भाषा

ENहिગુ
ग्रंथ पाठ

स्फुटार्था अभिधर्मकोशव्याख्या · भाग 4160

तद् भव
इति. भवत्य् अनेनेति भवः कर्मपर्यायः.
जरामरणम् आ विद
इत्य् आ विदः आ वेदनांगात्. जरामरणं नामरूपादिचतुरंगस्वभावं. विनेयजनोद्वेजनार्थं भगवता जरामरणशब्देन चत्वार्य् अंगान्य् उक्तानि. ( अभिध्-क्-व्य् 286 ) यो भिक्षवो रूपस्योत्पादः. स जरामरणस्योत्पादः. एवं यावद् विज्ञानस्येति.
क्षणिकः क्षणे भवः. क्षणो ऽस्यस्तीति वा [तिब्. 274ब्] क्षणिकः. प्रकर्षेण दीव्यति चरति वा प्राकर्षिकः. प्रबन्धयुक्त इत्य् अर्थः. एवं सांबंधिकः हेतुफलसम्बन्धयुक्त इत्य् अर्थः. एवम् आवस्थिकः. द्वादश पंचस्कंधिका अवस्था इत्य् अर्थः. विज्ञानसहभुव इति विस्तरः. रूपम् अत्र सहभूविज्ञप्त्यविज्ञप्त्यादि. संज्ञादिस्कंधत्रयं नाम. नामरूपव्यवस्थितानीन्द्रियाणि. तत्प्रतिबद्धवृत्तित्वाद् इन्द्रियाणाम्. आश्रयत्वेन वा तानि नाम्नि व्यवस्थितानीति. षडायतनाभिनिपातः स्पर्श इति. चक्षुरादीनां स्वस्मिं विषये प्रवृत्तिर् अभिनिपातः. स तु संभवतः. यस्य तदानीम् अभिनिपातः संभवति. स तस्य स्पर्श इति वेदितव्यः. तत्संप्रयुक्तानि पर्यवस्थानान्य् उपादानं. तया तृष्णया संप्रयुक्तान्य् आह्रीक्यानपत्राप्यादीनि पर्यवस्थानानि तद् उपादानं. तत्समुत्थम् इति. तृष्णासमुत्थं. चेतनासमुत्थम् इत्य् अपरे. उन्मज्जनम् उत्पादः परिपाको जरेति. फलाक्षेपसामर्थ्योपघातः. पूर्वक्षणापेक्षया वा. भङ्गो मरणम् इति. तत्क्षणविनाशः. भंगाभिमुख्यं भंग इत्य् अपरे. क्षणिकः सांबन्धिकश् च यथा प्रकरणेषु इति. कथं. प्रकरणेषु प्रतीत्यसमुत्पादः कतमः. सर्वे संस्कृता धर्मा [तिब्. 275अ] इति. तत्र संस्कृतानां धर्माणां प्रतिक्षणं विनाशयोगात् क्षणिकः प्रतीत्यसमुत्पादः. हेतुफलभूतोभयक्षणसंबन्धात् सांबन्धिकः. निरन्तरजन्मत्रयसंबद्धा इति. द्वादश पंचस्कंधिका अवस्था अतीतानागतप्रत्युत्पन्नजन्मसंबद्धाः आवस्थिकः प्रतीत्यसमुत्पादः. निरंतरग्रहणं त्रिकाण्डप्रसिद्ध्यर्थं. स एव प्राकर्षिक इति. स एवावस्थिकः प्रकर्षयोगात्. प्राकर्षिकः. अनेकक्षणिकत्वाद् अनेकजन्मिकत्वाद् वा.
(इइइ.25अब्) आभिप्रायिक इति. अभिप्राये भव आभिप्रायिकः. विनेयाभिप्रायवशात् तथा देशित इत्य् अर्थः. लाक्षणिको ऽभिधर्मे लक्षणप्रधानत्वात्. प्रकरणेषु हि सर्वसंस्कृतग्रहणात् सत्त्वासत्त्वाख्यः प्रतीत्यसमुत्पाद उक्तः. सर्वसंस्कृतहेतुत्वयोगात्. विनेयसम्मोहविनिवृत्तिहेतुः सत्त्वाख्य एव द्वादशांगः प्रतीत्यसमुत्पादो देशितः.
(इइइ.25च्द्) अत आह.
पूर्वापरान्तमध्येषु सम्मोहविनिवृत्तय
इति. अत एव च त्रिकाण्ड इति. काण्ड इति भागः. को न्व् अहम् अभूवम् इति. देवो मनुष्य इति वा. कथं न्व् अहम् अभूवम् इति. केन प्रकारेण कया युक्त्येत्य् अर्थः. किं भविष्याम्य् अनागते ऽध्वनीति विस्तरः. किं नु भविष्याम्य् ( अभिध्-क्-व्य् 287 ) अनागते [तिब्. 275ब्] ऽध्वनि. आहो स्विन् न भविष्यामि. को नु भविष्यामि. कथं नु भविष्यामीति. केन प्रकारेण कया युक्त्येत्य् अर्थः. किं स्विद् इदम् इति. आत्मभावद्रव्यम् अन्वेषते. कथं स्विद् इदम् इति. केन प्रकारेण कया युक्त्येति. तद् एवात्मभावद्रव्यं नावधारयति. के सन्त इति. के वयम् इदानीं विद्यमानाः. के भविष्याम इत्य् एवं नावधारयति. सूत्रे यथाक्रमम् इति. अविद्या संस्काराश् च पूर्वान्तसम्मोहव्यावर्तनार्थं. जातिर् जरामरणं चापरान्तसम्मोहव्यावर्तनार्थं. विज्ञानं यावद् भवश् च मध्यसंमोहव्यावर्तनार्थम् इति. तथा हि सूत्रे एवोक्तम् इति विस्तरः. सूत्रे ऽप्य् एवमेवं दर्शितम् इति. सूत्रेण स्वव्याख्यानं समर्थयति. स न पूर्वांतं प्रतिसरति. किं न्व् अहम् अभूवम् अतीते ऽध्वनीति विस्तरः. स न पूर्वान्तं प्रतिधावति. किं न्व् अहम् अभूवम् अतीते ऽध्वनीति. प्रतीत्यसमुत्पादयथाभूतदर्शनेन नैवम् अतीते ऽध्वनि संमुह्यते इत्य् अर्थः. विस्तरशब्देन स नापरान्तं प्रतिसरति. किं नु भविष्याम्य् अनागते ऽध्वनीति विस्तरः तथा न स मध्यान्तं प्रतिसरति. किं स्विद् इदम् इति विस्तरः.
तृष्णोपादानभवा अपीति. सर्वे तृष्नोपादानभवा अपरांतसंमोहव्यावर्तनार्थं. न मध्यसंमोहव्यावर्तनार्थं. यथा पूर्वम् उपदिष्टं विज्ञानं यावद् भवश् चेति. [तिब्. 276अ] का पुनर् अत्र युक्तिर् इत्य् आह. तस्यैव ह्य् एते हेतव इति. यस्माद् अपरान्तस्यैवैते हेतव इति.
(इइइ.26) क्लेशकर्माश्रयत्वाद् इति. विज्ञानादीनि सप्तांगानि वस्तून्य् अधिष्ठानानि क्लेशकर्मणाम् इत्य् अर्थः. फलं तथेति. सप्तैवांगानि विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि अविद्यासंस्काराणां फलानि. जातिर् जरामरणं च तृस्णोपादानभवानां फलानि. पंच हेतुभूतानीति. अविद्यासंस्कारतृष्णोपादानभवाः. कर्मक्लेशस्वभावत्वाद् इति. अविद्यातृष्नोपादानानि क्लेशस्वभावानि. संस्कारा भवश् च कर्मस्वभावाः.
वस्तुनः पंचधाभेदाद् इति. विज्ञाननामरूपषडायतनस्पर्शवेदना इति. क्लेशस्य च द्विधेति. तृष्णोपादानम् इति. अनागते ऽध्वनि फलं संक्षिप्तं द्विधाभेदाद् इति. जातिर् जरामरणम् इति. अतीते ऽध्वनि हेतुः संक्षिप्तः एकमुखक्लेशोपदेशात्. अविद्यामुखक्लेशोपदेशाद् इत्य् अर्थः. न पुनर् अनागते ऽध्वनि फलम् एवं पंचधा विशालितं. अतीते चाध्वनि नैवं द्विधा हेतुर् विशालित इति.
(इइइ.27) यस्माद् उपदर्शितो ऽत्र भगवतेति. कः.
क्लेशात् क्लेश
इत्य् एवमादिको [तिब्. 276ब्]
भवंगानाम् अयं नयः.
ततो वस्त्व्
इति. ततः क्रियायाः.
ततः पुनर्
वस्त्व्
इति. ततो वस्तुनः वस्तु.
क्लेशाश् च जायन्त
इति. वस्तुन इत्य् अधिकृतं. जायन्त इत्य् अत्रेतिकरणो ऽध्याहार्यः. वस्तुनः क्लेशाद् वेति ज्ञापितम् इति. इति क्लेशो वस्तुन उत्पद्यमानो दृष्टो वेदनायास् तृष्णेति. क्लेशाद् अपि तथा क्लेशो दृष्टस् तृष्णाया उपादानम् इति. अविद्या च पूर्वान्तसर्वक्लेशस्वभावाख्याता. तद् यद्य् उपादानं तृष्णायास् तद् उत्पद्यते इति गम्यते. अथ तृष्णा तद्वस्तुन उत्पद्यत इति गम्यते. तस्माद् अविद्या क्लेशस्वभावा सती वस्तुनः क्लेशाद् वेति ज्ञापितं भवति. जरामरणं चतुरंगस्वभावं वस्त्व् इति व्याख्यातं. वस्तुनश् चेह क्लेश उत्पद्यमानो दृष्टो वेदनाप्रत्यया तृष्णेति. तस्मात् ततः क्लेशो भावी भविष्यतीति ज्ञापितं भवति. नात्र पुनः किम्चिद् उपसंख्येयम् एवं ज्ञापितत्वात्. कथं पुनर् एवं नयो दर्शित इति गम्यत इत्य् आह. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात्. अन्यथा हि किम् अस्य सामर्थ्यम् स्याद् इति. यद्य् अयं यथोक्तो नयो न स्यात्.
क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः
वस्तु क्लेशाश् च जायन्त
इत्य् एतावद् एव ब्रूयात्. अविद्याप्रत्ययाः संस्कारा यावज् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः [तिब्. 277अ] संभवन्तीति इदं न ब्रूयात्. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति. समुदय उत्पाद इत्य् अनर्थांतरं. तस्माद् यथोक्तप्रकाराभिद्योतकम् अस्य सामर्थ्यम् इति गम्यते.

अयोनिशोमनस्कारहेतुकाविद्योक्ता सूत्रांतर इति. सहेतुसप्रत्ययसनिदानसूत्रे. कथम्. अविद्या भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवो ऽविय्द्याया हेतुः कः प्रत्ययः किं निदानं. अविद्याया भिक्षवो ऽयोनिशोमनस्कारो हेतुर् अयोनिशोमनस्कारः प्रत्ययो ऽयोनिशोमनस्कारो निदानम् इति सूत्रे वचनात्. अविद्याहेतुकश् चायोनिशोमनस्कार इति. सूत्रान्तर उक्त इत्य् अधिकृतम्. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति सूत्रे वचनात्. किम् अर्थं तस्येहावचनं. कथं न भवांगान्तरं भवतीत्य् अत आह. स चेहाप्य् उपादानान्तर्भूतत्वाद् उक्तो भवतीति. स इत्य् आविलो मनस्कारः. ( अभिध्-क्-व्य् 289 ) इहेति प्रतीत्यसमुत्पादसूत्रे. कथम् [तिब्. 277ब्] उक्तः. उपादानान्तर्भूतत्वात्. तथा ह्य् उपादानं भोगानां प्राप्तये क्लेशसमुदाचारावस्था. तत्र चायोनिशोमनस्कारो विपरीतचेतस आभोगो ऽन्तर्भूत इत्य् उक्तो भवति. अतो नास्त्य् अहेतुकत्वम् अविद्यायाः. न चांगान्तरम् उपसंख्यातव्यं द्वादशेभ्यो ऽविद्यादिभ्यः. न चानवस्थाप्रसंगो ऽविद्याहेतुकत्वाद् अयोनिशोमनस्कारस्य. इत्य् अपर इति. स्थविरो वसुबन्धुर् आचार्यमनोरथोपाध्याय एवम् आह. आचार्य आह. कथम् इति विस्तरः. कथम् अयोनिशोमनस्कारस्योपादाने ऽन्तर्भावः. न ह्य् अयोनिशोमनस्कार उपादानस्वभावः. यदि संप्रयोगतः. यद्य् अयोनिशोमनस्कार उपादानेन संप्रयुज्यते इत्य् अतो भवतास्योपादाने ऽन्तर्भाव इष्यते. तृष्णाविद्ययोर् अपि प्रतीत्यसमुत्पादांगयोस् तस्यायोनिशोमनस्कारस्यान्तर्भावः प्राप्नोति. टृष्णाविद्याभ्याम् अपि ह्य् असौ संप्रयुज्यत इति. ततश् चैवं वक्तव्यं स्यात्. स चेहाप्य् अविद्यातृष्नोपादानान्तर्भूतत्वाद् उक्तो भवतीति. न त्व् एवं वक्तव्यं. स चेहाप्य् उपादानान्तर्भूतत्वाद् उक्तो भवतीति. नैवम् उपादानान्तर्भावावधारणं कर्तव्यम् इत्य् अभिप्रायः. सत्य् अपि चान्तर्भाव इति. असंभवंतम् अप्य् अन्तर्भावम् अभ्युपेत्य ब्रूमः. कथम् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विज्ञापितं भवति. [तिब्. 278अ] न हि तथा सूत्रे वचनम् अस्ति. यदि ह्य् अन्तर्भावेनेति विस्तरः. यदि यस्माद् उपादाने ऽन्तर्भवत्य् अयोनिशोमनस्कारः. तस्माद् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विज्ञापितं भवति. न च तदंगान्तरं वक्तव्यं. उपादानवचनाद् एव तत्सिद्धेः. तृष्णाविद्ये अपि तर्ह्य् उपादाने ऽन्तर्भवतह्. अतस् तयोर् अपि तत्रान्तर्भावाद् अंगान्तरत्वं शक्यम् अकर्तुम्. उपादानवचनाद् एव तत्सिद्धेः. उक्ते च पृथक्तृष्णाविद्यांगे. तस्माद् अपरिहार एषः.
अन्यः पुनर् आहेति भदन्तश्रीलातः. अयोनिशोमनस्कारो हेतुर् अविद्याया उक्तः सूत्रान्तर इति. सहेतुसप्रत्ययसनिदानसूत्रे. अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदानेति विस्तरेण. स चापीति विस्तरः. स चाप्य् अयोनिशोमनस्कारः स्पर्शकाले निर्दिष्टः. कथम् इत्य् आह. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति. स्पर्शकालो यो ऽयं चक्षुर्विज्ञानोत्पत्तिकालः. आविलो मनस्कारः अयोनिशः प्रवृत्तत्वान् मोहजत्वाद् वा. मोहाज् जातो मोहज इति. अविद्यासंस्पर्शजं वेदितम् इति. अविद्यासंप्रयुक्तात् स्पर्शाज् जातं अविद्यासंस्पर्शजं वेदितं. यत्र वेदितम् अविद्यासंस्पर्शजम्. [तिब्. 278ब्] अवश्यं तत्राविद्या संप्रयुज्यते. न हि वेदितम् असंप्रयुक्तम् अविद्यया तृष्णाहेतुर् भवतीति. तद् एवं स्पर्शकाले भवन्न् अयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति. ज्ञापितम् इदं भवत्य् ( अभिध्-क्-व्य् 290 ) अयोनिशोमनस्कारहेतुकाविद्येति. अतो नास्त्य् अहेतुकत्वम् अविद्यायाः. अयोनिशोमनस्कारहेतुकत्वात्. न चांगान्तरम् उपसंख्येयं द्वादशभ्यो ऽन्यत्. यस्मात् स्पर्शकाले भवन्न् अयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति. न चाप्य् अनवस्थाप्रसंगः. तस्याप्य् अयोनिशोमनस्कारस्य पुनर् मोहजवचनात्. आविलो मनस्कारो मोहज इति. तद् एतच् चक्रकम् उक्तं भवति. अयोनिशोमनस्काराद् अविद्या. अविद्यायाश् चायोनिशोमनस्कार इति.
एवं पुनः परिहारम् आचार्यः सदोषं पश्यंस् तस्य दोषस्याभिव्यक्त्यर्थं प्रसंगम् आरभते. तत् तर्हीति विस्तरः. तद् यथोक्तम् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विस्तरेण सूत्रतो युक्त्या वा. तर्हीति अर्थान्तरविवक्षायां. इदानीमर्थ इति भगवद्विशेषः. एतद् अन्यत्र सूत्र उक्तम् इह पुनः प्रतीत्यसमुत्पादसूत्रे वक्तव्यं. न वक्तव्यम् इति [तिब्. 279अ] भदन्तश्रीलातः. कया युक्त्येति पृष्टः. भदन्तश्रीलात आह. न हीति विस्तरः. अर्हताम् अस्ति वेदना. न च सा तृष्णायाः प्रत्ययीभवतीति. सविद्यैव वेदना तृष्णाप्रत्यय इति गम्यते. न चाविपरीतः स्पर्शः क्लिष्ताया वेदनायाः प्रत्ययीभवतीति प्रकृतं. न च पुनर् निरविद्यस्यार्हतो विपरीतः स्पर्श इति. स्पर्शो ऽपि साविद्य एवेति गम्यते. यो वेदनायाः प्रत्यय उक्तः प्रतीत्यसमुत्पादसूत्रे. अविद्या चास्य स्पर्शस्य हेतुर् इति गम्यते. इत्य् अनया युक्त्या पृअतीत्यसमुत्पादसूत्रे साविद्यस्पर्शप्रत्यया वेदना. साविद्यवेदनाप्रत्यया च तृष्णेति गम्यते. अतो युक्त्या यथोक्तया. स चापि स्पर्शकाले निर्दिष्ट इति विस्तरेणात्र प्रतीत्यसमुत्पादे सिद्धं भवत्य् अयोनिशोमनस्कारो हेतुर् अविद्याया इति. अत्र चोद्यते. यदि तर्हि निरविद्या वेदना तृष्णायः प्रत्ययो न भवतीत्यादिवचनेन स्वगतयैव युक्त्या अयोनिशोमनस्कारो हेतुर् अविद्याया अविद्या चायोनिशोमनस्कारस्य हेतुर् इति गम्यते. किम् सूत्रान्तरापाश्रयेणाविद्यायोनिशोमनस्कारयोर् अन्योन्यहेतुकत्वप्रदर्शनेन प्रयोजनम् इति. अत्रोच्यते. सत्यम् अस्त्य् एतत्. किं तु युक्तिमात्रम् इदं प्रतीत्यसमुत्पादसूत्रे. न कण्ठोक्तिः. अतः सूत्रान्तरे कण्ठोक्त्येयं [तिब्. 279ब्] युक्तिर् व्यवस्थाप्यत इति तत् सूत्रान्तरोपन्यासप्रयोजनम् अवगंतव्यं. अतिप्रसंग एवं प्राप्नोतीति शास्त्रकारः. कथम् अतिप्रसंग इत्य् आह. अविद्यास्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णेति सूत्रान्तरे निर्दिष्टं. न च निरविद्यवेदितस्यार्हतो वेदना तृष्णायाः प्रत्ययो भवति. न चाविपरीतः स्पर्शः क्लिष्टाया वेदनायाः. न च निरविद्यस्यार्हतो विपरीतः स्पर्श इत्य् अनया युक्त्या एतद् अप्य् अंगद्वयं स्पर्शवेदनाख्यं इह प्रतीत्यसमुत्पादसूत्रे ऽनुच्यमानम् अप्य् अन्यत्रोपदिष्टत्वाद् गम्यते इत्य् एतस्याप्य् अंगद्वयस्यावचनं प्राप्तं. तथा सूत्रान्तर उपदिष्टं. स पुण्यांश् चेत् संस्कारान् अभिसंस्करोति ( अभिध्-क्-व्य् 291 ) पुण्योपगम् अस्य विज्ञानं भवति. एवम् अपुण्योपगम् आनिंज्योपगं च. न च निरविद्यसंस्कारस्यार्हतः पुण्योपगं विज्ञानं यावद् आनिंज्योपगं विज्ञानम् इति. एतद् अपि संस्कारांगं युक्त्या सिद्धं. न वक्तव्यम् अत्रेति प्राप्तं. तथा जातिम् अन्तरेण जरामरणं न भवतीति युक्त्या गम्यत इति. जात्यंगं न वक्तव्यं स्यात्. इत्यादिप्रसंगः प्राप्नोति.

अचोद्यम् एव त्व् एतद् इति विस्तरेणाचार्यः स्वमतम् आह. कथं परलोकाद् इहलोक इति विस्तरः. तत्राविद्यासंस्काराभ्याम् [तिब्. 280अ] इहलोकः सम्बध्यते. स चेहलोको विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि. तृष्णोपादानभवैः परलोकः संबध्यते. स च परलोको जातिर् जरामरणं च. इत्य् एतावतो ऽर्थस्यात्र प्रतीत्यसमुत्पादसूत्रे विनेयेभ्यो विवक्षितत्वात्. एतस्य चार्थस्य पूर्वम् एवोक्तत्वात्.
पूर्वापरन्तमध्येषु संमोहविनिवर्तय
इत्य् अनेन उक्तत्वात्. अचोद्यम् एव त्व् एतत् विस्तरेण यावन् न चापरिपूर्णो निर्देश इत्य् अभिसम्बन्धः.
उभयं हि सर्वे संस्कृता धर्मा इति. त्रैयध्विकाः सर्वे संस्कृता धर्माः प्रतीत्यसमुत्पादः. अत एव च प्रतीत्यसमुत्पन्ना इति न कश्चिद् विशेषः. कथं तावद् अकृता इति. भाविन्या संज्ञया यथानागताः संस्कृता उच्यन्ते. तथा प्रतीत्यसमुत्पन्ना इत्य् अभिप्रायः. आभिसंस्कारिकया चेतनयेति. सर्वचेतनानां स्वलक्षणम् अभिद्योतयन्न् आभिसंस्कारिकयेत्य् आह. सा हि विपाकाभिसंस्करणाद् आभिसंस्कारिका. तया चेतितत्वात् प्रणिहितत्वात्. देवो भविष्यामि मनुष्यो भविष्यामीत्य् एवमादि. अतो ऽनागताः संस्कृता उच्यन्ते. न तु भाविन्या संज्ञयेति तम् अभिप्रायं विहन्ति. अनास्रवाः कथम् इति. ये सास्रवा अनागता एवं चेतयितुं युज्यन्ते. [तिब्. 280ब्] ये त्व् अनास्रवा अनागताः. ते कथं चेतयितुं युज्यंते. चोदक आह. ते ऽपि चेतिताः कुशलया चेतनया. प्राप्तिं प्रति अनास्रवा धर्माः प्राप्येरन्न् इति. निर्वाणे ऽपि प्रसंग इति. निर्वाणम् अपि संस्कृतत्वं प्रसज्यते. प्राप्तिं प्रति चेतितत्वान् निर्वाणं प्राप्येतेति. तद् एवम् अनेनार्थेनानागतानां संस्कृतत्वव्यवस्थापने दोष इति विध्यंतरम् उपन्यस्यते. तज्जातीयत्वाद् इति विस्तरः. यथा न च तावद् रूप्यते यद् अनागतं रूपं रूप्यमाणरूपजातीयत्वाद् रूपम् इत्य् अतिदेशः. तथा प्रतीत्यसमुत्पन्नधर्मजातीयत्वाद् अनागता अपि धर्माः प्रतीत्यसमुत्पन्ना इत्य् अतिदेश एषाम् अनागतानां भवतीति.
(इइइ.28अब्) हेतुफलभावाद् इति. यस्मात् तद् एवांगं हेतुस् तद् एव फलं. न चैवं सत्य् अव्यवस्थानं भवतीति. पारापारवत्. हेतुफलवद् इति. नाव्यवस्थितः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पन्नश् च भिन्नापेक्षत्वात्. हेतुफलवत् ( अभिध्-क्-व्य् 292 ) पितृपुत्रवद् वा. तत्र हेतुफलं. तद्यथा बीजांकुरादि. यथा यद् अपेक्ष्य हेतुर् व्यवस्थाप्यते. न तद् अपेक्ष्य फलं. यद् अपेक्ष्य फलं व्यवस्थाप्यते. न तद् अपेक्ष्य हेतुः. किं तर्हि. फलम् [तिब्. 281अ] अपेक्ष्य हेतुर् व्यवस्थाप्यते. हेतुं चापेक्ष्य फलम् इति. यथा च यम् अपेक्ष्य पिता. न तम् अपेक्ष्य पुत्रः. यम् अपेक्ष्य पुत्रः. न तम् अपेक्ष्य पिता. किं तर्हि. तत्पुत्रम् अपेक्ष्य पितेति. पितरं चापेक्ष्य पुत्र इति. न च तद् अव्यवस्थितं. तद्वद् एतत्.
किलेत्य् असंभावनायां. प्रथमा कोटिर् अनागता धर्मा इति. अन्यधर्महेतुत्वात् प्रतीत्यसमुत्पादः समुत्पद्यते ऽस्माद् इति कृत्वा. न प्रतीत्यसमुत्पन्नाः अनुत्पन्नत्वात्. द्वितीयार्हतश् चरमा इति. उत्पन्नत्वात्. ततः फलानुत्पत्तेश् च. तृतीया तदन्य इति. अर्हतश् चरमेभ्यो ऽन्ये ऽतीतप्रत्युत्पन्ना धर्माः. चतुर्थ्य् असंस्कृता इति. तत्फलाभावाद् अनुत्पत्तिमत्त्वाच् च.

किं खल्व् एता इष्टय उच्यन्त इति. आवस्थिकः प्रतीत्यसमुत्पादः स्यात् प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना इत्य् एवमाद्याः. पूर्वन्ते ऽज्ञानम् इति. यस्माद् अविद्यैवोक्ता नान्ये स्कन्धाः. तस्माद् अविद्यैवांगम् इति. नीतार्थम् एतद् इति दर्शयति. नीतार्थम् इति विभक्तार्थं. हस्तिपदोपमा सूत्रं. संति च तत्रान्ये ऽपि रूपादय इति. तेषु केशरोमादिषु. न पृथिवीधातुमात्रम् एवेति. [तिब्. 281ब्] एवम् अत्रापि यथाप्रधानं निर्देशः स्याद् इति. एवम् अत्रापि प्रतीत्यसमुत्पादसूत्रे. द्वादशसु पंचस्कंधिकास्व् अवस्थासु यत्र यस्य प्राधान्यं. तत्र तस्यतस्य निर्देशः स्यात्. अविद्याप्रधानायाम् अविद्येति निर्देशः स्यात्. संस्कारादिप्रधानासु अवस्थासु संस्कारादीनां निर्देशः स्यात्. संति च तत्राण्ये ऽपि रूपवेदनादयो धर्मा इति. न हि तत्रेति विस्तरः. न हि तत्र सूत्रे केशादयः पृथिवीधातुना निर्दिश्यन्ते. केशादयः कतमे पृथिवीधातुर् इति. यत एषां केशादीनां अपरिपूर्णो निर्देशः स्यात्. सन्ति हि तत्रान्ये ऽपि रूपादय इति. रूपादिस्वभावा अपि केशादयो न केवलं पृथिवीधातुस्वभावा इति. अपि तु केशादिभिर् एव पृथिवीधातुर् निर्दिश्यते. पृथिवीधातुः कतमः. केशरोमाणीति. न च केशादीन् अभ्यतीत्याप्य् अतिक्रम्याप्य् अस्ति पृथिवीधातुर् आध्यात्मिक इति. संपूर्ण एवास्य पृथिवीधातोर् निर्देशः. एवम् इहाप्य् अविद्यादीनां एवम् इहापि सूत्रे ऽविद्यासंस्कारविज्ञानादीनां परिपूर्ण एव निर्देशो न सावशेषः. अश्रुसिंघाणकादिष्व् इति. अश्रुसिंघाणकादीनि न तत्र सूत्रे पठ्यन्ते. तस्मान् न तद्गतः पृथिवीधातुर् उक्त इति सावशेषः एवेत्य् [तिब्. 282अ] दर्शयति. भवतु वा तथैवेति विस्तरः. यथा पृथिवीधातोर् अश्रुसिंघाणकादिष्व् अवशेषम् अनुक्तत्वात्. तथैवाविद्यावशेषम् अस्तु यदि शक्यते ( अभिध्-क्-व्य् 293 ) दर्शयितुम्. न शक्यते दर्शयितुम् इति मन्यमानो यदिशब्दं प्रयुंक्ते. पूर्वान्ते ऽज्ञानम् अपरान्ते ऽज्ञानं मध्यान्ते ऽज्ञानं बुद्धे ऽज्ञानं धर्मे ऽज्ञानं संघे ऽज्ञानम् इत्य् एवमादीनां सर्वेषाम् अज्ञानस्थानानाम् उक्तत्वात्. जात्यंतरस्य तु वेदनादेर् अविद्यायां किं कृतः प्रक्षेपः पंचस्कंधिकावस्थाविद्येति. न हि वेदनादीनां अविद्यात्वं युज्यत इति. भावाभावनियम इति. यस्य भावाभावयोर् यस्य भावाभावौ यथासंख्येन नियतौ तद् एवांगं. अविद्याभावे संस्काराणां भावस् तदभावे तेषाम् अभाव इत्य् अविद्यैवांगं. न वेदनादि. न हि वेदनादिसद्भावे ऽर्हतां संस्कारा भवंति. ये विज्ञानांगजनका इत्य् अर्थः. तस्माद् आह. सत्य् अपि च पंचस्कंधके संस्कारा न भवंतीति विस्तरः. सत्य् अपि च पंचस्कंधके ऽर्हत्त्वावस्थायां. पुण्योपगं यावद् आनिंज्योपगं च विज्ञानं न भवति. प्रतिसंधिविज्ञानं न भवतीत्य् अर्थः. तांताम् उपपत्तिं गच्छतीत्य् उपगं. पुण्योपगं विज्ञानं पुण्योपगं. [तिब्. 282ब्] एवं यावद् आनिंज्योपगं. तथा सत्य् अपि पंचस्कंधके निरविद्यावस्थायां तृष्णोपादानादयश् च न भवन्तीति. यथानिर्देश एव सूत्रार्थः. यथासंकीर्तितानाम् एवाविद्यादीनां ग्रहणम् इत्य् अर्थः. अतो विद्यमाना अन्ये स्कंधा न प्रत्ययाः संस्कारादीनाम् इति न ते ऽंगं. एवं मया श्रुतम् इत्यादि. भगवान् राजगृहे विहरति गृध्रकूटे पर्वते भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः. संबहुलैश् च बोधिसत्त्वैर् इति. आयुषमां च्छारिपुत्रो मैत्रेयं बोधिसत्त्वम् एतद् अवोचत्. शालिस्तम्भम् अवलोक्य भिक्षुभ्यः सूत्रम् इदम् उक्तं. यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति. स धर्मं पश्यति. यो धर्मं पश्यति. स बुद्धं पश्यतीत्य् उक्त्वा भगवांस् तूष्णींबभूव. तद् अस्य भगवता भाषितस्य सूत्रस्य को ऽर्थः. प्रतीत्यसमुत्पादः कतमः. धर्मः कतमः. बुद्धः कतमः. कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यतीत्यादि. तत्र प्रतीत्यसमुत्पादो नाम इदम् अविद्येत्यादि. इदं चाभिसंधायेदम् उक्तं तत्र सूत्रे. उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवेयं धर्मता धर्मस्थितिता धर्मनियामता [तिब्. 283अ] तथता अवितथता अनन्यतथता भूतता सत्यता तत्त्वम् अविपरीतताविपर्यस्ततेत्य् एवमादि भगवन्मैत्रेयवचनं. यद्य् अनागता न प्रतीत्यसमुत्पन्ना इति. यद् उक्तं प्रथमा कोटिर् अनागता धर्मा इति. सूत्रं विरुध्यत इति. जातिजरामरणयोः प्रतीत्यसमुत्पन्नत्वं न स्यात्. उक्तं च अविद्या यावज् जातिजरामरणम् इति. अथ वेति विस्तरः. अथ जातिजरामरणांगे ऽपि प्रतीत्यसमुत्पन्ने इष्टे. तयोर् ( अभिध्-क्-व्य् 294 ) अनागताध्वव्यवस्थानं नैष्टव्यम् इति कृत्वा. त्रिकाण्डव्यवस्था भिद्यते.
पूर्वापरान्तयोर् द्वे द्वे मध्ये ऽष्टाव्
इति.
निकायान्तरीया इत्य् आर्यमहीशासकाः. उत्पादस्य संस्कृतलक्षणत्वाद् इति. यो ऽयम् उत्पादः प्रतीत्यसमुत्पाद इति निकायान्तरीयैर् नित्यः परिकल्प्यते. स संस्कृतलक्षणम् उक्तं. त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि. संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वम् अपीति. संस्कृतलक्षणत्वाच् चानित्यम् इत्य् अभिप्रायः. ब्रूयास् त्वं लक्षणम् अपि नित्यं भवतीति. अत आह. न च नित्यं भावांतरम् अनित्यस्य लक्षणं युज्यत इति. न हि निर्वाणम् [तिब्. 283ब्] आकाशं वा कस्यचिद् अनित्यस्य लक्षणं भवति. प्राग् उत्पत्तेर् हि लक्ष्यस्य तद् अस्तीति कस्य लस्क्षणं. विनष्टे च लक्ष्ये कस्येति न युज्यते. उत्पादश् चेति विस्तरः. उत्पादश् च नामाभूत्वाभावलक्षणः. सौत्रान्तिकनयेनोत्पत्तिर् धर्मस्य तदानींतनैव भवतीति. कोऽस्योत्पादस्यासंस्कृतस्य त्वन्मतेनाविद्यादिभिर् अभिसंबन्धः. यथौदनेन पाकस्यास्ति सम्बन्धः कर्तृक्रियालक्षण इत्य् ओदनस्य पाक इत्य् उच्यते. न ह्य् आकाशरूपयोर् अभिसम्बन्ध उत्पत्त्युत्पत्तृलक्षणो ऽस्ति. येन रूपस्याकाशम् इत्य् उच्यते. एवं को ऽस्यविद्यादिभिर् अभिसंबन्धः. यतस् तेषाम् अविद्यादीनां प्रतीत्यसमुत्पाद इत्य् उच्यते. पदार्थश् चासम्बन्धो भवतीति. प्रत्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः इति पदार्थः. स कथं नित्यश् च नाम प्रतीत्यसमुत्पादश् चेइत्.
प्रतिः प्राप्त्यर्थ इति. प्राप्तिद्योतक इत्य् अर्थः. इतिर् गताव् इति. धात्वर्थः. परिणामाद् इति. अनेकार्था हि धातवः. प्रतिश् चोपसर्गः प्राप्तिद्योतक इत्य् अयम् इतिर् गत्यर्थम् उज्झित्वा प्राप्त्यर्थम् आपद्यते. पदिः सत्तार्थ इति. पदिः सत्तायाम् इति. तेनेति कारणेन. पूर्वकालायां क्रियायां क्त्वाविधेर् इति. समानकर्तृकयोः पूर्वकाल इति वचनात्. न चासौ पूर्वम् उत्पादात् [तिब्. 284अ] कश्चिद् अस्तीति सौत्रांतिकमतेन. न चाप्य् अकर्तृकास्ति क्रियेति. कर्तरि सति क्रियाया व्यवस्थापनात्. आह चात्रेति. एतद् वैयाकरणचोद्यं श्लोकेनोपनिबध्नात्य् आचार्यः.

यदि पूर्वम् उत्पादात् प्रत्येति
प्राप्नोत्य्
असत्त्वान् न युज्यते.
न ह्य् अविद्यमानः कर्ता स्नानादिक्रियां कुर्वन् दृष्ट इति.
सह चेद्
अथ मन्यसे प्रतीत्यक्रियां समुत्पादक्रियां च सह करोतीत्य् एवं.
क्त्वा न सिद्धो ऽत्र
क्त्वाप्रत्ययः. कस्मात्.
पूर्वकालविधानतः
पूर्वस्मिं काले विधानं क्त्वाप्रत्ययस्य. समानकर्तृकयोः पूर्वकाल इति वचनात् क्त्वाप्रत्ययो न सिद्धो भवेत्. पुनर् उत्पत्ताव् इति. उत्पन्नस्य पुनर् उत्पत्तौ कल्प्यमानायाम् अनवस्थाप्रसंगः. द्वितीये तृतीये क्षणे पुनःपुनर् उत्पद्यत इत्य् अनिष्ठाप्रसंगः. अथानागत इति विस्तरः. अलब्धात्मको ऽनागत इति कथम् असतो ऽलब्धात्मभावस्य कर्तृत्वं सिध्यति. अकर्तृका वा क्रिया कथं सिध्यति. यत एवम् अतो यदवस्थ उत्पद्यते शाब्दिकस्य शब्दविदः. तदवस्थ एव मम प्रत्येति. किमवस्थश् चेति. कावस्थास्येति किमवस्थः. उत्पादाभिमुखो ऽनागत इति. न सर्वो ऽनागत उत्पद्यते. किं तर्हि. उत्पादाभिमुखः. उत्पादे ऽभिमुखः. उत्पित्सुर् इत्य् अर्थः. तदवस्थ एव [तिब्. 284ब्] उत्पादाबिमुखावस्थ एव. प्रत्येतीत्य् उच्यते. अनिष्पन्नं चेदम् इति विस्तरः. शाब्दिकानाम् इदम् शाब्दकीयं कर्तुः क्रियायाश् च व्यवस्थानं. कस्मात्. भवितुः कर्तृरूपकल्पिताद् अर्थात् क्रियारूपकल्पिताया भूतेर् अन्यत्वदर्शनात्. तस्माद् अच्छलं भवत्य् उत्पद्यते प्रत्येतीत्य् एवमादिषु.
आह चात्रेति. तत्सिद्धान्तेन प्रक्रियां दर्शयति.
असन्न् उत्पद्यते यद्वद्
इति विस्तरः. असन्न् अभावः अलब्धात्मकः उत्पद्यते यथा.
प्रत्येत्य् अपि तथा.
असन्न् इत्य् अर्थः.
अथ सन्
अथ लब्धात्मक उत्पद्यत इति कल्प्यते.
उत्पन्न उत्पद्यत इत्य् अनिष्ठा.
उत्पन्नो ऽपि पुनर् उत्पद्यते इत्य् अनवस्थानाद् अन्यदनिष्ठा प्राप्नोति. तथा हि सांख्यमतानुसारेण सत एवोत्पादा नासत इति तद् एतद् अधिकृत्य ब्रवीति.
सन् पुरापि वेति.
वाशब्दो मतविकल्पार्थः. यदि भवतां सन्न् उत्पद्यत इति पक्षः. अस्माकम् अपि सन्न् उत्पद्यते. वैभाषिकनयेनानागतानाम् अस्तित्वात्. सौत्रान्तिकनयेन च जनकधर्मबीजसद्भावात्. ततः किम् इदम् उच्यते. न चासौ पूर्वम् उत्पादात् कश्चिद् अस्ति. यः प्रतीत्योत्तरकालम् उत्पद्यत इति. अथ वा यदि तर्हि सन्न् एवोत्पद्यते. पूर्वम् एव घटो मृत्पिण्डादीन् अनपेक्ष्य स्वतः ( अभिध्-क्-व्य् 296 ) प्रसिद्धो ऽस्तीति प्राप्नोति. अपरे पुनर् व्याचक्षते.
अनिष्ठा [तिब्. 285अ] सन् पुरापि वेति.
अथ मा भूद् अनिष्ठेति. असन्न् उत्पद्यते इति प्रतिपद्यते. पुनस् तद् एवोपतिष्ठते.
असन्न् उत्पद्यते यद्वत् प्रत्येत्य् अपि तथेति
सिद्धो नः पक्ष इति पूर्ववद् वाच्यं. यद् अप्य् उक्तम् एकस्य हि कर्तुर् द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर् भवतीति तद् व्यभिचारयन्न् आह.
सहभावे ऽपि च क्त्वास्तीति
विस्तरः. समानकालायाम् अपि क्रियायां क्त्वाविधिर् दृष्टः. तद्यथा
दीपं प्राप्य तमो गतम्
इति. अत्र न पूर्वं तमो दीपं प्राप्नोति पश्चाद् गच्छति विनश्यति इत्य् अर्थः. किं तर्हि. तस्मिन्न् एव काले तमो दीपं प्राप्नुवद् विनश्यति. अथ मतं. समनंतरम् एव तन् न युगपद् इति. अतः पुनर् इदम् उच्यते.
आस्यं व्यादाय शेते वेति.
न ह्य् असौ पूर्वं मुखं व्याददाति विदारयति पश्चाच् छेते. किं तर्हि. यो मुखं व्याददच् छेते. स मुखं व्यादाय शेत इत्य् उच्यते. अथ मतं. पूर्वम् असौ मुखं व्याददाति. पश्चाच् छेते इति. अत आह.
पश्चाच् चेत् किं न सम्वृते.
यः कश्चिन् मुखं व्यादापानंतरं च संवृत्य शेते. स मुखं व्यादाय शेत इत्य् उच्येत न चोच्यते. तेन ज्ञायते. यो मुखं व्याददच् छेते. स मुखं व्यादाय शेते इत्य् उच्यते इति.
अन्ये पुनर् इति. भदन्तश्रीलातः प्रतिर् वीप्सार्थ इति. नानावाचिनाम् अधिकरणानां सर्वेषां क्रियागुणाभ्यां व्याप्तुम् इच्छा वीप्सा. ताम् अयं प्रतिर् द्योतयति. [तिब्. 285ब्] इतौ गतौ साधव इत्याः. तत्र साधुर् इति यत्प्रत्ययः. इतौ विनष्टौ साधवः. अनवस्थायिन इत्य् अर्थः. समुपसर्गः समवायार्थं द्योतयति. उत्पूर्वः पदिः प्रादुर्भावार्थः. धात्वर्थपरिणामात्. तां तां सामग्रीं प्रतीति. प्रतेर् वीप्सार्थतां दर्शयति. इत्यानां विनश्वराणां समवायेनोत्पादः प्रतीत्यसमुत्पादः. न कश्चिद् धर्म एक उत्पद्यते सहोत्पादनियमात्. रूपादीनां
कामे ऽष्टद्रव्यको ऽशब्दः परमाणुः
यावच्
चित्तचैत्ताः सहवश्यम्
इति नियमात्. एषा तु कल्पनेति विस्तरः. प्रतिर् वीप्सार्थ इत्य् एवमादिका कल्पनात्रैव ( अभिध्-क्-व्य् 297 ) प्रतीत्यसमुत्पादसूत्रे युज्यते. इह कथं भविष्यति चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इति. न हि प्रतीत्यानां चक्षूंषि प्रतीत्यचक्षूंषीति समासः संभवत्य् अर्थायोगात्. चाक्षुर् हि प्रतीत्य प्राप्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इत्य् अयम् अर्थो गम्यते. तेन तदवस्थम् एव तच् चोद्यं न युक्त एष पदार्थ इति विस्तरेण यद् उक्तं. कथम्. एकस्य हि कर्तुर् द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर् भवति. स्नात्वा भुंक्ते इति. न च पूर्वम् उत्पादाच् चक्षुर्विज्ञानम् अस्ति. यच् चक्षुः पूर्वं प्रतीत्य रूपाणि चोत्तरकालम् उत्पद्यते. न चाप्य् अकर्तृका क्रियेति.

अवधारणार्थं पर्यायद्वयम् आह. अस्मिन् सतीत्य् एतावत्य् [तिब्. 286अ] उच्यमाने. न केवलम् अविद्यायां सत्यां संस्कारा भवंति. अन्यस्मिन्न् अपि सतीति गम्येत. यथा चक्षुषि सति चक्षुर्विज्ञानं भवतीति. न चक्षुष्य् एव सतीत्य् अवधार्यते. तेन रूपे ऽपि सतीति गम्यते. द्वितीयेन तु पर्यायेणस्योत्पादाद् इदम् उत्पद्यते इत्य् अनेन पूर्वपर्यायम् एवावधारयति. अस्यैवोत्पादाद् इदम् उत्पद्यते. नान्यस्माद् इति. अंगपरंपरां वा दर्शयितुम् इति. अस्मिन्न् अंगे सति. अविद्यांगे सतीदं संस्कारांगं भवति. अस्य पुनर् अंगस्य संस्कारांगस्योत्पादाद् इदं विज्ञानांगम् उत्पद्यत इति. एवम् इतरेषाम् अप्य् अंगानां परंपरा वक्तव्या. जन्मपरंपरां वा. किं. दर्शयितुं पर्यायद्वयम् आहेति वर्तते. साक्षाद् इति विस्तरः. साक्षात् पारंपर्येण संतत्याविद्यादीनां प्रत्ययभावं दर्शयितुं पर्यायद्वयम् आह. अस्मिन् सतीदं भवतीति साक्षात् प्रत्ययभावं दर्शयति. अस्योत्पादाद् इदम् उत्पद्यत इति पारंपर्येण. तत्र साक्षाद् यदाविद्यायाः समनंतरं क्लिष्टाः संस्कारा उत्पद्यन्ते. पारंपर्येण तु यदा कुशला उत्पद्यंते. कुशलावस्थायाम् अविद्याया अभावात्. किं च. अविद्या संस्काराणां साक्षात् प्रत्ययो विज्ञानादीनां पारंपर्येण. तद् उक्तं भवति. अविद्यांगे सति संस्कारांगं भवत्य् अस्य संस्कारांगस्योत्पादाद् इदम् उत्पद्यते विज्ञानांगं साक्षाद् अविद्याप्रत्ययं पारंपर्येणेति. [तिब्. 286ब्] एतत् सर्वम् आचार्यमतं. प्रतिषेधार्थम् इत्य् अपर इति स्थविरवसुवर्मा. नासति हेतौ भावो भवतीत्य् अहेतुवादप्रतिषेधार्थं प्रथमेन पर्यायेण. नित्यहेतुवादप्रतिषेधार्थं न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात् किंचिद् उत्पद्यत इति द्वितीयेन. आचार्य आह. अस्यां तु कल्पनायाम् इति विस्तरः. पूर्वपदस्य ग्रहणम् अनर्थकम् इति. अस्मिन् सतीदं भवतीत्य् अस्य. उभयवादप्रतिषेधसिद्धेर् इति. अस्योत्पादाद् इदम् उत्पद्यते इत्य् अनेनैव पर्यायेण. हेतोर् अस्तित्वम् उत्पत्तिमतश् च हेतुत्वम् इत्य् उभयस्याहेतुत्वनित्यहेतुत्वलक्षणस्य वादस्य प्रतिषेधसिद्धितः पूर्वपर्यायस्यानर्थक्यं प्राप्नोति. संति तर्हि केचिद् इति विस्तरः. सन्ति केचिद् ( अभिध्-क्-व्य् 298 ) वादिनः. य आत्मनि सत्य् आश्रयभूते अविद्याया आश्रयभूते संस्कारादीनां संस्कारविज्ञाननामरूपादीनां भावम् उत्पादं कल्पयंति. अविद्यादीनां चाविद्यासंस्कारादीनां उत्पादात् तदुत्पत्तिं संस्काराद्युत्पत्तिं कल्पयन्तीत्य् अधिकृतं. अतः कारणात् तेषां वादिनां कल्पनां पर्युदासयितुं प्रतिषेद्धुम् इदं निर्धारयां बभूवाम्रेदयां बभूव. किम् इत्य् आह. यस्यैवोत्पादात् यावत् स्कंधस्य समुदयो भवतीति. यस्यैवोत्पादाद् यद् उत्पद्यते. तस्मिन्न् एव सति तद् भवति. नान्यस्मिन्न् आत्मनि. यद् उताविद्याप्रत्ययाः संस्काराः. [तिब्. 287अ] अविद्यायाम् एव सत्यां संस्कारा भवंति. नान्यस्मिन् यावद् एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवति. कथं. जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंति. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति. जात्याम् एव सत्यां जरामरणादयः संभवंति. नान्यस्मिन्न् आत्मनि. अन्यथा ह्य् अस्मिन् सतीदं भवतीत्य् उच्यमाने वक्तारस् स्युः. आत्मनि सत्य् आश्रयभूते अविद्यादिषु सत्सु संस्कारादयो भवन्तीति. अथ पुनर् द्वितीयम् एव पर्यायं ब्रूयाद् अस्योत्पादाद् इदम् उत्पद्यत इति. एवम् अपि तथैव कल्पेयुः. सत्यम् अविद्यादीनाम् उत्पादात् संस्कारादय उत्पद्यन्ते. आत्मनि तु सत्य् आश्रयभूत इति. अतः पर्यायद्वयेन निर्धारयति. यस्योत्पादाद् यद् उत्पद्यते. तस्मिन्न् एव सति तद् भवति. नान्यस्मिन् आत्मनि सत्य् आश्रयभूत इति. आचार्या इति पूर्वाचार्याः. अप्रहीणज्ञापनार्थम् उत्पत्तिज्ञापनार्थं च. अविद्यायां सत्याम् अप्रहीणायां संस्कारा भवंति. न प्रहीयन्त इति प्रथमेन पर्यायेण दर्शयति. तस्या एवोत्पादाद् उत्पद्यन्त इति द्वितीयेन दर्शयति. एवं यावज् जात्यां सत्यां अप्रहीणायां जरामरनादयो भवंति. न प्रहीयंते. तस्या एवोत्पादाद् उत्पद्यन्त इति. स्थित्युत्पत्तिसंदर्शनार्थम् इत्य् अपर [तिब्. 287ब्] इति भदन्तश्रीलातः. तदर्थं पर्यायद्वयम् आहेति. यावत् कारणस्रोतस् तावत् कार्यस्रोतो भवतीति प्रथमेन पर्यायेण. कारणस्यैवोत्पादात् कार्यम् उत्पद्यत इति द्वितीयेन. उत्पादे त्व् अधिकृत इति. प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामीत्य् अधिकृते. कः प्रसंगः कः प्रस्तावः स्थितिवचनस्य. अस्मिन् सतीदं भवतीत्य् अनेन यावत् कारणस्रोतस् तिष्ठति तावत् कार्यस्रोतस् तिष्ठतीति एवम् अस्य स्थित्यर्थो वर्ण्यत इति. भिन्नक्रमं च भगवान् किम् अर्थं आचक्षीत्. उत्पत्तिर् हि प्रथमं भवति. पश्चात् स्थितिः. उत्पत्तिप्रतिबद्धा स्थितिर् इति कृत्वा. अस्योत्पादाद् इदम् उत्पद्यत इति पूर्वं वक्तव्यं स्यात्. पश्चाद् इदम् अस्मिन् सतीदं भवति. न त्व् एवम्. अतो नायम् अर्थ इति. पुनर् आहेति.
स एव भदन्तश्रीलातः. आचार्यः प्रत्याह. एष चेद् इति विस्तरः. अस्मिन् सतीदं न भवतीत्य् एवावक्ष्यद् इति. नात्रैवाभावनिर्देशो युक्तरूप इति दर्शयति. पूर्वं च कार्यस्योत्पादम् इति. अस्योत्पादाद् इदम् उत्पद्यत इति पूर्वम् अवक्ष्यत्. उत्पादपूर्वकत्वाद् ( अभिध्-क्-व्य् 299 ) विनाशस्य.

