताव् इति.
यावत् पंचप्रकारघ्नौ. द्वितीये ऽर्वाङ् नवक्षयात्.
कामाद् विरक्ताव्
इति वचनात्. कामधातौ नव प्रकाराः क्लेशा उपदिष्टाः. चेलाद् इति वस्त्रात्. एष दृष्टांतयोग इति. द्र्स्तांतयुक्तिर् दृष्टांतयोगो दृष्टांतप्रकार इत्य् अपरे. ( अभिध्-क्-व्य् 551 ) तद् एवम् अनया युक्त्यानेन वा प्रकारेणान्यो ऽपि दृष्टांतो वक्तव्य इति सूचयति. अन्यथा ह्य् एष दृष्टांत इत्य् एव ब्रूयात्. अनादिसंसार इति. अनादौ संसारे. स्वहेतुपरंपरया ध्यापिता अभिवर्धितास् ततश् चाधिमात्रप्रमाणम् एतेषाम् इत्य् अभिप्रायः. तेषां क्लेशानाम् उन्मूलनात् प्राप्तिच्छेदतः. मूलसधर्मिण्यो हि प्राप्तयस् तत्प्रबंधत्वात् क्लेशानां तृवृत्कर्षनिष्कर्षणवद् इति. यथा त्रिवृत्कर्षेण धरणेन सुबहुकाले संवर्धितानां वातपित्तादीनां दोषाणां निष्कर्षणं. एवं क्षाणिकमृदुकेनाप्य् आर्यमार्गेण क्लेशानां. यथा च क्षणिकेनाल्पेन प्रदीपेन [तिब्. 212ब्] महतस् तमसो घातः. तद्वत् क्लेशानाम् इति.
(वि.35च्द्) सप्तकृत्वः परमं जन्मास्येति. सप्तकृत्वो जन्मप्रकर्षणास्य. नातः परम् इत्य् अर्थः. तेन मार्गेण निर्वाणगमनाद् इत्य् अर्थः. स्रोतसा हि लोके गम्यते.
आद्यमार्गलाभाच् चेत्. आद्यो ऽनास्रवो मार्गो दर्शनमार्गस् तस्य लाभाच् चेत् स्रोतआपन्नः. अष्टमको ऽपि स्यात्. स्रोतआपत्तिफलप्रतिपन्नको ऽपि स्याद् इत्य् अर्थः. तथा हि प्रतिलोमक्रमेणार्हत आरभ्याष्टानां पुरुषपुद्गलानाम् अर्हत्प्रतिपन्नकादीनां स्रोतआपत्तिफलप्रतिपन्नो ऽष्टमको भवति श्रद्धानुसारी धर्मानुसारी वा तस्याप्य् आद्यमार्गलाभात् सो ऽपि स्रोतआपन्नः स्यात्. आद्यफललाभाच् चेत्. अथ मतं अपूर्वफलस्य लाभात् स्रोतआपन्न इति. भूयोवीतरागो ऽपि स्यात्. यः प्रहीणषट्क्लेशप्रकारः षोडशे क्षणे सकृदागामी. सो ऽपि स्रोतआपन्नः स्यात्. तस्याप्य् अपूर्वफललाभात्. एवं कामवीतरागो ऽपि स्यात्. तस्यापि तद् आद्यं फलम् इति. इदानीं परिहार [तिब्. 213अ] उच्यते. सर्वफलप्रापिणम् अधिकृत्याद्यफललाभाद् इति. सर्वफलम् इति. स्रोतआपत्तिफलादीनि चत्वारि. तत्प्राप्तुं शीलम् अस्येति सर्वफलप्रापी. सर्वफलप्राप्ति अस्यासीति वा सर्वफलप्रापी. तम् अधिकृत्य तम् अभिसंधायाद्यफललाभाद् अपूर्वफललाभात् स्रोतआपन्न उच्यते. किं पुनः कारणम् इति विस्तरः. कस्मात् स एव स्रोतआपन्न उच्यते. नाष्टमकः स चापि ह्य् आर्यमार्गस्रोतआपन्न इति. प्रतिपन्नकफलमार्गलाभाद् इति विस्तरः. यस्मात् तेन सर्वफलप्रापिणा प्रतिपन्नकमार्गः पंचदशक्षणस्वभावः. भावनामार्गश् च