स्फुटार्था अभिधर्मकोशव्याख्या · भाग 101102
स्मृत्यादीनाम् इति विस्तरः. स्यान् मतं. स्मृतिसंस्कारेच्छाद्वेषादीनां [तिब्. 382ब्] गुणपदार्थत्वात् तस्य च गुणपदार्थस्यावश्यद्रव्याश्रितत्वाद् द्रव्याश्रयश् च गुणवान् इत्य् एवं लक्षणोपदेशात्. न चैषाम् अन्य आश्रयः पृथ्व्यादिको युज्यते ऽपरप्रत्यक्षत्वाधिभिः. कारणैः. अतो य एषाम् आश्रयः. स आत्मा. तस्माद् अस्त्य् आत्मेति.
न. असिद्धेः. नैतद् एवं. कस्मात्. स्मृत्यादीनां गुणपदार्थत्वासिद्धेः. विद्यमानं द्रव्यम् इति. यत् स्वलक्षणतो विद्यमानं. तद् द्रव्यं. षट् द्रव्याणि श्रामण्यफलानीति. रूपस्कन्धादीनि पंच स्कन्धानि श्रामण्यफलान्य् असंस्कृतं च षष्ठम् इति षट् द्रव्याणि भवन्ति. नाप्य् एषाम् इति. स्मृत्यादिनं. परीक्षितो ह्य् आश्रयार्थ इति. यथा कः कस्याश्रयः. न हि ते चित्रबदरादिवद् आधार्य इति विस्तरेण.
एते प्रकारा इति. गौरादिप्रकाराः. स्कंधेष्व् अयम् इत्य् अहंकराः. न त्व् अहंकार इति. न त्व् अहम् इत्य् एवम् आकरः प्रत्यय इत्य् अर्थः.
इदं पुनस् तद् एवायातम् इति. किमर्थैषा षष्ठी. स्वाम्यर्था. यथा कः कस्यो स्वामी. यथा गोश् चैत्रः कथम् असौ तस्याः स्वामी. तदधीनो हि तस्यावाहधोहादिषु [तिब्. 383अ] विनियोगः. क्व च पुनर् अहंकारो विनियोक्तव्यो यत एतस्य स्वामि मृग्यते. अहंकर्तव्ये ऽर्थे. किमर्थं विनियोक्तयः. अहंकारार्थम्. अहो सूक्तानि सुखैधितानां. स एव हि नाम तदर्थं विनियोक्तव्य इति. कथं च विनियोक्त्व्यः. उत्पादनतः आहोस्वित् संप्रेषणतः. अहंकारगत्ययोगाद् उत्पादनतः. हेतुर् एव तर्हि स्वामि प्राप्नोति. फलम् एव च स्वं. यस्माद् धेतोर् आधिपत्यं फले. फलेन च तद्वान् हेतुर् इति.
य एवास्य हेतुर् अहंकारस्य. तस्यैवयम् इति. पुष्पितो वृक्ष इति दृष्टान्तो यत्र सिद्धान्ते वृक्षावयवी नेष्यते. विजातीयचतुर्महाभूतकायारम्भानभीष्टे. यत्र तु वृक्षावयव्य् अस्ति. तत्र द्वितीयो दृष्टान्तः. फलितं वनम् इति. न हि वनं नाम किंचिद् अस्ति. यथा यस्मिन् वने फलम् उत्पन्नं तत् फलितम् इति उच्यते. यथा यस्मिन्न् आश्रये षडायतनलक्षणे सुखम् उत्पन्नं दुःखं वा. स सुखितो दुःखितो वा. तथोक्तम् इति. यथा आश्रयः षडायतनं तथोक्तं.