सूत्र उक्तं जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्तीति जरामरणसंगृहीता एवं ते. नांगांतरम् इत्य् अवगन्तव्यं. [तिब्. 288अ] तत्र सत्त्वासत्त्वसंख्यातस्य विषयस्य परिणामाद् आत्मभावपरिणामाच् चैते भवंति. दौर्मनस्यसंप्रयुक्तो वितर्कः शोकः. शोकसमुत्थितप्रलापः परिदेवः. दुःखदौर्मनस्ये व्याख्याते. विच्छिन्नवेगं दौर्मनस्यम् उपायासः. शोकपरिदेवपूर्वकः श्रम उपायास इत्य् अपरे. बालो हीति विस्तरः. बालः पृथग्जनः संस्कारमात्रम् इति. मात्रग्रहणम् आत्मप्रतिषेधार्थम्. अप्रजानन्न् इत्य् आवेणिकीम् अविद्यां दर्शयति. आत्मदृष्ट्य् अस्मिमानाभिनिविष्टः प्रतिष्ठितः कायादिभिः कायवाङ्मनोभिस् त्रिविधं कर्म पुण्यापुण्यानिंज्यलक्षणम् आरभते. आनिंज्यम् इति. इगिः प्रकृत्यन्तरं तस्यैवैतद् रूपं. एजतेर् एतत् रूपम् आनेंज्यम् इति वा पाठः. आयतिसुखार्थं पुण्यम् इति. अनागतजन्मसुखार्थं. किं. कामावचरं कुशलं कर्म. सुखदुःखासुखार्थम् आनिंज्यम् इति. रूपारूप्यावचरं कुशलं. सुखार्थम् आ तृतीयाद् ध्यानात्. तस्माद् ऊर्ध्वम् अदुःकासुखार्थं. ऐहिकसुखार्थम् अपुण्यम् इति. इहसुखापेक्षया तत् कृतं नायतिसुखापेक्षयेत्य् अर्थः. कर्माक्षेपवशाद् यथोक्तं कर्मावेधवशात्. तांतां गतिं नरकादिकां गच्छति. ज्वालागमनयोगेन. यथा दीर्घा तृणानुसक्ता ज्वाला [तिब्. 288ब्] गच्छतीत्य् उच्यते. तथा विज्ञानसंततिभिर् अन्तराभवसम्बन्धाद् अन्तराभवसंबन्धेनातिविप्रकृटदेशाम् अपि तांतां गतिं गच्छति. एवं च कृत्वेति. यदि संस्कारप्रत्ययं अन्तराभवप्रतिसंधिचित्तम् उपादाय यावद् उपपत्तिक्षणः सर्वासौ विज्ञानसंततिः षण्णां विज्ञानकायानां संस्कारप्रत्ययं विज्ञानम् अभिप्रेतं तद् उपपन्नं भवति. विज्ञानांगनिर्देशे विज्ञानांगस्य तृतीयस्य निर्देशे. विज्ञानं कतमत्. षड् विज्ञानकाया इति. अन्यथा हि यदि षण्णां विज्ञानकायानां संततिर् नाभिप्रेता स्यात्. संस्कारप्रत्ययं विज्ञानं प्रतिसंधिचित्तम् एवाभिप्रेतं स्यात्. अत्र षड् विज्ञानकाया इति नोक्तं स्यात्. एवं तु वक्तव्यं स्यात्. विज्ञानं कत्मत्. मनोविज्ञानम् इति. न हि प्रतिसंधिक्षणे पंचविज्ञानकायसंभवो ऽस्ति. मनोविज्ञानेनैव प्रतिसंधिबन्धात्.
छेदसंधानवैराग्यहानिच्युत्युपपत्तयः
मनोविज्ञ्ण एवेष्टा
इति वचनात्. विभंग एवं निर्देशाद् इति. प्रतीत्यस्मुत्पादसूत्रे नामरूपविभंग एवं निर्देशात्. नाम कतमत्. चत्वारो ऽरूपिणः स्कन्धा इति. रूपं कतमत्. यत्किम्चिद् रूपम् इति विस्तरेण. यावद् यच् चेदं रूपं यच् च नाम. ( अभिध्-क्-व्य् 300 ) तद् उभयं नामरूपम् इत्य् उच्यत [तिब्. 289अ] इति. कामतृष्णेति. कामावचरी तृष्णा. रूपतृष्णेति. या सुखायां त्रिषु ध्यानेषु. अदुःखासुखायां चतुर्थे. अदुःखासुखायाम् आरूप्यतृष्णेति. आरूप्यावचरी. कामादीनाम् उपादानम् इति. काम्यन्त इति कामाः. गुण्यन्त इति गुणाः. कामा एव गुणाः कामगुणाः. के पुनस् ते. रूपशब्दगन्धरसस्प्रष्टव्यानि. दृष्टयो द्वाषष्टि यथा ब्रह्मजाल इति. ब्रह्मजालसूत्रदर्शनेन ता दृष्टयो बोद्धव्याः. कुक्कुरगोव्रतादीनीति. आदिशब्देन मृगव्रतादीनि गृह्यन्ते. निर्ग्रन्थादीनाम् इति. आदिशब्देन पाण्डरभिक्ष्वादीनां ग्रहणं. ब्राह्ंअणेत्यादिविस्तरः. ब्राह्मणानां दण्डाजिनं पाशुपतानां जटाभस्म. परिव्राजकानां त्रिदण्डमौण्ड्यं आदिशब्दद्वयेन कापालिकादीनां कपालधारणादीनि गृह्यन्ते. तत्समादानं शीलव्रतोपादानं. आत्मेति वादो ऽस्मिन्न् इत्य् आत्मवादः. यथोक्तं. ये केचिच् छ्रमणा ब्राह्मणा वा आत्मेति समनुपश्यन्तः. [तिब्. 289ब्] समनुप्श्यंति सर्वे त इमान् एव पंचोपादानस्कन्धान् इति विस्तरः. आत्मदृष्ट्यस्मिमानाव् इत्य् अपर आत्मवादम् आहुः. आत्मनो ह्य् असत्त्वाद् आत्मवादोपादानाम् इति वादशब्दोपन्यासे प्रयोजनं दर्शयति. बालो ऽश्रुतवान् पृथग्जन इति. यस्य पूर्वाभ्यासवासनानिर्जातोपपत्तिलाभिका प्रज्ञा नास्ति. स बालः. यस्यागमजा नास्ति. सो ऽश्रुतवान्. यस्याधिगमजा सत्याभिसमयजा नास्ति. स पृथग्जनः. प्रज्ञप्तिम् अनुपतित इति. यथा संज्ञा यथा च व्यवहारः. तथानुगत इत्य् अर्थः. तेषाम् इति कामादीनां. छन्दराग इति. अप्राप्तेषु विषयेषु प्रार्थना छन्दः. प्राप्तेषु रागः. तेषु कामादिषु यः छन्दरागः. तद् उपादानं. न तु
यथोक्ता एव साविद्या द्विधा दृष्टिविवेचनाद्
उपादानानीत्य्
अभिप्रायः. पौनर्भविकम् इति पुनर्भवफलं. इदम् अत्र भवस्येति. इदम् अत्र भवस्य स्वलक्षणं स्वभाव इत्य् अर्थः. विज्ञानावक्रान्तियोगेनेति. ज्वालागमनयोगेनान्तराभवसंबन्धाद् अनागतं जन्म जातिः पंचस्कंधिका नामरूपस्वभावत्वात्. जरामरणं यथा निर्दिष्टं सूत्र इति. जरा कतमा. यत् तत् खालित्यं [तिब्. 290अ] पालित्यं इति विस्तरः. मरणं कतमत्. या तेषांतेषां सत्त्वानां तस्मात्तस्माच् च्युतिश् च्यवनम् इति विस्तरः. केवलस्यात्मरहितस्येत्य् अर्थं दर्शयति. महत इत्य् अनाद्यन्तस्य. दुःखस्कन्धस्येति दुःखसमूहस्य. स एव तु वैभाषिकन्यायो यः पूर्वम् उक्त ( अभिध्-क्-व्य् 301 ) इति. द्वादश पंचस्कंधिका अवस्था द्वादशंगानीति.
(इइइ.28च्द्) या न विद्या. चक्षुरादिष्व् अपि प्रसंग इति. चक्षुःश्रोत्रादीन्य् अविद्या प्रसज्यन्ते. तान्य् अपि हि न विद्येति कृत्वा. न किंचिद् स्याद् इति. यदि विद्याया अभावो ऽविद्या अद्रव्यं स्याद् इत्य् अर्थः. न चैतद् युक्तम् इति. प्रत्ययभावेनोपदेशात्. तद्विपक्ष इति. विरोधे नञ् इति दर्शयति. न तु यः कश्चिद् अन्यो मित्राद् इति. न पर्युदासमात्र इति दर्शयति. नापि मित्रभाव इति. नाभावार्थ इति दर्शयति. अधर्मानार्थकार्यादयश् चेति. आदिशब्देनायुक्त्यव्यवहारामनुष्यादयो गृह्यंते. धर्मादिप्रतिद्वन्द्वभूता इति. धर्मार्थकार्ययुक्तिव्यवहारमनुष्यादिप्रतिद्वन्द्वभूताः. न तु ये केचिद् अन्ये धर्मादिभ्यश् [तिब्. 290ब्] चक्षुरादयः. नापि धर्माद्यभावः. एवम् अविद्यापीति विस्तरः. कुत एतत्. प्रत्ययभावेनोपदेशात्. अविद्याप्रत्ययाः संस्कारा इति. न चाविद्याया अन्येषां चक्षुरादीनां प्रत्ययभावेनोपदेशो युक्तः. अर्हतां संस्कारसंभवात्. न चाभवस्य. शशविषाणादीनां अप्रत्ययत्वात्.
(इइइ.29) संयोजनं यावद् योगश् चाविद्योच्यत इति. अविद्यासंयोजनं यावद् अविद्यायोग इति सूत्रेषूच्यते. न चाभावमात्रं तथा भवितुम् अर्हतीति. न संयोजनादि भवितुम् अर्हतीत्य् अर्थः. न चापि चक्षुरादयस् तथा भवितुम् अर्हंतीत्य् अधिकृतं. सा च दृष्टिस्वभावेति नाविद्या युज्यत इति. दृष्ट्यविद्ययोः संयोजनादित्वेन पृथक्पाठात्. या तर्हि न दृष्टिर् इति. या क्लिष्टा प्रज्ञा रागादिसंप्रयुक्ता.
दृष्टेस् तत्संप्रयुक्तत्वाद्

इति. अविद्यासंप्रयुक्तत्वाद् इत्य् अर्थः. कथं च दृष्टिर् अविद्यया संप्रयुक्ता. यस्माद् अविद्यालक्षणो मोहः क्लेशमहाभूमौ पठ्यते. क्लेशमहाभूमिकाश् च सर्वे ऽपि महाभूमिकैः सह संप्रयुज्यन्त इति. दृष्ट्या सत्कायदृष्ट्यादिकया प्रज्ञास्वभावया अविद्या संप्रयुज्यत इति गम्यते. तस्मान् नाविद्या प्रज्ञा. द्वयोः प्रज्ञाद्रव्ययोर् [तिब्. 291अ] असंप्रयोगात्. अविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीति. एतद् उदाहरणं. येनाविद्या प्रज्ञाया अर्थान्तरभूतेति. न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति. प्रज्ञोपक्लेशदेशनायां प्रज्ञाया अर्थान्तरभूता अविद्या. उपक्लेशत्वेन निर्दिष्टत्वात्. रागवत्. अत आह. यथा चित्तस्यान्य इति विस्तरः. व्यवकीर्यमाणा न विशुध्यतीति. अन्तरान्तरोत्पद्यमानया क्लिष्टया प्रज्ञया व्यवकीर्यमाणा क्षणान्तरोत्पन्ना कुशला प्रज्ञा न विशुध्यतीत्य् अर्थः. किं तद् अवश्यं रागपर्यवस्थितम् इति. रागसंप्रयुक्तम् इत्य् अर्थः. उपहतं तु तत् तथा रागेणेति. न समुदाचरता रागेण. वासनाधानेन तद् उपहतं भवति. तां वासनां तद् दौष्ठुल्यं व्यावर्तयतो योगिनः तच् चित्तं विमुच्यते. एवम् अविद्योपहता क्लिष्टा प्रज्ञा न शुध्यतीति. अतः प्रज्ञा चाविद्या च न दोष इति दर्शयति. को हि परिकल्पयन् ( अभिध्-क्-व्य् 302 ) वार्यत इति. परिकल्पनामात्रम् एतद् आगमनिरपेक्षम् इति कथयति.
यो ऽपि मन्यते सर्वक्लेशा अविद्येति. भदन्तश्रीलातः. एवं मन्यते. अविद्येति सर्वक्लेशानाम् इयं सामान्यसंज्ञा. [तिब्. 291ब्] न रागादिक्लेशव्यतिरिक्ताविद्या नामास्तीति. कस्मात् एवं मन्यते. बुद्धसूत्रात्. न च प्रजानाति न च प्रजानातीत्य् आयुष्मन् महाकौष्ठिल तस्माद् अविद्योच्यत इति. सत्कायदृष्ट्यादयो ऽपि क्लेशा अज्ञानस्वरूपा विपरीतग्रहणत इति. तस्याप्य् अत एवेति विस्तरः. तस्य भदन्तस्यात एव प्रतिषेधवचनाद् व्युदासः. प्रतिषेधस् तन्मतस्येत्य् अध्याहार्यं. कथम् इत्य् आहा. सर्वक्लेशस्वभावा हि सती संयोजनादिषु पृथङ् नोच्येत. अनुनयसंयोजनादिष्व् अविद्यासंयोजनम् इति पृथङ् नोच्येत. शेषसंयोजनाव्यतिरेकात्. रागो बंधनं द्वेषो बन्धनम् इत्य् उक्त्वा मोहो बन्धनम् इति. कामरागानुशय इत्यादि उक्त्वा अविद्यानुशय इति. ओघेष्व् अविद्यौघ इति. योगेष्व् अविद्यायोग इति पृथङ् नैवोच्येत. कस्मात्. परस्परासंप्रयोगात्. न हि दृष्टिर् दृष्ट्या संप्रयुज्यते. रागो वा रागेण. दृष्ट्यादिसंप्रयुक्ता चाविद्योक्ता. क्लेशमहाभूमिकत्वेन महाभूमिकसंप्रयोगनियमात्. चित्तम् अपि चाविद्योपक्लिष्टम् एवोक्तं भवेत्. [तिब्. 292अ] रागोपक्लिष्टं चित्तं न विमुच्यत इति नोक्तं भवेत्. अविद्योपक्लिष्टत्ववचनेनैव रागाद्युपक्लिष्टत्वसिद्धेः. अथ मतं विशेषणार्थं तथोक्तम् इति. रागलक्षणयाविद्ययोपक्लिष्टचित्तं न विमुच्यत इति. प्रज्ञायाम् अपि विशेषणं कर्तव्यं स्यात्. रागेण प्रतिघेन मानेन वेति मा भूत् सर्वक्लेशग्रहणप्रसंग इति. इष्ट इति चेत्. चित्ते ऽपि न विशेषणं कर्तव्यं स्यात्. अविद्योपक्लिष्टं चित्तं न विमुच्यत इत्य् एवम् एव तु वक्तव्यं स्यात्.
संप्रख्यानं प्रज्ञा ज्ञानम् इत्य् एको ऽर्थः. तथैव दोशो यथाविद्यायाम् इति. अथासंप्रख्यानम् इति को ऽर्थः. यन् व संप्रख्यानं. चक्षुरादिष्व् अपि प्रसंगः. संप्रख्यानाभावस् तर्हि. एवं सति न किं चित् स्यात्. न चैतद् युक्तम् इति. अथ संप्रख्यानविपक्षभूतं धर्मान्तरं. तद् इदं तथैव न ज्ञायते. यथैवाविद्या. किं तद् इति. एवंजातीयको ऽपीति विस्तरः. एवंजातीयकः कर्मप्रभावित इत्य् अर्थः. तस्माद् अविद्यायाः कर्मणः कारित्रेण स्वभावो विज्ञातव्यः. अस्त्य् असौ कश्चिद् धर्म यो विद्याविपक्ष इति विद्याविपक्षत्वं तस्याः कर्मेति. [तिब्. 292ब्] तद्यथा चक्षुः कतमत्. यो रूपप्रसादश् चक्षुर्विज्ञानस्याश्रय इति. ननु च रूपप्रसाद इति स्वभावप्रभावितो ऽस्य निर्देश इति. न. अप्रत्यक्षत्वात्. नित्यं चक्षुर्विज्ञानानुमेयत्वाच् च. अस्मीति सत्त्वमयतेति. अविज्ञातार्थम् एतत्. न तेन स्थविरेणास्याभिधेयम् अवधारितं. मयता पुनः सौत्रांतिकैर् अविद्या प्रकारभिन्ना वर्ण्यते. मानो वा. यासौ सूत्र उक्तेति विस्तरः. मयतानाम् इत्य् अविद्यानां प्रकारभिन्नानां ( अभिध्-क्-व्य् 303 ) नामेति ग्रहणं. तृष्णादीनां पृथगुपदेशाद् इति भदन्तधर्मत्रातस्याभिप्रायः. आचार्य आह. अस्त्य् एषा मयता. अस्ति सूत्रे उक्ता मयता. तत्र जातिनिर्देशाद् एकवचनं. सा त्व् अविद्येति. कुतः कारणाद् एतत् परिच्छिद्यते. साविद्येति. भदन्तधर्मत्रातः स्वाभिप्रायं विवृणोति. यत एषा नान्यः क्लेशः शक्यते वक्तुम् इति. कस्मान् न शक्यते. तृष्णादृष्ट्यस्मिमानानां पृथगुक्तेः. आचार्य आह. ननु चान्यो मान एव स्याद् इति. अस्मिमानाद् अन्यः षण्णाम् अन्यतमः स च मयता. नविद्येत्य् अभिप्रायः. अत्र तु पुनर् विचार्यमाणे बहु वक्तव्यं जायत इति. अत्र पुनर् विचार्यमाणे ऽविद्यांगे [तिब्. 293अ] बहुर् अयं ग्रन्थो जायते. यथोक्तम् इति. तस्मात् तिष्ठत्व् एतद् एतावद् एवास्त्व् इति. अथ वान्यो माण एव स्यात्. न पुनर् अविद्येति. कुत एतद् इत्य् एवमादिके पुनर् विचारे क्रियमाणे. उत्तरप्रत्युत्तरवचनेन बहु वक्तव्यं जायते. तस्मात् तिष्ठत्व् एतद् अलं विचारान्तरेणेत्य् अर्थः.
(इइइ.30अ) अथ नामरूपम् इति. अविद्यांगनिर्देशानन्तरं संस्कारांगं निर्देष्टव्यं. तदनु विज्ञानांगं. किम् इत्य् एतद् अतिक्रम्योपन्यस्ते. एतद् अर्थम् अत्र वक्ष्यत्य् आचार्यः.
उक्तं च वक्ष्यते चान्यद्
इति. रूपं विस्तरेणोक्तम् इति.
रूपं पंचेन्द्रियाण्य् अर्थाः पंचविज्ञप्तिर् एव चेत्य्

अत्र. नामेन्द्रियार्थवशेनेति विस्तरः. नामवशेन इन्द्रियवशेन अर्थवशेन चार्थेषु रूपादिषु नमतीति नाम. कतमस्य नाम्नो वशेनेति. नामद्वैविध्यात् पृच्छति. आचार्यस् त्व् आचष्टे. यद् इदं लोके प्रतीतिम् इति विस्तरः. गौर् अश्व इति. समुदायप्रत्यायकम्. रूपं रस इति. एकार्थप्रत्यायकं. तद् एतद् वेदनादिस्कंधचतुष्कं नामशब्देनोच्यते. यस्मात् तन्नामवशेन संज्ञाकरणवशेनार्थेष्व् अप्रत्यक्षेष्व् अपि वा नमति प्रवर्तते. अस्य नाम्नो ऽयम् अर्थ इति. इन्द्रियार्थवशेन तु प्रत्यक्षेषु रुपादिषु नमति उत्पद्यते इत्य् अर्थः. [तिब्. 293ब्] नाम्नि चाप्य् अर्थवशेन नमति. अस्यार्थस्येदं नामेति. एतस्य पुनः केन नामत्वम् इति. एतस्य संज्ञाकरणलक्षणस्य नाम्नः केन कारणेन नामत्वं. तेषु तेष्व् अर्थेषु तस्य नाम्नो नमनाद् इति. यस्मात् तेष्व् अर्थेषु चतुःस्कन्धलक्षणं नाम तन् नाम नमयति प्रवर्तयति. तस्माद् एतस्य नामत्वं. नमयतीति नामेति कृत्वा. इह निक्षिप्त इति विस्तरः. मरणकाले निक्षिप्ते काये उपपत्त्यन्तरे नमनाद् गमनाद् अरूपिणो वेदनादयः स्कन्धा नामेत्य् उच्यन्ते. यथोक्तं. मृतस्य खलु कालं गतस्य ज्ञातय इमं पूतिकायम् अग्निना वा दहंति उदके वा प्लावयन्ति भूमौ वा निखनन्ति वातातपाभ्यां वा परिशोषं परिक्षयं पर्यादानां गच्छति. यत् पुनर् इदम् उच्यते. चित्तम् इति ( अभिध्-क्-व्य् 304 ) वा मन इति वा विज्ञानम् इति वा श्रद्धापरिभावितं शीलत्यागश्रुतप्रज्ञापरिभावितं. तद् ऊर्ध्वगामि भवति विशेषगाम्य् आयत्यां स्वर्गोपगम् इति.
(इइइ.30ब्) षडायतनम् उक्तम् इति.
तद्विज्ञानाश्रया रूपप्रसादाश् चक्षुरादयः.
विज्ञानं प्रतिविज्ञप्तिर् मनआयतनं च तद्
इत्य् अत्र. मनैन्द्रियस्य पुनर् निरुद्धस्य अनागतेन धर्मेण रूपादिना उत्पत्स्यमानेन वर्तमानेन मनोविज्ञानेन कथं संनिपातः. यः कार्यकारणभावः. कार्यं मनोविज्ञानं. कारणं मनैन्द्रियं. धर्मश् च रूपादिः. [तिब्. 294अ] एककार्यार्थो वेति. एककार्यम् एवार्थ एककार्यार्थः. एककार्यत्वम् इत्य् अर्थः. कथम् एककार्यार्थ इत्य् आह. सर्वे च ते त्रयो ऽपि मनैन्द्रियादयः स्पर्शोत्पत्तौ प्रगुणा अनुकूला भवन्तीति.
षट्षट्को धर्मपर्याय इति. षट्षट्कान्य् अस्मिन्न् इति षट्षत्कः. आध्यात्मिकबाह्यविज्ञानस्पर्शवेदनातृष्णाषट्कसंभवात्. षट् स्पर्शकाया इति ज्ञापकं. अनन्यत्वे हि सतीन्द्रियार्थविज्ञानेषूक्तेषु स्पर्शकायवचनं पुनर् उक्तं स्यात्. ततश् च षट्षट्कत्वं हीयते. मा भूद् धर्मायतनाद् वेदनातृष्णयोः. पृथग्भाव इति. यदि पृथङ्निर्देशात् पृथग्भावो भवेत्. वेदनातृष्णे अपि धर्मायतनात् पृथङ् निर्दिष्टे. तयोर् अपि वेदनातृष्णयोर् धर्मायतनात् पृथग्भावः स्यात्. न च तयोः पृथग्भाव इष्यते. धर्मायतनान्तर्भावात्. नैष दोष इति विस्तरः. नैष दोष इति यथोक्तस् तद्व्यतिरिक्तस्यापि वेदनातृष्णाव्यतिरिक्तस्यापि धर्मायतनस्य संज्ञादिस्वभावस्य भावाद् अस्तित्वात्. न चैवम् इति विस्तरः. न चैवं भवतस् त्रयानां संनिपातः स्पर्श इत्य् एवं ब्रुवाणस्य [तिब्. 294ब्] स्पर्शभूताद् इन्द्रियार्थविज्ञानत्रयाद् अन्यद् अस्पर्शभूतं त्रयम् इन्द्रियार्थविज्ञानत्रयम् अस्ति. यस्य शेषस्यात्र सूत्रे ग्रहणं स्यात्. षट् स्पर्शकाया इति प्रयोजनवशाद् अपृथग्भावे ऽपि स्पर्शभूतात् त्रयात्. तस्माद् अपृथग्भावे ऽपि वेदनातृष्णयोः पृथङ्निर्देशो युक्तो विनेयकार्यवशात्. न तु भवतः संनिपातमात्रस्पर्शवादिनः केनचिद् अपि प्रयोजनेन षट् स्पर्शकाया इति पृथङ्निर्देशो युक्तः. यस्मात् षट् स्पर्शकाया इति वचनेनेन्द्रियार्थविज्ञानत्रयम् उक्तम् इति तदवचनं प्राप्तम् इत्य् अतः षट्षट्को धर्मपर्याया इति न सिध्येत्. मम तु सिध्यति. स्पर्शवेदनातृष्णाषट्कवचने ऽपि तद्व्यतिरिक्तधर्मायतनाद्यर्थेन्द्रियविज्ञानषट्कसंभवात्. तस्मात् षट् स्पर्शकाया इति पृथङ्निर्देशाद् अस्ति चित्तसंप्रयुक्तं स्पर्शाख्यं धर्मान्तरम् इति सिद्धं. अथ ब्रूयाद् असौ. इन्द्रियार्थाव् अविज्ञानकौ निर्दिष्टाव् अस्मिन् सूत्रे. षड् आध्यात्मिकानि षट् बाह्यानीति वचनात्. अत इन्द्रियविषयविज्ञनत्रयं स्पर्शभूतम् इत्य् अस्य शेषस्य ज्ञापनार्थम् अत्र ग्रहणं स्यात्. षट् ( अभिध्-क्-व्य् 305 ) स्पर्शकाया इति. अस्य समाधेः प्रतिषेधार्थम् इदम् आरभ्यते. यद्य् अपीन्द्रियार्थौ स्याताम् अविज्ञानकौ. तत्सभागाव् इत्य् अर्थः. न तु पुनर् विज्ञानम् अनिन्द्रियार्थकं. अवश्यं हि विज्ञानं सेन्द्रियार्थकं भवति. तच् च विज्ञानम् अपदिष्टम् अत्र षड् विज्ञानकाया इति. [तिब्. 295अ] तस्मात् त्रिषु निर्दिष्टेषु इन्द्रियार्थविज्ञानेषु षड्विज्ञानकायवचनेन पुनः स्पर्शग्रहणम् अनर्थकं प्राप्नोति. षट् स्पर्शकाया इति. अतः संनिपाताद् अन्यः स्पर्श इति सिद्धं. अत्र भदन्तश्रीलात आह. न खल्व् इति विस्तरः. पूर्वोत्पन्ने चक्षूरूपे कारणं. न तु विज्ञानसहोत्पन्ने. नापि सर्वचक्षुर्विज्ञानम् इति. पश्चाद् उत्पन्नं पूर्वयोश् चक्षूरूपयोः. न सहोत्पन्नयोः. अतो येषां कार्यकारणभावः. ते विज्ञानेन्द्रियविषयाः स्पर्शभावेन व्यवस्थिताः. षट् स्पर्शकाया इत्य् अस्मिन् सूत्रे. तद् इदम् अन्यथा न ज्ञापितं स्यात्.
न वा एवं पथन्ति. वै इति निपातः. न वै एवं पठन्तीत्य् अर्थः. कथं पुनः पठन्ति. य एषां धर्माणां संगतेः संनिपातात् समवायाद् उत्पन्नः. स स्पर्श इति पठन्ति. कारणे वा कार्योपचारो ऽयम् इति. संगतौ संनिपाते समवाये कारणे कार्योपचारः स्पर्श इति. यथा
सुखो बुद्धानाम् उत्पाद
इति. अतिबहुविस्तएण प्रकारेण विसर्तुं शीलम् अस्या इति अतिबहुविस्तरप्रकारविसारिणी.
(इइइ.30च्द्) अधिवचनम् उच्यते नामेति. अध्युच्यते ऽनेनेत्य् अधिवचनं. वाङ् नाम्नि प्रवर्तते. नामार्थं [तिब्. 295ब्] द्योतयतीत्य् अधिवचनं नाम. तद् किल नामस्य मनोविज्ञनसंप्रयुक्तस्याधिकं बाहुल्येनालम्बनम्. अतो ऽधिवचनसंस्पर्श इति. स्पर्शः संस्पर्श इत्य् एको ऽर्थः. मनोविज्ञानेन नीलं विजानातीति. अभिधेयं विजानातीत्य् अर्थः. नीलम् इति च विजानातीति. अस्यार्थस्येदं नामेति विजानाति. एक आश्रयप्रभावित इति. प्रथम आश्रयेण प्रभावितः प्रतिघाश्रयः संस्पर्शः प्रतिघस्य वा संस्पर्शः प्रतिघसंस्पर्शः. आलंबनप्रभावित इति. अधिवचनाद् आलम्बनसंस्पर्शः अधिवचने वा संस्पर्शः अधिवचनसंस्पर्श इति.
वचनम् अधिकृत्य वचनम् अवधार्यार्थेषु रूपादिषु मनोविज्ञानस्य प्रवृत्तिः. न पंचानां चक्षुर्विज्ञानादीनां वचनम् अधिकृत्यार्थेषु प्रवृत्तिः. अतस् तद् एवाधिवचनं मनोविज्ञानं वचने प्रवर्तते ऽधिवचनम् इति. तेन संप्रयुक्तस् तस्य वा संस्पर्शस्याधिवचनसंस्पर्शः. तेन चायं द्वितीयः संस्पर्शः संप्रयोगप्रभावित इत्य् उच्यते.
(इइइ.31) विद्याविद्येतरस्पर्शा
इति. विद्याविद्येतरश् च विद्याविद्येतरे. ते एव स्पर्शा
विद्याविद्येतरस्पर्शाः.

विद्याह्वः अविद्याह्वः ताभ्याम् इतरश् चेत्य् अर्थः. विद्येत्य् अनास्रवा प्रज्ञा. अविद्या क्लिष्टम् अज्ञानम्. नैवविद्यानाविद्या या कुशलसास्रवा या चानिवृताव्याकृता प्रज्ञा. [तिब्. 296अ] तत्संप्रयुक्ता एते यथाक्रमं संस्पर्शा वेदितव्याः. पुनर् अविद्यासंस्पर्शस्येति. विस्तरः. अविद्यासंस्पर्शस्य सर्वक्लेशसंप्रयुक्तस्याभीक्ष्णसमुदाचारी नित्यसमुदाचारी एकदेशः. तस्य ग्रहणाद् द्वौ स्पर्शौ भवतो
व्यापादानुनयस्पर्शौ. सुखवेद्यादयस् त्रय
इति. सुखस्य वेदः सुखवेदः. सुखवेदे साधुः सुखवेद्यः. सुखं या वेद्यम् अस्मिन्न् इति सुखवेद्यः. स आदिर् एषाम् इति सुखवेद्यादयः. सुखवेदनादिहितत्वाद् इति. सुखवेदनायै हितः सुखवेदनीयः. प्राक् क्रीताच् छः. वेद्यते तद् वेदयितुं वा शक्यम् इति. वेद्यत इति कर्ममात्रे कृत्य इति दर्शयति. वेदयितुं शक्यम् इत्य् अर्हे कृत्यतृचश् चेत्य् अस्मिन्न् अर्थे कृत्य इति दर्शयति. त एते षोडशेति. चक्षुःसंस्पर्शो यावन् मनःसंस्पर्श इति षट्. पुनः प्रतिघसंस्पर्शो ऽधिवचनसंस्पर्शो विद्यासंस्पर्शो ऽविद्यासंस्पर्शो नैवविद्यानाविद्यासंस्पर्शो व्यापादसंस्पर्शो ऽनुनयसंस्पर्शः सुखवेदनीयो दुःखवेदनीयो ऽदुःखासुखवेदनीयश् च स्पर्श इति षोडश.
(इइइ.32अब्) उक्तः स्पर्शो वेदना वक्तव्ये ति.
ननु च वेदनाप्य् उक्ता
वेदनानुभव
इति. अथोक्तम् अप्य् उच्यते. न तर्हीदं वक्तव्यं. यच् चोक्तं यच् च वक्ष्यमाणं. तन् न वक्ष्यामीति.
उक्तं च वक्ष्यते चान्यद्
[तिब्. 296ब्] इति वाचनात्. प्रकारनिर्देशाद् अदोषः. पूर्वं लक्सणम् उक्तम् इदानीं प्रकार इति.

जाते हीति विस्तरः. जाते हि जन्ये धर्मे धर्मस्य जनकस्य नास्ति सामर्थ्यम् सहोत्पन्नत्वात्. प्रतिज्ञाविशिष्टम् इति. प्रतिज्ञाया अविशिष्टम् एतत् साधनम् इत्य् अर्थः. यदि प्रतिज्ञाविशिष्टं साधनं नेष्यते. अन्योन्यजनकप्रसंगात् ( अभिध्-क्-व्य् 307 ) तर्हि. किं. कथं सहोत्पन्नयोर् जन्यजनकभावः सिध्यतीत्य् अधिकृतम्. अनेन प्रतिज्ञादोष उद्ग्राह्यते. अस्ति सहोत्पन्नयोर् जन्यजनकभाव इति प्रतिज्ञा पूर्वाभ्युपगमविरोधिनीति. इष्टत्वाद् अदोष इति. पुर्वाभ्युपगमं दर्शयति. इष्तम् इदं. सूत्रे त्व् अनिष्टम् इति. इष्टम् इदम् अभिधर्मे
सहभूर् ये मिथःफला
इति. सूत्रे त्व् अनिष्टं. तत् प्रतिपादयन्न् आह. चक्षुःसंस्पर्शं प्रतीत्योत्पद्यते चक्षुःसंस्पर्शजा वेदनेति. सूत्रप्रामाण्येनान्योन्यफलत्वं भंक्त्वा सहोत्पन्नकार्यकारणभावबिभंक्षया आह. जनकधर्मातिक्रमाच् चायुक्तम् इति. जनकस्यायं धर्मः प्रसिद्धो या भिन्नकालता. तद्यथा पूर्वं बीजं पश्चाद् अंकुर इत्यादि. तत्रापि [तिब्. 297अ] पूर्वम् इन्द्रियार्थौ पश्चाद् विज्ञानम् इति. प्रथमक्षणोत्पन्नाव् इन्द्रियार्थौ विज्ञानं तु द्वितीये क्षण इति. यथा तर्हि छायांकुरयोर् इति. किं. सहोत्पन्नयोर् जन्यजनकभावः. उत्पन्न एव ह्य् अंकुरश् छायां जनयति. न प्रथमे क्षणे ऽंकुरो निश्छायो भवति द्वितीये सच्छाय इति. एवं स्पर्शवेदनयोर् अपीति. अनयोर् अपि छायांउकुरयोः पूर्वसामग्री हेतुर् इति शक्यं वक्तुं. सहभूहेतुनिर्देशे त्व् अयम् अर्थ उक्त इति न पुनर् उच्यते.
स्पर्शाद् उत्तरकालं वेदनेत्य् अपर इति भदन्तश्रीलातः. सो ऽसौ त्रयाणां संनिपातः स्पर्श इति. यो ऽयं जनकजनितभावः. वेदना तृतीये क्षणे इति. इन्द्रियार्थक्षणः प्रथमः विज्ञानोत्पत्तिक्षणो द्वितीयो वेदनोत्पत्तिक्षणस् तृतीय इति. न सर्वत्र विज्ञाने वेदना प्राप्नोतीति. विज्ञानक्षणे द्वितीये वेदनाया अभावात्. न च सर्वविज्ञानं स्पर्शः. वेदनाक्षणे तृतीये विज्ञानं न स्पर्शः. पूर्वद्वितीयक्षणयोः स्पर्श एव विधीयते. पूर्वस्पर्शहेतुका ह्य् उत्तरस्पर्शे वेदना. यो ऽयम् इदानीं द्वितीयः क्षणः स्पर्शभावेनोक्तः. तत्र पूर्वस्पर्शहेतुका प्रथमक्षणविज्ञानहेतुका [तिब्. 297ब्] वेदनोत्पद्यते. तत्स्पर्शपूर्विकाप्य् अन्यस्मिन्न् इत्य् एवं सर्वत्र विज्ञाने वेदना प्राप्नोति. सर्वं च विज्ञानं स्पर्श इति. ते च स्पर्शाः सवेदनका इति भिन्नालम्बनयोर् इति विस्तरः. भिन्नम् आलम्बनम् अनयोः. तौ भिन्नालम्बनौ. पूर्वस्य रूपम् आलम्बनम् उत्तरस्य शब्दः तयोर् भिन्नालम्बनयोः पूर्वस्पर्शहेतुका रूपालम्बनस्पर्शहेतुका उत्तरत्र स्पर्शे शब्दालम्बने यद् वेदनोत्पद्यते. इत्य् एतद् अयुक्तं. कथं हि नामेति दोषम् आविष्करोति. अन्यजातीयालम्बनस्पर्शसंभूता रूपप्रकारालम्बनात् स्पर्शात् संभूता वेदना अन्यालम्बना भविष्यति. शब्दालंबना भविष्यति. विधुरकारणत्वात् कार्यस्यासंभावना. यदा हि रूपालम्बनात् स्पर्शात् संभूता वेदना रूपालम्बनैव वेदना भविष्यति. तदा पूर्वस्पर्शहेतुकोत्तरत्र स्पर्शे वेदनेति युक्तं. यदा तु रूपालम्बनात् ( अभिध्-क्-व्य् 308 ) स्पर्शाच् छब्दालम्बना वेदनोत्पद्यते. तदा कथम् एतद् योक्ष्यते. कारणानुरूपं हि लोके कार्यं दृश्यते. अथ मतं रूपालम्बनात् स्पर्शात् संभूता वेदना शब्दालम्बनस्पर्शसंप्रयुक्तापि रूपालम्बना भवतीति. अत इदम् आह. येन वा चित्तेन संप्रयुक्ता. ततो भिन्नालम्बनेति. ततः शब्दालम्बनाच् चित्ताद् भिन्नालम्बना. [तिब्. 298अ] यत उत्पन्ना रूपालम्बना. तेन समालम्बनेत्य् अर्थः. कथं चासौ तेन संप्रयुक्तेत्य् उच्यते. समं प्रयुक्ता हि संप्रयुक्ता. यद्य् अभिन्नाश्रयत्वात् कथं श्रोत्राश्रयोत्पन्ना सती रूपालम्बना भविष्यति. कथं न भविष्यति. चित्तचैत्तानाम् आश्रयेणैकविषयप्रवृत्तत्वात्. तस्माद् अन्यतरालम्बनत्वे ऽपि वेदनाया दोषः. स दोषः प्रदर्श्यते. यदि तावद् रूपालम्बनात् स्पर्शाद् उत्पन्ना वेदना शब्दाद्यालम्बनान्तरम् आलम्बते. स रूपालम्बनः स्पर्शः सुखवेदनीयो यावद् अदुःखासुखवेदनीय इति न प्राप्नोति. एकालम्बनया तु वेदनया तथा निर्देशो युक्त इति. अस्तु तर्हीति विस्तरः. यद्य् एवं दोषो ऽस्तु तर्हि. तस्मिं काले. कस्मिं काले. शब्दालंबनकाले. स्पर्शभूतं विज्ञानम् अवेदनकं. तस्माच् च शब्दालम्बनाद् यत् पूर्वं विज्ञानं सवेदनकं तन् न स्पर्शः. एवं हि निर्दोषं भवतीति. अन्यथा हि यदि पूर्वोत्पन्नं सवेदनकं विज्ञानं स्पर्शः स्यात्. तदैवं स्पर्शप्रत्यया वेदनेति यथोक्तो दोषः स्यात्. पुनः कारणं. किंचिद् विज्ञानम् अवेदनकं. किंचिच् च न स्पर्शः प्रत्ययवैधुर्यात्. विधुरा हि प्रत्यता विप्रतिभन्धेनावस्थिताः. न हि सर्वः समनन्तरप्रत्ययो वेदनाप्रत्ययं स्पर्शभूतं विज्ञानं [तिब्. 298ब्] जनयितुं समर्थ इति. तद् एवं तस्य भिन्नालम्बनं विज्ञानम् एकान्तेनावेदनकं. तदुत्पादकं चास्पर्शभूतं. यदि तु रूपालम्बनाच् चक्षुर्विज्ञानाद् अनन्तरं रूपालम्बनम् एव चक्षुर्विज्ञानम् उत्पद्यते. मनोविज्ञानं वा. तत् सवेदनकं पूर्वोत्पन्नं स्पर्श इति. एवं सतीति. महाभूमिकनियमो भिद्यत इति. स्पर्शवेदनयोः पर्यायेण नियमात्. तिस्रा भूमय इति. सवितर्का सविचारा कामधातुः प्रथमं च ध्यानम्. अवितर्का विचारमात्रा ध्यानान्तरम्. अवितर्का अविचारा द्वितीयाद् ध्यानात् प्रभृति यावद् भवाग्रं. कुशला भूमिः कुशला धर्माः. एवम् अकुशला अव्याकृताः. शैक्षी भूमिः शैक्षस्यानास्रवा धर्माः. अशैक्षी अशैक्षस्यानास्रवा धर्माः. नैव शैक्षीनाशैक्षी भूमिः सास्रवा धर्माः. असंस्कृता इह नोच्यन्ते. चैत्तसम्बन्धात्. तद् य एतस्याम् इति विस्तरः. तद् इति वाक्योपन्यासे. य इति ये चैतसिकाः. एतस्यां सर्वस्यां भूमाव् इति. सवितर्कसविचारायां भूमौ. यावन् नैवशैक्षीनाशैक्ष्यां भूमौ. ते महाभूमिकाः वेदनाचेतनादयो यथोक्ताः. ( अभिध्-क्-व्य् 309 ) ये कुशलायाम् एव भूमौ. [तिब्. 299अ] ते कुशलमहाभूमिकाः श्रद्धादयः. ये क्लिष्तायाम् एव. ते क्लेशमहाभूमिकाः. अविद्यादयो यथोक्ता एव. ते पुनर् यथासंभवम् इति विस्तरः. ते पुनर् महाभूमिकादयः. ये यस्यां संभवन्ति. ते तस्यां पर्यायेण. न तु सर्वे युगपत्. इत्य् अपरे. तद्यथा वेदना सर्वासु भूमिषु भवत्य् अपि न युगपत् संज्ञाचेतनास्पर्शमनस्कारादिभिर् भवति. तथा स्पर्शो वेदनादिभिः.

तथा कुशलायां वितर्कादय इत्येवमादिकं. अपरे पुनर् एवं व्याचक्षते. यथा पंचस्कंधके लिखितं. तथेदं ग्रहीतव्यम् इति. तद्यथा छन्दः कतमः. अभिप्रेतवस्तुन्य् अभिलाषः. अनभिप्रेते नास्ति छन्द इत्य् अभिप्रायः. अधिमोक्षः कतमः. निश्चिते वस्तुनि तथैवावधारणं. स्मृतिः कतमा. संस्तुते वस्तुन्य् असंप्रमोषः. चेतसो ऽभिलपनता. समाधिः कतमः. उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता. प्रज्ञा कतमा. तत्रैव प्रविचयो योगायोगविहितो ऽन्यथा चेत्य् एवमादिः पंचस्कंधकग्रन्थो द्रष्टव्यः. तत्र ह्य् उक्तं पंच सर्वत्रगाः. वेदनासंज्ञास्पर्शमनस्कारचेतनाः. पंच प्रतिनियतविषयाः. छन्दाधिमोक्षस्मृतिसमाधिप्रज्ञा [तिब्. 299ब्] इत्य् एवमादि. अकुशलमहाभूमिकास् तु पाठप्रसंगेनासंहिता इति. सूत्रादिषु पाठात्. कुशलम् अकुशलम् अव्याकृतम् इत्य् एवं पाठप्रसंगेनासंहिताः. अध्यारोपिताः पश्चाद् इत्य् अर्थः. पूर्वं न पठ्यंते स्म. प्रकरणपादे महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश् चेति चतुर्विधा पठ्यन्ते. सहजाता इत्य् उच्यन्ते. न स्पर्शसहजाता इति. अविशेषितत्वाद् एते वेदनादयः परस्परसहजाताः. न तु स्पर्शेनेत्य् अर्थपरिग्रहेण परिहर्तव्यं सूत्रम् इत्य् अर्थः. मैत्रीसहगतम् इति. अयं सहशब्दो नावश्यं युगपद्भावे समनंतरे ऽपि दृष्टः. न हि मैत्र्याः स्मृतिसंबोध्यंगस्य च समवधानम् अस्ति. नैत्र्या एकान्तसास्रवत्वात्. स्मृतिसंबोध्यंगस्य चैकान्तानास्रवत्वात्. तस्माद् अज्ञापकम् एतत्. संदृष्टा इति. सहोत्पन्ना इत्य् अभिप्रायः. तत्र हि सूत्र इति. यत्रैवोक्तं. या वेदना या चेतना या च संज्ञेति विस्तरेण. तत्र सूत्र इत्य् अर्थः. तन् न विज्ञायत इति विस्तरः. किं तावद् अयम् एषां वेदनादीनां आलम्बननियमः आलम्बने नियमः. यद् एवालम्बनं वेदयते. तद् एव चेतयते यावद् विज्ञानं विजानातीति. [तिब्. 300अ] उताहो क्षणनियमः यस्मिन्न् एव क्षणे वेदयते. तस्मिन्न् एव यावद् विजानातीति. वयं ब्रूमः. आलम्बननियमो ऽयम् इति. तस्मान् न सूत्रविरोध इत्य् अभिप्रायः. आचार्य आह. तत्रैव सूत्रे आयुरुष्मणोः साहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियम इति. आयुर् उष्मा च संसृष्टौ. इमौ धर्मौ न विसंसृष्टाव् इति. आयुरुष्मणोः ( अभिध्-क्-व्य् 310 ) सहोत्पन्नतोक्ता भवति. तयोर् अनालम्बनत्वात्. तद् एवं साधितं भवति. अवश्यं सहोत्पन्नानि वेदनासंज्ञाचेतनाविज्ञानानि. तत्र सूत्रे संसृष्टवचनेनोक्तत्वात्. आयुरुष्मवद् इति. तद् कथम् इति विस्तरः. तत् कथं विज्ञानं चास्ति. न च त्रयाणाम् इन्द्रियविषयविज्ञानानां संनिपातः. तस्माद् अवश्यं विज्ञानास्तित्वे संनिपातो ऽभ्युपगन्तव्यः. संनिपातश् च ते स्पर्श इति. तेनेदं ते विरुध्यते. न सर्वविज्ञानं स्पर्श इति. संनिपातो वा न स्पर्श इति. पुनःसंधिकरणं चात्र द्रष्टव्यम् इति. पूर्वत्रासिद्धम् इति सकारलोपस्यासिद्धत्वाद् गुणो न प्राप्नोति. परिहारस् तु. ईषदर्थे ऽयं नञ् द्रष्टव्यः. ईषत्सिद्धम् असिद्धम् इत्य् अतः सिद्धत्वात् सकारलोपस्य गुणो भवति. सैष दाशरथी राम इति यथा.
(इइइ.32च्द्) षट् सौमनस्योपविचारा इति विस्तरः. चक्षुषा रूपाणि दृष्ट्वा सौननस्यस्थानीयानि रूपाणि उपविचरति. श्रोत्रेण शब्दान् श्रुत्वा सौम्ननस्यस्थानीयां शब्दान् उपविचरति. एवं यावन् मनसा धर्मान् विज्ञाय सौमनस्यस्थानीयान् [तिब्. 300ब्] धर्मान् उपविचरति. एवं चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यस्थानीयान्य् उपेक्षास्थानीयानि चेति विस्तरेण योज्यं. त्रयो भविष्यन्तीति. सौमनस्यदौर्मनस्योपेक्षास्वभावत्रैविध्यात्. एक इति. मनोविज्ञानमात्रसंप्रयोगात्. षड् इति. रूपादिविशयषट्कभेदात्. त्रिभिर् अपि स्थापनेति. यद् वेदनाद्रव्यं मनोविज्ञानमात्रसंप्रयुक्तम् एकं. तत् सौमनस्यादिस्वभावत्रयभेदात् त्रिधा भिद्यते. तत् पुनः प्रत्येकं विषयषट्कभेदात् षोढा भिद्यते. इत्य् अष्टादश भवंति. स्वभावव्यवस्थापनायाम् असत्यां सौमनस्यदौर्मनस्योपेक्षोपविचारा न स्यात्. संप्रयोगव्यवस्थापनायाम् असत्यां मनोपविचारा इत्य् एव न स्यात्. अष्टादशव्यतिरिक्ताश् च स्युः. रूपादिविषयषट्कालम्बनव्यवस्थापनायाम् असत्यां प्रत्येकं सौमनस्यादिषोधाभेदेनाष्टादश मनोपविचारा इति न स्यात्. तस्मात् त्रिभिर् अपि व्यवस्थापनेति सिद्धं. असंभिन्नालम्बना इति. असंमिश्रालम्बनाः. त्रयो धर्मोपविचारा उभयथेति. ये रूपादिविषयपंचकव्यतिरिक्तधर्मालम्बनाः. ते धर्मोपविचारा असंभिन्नालम्बनाः. ये तु रूपादीनां षण्णां विषयाणां द्वौ तृईन् [तिब्. 301अ] यावत् षड् अपि विषयान् आलम्बन्ते. ते संभिन्नालम्बनाः.
मनः किलेति. किलशब्दः परमतद्योतकः. मनः किल प्रतीत्याश्रित्य विषयान् उपविचरन्त्य् आलम्बन्त इत्य् अर्थः. उपविचारयन्तीति प्रवर्तयन्ति. कथम् इत्य् आह. वेदनावशेन मनसो विषयेषु पुनःपुनर् विचारणाद् इति पुनःपुनर् इत्य् उपशब्दस्यार्थः.
नाप्य् उपविचारिकेति. असन्तीरिकेत्य् अर्थः. अयोग इत्य् असंभवः. यदि मन एवाश्रिता वेदना मनोपविचारः. तृईये ध्याने यत् सुखं. तन् मन एवाश्रितं. ( अभिध्-क्-व्य् 311 ) न चक्षुरिन्द्रियाद्याश्रितम् इति. तस्य कस्मान् मनोपविचारेष्व् अग्रहणं. आदितः किलेति विष्तरः. आदाव् आदितः. किलेति परमते. कामधातौ मनोभूमिकं सुक्ःअं नास्ति. तस्मान् न तन् मनोपविचारः. अतः पश्चाद् अपि तृतीये ध्याने सुखेन्द्रियस्य मनआश्रितत्वे ऽपि मनोपविचारेष्व् अग्रहणं. यथा सौमनस्योपविचारस्य प्रतिद्वंद्वेन दौर्मनस्योपविचारः. नैवं. सुखोपविचारस्य प्रतिद्वंद्वेन दुःखोपविचारो ऽस्ति. मनोविज्ञाननाश्रितत्वाद् दुःखस्य. अतः सर्वत्र तत् सुखं न मनोपविचार इति.