षोडशक्षणो लब्धः. अष्टमकेन तु प्रतिपन्नकः मार्ग एव लब्ध इति. इतश् च दर्शनभावनामार्गलाभात्. यस्माच् च तेन दर्शनमार्गश् च स एव भावनामार्गश् च स एव लब्धः. अष्टमकेन तु दर्शनमार्ग एवेति. सकलस्रोतोऽभिसमयाच् च मार्गान्वयज्ञाने. यस्माच् चानेन सकलं स्रोतोऽभिसमितं मार्गान्वयज्ञानक्षांतिक्षणस्यापि दर्शनान् न त्व् अष्टमकेन. तस्माद् ( अभिध्-क्-व्य् 552 ) एभिः कारणैः सर्वफलप्राप्य् एव स्रोतआपन्न इत्य् उच्यते नाष्टमकः. प्रकर्षगतेर् हि तथा वचनं. तद्यथा लोके यः प्रकर्षेण भासं करोति. स भास्कर उच्यते. न खद्योतकः. [तिब्. 213ब्] तद्वत्. तस्माद् अन्यान् इति. तस्मात् सांप्रतिकाद् भवाद् अन्यान्. सप्तस्थानकौशलसप्तपर्णवद् इति. यथा सप्तकसामान्यात् सप्तस्थानकुशलो भिक्षुर् उक्तः सूत्रे. कथं. विस्तरम् उक्त्वाह. कथं च भिक्षवो भिक्षुः सप्तस्थानकुशलो भवति. रूपं यथाभूतं प्रजानाति. रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादम् आदीनवं निःसरणं यथाभूतं प्रजानाति. एवं वेदनां संज्ञां संस्कारान् विज्ञानं यथाभूतं प्रजानाति. विज्ञानसमुदयं विस्तरेण यावन् निःसरणं यथाभूतं प्रजानातीति. एवम् अनेन न्यायेन पंचसप्तकानि पंचत्रिंशद् इति. पंचत्रिंशत् कुशलः प्राप्नोति. सप्तपर्णवच् च. यथा च पत्त्रिकायां पत्त्रिकायां सप्तपर्णसादृश्याद् अनेकशतपत्त्रो ऽपि सन् स वृक्षः सप्तपर्ण इत्य् उच्यते. तद्वत्. प्रथमो दृष्टांतः प्रवचने सिद्धः. द्वितीयो लोक इति दृष्टांतद्वयोपन्यासे प्रयोजनम्. यदि सप्तकसामान्यात् सप्तकृत्वः परम इति व्याख्यायते.
यत् तर्हि सूत्र उक्तं. तद् विरुध्यत इत्य् अतो ऽपव्याख्यानम् एतद् इत्य् अभिप्रायः. एकस्यां गताव् अष्टमं भवं नाभिनिर्वर्तयतीत्य् अविरोधः. यथारुतं वा कल्प्यमान इति. सप्तकृत्वो देवांश् च मनुष्यांश् च संसृत्य संधाव्य [तिब्. 214अ] दुःखस्यांतं करोतीति देवमनुष्यवचनाद् अंतराभवो ऽपि न स्यात्. इष्यते च देवमनुष्यगत्योः सप्तभवाभिनिर्वर्तनम्. अंतराभवास् तु न गण्यांत इति. यदि अंतराभवैः सह सप्तभवा गण्येरन् जन्मचतुष्टयम् एवास्य स्यात्. तद् एवानेनानिष्टापत्तिवचनेन तदात्मीयं व्याख्यानम् एकस्यां गताव् इति समर्थयति. इतर आह. एवम् अप्य् ऊर्ध्वंस्रोतस इति विस्तरः. यद्य् एकस्यां गताव् अष्टमं भवं नाभिनिर्वर्तयतीति व्याख्यापयसि. कथं तर्हि ऊर्ध्वस्रोतसो ऽष्टमभवाभिनिर्वृत्तिर् एकस्यां गतौ भवति. भवाग्रपरमस्येति विशेषणं किम् अर्थम्. अकनिष्ठपरमस्यापि अष्टमभवाभिनिर्वृत्तिः संभवति.