तद्विकारविकारित्वाद् आश्रयाश् चक्षुरादय
इति. अथ पंचस्कन्धकं भवान् उदाहरतीत्य् अधिकृतं. स एव कर्तेति. स एव पंचस्कन्धलक्षणः कर्ता. [तिब्. 383ब्] नात्मा. इति सिद्धो नः पक्षः. तत्रापि स्वातंत्र्यं नास्तीति दर्शयन्न् आह. त्रिविधं चेदं कर्मेति विस्तरः. कायस्य चित्तपरतंत्रा वृत्तिः चित्तप्रवर्तित्वात् कायकर्मणः. चित्तस्यापि काये वृत्तिः स्वकारणप्रर्तंत्रा. [मनोधर्म]मनस्कारादिपरतंत्रत्वात्. तस्याप्य् एवं तस्य चित्तकारणस्य स्वकारणपरतंत्रा वृत्तिर् इति. नास्ति कस्यचिद् अपि स्वातंत्र्यं कायस्य चित्तस्य चित्तकारणस्यान्यस्य वा. प्रत्ययपरतंत्रा हि सर्वे भावाः.
चतुर्भिश् चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः.
द्वाभ्याम् अन्ये तु जायन्त
इति वचनात्. आत्मनो ऽपि च निरपेक्षस्य बुद्धिविशेषाद्युत्पत्ताव् अकारणत्वाभ्युपगमान् न स्वातंत्र्यं सिध्यति. तस्मान् नैवं लक्षण इति. स्वतंत्रः कर्तेति. एवं तर्हि कर्तेत्य् आह. यत् तु यस्य प्रधानकारणं. तत् ( अभिध्-क्-व्य् 719 ) तस्य कर्तेत्य् उच्यते. प्राधान्ये तत्प्रतीत्योत्पत्तेः. स एवम् अपि कर्ता न युज्यते. प्रधानकारणभावेनापि न युज्यत इत्य् अर्थः.
तस्याकारणत्वम् उपदर्शयन्न् आह. स्मृतितो हि छन्द इति विस्तरः. पूर्वस्मर्तव्ये ऽऋथे स्मृतिर् उत्पद्यते. स्मृतेश् छन्दः कर्तुकामता. छन्दाद् वितर्कश् चेतनाविशेषो ऽभिसंस्कारलक्षणः. प्रज्ञाविशेषो वा योगाचारनयेन. वैभाषिकनयेन त्व् अभिरूपणविकल्पलक्षणः. [तिब्. 384अ] वितर्कात् प्रत्यत्नो वीर्यं. प्रयत्नाद् वायुः. ततो वायोः कर्म देशान्तरोत्पत्तिलक्षणम् इति. किम् अत्रात्मा कुरुते.
विज्ञाने प्रतिषेधाद् इति. यैवोपलब्धिः. तद् एव विज्ञानं. विज्ञाने चात्मनः सामर्थ्यं प्रतिषिद्धं. चित्ताद् एवास्तु संस्कारविशेषापेक्षात्. न हि किंचिद् आत्मन उपलभ्यते समर्थ्यम्. औषधकार्यसिद्धाव् इव कुहकवैद्यफूःस्वाहानाम् इति.
यथा तथोक्तम् इति
तद्विकारविकारित्वाद् आश्रयाश् चक्षुरादय
इति.
तदाश्रिताद् इत्य् आत्माश्रितात्. उक्तोत्तरैषा वाचोयुक्तिर् इति. यथा कः कस्याश्रयः. न हि ते चित्रबदरादिवद् आधार्ये. नापि स कुड्यकुण्डादिवद् आधारो युक्तः. प्रतिघातित्वयुक्तत्वादिदोषान् न वै स एवम् आश्रयः. कथं तर्हीति विस्तरः. तदाहितं हि तद् इति. तेन बीजेनाहितं तत् सामर्थ्यम् इत्य् अर्थः.
यथोक्तम् इति स्थविरराहुलेन.