सौमनस्यस्थानीयानीति. सौमनस्यजनकानि. पंचेति विस्तरः. [तिब्. 301ब्] पंचभिर् विज्ञानकायैर् अभिनिर्हृतत्वम् उत्पादितत्वम् अभिसंधाय चेतसिकृत्वा एतद् उक्तं चक्षुषा रूपाणीति विस्तरेण. मनोभूमिकास् त्व् एते. तद्यथा अशुभा. चक्षुर्विज्ञानाभिनिर्हृता च पूर्वं विनीलकादिदर्शनात्. मनोभूमिका च समाहितत्वात्. अपि त्व् इति. चक्षुषा रूपाणि दृष्ट्वा यावत् कायेन स्प्रष्टव्यानि स्पृष्ट्वेति वचनाद् अचोद्यम् एतत्. यदि चक्षुषा रूपाणि पश्यन् सौमनस्यस्थानीयानि रूपाण्य् उपविचरतीत्य् उक्तं स्यात्. यावत् कायेन स्प्रष्टव्यानि स्पृशन्न् इति. स्याच् चोद्यं. न त्व् एवम् उक्तम् इत्य् अचोद्यम् एवैतत्. यो ऽप्य् अदृष्ट्वेति विस्तरः. यो ऽपि श्रुत्वा परतो मनसोपविचरत्य् आलम्बते. ते ऽपि तस्य मनोपविचाराः. इतरथा हीति विस्तरः. रूपधात्वालम्बना रूपाद्युपविचारा न स्युः. कामधातूपपन्नेन रूपावचराणां रूपादीनाम् अप्रत्यक्षीकृतत्वात्. कामधात्वालम्बनाश् च गन्धरसस्प्रष्टव्योपविचारा रूपधातूपन्नस्य न स्युः. तस्य गंधादीनाम् अविषयत्वात्. यथा तु व्यक्ततरं. तथोक्तम् इति. प्रत्यक्षीकृतरूपाद्यालम्बनानां मनोपविचाराणां व्यक्ततरत्वात्. यो ऽपि रूपाणि दृष्ट्वा तत्सहचरां छन्दान् उपविचरति. सो ऽपि तस्य मनोपविचारः. यथा त्व् अनाकुलं. तथोक्तं. कथं चानाकुलम् इत्य् आह. इन्द्रियार्थव्यवच्छेदत [तिब्. 302अ] इति. चक्षुरादीन्द्रियव्यवच्छेदेन. रूपाद्यर्थव्यवच्छेदेन चोक्तम् इति. अन्यथा ह्य् आकुलं स्यात्. एअक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयां छन्दान् उपविचरतीत्य् एवमादि.
अस्ति संतानं नियम्येति. कस्यचित् सत्त्वस्य संतानम् अवेक्ष्य. यद् अस्य किंचित्सौमनस्यस्थानीयम् एव. यावद् उपेक्षास्थानीयम् एव. न त्व् आलम्बनं. किं. नियम्य. किंकारणं. तद् एव ह्य् आलम्बनं कस्यचित् सौमनस्यस्थानीयं. कस्यचिन् नेति.
(इइइ.33-35अब्) एवं यावद् आरूपप्रतिसंयुक्ता इति कति रूपप्रतिसंयुक्ताः. तेषां च कति किमालम्बनाः. कत्य् आरूप्यप्रतिसंयुक्ताः. तेषां च कति किमालम्बना इति.
कामे स्वालम्बनाः सर्व
इति. कामे कामावचराणां मनोपविचाराः सर्वे ऽष्टादश सन्ति. स एव च कामधातुः तेषां सर्वेषाम् आलम्बनं. स्वो धातुर् आलम्बनम् एषाम् इति स्वालम्बना इति कारिकापदविग्रहः
रूपी द्वादशगोचर
इति. रूपी धातुः कामावचराणां द्वादशानां मनोपविचाराणां गोचरः. षड् गन्धरसोपविचारान् अपास्येति. द्वौ गन्धरसाव् आलम्बनौ सौमनस्योपविचारौ हित्वा द्वौ गन्धरसालम्बनौ दौर्मनस्योपविचारौ हित्वा द्वौ तदालम्बनाव् एव चोपेक्षोपविचारौ हित्वेति. [तिब्. 302ब्] कस्मात्. तत्र रूपधातौ तयोर् गन्धरसयोर् अभावात्.
विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिर्
इति वचनात्.
त्रयाणाम् उत्तर
इति. त्रयाणां सौमनस्यदौर्मनस्योपेक्षाधर्मोपविचाराणां कामावचराणाम् उत्तरो धातुर् आरूप्यधातुर् आलम्बनं. तत्र रूपाद्यभावात्.
ध्यानद्वये द्वादशेति.
दौर्मनस्योपविचाराणां षण्णां अभावात्.
स्वो ऽष्टालम्बनम्
इति. अष्टानाम् आलम्बनम् अष्टालम्बनं. गन्धरसोपविचारांश् चतुरो हित्वेति. सौमनस्योपेक्षोपविचारौ गन्धालम्बनौ द्वौ रसालम्बनौ च द्वौ हित्वेत्य् अर्थः. तत्र तयोर् अभावात्.
आरूप्या द्वयोर्
इति. सौमनस्योपेक्षाधर्मोपविचारयोः प्रथमद्वितीयध्यानभूमिकयोर् आरूप्यधातुर् आलम्बनं. रूपाद्यभावात्. षड् उपेक्षोपविचारा एव सन्ति नान्य इति. रूपशब्दगन्धरसस्प्रष्टव्यधर्मालम्बना उपेक्षोपविचारा एव सन्ति. सौमनस्योपविचाराणाम् अपि तृतीये चतुर्थे चाभावात्. गन्धरसालम्बनौ तु तत्र कामावचरगन्धरसालम्बनाव् इत्य् अवगन्तव्यं.
तत्र चत्वारा इति. आकाशानंत्यायतनसामन्तकानन्तर्यमार्गस्य चतुर्थध्यानालम्बनत्वात्. तत्र च रूपशब्दस्प्रष्टव्यधर्मसद्भावात्. येषां तद् व्यवच्छिन्नालम्बनम् अस्तीति. येषाम् आचार्याणां मतेन तद् आकाशानंत्यायतनसामंतकं [तिब्. 303अ] व्यवच्छिन्नालम्बनं पृथक्पृथग् रूपाद्यालम्बनम् असमस्तालम्बनम् इत्य् अर्थः. औदारिकादिभिर् आकारैस् तच् चतुर्थध्यानम् आलम्बत इति एकेषाम् आचार्याणां मतम्. येषाम् आचार्याणां मतेन परिपिण्डितालम्बनम् एव तद् आकाशानंत्यायतनसामन्तकं चतुर्थध्यानभूमिकस्कन्धपंचकालम्बनम् इति मतं. तेषाम् आचार्याणां. तत्रैक एव ( अभिध्-क्-व्य् 313 ) संमिश्रालम्बनो धर्मोपविचार इति.
एक ऊर्ध्वग
इति. केषां पक्षे. येषां
चत्वारो ऽरूपिसामन्त
इति पक्षः. न हि मौलानाम् इति विस्तरः. मौलानाम् आरूप्याणाम् अधरो धातुर् नालम्बनम् अधरभूमिकं सास्रवं वस्तु नालम्बनम् इत्य् अर्थः. पश्चात् प्रवेदयिष्यामीति.
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इति.

(इइइ.35च्) प्रथमेति विस्तरः. प्रथमद्वितीयध्यानभूमिकैर् अष्टाभिः समन्वागतः तृतीयचतुर्थध्यानभूमिकैश् चतुर्भिः. कतमैर् इत्य् आह. क्लिष्टैः. गन्धरसालंबनान् पर्युदस्य. तत्र गन्धरसाभावात्. कथं. प्रथमद्वितीययोर् ध्यानयोर् द्वादशोपविचाराः सन्तीत्य् उक्तं. सौमनस्योपेक्षोपविचाराणां षड्विषयालम्बनव्यवस्थापनात्. तत्र स्वभूम्यालम्बना रूपशब्दस्प्रष्टव्यधर्मालम्बनाः सौमनस्योपविचाराश् चत्वारः क्लिष्टाः. ये चोपेक्षोपविचाराः क्लिष्टा एव चत्वारः. तैः कामधातूपपन्नो रूपावचरकुशललाभी [तिब्. 303]ब् समन्वागतः. अधरभूम्युपपन्नो ह्य् ऊर्ध्वभूमिकैः क्लिष्टैः समन्वागतो भवति. न तु विशिष्टैश् चतुर्भिर् गन्धरसालम्बनैः. तेषाम् अक्लिष्टत्वात्. रूपावचरकुशलालाभित्वात्. च. नास्त्य् अक्लिष्टरूपावचरधर्मलाभ इति. न तैः समन्वागतः. तृतीयचतुर्थध्यानभूमिका अपि षड् एवोपेक्षोपविचारा उक्ताः. तेषां ये स्वभूम्यालम्बनाः क्लिष्टाः. तैः समन्वागतस् तथा. यौ तु गंधरसालम्बनौ. न तौ क्लिष्टौ. अतः पूर्वोक्तेनैव न्यायेन न ताभ्यां समन्वागतः. क्लिष्टेनैवेति. नाक्लिष्टेन कुशलस्याभावात्. लाभी रूपावचरस्येति विस्तरः. कामधातूपपन्न एव लाभी रूपावचरस्य कुशलस्य चित्तस्यानागम्यसंगृहीतस्यावीतरागः कामधातोः सर्वैः कामावचरैर् अष्टादशभिर् अपि समन्वागतः. प्रथमध्यानभूमिकैर् दशभिर् इति. कथं दशभिर् इत्य् आह. सौमनस्योपविचारैः क्लिष्टैर् गंधरसालम्बनाव् अपास्येति. सौमनस्योपविचाराः सामंतकेषु न भवंति. सामन्तकानाम् उपेक्षेन्द्रियसंप्रयोगित्वात्. अतो मौलसंगृहीतैर् एव सौमनस्योपविचारैः क्लिष्टैः स्वभूम्यालम्बनैश् चतुर्भिः. समन्वागतः. न तु गन्धरसालम्बनाभ्यां. मौलकुशलालाभेनाक्लिष्टलाभाभावात्. न हि क्लिष्टं ध्यानम् अधरालम्बनम् अस्ति. षड्भिर् उपेक्षोपविचारैर् अनागम्यभूमिकैर् इति. अत्राविशेषाभिधानाद् उपेक्षोपविचारैः [तिब्. 304अ] क्लिष्टैर् अपि चतुर्भिः समन्वागतः सामन्तकसंगृहीतैः. षड्भिश् चोपेक्षोपविचारैः कुशलैः ( अभिध्-क्-व्य् 314 ) कामधात्वालम्बनैः स्वभूम्यालम्बनैर् अपि. द्वितीयतृतीयचतुर्थध्यानारूप्यजैः पूर्ववद् इति. कथं. स एव कामधाताव् उपपन्नो लाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागो द्वितीयध्यानभूमिकैर् अष्टाभिः. यैर् एव. अलाभी गन्धरसालम्बनान् अपास्य. त्र्तीयचतुर्थध्यानभूमिकैश् चतुर्भिः क्लिष्टैर् एव. गन्धरसालम्बनौ पर्युदस्य. आरूप्यावचरेणैकेन क्लिष्टेनैव. अनया वर्तन्या मार्गेण शेषम् अनुगन्तव्यं. कथं. प्रथमध्यानोपपन्नो द्वितीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी प्रथमध्यानभूमिकैः सर्वैः समन्वागतः. द्वितीयध्यानभूमिकैः क्लिष्टैर् अष्टाभिः. तृतीयचतुर्थध्यानारूप्यजैः पूर्ववत्. लाभी द्वितीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैः प्रथमध्यानभूमिकैः. द्वितीयध्यानभूमिकैऋ अष्टाभिः. चतुर्भिः सौमनस्योपविचारैः क्लिष्टैः. गन्धरसालम्ब्नाव् अपास्य. चतुर्भिश् चोपेक्षोपविचारैर् द्वितीयध्यानसामन्तकसंगृहीतैः. तृतीयध्यानभूमिकैस् चतुर्भिः क्लिष्टैः. गन्धरसालम्बनौ पर्युदस्य. एवं चतुर्थध्यानभूमिकैः. आरूप्यावचरेणैकेन क्लिष्टेनैव. द्वितीयध्यानोपपन्नस् तृतीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी [तिब्. 304अ] द्वितीयध्यानभूमिकैः सर्वैः समन्वागतः. तृतीयध्यानभूमिकैश् चतुर्भिः क्लिष्टैः. चतुर्थध्यानारूप्यजैः पूर्ववत्. लाभी तृतीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैर् द्वितीयध्यानभूमिकैः. तृतीयध्यानभूमिकैश् चतुर्भिर् उपेक्षोपविचारैः क्लिष्टैर् गन्धरसालम्बनाव् अपास्य. चतुर्भिश् चोपेक्षोपविचारैस् तृतीयध्यानसामन्तकसंगृहीतैः. चतुर्थध्यानारूप्यजैः पूर्ववत्. एषा दिक्. अनया दिशा तृतीयादिष्व् अपि
ध्यानेषूपपन्नस्य स्वभूम्यूर्ध्वभूमिकैर् उपेक्षोपविचारैर् एव क्लिष्टैः कुशलैश् च समन्वागमो यथासंभवं योज्यः. उपेक्षाधर्मोपविचारेनेति. कामावचरस्य निर्माणचित्तस्योपेक्षासंप्रयोगित्वात्.

अपर आहेति. अयम् एव शास्त्रकारः. न हि यो यस्माद् इति विस्तरः. यः पुद्गलः यस्माद् रूपादेर् वीतरागः. न स तद् रूपाद्य् आलम्बनम् उपविचरति. कथम् उपविचरति. तत्रानुनीयते वा. प्रतिहन्यते वा. अप्रतिसंख्याय वोपेक्षत इत्य् एवं. यदाप्रतिसंख्यायोपेक्षते नाभुजति. तदा ऽकुशलत्वम्. अतो ऽप्रतिसंख्यायेति विशेषणम्. अतः सास्रवा अपि न सर्वे. किं तर्हि. सांक्लेशिकाः. संक्लेशे भवाः सांक्लेशिकाः. संक्लेशानुकूलाः. यैः सौमनस्यादिभिर् मनो विषयान् उपविचरति. येषां प्रतिपक्षेण षट् सातता विहारा इति. येषां सांक्लेशिकानां प्रतिव्यूहेन. सततंभवाः सातताः. विहारा योगविशेषा भवंति. ते च षट्. कथम् इत्य् आह. चक्षुषा रूपाणि दृष्ट्वा नैव सुमना [तिब्. 305अ] भवति. नानुनीयते. न दुर्मना न प्रतिहन्यते. उपेक्षको भवति ( अभिध्-क्-व्य् 315 ) नाभुजति. कथं नाभुजति. किम् अप्रतिसंख्यायाहो स्वित् प्रतिसंख्यायेति. विशेषयन्न् आह. स्मृतिमान् संप्रजानन्न् इति. स्मृतिसंप्रयुक्तया प्रज्ञया प्रतिसमीक्षमाण इत्य् अर्थः. एवं यावन् मनसा धर्मान् विज्ञायेति. विषयषट्कभेदात् षट् सातता इति. न ह्य् अर्हत इति विस्तरः. अर्हतो लौकिकं कुशलं सास्रवं धर्मालम्बनं धर्मायतनालम्बनम् अधिगमधर्मालंबनं वा सौमनस्यम् अस्ति. तस्य हि बुद्धसांतानिकां गुणान् संमुखीकुर्वतः कुशलम् सौमनस्यम् उत्पद्यते. न तस्यैष प्रतिषेधो युज्यते. कस्य तर्हि. यत् तु तत्सांक्लेशिकं मनस उपविचारभूतं. तस्यैष प्रतिषेधो लक्ष्यते. तस्मात् सास्रवा अपि न सर्वे सौमनस्यादय उपविचारा इति. अत्र भदन्तानंतवर्मा आह. अयुक्तम् एतत्. कस्मात्. सूत्रे ऽन्यथानिर्देशात्. सूत्रे हि भगवता न सांक्लेशिका एवोपविचारा उक्ताः. एवं ह्य् आह. तत्र भिक्षवो य इमे षट् सौमनस्योपविचाराः. तान् आश्रित्य तान् प्रतिष्ठाय. य इमे षट् सौमनस्योपविचाराः. तान् प्रजहीत. तत्र भिक्षवो य इमे षड् उपेक्षोपविचाराः. तान् आश्रित्य तान् प्रतिष्ठाय. य इमे षड् उपेक्षोपविचाराः. तान् प्रजहीत. द्वे भिक्षवो उपेक्षे. नानात्वसंनिश्रिता एकत्वसंनिश्रिता च. तत्र भिक्षवो येयम् एकत्वसंनिश्रिता उपेक्षा. ताम् आश्रित्य ताम् अधिष्ठाय. येयं नानात्वसंनिश्रिता उपेक्षा. तां [तिब्. 305ब्] प्रजहीतेति. एतस्मात् सूत्राज् ज्ञायते. न सांक्लेशिका एव सौमनस्यादय उपविचारा इति. तद् एतद् अज्ञापकं. प्रहाणवचने ऽपि सांक्लेशिकत्वविनिवृत्तेः. न हीतरेणेतरस्य संनिश्रयप्रहाणवचने ऽपि सत्य् एषां मनोपविचाराणां सांक्लेशिकत्वं विनिवर्तते. अन्यथासंभवात्. एवं आह. मानं निश्रित्य मान एव प्रहातव्य इति. न तु जातु क्वचिन् मानो व्यवदानिकः संभवति. तस्मात् क्लेशानां परस्परविरोधेन वृत्तेर् वृत्त्यन्तरस्य चापेक्षया गुणवत्त्वात्. गुरुलाघवं अभिसंधाय सूत्रे वचनाद् अदोषः. नन्दादयो ऽत्र निदर्शनं. अतश् चैतद् एवं. यद् उपेक्षोपविचाराणाम् उपेक्षोपविचारान् एव प्रहाणाय संनिश्रयत्वेन दिदेश भगवान्. द्वे भिक्षव उपेक्षे इत्यादिवचनात्. ननु च गर्धाश्रितनैष्क्रम्याश्रितभेदेन षट्त्रिंशच् छास्तृपदानीति वचनात् सिद्धम् एषां सांक्लेशिकव्यवदानिकत्वं वैभाषिकमतानुसारात्. अदोषः. आचार्यस्यापि मनोपविचारव्यतिरिक्तास् तत्र सौमनस्यादयस् संति. पुनस् त एवेति विस्तरः. त एवाष्टादशोपविचाराः केचिद् भवाश्रिता अधिष्वंगाश्रिताः. केचिन् नैष्क्रम्याश्रिताः. नैष्क्रम्यं निष्क्रमभावः संक्लेशात् संसारदुःखाद् वा. गर्धनैष्क्रम्याश्रितभेदेन. द्वाव् अष्टादशकौ षट्त्रिंषच् छास्तृपदानि. तद्भेदस्य तेषां मनोपविचारानां द्विधाभेदस्य ( अभिध्-क्-व्य् 316 ) शास्त्रा बुद्धेन गमितत्वाद् देशितत्वाद् यथासूत्रं.
[तिब्. 306अ] (36, 37) क्लेशकर्मवस्तूनीति प्रज्ञापितम् इति.
क्लेशास् त्रीणि द्वयं कर्म सप्त वस्त्व्
इति वचनात्.
एवं कर्माणि विपाकोत्पत्ताव् इति. आसन्नं कारणम् इत्य् अधिकृतं. क्लेशो ऽपि हि कारणं विपाकस्य. तत् तु विप्रकृष्टं.
(इइइ.38) ते च व्याख्याता इति.

मृत्यूपपत्तिभवयोर् अन्तराभवतीह यः.
स पुनर्मरणात् पूर्वम् उपपत्तिक्षणात् पर
इति. वचनात् व्याख्याताः. न पर्यवस्थानैः स्वतंत्रैर् इति. ईर्ष्यामात्सर्यक्रोधम्रक्षैः. स्वातन्त्र्यम् एषाम्. अविद्यानिर्मुक्तैर् अन्यक्लेशैर् असंप्रयोगात्. अविद्या हि सर्वत्रैव विद्यत इति. न तत्संप्रयोगेनास्वातन्त्र्यं. आह्रीक्यादिभिस् त्व् अन्यक्लेशसंप्रयुक्तैः प्रतिसंधिबंधो न प्रतिषिध्यते. यद्य् अपि सावस्था मन्दिकेति विस्तरः. यद्य् अपि सा मरणावस्था चित्तचैत्तसमुदाचारस्यापटुत्वात्.
उपेक्षायां च्युतोद्भवाव्
इति वेदनामान्द्यात्. यस् तु पुद्गलो यत्र क्लेशे ऽभीक्ष्णं सततं चरितः प्रवृत्तः आसन्नश् च मरणकालस्य पुद्गलस्य. तदानीं मरणकाले स एव क्लेशः समुदाचरति समुत्थाय मिथ्याड्र्ष्ट्यादिर् अपि. पूर्वावेधात् पूर्वाक्षेपात्. पूर्वाभ्यासाद् इत्य् अर्थः. अथ वा यो ऽसौ तदानीं क्लेश उपतिष्ठते. तस्य पूर्वं फलभावेन परिग्रहावेधात् आक्षेपात्. स तदानीम् उपतिष्ठत इति. कामरूपधात्वोर् [तिब्. 306ब्] अपरिसंख्यानात्. सर्व एव चत्वारो भवाः सन्तीति. त्रय एवारूप्येषु
आरूप्येष्व् एव च त्रय
इति अवधारणात्. अनयोर् इतरयोर् धात्वोर् भवचतुष्टयं तु ज्ञातं भवति.
(इइइ.39-41) निष्यन्दाभावाद् इति. मूत्रपुरीषाभावाद् इत्य् अर्थः. सूक्ष्माणां वा सूक्ष्मा इति. सूक्ष्माणां स सूक्ष्म आहारः. बालका जातमात्राः. स्वेदजन्तुकादयो यूकादयः. आदिशब्देन गर्भस्थाः. कवडीकाराहाराः
काम
इति. कामधाताव् एव कवडीकाराहार इत्य् अवधारणं. कस्माद् इत्य् आह. तद्वीतरागाणां कवडीकाराहारवीतरागाणां तत्र रूपारूप्यधात्वोर् उपपत्तेः. कवडीकृट्याभ्यवहरणात् पिण्डीकृत्य गिलनात् कवडीकारः.
कवडीकृत्याभ्यवहरणं पुनर् मुखेन नासिकया ग्रासव्यवच्छेदाद् इति गन्धरसस्प्रष्टव्यायतनानि सर्वाण्य् एव कवडीकार इत्य् उक्ते पृच्छति छायातपज्वालाप्रभासु ( अभिध्-क्-व्य् 317 ) तेषां गन्धादीनां कथम् आहारत्वं. न हि तत्रत्यानां गंधादीनां कवडीकृत्याभ्यवहरणम् अस्तीति. बाहुल्येन किल एष निर्देश इति. न तत्रत्यानां गन्धादीनां कवडीकारत्वम् इति प्रतिपद्यते. बाहुलिकस् तु निर्देशः
कामे त्र्यायतनात्मक
इति. किलशब्दः परमतेन स्वाभिप्रायो ऽधिक्रियते. यान्य् अपि त्व् इति विस्तरः. यान्य् अपि तु नाभ्यवह्रियंते छायादिषु स्थितिं चाहरंति यापनां चाहरंती. तान्य् अपि सूक्ष्म आहारः. स्नानाभ्यंगवत्. यथा स्नानं चाभ्यंगश् च न कवडीकृत्याभ्यवह्रियते. आहारश् च. तद्वद् इति.
स्वाक्षमुक्ताननुग्रहाद् [तिब्. 307अ]
इति. स्वाक्षस्य स्वेन्द्रियस्य तेनाननुग्रहात्. मुक्तानां च. कामधातोर् अनागाम्यर्हताम् अननुग्रहात्. न रूपायतनम् आहारः. रूपायतनं चाभ्यवहारकाल इति. यस्मिन् काले अन्तर्मुखप्रविष्ट आहारो भुज्यते चक्षुर्विषयातीतः. तस्मिं काले स्वम् इन्द्रियं चक्षुरिन्द्रियं तन्महाभूतानि च तस्येन्द्रियस्य. यानि महाभूतानि आश्रयः. तानि नानुगृह्णाति तद् रूपायतनं. कुत एवान्यानीन्द्रियाणि श्रोत्रादीन्य् अनुग्रहीष्यति. अविषयत्वात्. अविषयो हि श्रोत्रादीनां रूपायतनं. दृश्यमानं तर्हि भोजनकाले ऽनुग्रहीष्यतीत्य् अत आह. यदापि च दृश्यमान इति विस्तरः. अथ कथम् इदं गम्यते. तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो न रूपम् इति. अत आह. मुक्तानाम् इति विस्तरः. यदि तद् दृष्यमानम् आहारकृत्यं कुर्यात्. मुक्तानाम् अनागाम्यर्हतां कवडीकाराहारवीतरागाणां सुमनोज्ञम् अप्य् आहारं पश्यतां अनुग्रहं कुर्यात्. यथा गन्धरसस्प्रष्टव्यायतनानि इन्द्रियमहाभूतानाम् अनुग्रहं कुर्वन्त्य् अभ्यवहारकाले. तस्मात् तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवतीति सिद्धं.
स्पर्शसंचेतनाविज्ञा
इति विज्ञेत्य् आदन्तम् एतत्. प्रज्ञेति यथा. विज्ञानम् इत्य् अर्थः. कवडीकाराहारस् त्र्यायतनात्मकत्वात् सास्रव इति सिद्धः.
त्रयस् तु
स्पर्शादयः सास्रवा अनास्रवाश् च संभवन्तीति अतस् त एव विशेषिताः
सास्रवा
इति.
न चैवम् अनास्रवा धर्मा इति. न चैवं ते भूतानां स्थितये यापनायै [तिब्. 307ब्] सम्भवैषिणां चानुग्रहायेति. मनोनिर्जातत्वाद् इति. निर्वृत्तेर् इति न तूपपत्तेः. मन इत्य् अवधारणं. अत एव ब्रवीति. शुक्लशोणितादिकं किंचिद् बाह्यम् अनुपादाय भावाद् इति. आदिशब्देन कर्दमपुष्पादीनां ग्रहणं. ( अभिध्-क्-व्य् 318 ) उपपत्त्यभिमुखत्वात् अभिनिर्वृत्तिर् इति. उपपत्त्यभिमुखी निर्वृत्तिर् जन्मास्येति अभिनिर्वृत्तिः. सव्याबाधम् इति सदुःखं. सव्याबाधम् अभिनिर्वर्त्येति. इदम् अत्र ज्ञापकं. अन्तराभवो ऽभिनिर्वृत्तिर् इति. तथास्ति पुद्गल इति विस्तरः. अस्मात् सूत्राच् चतुष्कोटिकाद् अभिनिर्वृत्तिर् अन्तराभव इति. अस्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं. अस्ति यस्योपपत्तिसंयोजनं प्रहीणं नाभिनिर्वृत्तिसंयोजनं. अस्ति यस्याभिनिर्वृत्तिसंयोजनं च प्रहीणं उपपत्तिसंयोजनं च. अस्ति यस्य नैवाभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं. द्विधातुवीतरागस्येति. कामरूपधातुवीतरागस्येति. अनागामिन इति विशेषणं. पृथग्जनानां अन्तराभवसंयोजनस्यात्यन्ताप्रहाणात्. तद् धि भिक्षवः प्रहीणं यद् आर्यया प्रज्ञया प्रहीणम् इति वचनात्. तस्य च पुनर्भावित्वात्. तत्र प्रथमा कोटिर् द्विधातुवीतरागस्यानागामिनः. द्वितीयान्तरापरिनिर्वायिणः. तृतीयार्हतः. चतुर्थी तदन्येषाम् अस्मदादेः. [तिब्. 308अ] पृथग्जनस्य आर्यस्य चावीतरागस्य कामधातुवीतरागस्य रूपधाताव् उपपद्यमानस्य चेति. भूता वार्हन्त इति. पूर्वम् एवोक्तः पर्यायः. भूता उत्पन्नाः संभवैषिणो ऽन्तराभविका इति. इदानीम् अयम् अपरः पर्यायः. भूता अर्हन्तस् त्रैधातुकवीतरागत्वात्. संभवैषिणः सतृष्णाः. त्रैधातुके संभवैषित्वात्.
स्थितय इति. अवस्थापनाय. अनुग्रहायेति. पुनर्भवाय संभवायेत्य् अर्थः.

सर्वे ऽप्य् उभयथेति. सर्वे ऽपि चत्वार आहाराः. भूतानां सत्त्वानां स्थितये ऽनुग्रहाय च. तथा संभवैषिणाम् इति. युक्तं तावन् मनःसंचेतना कर्मस्वभावत्वात्. तत्प्रभावितं च विज्ञानं बीजं. स्पर्शो ऽपि तत्संप्रयुक्तो भवत्य् अनुग्रहायेति. कवडीकारस् तु कथं संभवैषिनाम् अनुग्रहायेति. अत उच्यते. कवडीकारो ऽपि हीति विस्तरः. तद्रागिणाम् इति. कवडीकाररागिणां. पुनर्भवाय संवर्तत इति अस्य ज्ञापनार्थम् इदं सूत्रपदम् उपन्यस्यते. उक्तं हि भगवतेति विस्तरः. तत्र रोगादिभिः पंच उपादानस्कंधा उक्ताः. तस्य रोगस्य चत्वार आहारा मूलं. मूलं च हेतुर् इति अनेन कवडीकारो ऽपि तद्रागिणां पुनर्भवाय संवर्तत इति सिद्धं. अन्ये पुनर् जरामरणस्य प्रत्यय इत्य् एतद् एवोदाहरणं ब्रुवते. अस्माज् जन्मनः परेण जरामरणं व्यवस्थापितम् इत्य् अभिप्रायः. कवडीकारो ऽपि भूतानां सत्त्वानाम् इहस्थितय इति युक्तं प्रत्यक्षत्वात्. [तिब्. 308ब्] तथा सुखवेदनीयः स्पर्शो विज्ञानं चानुग्राहकम् इत्य् उक्तं. अथ मनःसंचेतना कथम् इति. अत इदम् उच्यते. मनःसंचेतनापि चेति विस्तरः. अत एव मनःसंचेतनाग्रहणेन स्पर्शविज्ञाने अपि गृहीते भवतः. तत्संप्रयोगित्वात्. प्रद्रुता इति प्रसृताः. संगीतिपर्याय इत्य् अभिधर्मशास्त्रे.
तेषां पुष्टये स्पर्श इति. सुखवेदनीयेनानुग्रहात्. यः कश्चिद् वेदनास्कंधः संज्ञास्कंधः. सर्वः स स्पर्शं प्रतीत्येति वचनात्. मनःसंचेतनायाः पुनर्भवस्याक्षेप इति. तस्याः कर्मस्वभावत्वात्. कथं च पुनस् तया पुनर्भव आक्षिप्यते. तदुत्पत्तिप्रत्ययपरस्परानुकूल्यावस्थानात्. कर्मपरिभाविताद् विज्ञानबीजाद् अभिनिर्वृत्तिर् इति. बीजाद् इवांकुरस्य पुनर्भवस्योत्पाद इत्य् अर्थः.
यः कवडीकारः स आहार इति प्रश्ने आह. स्यात् कवडीकारो नाहारः. स्याद् आहारो न कवडीकारः. स्याद् उभयं. स्यान् नोभयम् इति चतुष्कोटिकं. द्वितीया कोटिस् त्रय आहारा इति. मनःसंचेतनास्पर्शविज्ञानानि. चतुर्थी एतान् आकारान् स्थापयित्वेति. शब्दो दुःखवेदनासंप्रयुक्ताश् च सर्वे चित्तचैत्ताः. एवं स्पर्शादिभिर् अपि यथायोगं चतुष्कोटिकानि कर्तव्यानीति. यः कश्चित् स्पर्शः. सर्वः स आहारः. स्यात् स्पर्शो नाहार इति चतुष्कोटिकं. एवं या काचिन् मनःसंचेतना. सर्वा सा आहारः. स्यात् मनःसंचेतना नाहार इति चतुष्कोटिकं. तथा [तिब्. 309अ] यत् किंचिद् विज्ञानं. सर्वं तद् आहारः. स्याद् विज्ञानं नाहार इति चतुष्कोटिकम्. स्पर्शस्य तावत् प्रथमा कोटिः. यं स्पर्शं प्रतीत्येन्द्रियाणाम् अपचयो भवति. महाभूतानां च परिभेदः. द्वितीया त्रय आहाराः. तृतीया यं स्पर्शं प्रतीत्य इन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. चतुर्थी एतान् आकारान् स्थापयित्वेति. एवं यावद् विज्ञानं चतुष्कोटिकं. प्रथमा कोटिः यद् विज्ञानं प्रतीत्येन्द्रियाणाम् अपचयो भवति महाभूतानां परिभेदः. द्वितीया कोटिस् त्रय आहाराः विज्ञानवर्ज्याः. तृतीया यद् विज्ञानं प्रतीत्य इन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. चतुर्थ्य् एतान् अकारान् स्थापयित्वा.
स्यात् स्पर्शादीन् प्रतीत्येति विस्तरेण अपरः प्रश्नः. स्पर्शादीन् इति स्पर्शचेतनाविज्ञानधर्मान् इति एवं नेतव्यं. एवं च ग्रन्थः कर्तव्यः. स्यात् स्पर्शादीन् प्रतीत्येन्द्रीयाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. न च ते आहाराः. स्यात्. अन्यभूमिकान् अनास्रवांश् च. प्रतीत्येत्य् अभिसंबंधात् द्वितीयाप्रयोगः. यो ऽपि परिभुक्त इति विस्तरः. केन संबन्धेनेदम् उक्तं. अन्यभूमिकान् अनास्रवांश् च प्रतीत्यानाहार इत्य् उक्ते ऽर्थाद् एतद् उक्तं भवति. स्वभूमिकान् सास्रवां प्रतीत्य आहार इति. यं चेह परिभुक्त इति. कवडीकारो भोक्तुर् बाधाम् आदधाति. स किम् आहारः. सो ऽप्य् आहारः. आपाते भोजनवेलायाम् अनुग्रहात्.
सर्वासु सर्वः. एवं योनिष्व् इति. कामधातौ [तिब्. 309ब्] पंचानां गतीनां चतसृणां च योनीनां सद्भावात्. चतुःकोटिकं बाध्यते. प्रकरणग्रन्थश् चेति. प्रथमे चतुष्कोटिके येयं तृतीया कोटिः. यं कवडीकारं प्रतीत्येन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिर् इति अस्या बाधाच् चतुष्कोटिकं बाध्यते. न केवलम् उपचयकरः. किं तर्हि. अपचयकरो ऽपि कवडीकाराहार ( अभिध्-क्-व्य् 320 ) इति. प्रकरणग्रन्थश् च किं बाध्यते. कीदृशः प्रकरणग्रन्थ इति. तद् दर्शयन्न् आह. कवडीइकाराहारः कतमः यम् कवडीकारं प्रतीत्येन्द्रियाणाम् उपचयो भवति विस्तरेण यावद् विज्ञानम् इति. उपचयाहाराभिसंधिवचनाद् अविरोध इति. उपचयाहाराभिप्रायेण चतुष्कोटिकवचनं प्रकरणग्रन्थवचनं च. तस्मात्. तयोर् अविरोधः. यो ह्य् उपचयाय. स मुख्यः. आहारलक्षणप्राप्तत्वाद् इति. कवडीकाराहारलक्षणप्राप्तत्वात्. कथम् इत्य् आह. सो ऽपि हि जिघत्सां पिपासां च प्रतिहन्तुं समर्थ इति. प्रदीप्तायसगुडलक्षण आहारो जिघत्साप्रतिघाते समर्थः. क्वथितताम्रलक्षणः पिपासाप्रतिघाते इति योज्यं.
कवडीकाराहारप्रसंगेनेदम् उच्यते. उक्तं भगवता यश् च बाह्यकानाम् इति विस्तरः. जंबुद्वीपो जम्बुषण्डः. तथा ह्य् उक्तं भगवता. याः काश्चिज् जम्बुषण्डात् स्रवंत्यः. सर्वाः समुद्रनिम्नाः समुद्रप्रवणाः समुद्रप्राग्भारा इति. तन्निवासिनो जम्बुषण्डगताः. कुक्षिमन्तो भोजनशक्त्युपेता अकललाद्यवस्था इत्य् अभिप्रायः. तद् एतद् अयुक्तम्. एकम् इति वचनाद् इति. यदि जंबूद्वीपनिवासिनः कुक्षिमन्तो जंबुषण्डगता [तिब्. 310अ] इश्येरन्. यश् च जम्बुषण्डगतान् पृथग्जनान् इति वक्तव्यं स्यात्. उक्तं च यश् चैकं जंबुषण्डगतम् इति. तस्माद् अयम् अर्थो न घटते. कश् चात्र विशेष इति. किम् अत्राश्चर्यं यद् बहूं भोजयित्वा बहु पुण्यं स्यात्. न त्व् अल्पीयसः शतमात्रान् वीतरागान् इत्य् अर्थः. संनिकृष्तो बोधिसत्त्व इति. आसन्नाभिसम्बोधिः.
बोधिसत्त्वः कुतो यावत्. यतो लक्षणकर्मकृद्
इत्य् अभिप्रायः. न त्व् इयम् अन्वर्था संज्ञेति. नार्थानुगता. नार्थवाचकं पदम् इत्य् अर्थः. नापि परिभाषिता अर्थम् अनपेक्ष्य. बोधिसत्त्व एव त्व् एष जंबुषण्डगत इति. कृषिग्रामकं व्यवलोकनाय निर्गतः सर्वार्थसिद्धो बोधिसत्त्वो जंबूवृक्षमूले निषण्णः प्रथमं ध्यानम् उत्पादितवान्. अत आह. स हि पृथग्जनः कामवैराग्यसम्बन्धेनेति. स चापि हि बोधिसत्त्वः पृथग्जनः कामवीतरागश् च. बाह्यकाश् च तथैव कामवीतरागाः पृथग्जनाश् च. अनेन सम्बन्धेन तेभ्यो बाह्यकेभ्यो बहुतरेण दानफलेन विशिष्यमाण इत्य् एवम् उक्तः. स तेभ्यो बाह्यकेभ्यो ऽनन्तेभ्यो विशिष्यमाणो
बोधिसत्त्वाय चामेया अनार्येभ्यो ऽपि दक्षिणा

इति वचनात्. शतग्रहणं तु पूर्वाधिकाराद् इति. तत्रैव सूत्रे शताधिकारो ऽधिकृतः. यश् च तिर्यग्योनिगतानां शताय दानं दद्यात्. यश् चैकस्मै दुःशीलाय मनुष्यभूताय [तिब्. 310ब्] दानं दद्यात्. ततः शतगुणो विपाकः ( अभिध्-क्-व्य् 321 ) प्रतिकांक्षितव्यः. यावद् यश् च बाह्यकानाम् इति विस्तरः. इत्थं चैतद् एवम् इति. इत्थं चैतद् एवं बोधिसत्त्व एव त्व् एष जम्बुषण्डे निषण्णो युज्यत इति. यद् एनं बोधिसत्त्वम् अपास्य. बाह्यकेभ्य एव स्रोतआपत्तिफलप्रतिपन्नकं विशेषयां बभूवेति. बाह्यकेभ्यो वीतरागेभ्यः स्रोतआपत्तिफलप्रतिपन्नकाय दानम् अप्रमेयतरं. स्रोतआपन्नाय ततो ऽप्रमेयतरं. सकृदागामिफलप्रतिपन्नकायेति विस्तरः. यदि निर्वेधभागी जंबुषण्डगतो ऽभविष्यत्. जंबुषण्डगताद् एव व्यशेषयिष्यत्. कथं. यश् च जंबुषण्डगतानां शतं भोजयेत्. यश् चैकं स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकं. अतो दानाद् इदं महाफलतरम् इति. न त्व् एवं. स्रोतआपत्तिफलप्रतिपन्नकादिभ्यो विशिष्टतरत्वाद् अतो बोधिसत्त्व एव त्व् एष जंबुषण्डगतो युज्यते.
(इइइ.42-44अब्) आयुःक्षयादिभिर् इति. अस्त्य् आयुःक्षयान् मरणं न पुण्यक्षयात्. अस्ति पुण्यक्षयान् नायुःक्षयाद् इत्यादि.
छेदसंधानवैराग्य
इति विस्तरः. कुशलमूलसमुच्छेदो मिथ्यादृष्ट्या. सा च मानस्य् एव. संतीरकत्वात्. कुशलमूलप्रतिसंधानं सम्यग्दृष्ट्या विचिकित्सया वा. ते च मानस्यौ. धातुभूमिवैराग्यं धातुतो भूमितो वा [तिब्. 311अ] वैराग्यं मनोविज्ञान एव. समाहित एव चित्ते लभ्यत्वात्. परिहाणिर् अयोनिशोमनसिकारप्रवर्तिता. मनोविज्ञानेन चायोनिशोमनसिकारो विकल्प इति. च्युतिः संक्षिप्तपंचेन्द्रियप्रचारस्य प्रवाहच्छेदानुकूले विज्ञाने भवति. उपपत्तिर् अपि विपर्यस्तमतेर् भवतीति मनोविज्ञान एव युज्यते. अन्तराभवप्रतिसंधिर् अप्य् उक्तरूप इति. प्रतिसंधिसामान्याद् अनुक्तो ऽप्य् उक्तकल्प इति नोच्यत इत्य् अभिप्रायः. च्युतिर् एव
च्युतं.
एकार्थतां दर्शयति. भावे क्तोत्पन्नत्वात्. इतरे हि वदने पट्व्याव् इति सुखदुःखे.
विसभागभूमिकत्वाद् इति. समाहितं चित्तं समाहितभूमिकत्वात् विसभागं कामधातोः. अतश् च्युतिचित्तम् उपपत्तिचित्तम् वा न युज्यते. यदा तर्हि रूपधाताव् एव म्रियते उपपद्यते वा. तदा समाहितभूमिकं चित्तं तद् भविष्यतीत्य् अत आह. आभिसंस्कारिकत्वाद् इति. अभिसंस्कारो यत्नः. अभिसंस्कारेण निर्वृत्तम् आभिसंस्कारिकं. तद्भावः. तस्मात्. न तद् आभिसंस्कारिकं च्युतिचित्तम् उपपत्तिचित्तं वा युज्यते. मरणावस्थाया अपटुत्वात्. अनुग्राहकत्वाच् च. यस्माच् च समाहितं चित्तम् औउग्राहकं. न च्छेदानुकूलं. अतो ऽपि समाहितचित्तस्य च्युतिर् नास्ति. नाप्य् अचित्तकस्येति विस्तरः. नाप्य् अचित्तकस्य. [तिब्. 311ब्] किं. च्युतिः. उपपत्तिर् वेति प्रकृतं. अचित्तको निरोधसमापत्तिसमापन्नो ( अभिध्-क्-व्य् 322 ) ऽसंज्ञिसमापत्तिसमापन्नः तद्विपाके वावस्थितः. सो ऽचित्तक उपक्रन्तुं मारयितुं न शक्यते शस्त्रादिभिः. अतो नाचित्तकस्यास्ति च्युतिः. यदा चास्याश्रयो विपरिणन्तुम् आरभेतेति. शस्त्रेणाग्निना वोपक्रमान् निरोधसमापत्तिं असंज्ञिसमापत्तिं वा समापन्नस्य असंज्ञिसमापत्तेर् विपाके स्थितस्य विपाकावेधपरिसमाप्तेर् अवश्यम् अस्य तदानीम् आश्रयप्रतिबद्धं चित्तं आश्रये बीजभावेनास्ति. तत् सम्मुखीभूय पश्चात् प्रच्यवेत. कः प्रच्यवेत. पुद्गलः. यदि पुद्गलो ऽधिक्रियेत्. असमानकर्तृकत्वात् क्त्वाविधिर् न प्राप्नोति. चित्तं तर्हि प्रच्यवेत. अथ वैवम् अभिसंबन्धः. यदा चाश्रयो विपरिणंतुम् अन्यथात्वम् आपत्तुम् आरभेत. अवश्यम् अस्य पुद्गलस्य तदाश्रयप्रतिबद्धं बीजभावेनावस्थितं चित्तं सम्मुखीभूय समुदाचर्य परिणन्तुम् आरभेत. पश्चात् प्रच्यवेत पुद्गल इति. अथ वा संमुखीभूयेति संमुखीभाव्येत्य् अर्थे णिलोपात्.
अस्ति पर्णरुहो वातो अस्ति पर्णशुषो ऽपर

इति यथा. उपपत्तौ चायुक्तं अचित्तकत्वं. कस्मात्. चित्तच्छेदहेत्वभावात्. अवश्यं क्लिष्टतया प्रतिसंधिचित्तस्य निरोधसमापत्त्याद्यसंभवात्. विना च क्लेशेनानुपपत्तेः. सर्वक्लेशैर् हि तद्भूमिकैर् उपपत्तिप्रतिसंधिबन्धो भवति. न च चित्तम् अन्तरेण क्लेशाः कदाचिद् अपि भवन्तीति. अतो ऽपि नास्ति अचित्तकस्योपत्तिह्.
मरणभवस् त्रिप्रकार इत्य् उक्तम् इति.
उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर्
इति. उपपत्तिभव एव [तिब्. 312अ] क्लिष्ट इत्य् अवधारणात्. मरणपूर्वांतकालान्तराभवास् त्रिप्रकाराः कुशलाकुशलाव्याकृता उक्ताः. अथ वा
निरोधयत्य् उपरमन्न् आरूप्ये जीवितं मनः
उपेक्षां चेति
विस्तरेण यावच्
छुभो सर्वत्र पंच चेत्य्
उक्तं. अतो मरणभवस् त्रिप्रकार इत्य् उत्सर्गः. अर्हंस् तु
निर्वात्य् अव्याकृतद्वये
इत्य् एवम् अपवादः. अस्ति चेत् कामधातौ विपाक उपेक्षेति.
अधो ऽपि मध्यम् अस्त्य् एके
इति एकीयमतेन. नास्ति चेद् इति.
अतः परम् अदुःखासुखं वेद्यम्
इत्य् अपरमतेन. ऐर्यापथिक एवेति. ऐर्यापथिकजातीयं तद् यत्र निर्वाति.
विपाकजैर्यापथिकशैल्पस्थानिकनिर्मितं
चतुर्धाव्याकृतं काम
इति. न एतावद् एवाव्याकृतम् इष्यत इति व्याख्यातम् एतत्. तद् धि चित्तच्छेदानुकूलम् इति. अप्रतिसंधिकचित्तच्छेदानुकूलं. दुर्बलत्वात्. परमापटुत्वाद् इत्य् अर्थः. सप्रतिसंधिकचित्तच्छेदे कुशलाकुशलम् अपि चित्तं संभवति.
तेषां यथासंख्यम् इति. पादयोर् अपायगामिनां विज्ञानं संनिरुध्यते. नाभ्यां मनुष्यगामिनां. हृदये देवगामिनां. अरूपित्वाद् अदेशस्थं विज्ञानं कथं तेषु निरुध्यत इति. अत आह. कायेन्द्रियस्य तेषु निरोधाद् इति. तेषु पादादिषु कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानम् इति. [तिब्. 312ब्] तेषाम् अपि हृदये विज्ञानं निरुध्यत इति. यथासंख्यनिर्देशाद् एवायम् अर्थो लभ्यते. कथं. हृदयं च हृदयं च हृदये. पादश् च नाभिश् च हृदये चेति
पादनाभिहृदयानीति
चत्वारो ऽर्थाः. अधोगश् च नृगश् च सुरगश् च अजगश् चेत्य् एतो ऽपि चत्वारो ऽर्थाः. तेन यथासंख्यसिद्धिः.
प्रायेणेति ग्रहणम् देवादीनां सुखमृत्युत्वात्. न तु पुनस् तानि काष्ठानीव च्छिद्यन्ते. किं तर्हीति. तीव्राभिर् वेदनाभिश् छिद्यन्त इवेति. छिन्नवद् वा न पुनश् चेष्टन्त इति छिन्नानीत्य् उच्यंते इति. छिन्नांगप्रत्यंगवत् न पुनश् चेष्टंत इति छिन्नानीत्य् उच्यन्ते. सैषा काल्पनिकी छेदवृत्तिः. मर्मणां द्विधाभावकरणात्. अप्तेजोवायुनां अन्यतमेनेत्य् उक्ते पृच्छति. कस्मात् न पृथिवीधातुनेति. अप्तेजोवायुधातुप्रधाना यथायोगम् इति. यथासंभवं अब्धातुप्रधानः श्लेष्मा. तेजोधातुप्रधानं पित्तं. वायुधातुप्रधानो वायुशेष इति. भाजनलोकसंव्रतनीसाधर्म्येणेत्य् अपर इति. तिस्रो भाजनसंवर्तन्यः तेजःसंवर्तनी अप्संवर्तनी वायुसंवर्तनी च. तासां च साधर्म्येण अप्तेजोवायुधातूनाम् अन्यतमेनेति विस्तरेणोक्तम् इति.
(इइइ.44च्द्) कथम् आराद् याता. आत्यन्तिकविसंयोगप्राप्तिलाभात्. पृथग्जनानां त्व् अस्ति विसंयोगप्राप्तिलाभः. न त्व् आत्यंतिक इति ते न आराद् याता एवेति. ते हि मिथ्यात्वे ऽपि नियता भवेयुर् इति. यद्य् आनन्तर्याणि कुर्युर् इत्य् अर्थः. न च त इति विस्तरः. [तिब्. 313अ] न च ते मोक्षभागीयलाभिनः कालनियमेन सम्यक्त्वे नियताः. यथा सप्तकृत्वःपरमादयः. आदिशब्देन कुलंकुलैकवीचिकादयो गृह्यन्ते. कालनियमश् चैषां पुद्गलनिर्देशे वक्ष्यते. नियतेभ्यो द्वयेभ्य एभ्यो ऽन्ये ऽनियताः. प्रत्ययापेक्षं हीति विस्तरः. यदि सम्यक्त्वे प्रत्ययं लभन्ते. सम्यक्त्वे नियताः. अथ मिथ्यात्वे. मिथ्यात्वे नियताः. अथोभयस्मिं न प्रत्ययं लभन्ते. अनुभयभाक्त्वे ऽपि.
(इइइ.45-47) उक्तः सत्त्वलोकः अविद्यादिक्रमनिर्देशेन.
उशंतीति
इच्छन्तीत्य् अर्थः.
लक्षषोडशकोद्वेधम् असंख्यं वायुमण्डलं
लक्षषोडशकं वेधनभावन. परिणाहेनासंख्यम् इति. समन्तपरिक्षेपेणासंख्यम् इत्य् अर्थः. कर्माधिपत्येन कर्मसामर्थ्येन. तत्र निदर्शनं. यथा भुक्तं पीतं चान्नं च यथासंख्येन नापक्वं पक्वाशयं पतति. पक्वम् एव पक्वस्थानं गच्छतीत्य् अर्थः. कुसूलन्यायेन कोष्ठन्यायेन. समन्तात् प्राकारवद् आस्थितम् इत्य् अर्थः. पक्वक्षीरशरीभावयोगेन पक्वक्षीरशरीभावन्यायेन. यथा पक्वस्य क्षीरस्य शरी. स्त्रीलिंगनिर्देशः शर इत्य् अर्थः. अथ वा शरस्य भावः शरीभावः स्त्रीप्रयोगः. यथासौ शरो घनीभावेन भवति. एवं जलस्योपरिष्ठात् कांचनमयी भूमिर् इति. शेषं त्रयो लक्षाः सहस्राणि च विंशतिर् इति. विंशतिसहस्रोत्तराणाम् एकादशानां लक्षाणाम् अष्टाव् अपनीय एतावच् छेषं भवति.
तिर्यक् त्रीणि सहस्राणीति.
विस्तरः. चतुर्द्वीपकस्य एतत् परिमाणम् उच्यते. न त्रिसाहस्रमहासाहस्रस्य. समानं ह्य् एतद् उभयम्. एतद् इति. जलकांचनमण्डलं.
[तिब्. 313ब्] समन्ततस् तु त्रिगुणम्
इति. समन्तपरिक्षेपेण त्रिगुणम् एतद् उभयं. सर्वस्य परिमण्डलस्येयं स्थितिः. यद् अस्य तिर्यक्प्रमाणस्य त्रिगुणम् एव समन्तपरिक्षिप्तस्य प्रमाणम् इति.
(48-51) तेन चतुर्द्वीपकश् चक्रीकृत इति. चक्रं कृतश् चक्रीकृतः. चक्राकारतां गमितः. अत एव चक्रवाड इत्य् उच्यते.
शस्त्रकम्
इति अयोमयोः. यथासंख्यं चतुर्षु पार्श्वेष्व् इति. उत्तरकुरुपार्श्वसुवर्णमयं पूर्वविदेहपार्श्वं रूप्यमयं. जंबूद्विपपार्श्वं वैडूर्य मयं. अवरगोदानीपार्श्वं स्फटिकमयं.
नानाविधबीजगर्भाः. नानाप्रकारसामर्थ्ययुक्ताः. बहुविधप्रभावभिन्नैर् वायुभिर् इति. तदुत्पादने ऽनेकप्रकारसामर्थ्यभिन्नैर् वायुभिर् इत्य् अर्थः. असमाधानेनेति. अयुगपद्भावेनेत्य् अर्थः. न हि यदा कार्यं. तदा कारणं तिष्ठति. न हि अवस्थितस्य द्रव्यस्येति. रूपरसाद्यात्मकस्य. धर्मान्तरनिवृत्ताव् इति. क्षीरनिवृत्तौ. धर्मान्तरप्रादुर्भाव इति. दधिजन्म. स एव धर्मी. नेति. रूपाद्यात्मकक्षीरादिधर्मेभ्यो ऽन्यो धर्म उत्पादव्यये ऽप्य् अनुत्पन्नो ऽविनष्टः. परिणाम इति. क्षीरनिवृत्तौ दधिभावः. तद् एव चेदम् इति. क्षीरम् एव दधि. न चेदं तथेति. न ( अभिध्-क्-व्य् 325 ) चेदं दधि क्षीरम्. तद् एवेदम् इति. यत् परिणामेनेत्य् उक्तं. न चेदं तथेति. तस्यैव द्रव्यस्यान्यथीभावमात्रं परिणाम इति वचनात्. अपूर्वैषा वाचो युक्तिर् इति. स्ववचनविरुद्धेत्य् अभिप्रायः. पूर्वोत्तरयोर् हि क्षणयोर् अन्यथात्वम् इष्यते. ययोश् चान्यथात्वं तयोर् अन्यत्वं दृष्टं. तद्यथा देवदत्तयज्ञदत्तयोः. तस्मात् कार्यकारणयोर् अन्यत्वेन भवितव्यं.
सुवर्णादय इति. सुवर्णरूप्यमणिमृदादयः. षष्टियोजनशतसहस्रसमुच्छ्राय इति. षष्ट्यधिको योजनलक्ष उच्छ्राय इत्य् अर्थः.
(52, 53) अष्टांगोपेतस्येति.
शीतलाच्छलघुस्वादुमृदुनिःपूतिगंधिकं [तिब्. 314अ]
पीतं न बाधते कुक्षिं न कण्ठं क्षिणोति तज् जलम्