स प्लुतो ऽर्धप्लुतः सर्वश् च्युतश् चान्यो भवाग्रग
इति वचनात्. स चापि वक्तव्यः. भवप्रकर्षविवक्षायां तु भवाग्रपरमग्रहणम् इत्य् अभिप्रायं लक्षयामः. कामधात्वभिसंधिवचनाद् इति. कामधातौ चैका गतिर् मनुष्यगतिः. देवगतिर् वा. तस्याम् अष्टमभवं नाभिनिर्वर्तयति. न तु रूपारूप्यधात्वोर् इति. किम् अत्र ज्ञापकं. सूत्रं युक्तिर् वा. कामधातुम् अधिकृत्येदम् उक्तम् इति. [तिब्. 214ब्] सूत्रम् आगमः. ( अभिध्-क्-व्य् 553 ) युक्तिर् अत्रानुमानं. येन चोदकेनैवं चोदितं किम् अत्र ज्ञापकं सूत्रं युक्तिर् वेति. स एव पुनर् आह. इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु इति विस्तरः. प्रत्येकं देवमन्युष्येषु सप्तकृत्वः संसृत्येति. न पुनर् उभयेष्व् एव देवमनुष्येषु सप्तकृत्व इति. तद् उक्तं भवति. यो मनुष्येषु दृष्टसत्यः. स देवेषु त्रिष्कृत्वः संसृत्य मनुष्येषु च त्रिष्कृत्व एव ततो देवान् आगम्य परिनिर्वातीति. यो वा देवेषु दृष्टसत्यः. स तथैव. स मनुष्येषु त्रिष्कृत्वो देवेषु च त्रिष्कृत्व एव संसृत्य ततो मनुष्यान् आगम्य परिनिर्वातीति. एवं हि पठ्यते सप्तकृत्वो देवांश् च मनुष्यांश् चेति. सामान्यरूपेण हि पठ्यते. न प्रत्येकम् इति विशिष्य पठ्यत इत्य् अर्थः. एवं वैभाषिकपक्षे संशयावस्थे कृते आचार्यः समर्थयन्न् आह. प्रत्येकम् अपि तु काश्यपीया इति विस्तरः. काश्यपीया निकायांतरीयाः. त एवं पठन्ति. सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यान् इति. एवं प्रत्येकमर्थो लभ्यते. तद् अनेनोभयम् अपि परिहृतं भवति. यद् उक्तं किम् अत्र ज्ञापकं सूत्रं युक्तिर् वा कामधातुम् अधिकृत्येदम् उक्तम् इति. यच् चोक्तम् इह चैव किं ज्ञापकं. प्रत्येकं देवमनुष्येषु सप्तकृत्व इति. [तिब्. 215अ] प्रत्येकमर्थपरिग्रहेणैव हि कामधात्वभिसंधिर् अपि सूचितो भवति. न हि रूपारूप्यधात्वोः सप्तकृत्वो देवमनुष्येषु संसरणं युज्यते. तत्रोपपन्नानाम् अनागामिनां मनुष्यानागमनात्. युक्तिर् अप्य् अत एव गम्यते. यत्रैव सप्तकृत्वोभवपरम उक्तः. तत्रैव भूमाव् अष्टमभवप्रतिषेध उपपद्यते नान्यत्रेति. नात्राभिनिवेष्टव्यम् इति. इह चैव किं ज्ञापकम् इति. तज्जातीय इति. तत्प्रकारः. येन तावता कालेनावश्यं संततिपरिपाकान् नाष्टमं भवम् अभिनिर्वर्तयति. सप्तपदाशीर्विषदष्टवत्. सप्तपदाशीर्विषेण तेन दष्टो यथा सप्तपदानि गत्वा म्रियते. न परेण नार्वाक्. विषजातिः सा तादृशी. चातुर्थकज्वरवच् च. यथा चातुर्थको ज्वरश् चतुर्थ एवाहनि भवति. न परेण नार्वाक्. रोगजातिः सा तादृशी. तद्वत्. द्वे अवरभागीये इति. कामच्छन्दव्यापादौ. कामावीतरागत्वाद् एतौ भवतः. पंचोर्ध्वभागीयानीति.
द्वौ रागौ रूप्यरूपिजौ औद्धत्यमानमोहाश् चेति.