यद् गुरु यच् चासन्नम्
इति विस्तरः. एकस्मिन् संताने चत्वारि कर्माणि. गुरु आसन्नम् अभ्यस्तं पूर्वकृतं च. एषां चतुर्णां गुरुकर्म पूर्वकम् इति त्रिभ्यस् तत् पूर्वं विपच्यते. आसन्नाभ्यस्तपूर्वकृतानाम् [तिब्. 384ब्] अप्य् आसन्नं पूर्वम् इति तत् पूर्वं द्वाभ्यां विपच्यते. अभ्यस्तपूर्वकृतयोश् चाभ्यस्तं पूर्वम् इति एकस्मात् पूर्वं विपच्यते. असत्स्व् एतेषु पूर्वजन्मकृतं विपच्यते अपरपर्यायवेदनीयं. अक्लिष्टानाम् इति. कुशलानाम् अनिवृताव्याकृतनां च. विक्लित्तिविशेषजाद् इति. भूम्युदकसम्बन्धात् फलस्य सूक्ष्मो विकारो विक्लित्तिः. तस्या विशेषः. स एवातिप्रकृष्टः. तस्माज् जातो विकारविशेषः. तस्मात्. फलान्तरम् उत्पद्यते. कीदृशाद् विकारविशेषाद् इति दर्शयन्न् आह. यो हि तत्र भूतप्रकारङ्कुरं निवर्तयति. स तस्य बीजम् इति. तस्यांकुरस्य बीजं. नान्यो भूतप्रकारः. न पूर्वबीजावस्थो भूतप्रकार इत्य् अर्थः. भविन्या तु संज्ञयेति. ओदनं पचति सक्तुं पिनष्टीति यथा भाविन्या संज्ञया व्यपदेशः. एवं पूर्वको ऽपि ( अभिध्-क्-व्य् 720 ) संतानः अविक्लिन्नबीजावस्थः बीजम् इत्य् आख्यायते भाविन्यानया संज्ञयेति. सादृश्याद् वेति. विक्लिन्नविशेषजेन भूतविकारविशेषेण सदृशः. स पूर्वकः संतान इति कृत्वा बीजम् इत्य् आख्यायते. एवम् इहापीति विस्तरः. यदि सद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज् जातः कुशलसास्रवश् चित्तविकार उत्पद्यते. असद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज् जातः अकुशलो वा चित्तविकार [तिब्. 385अ] उत्पद्यते. तस्माद् तद्विपाकान्तरम् उत्पद्यते. नान्यथेति समानम् एतत्. यथा न फलाद् एव फलान्तरम् उत्पद्यते. किं तर्हि. विकारविशेषात्. एवं न विपाकाद् एव विपाकान्तरम् उत्पद्यते. किं तर्हि. चित्तविकारविशेषाद् उत्पद्यते इति. तुल्यम् एतत्.
फले रक्तः केसर इति. फलाभ्यन्तरे केसरः. यत्र बीजपूरकरस आम्लो ऽवतिष्ठते. न च स तस्मात् पुनर् अन्य इति. न रसरक्तः केसरस् तस्माद् उक्तात् केसरात् पुनर् उपजायते. किं तर्हि. प्राकृत एवारक्तः केसरस् उपजायत इत्य् अर्थः. इदम् अत्रोदाहरणं. यथा लाक्षारसरक्तमातुलुंगपुष्पफलाद् रक्तकेसरान् न रक्तं केसरान्तरं पुनर् भवति. एवं कर्मजाद् विपकान् न पुनर् विपाकान्तरम् इति. आह चात्र.
चित्तं ह्य् एतद् अनन्तबीजसहितं संतानतो वर्तते.
तत्तद् बीजम् उपैति पुष्टिम् उदिते स्वे प्रत्यये चेतसि. ।
तत् पुष्टं द्रुमलब्धवृत्ति फलदं कालेन संपद्यते.
रंगस्येव हि मातुलुंगकुसुमे ऽन्यस् तस्य तत्केसरे. ॥
पुनर् आह.
कर्पासबीजे पुष्पे च मातुलुंगस्य रंजिते. ।
लाक्षया जायते रक्तं यथा कर्पासकेसरं. ॥
तस्मिन्न् अस्तमिते रंगे संतानाद् भावितक्रमात्. ।
कर्मण्य् अस्तमिते चैव भावनातः फलोदय. ॥
इति.
कर्मेति सर्वं.