इति अष्टांगसंग्रहश्लोकः. पार्श्वतस् तु त्रिगुणो भवति युगंधरतीरेण गण्यमान इति. स आभ्यंतरः समुद्रो युगंधरपार्श्वेनायांअतः संख्यायमानस् त्रिगुण इति कृत्वा. चत्वारिंशद्योजनसहस्राधिकलक्षद्वयम् आयामो भवति युगंधरपार्श्वे. अशीतिर् एका तदुभयतश् चेतरयोर् दिशोस् तत्सीमानदीवैपुल्ययोगेन अपरे द्वे अशीतीति तिस्रो ऽशीतयः. चत्वारिंशदधिकं लक्षद्वयं भवतीति.
लक्षत्रयं सहस्राणि विंशतिर् द्वे चेति.
निमिन्धरगिरिचक्रवाडयोर् अंतरे एकस्यां दिशि बाह्यस्य समुद्रस्य तत्परिमाणम् उक्तं. अत्र सहस्रम् एकं द्वे शते चान्ये अर्धाष्टाशीतिर् एवेति वक्तव्यं. न्यूनत्वात्. एवम् अपरस्याम् दिशि वक्तव्यम्. एवं द्वयोः सहस्रयोः पंचसु शतेषु पंचसप्ततौ च योजनानां प्रक्षिप्तेषु स आधारः पूरितो भवति. य उक्तः
तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयं
लक्षद्वादशकं चैव जलकांचनमण्डलम्
इति. अनया चतुर्द्वीपसंख्यया यथाविन्यासम् अतिरिच्यमानत्वात्. तद् इदं परिह्रियते. नैष दोषः. चक्रवाडबहिर्जलकांचनमण्डलस्य एतावतातिरिच्यमानत्वात्. न तर्हि चतुर्द्वीपकः तेन चक्रवाडेन चक्रीकृतः. उपरिभूमिर् अनेन चक्रीकृता. न जलमण्डलम् इत्य् अवगन्तव्यं. अपर आह. न सुमेर्वादयः पर्वता अत्यन्तच्छिन्नतटीसमुच्छ्रायघना भवंति. किं तर्हि. पर्वताकारन्यायेन किंचिदतिरिच्यमानाधरभागा दुर्लक्षविशेषत्वात्.
समोच्छ्रायघनाश् च त
इत्य् उक्त्वा. अतस् [तिब्. 314ब्] तैस्तैः किंचिदतिरिच्यमानैर् अधोभागैस् तद् आधेयं ( अभिध्-क्-व्य् 326 ) सुमेर्वादिकं आधारं जलकांचनमण्डलात्मकम् व्याप्नोतीत्य् अविरोध एष इति.
(इइइ.54-57) अन्य इति विस्तरः. न बोधिसत्त्वाश्रयाद् अन्य आश्रयो वज्रासनप्रदेशाद् वान्यः प्रदेशस् तं वज्रोपमं समाधिं सोढुं समर्थ इति. यश् च द्वीपो यदाकृतिर् इति. प्रत्यक्षम् एतत्. भूमिवशात् सत्त्वानां वैचित्र्यं. हिमवद्विन्ध्यवासिनां किरातशबराणां गौरश्यामते दृश्यते.
देहा विदेहाः कुरव
इति. स्थानिनां बहुत्वात् स्थानस्यापि बहुवचननिर्देशः. एको राक्षसैर् इति. चामरावरचामरयोर् अन्यतरः.
(इइइ.58) कीटाद्रिनवकाद्
इति. कीटाकृतीनां पर्वतानां नवकात्. तदधिकारेणायं जंबूद्वीप इति. जंबूवृक्षाधिकारेण. जम्बुवृक्षचिह्नो द्वीपो जम्बुद्वीपः. फलाधिकारेण वेति. जंब्वा वा. लुप् चेति फलम् अपि जम्बूः. तत्फलचिह्नो जम्बूद्वीप इत्य् अर्थः.
(इइइ.59, 60) चतुस्कन्धा
इति. चतुःप्राकारा इत्य् अर्थः. चतुःसंनिवेशा इत्य् अपरे.
अयःप्राकारपर्यन्ता
इति. अयःप्राकारपरिक्षिप्ता इत्य् अर्थः.
अयसा प्रतिवर्जिता
इति. अयसोपरिष्ठाच् छादिताः. अयसापिथितद्वारा इत्य् अपरे.
स्फुटा
इति व्याप्ताः. पूर्ववद् इति. उत्क्षिप्ते पादे पुनर् अपि संजायते त्वङ्मान्सशोणितम् इत्य् अर्थः.
[तिब्. 315अ] क्षुरमार्गादिकं त्रयम्
इति. क्षुरमार्गासिपत्त्रवनशाल्मलीवनं चेति त्रयः. श्यामलशबलाश् च श्वानो भक्षयन्तीति. असिपत्त्रवनान्तर्भूताः. अयस्तुण्डाश् च वायसा इति. शाल्मलीवनान्तर्भूताः. प्रासा भिन्दिपालादयः. अधिकयातनास्थानत्वाद् उत्सदा इति. उच्छब्दो ऽधिकार्थः. अधिकं सीद्यन्ते ऽत्रेति उत्सदाः. कथं पुनर् यातनाधिक्यम् इत्य् आह. नरकेष्व् इति विस्तरः. अपर इति. स्थविरमनोरथः. स ऊर्ध्वार्थं उच्छब्दम् इति. तेनाहा नरकावरोधाद् अवीच्यादिनरकावरोधात् ऊर्ध्वम् एषु कुकूलादिषु सीदन्ति. अतस् तदुत्सदा इति.
प्रश्नात् प्रश्नान्तरम् इति. षोडशोत्सदाः कतम इत्य् उक्त्वा. चतुर्थ उत्सदो ( अभिध्-क्-व्य् 327 ) वैतरणी. यस्यां ते सत्त्वाः असिशक्तिप्रासहस्तैः पुरुषैर् उभाभ्यां तीराभ्यां प्रतिवार्यमाणाद् ऊर्ध्वम् अपि गच्छन्तः स्विद्यन्ते पच्यन्त इति. तस्माद् इदं प्रश्नान्तरं उपजायते. किं ते नरकपाला इति विस्तरः. विवर्तनीवायुवद् इति यथा विवर्तन्यां वायवो भाजनलोकाभिनिर्वृत्तये चेष्टन्ते. तद्लत् ते भूतभौतिकमात्रा नरकपाला इति.
यमराक्षसा
इति. पापकर्माणः सत्त्वा नरकपाला जायंत इत्य् अर्थः. ये ते यमेनेति. ये ते यमेन देवदूतीयसूत्रोक्तेनानुशासनेनानुशिष्टाः. तां सत्त्वान् नरकस्थानेषु प्रक्षिपन्ति यमराजधानीनिवासिनः. त एते यमराक्षसा उक्ताः. न तु ये कारणा यातनाः कारयंति असिशक्तिप्रासहस्तादयः [तिब्. 315ब्]. तस्येदानीं कर्मणः क्व विपाक इति. नरकपालानां नरककृतस्य कर्मणः क्व विपाकः. तेष्व् एवेति विस्तरः. येष्व् आनंतर्यकारिणां विपाकावकाशः. तेषु नरकेषु तेषां नरकपालानां को विप्रतिबन्धः. एतद् उक्तं भवति. तेषाम् अपि तावद् आनन्तर्यकारिणां महदानन्तर्यकर्मणो विपाकस्यातिमहतो नरकेष्व् अवकाशो ऽस्ति. किम् अंग पुनर् नरकपालानां यत् कर्म तत्कारणाः कारयताम् इति. कृतावधित्वात् कृतमर्यादत्वात् नरकपालान् प्रति. एते न दग्धव्या इति. भूतविशेषनिर्वृत्तेर् वा. भूतविशेषास् तादृशास् तेषां कर्मभिर् अभिनिर्वृत्ताः. यत् तेनाग्निना न दह्यन्ते.
कायशब्दविकारानुरूपाणीति. कायविकारानुरूपाणि अर्बुदो निर्बुद उत्पलः पद्मो महापद्मश् चेति नामानि. अर्बुदाद्याकारकायत्वात् तत्रत्यानां सत्त्वानां. शब्दविकारानुरूपाणि अठठः हहवः हुहुव इत्य् एतानि नामानि.
अत एवेति. धान्यराशिवद् अधोविशालत्वात्. बहिर् इति नान्तर्गतः.
(इइइ.61-63) तैजसं सूर्यकान्तात्मकं आप्यं चन्द्रकान्तात्मकं. यथासंभवम् इति. तदुभयमण्डलं दृष्ट्यादीनां देशकालावस्थान्तरानुरूप्येण अनुग्रहार्थम् उपघातार्थं च. एवम् अन्येष्व् अपि योज्यम् इति. कथं. यदा पूर्वविदेहे रात्रः. तदा जंबूद्वीपे [तिब्. 316अ] सूर्यास्तंगमनम् अवरगोदानीये मध्याह्नः उत्तरकुराव् उदय इत्य् एवम् अन्यत्रापि योज्यं.
प्रावृण्मासे द्वितीये ऽन्त्यनवम्याम्
इति. प्रावृण्मासाश् चत्वारः श्रावणो यावत् कार्त्तिकः. सर्वे च मासाः कृष्णपक्षाद्याः. तत्र भाद्रपदशुक्लपक्षनवम्यां रात्रिर् वर्धते.
हेमन्तकानां चतुर्थे हीयते.
हेमन्तीमासाश् चत्वारो मार्गशीर्षाद्याः फाल्गुनान्ताः. तत्र फाल्गुनशुक्लपक्षनवम्यां हीयते निलवंलवंल. कालध्वनोर् अत्यन्तसंयोगे द्वितीया.
( अभिध्-क्-व्य् 328 ) अपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति. तद्यथा स्तंभे प्रदीपच्छाया पतन्ती. यथायथा स्तंभ आसन्नो भवति. तथातथा स्तंभः स्वछायया छाद्यते. दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तंभो दृश्यते. किंचिद् आसन्ने किंचित् क्षीयते यावद् आसन्ने स्तंभो नष्टरूपो वर्तते. तद्वद् एतत्. वाहयोगः स तादृश इति. पुनस् तिर्यग् अवनामोन्नामयोगेनाधोभागश् चन्द्रमण्डलस्य क्षीयते. ऊर्ध्वं वर्धते चेति योगाचाराः. चातुर्महाराजकायिका इति चतुर्महाराजानां कायः. तत्र भवाश् चातुर्महाराजकायिकाः. सुमेरुपरिषण्डादीनीति. आदिशब्देन युगंधरादीनि.
(इइइ.64, 65) दशसाहस्रिकान्तरा
इति. योजनदशसहस्रप्रमाणान्तरा इत्य् अर्थः. अर्धम् आक्षिप्तम् इति. अर्धम् अवष्टब्धं.
सदामदा

इति. सदामत्ता इति वक्तव्ये श्लोकबन्धानुगुण्येन सदामदा इत्य् उक्तम् अर्थैकत्वात्. चतुर्थ्यां चत्वारो महाराजानः स्वयं प्रतिवसन्तीति. धृतराष्ट्रः पूर्वदिग्भागे. [तिब्. 316ब्] विरूढको दक्षिणे. विरूपक्षः पश्चिमे. वैश्रमण उत्तरस्मिन्न् इत्य् अनुक्रमो ऽवगन्तव्यः. चातुर्महाराजिका देवा इत्य् उक्तम् इति. यस्माच् चतुर्थ्यां परिषण्डायां चत्वारो महाराजानः स्वयं प्रतिवसंति. अत एवम् उक्तं महाराजिका देवा इति. महाराजेषु भवा इति कृत्वा महिष्ठो महत्तमः.
(इइइ.66-69) स विंशतिसहस्रदिग्
इति. यद्य् एवं कथम् इदम् उक्तं

समोच्छ्रायघनाश् च त.
इति. मध्यभागम् एवाभिसमीक्ष्यैवम् उक्तम् इति तेषाम् अभिप्रायः.
अध्यर्धम्
इति. अधिकम् अर्धम् अस्मिन्न् इति अध्यर्धं. अध्यर्धं योजनम् अस्येत्य्
अध्यर्धयोजनं.
समुच्छ्रायेणेति अध्याहार्यं. धातुशतेन रंगशतेन. नानारत्नस्थानविधानसंपदेति. नानारत्नविधानसम्पदा नानास्थानविधानसम्पदा च. सर्वान्यभवनानां श्रियस् तासां महिमानो महत्त्वानि. ह्रेपणो लज्जनो लज्जाजनक इत्य् अर्थः. दैर्घ्येणार्धतृतीयं योजनशतं पार्श्वम् इति. एकं पार्श्वम् एतत्प्रमाणं. यावच् चतुर्थम् अप्य् एतत्प्रमाणम् इति.
सुभूमीनीति.
शोभना भूमय एषाम् इति
सुभूमीनि क्रीडास्थानानि.
चतुर्दिशम्
इति. चतस्रो दिशो ऽस्येति
चतुर्दिशं
क्रियाविशेषणं. भागुरिमतेन दिक्छब्दो ऽकारन्तो भवति. विंशतियोजनान्य् अतिक्रम्य कृईडास्थानानि भवन्तीति. विंशतियोजनान्य् अन्तरितानीत्य् उच्यते. त्रायस्त्रिंशानाम् इति. त्रयस्त्रिंशास् तेषु भवास् त्रायस्त्रिंशाः. तेषां. कामरतिप्रकर्षालयः कामरतिविशेषस्थानं. वृक्षानतिक्रमं [तिब्. 317अ] संधायोक्तम् इति. तं कोविदारवृक्षम् अनतिक्रम्य स गन्धो वर्तते. तस्य पंचाशद्योजनानि शाखापत्त्रपलाशम् इति एवं वृक्षानतिक्रमं संधायोक्तं पंचाशद्योजनानि प्रतिवातं गन्धो वातीति. अत्रोत्तरम् आहुः. न हि नाम प्रतिवातं वातो भवति. यत्रैवोत्पद्यते. तत्रैव ध्वन्स्यते. न देशान्तरे संतानं संतनोति. उक्तं च पंचाशद्योजनानि प्रतिवातम् इति. तस्माद् असमाधिर् एषः. तस्मात् समाध्यन्तरम् इदम् आह. तस्यैव त्व् इति विस्तरः. किं पुनः कारणं योजनशतम् अत्र वातं गंधो वाति प्रतिवातं तु पंचाशत्. न ततः परेणेति अत आह. मन्दतरतमसमारंभात् त्व् इति विस्तरः. मृदुमारुतप्रतिबध्यमानतया मन्दतरतमसमारंभः. ततश् च स गन्धसंतान आश्व् एव समुच्छिद्यते. अतः कारणात् न तथा विप्रकृष्टम् अध्वानं योजनशतप्रमाणं प्रसर्पतीति.
उताहो वायुर् अधिवासितो जायत इति. यथा तिलेषु पुष्पगंधाद् गन्धान्तरम् उत्पद्यते ऽन्यद् एव न स पौष्पो गन्ध इत्य् आह. यदि पंचाशद्योजनं प्रतिवातगन्धो वाति. यत् तर्हि भगवतोक्तं
न पुष्पगन्धः प्रतिवातम् एतीति.
विस्तरः.
मौलिको गन्धो
मुस्तादिः.
कृत्याकृत्यं समर्थयन्त इति. कार्याकार्यं संप्रतीच्छन्ति संप्रधारयन्तीत्य् अर्थः.
(इइइ.70अब्) समासेन येषां भाजनं प्रज्ञायत इति. भाजनं स्थानं. विस्तरेणान्ये ऽपि देवाः क्रीडाप्रमोषकप्रहासकादयः सन्तीति. अतः समासेनोक्तं.
(इइइ.70च्द्) द्वंद्वेन [तिब्. 317ब्] यावद् ईक्षितेन मैथुनम् एषाम् इति
द्वंद्वालिंगनपाण्याप्तिहसितेक्षितमैथुनाः.
सऋवेषां समापत्त्येति. षण्णाम् अपि कामभुजां द्वंद्वसमापत्त्या परिदाहविगमः. कालपरिमाणं तु प्रज्ञप्ताव् उक्तम् इति. यावता कालेन द्वंद्वालिंगनपाण्याप्तिहसितेक्षितानि भवंति. तावता कालेन एषां भूमिसम्बन्धवासिनां यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिनां यथाक्रमं द्वंद्वसमापत्तिर् ( अभिध्-क्-व्य् 330 ) इति वैभाषिकाः. यावद्यावद् इति विस्तरः. यावद्यावत् परेण परतरेण विषयाणां तीव्रतरत्वात् रागो ऽपि तीव्रतरः. तावत्तावन् मैथुनकार इत्य् अभिप्रायः.
(इइइ.71च्द्) ते पुनश् चत्वारो देवनिकाया इति. चातुर्महाराजकायिका यावत् तुषिताः. यथोत्पन्नपरिभोगः स एषाम् अस्तीति यथोत्पन्नपरिभोगिनः. तद्भावः. तस्मात्. यथेच्छयात्मनिर्मितं. तस्य परिभोगः. पूर्ववत्. यथेच्छात्मपरनिर्मितपरिभोगित्वाद् इति. आत्मना परेण च निर्मिते. यथेच्छयात्मपरनिर्मिते. तयोः परिभोगः पूर्ववत्. यथेच्छपरनिर्मितपरिभोगित्वाद् इति केचित् पठन्ति. तत्र पाठे एवं विग्रहः. परनिर्मितं यथेच्छं परनिर्मितं. तस्य परिभोग इति. पूर्ववत्. निर्माणरतीनां परनिर्मितां कामान् परिभोक्तुं न समृध्यति. तद् एवं परनिर्मितवशवर्तिनां निर्माणरतिभ्यो [तिब्. 318अ] विशेषः प्रदर्शितो भवति. बाह्यरूपादिविषयनिर्माणं चात्र वेदितव्यं. विवेकजेन प्रथमध्यानभूमिकेन. अकुशलविविक्तत्वात्. समाधिजेन च द्वितीयध्यानभूमिकेन. वितर्कविचारविगमात्. प्रीतिसुखेनेति. प्रीतिलक्षणेन सुखेन. निःप्रीतिकेन च सुखेन. सौमनस्यविगमात्. सुखं विहरन्त इति. सुखम् इति क्रियाविशेषणं. सुखोपपत्तित्वं विचार्यम् इति. सुखाभावान् न ध्यानान्तरं सुखोपपत्तिर् इति शक्यं वक्तुं. कुशलविपाकत्वेन सुखकल्पत्वात् सुखोपपत्तिर् इति न शक्यं व्यवस्थापयितुं. चतुर्थे ऽपि ध्याने सुखोपपत्तिप्रसंग इति चेत्. न. तस्यां भूमौ सुखाभावात्. तस्माद् विचार्यं संप्रधार्यम् एतद् इति भावः.
(इइइ.72च्द्) एवं शेषा इति. ऋद्ध्या वा यामास् तुषितां गच्छेयुः. यदि ऋद्धिमता नीयेरन्. देवेन वा तत्रत्येन. समानभूमिकास् तु चातुर्महाराजकायिकाः त्रयस्त्रिंशां गच्छन्ति. आगतं तूर्ध्वोपपन्नं पश्येद् इति. समानभूमिकं नोर्ध्वभूमिकम् इति. प्रथमध्यानोपपन्नो न द्वितीयध्यानोपपन्नम् इत्यादि. तदिच्छयेति. ऊर्ध्वोपपनेच्छया. इहत्यम् इवेति. इहभव इहत्यः. अधोभूमिक इत्य् अर्थः. इहत्यम् इव पश्येद् इति निकायान्तरीयाः. यथा स्प्रष्टव्यम् इत्य् उदाहरणमात्रम् एतत्. [तिब्. 318ब्] यथा शब्द इत्य् एतद् अपि गम्येत.
चतुर्णां कामावचराणां यामादिस्थानानां. द्विगुणोत्तरम् इति. यामस्थानाद् द्विगुणं तुषितस्थानम् इत्यादि. चतुर्थं त्व् अपरिमाणम् इति. तारकावत् अतलवाटकप्रतिबद्धविमानत्वात् अपरिमाणत्वसंभव इत्य् अभिप्रायः.
(इइइ.73, 74) सहस्रं ब्रह्मलोकानाम्
इति. ब्रह्मकायिकब्रह्मपुरोहितमहाब्रह्मणाम् इत्य् अर्थः. लोके तथा प्रतीतत्वात्.
चूलिक
इति. महतो लोकधातोश् चूडाभूतत्वात् चूलिक इत्य् उच्यते. संभवो हि विवर्त इति. विविधवर्तनं विवर्तः. विविधा वा वर्तन्ते ऽस्मिन्न् इति विवर्तः. संवर्तनं संवर्तः. सम्वर्तन्ते वास्मिन्न् इति संवर्तः. तस्मिं हि काले सत्त्वा एकस्मिन् ध्याने द्वितीये तृतीये चतुर्थे वा संवर्तन्ते संगच्छन्त इति.
विवर्तते च संवृत्त आस्ते संवर्तते समम्
इति उत्तरत्र व्याख्यास्यामः.
(इइइ.75-77अब्) जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तका
इति. सार्धत्रिहस्तप्रमाणशरीराः. केचित् तु चतुर्हस्तप्रमाणशरीराः.
पूर्वगोदोत्तराह्वया
इति. पूर्वो गोद उत्तर इति चाह्वय एषां. ते
पूर्वगोदोत्तराह्वयाः.
तेषां यथासंख्यं अष्टहस्तप्रमाणाः पूर्वविदेहकाः षोडशहस्तप्रमाणाः गोदानीयाः द्वात्रिंशद्धस्तप्रमाणका औत्तरकौरवा इति.
पादवृद्ध्येति
विस्तरः.

यावत् सार्धक्रोश
इति वक्ष्यमाणत्वात् पाद इति क्रोशस्येति गम्यते. क्रोशचतुर्थभागमात्रं च शरीरं [तिब्. 319अ] चातुर्महाराजकायिकानां. द्विपादमात्रं त्रायस्त्रिंशानां यावद् अध्यर्धक्रोशमात्रं परनिर्मितवशवर्तिनां. योजनत्रयेण हीनं द्विगुणम् इति. द्विगुणं कृत्वा तृईणि योजनान्य् अपनेयानि. पंचविंशयोजनशतम् अनभ्रकाणां शरीरप्रंआणम् इति. पुण्यप्रसवानाम् इति. पुण्यप्रसवानाम् अर्धतृतीयं योजनशतं शरीरप्रमाणं. बृहत्फलानां पंचयोजनशतानीति गणयितव्यं.
(इइइ.77च्द्-80) कुमुदपद्मवद् इति. यथेह कुमुदानि अहनि संकुचन्ति रात्रौ विकसन्ति. पद्मानि तु विपर्ययेण. तथा तत्र केषांचिद् एव पुष्पाणां संकोचाद् अहनि च विकासाद् अहोरात्रव्यवस्थानं. शकुनीनां च कूजनाकूजनात्. अकूजनाद् रात्रिः कूजनात् प्रभातं. विपर्ययेण वा यथाशकुनिजाति. मिद्धापगमोपगमाच् च. मिद्धोपगमाद् रात्रिः प्रज्ञायते. मिद्धापगमात् प्रभातम् इति.
अधिकाधिकम्
इति. विंशतिर् अधिकं. अधिकं भवतीत्य् अर्थः. तेनाह. एवम् तेषां यथाक्रमं चत्वारिंशत् षष्टिर् अशीतिः कल्पसहस्राण्य् आयुःप्रमाणम् इति. विज्ञानानंत्यायतने ( अभिध्-क्-व्य् 332 ) चत्वारिंशत्. आकिंचन्यायतने षष्टिः. भवग्रे ऽशीतिर् इति. तस्माद् अधो महाकल्पस्यार्धम् इति विस्तरः. अशीतिर् अन्तरकल्पा महाकल्पः. तस्यार्धं चत्वारिंशद् अन्तरकल्पाः. तस्य महाकल्पार्धस्य कल्पीकृतस्य यद् अर्धं विंशतिर् अन्तरकल्पाः. तद् ब्रह्मकायिकानां आयुःप्रमाणं. [तिब्. 319ब्] यत् तदर्धकल्पीकृतं चत्वारिंशद् अन्तरकल्पाः. तद् ब्रह्मपुरोहितानाम् आयुःप्रमाणं. तद् एवम् आत्मीयार्धं महाब्रह्मण आयुःप्रमाणं. स ह्य् अध्यर्धः कल्प इत्य् उच्यते षष्ट्यन्तरकल्पसंख्या. महाब्रह्मादीनाम् इति. आदिशब्देन ब्रह्मपुरोहितानां ब्रह्मकायिकानां च प्रातिलोम्येन ग्रहणं.
अर्धम् अधस् तत
इति परीत्ताभाद् देवनिकायाद् इति निर्देशापेक्षणात्.
(इइइ.81-83) तेषाम् आयुःप्रमाणम् उक्तम् इति. तेषां महाब्रह्मणां ब्रह्मपुरोहितानां ब्रह्मकायिकानां.
कामदेवायुषा तुल्या
इति विस्तरः. चातुर्महाराजकायिकानां यद् आयुःप्रमाणम् उक्तं. स संजीवे अहोरात्रः. एवं यावद् यत् परनिर्मितवशवर्तिनाम् आयुःप्रमाणम् उक्तं. स तपने अहोरात्रः.
कामदेववद्
इति. कामदेवानाम् इव
कामदेववत्.
तत्र तस्येवेति वतिः. तेन यावत् द्वादशमासकेनेति तेन तत्रत्येनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वाद्शमासकेन सम्वत्सरेण तत्रत्यानि दिव्यानि पंच वर्षशतान्य् आयुर् इत्यादि. एवम् अन्येष्व् अपि यथायोगं योज्यम् इति. यद् यामानाम् आयुःप्रमाणं. तत् संघाते महानरके एकं रात्रिंदिवम्. तेन रात्रिदिवेन तस्मिन् वर्षसहस्रद्वयम् आयुःप्रमाणं. एवम् अन्येष्व् अपि यथायोगं योज्यं. अष्टाव् इमे भिक्षव इति. अष्टाव् इमे भिक्षवः नागा महानागाः कल्पस्था धरणिंधराः अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरम् अपि [तिब्. 320अ] संग्रामम् अनुभवन्त्य् अपि प्रत्यनुभवन्त्य् अपि. ते पुनः कतमे. तद्यथा नन्दो नागराजः उपनन्दो नागराजः अश्वतरी नागराजः मुचिलिन्दो नागराजः मनस्वी नागराजः धृतराष्ट्रो नागराजो महाकालो नागराज एलपत्त्रो नागराज इति. चूलिकाबद्ध इति शिखाबद्धः.
(इइइ.84अब्) एकजातिप्रतिबद्धस्येति. एकजन्मप्रतिबधबुद्धत्वस्य. चरमभविकस्येति अन्त्यजन्मनः, येन तस्मिन्न् एव जन्मनि अर्हत्त्वं साक्षात् ( अभिध्-क्-व्य् 333 ) कर्तव्यम्. तस्य नास्त्य् अन्तरेण कालक्रिया यावद् अर्हत्त्वं न प्राप्नोति. श्रद्धानुसारिधर्मानुसारिणोः नास्त्य् अन्तरेण कालक्रिया यावच् छ्रद्धाधिमुक्तदृष्टिप्राप्तौ न भवतः. तद्गर्भयोर् इति. बोधिसत्त्वचक्रवर्तिगर्भयोः. तन्मात्रोर् नास्त्य् अन्तरेण कालक्रिया यावन् न तौ जायेते. एवमादीनाम् इति. आदिशब्देन निरोधासंज्ञिसमापत्तिसमापन्नानां मैत्र्यादिसमापन्नानां च नास्त्य् अन्तरेण कालक्रिया यावत् तस्मात् समाधेर् न व्युत्तिष्ठन्ते.
(इइइ.85, 86) चतुर्विंशतिर् अंगुल्यो हस्त
इति. अभिधर्मवचनकाले यः पुरुषहस्तः. स ग्रहीतव्यः. येन चातुर्द्वीपकादिपरिमाणव्यवस्थानं.
(इइइ.87, 88) हेमन्तानाम् इति. यथा वर्षा इत्य् एकस्मिन्न् अप्य् अर्थे बहुवचनं प्रसिद्धं. एवं हेमन्ता ग्रीष्मा इति द्रष्टव्यं. प्रवचने त्रय एव र्तवो न यथा लोके षड् इति. शिशिरो हि शीतसामान्याद् धेमन्त इत्य् उक्तः. वसन्तो ऽप्य् उष्णसामान्याद् ग्रीष्म इत्य् उक्तः. शरद् अपि वृष्टिसामान्याद् [तिब्. 320ब्] वर्षा इत्य् उक्तेति.
हेमन्तग्रीष्मवर्षाणाम्
इति. सर्वबौद्धानां हेमन्ताः प्रथम ऋतुः. ग्रीष्मा द्वितीयः. वर्षास् तृतीयः. तत्राधिकम् अर्धम् अस्येति अध्यर्धो मासः. तस्मिन्न्
अध्यर्धमासि निर्गते.
मार्गशीर्षे सपौषर्धे ऽतिक्रान्ते.
शेषे ऽर्धमासे.
पौषस्यर्धे ऽवशिष्टे कृष्णचतुर्दश्याम्.
ऊनरात्रो
विद्वद्भिर्
बौद्धैर्
निपात्यते
त्यज्यते इत्य् अर्थः. चातुर्दशिको ऽत्र भिक्षुभिः पोषधः क्रियते. एवं माघे फाल्गुनार्धे ऽतिक्रान्ते शेषे ऽर्धमासे फाल्गुनावशिष्टे पुनर् अपर ऊनरात्रो निपात्यते. तथा ग्रीष्मेषु वैशाखकृष्णचतुर्दश्यां आषाढचतुर्दश्यां चापराव् ऊनरात्रौ निपात्येते. वर्षेष्व् अपि भाद्रपदकृष्णचतुर्दश्यां कार्त्तिककृष्णचतुर्दश्यां चापराव् ऊनरात्रौ निपात्येते.

(इइइ.89-92) गतिसंवर्तनीति. नरकाद्याः पंच गतयो गत्येकदेशे देवगतौ संवर्तन्ते. एकस्थीभवन्तीत्य् अर्थः. धातुसंवर्तनी चेति. कामधातुः रूपधातौ संवर्तत इति. सत्त्वसंवर्तनीति. यदा सत्त्वा एव सम्वर्तन्ते ध्यानेष्व् एकस्थीभवन्ति. न तु तावद् भाजनानि संवर्तन्ते. विनश्यन्तीत्य् अर्थः. भाजनसम्वर्तनीति. यदा भाजनान्य् एव सम्वर्तन्ते न तु सत्त्वाः. एकस्यापि सत्त्वस्य तत्राभावात्. यद् अयं लोक इति विस्तरः. यद् अयं ( अभिध्-क्-व्य् 334 ) लोको विंशतिम् अन्तरकल्पान् विवृत्तो जातः. यावन् नरकोत्पत्तिप्रभृति निर्यातं. [तिब्. 321अ] तन् निष्ठितं वक्तव्यम् इत्य् अर्थः. तत् प्रतिपन्नं वक्तव्यम् इति तत् संवर्तनम् आरब्धं वक्तव्यम् इत्य् अर्थः. एवं तिर्यक्संवर्तनी प्रेतसंवर्तनी च वक्तव्येति. यदा तिर्यक्ष्व् एकसत्त्वो ऽपि नावशिष्टो भवति. इयता ऽयं लोकः सम्वृत्तो भवति तिर्यक्सम्वर्तन्या. यस्य तदानीं नियतं तिर्यग्वेदनीयं कर्म ध्रियते. स लोकधात्वन्तरतिर्यक्षु क्षिप्यते. एवं प्रेतसंवर्तनी योज्या यदा प्रेतेष्व् इति विस्तरेण. मनुष्यसहचरिष्णव इति. मनुष्यसहचरणशीलाः. गोमहिषादयः. धर्मताप्रतिलंभिकम् इति. धर्मता नाम कुशलानां धर्माणां तदानीं परिणामविशेषः. तया प्रतिलंभो ऽस्यास्तीति धर्मताप्रतिलंभिकं. यन् मनुष्येष्व् इति. जम्बूद्वीपमनुष्येष्व् इत्य् अभिप्रायः. एवं पूर्वविदेहगोदानीयसम्वर्तन्यौ योज्यौ. उत्तरकुरुसंवर्तनी त्व् एवं वक्तव्या भवेति. स कालो यद् उत्तरकुरौ मनुष्याश् च्यवन्त एव नोपपद्यन्ते. यदा तत्रैकसत्त्वो पि नावशिष्टो भवति. इयतायं लोकः संवृत्तो भवति उत्तरकुरुसम्वर्तन्येति. कस्माद् एवं वक्तव्या. न तु जंबुद्वीपसम्वर्तन्यादिवद् इत्य् आह. तत्र वैराग्याभावात्. तत्रोत्तरकुरौ वैराग्याभावात्. इत एव सामन्तकाद् इति. चातुर्द्वीपकसामन्तकाद् इत्य् अर्थः. तदाक्षेपके कर्मणि परिक्षीण इति. भाजनाक्षेपके भाजनोत्पादके परिक्षीण इत्य् अर्थः. ब्राह्मं विमानं निर्दहद् अर्चिः परैति [तिब्. 321ब्] गच्छतीत्य् अर्थः. तच् च तद्भूमिकम् एवार्चिर् इति. प्रथमध्यानभूमिकं. कस्माद् इत्य् आह. न हि विसभागा विसदृशाः अपक्षाला उपद्रवाः अग्न्यादयः क्रमन्ते तापयन्त इत्य् अर्थः. आह. यद्य् एवं किम् इदम् उच्यते. तस्माद् एव चेति विस्तरेणेत्य् अत उच्यते. तद्सम्बद्धसंभूतत्वाद् इति विस्तरः. तेन कामावचरेणार्चिषा सम्बद्धं संभूतं रूपावचरम् अर्चिः. तद्भावः. तस्माद् इति. एवम् अन्यस्याम् इति. यथा तेजःसम्वर्तन्याम् उक्तम् एवम् अन्यस्याम् अप्य् अप्संवर्तन्यां वायुषंवर्तन्यां च यथासंभवं वेदितव्यं. कथं कृत्वा. नरकादिसंवर्तनीं पूर्ववद् उक्त्वा यावद् इयतायं लोकः सम्वृत्तो भवति सत्त्वसम्वर्तन्या. ततः शून्ये भाजने सहजो ऽब्धातुः संभवति. यस् तं भाजनलोकं लवणम् इव विलोपयति. स कामावचरो ऽब्धातुः प्रथमध्यानभूमिकं अब्धातुं संबध्नाति. स च द्वितीयध्यानभूमिकं सम्बध्नाति. स चाब्धातुस् त्रिभूमिको ऽपि स्वेनस्वेन भाजनेन सहान्तर्धीयते. एवं वायुसंवर्तन्यां सहजो वायुः संभवतीति वक्तव्यं. कथम् इति. पूर्ववद् उक्त्वा यावत् सहजो वायुधातुः संभवतीति. यस् तं भाजनलोकं कामावचरं यावत् तृतीयध्यानभूमिकं क्रमेण पांसुराशिम् इव ( अभिध्-क्-व्य् 335 ) विकरति विध्वंसयति. यावत् तेनैव सार्धम् अन्तर्धीयते.
विवर्तकल्पं विस्तरेण वक्तुकाम आह. तथा हि सम्वृत्तो लोक इति विस्तरः. तथेति यथा वर्णितं. तदेति विस्तरः. [तिब्. 322अ] यदाकाशे मन्दमन्दा वायवः स्पन्दन्ते. तदा प्रभृति यद् अयं लोको विंशतिम् अन्तरकल्पान् संवृत्तो ऽस्थात्. तन् निर्यातं परिसमाप्तं वक्तव्यं. तद् उपयातं वक्तव्यम् इति. तद् आरब्धं वक्तव्यम् इत्य् अर्थः. यथोक्तक्रमविधानम् इति. यथोक्तेन क्रमेण विधानेन च सर्वं जायते. यथोक्तः क्रमो वायुमण्डलं अप्मण्डलम् ततः कांचनमयी पृथिवी ततः सुमेर्वादयश् चेति. यथोक्तं विधानं यस्य यद् विधानम् उक्तं आयामोद्वेधपरिणाहसंस्थानलक्षणं. तत् तथा सर्वं जायते. प्रथमं तु ब्राह्मम् इति विस्तरः. यत् पश्चात् संवर्तते. तत् पूर्वं विवर्तत इति स्थितिः. तेनाह. प्रथमं तु ब्राह्मं विमानम् उत्पद्यते. ततो यावद् यामीयम् इति. यावच्छब्देन ब्रह्मविमानानन्तरं परनिर्मितवशवर्तिविमानं तदनंतरं निर्माणरतिविमानं ततो ऽनन्तरं यावद् यामीयं विमानम् उत्पद्यते. ततो यामीयविमानोत्पत्त्यनन्तरं वायुमण्डलादीनीति. यद् उत भाजनविवर्तन्येति न सत्त्वविवर्तन्येति दर्शयति. शून्ये ब्राह्मे विमाने उत्पद्यत इति महाब्रह्मा. अन्ये ऽपि च सत्त्वा इति तद्परिवाराः. ततश् च्युत्वा ब्रह्मपुरोहितेष्व् इति. तत आभास्वरेभ्यः. तन् निर्यातं भवतीति. तद् विवर्तनं लोकस्य परिसमाप्तं भवतीत्य् अर्थः.
तद् उपयातं भवतीति. आरब्धं विवृत्तावस्थानम् इत्य् अर्थः. एकान्नविंशतिर् अन्तरकल्पा अपरिमितायुषाम् [तिब्. 322ब्] इति. एको ऽन्तरकल्पो ब्रह्मलोकविमानादिभाजननिर्वृत्त्यातिक्रान्त इति एकोनविंशतिर् अवशिष्टा अन्तरकल्पा अपरिमितायुषां मानुष्याणां अतिक्रामन्ति आ नरकसत्त्वप्रादुर्भावात्. सा च विवर्तमानावस्थातिक्रान्ता एवावगन्तव्या. प्रादुर्भूते नारके सत्त्वे विवृत्तावस्था प्रारब्धा. सेयम् उच्यते. अपरिमितायुषाम् एव ह्रसतां यावद् दशवर्षायुषाम् एको विवृत्तवस्थान्तरकल्पः. तेनाह. सो ऽसौ विवृत्तानां तिष्ठतां प्रहमान्तरकल्प इति. ततो ऽष्टादश
उत्कर्षा अपकर्षाश् च.
ततस् तु
उत्कर्ष एक
इति. विंशत्यन्तरकल्पपरिमाणा विवृत्तवस्थावगन्तव्या.
पंचस्कंधस्वभावः कल्पः
त एवाध्वा कथावस्त्व्
इति. मुक्तकम् इति. न चतुरागमान्तर्गतम् इत्य् अर्थः. अष्ट्कं मध्याद् ( अभिध्-क्-व्य् 336 ) विस्मृतम् इति. अष्टौ स्थानानि क्वापि प्रदेशे प्रमुषितत्वात् न पठितानि. तेनात्र द्वापंचाशात् स्थानानि भवंति. षष्ट्या च संख्यास्थानैर् भवितव्यं. तान्य् अष्टकानि स्वयं कानिचिन् नामानि कृत्वा पठितव्यानि. येन षष्टिसंख्यास्थानानि परिपूर्णानि भवेयुः. असंख्या इति. असंख्येयाः. संख्यानेनासंख्येयाः असंख्या इति. बहुवचननिर्देशाद् अनुक्ता अपि तद्धिता भवंति. यद्य् एवं
तदसंख्यत्रयोद्भवम्

इति कथम् उक्तं. नैष दोषः. नास्ति संख्यापरेणैष्व् इति असंख्याः असंख्येयाः कल्पाः. असंख्याश् चासंख्याश् च असंख्याश् चेति असंख्याः. तेषां त्रयं. तेषां कल्पानां असंख्यत्रयोद्भवतीति
तदसंख्यत्रयोद्भवं
बुद्धत्वम्
इति एवं तद् व्याख्यातव्यं.
तस्याभिमतत्वाद् इति. तस्य परार्थस्याभिमतत्वात्. यो ह्य् अभिमतः. स स्वार्थो दृष्ट इति. [तिब्. 323अ] तद्धेतोर् इति. आत्मस्नेहहेतोः. आत्मस्नेहं तेभ्य इति विस्तरः. आत्मस्नेहं तेभ्यः स्वासांतानिकेभ्यः संस्कारेभ्यो निवर्त्य अपेक्षां करुणालक्षणां वर्धयित्वा तद्धेतोर् अपेक्षाहेतोर् दुःखान्य् उद्वहन्तीति संभाव्यं प्रतिपत्तव्यं.
मध्यो दुःखनिवृत्तिम् एवेति.
प्रत्येकबुद्धः श्रावको दुःखनिवृत्तिम् एव मोक्षम् एव प्रार्थयते.
न सुखं.
सांसारिकं. कुतः.
दुःखास्पदं तद् यतः.
यस्मात् तत् सांसारिकं सुखं दुःखस्थानं भवति.
श्रेष्टो
बोधिसत्त्वः
स्वसंततिगतैर् दुःखैः परेषां सुखम्
आभ्युदयिकं.
दुःखात्यन्तनिवृत्तिम् एव च
निःश्रेयसस्वभावां परेषां प्रार्थयते. अथ वा
परेषां सुखम्
आभ्युदयिकनैःश्रेयसिकं प्रार्थयते.
दुःखात्यन्तनिवृत्तिम् एव च
बुद्धलक्षणाम् आत्मीयां परहितक्रियोपायभूतां प्रार्थयते. कस्माद् इत्य् आह.
यतस् तद्दुःखदुःख्य् एव स
इति. यस्मात् परदुःखैः. स बोधिसत्त्वो दुःखी भवति. अत एव सुखं द्विप्रकारं प्रार्थयत इति.
(इइइ.93) अपकर्षस्याधस्ताद् इति विस्तरः. वर्षशतस्याधस्तात् पंच कषाया अभ्युत्सदा भवन्ति. अभ्यधिको भवन्तीत्य् अर्थः. वर्षशते ऽप्य् उत्सदा न त्व् अभ्युत्सदा यथाधस्तात्. आयुःकषाय इति. किट्टभूतं प्रत्यवरं कषायः. आयुर् एव कषाय आयुःकषायः. एवं कल्पकषायादयः. यथाक्रमम् इति. जीवितविपत्तिर् आयुःकषायेण. उपकरणविपत्तिः कल्पकषायेण. धान्यपुष्पफलौषधादीन्य् उपकरणानि अल्परसवीर्यविपाकप्रभावानि. हि तानि भवंति. नैव वा भवंति. द्वाभ्यां कुशलपक्षविपत्तिर् [तिब्. 323ब्] इति. क्लेशकषायेण दृष्टिकषायेण च कुशलपक्षस्य विपत्तिः. कथम् इत्य् आह. कामसुखल्लिकात्मक्लमथानुयोगाधिकाराद् इति. कामसुखम् एव कामसुखल्लिका. कामसुखलीनतेति वा कामतृष्णा वा कामसुखल्लिका यया कामसुखे सज्यते. आत्मक्लमथ आत्मोपतापः आत्मपीडेत्य् अर्थः. कामसुखल्लिकात्मक्लमथयोर् अनुयोगो ऽनुसेवनं. तस्याधिकारः. तस्मात्. तद् उक्तं. कामसुखल्लिकानुयोगम् आत्मक्लमथानुयोगं वाधिकृत्यारभ्य क्लेशदृष्टिकषायाभ्यां कुशलपक्षविपत्तिर् भवतीति. एवं तावद् अविशेषेण. गृहिप्रव्रजितपक्षयोर् वा. गृहिपक्षस्य क्लेशकषायेण कुशलपक्षविपत्तिः. प्रव्रजितपक्षस्य दृष्टिकषायेण. यथाक्रमं कामप्रधाना गृहिणः दृष्टिप्रधानाः प्रव्रजिता इति. एकेनेति सत्त्वकषायेण.
द्विविधा हि प्रत्येकबुद्धा इति. यस्माद् वर्गचारिणो ऽपि प्रत्येकबुद्धाः श्रावकपूर्विणो भवंति. न केवलं खड्गविषाणकल्पाः. तस्माद् उत्कर्षे ऽपि तेषाम् उत्पत्तिर् न विरुध्यते. ये हि उत्पादितस्रोतआपत्तिफलसकृदागामिफलाः अंतर्हिते बुद्धशासने स्वयम् अर्हत्त्वम् अधिगच्छंति. ते वर्गचारिणः. ते च पूर्वबुद्धोत्पादकाल एव प्राकृतसम्वेगत्वान् न पुनः सम्वेजनीया इति. तदीर्यापथसंदर्शनाद् इति. प्रत्येकबुद्धेर्यापथसंदर्शनात् पर्यंकबन्धसमाधिरूपसंदर्शनात्. न चार्यास् सन्तः कष्टानि तपांसि तप्येरन्न् [तिब्. 324अ] इति. सत्यदर्शनकाल एव शीलव्रतपरामर्शदृष्टेः प्रहीणत्वात्. शीलव्रतपरामर्शपूर्वकत्वाच् च कष्टतपःक्रियायाः. खड्गविषाणकल्पा इति. यथा खड्गविषाणा अद्वितीया भवंति. एवं ते गृहस्थप्रव्रजितैः अन्यैश् च प्रत्येकबुद्धैर् असंसृष्टविहारिण इति. खड्गविषाणकल्पा इत्य् उच्यन्ते.
कल्पशतान्वय
इति. कल्पशतकृतबोधिहेतुर् इत्य् अर्थः. अत एव व्याचष्टे. महाकल्पानां ( अभिध्-क्-व्य् 338 ) शतं बोधिसंभारेषु शीलसमाधिप्रज्ञालक्षणेषु चरितः कृतप्रयोग इति. शक्यं च तैर् इति विस्तरः. अथापि ते प्रतिसंवित्प्राप्ता न भवेयुः. तथापि तैः प्रणिधिज्ञानेन पूर्वबुद्धानाम् अनुशासनम् अनुस्मृत्य धर्मो देशयितुं शक्यते. ऋद्धेर् आविःकरणाद् इति. आकाशगमनादिकायाः सत्त्वानुग्रहार्थं प्रकाशनात्. नापि सत्त्वानाम् अभव्यत्वात्. धर्मं न देशयन्तीति वाक्यशेषः. कस्माद् इत्य् आह. तथा हीति विस्तरः. यस्माद् धि लौकिकवीतरागास् तदानीं संविद्यंते. तस्माल् लोकोत्तरवीतरागा अपि संभवेयुर् इत्य् अभिप्रायः. यद्य् एते न हेतवो धर्मदेशनाया अकरणे. कस् तर्हि हेतुर् इत्य् आह. किं तर्हीति विस्तरः. पूर्वाभ्यासवशेन असंसर्गाभ्यासवशेनाल्पोत्सुखताधिमुक्तत्वात्. तत्कृतरुचित्वाद् इत्य् अर्थः. गणपरिकर्षणप्रसंगपरिहारार्थं च नोत्सहन्ते गंभीरधर्मग्रहणाय परेषां व्यापर्तुं. तथा व्यापारे हि सति गणः परिक्रष्टव्यः स्यात्. गणपरिकर्षणप्रसंगं पुनः [तिब्. 324ब्] कस्मात् परिहरन्ति. व्याक्षेपसंसर्गभीरुत्वात्. व्याक्षेपसंसर्गाभ्यां भीरुत्वात्. व्याक्षेपो ऽभिप्रेतसमाध्यादिकर्मण्य् अप्रवृत्तिः. संसर्गो ऽन्यसंपर्कः. व्याक्षेपसंसर्गभीरुत्वं पुनः पूर्वाभ्यासवशात्.

(इइइ.94, 95) एष प्राज्ञप्तिक इति प्रज्ञप्तिशास्त्रनिर्देशः. चतुर्विधास् चक्रवर्तिन इति. सूत्रे तु सुवर्णचक्रवर्त्य् एवोक्तः प्राधान्यात्. अस्थानं वर्तमानकालापेक्षया. अनवकाशः अनागतापेक्षया. अनागते ऽप्य् अध्वनि संभवात् युगपद् द्वयोर् इति. अपूर्वाचरमाव् इति.नैकः पूर्वो नापरः पश्चात्. किं तर्हि. सहेत्य् अर्थः. समसम इति वीप्सा. अथ वा समैः सर्वसत्त्वेषु बुद्धैर् भगवद्भिः सम इति समसमः. तावतो ऽनभिसंस्कारेणेति. तावतो लोकधातोर् अनाभोगेन दर्शनात्. निकायान्तरीया इति महासांघिकप्रभृतयः. न चैकत्रेति लोकधातौ. पुरुषायुषम् इति. पुरुषस्यायुः पुरुषायुषं. तद् बिभ्रतेति वर्तते. इदम् इन्द्रियम् इति श्रद्धादि. अस्यांगस्येति. अस्य प्रत्ययस्य. किम् इदम् एकं लोकधातुम् अधिकृत्येति. एकचातुर्द्वीपकं त्रिसाहस्रमहासाहस्रं वा लोकधातुम् अधिकृत्यैतद् उक्तम् इत्य् अभिप्रायः. चक्रवर्तिनो ऽपि चेति विस्तरः. अस्थानम् अनवकाशो यद् अपूर्वचरमौ द्वौ तथागतौ लोक उत्पद्येयाताम् इति नानेन वचनेन लोकधात्वन्तरोत्पादप्रतिषेधः. तथागतानां तथोक्तत्वात्. [तिब्. 325अ] तद्यथा चक्रवर्तिनां. चक्रवर्तिनो ऽपि हि तथोक्ताः. अस्थानम् अनवकाशो यद् अपूर्वचरमौ द्वौ चक्रवर्तिनौ लोक उत्पद्येयाताम् इति. जनाः प्राकृतमनुष्याः. मनुष्याश् तु मतिमन्तः. शस्त्राण्य् आवहन्ति उत्क्षिपन्ति. गृहपतिरत्नं कोशाध्यक्षजातीयः. परिणायकरत्नं बलाध्यक्षजातीयः. तद्सम्बन्धजातीयम् इति. तेन ( अभिध्-क्-व्य् 339 ) चक्रवर्तिना सम्बद्धः. तत्संबद्धस्य तत्संबन्धेन वा सम्वर्तनं तस्मै हितं तदनुकूलं तत्सम्बद्धसम्वर्तनीयम् इति. येन सत्त्वेन कर्मोपचितं. तस्मिन्न् उत्पन्ने चक्रवर्तिनि. स्वान्य् एवैनं सत्त्वं कर्माण्य् उत्पादयन्ति. न तु सत्त्वश् चक्रवर्तिकुशलविपाकोत्पत्तिप्रत्ययभावम् आपद्यते. स च कुशलविपाकश् चक्रवर्तिन एवेत्य् अवगन्तव्यं. देशस्थतराणीति अभ्रष्टस्थानानि. उत्तप्ततराणि प्रभास्वराणि. संपूर्णतराणि अखण्डरूपाणि. चक्रवर्तिराजप्रस्तावेनेदं विचार्यते.
(इइइ.96) किं खलु यावत् सराजका इति. रूपावचरा इवासन्न् इत्य् अस्यार्थस्य प्रतिपादनाय सूत्रम् आनयति. सूत्र उक्तम् इति विस्तरः. दृश्यरूपत्वाद् रूपिणः. उपपादुकत्वान् मनोमयाः. हस्तपादतदंगुल्याद्युपेतत्वात् सर्वंगप्रत्यंयोपेतः. समग्रेन्द्रियत्वात् अविकलाः. काणविब्रान्ताद्यभावाद् अहीनेन्द्रियाः. दर्शनीयसंस्थानत्वात् शुभाः. रमणीयवर्णत्वात् वर्णस्थायिनः. आदित्यादिप्रभानपेक्षत्वात् स्वयंप्रभाः. कर्मर्द्धिसंयोगेनाकाशचरत्वात् विहायसंगमाः. कवडीकाराहारानपेक्षत्वात् [तिब्. 325ब्] प्रीतिभक्षाः. प्रीत्याहारा इति पर्यायौ. तथा दीघायुषो दीर्घम् अध्वानं तिष्ठन्तीति. मधुस्वादुरस इति. मधुन इव स्वादुरसो ऽस्य रस इति. अयोनिशोमनस्कारस्य ग्राहभूतस्य ग्रासतां गतानां सत्त्वानां काम एव ग्रहः. तेनावेशस् तस्यारंभ इति. सायमाशार्थम् इति. अपरह्णभोजनार्थं. प्रातराशार्थम् इति. प्रातर्भोजनार्थम्. संनिधिकारः संग्रहः. क्षेत्राणि विभज्य अकृष्टोप्तेन शालिना तद्वृत्तिकल्पनात्. क्षत्रियादिसंज्ञानां नैरुक्तेन विधिना सिद्धिः.
(इइइ.97) निर्याणम्
इति परिसमाप्तिः. अधर्मरागरक्ता इति. काममिथ्याचाररागाध्यवसिताः. विषमलोभाभिभूता इति. विषमलोभः परकीयस्वीकरणेच्छा चौर्याद् बलाद् वा. तेनाभिभूताः. मिथ्याधर्मपरीता इति विपरीतधर्मपरिदीपकाः. अमातृज्ञा अपितृज्ञा इति विस्तरः. पुनः कल्पस्य निर्याणकाल इति. कल्पस्य निर्याणानि त्रीण्य् उच्यन्ते. शस्त्ररोगदुर्भिक्षाणि. किम् एकस्य दशवर्षायुःकल्पस्य त्रीणि निर्याणानि क्रमेण भवंति. आहोस्विद् एकैकस्य एकैकं क्रमेणेति. एक तावद् आहुः. एकैकम् इति. अपरे पुनर् आहुः. एकस्य क्रमेण त्रीणि भवंति. पूर्वं दुर्भिक्षं तदनन्तरो रोगः तदनंतरं शस्त्रम् इति. पूर्वकस् तु पक्ष इष्ट इति पश्यामः. तैर् एव दोषैर् इति अधर्मादिरागादिभिः. अमनुष्याः पिशाचादय ईतिं व्याध्यादिकाम् उत्सृजंति. ओजो वा हरंति. प्रभावतो वा पुष्पफलौषधिप्रभृतीनां महाभूतानि दूषयंति. [तिब्. 326अ] यतस् तेषाम् असाध्या व्याधयः प्रादुर्भवन्ति. यतो म्रियन्ते. तदा चेति विस्तरः. यदेह. जम्बूद्वीपे ( अभिध्-क्-व्य् 340 ) शस्त्रकः प्राणातिपातः. तदा द्वयोर् द्वीपयोः पूर्वविदेहावरगोदानीययोर् व्यापाद उद्रेकप्राप्तो भवति. यदेह रोगः. तदा तयोर् दौर्बल्यं. यदेह दुर्भिक्षं. तदा तयोर् जिघत्सापिपासे.