यतो ऽर्वाण् निर्वाणं च न प्राप्नोति. न चाष्टमं भवम् अभिनिर्वर्तयतीति. [तिब्. 215ब्] सप्तसंयोजनावशेषत्वाद् इत्य् अहेतुर् एष इत्य् आचार्यसंघभद्रः. न ह्य् ऊर्ध्वभागीयानि कामधातौ जन्माभिनिर्वर्तयितुं समर्थान्य् ऊर्ध्वभूमिकत्वाद् इति. एतद् धेतुवादिनः पुनर् आहुः. यद्य् अपि तान्य् ऊर्ध्वभूमिकानि. तत्प्राप्तिसामर्थ्यात् तु तावतां भवानाम् अभिनिर्वृत्तिर् भवति. ( अभिध्-क्-व्य् 554 ) न हि तानि ऊर्ध्वम् अपि विपाकहेतुत्वेन व्यवस्थाप्यंते. अव्याकृतत्वाद् इति. अंतरेणेत्य् अंतरार्वाग् इत्य् अर्थः. धर्मताप्रतिलंभिकम् इति. अशैक्षमार्गसामर्थ्यप्रतिलंभिकम् इत्य् अर्थः. स हि तस्य स्वभावो यद् भिक्षुलिंगेन योजयतीति.
अविनिपातधर्मेति. सूत्रे पठ्यते. स्रोतआपन्नो भवन्न् अविनिपातकधर्मा नियतं संबोधिपरायणः सप्तकृत्वःपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाव्य संसृत्य दुःखस्यांतं करोतीति. कस्माद् एवं भवतीत्य् आह. तद्गामिककर्मानुपचयाद् इति. विनिपातो ऽपायो नरकादिः. तं गच्छतीति तद्गामि. तद्गाम्य् एव तद्गामिकं. किं. कर्म. तस्यानागतस्यानुपचयाद् आर्यावस्थायां. उपचितविपाकदानवैगुण्याच् च संततेः. पृथग्जनावस्थायाम् उपचितस्यानियतवेदनीयस्य तद्गामिकस्य कर्मणो विपाकदानवैगुण्यात् संततेः. अविनिपातधर्मा भवतीत्य् उच्यते. [तिब्. 216अ] ईदृशी तस्य स्कंधसंततिः परावृत्ता. यद् असौ तद्गामिकस्य कर्मण उपचितस्य विपाकदानवैगुण्येनावस्थितेति. कस्मात् पुनः सा स्कंधसंततिर् उपचिततद्गामिककर्मविपाकदानवैगुण्येनावस्थितेति. तत उच्यते. बलवत्कुशलमूलाधिवासनाद् इति. यस्माद् असौ स्कंधसंततिर् बबवद्भिः. कुशलमूलैर् अधिवासिता परिभाविता. कथं च पुनर् बलवत्कुशलमूलाधिवासिता. प्रयोगाशयशुद्धितः. प्रयोगशुद्धित आशयशुद्धितश् च. तत्र प्रयोगशुद्धिर् आर्यकांतानि शीलानि. आशयशुद्धिर् बुद्धादिष्व् अवेत्यप्रसाद इति. क्षांतिम् अपि नोत्पादयेद् इति. क्षमणम् अपि नोत्पादयेत्. चित्तम् अपि नोत्पादयेत्. प्राग् एव प्रयोगम् इत्य् अभिप्रायः. अथ वा. अपायनियते तु कर्मणि सत्य् असौ पुद्गलः क्षांतिम् अपि निर्वेधभागीयलक्षणां नोत्पादयति. किम् अंगानास्रवं मार्गम् इति. यथा बलवत्कुशलमूलाधिवासिता उपचिताकुशलविपाकदानविगुणा भवति. तच् छ्लोकेनोपदर्शयति.
कृत्वाबुधो ऽल्पम् अपीति
सर्वम्.
अबुधो ऽल्पम् अपि
पापं
कृत्वा
अधः प्रयात्य्
अपायं.
बुधः
पुनर्
महद् अपि
पापं कृत्वा
प्रजहात्य् अनर्थम्
अपायं. तद् अर्थद्वयं यथाक्रमं [तिब्. 216ब्] दृष्टांतद्वयेन साधयति.
लोहम् अल्पम् अपि
संहतं
पिण्डरूपावस्थितम्
मूल पाठ: Sphuṭārthā abhidharmakośavyākhyā · Edition: Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936. · Data entry Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0