तद्भावनां
कर्मभावनां.
तस्या
भावनाया
वृत्तिलाभं
त्वद्वृत्तं लाभं.
ततस्
तद्वृत्तिलाभात्.
फलम्
इत्य् एतच् चतुष्टयं
नियमेन [तिब्. 385ब्] यदृच्छया.
बुद्धाद् अन्यः
श्रावकादिः
सर्वथा सर्वाकारं
न प्रजानाति.
अर्थाद् उक्तं भवति. बुद्ध एव तत् सर्वं सर्वथा प्रजानातीति.
इत्य् एताम् इति विस्तरः. इतिकरणः समाप्त्यर्थः. प्रदर्शनार्थो वा. एतां बुद्धानां प्रवचनधर्मतां सुविहितेन हेतोर् मार्गेण हेतुमार्गेण शुद्धां निरवद्यां निशाम्य दृष्ट्वा. अंधास् तीर्थ्याः. यथाभूतदर्शनवैकल्यात्. कुत्सिता दृष्टिः कुदृष्टिः. तस्याश् चेष्टितानि कुदृष्टिचेष्टितानि. विविधानि कुदृष्टिचेष्टितान् एषाम् इति विविधकुदृष्टिचेष्टिताः स्वर्गापवर्गहेताव् अप्रतिपन्न मिथ्याप्रतिपन्नाश् चेत्य् अर्थः. तेषाम् एवंविधानां तीर्थ्यानां कपिलोलूकादीनां मतं दर्शनम् अपविध्य त्यक्त्वा यांति संसारान् निर्वाणम् इति वाक्याध्याहारः. के ते सत्त्वाः प्रज्ञाचक्षुष्मन्त आर्यश्रावकाः. अथ वा ताम् एव प्रवचनधर्मतां यान्ति प्रतिपद्यन्त इत्य् अर्थः. प्रवचनधर्मता पुनर् अत्र नैरात्म्यं बुद्धानुशासनि वा. अन्य आहुः. प्रवचनं सूत्रादिद्वादशांगवचोगतम्. तस्य धर्मता स्वाख्यातता युक्त्युपेतत्वात्. निर्वाणप्रवणता च निर्वाणद्योतनात्. यथोक्तं सर्व इमे धर्मा निर्वाणप्रवणाः निर्वाणप्राग्भाराः निर्वाणम् एवाभिवदन्तो [तिब्. 386अ] ऽभिवदन्तीति. अनात्मसंज्ञिनश् च निर्वाणे शान्तसंज्ञाः संतिष्ठन्ते. आत्मोच्छेदाशंकापगमाद् इति. तद् एवम् अनन्धा एव यान्ति. नान्धाः. अन्धास् तु भ्रमन्त्य् एव संसारार्णवे नैरात्म्यम् अपश्यन्तः. तद् दर्शयन्न् आह इमां हीति विस्तरः. इयं निरात्मता. निर्वाणम् एव पुरं निर्वाणपुरं. तस्यैका वर्तिनीति निर्वाणपुरैकमार्गो नान्यो मार्ग इत्य् अर्थः. तथागत एवादित्यो गंभीरधर्माभिप्रकाशकत्वाद् आदित्यभूतस् तथागतः. तस्य वचांसि तान्य् एवांशवः. तैर् भास्वती आलोकवती तथागतादित्यवचोऽंशुभास्वति. आर्याणां सहस्रैर् वाहितेत्य् आर्यसहस्रवाहिता. विवृताम् अपीति. ताम् इमां निर्वाणपुरैकवर्तिनीं तथागतादित्यवचोऽंशुभास्वतीं विवृताम् अपि निरात्मतां. प्रज्ञाचक्षुषो विशदस्याभावाद् अविद्याकोशपटलपर्यवनद्धनेत्रत्वाद् वा मन्दचक्षुः तीर्थिको वात्सीपुत्रीयो ऽपि वा नेक्षते. त्रयश् चेह मार्गगुण वर्ण्यन्ते. ( अभिध्-क्-व्य् 722 ) तद्यथैकायनताभिप्रेतदेशप्रायणात्. सालोकता यतो निःशंको गच्छति. यातानुयातता च परिमर्दितस्थाणुकण्टकादित्वात्. [तिब्. 386ब्] येन सुखं गच्छति. तत्साधर्म्येणेयं निरात्मतावर्तिनी द्रष्टव्या. चतुर्भिश् च कारणैर् मार्गो न विद्यते. सत्वानुतमस्कतया. प्रकाशितो ऽप्य् आदित्येन अवाहिततया. बहुपुरुषवाहितो ऽप्य् आवृततया. विवृतो ऽपि द्रष्टुर् मन्दचक्षुष्कतयेति. तेषाम् इहैकम् एव कारणम् अस्य मार्गस्यादर्शन उक्तं. यतो द्रष्टुर् दोषेणैवायं मार्गो न दृश्यते. न मार्गदोषेणेति. यत एष मन्दचक्षुर् एतं न पश्यतीत्य् अवगन्तव्यम्.