(इइइ.98, 99) तीर्थकाराः. कणभुक्प्रभृतयः. वायुर् बीजम् उक्तम् इति. बहुविधप्रभावभिन्नैर् वायुभिर् अभिमथ्यमाना इति वचनात्. तस्य निमित्तम् इति. रूपावचरो वायुर् अविनष्टः कामावचरस्य विवर्तकाले प्रथमक्षणोत्पन्नस्य वायोर् निमित्तं. बीजान्य् आह्रियंते इति. पंच बीजजातानि मूलबीजादीनि. मूलबीजं फलुबीजं बीजबीजं अग्रबीजं स्कंधबीजं. एवम् अपीति. यद्य् अप्य् आह्रियन्ते बीजानि न ते स्थूलभावानां बीजादिभ्यो बीजांकुरगण्डादिभ्यो ऽंकुरादीनाम् अंकुरकाण्डादीनाम् उत्पत्तिम् इच्छन्ति. बीजादीनि हि तेषां निमित्तकारणानि न समवायिकारणानि. समवायिकारणैश् च भवितव्यं. अत आह. किं तर्हि. स्वेभ्य एवावयवेभ्य इति विस्तरः. तद्यथांकुराद्यवयवी अंकुराद्यवयवेभ्यः. तेषाम् अपि अंकुराद्यवयवानां स्वेभ्य एवावयवेभ्यः. तेषाम् अपि स्वेभ्य एवेति एवं यावत् परमाणुभ्यः. अन्यत्र परमाणूपसर्पणाद् इति. न जनने बीजादीनां सामर्थ्यं किंचिद् अस्ति. अंकुरादिपरमाणूपसर्पणात् तु तेषां सामर्थ्यम् इष्यत इत्य् अभिप्रायः. अनियमो [तिब्. 326ब्] हि स्याद् इति. तन्त्वादिभ्यो ऽपि कटाद्युत्पत्तिः स्याद् इत्य् अर्थः. शक्तिनियमाद् इति. यथा बीजादीनां सामर्थ्यनियमान् न अनियमो भविष्यति. शब्दपाकजोत्पत्तिवत्. यथा शब्दो ऽभिघातादिभ्यो विजातीयेभ्य उत्पद्यते. अथ च न यतः कुतश्चिद् गन्धरसादेर् विजातीयाद् उत्पद्यते. अभिघातादीनाम् एव विजातीयानां तदुत्पादने सामर्थ्यात्. तथा पाकजा रूपादयो विजातीयाद् अग्न्यादेर् उत्पद्यंते. अथ च न यतः कुतश्चिद् विजातीयाच् चक्षुरादेर् उत्पद्यंते. अग्न्यादेर् एव तदुत्पादने सामर्थ्यात्. वैशेषिक आह. चित्रो वै गुणधर्मः स्वजातीयेभ्यो विजातीयेभ्यश् चोत्पद्यते. स्वजातीयेभ्यस् तावत्. रूपरसगन्धस्पर्शादयः कारणपूर्वाः रूपरसगन्धस्पर्शादिभ्य एवोत्पद्यंते. विजातीयेभ्यो ऽपि संयोगविभागपाकजादयः कर्मादिभ्यः. तद् एवं गुणधर्मो द्रव्यधर्मं प्रति अनुदाहरणं. त एव हि ते तथेति विस्तरः. वीरणादय एव हि ते तथा तेन प्रकारेण कटादिरूपेण संनिविष्टा व्यवस्थिताः. तां कटसंज्ञां लभन्ते. पिपीलिकादिपंक्तिवत्. यथा पिपीलिकाः. तथा संनिविष्टाः पंक्तिर् इति संज्ञां लभन्ते. न च ताभ्यो ऽन्यत् पंक्तिद्रव्यम् अस्ति भवताम् अपि सिद्धान्ते. कथं गम्यते तानि वीरणादीनि तथासंनिविष्टानि कटादिसंज्ञां लभन्ते. न पुनस् तेभ्यो द्रव्यान्तराणीति. अत आह. एकतन्तुसंयोगे पटस्यानुपलंभात्. आरब्धकार्ये ह्य् एकस्मिं तंतौ चक्षुःसंस्पर्शाभ्यां ( अभिध्-क्-व्य् 341 ) [तिब्. 327अ] संयुक्ते भवन्मतेन पटो ऽपि च ताभ्यां संनिकृष्ट इति असाव् अपि तथैवोपलभ्येत. यदि ब्रूयात्. प्रतिबन्धात् तस्यानुपलब्धिर् इति. अत आह. को हि तदा सतो विद्यमानस्य पटस्योपलब्धौ प्रतिबन्ध इति. नास्ति प्रतिबन्ध इत्य् अभिप्रायः. तस्मान् न पटो नाम द्रव्यान्तरम् अस्तीति. स्यान् मतं. एकैकस्मिन् तन्तौ प्रदेशेन पटो वर्तते न सर्वात्मना वर्तत इति. अत उच्यते. अकृत्स्नवृत्तव् इति विस्तरः. अकृत्स्नवृत्तौ पटस्य कल्पमानायां पटभागो ऽत्रैकैकस्मिन् तन्तौ स्यान् न पटस् ततः. किम् इति चेत्. अत आह. समूहमात्रं च पटः स्याद् इति वर्तते. एकस्मिन् तन्ताव् एको भागो अपरस्मिन्न् अपर इति तन्तुवर्तिनां बहूनां भागानां समुदायः पट इति च प्राप्नोति. न चेष्यते. कश् च तन्तुभ्यो ऽन्यः पटभाग इति. कणभुग्भक्ताः प्रष्टव्याः येन भागेनायम् इन्द्रियसंनिकृष्टे तन्तौ वर्तेत. तस्माद् एताम् अपि कल्पनां कल्पयित्वा नातो ऽन्यः पटः सिध्यति. स्यान् मतम्. एकैकस्मिन्न् अपि तन्तौ पटो वर्तते. पटोपलब्धेस् तु पटेन्द्रियसंनिकर्षः. पटस्यानेकाश्रयसंयोगापेक्षो निमित्तम् इति. अतो ऽनेकाश्रयसंयोगापेक्षायाम् उपलब्धौ कल्प्यमानायां दशामात्रसंघाते गृह्यमाणे पट उपलभ्येत. न तूपलभ्यते. पटमध्यभागाद्यदर्शनात्. अथ मतं. नैव तदानीम् अपीन्द्रियेण मध्यादिभागाः संप्रयुज्यन्त इति. अतो दशामात्रसंहाते पटोपलब्धिर् न भवतीति. तत इदम् अभिधीयते. न वा कदाचिद् इति विस्तरः. न वा कदाचित् पटोपलब्धिः स्यात्. मध्यपरभागानाम् इन्द्रियेणासंनिकर्षात्. [तिब्. 327ब्] नैव हि संभवो ऽस्ति यत् तदारंभकाः मध्यपरभागाः सर्व एवेन्द्रियेण संनिकृष्येरन्. तथा च सति तन्त्वादिष्व् अप्य् एष प्रसंग इति न च किंचिद् अपि कार्यम् उपलभ्येत. किं च क्रमसंनिकर्षे चेति विस्तरः. यदा क्रमेण चक्षुः संस्पर्शनेन्द्रियं वा पटं गृह्णीयात्. तदा पटग्रहणं न स्यात्.
युगपद् अनेकाश्र्यसंयोगभावाच् चक्षुःस्पर्शनेन्द्रिययोः. एवम् अन्येषाम् अपि अवयवानां ग्रहणं न स्यात्. तस्माद् इति विस्तरः. यस्मात् क्रमेण पटबुद्धिः कटबुद्धिर् वा. तस्माद् अवयवेष्व् एव पटावयवेषु कटावयवेषु वा तद्बुद्धिः पटबुद्धिः कटबुद्धिर् वा विकल्पवशाद् भवति. अलातचक्रवत्. यथालाते शीघ्रसंचारात् तत्रतत्रोत्पद्यमाने अलातचक्रबुद्धिर् भवति. तद्वत्. साधनं चात्र. न द्रव्यसत् पटः. अवयवग्रहणसॄआपेक्षग्रहणत्वात्. अलातचक्रवत्. भिन्नरूपजातिक्रियास्व् इति विस्तरः. भिन्नरूपेषु तन्तुषु नीलपीतादिभेदात्. भिन्नजातिषु दुकूलकर्पासादिभेदात्. भिन्नक्रियेषूर्ध्वधोगमभेदात्. पटस्य रूपाद्यसंभवात्. कीदृशं तत्र रूपं भवतु ( अभिध्-क्-व्य् 342 ) जातिः क्रिया वा. स्याद् एषा बुद्धिः चित्रम् अस्य रूपादीति. तद् एवं चित्ररूपादित्वे कल्प्यमाने विजातीयारंभो ऽपि स्यात्. तन्तुवीरणयोर् अपि कटारंभः स्यात्. तथा सति धर्मविशेषविपर्ययः प्राप्नोति. अत्यन्तविजातीयारंभकत्वं द्रव्याणां [तिब्. 328अ] प्राप्नोतीत्य् अर्थः. अविचित्रे च पार्श्वान्तरे एकपार्श्वविचित्रस्य पटस्यादर्शनं स्यात्. तस्य चित्ररूपाभिमतत्वात्. रूपदर्शने हि तदाश्रयद्रव्योपलब्धिर् इष्यते वैशेषिकैः. महत्य् अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः. रूपसंस्काराभावात् वायोर् अनुपलब्धिर् इति वचनात्. चित्त्ररूपदर्शनं वा अचित्रे पार्श्वे स्यात् यदि पटो दृश्येत. चित्रं हि तस्य रूपम् इष्यते. क्रियापि चित्रेत्य् अतिचित्रम् इति. एकं तद् द्रव्यं विचित्रक्रियम् इति न युज्यते. क्रियावैचित्र्ये हि क्रियावद् अभिमतानां द्रव्याणाम् अन्यत्वम् इष्यते.

तापप्रकाशभेदे चेति विस्तरः. अग्निप्रभालक्षणस्य अवयविन आदिमध्यान्तेषु आरंभकेषु तापप्रकाशभेदे स्पर्शनभेदो दृष्टः. स च तद्भेदस् तत्र यथाक्रमं तीव्रमध्यमन्दता. तस्यावयविनः प्रभाद्रव्यस्य तौ रूपस्पर्शौ नोपपद्येते. न ह्य् एकस्यावयविन अनेकं रूपं स्पर्शो वा युज्यते. तेन नावयवेभ्यो ऽवयवि द्रव्यम् अन्यद् अस्तीति. अथ मतं. यदि तन्त्वादिभ्यो ऽवयवेभ्यो न पटाद्यवयवी व्यतिरिक्तो ऽस्ति. परमाणूनाम् अतीन्द्रियत्वात्. न च तैर् अवयवैः ऐन्द्रियक आरब्ध इति. कृत्स्नं जगद् अप्रत्यक्षं स्यात्. प्रत्यक्षं च गवादि दृश्यते. तस्माद् अतीन्द्रियैः परमाणुभिर् अर्थान्तरम् अन्यद् ऐन्द्रियकम् आरब्धम् इति सिद्धम् इत्य् अत्रोच्यते. परमाण्वतीन्द्रियत्वे ऽपीति [तिब्. 328ब्] विस्तरः. यथा भवतां वैशेषिकाणाम् अतीन्द्रियत्वे ऽपि समस्तानां कार्यारंभकत्वं न व्यस्तानाम्. एवम् अस्माकम् अपि समस्तानाम् एव प्रत्यक्षत्वं न व्यस्तानां असत्य् अप्य् अवयविनि अर्थान्तरभूते. यथा चक्षुरादीनां चक्षूरूपालोकमनस्काराणां समस्तानां चक्षुर्विज्ञानोत्पत्तौ कारणत्वं नैकैकस्य. एवं परमाणूनाम् अतीन्द्रियत्वे ऽपि समस्तानां प्रत्यक्षत्वं नैकैकस्य. तैमिरिकाणां च पुरुषाणां विकीर्णानाम् असंयुक्तानां केशानां समूह उपलभ्यते अनारब्धे ऽप्य् अवयविनि. न त्व् एकैकः केशः. तेषां तैमिरिकाणां परमाणुवद् एकः केशो ऽतीन्द्रियः. इत्य् अतो नास्ति ते ऽन्यद् द्रव्यं.
तद् एवम् अवयविनं प्रतिषिध्य रूपादिभ्यो गुंएभ्यः अर्थान्तरं गुणिनां प्रतिषेद्धुकाम आह. रूपादिष्व् एव चेति विस्तरः. रूपादिष्व् एव परमाणुर् इति संज्ञाविनिवेशः. तद्विनाशे रूपादिविनाशे सिद्धः परमाणुविनाश इति. वैशेषिका आहुः. द्रव्यं हि परमाणुः. अन्यच् च रूपादिभ्यो द्रव्यं. रूपगन्धरसस्पर्शवती पृथिवी इत्य् एवमादिसिद्धान्तवचनात्. अप्रयुक्तम् ( अभिध्-क्-व्य् 343 ) अस्यान्यत्वं यस्मान् न केनचित् परिच्छिद्यन्ते इमानि पृथिव्यप्तेजांसि. इमे एषां पृथिव्यादीनां रूपादयो रूपरसगन्धस्पर्शा गुणा इति. ब्रूयात् अतीन्द्रियाणि तान्य् अतो न निर्धार्यन्त [तिब्. 329अ] इत्य् अत आह. चक्षुःस्पर्शनग्राह्याणि च तानि पृथ्य्व्यादीनि प्रतिज्ञायन्त इति. दग्धेषु चेति विष्तरः. ऊर्णादीन्य् अवयविद्रव्याणि न दह्यन्त इति पैलुकाः. तद् उक्तं भवति. प्राक्तनगुणनिवृत्तौ पाकजगुणोत्पत्तौ तदाश्रयास् तु द्रव्याणि तदवस्थानान्य् एव भवन्तीति. तथैवोर्णादिबुद्धिः स्यात्. न च भवति. तस्मात् तद्द्रव्यबुद्ध्यभावात्. रूपादिष्व् एव तद्भुद्धिर् न द्रव्ये अर्थान्तरभूत इति. यदि हि ऊर्णादिद्रव्यं रूपादिभ्यो ऽन्यत् स्यात् तत् तदवस्थानं भवतीति रूपादीन्य् एवाग्निसंबन्धाद् उष्णेन निरुद्धानीत्य् ऊर्णादिबुद्धिः स्यात्. न च भवति. तस्माद् रूपादिष्व् एवोर्णादिबुद्धिः. वैशेषिका आहुः. यदि रूपादिमात्रं घटः स्याद् अग्निसंबन्धाद् रूपादीनि पाकजादीन्य् अन्यान्य् उत्पद्यन्त इति स एवायं घट इति न परिज्ञायेत. यस्य तु पाकाद् रूपादीन्य् एवोत्पद्यन्ते निरुध्यन्ते चेति स एव घटस् तदवस्थानो भवतीति तस्य तत्परिज्ञानं युज्यत इत्य् अत इदम् उच्यते. पाकजोत्पत्तौ घटपरिज्ञानं. संस्थानसामान्याद् इति. रूपाद्याकृतिसामान्याद् इत्य् अर्थः. पंक्तिवत्. यथा न वस् तत् पिपीलिकानां तद्व्यतिरिक्तं पंक्तिद्रव्यं नामास्ति. अथ च पूर्वपंक्तिसंस्थानसामान्याद् अन्यस्याम् इति तत्परिज्ञानं भवति. सैवेयं पिपीलिकानां पंक्तिर् इति. [तिब्. 329ब्] आह. कथम् एतद् गम्यते. संस्थानसामान्यात् परिज्ञानं न तु तादवस्थ्याद् इति. अत्रोच्यते. चिह्नम् अपश्यतो ऽपरिज्ञानाद् इति. यस्मात् खण्डनिम्नोन्नतादिचिह्नम् अपश्यतस् तत्परिज्ञानं न भवति. अतः संस्थानसामान्याद् इति सिद्धं.
सा चेति विस्तरः. सा च प्रीतिः प्रस्रब्धियोगेन. प्रीतेर् मनसः प्रस्रब्धिर् जायत. इति प्रस्रब्धियोगेनाश्रयमृदुकरणात् अप्कल्पा. अत एव चेति विस्तरः. आश्रयमृदुकरणात्. तस्मिन् द्वितीये समापत्तिध्याने कृत्स्नस्य कायस्थैर्यस्यापगमात्. दुःखेन्द्रियनिरोध उक्तः. सुखस्य च प्रहाणात्. दुःखस्य च प्रहाणात्. पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य ( अभिध्-क्-व्य् 344 ) विहरतीति वचनात्. आध्यात्मिकापक्षालरहितत्वाद् इति. ये वितर्कविचारादयो ऽष्टाव् आध्यात्मिकापक्षालाः. वितर्कविचारौ चासू च सुखादि च चतुष्टयम् इति. तद्रहितत्वाद् इत्य् अर्थः. आनेज्यम् इति. एजृ कम्पन इत्य् अस्य धातोर् एतद् रूपम् आनेज्यम् इति. यदा त्व् आनिंज्यम् इति पाठः. तदा इगेः प्रकृत्यन्तरस्यैतद् रूपम् द्रष्टव्यं. न तैः शुद्धावासकायिकैः शक्यम् आरूप्यान् प्रवेष्टुं. विपश्यनाचरितत्वात्. शमथचरिताश् चारूप्याः. नाप्य् अन्यत्र गन्तुम् अधरां भूमिं. विशेषगामित्वात्. एतेन क्रमेणेति. यथोक्तेन सप्तानां तेजःसंवर्तनीनां अनन्तरम् अद्भिः संवर्तनी भवत्य् एका. पुनः सप्तानां तेजःसंवर्तनीनाम् अनंतरम् अद्भिः [तिब्. 330अ] संवर्तनी भवति द्वितीया. एवं यावत् सप्तम्य् अद्भिः संवर्तनी.
एवं गते ऽद्भिः सप्तके पुनः
तेजसा सप्तकः.
ततः पश्चाद् एका वायुसंवर्तनी भवति. किंकारणं यथावर्णितं बहुना कालप्रकर्षणेनाप्संवर्तनी भवति. ततो ऽपि बहुतरेण वायुसंवर्तनीत्य् अत इदम् उच्यते. यथैव हि तेषाम् इति विस्तरः. यथा प्रथमध्यानात् द्वितीयध्यानसमापत्तिविशेषात् आत्मभावानां द्वितीयध्यानभूमिकानां स्थितिविशेषः. अर्धमहाकल्पार्धं प्रथमध्यानोपपन्नानाम् आयुःप्रमाणं. कल्पद्वयं द्वितीयध्यानोपपन्नानाम् इति. तथा भाजनानाम् अपि. किं. स्थितिविशेष इति. एवं द्वितीयाद् अपि तृतीयध्यानस्य विशेषो वक्तव्यः. एवं च कृत्वेति. यस्माद् अष्टकृत्वस् तेजःसंवर्तनीसप्तका इति षट्पंचाशत् तेजःसंवर्तन्यो भवन्ति सप्ताप्संवर्तन्यः एका वायुसंवर्तनीति चतुःषष्टिसंवर्तन्यो भवन्ति. तस्माद् यद् उक्तं प्रज्ञप्तिभाष्ये चतुःषष्टिः कल्पाः शुभकृत्स्नानाम् आयुह्प्रमाणम् इति. तत् सूक्तं भवति. यथा
ऊर्ध्वं तु परीत्ताभेध्यः आश्रयः

द्विगुणद्विगुणः
इत्य् अत्रोक्तं शुभकृत्स्नानां चतुःषष्टियोजनानां शरीरप्रमाणं. शरीरप्रमाणेन च तेषाम् आयुःप्रमाणम् उक्तं.
आयुस् तु कल्पैः स्वाश्रयं
इति वचनात्. एकैका संवर्तनी महाकल्प इति कृत्वा. इयता हि कालेन तेषाम् आयुषह् परिसमाप्तिर् इति.
आचार्ययशोमित्रकृतायां स्फुटर्थायाम् अभिधर्मकोशे व्याख्यायां तृतीयं कोशस्थानं. 3.
इव् कर्मनिर्देश
(इव्.1) [तिब्. 1ब्] तीर्थकरविप्रतिपत्त्या समुत्पादितसंदेहः पृच्छति. अथ यद् एतद् इति विस्तरः. तत्र सत्त्ववैचित्र्यं धातुगतियोन्यादिभेदेन. भाजनवैचित्र्यं मेरुद्वीपादिभेदेन. व्यामिश्रकारिणाम् इति. कुशलाकुशलकर्मकारिणां. अथ कस्मात् तेषाम् आश्रया रम्या न भवन्ति [तिब्. 2अ] भोगास् तु रम्या इति. सति चैवं विषयोपभोगः संभवति. आश्रयरम्यत्वे हि कस्य प्रतीकारस्य विषयोपभोगः स्यात्. अव्यामिश्रकारिणाम् इति. रूपावचराणां. कामावचरा अपि देवा अव्यामिश्रकारिकल्पा आश्रयविषयरम्याः. रम्यता हेतुकर्मद्वयकारित्वात्.
चेतयित्वा चेति. एवं चेदं करिष्यामीति. [तिब्. 2ब्] स्वभावतश् चेद् वाक्कर्मैकम् इति. वा एव कर्मेति कृत्वा. इतरयोस् तु न कर्मत्वं. कायेन कायस्य वा कर्म कायकर्म. एवं मनस्कर्म. इति न स्वभावतः कर्म. त्रिभिः कारणैर् इति. आश्रयतः स्वभावतः समुत्थानतश् चेति. त्रयाणाम् इति. कायवाङ्मनस्कर्मणाम्. आश्रयतः कायकर्म. कायाश्रयं कर्म कायकर्मेति. स्वभावतो वाक्कर्म. वाग् एव कर्मेति. समुत्थानतो मनस्कर्म. मनःसमुत्थितम् इति कृत्वा.
(इव्.2च्द्-4) गतिर् इत्य् अपर इति. वात्सीपुत्रीयाः. आत्मलाभो ऽनन्तरविनाशीति. क्षणस्यानन्तरक्षण [तिब्. 3अ] इति नैरुक्तेन विधिना आत्मलाभो ऽनन्तरविनाशी क्षणशब्देनाभिधीयते. अथ वा कालपर्यन्तः क्षणः. स्वावस्थानः. सो ऽस्यास्तीति क्सणिकः. अत इनिठनाव् इति ठन्. संस्कृतस्यावश्यं व्ययाद् इति. उत्पत्त्यनन्तरविनाशिरूपं. चित्तचैत्तवत्. आकस्मिको हि भावानां विनाश इति. अकस्माद्भव आकस्मिकः अहेतुक इत्य् अर्थः. साधनं चात्र. अहेतुको विनाशः. अभावत्वात्. अत्यन्तभाववत्. दृष्टो वै काष्ठादीनाम् इति विस्तरः [तिब्. 3ब्] आदिशब्देन ( अभिध्-क्-व्य् 346 ) रूपादीनां ग्रहणं. दृष्टो ऽग्निसंयोगाद् विनाश इति. प्रत्यक्षद्वारापतितो धर्मस्वरूपविपर्यय इति प्रतिज्ञादोषं दर्शयति. अत एवाह. न च दृष्टाद् गरिष्ठं प्रमाणम् इति. न प्रत्यक्षाद् गुरुतमं प्रमाणम् अस्तीत्य् अर्थः.
आचार्यः प्रत्यक्षाभिमानं परेषां दर्शयन्न् आह. कथं तावद् भवान् यावन् मन्यत इति. न हि काष्ठादिविनाशो रूपादिवत् प्रत्यक्षत उपलभ्यते. अक्षणिकवादिनस् त आहुः. तेषां पुनर् अदर्शनाद् इति. तेषां काष्ठादीनाम् अदर्शनात्. तद् एवम् अनुमानतः सिद्धिं दर्शयति. अग्निसंयोगहेतुकः काष्ठादिविनाशः. तदापाते भावात्. यस्य यदापाते भावः. स तद्धेतुकः. तद्यथा बीजापाते भाव्यो ऽंकुरः. संप्रधार्यं तावद् एतद् इति. नैकान्तिकताम् उद्भावयति. न हि यस्यापाते [तिब्. 4अ] यो विनाशो भवति. स तद्धेतुक इति. वायुसंयोगपाते हि सति प्रदीपस्य विनाशः. न च स विनाशो वायुसंयोगकृतः. क्षणिकत्वाभ्युपगमाद् धि प्रदीपस्याकस्मिको विनाश इष्यते. स हि उत्पन्नप्रध्वंसितत्वात् स्वयं विनष्टः प्रदीपः. वायुप्रतिबन्धाद् अन्यस्यानुत्पत्तौ न दृश्यते. न तेन विनाश इति. तथा घण्टाशब्दक्षणिक इष्यते. पाणिसंयोगपाते च सति घण्टाशब्दस्य विनाशः. न स तत्कृतः. क्षणिकत्वाद् धि स्वयं विनष्टो घण्टाशब्दः. तत्प्रतिबन्धत्वाद् अन्यस्यानुत्पत्तौ न दृश्यते. न तेन विनाश इति. तस्माद् अनुमानसाध्यो ऽयम् अर्थः. न प्रत्यक्षसिद्ध इत्य् अभिप्रायः. तस्माद् अनैकान्तिकम् एतत्. यस्य पाते यः कश्चिद् विनाशः. स तत्कृत इति. किं पुनर् अत्रानुमानम् इति. अत्राहेतुको विनाश इत्य् एतस्मिन्न् अर्थे किम् अनुमानम् इति. उक्तं तावद् अकार्यत्वाद् अभावस्येति. अहेतुको विनाशः. अकार्यत्वात्. आकाशवत्. अकार्यश् चासौ. अभावस्वभावत्वात्. [तिब्. 4ब्] अत्यन्ताभाववत्.
न कस्यचिद् अहेतोर्
इति. न कस्यचिद् अकस्माद् इत्य् अर्थः. उत्पादवद् इति विपरीतोपमानं. यथोत्पाद आत्मलाभलक्षणः सहेतुक एव. नाहेतुकः. तद्विनाशः स्यात्. न चैवं भवति. कथम् इत्य् आह. क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाशः. तद् एवम् अनुमानापतितो धर्मस्वरूपविपर्ययः. आकस्मिकः काष्ठादीनां विनाशः. विनाशस्वाभाव्यात्. बुद्ध्यादिविनाशवद् इति.
यस् तु मन्यत इति वैशेषिकाः. पूर्वा बुद्धिर् उत्तरया बुद्ध्या उत्पन्नया विनाश्यते. अन्या तु बुद्धिः पूर्वया बुद्ध्या विनाश्यते. एवं शब्दो ऽपि वाच्यः. आह. न युक्तम् एतत्. कस्मात्. बुद्ध्योर् असमवधानात्. अयुगपद्भावाद् इत्य् अर्थः. न ह्य् असन्तं नाश्यं हेतुर् विनाशयतीति. कथं गम्यते बुद्ध्योर् असमवधानम् इति. अत आह. न हि संशयनिश्चयज्ञानयोर् युक्तसमवधानम् इति ( अभिध्-क्-व्य् 347 ) विस्तरः. स्वसंवेद्यम् एतत्. यदा संशयज्ञानम्. न तदा निश्चयज्ञानम्. यदा निश्चयज्ञानं. न तदा संशयज्ञानम् इति. एवं सुखदुःखयो रागद्वेषयोश् चासमवधानम् इति योजयं. यथा च विरुद्धयोर् असमवधानम्. एवम् [तिब्. 5अ] अविरुद्धयोर् अपि ज्ञानयोर् असमवधानं भवतीति. यदा चेति विस्तरः. अथापि समवधानं स्याद् इति. तथाप्य् अपटुबुद्धिशब्दौ पटू न हिंस्यातां. दुर्बलसमानजातीयत्वात्. न हि दुर्बलसमानजातीयो बलवन्तं हिंसन् दृष्टः. असमानस् तु दुर्बलो ऽपि हिंस्यात्. तद्यथा उदकं तेजः.

यो ऽप्य् अर्चिषं अवस्थानहेत्वभावाद् इति. अवस्थानहेत्वभावाद् भावानां विनाश इति. स्थविरवसुबन्धुप्रभृतिभिर् अयं हेतुर् उक्तः. स चायुक्तः. न ह्य् अभावः कारणं भवितुम् अर्हतीति. धर्मधर्मवशाद् वेति वैशेषिकः. तं प्रत्याह. न चाप्य् उत्पादविनाशहेत्वोर् इति. उत्पादविनाशहेत्वोर् अधर्मस्य. क्षण एव क्षण इति. मुख्ये क्षणे. नौपचारिके क्षण इत्य् अर्थः. अथ वा क्षण एव क्षण इति. क्षणे क्षण एवेत्य् अर्थः. वृत्तिलाभप्रतिबन्धौ वृत्तिलाभो वृत्तिप्रतिबन्धश् च क्षणेक्षणे भवितुं नार्हतः. कथं कृत्वा. यस्यार्चिषः उत्पत्ताव् अनुग्रहो भवति चैत्रस्य मैत्रस्य वा. तस्य धर्म उत्पलब्धवृत्तिः तद् उत्पादयतीत्य् एवम् उत्पादहेतुः. विनाशहेतुर् अपि. यदि तद्विनाशस् तस्यानुग्रहं करोति अन्धकारावस्थायाम्. एवम् अधर्मो ऽपि. यस्यार्चिरुत्पत्ताव् अपकारो भवति. [तिब्. 5ब्] तस्याधर्मो लब्धवृत्तिस् तद् उत्पदयति. विनाशहेतुर् अपि. यदि तद्विनाशस् तस्याप्य् अपकारं करोति अन्धकारावस्थायाम्. इति तयोर् वृत्तिलाभाद् अर्चिषाम् उत्पत्तिर् भवति. न च वृत्तिलाभं तयोर् अप्रतिबध्य ताभ्याम् एव तस्मिन्न् एव क्षणे तेषां विनाश इति. क्षणेक्षणे वृत्तिलाभप्रतिबन्धौ न द्वयोर् युज्येते. शक्यश् चैष कारणपरिकल्प इति विस्तरः. धर्माधर्मविनाश इति कारणपरिकल्पः सर्वत्र संस्कृते द्व्यणुकादौ अनित्येषु रूपादिषु कर्मणि च शक्यते कर्तुं. अतो न वक्तव्यम् एतत्. अग्निसंयोगात् काष्ठादीनां विनाश इत्य् एवमादि. ततश् च सर्वसंस्कृतस्य क्षणिकसिद्धिः. धर्माधर्मयोस् तद्विनाशकारणान्तरानपेक्षत्वाद् इत्य् अलं विवादेन.
तत् एव तादृशाद् वेति. यदि अग्निसंयोगः श्यामतां घटस्य निवर्त्य रक्ततां जनयति. स एव रक्ततां निवर्त्य रक्ततरतां जनयतीति कल्प्यते. ( अभिध्-क्-व्य् 348 ) हेतुर् एव विनाशकः स्यात्. अथ ज्वालानां क्षणिकत्वाद् अन्यस् तत्संयोगो जनको ऽन्यो ऽपि विनाशक इति कल्प्यते. हेत्वविशिष्टो विनाशकः स्यात्. न च युक्तम् इति सर्वं. ज्वालान्तरेषु च तावद् धेतुभेदे ऽपि परिकल्पनां परिकल्पयेयुः वैशेषिकाः. क्षणिकत्वात्. ज्वालानाम् अन्या जनिकाः. [तिब्. 6अ] अन्या विनाशिका इति. क्षारयावद्भूमिसम्बन्धात् तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः. न हि तेषां क्षारादयः क्षणिकाः. तत्र हेतुर् एव विनाशकः स्यात्. यत् तर्हि आप इति विस्तरः. यद्य् अग्निसंयोगे ऽप्य् आपो न विनाश्यन्ते. कथं तर्ह्य् आपः क्वाथ्यमानाः क्षीयन्त इत्य् अभिप्रायः. तेजोधातुर् इति. तदविनिर्भागसंवर्धनं. यस्य प्रभावाद् अपां संहातः क्षामक्षामो जायत इति. कारणविशेषात् कार्यविशेष इति. क्षामक्षामतरो जायते. यावद् अतिक्षामतां गतो ऽन्ते न पुनः संतानं संतनोति. कार्यं करोति न त्व् अभावं करोतीत्य् अर्थः. भंगुरत्वाद् इति विस्तरः. भंगशीलत्वात् स्वयं विनश्यन्तो ऽन्येनाजनिता विनाशाः. सन्त उत्पन्नमात्राद् एकक्षणलब्धात्मानो भवन्तो विनश्यन्ति. तृणज्वालावद् इति. यथा तृणज्वालायाः क्षणिकत्वे ऽपि देशन्तरेषु निरन्तरोत्पत्तौ गत्यभिमानः. तृणं दहन्तीति. ज्वाला गच्छन्तीति. तद्वत्. साधनं च. अविद्यमानगतयो देशान्तरे निरन्तरम् उत्पद्यमाना रूपादयो भावाः. क्षणिकत्वात्. तृणज्वालावत् [तिब्. 6]. संस्थानं कायविज्ञाप्तिर् इति वैभाषिकवचनं.
एकदिङ्मुख

इति. एका दिङ् मुखम् अस्येति एकदिङ्मुखं. तस्मिन्. भूयसि बहुतरे. एवं सर्वम् इति. ऊर्ध्वैकदिङ्मुखे भूयसि उत्पन्न उन्नतम् इति प्रज्ञप्यते. अधो भूयस्य् अवनतम् इति. एषा दिक्. तद्यथा अलातम् इति. न द्रव्यसत् संस्थानं. वर्णग्रहणात् पक्षग्रहणत्वात्. अलातचक्रवद् इति. अथ वा न द्रव्यं संस्थानम्. अन्यरूपग्रहणात् पक्षग्रहणत्वात्. धान्यराशिवद् इति. द्वाभ्याम् असय ग्रहणं प्राप्नुयाद् इत्य् उक्ते वैभाषिको ब्रूयात्. न दीर्घत्वादेः कायेन्द्रियेण ग्रहणं. किं तर्हि. स्प्रष्टव्यावयवेष्व् एव. तथा संनिविष्टेषु दीर्घादिग्रहणं भवति. अतो न द्वाभ्याम् अस्य ग्रहणं प्राप्नोतीत्य् अत इदम् उच्यते. यथा वा स्प्रष्टव्य इति विस्तरः. को ऽर्थः. यथा ( अभिध्-क्-व्य् 349 ) स्प्रष्टव्ये दीर्घह्रस्वादिग्रहणं. न च स्प्रष्टव्यायतनसंगृहीतं संस्थानं. तथा वर्णे ऽपि संभाव्यतां दीर्घादिग्रहणं. न च रूपायतनसंगृहीतं संस्थानम्. अर्थान्तरभूतं स्याद् इत्य् अर्थः. पुनर् वैभाषिक आह. स्मृतिमात्रं तत्र इति विस्तरः. स्मृतिमात्रं तत्र संस्थाने. स्पर्शसाहचर्यात् श्लक्ष्णत्वादिभिः स्पर्शैः सहचरभावात्. [तिब्. 7अ] न तु साक्षाद्ग्रहणं दीर्घादिसंस्थानस्य. यथाग्निरूपं दृष्ट्वा तस्याग्नेर् उष्णतायां स्मृतिर् भवति. साहचर्यात्. पुष्पस्य च चंपकस्य च गन्धं घ्रात्वा तद्वर्णे ऽपि स्मृतिः. साहचर्यात्. आह. युक्तम् अत्रेति विस्तरः. युक्तम् अत्राग्नाव् अव्यभिचारात् उष्णतायाश् च वर्णस्य च. अन्येनान्यस्मरणम् अग्निरूपेणोष्णतायाः. पुष्पगन्धेन च तद्वर्णस्य. न तु किंचिद् इति विस्तरः. न तु किंचित् स्प्रष्टव्यं श्लक्ष्णत्वादि क्वचिद् इति संस्थाने दीर्घादौ नियतं. यतो ऽत्र संस्थाने स्प्रष्टव्यं स्पृष्ट्वा समरणं नियमेन स्यात्. यत्र ह्य् अग्निरूपं. तत्र तदुष्णतया भवितव्यं. यत्र च चम्पकगन्धः. तत्र तद्रूपेण भवितव्यं. न तु यत्र श्लक्ष्णत्वं कर्कशत्वं वा तत्र दीर्घत्वेन ह्रस्वत्वेन वा भवितव्यं. तस्माद् तदुष्णतारूपयोर् नियमेन युज्यते संस्थाने तु नियमेन स्मरणं न प्राप्नोति. तथासत्य् अपि साहचर्यनियमे स्प्रष्टव्यसंस्थानयोः संस्थाने स्मरणं नियमेन स्यात्. वर्णे ऽपि स्यात् स्मरणं नियमेनेति वर्तते. तद् एवं स्प्रष्टव्यं स्पृष्ट्वा स्मरेद् इत्य् अर्थः. अथानियमेन वर्णस्मरणं भवति वर्णवद् वा संस्थाने ऽप्य् अनियमेन स्यात्. दीर्घे ह्रस्वम् इति. ह्रस्वे दीर्घम् इति. किंकारणं. वर्णे ह्य् अनियमेन स्मरणं भवति स्प्रष्टव्यात्. कदाचिद् रक्ते पीतम् इति पीते [तिब्. 7ब्] रक्तम् इति. न चैवं भवति. कथम् एवं न भवति. यथा वर्ने संस्मरणं न नियमेन भवति. तथा संस्थाने ऽप्य् अनियमेनेति. किं तर्हि. वर्णे स्मरणं न नियमेन भवति. संस्थाने पुनर् नियमेनेत्य् अयुक्तम् अस्य संस्थानस्य स्प्रष्टव्यात् स्मरणं. कथं तर्हि दीर्घबुद्धिर् ह्रस्वबुद्धिर् वा भवति. उक्तम् एतत्. एकदिङ्मुखे भूयसि वर्णे वा स्प्रष्टव्ये वा गृह्यमाणे दीर्घविकल्पबुद्धिर् अल्पीयसि ह्रस्वविकल्पबुद्धिर् इत्य् एवमाद्य् अवगन्तव्यं. चित्रान्तरेण वेति विस्तरः. चित्रान्तरेण वानेकवर्णसंस्थाने बहुभिः प्रकारैर् दृश्यमानेनानेकसंस्थानं दृश्यते दीर्घादि. अतो ऽनेकसंस्थानदर्शनाद् ( अभिध्-क्-व्य् 350 ) बहूनां संस्थानानाम् एकदेशं प्राप्नुयात्. यत्रैव दीर्घत्वं. तत्रैव ह्रस्वादिग्रहणात्. तच् चायुक्तं वर्णवत्. यथा हि वर्णः सप्रतिघत्वाद् एकदेशो न भवति. तथा संस्थानम् अपीति. तथा च सति द्रव्यतो ऽस्ति संस्थानम् इति सपक्षालः पक्षो भवति. धर्मिविशेषविपर्ययात्. न चाणौ तद् इति. यथा नीलादिरूपं अष्टद्रव्यकादाव् अणौ विद्यते. न चैवम् अणौ संस्थानं दीर्घादि विद्यते. कथं पुनर् गम्यते. संस्थानं परमाणौ नास्तीति. दीर्घसंस्थाने ऽपचीयमाने दीर्घबुद्ध्यभावात्. दीर्घं हि दण्डम् उपलभ्य तस्मिन्न् एवापचीयमाने दीर्घबुद्धिर् न निवर्तेत्. न हि नीलादिद्रव्यम् उपलभ्यपचीयमाने तस्मिन् पीतबुद्धिर् भवति. दीर्घद्रव्ये त्व् अपचीयमाने ह्रस्वबुद्धिर् भवति. न दीर्घबुद्धिः. न च युक्तं वक्तुं. तद् एव संस्थानं दीर्घादिह्रस्वादिबुद्धिं जनयतीति. [तिब्. 8अ] तस्माद् बहुष्व् एवेति सर्वं. अथ मतम् इति विस्तरः. संस्ठानपरमाणव एव तथा संनिविष्टा एकदिङ्मुखादिक्रमेण दीर्घादिसंज्ञा भवन्ति. न ह्य् अतत्स्वभावाः तथा संनिविष्ठाः समानास् तां संज्ञाम् उपलब्धुम् अर्हतीत्य् अभिप्रायः. न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति. वर्णावयवाः प्रसिद्धस्वभावाः. प्रत्यवयवं नीलादित्वतो ग्रहणात्. न चैवं संस्थानपरमाणवः प्रत्यवयवं दीर्घादित्वतो गृह्यन्ते. तस्मान् न प्रसिद्धस्वभावाः. यदि तु नैव ते दीर्घादिस्वभावाः. संनिवेशविशेषात् तु दीर्घादिबुद्धिहेतवो भवन्ति. वर्णादिपरमाणव एव संनिवेशविशेषा दीर्घादिबुद्धिहेतवो भवन्तीति किं नेष्यते. यत् तर्हि वर्णत्वाभिन्न इति.
यदि वर्णसंनिवेशमात्रं संस्थानं स्यात्. वर्णाभेदे संस्थानभेदो न स्यात्. मृद्भाजनानां कुण्डादीनाम् अनर्थान्तरभावात्. ननु चोक्तम् इति विस्तरः. यथा संनिविष्टवर्णे दीर्घादिसंज्ञा प्रज्ञप्यते. एकदिङ्मुखे च वर्ण इति विस्तरेण. यथा च पिपीलिकादीनाम् इति विस्तरः. यथा च पिपीलिकादय [तिब्. 8ब्] एकरूपा भवन्ति. तेषां च पंक्तिर् इत्य् अस्मिन् देशे ऽन्यादृश्य् अन्यस्मिन्न् अन्यादृशी. एवं चक्रादीनां भेद इत्य् एवमादि. तथा वर्णाभेदे ऽपि संस्थानभेदः स्यात्. तर्हि तमसीति विस्तरः. यत् तर्हि तमसि वर्णम् अपश्यंतः स्थाणुपुरुषहस्त्यादीनां दीर्घह्रस्वत्व परिमण्डलादीनि पश्यन्ति. तत् कथम् इति वाक्यशेषः. यदि तर्हि वर्णाज् जात्यन्तरं संस्थानं न स्यात्. यथा वर्णं नीलं पीतम् इति वा न पश्यन्ति. तथा संस्थानम् अपि दीर्घं ह्रस्वम् इति न पश्येयुः. पश्यन्ति च कदाचित्. अतो जात्यन्तरं संस्थानम् इति. पंक्तिसेनापरिकल्पवद् इति. यथा तमस्य् अव्यक्तं ( अभिध्-क्-व्य् 351 ) पक्षिणः पिपीलिका वा दृष्ट्वा दीर्घा पंक्तिर् इति परिकल्पयंति यथा वा तमस्य् एव हस्त्यादीन् अव्यक्तं दृष्ट्वा परिमण्डल इयं सेना व्यवस्थितेति परिकल्पयन्ति. तद्वत्. वेविदितं चैतद् एवम् इति. यथेदानीम् उक्तम् असत्य् अपि जात्यन्तरे संस्थाने वर्णम् एव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति. यत् कदाचिद् इति विस्तरः. अनिर्धार्यमाणपरिच्छेदम् इति. अनिर्धार्यमाणसंस्थानं संघातमात्रम् अव्यक्तम् अलक्ष्यमाणनीलत्वादिकं दृश्यते. न च वर्णसंस्थानव्यतिरिक्तं रूपायतनम् अस्तीति. यथा नान्यत् किंचिद् द्रव्यं [तिब्. 9अ] कल्प्यते. तद्वत् संस्थानम् अपि न वर्णव्यतिरिक्तं कल्पयितव्यं.

तत्र भवन्त इति. ते भवन्त इत्य् अर्थः. इतराभ्यो ऽपि दृश्यन्त इति वचनात्. कथं कायकर्म प्रज्ञापयन्तीति. प्रज्ञप्तिसत्त्वात् कायकर्मयोग इति मन्यमानः पृच्छति. कायाधिष्ठानम् इति. कायालम्बनम् इत्य् अर्थः. यस्य हि कायः प्रवर्त्यः. तत् कायाधिष्ठानं कर्म. तेनाह. या चेतना कायस्य तत्रतत्र प्रनेत्रीति. यथायोगं वेदितव्ये इति. वागधिष्ठानं कर्म वाक्कर्म. मनस्कर्म तु मनसः कर्म. मनसा वा संप्रयुक्तं कर्म मनस्कर्म. तेन यथायोगम् इत्य् उक्तं. विज्ञप्त्यभावाद् इति विस्तरः. यदि विज्ञप्तिर् न स्यात्. अविज्ञप्तिर् अपि कामावचरी न स्यात्. विज्ञप्त्यधीना हि कामावचर्य् अविज्ञप्तिर् न चित्तानुपरिवर्तिनीति. सा चैवं नास्तीति. महान्तो दोषा अनुषज्यन्ते. सम्वरासम्वराभावदोषः सप्तौपधिकपुण्यक्रियावस्तुपुण्यवृद्ध्यभावदोष इत्य् एवम् आदयो ऽनुषंगाः. अनुषंगाणां पुनः प्रत्यनुषंगा इति. तत्परिहारा भविष्यन्तीति अर्थः. कायकर्मसंशब्दिताद् इति. कायाधिष्ठानाद् इत्य् अर्थः. समाहिताविज्ञप्तिवद् इति. यथा समाहिताविज्ञप्तिश् [तिब्. 9ब्] चित्तानुपरिवर्तिनी. एवं प्रातिमोक्षसम्वरादिलक्षणाप्य् अविज्ञप्तिः स्यात्. सौत्रान्तिका आहुः. नैवं भविष्यति. न चित्तानुपरिवर्तिनी भविष्यति. चेतनाविशेषेणासमाहितेन तदाक्षेपविशेषाद् असमाहिताया अविज्ञप्तेर् आक्षेपाद् इत्य् अर्थः. सापि च विज्ञप्तिर् भवदीया सती विद्यमाना अविज्ञप्तेर् आक्षेपे उत्पादनचेतनाया बलं सामर्थ्यं निभालयते अपेक्षते. कस्मात्. जडत्वाद् अपटुत्वाच् चेतनाबलम् अन्तरेण ताम् अविज्ञप्तिं जनयितुं न शक्नोति. न ह्य् असत्यां समादानचेतनायां यदृच्छोत्पन्ना विज्ञप्तिर् अविज्ञप्तिं जनयति.
वाग्विज्ञप्तिस् त्व्
इति. तुशब्दो विशेषणेन. यथा कायविज्ञप्तिः संस्थानात्मिका न तथा वाग्विज्ञप्तिः. किं तर्हि. वागात्मको ध्वनिर् वर्णात्मकः शब्द इत्य् अर्थः.
अविज्ञप्तिः पूर्वम् एवोक्तेति.
ते तु विज्ञप्त्यविज्ञप्ति
इत्य् उक्तं. तत्र विज्ञप्तिर् उक्ता अविज्ञप्तिर् वक्तव्या. सा च पूर्वम् एवोक्ता.
विक्षिप्ताचित्तकस्येति
वचनात्. सापि द्रव्यतो नास्ति साप्य् अविज्ञप्तिर् द्रव्यतो नास्ति. न केवला विज्ञप्तिर् इत्य् अपिशब्दः. अभ्युपेत्याकरणमात्रत्वाद् [तिब्. 10अ] इति. इमं दिवसं उपादाय प्राणातिपातादिभ्यः प्रतिविरमामीत्य् अभ्युपेत्य. तस्मात् परेण तेषाम् अकरणमात्रम् अविज्ञप्तिर् इत्य् एवं द्रव्यतो नास्तीति सौत्रान्तिकाः. तेषां चातीतानां महाभूतानां. न ह्य् अतीतानां प्रत्युत्पन्नस्वभावो ऽस्ति. पंचमे च कोशस्थान एतद् दर्शयिष्यत इति. कथम् अविद्यमानान्य् अस्या आश्रय इत्य् अतो न द्रव्यतो ऽस्ति. रूपलक्षणभावाच् च. रूप्यत इति रूपलक्षणं. तच् चास्या अप्रतिघत्वान् नास्ति. तस्मान् न द्रव्यतो ऽस्ति.
(इव्.5अब्) त्रिविधेति
विस्तरः. त्रिविधं च तद् अमलं च त्रिविधामलरूपं. तस्योक्तिः. अकुर्वतः पन्था अकुर्वत्पथः. परेण कारयतः स्वयम् अकुर्वतः कर्म इत्य् अर्थः. त्रिविधामलरूपोक्तिश् च वृद्धिश् चाकुर्वत्पथश् चादिर् एषां. तानीमानि
त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादीनि.

आदिशब्देन धर्मो भिक्षो इत्य् अत्रारूपीत्य् अवचनं. आर्याष्टांगवचनं. प्रातिमोक्षसम्वरसेतुवचनं च गृह्यते. रूपस्य रूपसंग्रह इति. रूपस्य रूपेणैव संग्रहो भवति. नान्यैर् वेदनादिभिः. अस्ति रूपं सनिदर्शनं सप्रतिघं. यच् चक्षुर्विज्ञानविज्ञेयं रूपम्. [तिब्. 10ब्] अस्त्य् अनिदर्शनं सप्रतिघं. यानि चक्षुरादीनि. तत् पुनर् नव रूप्यायतनानि. अस्ति रूपम् अनिदर्शनम् अप्रतिघं. यन् मनोविज्ञानविज्ञेयं अविज्ञप्तिरूपं धर्मायतनसंगृहीतं. नाविज्ञप्तिं विरहय्येति विस्तरः. अविज्ञप्तिं मुक्त्वा नास्ति रूपम् अनिदर्शनम् अप्रतिघं यद् रूपसंग्रहसूत्र उक्तं. नाप्य् अनास्रवम् अस्ति रूपम् अविज्ञप्तिविरहेय्येति वर्तते. न हि मार्गसत्यसमापन्नस्य कायवाग्विज्ञप्तिरूपं युज्यते. सप्तभिर् औपधिकैर् इति. उपधिर् आरामविहारादिः. तत्रभवम् औपधिकं. तस्योपधेर् अभावान् निरौपधिकं. सततम् अभीक्ष्णं. समितं निरन्तरं. अत्र सूत्रं. भगवान् कौशांब्यां विहरति स्म. घोषिरारामे. अथायुष्मान् महाचुन्दो ( अभिध्-क्-व्य् 353 ) येन भगवांस् तेनोपसंक्रान्तः. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्. एकान्ते स्थित आयुष्मान् महाचुन्दो भगवन्तम् एतद् अवोचत्. लभ्यं भदन्त औपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं महानुशंसं महाद्युतिकं महावैस्तारिकं. लभ्यं चुन्देति भगवांस् तस्यावोचत्. सप्तेमानि चुन्दौपधिकानि पुण्यक्रियावस्तूनि महाफलानि यावन् महावैस्तारिकाणि. [तिब्. 11अ] यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा चरतो वा तिष्ठतो वा स्वपतो वा जाग्रतो वा सततसमितम् अभिवर्धत एव पुण्यम् उपजायत एव पुण्यं. कतमानि सप्त. इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा चातुर्दिशाय भिक्षुसंघायारामं प्रतिपादयति. इदं चुन्द प्रथमम् औपधिकं पुण्यक्रियावस्तु महाफलं यावन् महावैस्तारिकं. येन समन्वागतस्य कुलपुत्रस्य वा विस्तरेण यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्न् एवारामे विहारं प्रतिष्ठापयति. इदं द्वितीयम् औपधिकं पुण्यक्रियावस्तु महाफलं यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्न् एव विहारे शयनासनं प्रयच्छति. तद्यथा. मञ्चं पीठं बृषीं कोच्चवं बिम्बोपधानं चतुरश्रकं ददाति. इदं चुन्द तृतीयम् औपधिकं पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो कुलदुहिता वा तस्मिन्न् एव विहारे ध्रुवभिक्षां प्रज्ञापयत्य् अनुकूलयज्ञाम्. इदं चुन्द चतुर्थम् औपधिकं पुण्यक्रियावस्तु महाफलं पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा आगन्तुकाय गमिकाय वा दानं ददाति. इदं चुन्द पंचमम् औपधिकं [तिब्. 11ब्] पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा ग्लानाय ग्लानोपस्थायकाय वा दानं ददाति. इदं. षष्ठम् औपधिकं पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा यास् ता भवन्ति शीतलिका वा वद्दलिका वा वातलिका वा वर्षलिका वा. तद्रूपासु शीतलिकासु यावद् वर्षलिकासु भक्तानि वा तर्पणानि वा यवागूपानानि वा तानि संघायाभिनिर्हृत्यानुप्रयच्छति. इदम् आर्या अस्माकम् अनार्द्रगात्राः अनभिवृष्टचीवराः परिभुज्य सुखं स्पर्शं विहरंतु. इदं च चुन्द सप्तमम् औपधिकं पुण्यक्रियावस्तु महाफलं. यावद् उपजायत एव पुण्यम्. एभिः सप्तभिर् औपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा न लभ्यं पुण्यस्य प्रमाणम् उद्ग्रहीतुं. एतावत् पुण्यं वा पुण्यफलं वा पुण्यविपाकं वा. अपि तु बहुत्वात् पुण्यस्य महापुण्यस्कंध इति संख्यां ( अभिध्-क्-व्य् 354 ) गच्छतीत्य् एवमादि. द्विर् अप्य् आयुष्मान् महाचुन्दो भगवन्तम् एतद् अवोचत्. लभ्यं भदन्त निरौपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं यावन् महावैस्तारिकं. लभ्यं चुन्देति भगवांस् तस्यावोचत्. सप्तेमानि चुन्द [तिब्. 12अ] निरौपधिकानि पुण्यक्रियावस्तूनि. यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा चरतो वा तिष्ठतो वा विस्तरेण यावद् उपजायत एव पुण्यं. कतमानि सप्त. इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा अमुकं ग्रामक्षेत्रम् उपनिश्रित्य विहरतीति. श्रुत्वा च पुनर् अधिगच्छति प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रमोपसंहितं. इदं चुन्द प्रथमं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत्. यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा उद्युक्तम् आगमनाय. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द द्वितीयं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता

वा शृणोति तम् एव तथागतं वा तथागतश्रावकं वा अध्वानमार्गप्रतिपन्नं तद् एव ग्रामक्षेत्रम् अनुप्राप्तं. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द तृतीयं निरौपधिकं पुण्यक्रियावस्तु. यावद् उपजायत एव पुण्यं. [तिब्. 12ब्] पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा तद् एव ग्रामक्षेत्रम् अनुप्राप्तं. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द चतुर्थं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत्. यवद् उपजायत एव पुण्यं. पुनर् अपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तम् एव तथागतं वा तथागतश्रावकं वा दर्शनायोपसंक्रामति. दृष्ट्वा च पुनः अधिगच्छतीति पूर्ववत्. इदं चुन्द पञ्चमं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति. श्रुत्वा च पुनर् अधिगच्छतीति. पूर्ववत्. इदं चुन्द षष्ठं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति. श्रुत्वा च बुद्धशरणं गच्छति धर्मशरणं गच्छति संघशरणं गच्छति. शिक्षापदानि च प्रतिगृह्णाति. इदं चुन्द सप्तमं निरौपधिकं पुण्यक्रियावस्तु महाफलम् इति पूर्ववत्. बहुग्रन्थभयान् न सर्वं लिखितं. न ह्य् आज्ञापनविज्ञप्तेः कर्मपथ उपयुज्यते. तस्य प्राणातिपातादिकर्मणो ऽकृतत्वात्. स्यान् मतं. कृते तस्मिन् कर्मणि तदाज्ञापनविज्ञप्तेः [तिब्. 13अ] कर्मपथो भविष्यतीति. अत्र इदम् उच्यते. कृते ऽपि च तस्याः स्वभावाविशेषाद् इति. परेण कृते ऽपि तस्मिन् ( अभिध्-क्-व्य् 355 ) कर्मणि तस्या आज्ञापनविज्ञप्तेर् न कश्चित् स्वभावविशेषो ऽस्ति. येन तदानीं कर्मपथः स्यात्. तस्मात् पूर्ववत्. तस्याः स्वभावाविशेषात्. यथैव पूर्ववत् कर्मपथो न व्यवस्थाप्यते. तथैव पश्चाद् इत्य् अतो ऽस्तीत्य् अभ्युपगन्तव्या यासौ तदानीम् उत्पद्यते कर्मपथसंगृहीतेति. एकादशभिर् आयतनैर् असंगृहीतम् इति. धर्मायतनवर्ज्यैः. वाक्कर्मान्ताजीवानाम् अयोगाद् इति. विज्ञप्तिस्वभावानाम् एवासंभवाद् इत्य् अर्थः. यत् तर्हीदम् उक्तम् इति विस्तरः. को ऽस्यभिसंबन्धः. यदि वा मतं. यद्य् अविज्ञप्तिर् न स्याद् अष्टंगो ऽयं मार्गो न स्यात्. तत्र विज्ञप्त्ययोगात्. तस्माद् अस्त्य् अविज्ञप्तिर् इति. यत् तर्हीदम् उक्तम् इति विस्तरेणोक्त्वा यावत् सम्यक्समाधिर् इति किम् अर्थम् एवम् उच्यते. पूर्वम् एव चास्येति सर्वं. मार्गस्य समापत्तिकालात् पूर्वम् इत्य् अर्थः. विज्ञप्तिरूपास् त उक्ता इत्य् अभिप्रायः. वैभाषिकाः परिहरन्ति. लौकिहमार्गवैराग्यम् इति विस्तरः. लौकिकमार्गवैराग्यावस्थायां वागादिस्वभावं [तिब्. 13ब्] विज्ञाप्तिरूपम्. एतद् अभिसंधायैतद् उक्तं. न तु मार्गकाले तत्संगृहीतं वागाद्यविज्ञप्तिरूपं नास्तीति.

समाधिविषयरूपम् इति. समाधेर् आलम्बनम् अस्थिसंकलादि. देशनावरणाद् अप्रतिघम् इति. यद् रूपं देशम् आवृणोति. तत् प्रतिघं. विपर्ययाद् अप्रतिघम् इति सिद्धं. कथम् इदानीं तद् रूपम् इति. यदि न रूपयितुं शक्यत इत्य् अभिप्रायः. एतद् अविज्ञप्तौ समानं. अविज्ञप्तिर् अपि वा देशं नावृणोतीति तुल्यं. अनास्रवे समाधौ अनास्रवम् इति. मार्गं संमुखीकुर्वाणो योगाचारस् तद्रूपम् आशयं चाश्रयं च प्रतिलभते. यत् सम्यग्दृष्टिवद् अनास्रवं शीलं प्रतिलभते. यस्मिन् सति प्रकृतिशीलतायां संतिष्ठते. अथ वा. अनास्रवे ऽपि समाधौ तद् एवंविधं रूपं त आचार्या इच्छन्ति. अर्हतो यद् रूपं बाह्यं चेत्य् अपर इति. अपर आचार्या वर्णयन्ति. अर्हतो यद् रूपं चक्षुरायतनादि. बाह्यं च काष्ठकुड्यादि. तद् अनास्रवं रूपं. कुतः. आस्रवाणाम् अनिश्रयत्वात्. न ह्य् अर्हत्सांतानिकं रूपं बाह्यं चास्रवाणां क्लेशानां निश्रय इति. यद्य् एवं यत् तर्ह्य् अविशेषेण सूत्र उक्तं सास्रवा धर्माः कतमे. यावद् एव च्कषुर् यावद् एव रूपाणीति [तिब्. 14अ] विस्तरः. तत् पुनर् आस्रवाणाम् अप्रतिपक्षत्वात् सास्रवम् उक्तं. चित्तचैत्तविशेषा हि आस्रवप्रतिपक्ष इति. पर्यायेण तर्हीति विस्तरः. तद् एवार्हतो रूपं बाह्यं चास्रवाणाम् अप्रतिपक्षत्वात् सास्रवम् आस्रवाणाम् अनिश्रयत्वाद् अनास्रवम् इति. तथा च लक्सणसंकरः स्याद् इति दोषः. यानि रूपाणीति. यानि रूपाण्य् आयतनानीत्य् अर्थः. विस्तरेण यावद् ये धर्माः सास्रवाः सोपादानीयाश् चेतःखिलम्रक्षवस्त्व् इति वचनात्. सन्त्य् अनास्रवाणि रूपायतनानीति. तानि पुनः कतमानि सास्रवाणि सोपादानीयानि. ( अभिध्-क्-व्य् 356 ) पृथग्जनरूपाणि. आस्रवाणां निश्रयत्वात् तदप्रतिपक्षत्वाच् च. कतमान्य् अनास्रवाणि. यान्य् अर्हतो रूपाणि बाह्यानि च. आस्रवाणाम् अनिश्रयत्वात्. धर्मता ह्य् एषेति. धर्माणाम् अनादिकालिका शक्तिः. गुणविशेषाद् इति. ध्यानाप्रमाणादिगुणविशेषात्. अनुग्रहविशेषाच् चेति. शरीरस्य वर्णबलादिविशेषात्. तदालम्बनेति विस्तरः. सप्रतिग्राहकम् आलम्बनम् अस्याः. सेयं तदालम्बना दानचेतना. [तिब्. 14ब्] तया परिभाविताः संततयः सूक्ष्मं परिणामविशेषं फलोत्पत्तिनिमितं प्राप्नुवन्ति. कथं भविष्यतीति. बहुतरफलाभिनिष्पत्तये कथं भविष्यतीत्य् अभिप्रायः. न ह्य् अत्र दातॄणां दायाः परिभुज्यन्ते. यत्परिभोगात् भोक्तॄणां गुणविशेषाद् अनुग्रहविशेषाच् चान्यमनसाम् अपि दातॄणाम् इति विस्तरेण यावत् समर्था भवंति. यावद् उपजायत एव पुण्यम् इति वा. तदालम्बनेचेतनाभ्यासाद् इति. तथागततच्छ्रावकालम्बनचेतनाभ्यासात्. संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति. येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति. चरतस् तिष्ठतो जाग्रतो युक्तम् एवं स्वपतस् तु कथम् इत्य् अत आह. स्वप्नेष्व् अपि ताश् चेतना अनुषङ्गिण्यो भवन्तीति. अविज्ञप्तिवादिनस् तु वैभाषिकस्य निरौपधिके पुण्यक्रियावस्तुनि यत्र विज्ञप्तिर् नास्ति. केवलं तं श्रुत्वाधिगच्छति प्रीतिप्रामोद्यम् उदारं कुशलं. तत्र कथम् अविज्ञप्तिः स्यात्. तस्य श्रोतुर् विज्ञप्तिसमाध्योर् असंभवात्. अविज्ञप्तिर् हि विज्ञप्तेः समाधेर् वा संभवेत्. औपधिकेष्व् अपीति विस्तरः. आरामदानादिष्व् [तिब्. 15अ] अपि. तदालम्बनचेतनाभ्यासात्. प्रतिग्राहक आलम्बनम् अस्याश् चेतनाया इति पूर्ववत्. आह. यद्य् औपधिकेष्व् अपि एवम् अभीक्ष्णं तदालम्बनचेतनाभ्यासात्. यत् तर्हि सूत्रम् इति विस्तरः. अप्रमाणं चेतःसमाधिं इति. मैत्र्यादिसंप्रयुक्तं. चेतनाविशेष इति. एतदालम्बनचेतनस्यापि दायकस्याप्रमाणः पुण्यभिष्यन्दो ऽस्तीति दर्शयति. क्रियाफलपरिसमाप्ताव् इति. मौलकर्मपथप्रयोगः क्रिया. मौलकर्मपथः फलं तस्य परिसमाप्तौ. एष एव न्याय इति. स्वयंप्रयोगेण परेषाम् उपघातविशेषात् कर्तुः सूक्ष्मः संततिपरिणामविशेषो जायत इति सर्वं. कार्ये कारणोपचाराद् इति. संततिपरिणामविशेषः कर्मपथो भवतीति संततिपरिणामविशेषः कार्यं. कर्मपथः कारणं. यो ऽसौ कायवाचोः प्रयोगः. स हि चेतनालक्षणस्य कर्मणः पन्था इति. तस्मिन् कार्ये कर्मपथ इति कारणोपचारः. कायिकवाचिकत्वं

तु तस्य संततिपरिणामविशेषस्य. तत्क्रियाफलत्वात्. कायवाक्क्रियायाः फलत्वाद् इत्य् अर्थः. यथा अविज्ञप्तिवादिनाम् अविज्ञप्तिर् [तिब्. 15ब्] इति. यथा वैभाषिकाणाम् अविज्ञप्तिवादिनाम् अविज्ञप्तिः कर्मपथ इत्य् आख्यायते. कार्ये कारणोपचारात्. कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद् इति. अविज्ञप्तिर् ( अभिध्-क्-व्य् 357 ) अद्रव्यम् इति प्रकारान्तरेण दर्शयन् भदन्त आह. उपात्तेषु स्कन्धेष्व् इति विस्तरः. सत्त्वसंख्यातेषु वर्तमानेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावद्येन स्पृश्यते घातक इति. कथं त्रिकालयेत्य् आह. हनिष्यामि हन्मि हतम् इति चास्य यदा भवतीति. तद् एवम् अत्र चेतनैव कर्मेत्य् उक्तं भवति. आचार्यो भदन्तमतं केनचिद् भागेनाभिप्रेतं केनचिद् भागेनानभिप्रेतं दर्शयन्न् आह. न त्व् इयतेति विस्तरः. यदि कश्चिद् एवं प्रयोजयेत्. मन्मातरं मारयेति. उच्चलिते च मारके तस्यैवं भवेत्. हता तेन मन्मातेति. तस्य हताभिमानिन आनन्तर्यकर्म स्यात्. न चेष्यते. तस्मात् स्वयं घ्नन्न् इति भदन्तेन विशेष्यं वक्तव्यम्. तत् एवाह. स्वयं तु घ्नत इति विस्तरः. एतावांश् चेतनासमुदाचार इति. हनिष्यामि हन्मि हतम् इति. युक्तरूप इति. युक्त एव युक्तरूप इति. स्वार्थे रूपप्रत्ययः. नामधेयवत्. [तिब्. 16अ] यथा नामैव नामधेयम् इत्य् एके व्याचक्षते. प्रशस्तरूपो युक्तरूपः. युक्तं वा रूपं स्वभावो ऽस्येति युक्तरूपः. तथैवसंज्ञायमान इति. यथैवाविज्ञप्तिर् दुरवबोधा. तथैव संततिपरिणामविशेषो ऽपीति. चित्तान्वयकायप्रयोगेणेति. चित्तपूर्वकेण कायप्रयोगेणेत्य् अर्थः. ताभ्यां पृथग्भूतम् इति. चित्तकायाभ्यां पृथग्भूतं. यत्कृतप्रयोगसंभूतेति. येन कृतो यत्कृतः. यत्कृतात् प्रयोगात् संभूता. क्रियापरिसमाप्तिः कर्मपथपरिसमाप्तिः. तस्यैव चित्तचैत्तस्य प्रयोक्तुस् तन्निमित्तस् तत्प्रयोगनिमित्तः संततिपरिणामो भवतीति. भवति परितोषो ऽस्माकम् इति वाक्यशेषः. चित्तचैत्तसंतानाच् चायत्यां फलोत्पत्तेः. नाविज्ञप्तिः. किं. भवति परितोष इति वर्तते. विज्ञप्त्यभावाद् इत्य् एवमादीनि. समुत्थापकस्य धर्मस्याभावात् समुत्थाप्यस्य धर्मस्याभाव इत्य् अर्थः. अविज्ञप्तिर् द्रव्यतो नास्तीति साधितम् एतत्. आदिशब्देनाभ्युपेत्याकरणमात्रत्वात्. अतीतानि महाभूतान्य् [तिब्. 16ब्] उपादाय प्रज्ञप्तेः. तेषाम् अविद्यमानत्वादि. तद् एवास्तु. धर्मायतनपर्यापन्नम् इति. यद् ध्यायिनां समाधिविषयरूपं समाधिप्रभावाद् उत्पद्यत इत्य् उक्तं तद् ध्य् अनिदर्शनं चाप्रतिघं च. अंग तावद् आचक्षेति. अंगाप्रातिलोम्य इति पठ्यते. हन्त तावद् आचक्षेति. एहि तावद् आचक्षेत्य् अर्थ इत्य् अपरे. अतो निमित्त इति विस्तरः. यत एवम्. अतो निमित्ते ऽविज्ञप्तौ नैमित्तिकोपचारात्. सम्यगाद्युपचारात्. अविज्ञप्तौ तदा व्याक्रियते. सम्यग्वाक्कर्मन्ताजीवाख्या क्रियत इत्य् अर्थः. आशयं चाश्रयं चेति. आशयः प्राणातिपाताद्यकरणाशयः. श्रद्धाद्याशयो वा. आश्रय आश्रयपरावृत्तिः. ( अभिध्-क्-व्य् 358 ) अतो निमित्ते आशये आश्रये च नैमित्तिकोपचारं. सम्यग्वागाद्युपचारं कृत्वाष्टौ मार्गांगानि व्यवस्थाप्यन्त इति. तद् अक्रियामात्रम् इति. मिथ्यावागाद्यक्रियामात्रं. कतमत् तद् इत्य् आह. यद् असाव् इति विस्तरः. यद्य् अक्रियामात्रम् अंगं कथं तद् अनास्रवम् इत्य् आह. तच् चानास्रवमार्गसंनिश्रयलाभाद् अनास्रवम् इति. यद्य् अक्रियामात्रम् अंगं. तथाद्रव्यसत्. कथम् अष्टाव् अंगानि भवन्तीत्य् आह. न हि सर्वत्रेति [तिब्. 17अ] विस्तरः. विधिपूर्वम् इति. शीलग्रहणविधिपूर्वं. अन्यचित्तो न संवृतः स्याद् इति चेत्. यदि सा चेतना संवरः. तस्माच् चेतनाचित्ताद् अन्यचित्तो न संवृतः स्यात्. यथा चेतना या कायवाचौ संवृणोति नासौ तदानीम् अस्तीति. न तद्भावनयेति विस्तरः. नैतद् एवं. तद्भावनया चित्तसंतानभावनया क्रियाकाले प्राणातिपातादिचित्ते प्रत्युपस्थिते स्मरतः अहंप्राणातिपातादिभ्यः प्रतिविरत इति प्रत्युपस्थितस्मृतेः. तत्प्रत्युपस्थानाद् यया चेतनया कायवाचौ संवृणोति. तस्याः सम्मुखीभावात्. इत्यर्थम् एव तस्याः समादानम् इति. कथम्.
अयम् अक्रियाप्रतिज्ञाम् अनुस्मृत्य दौःशील्यं न कुर्याद् इति. न कश्चिन् मुषितस्मृतिः शिक्षां भिद्याद् इति. यासाव् अविज्ञप्तिः सेतुभूता दौःशील्यं प्रतिबध्नाति. सा तदानीं विद्यत इति.
(इव्.5च्द्) न हि सैव सामग्रीति विस्तरः. न सैव पृथिवीधात्वादीनां महाभूतानां विज्ञप्त्याश्रयाणां सामग्री सूक्ष्मफला चानिदर्शनाप्रतिघविज्ञप्तिफलत्वात् औदारिकफला च सनिदर्शनसप्रतिघविज्ञप्तिफलत्वाद् युज्यते. तस्माद् [तिब्. 17ब्] अन्यान्य् एव महाभूतानि उपादायाविज्ञप्तिर् उत्पद्यते.
(इव्.6अब्) यदातनी विज्ञप्तिर् इति विस्तरः. यदाभवा विज्ञप्तिर् यदातनी विज्ञप्तिः. एवं तदातनानि महाभूतानि. यत्कालसंभूता विज्ञप्तिः किं तत्कालसंभूतान्य् एव महाभूतान्य् उपादायाविज्ञप्तिर् उत्पद्यते. सर्वम् इति. सर्वम् उपादायरूपं विज्ञप्तिर् अविज्ञप्तिर् ध्यानानास्रवसंगृहीता चक्षुःश्रोत्ररूपशब्दादि चैवं समानकालान्य् एव महाभूतान्य् उपादाय वर्तते. प्रायेणेति ग्रहणं किंचित् कामावचर्यविज्ञप्तिनिरासार्थं. अत एवाह. किंचिद् वर्तमानम् अनागतं अतीतानि महाभूतान्य् उपादायेति. किंचिद् उपादायरूपं वर्तमानम् अतीतानि महाभूतान्य् उपादाय वर्तते. किंचिद् अनागतम् उपादायरूपम् अतीतानि महाभूतान्य् उपादाय वर्तते. किं पुनस् तद् उपादायरूपं यद् एवं भूतम् इति दर्शयन्न् आह.
क्षणाद् ऊध्वम् अविज्ञप्तिः कामाप्तातीतभूतजेति.
कामावचरसम्वरादिग्रहणकाले अविज्ञप्तिः सहजानि महाभूतान्य् उपादायोत्पद्यते. एवम् अन्याप्य् अविज्ञप्तिस् तान्य् एवोपादायोत्पद्यते. यस्मात् तान्य् अस्या आश्रयार्थेन संभवन्ति. यथान्येषाम् उपादायरूपाणां प्रत्युत्पन्नानि ( अभिध्-क्-व्य् 359 ) महाभूतान्य् आश्रयः [तिब्. 18अ] एवं तस्या अतीतान्य् आश्रयः. प्रवृत्त्यनुवृत्तिकारणत्वाद् यथाक्रमम् इति. अतीतानि महाभूतानि प्रवृत्तिकारणत्वात् आक्षेपकारणत्वात् आश्रयार्थेन भवन्ति. प्रत्युत्पन्नानि शरीरमहाभूतान्य् अनुवृत्तिकारणत्वाद् अधिष्ठानकारणत्वात् संनिश्रयार्थेन भवन्ति. चक्रस्येवेति विस्तरः. यथा चक्रस्य पाण्यावेधः. एवम् अस्याः प्रवृत्तिकारणं. यथा भूमिप्रदेशः. एवम् अनुप्रवृत्तिकारणं.
(इव्.6च्द्) कालनियमम् उक्त्वा भूमिनियमं पृच्छति. अथ कुतस्त्यानीति विस्तरः. यावच् चतुर्थध्यानभूमिकम् इति. आरूप्येषु भूतभौतिकानाम् अभावात्. धात्वपतितत्वाद् इति. अनास्रवस्य कायवाक्कर्मणो धात्वप्रतिसंयुक्तत्वात्. नास्ति नियमत इत्य् अभिप्रायः. अनास्रवाणि तर्हि महाभूतान्य् उपादाय कस्मान् न भवतीत्य् अत आह. अनास्रवाणां च महाभूतानाम् अभावाद् इति. किं पुनर् अस्या महाभूतैः कार्यम् इत्य् अत आह. तद्बलेन चोत्पत्तेर् इति. महाभूतबलेन चोत्पत्तेर् इत्य् अर्थः. अथ चित्तबलेनैव तदुत्पत्तिः कस्मान् न भवति. अनुपादायरूपत्वप्रसंगात्.
(इव्.7, 8) अविज्ञप्तिर् अनौपात्तिकेति.

अमूर्तत्वाच् चित्तचैत्ताधिष्ठानभावायोगात्.
नैष्यन्दिकी चेति.
[तिब्. 18ब्] कुशलाकुशलत्वात् न विपाकजा
नाव्याकृतास्त्य् अविज्ञप्तिर्
इति वचनात्. विपाकजस्य चाव्याकृतत्वाद्
विपाको ऽव्याकृतो धर्म
इति वचनात्. नौपचयिकी उपचयाभावात्. पारिशेष्यान् नैष्यन्दिकी.
सत्त्वाख्या
सत्त्वसंतानपतितत्वात्.
निष्यन्दोपात्तभूतजेति.
नैष्यन्दिकोपात्तमहाभूतजा. समुत्थापकचित्तापेक्षत्वात् असमाहितचित्तविज्ञप्त्यधिकाराच् च. न स्वप्नसमाध्याद्यौपचयिकमहाभूतजा. अत एव च न विपाकजमहाभूतजा.
समाधिजेति
विस्तरः. सास्रवानास्रवसमाधिजत्वात्. ध्यानानास्रवजसम्वराविज्ञप्तिः समाधिजेत्य् उच्यते. अनुपात्तानि च महाभूतान्य् उपादायेति. समाहितचित्तवशेन तत्र शरीरे चित्तानुवृत्तित्वात्. उपात्तानि हि महाभूतानि निरोधसमापत्त्याद्यवस्थासु ( अभिध्-क्-व्य् 360 ) चित्तम् अन्तरेणापि वर्तन्ते. यावत् संभिन्नप्रलापाद् इति. यावच्छब्देनादत्तादानात् काममिथ्याचारान् [तिब्. 19अ] मृषावादात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाद् इति. चित्तवत् भूताभेदात्. यथा तदुत्पादकं चित्तम् अभिन्नम्. एवं भूतान्य् अपि तदुत्पादकान्य् अभिन्नान्य् एव. न चाधारार्थेनाविज्ञप्तेर् महाभूतान्य् आश्रयः. किं तर्हि. तत्प्रवर्तनार्थेन. तस्माद्
अभिन्नभूजेति
वचनं न विरुध्यति. प्रातिमोक्षसम्वरे त्व् अन्यान्यानीति. अचित्तानुपरिवर्तनीयत्वात्. विज्ञप्तिस् तु नैष्यन्दिकीति. आक्षेपवशेनानुवृत्तेः. उपात्ता तु कायिकीति. न वाचिकीत्य् अर्थः. कायिकी हि कायमहाभूताविनिर्भागवर्तित्वात् तदाश्रयभूतानाम् उपात्ता. न तु वाचिकी. तद्विनिर्भागवर्तित्वात्.
अत्र चोदयन्ति. शास्त्रविरुद्धम् एतद्. एवं ह्य् आह. यानीमान्य् उपासकस्य पञ्च शिक्षापदानि. एषां कत्य् उपात्तानि. कत्य् अनुपात्तानि. आह. सर्वाण्य् अनुपात्तानीति. अविज्ञप्तिलक्षणशिक्षापदाभिसंधिवचनाद् बाहुलिकत्वाद् वा तथानिर्देशस्येत्य् अदोषः.
पुनःप्रबन्धाद् अवैभाषिकीयम् [तिब्. 19ब्] इति. एकसंस्थानोत्पत्ताव् इतरसंस्थानानिवृत्तेः. कथं विस्तरेण यावत् संस्थानद्वयं सिध्यतीति. अन्योन्यावकाशदानात्. तन्महाभूतैर् अभिव्यापनाद् इति. विज्ञप्त्याश्रयैर् महाभूतैर् अङ्गस्याभिव्यापनात्. अनभिव्यापने च पुनर् विज्ञप्तिमहाभूतैः कथं कृत्स्नेनांगेन विज्ञापयेत्. न हि शक्यते वक्तुं. कायैकदेशेनासौ विज्ञापयति. न सर्वकायेनेति. विज्ञप्त्याश्रयाणि महाभूतानि तदंगं न व्याप्यावतिष्ठन्त इति. सुषिरत्वात् कायस्यास्ति तेषाम् अवकाश इति. अभिव्यापने ऽपि न महीयसाङ्गेन भवितव्यं. सुषिरत्वेन कायानुप्रवेशात्. पीनेन तर्हि गुरुणा वा तेनांगेन न भवितव्यं. सूक्ष्मत्वात्.
(इव्.9, 10अब्) द्विविधं त्रिविधं पंचविधं चोक्तम् इति.
चेतना तत्कृतं च तद्
इति वचनात्. द्विविधम् उक्तं.
चेतना मानसं कर्म तज्जे वाक्कायकर्मणी
इति वचनात्. त्रिविधम् उक्तं.
ते तु विज्ञप्त्यविज्ञप्ती
इति. कायवाक्कर्मणो विज्ञप्त्यविज्ञप्तित्वे भेदात्. चेतनात्मनः कर्मणश् च पञ्चसत्त्वात् पञ्चविधम् उक्तं.
नाव्याकृतास्त्य् अविज्ञप्तिर्
इति. [तिब्. 20अ] कुशलाकुशलैवाविज्ञप्तिर् इत्य् अर्थाद् उक्तं भवति. बलवत् कर्मेति. अविज्ञप्तिलक्षणं.
कामे ऽपीति.
अपिशब्दाद् इतिचशब्दार्थेनापिशब्देन काम इत्य् आकृष्यते.
अनास्रवाविज्ञप्तिवद् इति. यथा न च तावद् अनास्रवाया अविज्ञप्तेर् अनास्रवाणि महाभूतानि. अथ च पुनर् यस्यां भूमौ जातस् ताम् उत्पादयति. तद्भूमिकानि महाभूतान्य् उपादायोत्पद्यते. एवं न च तावद् आरूप्याणि महाभूतानि स्युः. अथ च पुनर् यस्यां भूमौ जात आरूप्याम् उत्पादयति. तद्भूमिकानि महाभूतान्य् उपादायारूप्यावचर्य् अविज्ञप्तिर् भविष्यतीति. न. तस्या धात्वपतितत्वाद् इति. नेहासाम्यात्. यस्माद् अविज्ञप्तिर् अनास्रवा धात्वपतिता कामरूपारूप्यावचरीति. तृष्णाभिर् अस्वीकृतत्वात् तस्या धातुतो भूमितो वा नैव सभागानि नापि विसभागानि महाभूतानि भवन्तीत्य् अतो यत्रजातस् तत्रजानि महाभूतान्य् उपादायोत्पद्यते. आरूप्यावचरी त्व् अविज्ञप्तिर् नार्हति कामरूपावचराणि विसभागानि महाभूतान्य् उपादाय भवितुं. धातुपतितवाद् इत्य् अभिप्रायः. किं च. सर्वरूपवैमुख्याच् चारूप्यसमापत्तिर् नालं रूपोत्पत्तये. रूपभूमिका त्व् अनास्रवा समापट्तिर् अलं [तिब्. 20ब्] रूपोत्पत्तये ऽविज्ञप्त्युत्पत्तये इत्य् अर्थः. कस्मात्. सर्वरूपवैमुख्याद् इत्य् अभिप्रायः. कथं चारूप्यसमापत्तेः सर्वरूपं वैमुख्यम् इत्य् अतो ब्रवीति. विभूतरूपसंज्ञत्वाद् इति. विगतरूपसंज्ञत्वाद् इत्य् अर्थः. दौःशील्यप्रतिपक्षेण शीलम् इति विस्तरः. दौःशील्यं कामावचरम् अकुशलसमुत्थानत्वात्. तस्य रूपभूमिकं शीलम् अविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते. आरूप्यावचरम् अप्य् एवं भविष्यतीति चेद् अत आह. आरूप्याश् च कामधातोर् इति विस्तरः. आरूप्याः कामधातोश् चतसृभिर् दूरताभिर् दूरे. दूरत्वाच् चारूप्यसंगृहीतं शीलं कामधातुप्रतिपक्षे न कल्पते. चतस्रश् च दूरता व्याख्याताः पुरस्ताद् इति न पुनर् व्याख्यायन्ते. प्रतिपक्षदूरता चात्रोदाहरणं.
विज्ञप्तिः सविचारयोर्
इति. सविचारयोर् एव भूम्योर् इत्य् अवधारणार्थ आरंभः. वितर्क्य विचार्य वाचं भाषत इति वितर्कविचारपूर्वकत्वात् कायवाक्कर्मणोः.
कामे ऽपि निवृता नास्तीति.
न केवलम् अविचारासु भूमिष्व् इति दर्शयति. ब्रह्मलोक एवास्तीत्य् उक्तं भवति. तत ऊर्ध्वम् इति. ब्रह्मलोकाद् ऊर्ध्वं. बाह्यमहाधूतहेतुकम् इति. वायुप्रभृतीनां [तिब्. 21अ] शब्दायतनं. विज्ञप्तिशब्दप्रतिषेधपरम् एतद् वचनं ( अभिध्-क्-व्य् 362 ). न तु बाह्यमहाभूतहेतुकम् एव. पाण्याद्यङ्गशब्दो ऽपि हि द्वितीयादिषु ध्यानेषु संभवति. अन्यथा हि शास्त्रविरोधः स्यात्. तथा हि शास्त्र उक्तं. शब्दधातुना कः समन्वागतः. आह. कामरूपावचरः. को ऽसमन्वागतह्. आह. आरूप्यावचर इति. न हि बाह्येनासत्त्वसंख्यातेन समन्वागतो युज्यते.
प्राप्त्यप्राप्ती स्वसंतानपतितानाम्
इति वचनात्. अस्यैव च दोषपरिहारार्थम् अन्ये पुनर् आहुर् इति. द्वितीयादिष्व् अपि ध्यानेषु विज्ञप्तिर् अस्तीति. किंभूमिका. प्रथमध्यानभूमिका. वैभाषिकपक्ष एवायं. न पक्षान्तरं.
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत्
द्वितीयादौ तदा व्याप्तम् अक्लिष्टव्याकृतं च तद्

इति सिद्धान्तात्. एवं तर्हि द्वितीयादिध्यानभूमिका भवति पक्षान्तरं. सा तु किं व्याकृता उताव्याकृतेत्य् आह. अनिवृताव्याकृता. न तु कुशला न क्लिष्टेति. परस्परसंभाषणादिकुर्वतां ततस्त्यानाम् अव्याकृता विज्ञप्तिर् भवति. [तिब्. 21ब् किंकारणं न कुशला न क्लिष्टास्तीत्य् आह. न हि तेषूपपन्न इति विस्तरः. न हि द्वितीयादिषु ध्यानेषूपपन्नः तथाजातीयं कुशलक्लिष्टजातीयम् अधोभूमिकं चित्तं संमुखीकरोति. येन चित्तेन कुशलां क्लिष्टां वा विज्ञप्तिं समुत्थापयेत्. किंकारणम् इति आह. न्यूनत्वात् प्रहीणत्वाच् चेति. कुशलम् अधोभूमिकं न्यूनत्वान् न संमुखीकरोति. प्रहीणत्वाच् चेति न क्लिष्टम्. अर्थाद् एतद् उक्तं भवति. अव्याकृतम् अधोभूमिकं चित्तं संमुखीकरोति. तेन तां समुत्थापयतीति. एतद् उक्तं भवति. अधोभूमिकेन चित्तेनोर्ध्वभूमिका विज्ञप्तिर् उत्थाप्यत इति. तद् एवं नेच्छन्ति वैभाषिकाः. प्रथमध्यानिकैव हि सा विज्ञप्तिः प्रथमध्यानभूमिकचित्तसमुत्थापितत्वात्. तस्माद् आह. पूर्वम् एव तु वर्णयन्तीति.
तच् च कामधाताव् इति. तच् च भावनाप्रहातव्यं निवृतव्याकृतं चित्तं कामधातौ नास्ति. सत्कायान्तग्राहदृष्टिसंप्रयुक्तम् एव हि कामधातौ निवृताव्याकृतं चित्तम् इष्यते. तेन च न विज्ञप्तिः समुत्थाप्यते. अन्तर्मुखप्रवृत्तत्वात्.
(इव्.10च्द्, 11) स्वभावत इत्य् आत्मतः. परमक्षेमत्वाद् इति. अक्षेमलेशानुबन्धभावात्. [तिब्. 22अ] यद् धि स्वभावसंप्रयोगसमुत्थानतः कुशलं न तत् परमक्षेमम् इत्य् उक्तं भवति. असंप्रयुक्तानां कुशलत्वाभावाद् इति. कुशलमूलादिभिर् असंप्रयुक्तानां चैत्तादीनां कुशलत्वाभावात्. तत्संप्रयोगकुशलत्वसिद्धिः. तैर् एव कुशलमूलादिसंप्रयुक्तैर् इत्य् आदिशब्देन ह्र्यपत्राप्ययोर् ग्रहणं. औषधिपानीयसंभूतक्षीरवद् इति. पीतौषधपानीयाया ( अभिध्-क्-व्य् 363 ) गोर् यत् क्षीरं. तद् औषधपानीयसंभूतं. प्राप्तीनां त्व् इति विस्तरः. प्राप्तीनां कुशलानां विसभागचित्तसमुत्थापितानां. विसभागं चित्तं कुशलाद् अन्यत्. विचिकित्सया कुशलमूलप्रतिसंधाने याः कुशलानां प्राप्तयः. तासां कुशलत्वं. न तावत् परिनिर्वाणवत् परमार्थक्षेमत्वात्. नाप्य् अलोभादिवत् स्वभावतः कुशलम् अतत्स्वभावत्वात्. नापि वेदनादिवत् संप्रयोगतो विप्रयुक्तत्वात्. नापि समुत्थानतस् तत्समुत्थानचित्तस्य [तिब्. 22ब्] क्लिष्टत्वात्. एवं पुनर्भवप्रतिसंधाव् अपि उपपत्तिप्रतिलंभिककुशलप्राप्तयो वक्तव्याः. कथं तासां कुशलत्वम् इति वक्तव्यम् एतत्. कर्तव्यो ऽत्र यत्न इत्य् अभिप्रायः. अत्र परिहरन्ति. कुशलमूलसमुत्थापनीयत्वाद् अनागतावस्थायाम् एव ताः कुशलमूला भवन्ति. क्लिष्टेन चित्तेन तत्प्राप्तिविबन्धो ऽपनीयते. न तत्कुशलत्वम् आपद्यत इति.

सर्वदुःखप्रवृत्त्यात्मकत्वेनेति. सर्वस्य दुःखस्य प्रवृत्तिर् आत्मा स्वभावो ऽस्येति सर्वदुःखप्रवृत्त्यात्मकः. तद्भावेन. परमार्थेनाक्षेमः संसारः. कायवाक्कर्मजात्यादिप्राप्तय इति. कायवाक्कर्माणि विज्ञप्त्यविज्ञप्तिस्वभावान्य् असम्वरनैवसम्वरनासम्वरसंगृहीतानि. जात्यादयो जातिजरास्थित्यनित्यतालक्षणालक्षणस्वभावः. प्राप्तयो ऽकुशलानां. व्याध्यपथ्यौषधादिभिर् उपमेया इति. संसारो व्याधिनोपमेयः. व्याधिसंसार इत्य् अर्थः. लोभादीन्य् अपथ्यौषधेनोपमेयानि. अन्यसंप्रयोगसमुत्थानापेक्षत्वात्. तत्संप्रयुक्ता अपथ्यौषधिमिश्रपानीयेन. कायवाक्कर्मजात्यादिप्राप्तयो [तिब्. 23अ] ऽपथ्यौषधपानीयसंभूतक्षीरेणोपमेयाः. एवं तर्हीति विस्तरः. यदि परमार्थेनाकुशलः संसारः. न किंचित् सास्रवम् अव्याकृतं भविष्यति कुशलं वा. संसाराभ्यन्तरत्वात् सास्रवस्य. परमार्थत एवम् उक्तम् इति अभ्युपगतम् एतत् सर्वं संसारपर्यापन्नम् अकुशलम् इति. विपाकं तु प्रतीति विस्तरः. यद् विपाकं प्रति न व्याक्रियते. सविपाकम् एतद् इति. तद् अव्याकृतम् इत्य् उच्यते. तद् उक्तं भवति. यत् सास्रवं. तद् अकुशलं परमाक्षेमत्वात्. विपाकं प्रत्य् अव्याकरणार्थाव्याकृतम् इति. कुशलम् अपि. तथैवाकुशलम्. इष्टविपाकत्वात् कुशलम् इत्य् अवगन्तव्यं.
यदि समुत्तानवशाद् इति विस्तरः. चेतनाया एव कुशलाकुशलत्वम् इत्य् अनेनाभिप्रायेण. कायवाक्कर्मणः कुशलाकुशलत्वं विचारयति. किं न महाभूतानाम् इति. कुशलाकुशलत्वं. कुशलाकुशलेन हि चित्तेन कायवाक्कर्म तन्महाभूतानि समुत्थाप्यते. वैभाषिक आह. कर्मणि हि कर्तुर् अभिप्रायो न महाभूतेषु न महाभूतानि कुर्याम् इति. किं तर्हि. इदं कर्म कुर्याम् इति. न कर्मवन् महाभूतानां कुशलाकुशलत्वम् इति. [तिब्. 23ब्] आचार्य आह. ( अभिध्-क्-व्य् 364 ) समाहितस्य कर्तुर् अविज्ञप्तौ नास्त्य् अभिप्रायः. अविज्ञप्तिं कुर्यां इति. न चासमाहितं चित्तं तस्याः समुत्थापकम् अस्ति. यद् एवम् अभिप्रायं कुर्यात्. विसभागत्वात् विसदृशत्वात् भूमितो ऽसमाधानाद् वा. कथं तस्याः समाहिताया अविज्ञप्तेः कुशलत्वं. महाभूतवत् तस्याः कुशलत्वं न स्याद् इत्य् अभिप्रायः. दिव्ययोर् अपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसंग इति. यद्य् अन्तरेणापि तदभिप्रायम् अविज्ञप्तेः कुशलम् इति. अथ वा अयम् अस्याभिसम्बन्धः. यदि विसभागासमाहितचित्तवशेन तस्याः कुशलत्वं. दिव्ययोर् अपि चक्षुःश्रोत्रयोः कुशलत्वप्रसंगः. प्रयोगकाले तदभिप्रायसंभवात्. न च तयोः कुशलम् अस्त्य्
अव्याकृते श्रोत्रचक्षुरभिज्ञे
इति वचनात्.
(इव्.12-14) यद् उक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेर् असमुत्थापकम् इति. दर्शनप्रहातव्यस्यांतर्मुखप्रवृत्तत्वाद् इत्य् एवं ब्रुवतां किं तर्हि भगवतोक्तम् इति विरुध्यते. तद् भगवतोक्तम् इति वाक्यार्थः. किं तद् इत्य् उच्यते. ततो मिथ्यादृष्टेर् इति विस्तरः. कथं मिथ्यादृष्टेर् दर्शनप्रहातव्यायाः [तिब्. 24अ] मिथ्यावाक् विज्ञप्तिस्वभावा मिथ्याकर्मान्तश् च तत्स्वभाव एवेत्य् उक्तम् इति.
हेतुतत्क्षणोत्थानसंज्ञितम्
इति. हेतुत्थानं च तत्क्षणोत्थानं च हेतुतत्क्षणोत्थानं. हेतुतत्क्षणोत्थानम् इति संज्ञितं
हेतुतत्क्षणोत्थानसंज्ञितं.
संज्ञितम्
इति संज्ञीकृतं. अथ वा हेतुतत्क्षणोत्थानं संज्ञास्येति हेतुतत्क्षणोत्थानसंज्ञं. हेतुतत्क्षणोत्थानसंज्ञीकृतं
हेतुतत्क्षणोत्थानसंज्ञितं.
हेतुसमुत्थानम् इति. समुत्तिष्ठते ऽनेनेति समुत्थानं. हेतुश् च स समुत्थानं च तत् हेतुसमुत्थानं. तत्क्षणसमुत्थानम् इति. स क्षणः क्रियाक्षणः. तत्क्षणे समुत्थानं तत्क्षणसमुत्थानं. तत्रैव क्षणे समुत्थानसद्भावात्. तत्रैव क्रियाक्षणे तत्क्षणसमुत्थानस्य भावाद् इत्य् अर्थः. आक्षेपकत्वाद् इत्य् उत्पादकत्वात्. किम् इदानीम् इति विस्तरः. तस्य तत्क्षणसमुत्थानस्य तस्यां विज्ञपनक्रियायां सामर्थ्यं. येन तदानीं तदनुवर्तकम् इत्य् उच्यते. तेन हीति विस्तरः. तेन हि तत्क्षणसमुत्थानेन विना असौ विज्ञप्तिर् मृतस्येव न स्याद् आक्षिप्ता सती हेतुसमुत्थानेन जनितापि सती. तद्यथा. कश्चिद् ग्रामं गमिष्यामीत्य् आक्षिप्तक्रियान्तरा म्रियेत्. तस्यानुवर्तकचित्ताभावाद् ( अभिध्-क्-व्य् 365 ) गमनं न भवति. तद्वत्. अचित्तकस्य तर्हीति [तिब्. 24ब्] विस्तरः. यदि तत्क्षणसमुत्थानेन विनासौ मृतस्येव न स्यात्. निरोधसमापत्तिलाभिनः कस्यचिद् उपसंपाद्यमानस्य कायविज्ञप्तिम् आबध्नतः तत्कालोपस्थितनिरोधसमापत्तित्वाद् अचित्तकस्य संवरोत्पत्तौ कर्मवाचनावसानकालीनायां तत्संवरान्तर्गता कायविज्ञप्तिः कथं भवति. कथम् उत्पद्यते तत्क्षणसमुत्थानं विनेत्य् अर्थः. एवं विरोधिते समाध्यंतरः श्रीयते. स्फुटतरा तर्हीति. तत्क्षणसमुत्थानेन सचित्तकस्य व्यक्ततरा विज्ञप्तिर् भवतीत्य् एतत् तस्य सामर्थ्यं.
प्रवर्तकं दृष्टिहेयम्
इति. प्रवर्तकम् एव दृष्टिहेयम् इत्य् अवधार्यते. कथं पुनस् तत् प्रवर्तकम् इत्य् आह. तत्समुत्थापकयोर् वितर्कविचारयोर् निदानभूतत्वात् हेतुभूतत्वात्. विज्ञप्तेः प्रवर्तकम् इति. न त्व् अनुवर्तकम् इति विस्तरः. यत् तद् बहिर्मुखं चित्तम् अनुवर्तकं. तस्य यो विज्ञप्तिक्रियाकालः. तस्मिं तदभावात्. तस्य दर्शनप्रहातव्यस्य प्रवर्तकस्याभावाद् इत्य् अर्थः. अतस् तन् नानुवर्तकं. अयं चान्यो दोषः. तत्समुत्थापितं च रूपम् इति विस्तरः. यदि तद् अनुवर्तकं स्याद् दर्शनप्रहातव्यं. तेन दर्शनप्रहातव्येन समुत्थापितं कायवाग्विज्ञप्तिरूपं दर्शनप्रहातव्यं स्यात्. यथा भावनाप्रहातव्येन चित्तेन समुत्थापितं [तिब्. 25अ] कायवाक्कर्म भावनाप्रहातव्यम् इति. किं स्याद् इति चोदकः. अभिधर्मो बाधितः स्याद् इति वैभाषिकः.
न दृष्तिहेयम् अक्लिष्टं न रूपम्

इति वचनात्. किं च विद्याविद्याभ्यां चाविरोधात्. विद्यया दर्शनमार्गेण सत्कायदृष्ट्यादिवत् तस्य रूपस्याविरोधात्. अप्रहाणाद् इत्य् अर्थः. दृष्टसत्यानाम् अपि तत्समन्वागतत्वान् नास्ति रूपं दर्शनप्रहातव्यं. अविद्यया चाविरोधात्. किं चाविद्ययापि रूपं न विरुध्यते. न हि क्लिष्टाक्लिष्टरूपसमुदाचारावस्थायां तत्प्राप्तिप्रवाहे वा सत्य् अविद्या न भवति अविद्यायां च सत्यां तन् न भवति. यथा अनास्रवो मार्गो ऽविद्यया विरुध्यते. पृथग्जनावस्थायां तदनुत्पादात्. तदुत्पादे वार्यवस्थायां कस्याश्चिद् अविद्यायाः प्रहाणात्. तद् एवम् अनास्रववद् अप्रहातव्यम् अपि न भवति. न चेद् अप्रहातव्यं. नापि दर्शनप्रहातव्यं. पारिशेष्याद् भावनाप्रहातव्यम् इति सिद्धं. इतर आह. [तिब्. 25ब्] साध्य एष पक्षो विद्यया रूपं न विरुध्यत इति. यो हि दर्शनप्रहातव्यं रूपम् इच्छति. स कथं विद्यया रूपस्याविरोधं ग्रहीष्यति. वैभाषिक आह. भूतान्य् अपीति विस्तरः. यदि तद् रूपं दर्शनप्रहातव्यचित्तसमुत्थापितं ( अभिध्-क्-व्य् 366 ) दर्शनप्रहातव्यं स्यात्. तदाश्रयभूतान्य् अपि तर्हि दर्शनप्रहातव्यानि स्युः. कस्मात्. समानचित्तोत्थापितत्वात्. येन हि दर्शनप्रहातव्येन चित्तेन तद् रूपं समुत्थापितं. तेनैव तदाश्रयभूतान्य् अपीति. न च तानि तथा भवितुम् अर्हन्ति. अक्लिष्टाव्याकृतत्वात्. दर्शनप्रहातव्यानां च क्लिष्टत्वात्. इतर आह. नैवं भविष्यति. दर्शनप्रहातव्यानि स्युर् इति. कथम् इत्य् आह. यथा न कुशलाकुशलानि भवन्ति. यथा येन चित्तेन कुशलाकुशलेन कुशलाकुशलं रूपं समुत्थापितं. तेनैव तदाश्रयभूतानि समुत्थापितानि. तच् च कायवाक्कर्मस्वभावं रूपं कुशलाकुशलं. न तदाश्रयभूतानीति. तद्वत्. स एव पुनः परावृत्याह. अथ वा पुनर् भवंतु दर्शनप्रहातव्यानीति. वैभाषिक आह. नैवं शक्यं भवितुम्. दर्शनप्रहातव्यानीति वाक्यशेषः. कस्मात्. अक्लिष्टस्य [तिब्. 26अ] धर्मस्य विद्याविद्याभ्याम् अविरोधात्. न ह्य् अक्लिष्टो धर्मः अनिवृताव्याकृतः कुशलसास्रवश् च विद्ययानास्रवेण मार्गेण विरुध्यते. यथा क्लिष्टा धर्माः प्राप्तिच्छेदाद् विरुध्यंते. तदालम्बनक्लेशप्राप्तिच्छेदात् तु विरोधो न प्रतिषिध्यते. नाप्य् अविद्यया विरुध्यते. प्राप्तिच्छेदेन तदालम्बनक्लेशप्रहातव्येन च. भूतानि चाक्लिष्टानि. तत्र यद् उक्तम् अथ वा पुनर् भवंत्व् इति. तद् अयुक्तं. तद् एवम् अत्र साधनम् उत्तिष्ठते. न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रयमहाभूतानि. अक्लिष्टत्वात्. अक्लिष्टचित्तचैत्तधर्मवद् इति. तद् एवं वैभाषिकः
प्रवर्तकं दृष्टिहेयं विज्ञानम्
इति सचोद्यपरिहारं प्रतिष्ठाप्य निगमयति. अतो हेतुसमुत्थानम् इति विस्तरः. यद् उक्तं मिथ्यादृष्टेर् मिथ्यासंकल्पो यावत् मिथ्याकर्मान्त इति. तस्य सूत्रस्य न विरोधो भवतीति.
प्रवर्तकं चानुवर्तकं चेति. अन्तर्बहिर्मुखप्रवृत्तत्वात्.
पंचकं त्व् अनुवर्तकम्
इत्य् अवधारणम् अविकल्पकत्वात्.
[तिब्. 26ब्] नोभयम् अनास्रवम् इति. न प्रवर्तकं. नाप्य् अनुवर्तकं. समाहितान्तर्मुखप्रवृत्तत्वात्.
अम्लायमानेति. अहीयमाना. चानट्प्रत्ययन्तश् चायं शब्दः. कुशलैकताना इति. कुशलैकप्रबन्धा इत्य् अर्थः. बुद्धो भगवान् नाग इत्य् उक्तः सूत्रे. कथं. तथागत उदायिन् सदेवके लोके समारक इति विस्तरेणोक्त्वाह आगो न करोति कायेन वाचा मनसा. तस्मान् नाग इत्य् उच्यते इति. आगो न करोतीत्य् अपराधं न करोतीत्य् अर्थः. अनिच्छयास्येति. अनिच्छयास्य बुद्धस्य चित्तस्याविसरणाद् विषयेष्व् अगमनाद् एवम् उक्तं.
चरन् समाहितो नाग
इति विस्तरः. चतुर्ष्व् ईर्यापथेषु चरं चरामीति. यावन् निषीदम् निषीदामीत्य् उपस्थितस्मृतित्वान् नित्यसमाहितः स उच्यते.
निरभिसंस्कारवाहित्वाद् इति. अभावो हि संस्कारस्य प्रयत्नस्य निरभिसंस्कारं. निरभिसंस्कारं वहतीति निरभिसंस्कारवाही. तद्भावः. तस्माद् इति.
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकम् इति. स्याद् एतद् एवं. यदि सर्वं दर्शनप्रहातव्यं प्रवर्तकम् इष्येत. न तु सर्वं. किं तर्हि. मिथ्यादृष्ट्यादिकम् एव प्रवर्तकं विज्ञप्तेर् न सत्कायदृष्ट्यादिकम् [तिब्. 27अ] इत्य् अत आह. न वा सर्वम् इति विशेषणं वक्तव्यम् ईदृशं प्रवर्तकम् ईदृशं नेति. अकुशलाव्याकृतचित्तस्येति. उपसंपाद्यमानस्य केनचिद् योगेनाकुशलाव्याकृतचित्तस्य. प्रातिमोक्षसम्वरविज्ञप्तिर् अंजल्यादिका कुशला न प्राप्नोति. तदनुवर्तकचित्तम् अकुशलाव्याकृतम् इति कृत्वा. यथा प्रवर्तकम् इति विस्तरः. यथा प्रवर्तकं चित्तं भावनाप्रहातव्यम्. तथा विज्ञप्तिर् व्यवस्थाप्यते. न तु यथा दर्शनप्रहातव्यं प्रवर्तकं तथा व्यवस्थाप्यते. कस्मात्. भावनाहेयेनान्तरितत्वात्. यस्मात् तत्प्रवर्तकं दर्शनप्रहातव्यं भावनाहेयेन प्रवर्तकेनान्तरितं. कथं कृत्वा. तद्यथास्त्य् आत्मेति मया परेषां गमयितव्यम् इति पूर्वम् एवावधार्य ततो वाक्समुत्पादकेन चित्तेन बहिर्मुखप्रवृत्तेन भावनाप्रहातव्येन सवितर्केण सविचारेण वाचं भाषते. अस्त्य् आत्मेत्य् एवमादि. अतो यथा प्रवर्तकम् इति विस्तरः. तद् एवम् अवश्यं दर्शनप्रहातव्यस्य प्रवर्तकस्यानन्तरं प्रवर्तकम् एव भावनाप्रहातव्यं कुशलम् [तिब्. 27ब्] अकुशलम् अव्याकृतं चोत्पद्यते. तद्वशाच् च विज्ञप्तेः कुशलादित्वम् इति. एवं तु वक्तव्यम् इति विस्तरः. एवं तु वक्तव्यम् अन्यव्यवहितं भावनाहेयव्यवहितं हेतुसमुत्थानं संधायोक्तम् इति. परंपराहेतुसमुत्थानं संधायेत्य् अर्थः.
(इव्.15अब्) अविज्ञप्तिस् त्रिधेति
विस्तरः. त्रिविधेत्य् उद्दिश्य.
संवोरासंवरेतरेति
विवृणोति. संवरश् च सः. असंवरश् च सः. संवरासंवरः. संवरासंवरश् च सः. इतरा च सा.
संवरसंवरेतरेति
समासः.
(इव्.16) प्रतिनियतलक्षणत्वाद् इति. भिक्षुसंवरस्यान्यल् लक्षणम् एवं यावद् उपवाससंवरस्यान्यल् लक्षणं. तथा हि वक्ष्यति.
पंचाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात्
उपासकोपवासस्थश्रमणोद्देशभिक्षुतेति.
अष्टविधत्वे तु सांकर्यसंभवः. य एव हि भिक्षुसम्वरः. स एव भिक्षुणीसम्वर इत्य् एवमादि. श्रामणेरी च पुनः शिक्षमाणा चेति. श्रामणेरी परिवृत्तव्यंजना श्रमणेरो भवति. शिक्षमाणा चापि परिवृत्तव्यंजना श्रामणेर एव भवति. किम् एवं नेष्यते. परिवृत्तव्यंजनो भिक्षुर् भिक्षुसंवरं च त्यजति. भिक्षुणीसंवरं च प्रतिलभत इत्य् अत आह. न च व्यंजनपरिवृत्ताव् इति विस्तरः. न भिक्षुभिक्षुणीव्यंजनप्रादुर्भावे पार्वसंवरत्यागकारणम् अस्ति.
[तिब्. 28अ] प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच् च्युतेः
उभयव्यंजनोत्पत्तेर् मूलच्छेदान् निशात्ययाद्
इत्य् अत्र यत् कारणम् उक्तं. नाप्य् अपूर्वसंवरप्रतिलंभे कारणम् अस्तीति वर्तते. यद् उक्तं