इति दिङ्मात्रम् एवेदम्
इति. सर्वम् इति यथोक्तं. दिग् एव दिङ्मात्रम् एवकारार्थो मात्रशब्दः. दिक् प्रमाणम् अस्येति दिङ्मात्रम् इति वा. महतो ऽभिधर्मशास्त्राद् अल्पम् इदम्
उपदिष्टं
मयेति वाक्यशेषः. केषाम्.
सुमेधसां.
मतिमताम् इत्य् अर्थः. तादर्थ्ये षष्ठि. किंवद् इत्य् आह.
व्रणदेशो विषस्येव स्वसामर्थ्यविसर्पिण
इति. यथा विसं स्वसामर्थ्याद् व्रणदेशं प्राप्य सर्वेष्व् अङ्गप्रत्यङ्गेष्व् अत्यन्तं विसर्पतीति मत्वा केनचित् तस्य व्रणदेशः कृतः. कथं नामेदं विसर्पतीति. एवं सुमेधसः स्वसामर्थ्यविसर्पित्वाद् विषस्थानियाः. इत्य् अतस् तेषां सुमेधसाम् उद्घटितज्ञानां प्राज्ञानाम् इदम् उपदिष्टं मया. कथम्. अल्पेन ग्रन्थेन महद् अभिधर्मशास्त्रं.
काश्मीरवैभाषिकनीतिसिद्धम्
अर्थतः प्रतिपद्येरन्न् इति. अपरे पुनर् व्याचक्षते. इति दिङ्मात्रम् एवेदम् इति इदम् एव नैरात्म्यप्रतिवेधम् अधिकृत्योक्तम् इति.
काश्मीरवैभाषिकनीतिसिद्धः
प्रायो मयायं [तिब्. 387अ] कथितो ऽभिधर्म
इत्य् अनेनैवार्थस्याभिहितत्वाद् इति.
समाप्तश् चाष्टमकोशस्थानसंबद्ध एव पुद्गलविनिश्चयः.
नानाभिधर्मार्थकरंडभूतम्
एतद् विवृ .......
...... रः
प्रसूततृष्नाय् अमृतम् अद्भृतयोनिभूतं ।
व्याख्यापदार्ककिरणैः स्फुटितं मदीयैः
शास्त्राम्बुजं बुधजनभ्रमरा भजन्तां ॥
यो ऽधित्य सर्वशास्त्राणि विद्वद्यशा यशोमित्रः. ।
स इमां कृतवान् व्याख्यां व्याख्यास्व् अन्यास्व् असंतुष्टः. ॥
तेन श्रीभारतीभर्तः परमार्थागमा व्याख्या ।
इयं देवरूपस्य देवकल्पस्य कल्पिता ॥
आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायाम् अष्टमं कोशस्थानं समाप्तम् इति.
ग्रंथकारसंख्या 25000.
शुभं
मूल पाठ: Sphuṭārthā abhidharmakośavyākhyā · Edition: Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936. · Data entry Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0