प्रातिमोक्षाख्यः परविज्ञापनादिभिर्
इति. अतो विज्ञायते न भिक्षुसंवराद् अन्यो भिक्षुणीसंवर इति. एवं श्रामणेरादीनाम् अपि वक्तव्यं. तस्माद् अभिन्नो ऽनन्यश् चतुर्णां भिक्षुणीशिक्षमाणाश्रामणेर्युपासिकासंवराणां त्रिभ्यो भिक्षुश्रामणेरोपासकसंवरेभ्यः स्वभावः.
किं ते संवरा इति विस्तरः. यथा पंचसंख्यायाम् अन्यानि पंच प्रक्षिप्य पंचवृद्धियोगाद् दश भवन्ति. पंचदशसंख्यायां चान्यानि पंच प्रक्षिप्य विंशतिर् भवंति. दीनारसतेरवच् च. यथा पूर्वको दीनारो द्वितीयेन सह सतेरो भवति. तथा हि लोके एकदीनारमूल्येन द्वितीयं दीनारं दीनारमूल्यं वा तेन पूर्वकेण दीनारमूल्येन सहाधिकम् अपेक्ष्य कश्चिद् वक्ता भवेत्. दीनारसतेरो मया लब्ध इति. दीनारद्वयं मया लब्धम् इत्य् अर्थः. किम् एवम् एत उपासकश्रामणेरभिक्षुसंवराः विरतिवृद्धियोगात् प्राणातिपातादिविरतिषु तथैवावस्थितासु पुनर् नृत्यगीतविरत्यादीनाम् अपूर्वाणां विरतीनां [तिब्. 28ब्] वृद्धियोगाद् अन्योन्य उच्यंते. अन्य उपासकसंवराच् छ्रामणेरसंवरः श्रामणेरसंवराच् चान्यो भिक्षुसंवर इति एकदेशविशेषयोगाद् अन्योन्यव्यवस्थेत्य् अर्थः. आहो स्वित् पृथग् एव ते सकला उपजायन्ते. अन्याः प्राणातिपातादिविरतय उपासकस्य. ततो ऽन्याः श्रामणेरस्य. ततो ऽन्याश् च भिक्षोः. इत्य् एकस्मिं भिक्षुसंताने तिस्रः प्राणातिपातादिविरतयः. एवम् अदत्तादानविरतयः. इत्य् एवमादि. एवं शेषा इति. नृत्यगीतविरत्यादयः.
मदप्रमादेभ्य इति. उच्चशयनादिमद्यपानादिभ्यः. बहुतरेभ्यः ( अभिध्-क्-व्य् 369 ) प्राणातिपातादीनां निदानेभ्य इति. उपासकाच् छ्रामणेरो बहुतरेभ्यः प्राणातिपातादिनिदानेभ्यो निवर्तते. तद्यथा विकालभोजनं प्राणातिपातनिदानं भवेत्. तस्माच् छ्रामणेरो निवर्तते. नोपासक इत्य् एवमादि योज्यं. एवं चासति. एवं च यदि न स्याद् इत्य् अर्थः. भिक्षुसंवरं प्रत्याचक्षाणस् त्यजंस् त्रीन् अपि उपासकसंवरादीन् विजह्यात्. द्वयोर् उपासकश्रामणेरसंवरयोस् तत्र भिक्षुसंवरे ऽन्तर्भावात्.
(इव्.17) विरतिसमादानाद् इति. विज्ञप्त्यविज्ञप्तिविरतिर् [तिब्. 29अ] इति वक्ष्यति.
(इव्.18) समापादनाद् इति. प्रतिसंस्थापनाद् इत्य् अर्थः. पापकर्मणो हि सत्त्वेषु विषमं संप्रवर्तते. सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति. विज्ञप्त्या च क्रियते प्रातिमोक्षसंवरसंगृहीता अविज्ञप्तिश् चित्तेन च क्रियते ध्यानानास्रवसंवरसंगृहीता अविज्ञप्तिः. समाधिना क्रियत इत्य् अर्थः. तद् एवं क्रियत इति क्रियेति कर्मसाधनं.
क्रियाहेतुत्वाद् इति. क्रियाया हेतुत्वात्. संवरस्थो ह्य् संवरपरिरक्षणार्थं क्रियां विज्ञप्तिलक्षणाम् आरभते. क्रियाफलत्वाच् चेति. विज्ञप्तिलक्षणायाः क्रियायाः फलत्वाद् इत्य् अर्थः. समाधिसंभूता कथं क्रिया भवति. समाधिजायाश् चेतनायाः फलत्वात् सापि क्रिया. प्रातिमोक्षसंवराधिकाराद् वा. न तत्र चित्ताः.
एवं तावद् अविशेषेण प्रातिमोक्षसंवरः संशब्द्यत इति. आद्यो ऽपि क्षणो द्वितीयादयो ऽपि च क्षणाः प्रातिमोक्षसंवर इत्य् उच्यते. प्रातिमोक्षस्वभावस् त्व् आद्यक्षण एव. तदर्थम् आह. पुनः आद्ये विज्ञप्त्यव्ज्ञप्ती प्रातिमोक्ष इत्य् उच्यते. पापस्य तेन प्रतिमोक्षणाद् इति. प्रथमेनैव क्षणेन पापं प्रतिमोक्षते. [तिब्. 29ब्] उत्सृज्यते त्यजत इत्य् अर्थः. प्रतिमोक्ष इति प्राप्ते प्रातिमोक्ष इति वचनं स्वार्थे वृद्धिविधानात्. स्वार्थे प्रत्यये कृते वृद्धिकरणाद् इत्य् अर्थः. वैकृतवैशसवत्. यथा विकृतम् एव वैकृतम्. विशसम् एव मारणं वैशसं. एवं प्रतिमोक्ष एव प्रातिमोक्ष इति. प्रातिमोक्षसंवर इत्य् अपीति. प्रातिमोक्षश् चासौ संवरश् च. कायवाचोः संवरणार्थ इत्य् अर्थः. कर्मपथ इत्य् अप्य् उच्यत इति. मौलः कर्मपथ इत्य् अर्थः. द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवर एव. प्रातिमोक्षजातीयः प्रातिमोक्षाद् वा जातः संवरः प्रातिमोक्षसंवरः. न प्रातिमोक्षः. यस्मात् न तेन पापं प्रतिमोक्षते. प्रथमक्षण एव प्रतिमोक्षितत्वात्.
(इव्.19) अष्टाव् एव निकाया इत्य् अवधारणे पृच्छति. किं खलु बाह्यकानाम् इति विस्तरः. समादानशीलम् इति विशेषणं. शीलद्वैविध्यात्. द्विविधं हि शीलं. समादानशीलं धर्मताप्रतिलंभिकं च. तत्र समादान्शीलं यद् गृह्यते. ( अभिध्-क्-व्य् 370 ) इदं चेदं च न करिष्यामीति. धर्मताप्रतिलंभिकं ध्यानसंवरो ऽनास्रवसंवरश् च. भवसंनिश्रितत्वाद् इति. मोक्षार्थिनाम् अपि तेषां मिथ्यादृष्ट्याद्युपहतत्वात्. भवविशेष एव च तेषां केषांचिन् मोक्ष इति. भवसंनिश्रितम् एव शीलं. ततो ऽस्ति तेषां समादानशीलं. न प्रातिमोक्षसंवर इति. सामन्तकम् अप्य् अत्र ध्यानं कृत्वोच्यत इति. यस्मात् सांअन्तके ऽपि ध्यानसंवरो ऽनास्रवसंवरश् [तिब्. 30अ] चेष्यते. तस्माद् ध्यानसामन्तकम् अप्य् अत्र ध्यानशब्देनोच्यत इतीष्यते. अपिशब्दान् मौलम् अपि गृह्यत एव. सहभूहेताव् उच्यमान इति.
चैत्ता द्वौ संवरौ तेषाम्
इत्य् अत्र. त्रयाणाम् इति. प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणां.
अन्यचित्ताचित्तकस्याप्य् अनुवृत्तेर् इति.
विक्षिप्ताचित्तकस्यापीति
वचनात्.
(इव्.20अब्) अनागम्य
इति ग्रहणं कामावचरस्यैव दौःशील्यस्य प्रतिपक्षत्वात्. आनंतर्यमार्गेष्व् इति. तेषां प्रहाणमार्गत्वात्. तत्समुत्थापकानाम् इति. दौःशील्यसमुत्थापकानाम्. अत एवेति. यस्माद् अनागम्यानन्तर्यमार्गेष्व् एव तद्व्यवस्थानं. तस्माच् चतुःकोटिकं क्रियते. प्रथमा कोटिर् अनागम्यानन्तर्यमार्गवर्ज्यो ध्यानसंवरः. अनागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु मौलप्रथमध्यानादिषु वा चतुर्थाद् ध्यानाद् आनन्तर्यविमुक्तिप्रयोगविशेषमार्गेषु यो ध्यानसंवरः. अयं ध्यानसंवरो न प्रहाणसंवरः. [तिब्. 30ब्] तेन दौःशील्यस्य तत्समुत्थापकानां च क्लेशानाम् अप्रहाणात्. द्वितीयानागम्यानन्तर्यमार्गेष्व् अनास्रवसंवरः. अयं प्रहाणसंवरः तेनैव दौःशील्यादिप्रहाणात्. न ध्यानसंवरो ऽनास्रवत्वात्. तृतीयानागम्यानन्तर्यमार्गेषु सास्रवसंवरः अयं प्रहाणसंवरश् च तेन दौःशील्यादिप्रहाणात्. ध्यानसंवरश् च सास्रवसमाधिजत्वात्. चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः. अयं न ध्यानसंवरो ऽनास्रवत्वात्. नापि प्रहाणसंवरस् तेन दौःशील्याद्यप्रहाणात्. स पुनस् तथैवानागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु विस्तरेण यो ऽनास्रवसंवरः. संवरनियमेनैवम् उक्तम्. अन्यथाप्य् अन्ये धर्मा वक्तव्याः स्युः. एवं स्याद् अनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं. प्रथमा कोटिर् अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः.

(इव्.20च्द्) मनःसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभावः इन्द्रियसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभाव इति द्विस्वभावज्ञापनार्थं [तिब्. 31] द्विग्रहणं. ( अभिध्-क्-व्य् 371 ) द्विवचननिर्देशाद् एव हि द्वित्वसिद्धिः. कथं पुनर् गम्यते. एताव् एवंस्वभावाद् इति. आगमात्. अन्यतरा किल देवता भिक्षुं विषयेष्व् इन्द्रियाणि विचारयन्तम् अवोचत्. भिक्षो भिक्षो व्रणं मा कार्षीद् इति. भिक्षुर् आह. पिधास्यामि देवते. देवताह. कुंभमात्रं भिक्षो व्रणं कृत्वा केन पिधास्यसि. भिक्षुर् आह. स्मृत्या देवते पिधास्यामि. संप्रजन्येन चेति.
(इव्.21, 22) स यावत् ताम् अविज्ञप्तिं न त्यजतीति. शिक्षानिक्षेपादि.
पूर्वात् क्षणाद् ऊर्ध्वम् अतीतयेति.
प्रथमे क्षणे वर्तमानस्यैव समन्वागतो भवतीत्य् उक्तं भवति.
ध्यानसंवरवान् सदा अतीताजातयेति.
ध्यानसंवरवान् किं पृथग्जनो ऽथार्यः. उभय इत्य् आह. अविशेषितत्वात्. सो ऽतीतानागतया अविज्ञप्त्या समन्वागतः. किंलक्षणया. ध्यानसंवराधिकाराद् ध्यानसंवरलक्षणयेति गम्यते. स जन्मान्तरत्यक्तम् इति. उदाहरणप्रदर्शनपरम् एतत्. इदं जन्म त्यक्तम् अपि हि गृह्यते.
आर्यस् तु प्रथमे नाभ्यतीतयेति.
आर्यः सदातीताजातया अविज्ञप्त्या [तिब्. 31ब्] समन्वागतः. किंलक्षणया. अनास्रवया. आर्याधिकारात्. अत एवाह. आर्यपुद्गलो ऽप्य् एवम् अनास्रवयेति. अयं तु विशेष इति. तुशब्दार्थं दर्शयति. स च भिन्नक्रमः. प्रथमे तु क्षणे दुःखधर्मज्ञानक्षान्तिक्षणे नाभ्यतीतया अविज्ञप्त्या समन्वागत इत्य् अर्थः. कस्मात्. अनादिमति संसारे मार्गस्य पूर्वम् अनुत्पादितत्वात्. ननु च फलप्राप्तिकाल इन्द्रियसंचारकाले ऽपि वा पूर्वमार्गत्यागे नैवातीतया अविज्ञप्त्या समन्वागम इष्यते. एवं तर्हि स चापि फलमार्गस्य प्रथमक्षणो भवति. तत्र नातीतयाविज्ञप्त्या समन्वागतो भवति. फलमार्गस्य पूर्वम् अनुत्पादितत्वाद् इति व्याख्यातव्यं. आचार्यवसुमित्रस् त्व् अस्य चोद्यस्य परिहारम् आह. अनास्रवसंवरो ऽत्र प्रकृतः. स च दुःखधर्मज्ञानक्षान्तिकाल एव लब्धः. अतस् तेन प्रथमे क्षणे नातीतेन समन्वागतो द्वितीयादिष्व् अतीतानागतेनेति. ऊर्ध्वं तु यो मार्गान्तरलाभः. तत्रानास्रवसंवरसादृश्यम् अस्तीति न तद् उच्यत इति. तद् इह सादृश्यम् अस्तीति न बुध्यामहे. किं सास्रवसंवरो ऽस्तीत्य् अपेक्ष्येदम् उच्यते. आहो स्विद् अनास्रवो ऽस्तीति. यदि सास्रवो ऽस्तीत्य् अभिप्रीयते. [तिब्. 32अ] दुःखधर्मज्ञानक्षान्तिकाले ऽपि सो ऽस्तीति नातीतया समन्वागत इति प्रतिषेधानुपपत्तिः. अथ फलप्राप्तिकाले ऽतीतानास्रवसंवरो ऽस्तीत्य् अभिप्रीयते. विहीनः स कथम् अस्तीति शक्यं वक्तुम् इति चिन्त्यो ऽस्याभिप्रायः.
समाहितार्यमार्गस्थाव्
इति. समाहितमार्गस्थश् च लौकिकसमाहितमार्गस्थः आर्यमार्गस्थश् च
समाहितार्यमार्गस्थौ.
ध्यानानास्रवसंवरान्विताव् इत्य् अर्थः. अत्र चार्यमार्गाभिरूढ आर्यमार्गस्थो वेदितव्यो नौस्थनायेन. तद्यथा यो नावम् अभिरूढः. स नौस्थः. एवं य आर्यमार्गम् अभिरूढः समापन्नः. स आर्यमार्गस्थः. अन्यथा ह्य् आर्यमार्गसमन्वितो ऽप्य् आर्यमार्गस्थ इति कृत्वा. प्रकृतिस्थो ऽप्य् आर्यो वर्तमानया अनास्रवया अविज्ञप्त्या समन्वागत इति प्राप्नोति. अन्यः पुनर् एवंप्रसंगं परिहरन् व्याचष्टे. एकशेषो ऽत्र क्रियते. समाहितश् च समाहितार्यमार्गश् च मार्गौ समाहितार्यमार्गौ. तयोः स्थितौ
समाहितार्यमार्गस्थौ.
तौ यथाक्रमं वर्तमानया ध्यानसंवराविज्ञप्त्यानास्रव[तिब्. 32ब्] संवराविज्ञप्त्या च समन्वागतौ. न तु व्युत्थितौ. न तु तन्मार्गव्युत्थितौ तया वर्तमानया समन्वागतौ. तस्याश् चित्तानुपरिवर्तनीयत्वात्. एवं व्याख्यायते. यच् चोदितम् आचार्यसंघभद्रेण. कथम् अविज्ञप्तेः प्रत्युत्पन्नता आर्यमार्गस्थवचनाद् एव गम्यते. तत्समापन्न एवायं. न पुनस् तत्समन्वागमवचनप्रसंग इति चेत्. न. ध्यानाधिकारात्. तत्रविज्ञप्त्यभावाच् च.
(इव्.23अब्) यो नैवसंवरणासंवरे स्थितस् स मध्यस्थ इति. यो न भिक्ष्वादिः. न च कैवर्तादिः. स मध्यस्थः. दौःशील्यशीलांगादिसंगृहीतेति. दौःशील्यं प्राणातिपातादि. शीलांगं प्राणातिपातविरत्यादि. यन् नसंवरणासंवरसंगृहीतम्. आदिशब्देन स्तूपवन्दनाखटचपेटादिक्रियाविज्ञप्तिर् गृह्यते.
(इव्.23च्द्,24अब्) असंवरसंवरस्थौ पुद्गलाव् अकुशलकुशलधर्मप्रतिष्ठिताव् इत्य् अनयोर् विपर्ययम् असंभावयन् पृच्छति. किम् असंवरस्थ इति विस्तरः. तौ यावद् अनुवर्तेते इति.
प्रसादक्लेशवेगौ.
अन्येष्व् अतीतयापीति. द्वितीयक्षणादिषु अतीतया.
(इव्.24च्द्, 25अब्) क्षणाद् ऊर्ध्वम् आ त्यागाद् [तिब्. 33अ] इति. यो यस्यास् त्यागस् तस्माद् आ त्यागात् तयातीतया विज्ञप्त्या समन्वागतः. कथं. संवरलक्षणायास् तावद् विज्ञप्तेस् त्यागः शिक्षानिक्षेपादिभिः. तस्माद् आ त्यागाद् अनयातीतया विज्ञप्त्या समन्वागतः. असंवरलक्षणायाः संवरसमादानादिभिस् त्यागः. तेस्माद् आ त्यागाद् अनया समन्वागतः. नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस् त्यागः. तस्माद् आ त्यागाद् अनया समन्वागत इति. यो हि संवराद्यविज्ञप्तिसमन्वागतः. सो ऽवश्यं मौलकर्मपथस्वभावया क्षणाद् ऊर्ध्वम् अतीतयाविज्ञप्त्या समन्वागतः. अनागतया तु विज्ञप्त्या न कश्चित् ( अभिध्-क्-व्य् 373 ) समन्वागत इति. चित्ताननुपरिवर्तनीयत्वात्. चित्तस्यापीति. चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् प्राप्तिः. अनुबन्धिनी मा भूद् इत्य् अर्थः. कस्माद् इत्य् आह. जडा हि विज्ञप्तिर् अनालम्बनत्वात्. परतंत्र च चित्तपरतन्त्रत्वात्. न चैवं चित्तम् इति. न जडं. न परतंत्रं चेत्य् अर्थः. कस्मात्. तद्विपर्ययात् सा दुर्बलेन निवृताव्याकृतेन चित्तेनोत्थापिता दुर्बलतरा भवतीति.
(इव्.25च्द्) मौलसंगृहीतत्वाद् [तिब्. 33ब्] इति. चेतनायाः तदर्थत्वात्.
(इव्.26) विज्ञप्त्यैवान्वितः कुर्वन् मध्यस्थो मृदुचेतन

इति. मध्यस्थग्रहणं संवरासंवरस्थनिरासार्थं. संवरासंवरस्था हि विज्ञप्त्यविज्ञप्तिभ्याम् अवश्यं समन्वागताः. मृदुचेतनग्रहणं तीव्रचेतननिरासार्थं. तीव्रचेतना हि विज्ञप्तिं कुर्वन्न् अविज्ञप्तिं समुत्थापयेत्. प्राग् एवाव्याकृतम् इति. मृद्व्या चेतनया प्राग् एवाव्याकृतं कुर्वन्. यत्र हि मृद्व्या चेतनया कुशलम् अकुशलं वा कुर्वन् नैवसंवरनासंवरे स्थितो विज्ञप्त्यैव समन्वागतो भवति अविज्ञप्तेर् अनुत्पादात्. प्राग् एवाव्याकृतं कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतो नाविज्ञप्त्या. अविज्ञप्त्युत्पादाशंकाया अभावात्. अन्यत्रेति विस्तरः. अन्यत्र सप्तभ्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः. कर्मपथेभ्यश् च प्राणातिपातादिभ्यः. तत्र ह्य् अव्याकृतम् अपि कुर्वन्न् अविज्ञप्त्या समन्वागतो भवति. सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावद् उपजायत एव पुण्यम् इति सूत्रे वचनात्. प्राणातिपातादींश् च कर्मपथां मृदुचेतनयापि कुर्वन् अविज्ञप्त्या समन्वागतो भवति. [तिब्. 34अ] येनार्यपुद्गलेनेति विस्तरः. परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद् विज्ञप्तं भवति. कललाद्यवस्थायाम् आरूप्योपपत्तौ च. विज्ञप्तं वा पुनर् विहीनम् अव्याकृतचित्तोत्थापितविज्ञप्तिविहीनाच् च. न हि तस्याः प्राप्तिर् अनुबन्धिनी भवति. कृतस्तूपादिकस्य वा. तद्वस्तुच्छेदात्. स हि तदानीम् अविज्ञप्तिम् अपि परित्यजति प्राग् एव विज्ञप्तिम् इति. आस्व् अवस्थासु जन्मान्तरपरिवृत्ताव् आर्यपुद्गलो ऽनास्रवयैवाविज्ञप्त्या जन्मान्तरलब्धया समन्वागतो न विज्ञप्त्या. ननु च पृथग्जनस्याप्य् अयं विधिः संभवति. संभवति. अनावश्यकत्वात् तु पृथग्जनो नोक्तः. यो हि ध्यानलाभी परिवृत्तजन्मान्तरः रूपधाताव् अकृतविज्ञप्तिः कृतविज्ञप्तिविहीनो वा. स एव तथा संभवति नान्य इति. कामावचरसत्त्वाभिसंधिवचनाद् वा. अथ वा उदाहरणरूप आर्यपुद्गल उक्तस् तेन पृथग्जनो ऽपि तथा ग्रहीतव्यः. अत एव
विज्ञप्त्यैवान्वितः कुर्वन् मध्यस्थो मृदुचेतन
इत्य् अत्रोक्तो ऽन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्य इति. सावशेषम् एतद् वचनम् इति कृत्वा. एवं द्वे कोटी सूत्रिते प्रथमद्वितीये [तिब्. 34ब्] तृतीयचतुर्थ्यौ तु योज्ये. तृतीया संवरासंवरमध्यस्थास् तीव्रया चेतनया कुशलम् अकुशलं वा कुर्वन्तः. चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग्जनेन न तावद् विज्ञप्तं भवति. विज्ञप्तं वा विहीनम् इति.

(इव्.27) सहभूतत्वाद् इति. यस्माद् ध्यानचित्तेन सह भवति ध्यानसंवरः. परो विज्ञापयतीति प्रत्यापयति. पुद्गलाद् अन्य इति. श्रामणेरश्रामणेर्युपासकोपासिकोपवाससंवराः. नियामावक्रान्त्या आर्यमार्गावतारणेन. पंचकानाम् आज्ञातकौण्डिन्यादीनां. एहिभिक्षुकयेति एहि भिक्षो चर ब्रह्मचर्यम् इति भगवतो वचने. एहीति चोक्तः सुगतेन तायिना मुण्डश् च काषायधरो बभूवेति. शास्तुर् अभ्युपगमान् महाकाश्यपस्येति. महाकाश्यपः किल यांयां देवताप्रतिमां वन्दते. सासा स्फुटति. तस्य महानुभावात्. स भगवन्तम् उपसंक्रम्य न वन्दते. मास्य रूपविनाशो भूद् इति. तम् अभिप्रायं विदित्वा भगवांश् चोदयति स्म. वन्दस्व काश्यप तथागतम् इति. तेन भगवान् वन्दितः. ततः स भगवतो रूपम् अविकोपितं दृष्ट्वा अयं मे शास्तेति स भगवन्तम् अभ्युपगताद् [तिब्. 35]अ अस्योपसंपद् इति. प्रश्नाराधनेन सोदायिन इति. सोदायिना प्रश्नविसर्जनेन भगवान् आराधितस् तेनाराधनेन तस्योपसंपत्. गुरुधर्माभ्युपगमेनेति. अष्टौ गुरुधर्माः. भिक्षोर् अन्तिकाद् भिक्षुणीनाम् उपसंपत् भिक्षुणीभावः. अन्वर्धमासम् अववादो ग्राह्यो भिक्षोर् अन्तिकात्. अभिक्षुके आवासे वर्षा नोपगन्तव्या. प्रवारणायाम् उभयसंघस् त्रिभिः स्थानैः प्रवारयितव्यः. न चोदयितव्यो भिक्षुर् आपत्तिम् आपन्नः नाक्रोष्टव्यः. गुरुधर्मापत्तौ मानाप्यम् अर्धमासं चरितव्यं. वर्षशतोपसंपन्नयाप्य् भिक्षुण्या तत्क्षणोपसंपन्नो भिक्षुर् वन्द्यः. न च भिक्षुण्या क्वचिद् भिक्षुश् चोदयितव्यः. इत्य् एवमादयः. एषाम् अभ्युपगमेन तस्या उपसंपत्. दूतेन धर्मदिन्नाया इति. तया किलान्तःपुरगतयैव प्रव्रज्यार्थं बुद्धाय दूतः प्रेषित इति. विनयधरपञ्चमेनेति. चत्वारो भिक्षवः संघः. तत्र ज्ञप्तिवाचकेन पंचमेनोपसंपाद्यते प्रत्यन्तिकेषु जनपदेषु. मध्यमेषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसंपाद्यते. षष्टिभद्रवर्गपूगोपसंपादितानाम् [तिब्. 35ब्] इति. भद्रो वर्ग एषाम् इति. भद्रवर्गाणां षष्टिः कुलपुत्राः. तेषां पूगेन समूहेनोपसंपादितानां. शरणगमनत्रैवाचिकेन बुद्धशरणं गच्छाम इति त्रिर्वचनेनोपसंपत्. तेषां नावश्यं विज्ञप्त्यधीन इति. तेषां विनयधराणाम् इदम् मतं. नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर ( अभिध्-क्-व्य् 375 ) इति. बुद्धप्रभृतीनाम् अविज्ञप्तिधीनत्वात्. अथ वा तेषाम् इति येषां विज्ञप्तिर् नास्त्य् उपसंपत्क्रियायां.
(इव्.28अब्) संवृतेर्
इति संवरस्य. कालो नित्यः पदार्थो ऽस्तीत्य् एके. तदाशंकया पृच्छति. कालो नाम क एष धर्म इति. काल इत्य् अस्याभिधानस्य किम् अभिधेयम् इत्य् अर्थः. संस्कारपरिदीपनाधिवचनम् एतद् इति. संस्काराणाम् अतीतानागतप्रत्युत्पन्नानाम् अभिद्योतकं नामेति. तद्यथातीतः कालो यावत् प्रत्युत्पन्न इति त्रैयध्विकाः संस्कारा एव गम्यंते. तेन च तत्राप्रयोगाद् इति. तेन विसभागेनाश्रयेण तत्र समादाने अप्रयोगात्. अस्मरणाच् च तेनाश्रयेण तत्समादानं न समरति. वैभाषिक आह. कुतस् त्व् एतद् एवं तर्क्यते. यथानन्तरम् उक्तं. आचार्य आह. परेणापि संवरोत्पत्तौ युक्त्यविरोधाद् इति. नात्र युक्तिर् विरुध्यते. यथा जीविताद् ऊर्ध्वं सत्य् अपि समादाने [तिब्. 36अ] संवरोत्पत्तौ युक्तिविरोधो विसभागाश्रयत्वाद् इत्य् एवमादि. न कालान्तरविपन्नम् एति अहोरात्रादियावत्क्रियाशयेन.
(इव्.28च्द्) अविज्ञप्तिवद् असंवरो ऽपि नास्ति द्रव्यत इति. यथा नास्त्य् अविज्ञप्तिर् द्रव्यत इति प्रतिपादितं. तथा असंवरो ऽपि न द्रव्यतो ऽस्ति. चेतनाव्यतिरिक्त इत्य् अभिप्रायः. पापक्रियाभिसंधिर् इति. पापक्रियाभिप्राय इत्य् अर्थः. सानुबन्ध इति सवासन इत्य् अर्थः. सवासनश् चेतनाविशेषो ऽसंवर इत्य् अर्थः. यतो ऽनुबन्धात् तद्वान् असंवरवान् इत्य् उच्यते. असंवरिक इत्य् अर्थः. तस्यानिराकृतत्वात्. तस्याभिसंधेः सानुबन्धस्यानिराकृतत्वात्. तद्विरुद्धया चेतनयानुपहतत्वाद् इत्य् अर्थः.
(इव्.29) स भुक्त्वापि गृह्णीयाद् इति. सूर्योदय एव संवर उत्तिष्ठते. समादाननियमचित्तस्योत्थापकत्वात्. भुक्त्वाग्रहणं त्व् अभिव्यक्त्यर्थं. कपोतकम् इति. अंगुष्ठरहितस्यांगुलिचतुष्कस्येतुरहस्तांगुष्ठप्रदेशिन्योर् अन्तरालविन्यसनात् कपोतकः.
(इव्.30) शीलं
पाराजिकाभावः संघवशेषाद्यभावः.
व्रतम्
इति नियमः. तदभावाद् इत्य् अकालभोजनात्. उभयं न स्याद् इति. स्मृतिः संवेगश् च.
न तु तेषाम् इति विस्तरेणाचार्यो वैभाषिकमतं युक्त्या [तिब्. 36ब्] विरोधयति. न तु तेषाम् एव सम्यग्दृष्ट्यादीनां सम्यग्दृष्टिधर्मप्रविचयसंबोध्यंगसमाधीनां. त एव सम्यग्दृष्ट्यादयो ऽङ्गत्वाग कल्पंते. युज्यन्त इत्य् अर्थः. कस्मात्. युक्तिविरोधात्. पूर्वकाः सम्यग्दृष्ट्यादय ( अभिध्-क्-व्य् 376 ) उत्तरेषां सम्यग्दृष्ट्यादीनाम् अङ्गं यदि स्युर् इति व्यवस्थाप्यते. एवम् अस्यां कल्पनायां प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टांगः स्यात्. न हि तत्र पूर्वोत्पन्ना सम्यग्दृष्टिर् अङ्गम् अस्तीति. सप्ताङ्गः स्यात्. बोध्यंगेष्व् अपि पश्चिमः क्षणो न बोध्यंगं स्यात्. न ह्य् अन्या परेण बोधिर् अस्ति यस्यास् तद् अङ्गं स्यात्. अथ मतम् अनागताया बोधेस् तद् अंगम् इति. अनागतबोधिर् न स्यात्. एवं समाधिर् योज्यः.
(इव्.31अब्) अन्यत्राज्ञानाद् इति. दातुर् ग्रहीतुर् वा विस्मरणाद् अव्युत्पत्तेश् च. संदिग्धस्य विपन्नाशयस्य वानादरपूर्वकं शरणम् अवगच्छतः संवरो नोत्पद्यत इति. गृहीति. उद्देशपदम्. अवदातवसन इति. निर्देशपदं. पुरुष इति. उद्देशपदं. पुरुषेन्द्रियेण समन्वागत इति. तन्निर्देशपदं. यदि न विना संवरेणोपासको भवति. यत् तर्हि सूत्र उक्तं. तद् उक्तम् इयतोपासको भवतीति. तत् कथम् इति वाक्यशेषः. आह. नास्त्य् अत्र सूत्रविरोध इति. [तिब्. 37अ महानामसूत्रस्य.
(इव्.31च्द्) उक्तिस् तु भिक्षुवद्
इति. उपासकशिक्षापदोक्तिः भिक्षुर् इव. यथैव हि भिक्षुर् लब्धसंवरो ऽपि ज्ञप्तिचतुर्थेन कर्मणा शिक्षापदानि यथास्थूलं ग्राह्यते प्रत्याय्यते इतश् चामुतश् च पाराजिकादिभ्यस् तव संवरः. अन्यानि च ते सब्रह्मचारिणः कथयिष्यन्तीति. श्रामणेरश् च. किं. शिक्षापदानि ग्राह्यते लब्धसंवरो ऽपि पूर्वं. यदैव हि तेनाभ्युपगतम् अहम् एवंनामा तं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्ध शाक्यमुनिं शाक्याधिराजं प्रव्रजितम् अनुप्रव्रजामि. गृहस्थलिंगं परित्यजामि. प्रव्रज्यालिंगं समाददामि. श्रमणोद्देशं मां धारय. एवं यावत् त्रिर् अपीति. तथोपासको ऽपि बुद्धशरणं गच्छामि. यावत् संघशरणं गच्छामि. द्विर् अपि त्रिर् अपि. इत्य् अनेन लब्धसंवरो ऽपि पुनः शिक्षापदानि ग्राह्यते. प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमामीति विस्तरेण.

(इव्.32अब्च्) एकदेशकारी. य एकं शिक्षापदं रक्षति. प्रदेशकारी. यो द्वे रक्षति. यद्भूयस्कारी. यस् त्रीणि चत्वारि वा रक्षति. परिपूर्णकारी. यः पंचापि रक्षति. स तत्कारीत्य् उक्त इति. एकदेशकारी यावत् परिपूर्णकारीत्य् [तिब्. 37ब्] अर्थः. न ह्य् एवं सूत्रपाठ इति. न ह्य् एवं महानामसूत्रपाठो यावज्जीवप्राणापेतम् इत्य् उक्तः. यथा महानामसूत्रपाठ इति. कियता भदन्त उपासको भवति. यतश् च महानामन् गृही विस्तरेण यावद् उपासकं मां धारयेति. इयतोपासको भवतीति. यत्र त्व् एष पाठ इति. यत्र सूत्रान्तरे एष पाठः. यावज्जीवं प्राणापेतं शरणगतम् अभिप्रसन्नम् इति. ततस् ते दृष्टसत्याः पुद्गलाः अवेत्यप्रसादान्वयम् अवेत्यप्रसादहेतुकं प्राणैर् अपि ( अभिध्-क्-व्य् 377 ) जीवितहेतोर् अपि सद्धर्मोपगमनं दर्शयति. अभव्या वयम् एनं धर्मं परित्यक्तुम् इति. न त्व् एष लक्षणापदेशः संवरस्य. न त्व् अनेन सूत्रेण लक्षणम् अपदिश्यत इत्य् अर्थः. प्राणापेतं तु न क्वचित् पठ्यत इति. नापि महानामसूत्रे. नापि दृष्टसत्यसूत्रे. कश् चैतद् अपरिस्फुटार्थं पठेद् इति. मध्यपदलोपविकल्पान् न ज्ञायते. किं प्राणेभ्यो ऽपेतं प्राणैर् वा ऽपेतं प्राणपेतं. उताहो प्राणातिपातादिभ्यो ऽपेतं प्राणापेतम् इति. प्रश्न एव न युज्यत इति. यो ऽयं प्रश्नः कियता भदन्तोपासक एकदेशकारी भवति. यावत् परिपूर्णकारीति. एष प्रश्नो न युज्यते. कुतो विसर्जनम् इति. इह महानामन्न् उपासकः [तिब्. 38अ] प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति. इयता महानामन्न् उपासकः शिक्षायाम् एकदेशकारी भवति. विश्तरेण द्वाभ्यां शिक्षापदाभ्यां प्रतिविरतः प्रदेशकारी भवति. त्रिभ्यः प्रतिविरतः चतुर्भ्यो वा यद्भूयस्कारी भवति. पंचभ्यः प्रतिविरतः परिपूर्णकारी भवतीत्य् एतद् विसर्जनं सुष्ठु न युज्यते. तन्मात्रशिक्षाक्समां प्रत्य् एष प्रश्नो युज्यते इति. एकस्य शिक्षापदस्य द्वयोस् ततः परेण वा क्षमाम् इति. विनापि संवरेणोपासकः प्रज्ञपित इति. महानामसूत्रे. यतः खलु महानामं गृही अवदातवसन इत्य् एवमादिना.
(इव्.32द्) अर्हतो ऽपि मृदुः प्रातिमोक्षसंवरः स्याद् इति. यदि समुत्थापकम् अस्य चित्तं मृदु स्यात्. पृथग्जनस्याधिमात्र इति. यद्य् अस्याधिमात्रं चित्तम् इति.
अन्यत्राज्ञानाद् इति. दातुर् ग्रहीतुश् च. तदनादरतस् तु शरणगमनैर् विना न स्याद् उपासक इति.
(इव्.33) बुद्धकरकान् इति. बुद्धप्रज्ञप्तिहेतून्. अत एवाह. येषां प्राधान्येन स आत्मभावो बुद्ध इत्य् उच्यते. अन्ये ऽपि हि गुणा अप्राधान्येनाश्रिता भवति. येषां वा लाभेनेति. क्षयज्ञानादयः सपरिवारा इति. आदिशब्देनानुत्पादज्ञानम् अशैक्षी च सम्यग्दृष्टिर् गृह्यते. सपरिवारग्रहणेनानास्रवाः पंच स्कंधा गृह्यन्ते. रूपकायस्य पूर्वं पश्चाच् चाविशेषाद् इति. किं. न रूपकायं [तिब्. 38ब्] शरणं गच्छतीति संबन्धः. यादृशो बोधिसत्त्वावस्थायां रूपकायस् तादृशः पश्चाद् अपीति.
लक्षणतः सर्वबुद्धान् इति. न कण्ठोक्तित इत्य् अभिप्रायः. मार्गस्याविलक्षणत्वाद् इति. लौकिकस्य मार्गस्य पुण्यज्ञानसंभारलक्षणस्य लोकोत्तरस्य च क्षयज्ञानादिलक्षणस्याविलक्षणत्वात् तुल्यत्वात्. नायुर्जात्यादिलक्षणानाम्. अतस् तुल्यलक्षणाः सर्वे बुद्धा इति.
संघीभवन्त्य् अभेद्यत्वाद् इति. सदेवकेनापि लोकेन मार्गं प्रत्य् अभेद्यत्वात् संघीभवंति. समग्ररूपा भवन्तीति. लक्षणत इति. पूर्ववद् ( अभिध्-क्-व्य् 378 ) व्याख्यातव्यं. यो ऽसौ भविष्यतीति विस्तरः. तत्र भगवांस् त्रपुसभल्लिकौ वणिजाव् आमंत्रयते स्म. एतं युवां बुद्धं शरणं गच्छतं. धर्मं च. यो ऽसौ भविष्यत्य् अनागते ऽध्वनि संघो नाम तम् अपि शरणं गच्छतम् इति. यदा संघो नास्ति तदैवम् उक्तम् अनागतम् एव संघम् अधिकृत्य. तत् कथं सर्वसंघान् असौ शरणं गच्छतीत्य् अनेन विरुध्यते. तत्प्रत्यक्षभाविन इति. यत् संघरत्नं तयोस् भल्लिकयोर् धर्मचक्रप्रवर्तनानन्तरं प्रत्यक्षीभविष्यत्ति. तस्योद्भावनार्थगुणतः [तिब्. 39अ] प्रकाशनार्थं स एवाधिकृतो भविष्यतीत्य् अर्थः.
शांत्येकलक्षणत्वाद् इति. स्वपरसांतानिकानां क्लेशानां दुःखस्य च या शान्तिः. तल् लक्षणम् अस्येति शान्त्येकलक्षणं निर्वाणं. तद्भावः. तस्मात्. असौ सर्वं निर्वाणं गच्छति.
आश्रयविपादनाद् इति. तेषाम् अशैक्षाणां य आश्रयो रूपस्कन्धः. तस्य विपादनाद् विकोपनात् तदाश्रयिणो ऽपि ते बुद्धकरका धर्मा विपादिता भवंति. शास्त्रं तु नैवम् इति विस्तरः. अभिधर्मशास्त्रं नैवं वाचकं. नैवं दर्शकं. अशैक्षा धर्मा एव बुद्ध इति. किं तर्हि. बुद्धकरका इति. के ते बुद्धकरकाः ये बुद्धत्वस्य बुद्धप्रज्ञप्तेश् च हेतवो लौकिकलोकोत्तरा धर्माः. ते बुद्ध इति. अत आश्रयस्य लौकिकपंचस्कन्धलक्षणस्य बुद्धत्वाप्रतिषेधाद् अचोद्यम् एवैतत्. यद् उक्तं यद्य् अशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादनाद् आनन्तर्यं भवतीति. अन्यथा हीति विस्तरः. यद्य् अशैक्षा धर्मा बुद्धः. [तिब्. 39ब्] शैक्षाशैक्षा एव धर्माः संघः. लौकिकचित्तस्थो न बुद्धः स्यान् न संघः. कस्मात्. न हि लौकिकं अशैक्षा धर्माः शैक्षाशैक्षाश् चेति. यदि वा शैक्षा धर्मा एव बुद्धकरका बुद्द्धः स्यात् नाश्रयो ऽपि. शीलम् एव स भिक्षुसंवराख्यं भिक्षुकरकं भिक्षुः स्यात्. नाश्रयः. आह. यद्य् आश्रयस्यापि बुद्धत्वं कस्माद् एवम् आह शास्त्रे. यो बुद्धं शरणं गच्छति. अशैक्षान् असौ बुद्धकरकान् धर्मान् शरणं गच्छतीत्य् अशैक्षधर्मान् एवावधारयति. एवं वैभाषिकेणोक्ते आचार्यो दृष्टान्तेन समाधिम् आह. यथा तु यो भिक्षुं पूजयतीति विस्तरः. यथा तु यो भिक्षुं पूजयति शीलमुखेन. भिक्षुकरकम् असौ शीलं पूजयति. न च पुनः शीलम् एव भिक्षुः. एवं यो बुद्धं शरणं गच्छत्य् अशैक्षमुखेन. अशैक्षान् असौ बुद्धकरकान् धर्मां शरणं गच्छति. न पुनः स्वसंतानिका अशैक्षा एव धर्मा बुद्धः. तस्माद् अदोष एषः. यो बुद्धं शरणं गच्छति. अशैक्षान् असौ बुद्धकरकान् धर्मांश् छरणं गच्छतीति.
सो ऽष्टादशावेणिकान् इति. तेषाम् असाधारणत्वाद् इत्य् अभिप्रायः.
वाग्विज्ञप्तिस्वभावानीति. ग्रहणकालम् अधिकृत्य.
चैत्यवृक्षांस् [तिब्. 40अ] चेति.
चैत्यकल्पिता वृक्षाश् चैत्यवृक्षाः. तान् इति. अत एवेति. यस्माद्
एतच् छरणम् आगम्य सर्वदुःखात् प्रमुच्यते.
अतः सर्वसंवरसमादानेषु उपासकादिसंवरसमादानेषु द्वारभूतानीत्य् अर्थः.
(इव्.34अब्) आपायिकत्वाच् च. यस्माच् च काममिथ्याचार एकांतेनापायिकः अपायसंवर्तनीयः. न तथाब्रह्मचर्यं. अक्रियानियमो ह्य् अकरणसंवर इति. अक्रियायाम् अकरणे नियम एकांतता अक्रियानियमः. सो ऽकरणसंवरः. अकरणलक्षणः संवरः. न समादानिकसंवर इत्य् अर्थः. स च सौत्रांतिकनयेनावस्थाविशेष एव. वैभाषिकनयेन तु शीलांगम् अविज्ञप्तिर् इति.

(इव्.34च्द्) य उपासकाः संत इति विस्तरः. ये गृहीतपंचशिक्षापदाः संतो भार्याः परिणयन्ति विवाहयंति. किं तैर् उपासकैस् ताभ्यो ऽपि स्त्रीभ्यः संवरः प्रतिलब्धः. प्रतिलब्धपूर्वक इत्य् अर्थः. अथ न प्रतिलब्ध इत्य् अधिकृतं. वैभाषिक आह. प्रतिलब्ध इति. मा भूत् प्रादेशिक इति सर्वागम्यात् प्रतिविरतेः. काममिथ्याचारात् प्रतिविरमामीति अगम्याचारात् प्रतिविरमामि. न त्व् अस्मात् संतानागम्याचरात् प्रतिविरमामीत्य् अभिप्रायः. अत एवाह.
न त्व् अत्र संतान
इति विस्तरः.
(इव्.35च्द्) प्रतिक्षेपणसावद्यम्
[तिब्. 40ब्] इति. प्रतिषेधसावद्यं. भगवत्प्रतिषिद्धं कर्माचरतः पापं भवति. भगवच्छासनानादरात्. न तत् क्लिष्टं यद् अमदनीयमात्रां विदित्वा पिबतीत्य् आभिधार्मिकेणोक्ते. प्रकृतिसावद्यं मद्यम् इति विनयधराः साधयंति. प्रकृतिसवद्यम् उपाले स्थापयित्वेति. प्रकृतिसावद्येन कर्मणा न चिकित्स्यः. प्रज्ञप्तिसवद्येन तु चिकित्सनीय इत्य् अभिप्रायः. शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम्. अतो गम्यते प्रकृतिसावद्यं तद् इति. यदि हि हत् प्रज्ञप्तिसावद्यं स्यात् ग्लानशाक्योपस्थानाय तद् अनुज्ञायते. न चानुज्ञायते. तेन तत् प्रकृतिसावद्यम् इति. इदं चोक्तं मां शास्तारम् उद्दिशद्भिः शाक्यमुनिर् नः शास्तेत्य् उपदिशद्भिः कुशाग्रेणापि मद्यं न पातव्यम् इति. प्रकृतिसावद्यं तद् इति भगवता तत् प्रतिषिद्धं. न तु मदनीयम् इत्य् अवेत्य. कुशाग्रमात्रस्य मद्यस्यामदनीयत्वात्. आर्यैश् चेति विस्तरः. प्रकृतिसावद्यं ( अभिध्-क्-व्य् 380 ) मद्यं. जन्मांतरगतैर् अप्य् आर्यैर् अनध्याचारात्. प्राणिवधादिवद् इति साधनं. कायदुश्चरितवचनाच् चेत्य् [तिब्. 41अ] अपरं साधनं. प्रकृतिसावद्यं मद्यं. कायदुश्चरितवचनात्. प्राणिवधादिवत्. चतुर्विधं हि नन्दिकसूत्रादिषु कायदुश्चरितम् उक्तम्. प्राणातिपातः अदत्तादानं काममिथ्याचारः सुरामैरेयमद्यप्रमादस्थानम् इति. उत्सर्गविहितस्यापीति विस्तरः. अनेन भगवद्वचनस्य पूर्वापरविरोधं परिहरंति. कथं. भदंतेति विस्तरेण मद्यपानस्य सामान्यवचनम् उत्सर्गः. शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् इत्य् अपवाद इति. मद्यपानं ग्लानावस्थायाम् अपि नानुज्ञातम् इति गम्यते. अपवादः पुनः प्रसंगपरिहारार्थं. सकृत्पीतं हि मद्यं व्यसनीभवेत्. उक्तं हि भगवता. त्रीणि स्थानानि प्रतिषेधमाणस्य नास्ति तृप्तिर् वा. अलंता वा. पर्याप्तिर् वा. मद्यम् अब्रह्मचर्यं स्त्यानमिद्धं चेति. प्रसंगपरिहारः कस्माद् इत्य् आह. मदनीयमात्रानियमात्. सैव हि मात्रा द्रव्यकालप्रकृतिशरीरावस्था अपेक्ष्य मदनीया चामदनीया च भवति. अत एव च कुशाग्रपानप्रतिषेध इत्य् अतिशयवचनं. तद् एवं न प्रकृतिसावद्यम् इति मनसिकृत्वा भगवता तत्परिहरणीयम् उक्तं. [तिब्. 41ब्] किं तर्हि. प्रसंगदोषाद् इति दर्शितं. आर्यैर् अनध्याचरणं ह्रीमत्त्वाद् इति. पंच शैक्षाणि बलानि सूत्रे पठ्यंते. कतमानि पंच. श्रद्धाबलं वीर्यबलं ह्रीबलम् अपत्राप्यबलं प्रज्ञाबलं चेति. अतो ह्रीमत्त्वान् न पिबंति. न तु प्रकृतिसावद्यत्वात्. यदि ह्रीमत्त्वात् तद् अनध्याचरणम् अज्ञातम् उदकादिवत् कस्मान् न पिबंतीत्य् अत आह. तेन च स्मृतिनाशाद् इति. मद्यं हि पिबतः कार्याकार्यस्मृतिर् नश्यतीति. यद्य् एवम् अल्पकं तु पिबंतु. यावत्या मात्रया स्मृतिर् नश्यतीत्य् अत आह. अल्पकस्याप्य् अपानम्. अनियमात्. विषवद् इति. यथा कालप्रकृतिशक्तियोगाद् अल्पम् अपि विषं कदाचिन् मारयति. एवं मद्यम् अपि मदयतीति. दुश्चरितवचनं प्रमादस्थानत्वाद् इति. मदेनाकुशलपरिहारात्. कुशलकरणाच् च. अत्र प्रमादस्थानग्रहणं नान्येष्व् इति. अत्रैव शिक्षापदे प्रमादस्थानग्रहणं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमामीति वचनात्. नान्येषु शिक्षापदेषु प्राणातिपातविरत्यादिषु प्रमादस्थानग्रहणं. प्राणातिपातप्रमादस्थानं प्रहाय प्राणातिपातप्रमादस्थानात् प्रतिविरमामीति [तिब्. 42अ] प्रमादस्थानं न पठ्यते. किं तर्हि. प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमामीति. एवम् अदत्तादानादि योज्यं. कस्माद् इत्य् आह. तेषां प्रकृतिसावद्यत्वात्. तेषां प्राणातिपातविरत्यादीनां शिक्षापदानां प्रकृतिसावद्यत्वात्. तद् उक्तं भवति. प्रमादस्थानम् एतद् इति मद्यपानात् प्रतिविरन्तव्यं. न तु प्रकृतिसावद्यम् एतद् इति. अत्यासेवितेनेति विस्तरः. ( अभिध्-क्-व्य् 381 ) सुरामैरेयमद्यप्रमादस्थानेनासेवितेन भावितेन बहुलीकृतेन कायस्य भेदान् नरकेषूपपद्यत इति नन्दिकसूत्रे वचनात्. अत्यासेवितेन मद्यपानेन दुर्गतिगमनाभिधानं तत्प्रसंगेन मद्यपानप्रसंगेन अभीक्ष्णम् अजस्रम् अकुशलसंततिप्रवृत्तेः. अकुशलानां या संततिः. तस्याः प्रवृत्तेः. आपायिकस्यापायप्रयोजनस्यापूर्वस्य कर्मण आक्षेपाद् आवेधः. यतः. वृत्तिलाभाद् वा फलदानाय वा पूर्वोपचितस्य कर्मणो मरणावस्थायां वृत्तिलाभः. यतः. तस्माद् आक्षेपात् वृत्तिलाभाद् वा दुर्गतिगमनाभिधानम्
इति संबन्धनीयं. अन्नासव इति. तण्डुलकृतः. द्रवासव इति. इक्षुरसादिकृतः. ते वेति विस्तरः. सुरामैरेये कदाचिद् अप्राप्तमद्यभावे [तिब्. 42ब्] . यदा नवे भवतः. कदाचित् प्रच्युतमद्यभावे. यदा अतिपुराणे भवतः. इत्य् अतो मद्यग्रहणं. यदि मदनीयं. ततो दोष इत्य् अभिप्रायः. पूगफलकोद्रवादयो ऽपीति. आदिशब्देन निष्पावादयो गृह्यंते. मद्यपाने नामद्यत्वे ऽप्य् अदोषः. सुरामैरेये न भवत इति. सुरामैरेयस्वभावस्य मद्यस्य पाने दोष इत्य् अर्थः. सर्वप्रमादास्पदत्वाद् इति. सर्वप्रमादानां सर्वस्मृतिप्रमोषाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानम् आस्पदं प्रतिष्ठेति प्रमादस्थानं मद्यपानम्.

(इव्.36) यत एको लभ्यते इति. यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश् च. प्रातिमोक्षसंवरो लभ्यते. ततः शेषौ ध्यानानास्रवसंवरौ. मौलप्रयोगपृष्ठेभ्य इति. मौलप्रयोगपृष्ठेभ्यो ऽकुशलेभ्यः कर्मभ्यः. मौलप्रयोगपृष्ठस्वभावास् त्रयाणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या विज्ञप्त्यविज्ञप्तयो लभ्यंते. सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधिष्ठानलक्षणेभ्यः. प्रकृतिप्रतिक्षेपणसावद्येभ्यश् च कर्मभ्यः प्राणातिपातवनस्पतिभंगादिलक्षणेभ्यः. तद् एतद् उभयम् अप्य् उभयाधिष्ठानं भवति. प्रकृतिसावद्यम् अपि सत्त्वाधिष्ठानम् असत्त्वाधिष्ठानं च. प्रज्ञप्तिसावद्यम् अपि सत्त्वाधिष्ठानम् असत्त्वाधिष्ठानं च. [तिब्. 43अ] न पुनर् एवं ग्रहीतव्यं. प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्रतिक्षेपणसावद्यम् असत्त्वाधिष्ठानम् इति. तत्र तावत् प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्राणिवधादि. प्रज्ञप्तिसावद्यम् अपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं. सहागारशय्यादि च. प्रकृतिसावद्यम् असत्त्वाधिष्ठानं जातरूपाद्यपहरणं. प्रज्ञप्तिसावद्यम् असत्त्वाधिष्ठानं वृक्षपत्त्रादिच्छेदो भिक्षोः. आहारादिषु च विनयोक्त उपदेशः. सत्त्वाधिष्ठानप्रवृत्तत्वाद् इति. सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वाद् इत्य् अभिप्रायः. वर्तमाना एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीता नानागताः. तेषां ( अभिध्-क्-व्य् 382 ) निरुपाख्यकल्पत्वात्. अत एवाह. नातीतानागतेह्यः. तेषाम् असत्त्वसंख्यातत्वाद् इति. ननु चासत्त्वप्रज्ञप्तिअधिष्ठ्हानप्रवृत्तो ऽपि प्रातिमोक्षसंवरो भवति. सत्त्वासत्त्वाख्येभ्यः प्राप्यत इति वचनात्. स चाप्य् एवं न प्रतिषिध्यते. यथैव हि सत्त्वाख्येभ्यो वर्तमानेभ्ये एव लभ्यत इत्य् उच्यते. तथा वर्तमानेभ्य एवासत्त्वाख्येभ्यो ऽपि लभ्यत इति वक्तव्यं. वर्तमानाधिष्ठनताम् एव ह्य् अनेन वचनेनातिदिषति. न प्रयोगपृष्ठेभ्य इति. समाहितावस्थायाम् एकांतमौलत्वात्. असमाहितावस्थायां च न संवराभावात्. कुत एव प्रज्ञप्तिसावदेभ्य इति. अभ्युपगमाभावात्. सर्वकालेभ्यश् चेति. अतीतानागतयोर् अपि संवरयोर् लाभात् तत्सहभूचित्तवत्.
अत एवेति. यस्माद् [तिब्. 43ब्] एते संवरा एवं लभ्यंते. यथा विस्तरेणोक्तम्. अतश् चतुष्कोटिकं क्रियते. विस्तर इति. संति तानि स्कन्धधात्वायतनानि. येभ्यो ध्यानानास्रवसंवरौ लभ्येते. न प्रातिमोक्षसंवरः. संति तानि. येभ्यः प्रातिमोक्षसंवरो न ध्यानानास्रवसंवरौ. संति तानि. येभ्य उभयं लभ्यते. संति तानि. येभ्यो नोभयं लभ्यत इति. विस्तरार्थः. प्रथमा कोटिः. वर्तमानेभ्यः प्राणातिपातादिकर्मपथप्रयोगपृष्थेभ्यः प्रतिक्षेपणसावद्याच् च वृक्षभंगादिकाद् यः संवरः. स प्रातिमोक्षसंवरः.
सर्वोभयेभ्य
इति वचनात्. प्रयोगपृष्ठत्वात् तु न ध्यानानास्रवसंवरौ. द्वितीय. अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः प्राणातिपातादिभ्यः कायवाचिकेभ्यः सप्तभ्यः संवरो यः. तौ ध्यानानास्रवसंवरौ.
मौलेभ्यः सर्वकालेभ्य
इत्य् वचनात्. न प्रातिमोक्षसंवरः. अतीतानागतत्वात्. तृतीया. प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्य इति. प्रत्युत्पन्नकर्मपथत्वात् प्रातिमोक्षसंवरो भवति. मौलकर्मपथत्वाच् च ध्यानानास्रवसंवरौ. चतुर्थी अतीतनागतेभ्यः सामंतकपृष्ठेभ्य इति. अतीतानागतत्वान् न प्रातिमोक्षसंवरः. सामंतकपृष्ठत्वान् न ध्यानानास्रवसंवरौ [तिब्. 44ब्] स्वसंताने वर्तमानेभ्यः कर्मपथेभ्यः संवरो न युज्यत इति पश्यन्न् आह. न तु संवरलाभकाले वर्तमानाः कर्मपथाः संतीति. वर्तमानाधिष्ठानेभ्यस् तेभ्यः कर्मपथेभ्य इति वक्तव्यम् इति शिक्षयत्य् आचार्यः. यतो वस्तुनः प्रतिविरमति. तस्य वर्तमानत्वासंभवात्. नातीतवर्तमानानाम् इति. उत्पन्नत्वाद् एषां संवरणं न युज्यते. न ह्य् उत्पन्नानाम् अनुत्पत्तिः शक्यते कर्तुं. अनागतानां तु शक्यत इति. तेषाम् एव संवरणं युज्यत इत्य् आचार्याभिप्रायः ( अभिध्-क्-व्य् 383 ). वैभाषिकाणां तु तथावचने ऽयम् अभिप्रायो लक्ष्यते. प्राणातिपातादिप्रयोगमौलपृष्ठानां यथाक्रमं संवरणाय प्रातिमोक्षसंवरप्रयोगमौलपृष्ठानि प्रवर्तंते. नैतानि प्रवर्तिष्यंत इति. अर्थत एवैतानि प्रतिपक्षभूतानि तानि रुन्धन्तीवोत्पद्यंते. प्रयोगः प्रयोगम् एवं भवीतीव त्वाम् अहं संवृणोमि. मा त्वम् उत्था इति. एवं यावत्. पृष्ठः पृष्ठम् एवं ब्रवीतीवेति योज्यं. तथा स्कन्धधात्वायतनानां कर्मपथप्रयोगमौलपृष्ठस्वभावानां वर्तमानानां रुन्धानो वर्तमानेभ्यस् तेभ्यो लभ्यते. प्रातिमोक्षसंवर इत्य् उच्यत इति. तस्मान् नैवं वक्तव्यम् इति.

(इव्.37) कश्चित् सर्वेभ्य इति विस्तरः. भिक्षुसंवरः सर्वेभ्यः कर्मपथेभ्यो लभ्यते. सर्वकर्मपथा वर्जनीया इत्य् अर्थः. कश्चिच् चतुर्भ्यः. ततो ऽन्यः. [तिब्. 44ब्] ततो भिक्षुसंवराद् अन्यः. संवरः श्रामणेरादिसंवरश् चतुर्भ्य एवांगेभ्यो लभ्यते. कायिकेभ्यः प्राणातिपातादिभ्यस् त्रिभ्यो वाचिकाच् च मृषावादात्. यद्य् अलोभाद्वेषामोहाः कारणानीति. संवरकारणानि द्विह्दा इष्यंते. अलोभाद्वेषामोहा वा कारणानि. मृदुमध्याधिमात्राणि वा चित्तानीति. यदि पूर्वः पर्यायो ऽभिप्रीयते. सर्वैः कारणैर् अलोभादिस्वभावैर् लभ्यते संवरः. कुशले समुत्थापके चेतसि तेषां युगपत् भावात्. यदि मृद्वादीनि चित्तानि कारणानीष्यंते. एकेन कारणेन लभ्यते. तेषाम् अयुगपत् भावात्. पश्चिमं पर्यायम् इति. मृद्वादिकारणपक्षं. अस्ति संवरस्थायीति विस्तरः. सर्वसत्त्वेषु संवृतः सर्वसत्त्वानुगते कल्याणाशये सति संवरोत्पत्तेः. न सर्वांगैर् उपासकादिसंवरस्य सर्वांगाप्रतिविरतत्वात्. न सर्वकारणैर् मृद्वादीनां कारणत्वेन युगपद् असंभवात्. भिक्षुसंवरस् तु सर्वांगैर् अपि. सर्वांगप्रतिविरतत्वात्. यस् त्रिविधेन चित्तेन त्रीन् संवरान् समादत्त इति. तद्यथा मृदुना चित्तेन उपासकसंवरं समादत्ते. मध्येन श्रामणेरसंवरम्. [तिब्. 45अ] अधिमात्रेण भिक्षुसंवरम् इति. सर्वकारणैश् च न तु सर्वांगैर् इति. उपासकादिसंवराणाम् एकैकस्य मृद्वाद्येकैककारणत्वात्. तथा गृह्णत इति. पंचनियमक्रियया गृह्णतः.
कथम् अशक्येभ्य इति. ये हंतुम् एव न शक्याः. तेभ्यो ऽशक्येभ्यः सत्त्वेभ्यः कथं संवरलाभः. अत्राचार्यः समाधिम् आह. सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमाद् इति. सर्वसत्त्वानां जीवितस्यानुपघातेनाध्याशयेन संवराभ्युपगमात्. वैभाषिका अप्य् अस्यैव प्रश्नस्य परिहारांतरम् आहुः. यदि पुनः शक्येभ्य एवेति विस्तरः. चयापचययुक्तः स्यात्. शक्यताम् आगतेषु सत्तेषु संवरश् चीयेत. असक्यताम् आगतेष्व् अपचीयेत. ( अभिध्-क्-व्य् 384 ) शक्याशक्यानां मनुष्यादिदेवादीनाम् इतरेतरसंचारात्. देवादयो मनुष्यादीन् संचरंति. मनुष्यादयश् देवादीन् इति. इमं वैभाषिकपरिहारं सावकाशं पश्यन्न् आचार्य आह. नैवं भविष्यतीति विस्तरः. नैवं चयापचययुक्तः संवरो भविष्यति. कथं कृत्वा. यथा ह्य् अपूर्वतृणाद्युत्पत्तौ. शोषे वा तृणादीनां. यद्य् अपि तृणादिभ्यो ऽपि संवरो लभ्यते. तथापि संवरस्य वृद्धिह्रासौ न भवतः. [तिब्. 45ब्] एवं शक्याशक्यसंचारे ऽपि न स्यातां वृद्धिह्रासौ चयापचयाव् इत्य् अर्थः. तस्माच् छक्येभ्य एव संवरो लभ्यते. न चायं दोषः स्याद् इति. वैभाषिका आहुः. न सत्त्वानाम् इति विस्तरः. न तद् एवं. यथा ह्य् अपूर्वतृणाद्युत्पत्ताव् इति विस्तरेण यद् उक्तं. किं कारणं. सत्त्वानां पूर्वं संचारात् पश्चाच् च भावात्. तृणगुल्मलतादीनां पूर्वं पश्चाच् चाभावात्. अतो न तृणादिदृष्टांतेन चयापचयदोषो निवार्यते. एवं वैधर्म्यमात्रम् उक्तं. न साध्यसाधनार्थ इति. आचार्यः पुनर् आह. यदा परिनिर्वृता न संत्य् एवेति विस्तरः. तस्मात् पूर्वक एव हेतुः साधुर् इति. सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमाद् इति. अत शक्याशक्येभ्यः संवरो लभ्यत इति सिद्धं. एवं तर्हि यदि सर्वसत्त्वेभ्यो लभ्यते प्रातिमोक्षसंवरः. पूर्वबुद्धपरिनिर्वृतेभ्यस् तस्यालाभाच् छीलन्यूनता स्यात्. सत्त्वानां पूर्वेभ्यो न्यूनत्वात्. आचार्य आह. सर्वेषां बुद्धानां पूर्वं पश्चाच् चोत्पन्नानाम् अविशेषेण सर्वसत्त्वेभ्यो लाभात्. यदि हि ते प्य् अपरिनिर्वृता अभविष्यन्. संप्रति तेभ्यो ऽपि ते ऽलप्स्यंत इति.
सर्वकर्मपथेभ्य इति. कायिकवाचिकेभ्यः. नास्ति हि विकलेनासंवरेणेति. प्राणातिपातेनैव [तिब् 46अ] नादत्तादानेनेत्य् एवमादि. मृदुनैवासंवरेण समन्वागत इति. पूर्वप्रतिलब्धत्वात्. अधिमात्रया तु प्राणातिपातविज्ञप्त्या. किं. समन्वागत इति वर्तते. न विपाकफलविशेष इति. एवं मध्याधिमात्रेण योज्यम् इति. यो मध्येन चित्तेनासंवरं प्रतिलभते. सो ऽधिमात्रेणापि चित्तेन प्राणिनो जीविताद् व्यवरोपयन् मध्येनैवासंवरेण समन्वागतो भवति. अधिमात्रया तु प्राणातिपातविज्ञप्त्या. एवं यो ऽधिमात्रेण यावद् अधिमात्रेणैवासंवरेण समन्वागतो भवति. अधिमात्रया च प्राणातिपातविज्ञप्त्या. इत्थम् अपि च योज्यं. यो ऽधिमात्रचित्तेनासंवरं प्रतिलभते. स मृदुनापि चित्तेन प्राणिनो जीविताद् व्यवरोपयन् अधिमात्रेनैवासंवरेण समन्वागतो भवति. मृद्व्या तु प्राणातिपातविज्ञप्त्येत्य् एवमादि.
नागबंधा हस्तिपकाः. वागुरिका इति. पंपा नाम प्राणिजातिर् वागुराख्या. तां घ्नन्तीति वागुरिकाः. अर्थत आसंवरिका इति. राजानश् चाधिकरणस्थाश् च ( अभिध्-क्-व्य् 385 ) दण्डनेतृत्वाद् इहापठिता अपि आसंवरिका एव द्रष्टव्याः. एवम् अन्ये ऽपि योज्या इति. कुर्कुटां घ्नंतीति. कौर्कुटिका इत्य् एवमादीनि. युक्तस् तावद् इति विस्तरेणोक्त्वा यावत् कथम् असंवरः सर्वसत्त्वेध्यो युज्यत इति प्रश्निते. वैभाषिकः परिहारम् आह. मात्रादीन् अपि हीति विस्तरः. आचार्य आह. न हि तावत् [तिब्. 46ब्] त एव त इति. ते मात्रादय इति जानाना हन्युर् इत्य् अघात्येभ्यस् तेभ्यो ऽसंवरः कथं युज्यते. किं चार्यीभूतानां पुनः पशूभवितुं नास्त्य् अवकाशः. तेषाम् उरभ्राद्युपपत्त्यसंभवात्. तेभ्यः कथम् असंवरः स्यात्. यदि वानागतात्मभावापेक्षया उरभ्रादयो भविष्यंतीति वर्तमानान् मात्रादेर् असंवरः स्यात्. उरभ्रान् अपि ते औरभ्रिकाः पुत्रीभूतान् अनागते जन्मनि सर्वथा न हन्युर् इति. न स्यात् तेभ्य उरभ्रेभ्यो ऽसंवरः. वैभाषिक आह. कथं हि नाम जिघांसताम् इति विस्तरः. आचार्य आह. एतन् मात्रादिषु समानम् इति विस्तरः. कथं हि नामाजिघांसतां पुत्रादिभूतानाम् औरभ्रिकादीनां तेभ्यो मात्रादिभ्यः स्याद् असंवर इति.
विकलः कर्मपथांगतः. प्रादेशिको ऽपि स्यात्. एकस्याप्य् अंगस्य अविरमात्. सत्त्वदेशकालसमयनियमयोगेन प्रदेशविरतत्वात्. संवरश् च तथैव. विकलो ऽपि प्रादेशिको ऽपि स्यात्. अन्यत्राष्टविधात् पूर्वोक्तात् प्रातिमोक्षसंवरात्. कस्माद् इत्य् आह. तन्मात्रशीलदौःशील्यप्रतिबन्धाद् इति. असंवरस् तन्मात्रं शीलं प्रतिबध्नाति. संवरश् च तन्मात्रं दौःशील्यं प्रतिबध्नातीति.
(इव्.38) तत्कुलीनैर् इति. आसंवरिककुलीनैः.
क्षेत्रादानादरेहनाद् [तिब्. 47अ]
इति. आदरेण ईहनं क्रियारंभः. क्षेत्रं चादानं चादरेहनं चेति समासः. तस्माद् अविज्ञप्तिर् उत्पद्यते. तिथीति विस्तरः. तिथिभक्तं. यावद् अर्धमासभक्तम् इत्य् अर्थगतिः. आदिशब्देन मण्डलकरणादि गृह्यते. आदरेण वा तद्रूपेणेति.तीव्रक्लेशतया. तीव्रप्रसादतया चेत्य् अर्थः.

(इव्.39, 40) समादानविरुद्धविज्ञप्त्युत्पादाद् इति. यावज्जीवं प्राणातिपातादिभ्यः प्रतिविरमामीति यत् समादानं. तेन विरुद्धाया विज्ञप्तेर् उत्पादात्. इति प्रथमेन कारणेन प्रातिमोक्षसंवरत्यागः. आश्रयत्यागाद् इति. येनाश्रयेण संवरो गृहीतः. तस्य त्यागान् मरणाद् इति. द्वितीयेन कारणेन तत्त्यागः. आश्रयविकोपनाद् इति. यादृशेनाश्रयेण संवर उपात्तः. तादृशो न भवति. विकोपनात्. इति तृतीयेन कारणेन तत्त्यागः. निदानच्छेदाद् इति. निदानं कुशलमूलानि. तस्य च्छेदात्. चतुर्थेन कारणेन तत्त्यागः. तावद् एवाक्षेपाच् चेति. उपवाससंवरस्याहोरात्रम् आक्षेपः. इति पंचमेन कारणेन तस्योपवाससंवरस्य त्यागः. पूर्वोक्तैश् च चतुर्भिः कारणैर् इति.
पतनीयेन चेति. एभिश् च यथोक्तैः पंचभिः कारणैः पतनीयेन चेति. ( अभिध्-क्-व्य् 386 ) पतंत्य् अनेनेति पतनीयं. तच् चतुर्विधं. अब्रह्मचर्यं. यथोक्तप्रमाणम् अदत्तादानं. [तिब्. 47ब्] मनुष्यवधः. उत्तरिमनुष्यधर्ममृषावादश् चेति.
धनर्णवत् तु काश्मीरैर् आपन्नस्येष्यते.
आगमाद् युक्तितश् च. तत्रायम् आगमः. विनय उक्तं. दुःशीलश् चेत् भिक्षुर् भिक्षुणीम् अनुशास्ति. संघावशेषम् आपद्यत इति. आपन्नपाराजिको हि भिक्षुर् दुःशीलो ऽभिप्रेतः. नानापन्नपाराजिकः. प्रकृतिस्थः शीलवान् इति विपर्ययेण वचनाद् अतो ऽवगम्यते. अस्त्य् अस्य दुःशीलस्यापि सतो भिक्षुभावः. यस्मात् संघावशेषम् आपद्यत इत्य् उक्तम् इति. युक्तिर् अपि न ह्य् एकदेशक्षोभात् सकलसंवरत्यागो युक्त इति. न मौलीम् अप्य् आपत्तिम् आपन्नस्येति. पतनीयाम् अप्य् आपत्तिम् आपन्नस्येत्य् अर्थः. नैव चान्यापत्तिम् इति. संघावशेषादिकं. आविष्कृतायाम् इति. देशितायां.
यत् तर्हि भगवतोक्तम् इति विस्तरेण यावत् पराजितम् इति. तत् कथम् इति वाक्याध्याहारः. परमार्थभिक्षुत्वं संधायैतद् उक्तम् इति. सत्यदर्शनभव्यत्वेन तस्यापन्नस्य परमार्थभिक्षुत्वाप्राप्तेः. बहुक्लेशेभ्यो नन्दप्रभृतिभ्यः. मौल्याप्य् आपत्त्या न भिक्षुत्वं नश्यतीति विदित्वा तां कुर्युर् इति वाक्यार्थः [तिब्. 48अ] संज्ञाभिक्षुर् इति. यस्यानुपसंपन्नस्य भिक्षुर् इति नाम. प्रतिज्ञाभिक्षुर् इति. अब्रह्मचर्यादिप्रवृत्तौ दुःशीलः. भिक्षत इति भिक्षुर् इति. याचनकः. भिन्नक्लेशत्वाद् भिक्षुर् इति. अर्हन्. अस्मिंस् त्व् अर्थ इति. यत् यत् भगवतोक्तम् अभिक्षुर् भवत्य् अश्रमण इति विस्तरेण. एतस्मिन्न् अर्थे. यथोक्तेभ्यश् चतुर्भ्यो भिक्षुभ्यो ऽन्य एवायं पंचमो ज्ञप्तिचतुर्थोपसंपन्नो भिक्षुर् इति. यद् अप्य् उक्तं परमार्थभिक्षुत्वं संधायैतद् उक्तं. तत् प्रत्याह. न चासौ पूर्वं परमार्थभिक्षुर् आसीत्. यतः पश्चाद् अभिक्षुर् भवेत्. अभिक्षुर् भवत्य् अश्रमण इति वचनात्. इत्य् उपमां कुर्वतेति. मस्तकच्छिन्नतालोपमां कुर्वता शास्त्रैव दत्तो ऽनुयोग इति संबंधनीयं. परिहृतः प्रश्न इत्य् अर्थः. एकग्रासपरिभोग आहारस्य. एकपार्ष्णिप्रदेशपरिभोगो विहारस्येति सम्भ्धः. सर्वभिक्षुसंभोगबहिष्कृतश् च शास्त्रेति. सर्वस्मात् भिक्षुभिस् सह संभोगाद् एकपंक्तिभोजनादिकाद् बहिष्कृतो बुद्धेन. नाशयत कारण्डवकम् इति. कारण्डवको यवाकृतित्वाद् यवस् तृणविशेषः. यो यवदूषीत्य् उच्यते. एवम् असाव् अभिक्षुर् भिक्ष्वाकृतिर् [तिब्. 48ब्] इति. कशंबकम् नाम पूतिकाष्ठम्. एवम् असौ पूतिभूतो भिक्षुः. तं शीलवत्संघाद् यूयम् अपकर्षतेति भगवां ( अभिध्-क्-व्य् 387 ) भिक्षून् आज्ञापयामास. अथोत्प्लाविनं वाहयतेति. उत्प्लावी नाम व्रीहिमध्ये ऽभ्यंतरतण्डुलहीनो वृईहिर् एव. तथासौ शीलसारहीनो भिक्ष्वाकृतिः. तं प्रवाहयत. निष्क्रामयतेत्य् अर्थः. मार्गजिनः शैक्षो ऽशैक्षः. मार्गदैशिको बुद्धः. मार्गे जीवति शीलवां भिक्षुर् मार्गनिमित्तं जीवनात्. मार्गदूषी दुःशीलः. इदम् अत्रोदाहरणं. दग्धकाष्ठेति विस्तरः. यथा यद् दग्धं. न तत् काष्ठं. पूर्वकाष्ठाकृतिमात्रावशेषसाधर्म्यात्. तद् दग्धं काष्ठम् इत्य् उच्यते. ह्रदश् च शुष्को ऽपि ह्रद इत्य् उच्यते. शुकनासा गृहादिषु रूपकारकृता. शुकनासाकृतित्वाच् छुकनासेत्य् उच्यते. एवम् असौ भिक्ष्वाकृतिसामान्यमात्रावशेषाच् छ्रमण उक्तः. पूतिबीजम् अंकुराजनकत्वाद् अबीजम् अपि बीजम् इत्य् उच्यते. तदाकारमात्रावशेषत्वाद् अलातचक्रं चक्रम् इति. चक्राकृतित्वात्. मृतसत्त्वश् चासत्त्वो ऽपि सत्त्व इत्य् उच्यते. सत्त्वाकृतिमात्रावशेषत्वात्. तद्वद् एष द्रष्टव्यः. शिक्षादत्तको नाम भिक्षुर् अधिमात्ररागतया [तिब्. 49अ] स्त्रिया अभ्रह्मचर्यं कृत्वा. तदनंतरम् एव जातसंवेगः कष्टं मया कृतम् इत्य् एकस्मिन्न् अपि प्रतिच्छादनचित्ते ऽनुत्पन्ने भिक्षुसंघम् उपगम्याविष्करोतीदं मया पापं कृतम् इति. स आर्यसंघोपदेशात् सर्वभिक्षुनवकांतिकत्वादि दण्डकर्म कुर्वाणः शिक्षादत्तक इत्य् उच्यते. तद् यदि दौःशील्याद् अभिक्षुर् एव स्यात्. स न स्यात्. न हि तस्य पुनर् उपसंपादनं क्रियते. भिक्षुश् च स व्यवस्थाप्यते. तस्मान् न दौःशील्याद् अभिक्षुत्वम् इति. न ब्रूम इति विस्तरः. न वयं ब्रूमः. सहाध्यापत्त्या अब्रह्मचर्याद् एव सर्वः पाराजिको भवति. किं तर्हि. प्रतिच्छादनचित्तेन. किं न पुनः प्रव्राज्यते. अनिक्षिप्तशिक्ष इत्य् अध्याहार्यं. तीव्रानपत्राप्यविपादितत्वात्. तीव्रेणानपत्राप्येण विपादितास्य संततिः. तस्याः संततेर् एवं विपादितत्वात् संवरस्याभव्यत्वं. तस्मान् न पुनः प्रव्राज्यत इत्य् अधिकारः. न तु खलु भिक्षुभावापेक्षया. न तु खलु तस्य भिक्षुभावो ऽस्तीत्य् अपेक्षया न प्रव्राज्यते. तथा ह्य् असौ पराजयिको निक्षिप्तशिक्षो पि न प्रव्राज्यते. तीव्रानपत्राप्यविपादितत्वात् संततेः.
(इव्.41) ध्यानाप्तम्
इति. रूपस्वभावं कुशलम् अरूपस्वभावं चाभिप्रेतं. अत एव च सर्वम् एवेति व्याचष्टे. द्वाभ्याम् इति. उपपत्तितो वा. परिहाणितो वा. [तिब्. 49ब्] तेनाह उपपत्तितो वेति विस्तरः. ऊर्ध्वम् उपपद्यमानो ऽधरं परित्यजति. अधश् चोपपद्यमान उपरिभूमिकम् इति. परिहाणितो वा समापत्तेः तत्समापत्तिसंगृहीतं कुशलं त्यज्यते. निकायसभागत्यागाच् च किंचिद् इति. निर्वेधभागीयं यत् पृथग्जनावस्थायाम् उत्पादितं यावत् क्षांतिर् इति. तद् असत्य् अपि भूमिसंचारे निकायसभागत्यागेन त्यज्यते. यदा कामधातौ मृत्वा तत्रैवोपपद्यते ( अभिध्-क्-व्य् 388 ). वक्ष्यति हि
भूमित्यागात् त्यजत्य् आर्यस् तान्य् अनार्यस् तु मृत्युत
इति. पूर्वको मार्ग इति. प्रयोगानंतर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः. फलं फलविशिष्टो वेति. उत्तरो मार्गो ऽधिकृतः. तद्यथा ऽनागामी यद्य् अनागामिफलात् परिहीयते. तेनानागामिफलम् उत्तरो मार्गस् त्यज्यते. यदि त्व् अनागामी द्वितीयं ध्यानं लभते. तस्माच् च परिहीयते. स तस्य फलविशिष्टो मार्गो द्वितीयध्यानभूमिकस् त्यज्यते.

(इव्.42अब्) हेतुप्रत्ययबलेनेति. सभागहेतुबलेन. परतो घोषबलेन चेत्य् अर्थः. ध्यानसंवरं वा लभत इति. अनास्रवसंवरं वा लभत इति नोच्यते. ध्यानसंवरपूर्वोत्पादेनैव तत्त्यागात्. अकरणाश्न्यत इति. एतत् कर्म न करिष्यामीत्य् आशयतो ऽपि शस्त्रजालत्यागे विना संवरग्रहणेनासंवरच्छेदो न भवति. तद्यथा रोगनिदानपरिहारे ऽपि तस्य प्रवृद्धस्य रोगस्यौषधेन विना [तिब्. 50अ] विनिवृत्तिर् न भवति. तद्वत्. तद् उक्तं भवति. असंवरत्यागेच्छायां संवरो ग्रहीतव्यो नान्यथेति. तल्लाभस्येति. असंवरलाभस्य.
(इव्.42च्द्) कथम् अविज्ञप्तिर् इति. विज्ञप्तिर् अपीति वक्तव्यं. स्वसमुत्थापिताया अतीताया विज्ञप्तेस् तत्काल एव प्राप्तिच्छेदात्.
वेगादानक्रियार्थायुर्मूलच्छेदैस् तु मध्यम
इति च पठितव्यं. नैवसंवरनासंवर इत्य् अर्थः. अथाप्य् अविज्ञप्तिर् अपि केवलोच्यते. तत्र विज्ञप्तेर् अवचने कारणं वक्तव्यम् इत्य् उच्यते. विज्ञप्तेर् अनावश्यकत्वात्. तथा हि वक्ष्यति.
अशुभाः षड् अविज्ञप्तिर् द्विधैक
इति. अविज्ञप्तिवचनेन च विज्ञप्तिवचनसिद्धेस् तदवचनं.
अन्ये त्व् आहुः. न निरुद्धाया नैवसंवरनासंवरसंगृहीताया विज्ञप्तेर् अनुबंधिनी प्राप्तिर् इत्य् अत एतदविज्ञप्तेर् एव त्यागकारणम् उच्यत इति.
कुंभकारचक्रेषुगतिवद् इति. यथा कुंभकारचक्रस्य इषोश् च गतिः. येन कारणेन संस्कारविशेषेण आक्षिप्तो भवति. तस्य च्छेदात् सापि च्छिद्यते. तद्वत्. अलं समादानेनेति प्रत्याख्यानवचनेन. यथासमात्तम् अकुर्वत इति. तद्यथा बुद्धम् अवन्दित्वा. मण्डलकम् अकृत्वा वा [तिब्. 50ब्] न भोक्ष्य इति. तद् अकृत्वा भुंजानस्य सा मध्यमा अविज्ञप्तिश् छिद्यते. यंत्रजालादीति आदिशब्देन शस्त्रविषादि गृह्यते. कुशलमूलानि समुच्छेत्तुम् ( अभिध्-क्-व्य् 389 ) आरभत इति. कुशलमूलसमुच्छेदप्रारंभावस्थायाम् एव च्छिद्यते. न समुच्छेदावस्थयाम् इति दर्शयति.
(इव्.43) कुशलरूपम्
इति. अरूपग्रहणं रूपच्छेदस्योक्तत्वात्.
मूलच्छेदोर्ध्वजन्मत
इति. अत्र वैराग्यतश् च किंचिद् इति वक्तव्यं. यथा कुशलं दौर्मनस्येन्द्रियम् इति. सर्वम् एवेति. कामरूपारूप्यावचरं. यः प्रहाणमार्ग इति. दर्शनमार्गो भावनामार्गश् च. लौकिको वा लोकोत्तरो वा यथासंभवं. असौ सपरिवार इति. असाव् उपक्लेशप्रकारः सतत्सहभूप्राप्त्यनुचरः उपक्लेशप्रकारस्येति ग्रहणं क्लेशस्याप्य् उपक्लेशत्वेन सर्वसंग्रहार्थं. तथा हि शास्त्र उक्तं. ये यावत् क्लेशा उपक्लेशा अपि ते स्युर् उपक्लेशा न क्लेश इति.
(इव्.44, 45) उभयाश्रय इति विस्तरः. स्त्रीपुरुषाशयस्य क्लेशस्याधिमात्रतया. प्रतिसंख्यानस्य तत्प्रतिपक्षभावनालक्षणस्याक्षमत्वात्. तीव्रस्य च ह्रीव्यपत्राप्यस्याभावाद् एषां संवरो नास्तीति. प्रतिद्वंद्वभावाद् इति. यस्मात् संवरस्यासंवरः [तिब्. 51अ] प्रतिद्वंद्वभूतः. तस्मात् यत्रैव संवरः. तत्रैवसंवर इति. तेषां षण्ढादीनाम् असंवराभावो द्वितीयं कारणं. समादानसमाध्यभावाद् इति. समादानभावात् प्रातिमोक्षसंवरो नास्ति. समाध्यभावाच् च ध्यानानास्रवषंवरौ न स्तः. तदभावस् तु मांद्येन कुशलेष्व् अव्युत्पत्तेः. पापक्रियाशयाभावाच् चासंवरो नास्ति. यद्योगाद् यद्विपादनाच् चेति. येन ह्रीव्यपत्राप्येण योगाद् यस्य ह्रीव्यपत्राप्यस्य विपादनाच् च. यथाक्रमं संवरसंवरौ स्यातां. तत् तीव्रं ह्रीव्यपत्राप्यम् आपायिकानां नास्तीति. यद्य् आपायिकानां संवरासंवरौ न स्तः. यत् तर्हि सूत्र उक्तम् इति यिस्तरः. तत् कथं. प्रातिमोक्षसंवरो मनुष्याणाम् एव. न देवानाम्. असंवेगात्. ध्यानानास्रवसंवरौ तु हेतुकर्मधर्मभावनाद् यथासंभवं.
(इव्.46अब्) तत्कालम् अत्यंतं चेति. यद् इष्टविपाकं. तत् तत्कालं. दुःखपरित्राणात् क्षेमं. यन् निर्वाणप्रापकं. तद् अत्यंतं दुःखपरित्राणात् क्षेमं. परिनिर्वृतस्य यन् नित्यकालं दुःखं नास्ति.
(इव्.46च्द्, 47) ननु च त्रीणि ध्यानानि सेंजितान्य् उक्तानि भगवता. यद् अत्र वितर्कितम् विचारितम् इत्य् एवम् आदि. इदम् अत्रार्या इंजितम् इत्य् आहुर् इति. आदिशब्देन द्वितीय उक्तं. यद् अत्र प्रीतिर् अविगता. इदम् अत्रार्या इंजितम् आहुः. तृतीये ऽपि यद् अत्र सुखं [तिब्. 51ब्] सुखम् इति चेतस आभोगः. इदम् अत्रार्या इंजितम् इत्य् आहुर् इति. अथ कस्मात् सर्वम् एव रूपारूप्यावचरं कुशलं कर्मानिंज्यम् ( अभिध्-क्-व्य् 390 ) उक्तम् इत्य् आह. आनिंज्यप्रत्ययगामिनम् इति. आनिंज्यानुकूलभागिनं. अकंप्यानुकूलभागिनं मार्गम् आरभ्येत्य् अर्थः. किं पुनः कारणं समाधिसपक्षालतया सेंजितम् एवान्यत्रानिंज्यम् उक्तम् इत्य् आह.
तद्भूमिषु यतः कर्म विपाकं प्रति नेंजतीति.
भोगादि संवर्तनीयम् इति. भोगो द्रव्यसंपत्. आदिशब्देन सौरूप्यसौस्वर्यादि गृह्यते. तद् एवेति विस्तरः. यत् तद् देवेषु विपच्येत. तत् बहुलीकृतम् एवं शीलमयं भावनामयं. तस्य चैवं भवति. अहो बताहं देवसुभगानां मनुष्यसुभगानां वा सभागतायाम् उपपद्येयेति. यावत् स तत्र उपपद्यत इति.
(इव्.48-50) कामधातुस् त्रीणि च ध्यानानीति. क्ंअधातुप्रथमध्यानयोः [तिब्. 52अ] कायिकं सुखं चैतसिकं च सौमनस्यं सुखा वेदना. द्वितीये ध्याने सौमनस्यं सुखा वेदना. तृतीये ध्याने चैतसिकं सुखम् इति. तद्भावज्ञापनार्थम् इति. तच्छब्देन दुःखम् अभिसंबध्यते. तस्य दुःखस्य कामधाताव् एवास्तित्वज्ञापनार्थम् इहग्रहणं. ससंभारैर् इति. संभ्रियते उत्पाद्यते ऽनेनेति संभारः. इन्द्रियविषयाश्रयलक्षणः. तेन ससंभारा वेदना फलं.
ध्यानांतरविपाकत
इति. ध्यानांतरकर्मणो ध्यानांतरोत्पत्तौ विपाकेन वेदितेन भवितव्यं. तत्र सुखा दुःखा वा वेदना नास्ति. नास्ति. तस्माद् अस्यादुःखासुखा वेदना विपाक इति. चतुर्थाद् ध्यानाद् अधो ऽप्य् अदुःखासुखवेदनीयं कर्मास्तीति. ध्यानांतरे वा कस्यचित् कर्मणो ऽन्यस्य विपाको वेदना न स्यान् न संभवति. न हि सुखवेदनीयस्य मौलप्रथमध्यानभूमिकस्य कर्मणो ध्यानांतरे स विपाक इति युज्यते वक्तुं. सवितर्कत्वेन ध्यानांतरतो मौलस्य निहीनत्वात्. नापि कामावचरस्य दुःखवेदनीयस्य कर्मणो भूम्यंतरत्वात्. अत एव चतुर्थध्यानादिभूमिकस्य. ततो वीतरागत्वाच् च.
एतद्दोषपरिजिहीर्षया ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्य् एके ब्रुवते.
[तिब्. 52ब्] नैव तस्य ध्यानांतरकर्मणो वेदना विपाकः. किं तर्हि रूपादीत्य् अपरे. किं तेषां ध्यानांतरोपपत्तौ वेदना नास्ति. अस्ति. न तु सा विपाकस्वभावा. किं तर्हि. नैष्यन्दिकीति.

अत्राचार्य आह. तदेतद् उच्छास्त्रं. यद् एतद् उक्तं. ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इति. यच् चोक्तं. नैव तस्य वेदना विपाक इति. तद् एतद् उभयम् अप्य् उच्छास्त्रं. तत् प्रतिपादयन्न् आह. शास्त्रे हि पठितम् इति विस्तरः. अवितर्कस्य कर्मण इति. ध्यानांतरकर्मण इत्य् अर्थह्. अतः कुशलस्यावितर्कस्य कर्मणश् चैतसिक्य् एव वेदना विपाको विपच्यत इत्य् अवधारणान् न तस्य कर्मणो ध्यान एव सुखेन्द्रियं विपाको नापि वेदनातो ऽन्य इति गम्यते. अवितर्कं हि कर्म ध्यानांतरात् प्रभृत्य् ऊर्ध्वम् इति.

अपूर्वचरम
इति. न पूर्वं न पश्चात्. युगपद् इत्य् अर्थः. सुखवेदनीयस्य रूपम् इति चक्षुरादिकं. दुःखवेदनीयस्य चित्तचैत्ता इति. पंचविज्ञानकायिकाः. दौर्मनस्यस्याविपाकत्वात्. अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता इति. जीवितेन्द्रियादयः [तिब्. 53अ] न हि कामधातोर् अन्यत्रेति. दुःखवेदनीयस्य कर्मणो ऽन्यत्रभावात्.
किम् इदानीं तद् इति. अदुःखासुखवेदनीयं. एवं तर्हीति विस्तरः. यद्य् अधो ऽपि चतुर्थाद् ध्यानाद् अदुःखासुखवेदनीयं कर्मास्ति कुशलं.
सुखवेद्यं शुभं ध्यानाद् आ तृतीयाद्
इत्य् अस्य विरोधः. न हि केवलं सुखवेदनीयं कुशलम् आ तृतीयाद् ध्यानात्. किं तर्हि. अदुःखासुखवेदनीयम् अप्य् अस्तीति. इष्टविपाकं च कुशलम् इत्य् अस्य विरोधः. न हि केवलम् इष्टविपाकं कुशलम् इष्टानिष्टविपरीतविपाकम् अपि कुशलम् अस्तीति. बाहुलिक एष निर्देश इति. बाहुल्येनैवं निर्दिष्टम् इत्य् अर्थः.
सुखवेद्यं शुभं ध्यानाद् आ तृतीयाद्
इति. इष्टविपाकं च कुशलम् इति.
कथम् पुनर् अवेदनास्वभावम् इति. सुखम् अनुभूयते. न कर्मेत्य् एवम् अभिसमीक्ष्य पृच्छति. सुखवेदनाहितं सुखवेदनीयम् इति. सुखवेदनोत्पत्त्यनुकूलम् इत्य् अर्थः. सुखो ऽस्य वेदनीय इति वेति. सुखो ऽस्य विपाको ऽनुभवनीय इत्य् अर्थः. स्नानीयकषायवद् [तिब्. 53ब्] इति. यथा येन स्नाति. स स्नानीयः कषायः. एवं येन सुखं विपाकं वेदयते. तत् कर्म ( अभिध्-क्-व्य् 392 ) वेदनीयं. सुखस्य विपाकस्य वेदनीयं कर्म सुखवेदनीयं. करणे ऽपि कृत्यविधानात्. एतद् एवं दुःखवेदनीयम् इति. दुःखवेदनाहितं दुःखवेदनीयम् इति विस्तर्ण पूर्ववद् योज्यं. एवम् अदुःखासुखवेदनीयम् अपि.
स्वभाववेदनीयतेति. स्वभाववेदनानुभवलक्षणेन वेदनीयस्वभावः. एवं यावत् संमुखीभावेन वेदनीयतेति योज्यं. सुखवेदनीयः स्पर्श इति. सुखवेदनाहितं सुखं वेदनीयम् अस्मिन्न् इति सुखवेदनीयः स्पर्शः. आलम्बनवेदनीयतेति. वेदनीया विषयाः. आलम्बनीया इत्य् अर्थः. रूपप्रतिसंवेदी नो तु रूपरागप्रतिसंवदीति. रूपं प्रत्यनुभवति. नो तु रूपरागं प्रत्यनुभवतीत्य् अर्थः. अथ वा नो तु स रूपं रागेण प्रत्यनुभवत्य् आलंबत इति. दृष्टधर्मवेदनीयम् इति. दृष्टे जन्मनि वेदनीयं विपाकलक्षणम् अस्येति दृष्टधर्मवेदनीयं कर्मेति विस्तरः. यस्मिन् समय इति विस्तरः. यस्मिन् समये सुखां वेदनां वेदयते अनुभवति. द्वे अस्य वेदना दुःखा अदुःखासुखा च तस्मिन् समये [तिब्. 54अ] निरुद्धे भवत इति.
(इव्.51) आरंभवशाद् इति. दृष्ट एव जन्मनि विपाकारंभाद् इत्य् अर्थः. तन्नामव्यवस्थानम् इति. दृष्टधर्मवेदनीयम् इत्य् एवंनामव्यवस्थानम् इत्य् अर्थः.
अस्ति हीति विस्तरः. संनिकृष्टफलस्य कर्मणः सुवर्चलादृष्टांतः. विप्रकृष्टफलस्य यवगोधूमादयः.
दार्ष्टांतिकाः सौत्रांतिकाः. तेषाम् एवं प्रथमद्वितीये कोट्यौ वर्णयतां कर्माष्टविधं. दृष्टधर्मवेदनीयं नियतम् अनियतं च विपाकं प्रति. एवं यावद् अनियतवेदनीयम् इति. उपपद्यवेदनीयं नियतम् अनियतं च विपाकं प्रति. अपरपर्यायवेदनीयम् अपि नियतम् अनियतं च. अनियतवेदनीयम् अपि यो दृष्टधर्माद्यनियतवेदनीयं. तन् नियतम् अनियतं च. इत्य् अष्टविधं.
(इव्.52, 53) चतुर्विधं कर्माक्षिपेद् इति. दृष्टधर्मादिवेदनीयं चतुर्विधं कर्माक्षिपेद् इत्य् अर्थः. कथम् इत्य् आह. स्यात् त्रिषु प्राणातिपातादत्तादानमृषावादेषु परं प्रयोज्य काममिथ्याचारे स्वयम् आत्मना प्रयुक्तः. तेषां कर्मनां युगपत्परिसमाप्तौ. एकं दृष्टधर्मवेदनीयम् अपरम् उपपद्यवेदनीयम् अपरं चापरपर्यायवेदनीयम् अन्यच् चानियतवेदनीयम् इति.
कुशलानाम् अकुशलानां च यथासंभवम् इति. यत्राकुशलस्य संभवः कामधाताव् एव नान्यत्र.
सर्वासु गतिष्व्
इत्य् [तिब्. 54ब्] अस्योत्सर्गस्यायम् अपवादः. शुभस्य नरके त्रिविधेति. त्रिधैवेत्य् अवधारणं. नरकेषु कुशलस्य कर्मणस् त्रिविधस्यैवाक्षेपः. न चतुर्विधस्य. दृष्टधर्मवेदनीयं स्थापयित्वा. अत्र नरकेष्व् इष्टविपाकाभावात्. शुभग्रहणम् अशुभनिरासार्थं. अकुशलस्य हि चतुर्विधस्यापि नरकेष्व् आक्षेपः संभवति.
यद्विरक्तः स्थिरो बाल
इति.
यतो विरक्तो यद्विरक्त इति समासः. स्थिरग्रहणं परिहाणधर्मणो निरासार्थं. तस्य हि तस्यां भूमाव् उपपद्यवेदनीयं कर्म संभवति. बालग्रहणम् आर्यनिवृत्त्यर्थं. आर्यस्य हि तत्रोपपद्यवेदनीयं अपरपर्यायवेदनीयं च न संभवति. अनागामित्वात्.
नार्यो ऽन्यवेद्यकृद् अपीति
नापरपर्यायवेदनीयकृद् अपि. नोपपद्यवेदनीयकृद् अपीत्य् अर्थः. तत्र युक्तिं दर्शयन्न् आह. न ह्य् असौ भव्यः पुनर् आधस्तीं भूमिम् आयातुम् इति. न ह्य् असाव् आर्यो ऽपरिहाणधर्मा यतो वीतरागः. तत आधस्तीम् अधस्तात्भवां भूमिम् आयातुं भव्यः. परिहाणधर्मा तु भव्यः. तद्यथा. आर्यो भवाग्रलाभी परिहाणधर्मा यः परिहाय रूपधाताव् उपपद्येत. तस्योपपद्यवेदनीयम् अपरपर्यायवेदनीयं चापि संभवति यथोक्तम् उदायिसूत्रे. अनियतं कुर्याद् इति. अनियतवेदनीयम् अपरिहाणधर्माप्य् आर्यो दृष्टधर्मवेदनीयं च यत्रोपपन्नः. [तिब्. 55अ] तत्र कुर्यात्. कामधातोर् भवाग्राद् वा वीतराग इति. कामवीतरागो ऽनागामी. भवाग्रवीतरागो ऽर्हन्. तयोर् इति कामधातुभवाग्रयोः. पश्चात् प्रवेदयिष्याम इति.
म्रियते न फलभ्रष्ट
इत्यादि.
(इव्.54) अंतराभववेदनीयं च. किं. नियतम् अनियतं चेति. यन् नियतम् एकादशविधम् उक्तं. दृष्टधर्मवेदनीयं यत् तद् इति. कललवेदनीयं नियतं यावद् अंतराभववेदनीयं नियतम् इति. याश् च तदन्वया दशावस्था इति. अंतराभवपूर्विका इत्य् अर्थः. अत एवान्यद् अंतराभववेदनीयं कर्म नोक्तम् इति. चतुर्विधं कर्म. दृष्टधर्मवेदनीयम् उपपद्यवेदनीयम् अपरपर्यायवेदनीयं अनियतवेदनीयं चेत्य् अत्र नोक्तम्. उपपद्यवेदनीयेनैव तस्यान्तराभवस्याक्षेपात्.
(इव्.55) नियतानियतं कर्मेत्य् उक्तम् अतो ब्रवीति. कीदृशं पुनः कर्म नियतम् ( अभिध्-क्-व्य् 394 ) इति विस्तरः. फलसमापत्तिविशेषप्राप्त इति. दर्शनमार्गफलप्राप्तो ऽर्हत्त्वफलप्राप्तश् च फलविशेषप्राप्त इष्यते. विशेषग्रहणम् अनास्रवमार्गप्राप्यफलग्रहणार्थं. समापत्तिविशेषप्राप्तो निरोधारणामैत्रीसमापत्तिलाभी. अत्रापि विशेषग्रहणं [तिब्. 55ब्] तदन्यलौकिकसमापत्तिविशेषणार्थं. यथा तथा चेति. यदि पुण्यबुद्ध्या यदि द्वेषादिना. यो ऽपि हि पारसिकः पुण्यबुद्ध्या मातरं मारयति. पितरं वा. तद् अकुशलम् आनंतर्यं कर्म नियतं संपद्यते. नान्यद् इति. यद् अतो विपरीतं मन्दक्लेशप्रसादकृतम् इत्यादि.

(इव्.56) संघस्त्रीवादसमुदाचाराद् इति. भिक्षुणा किल केनचिद् व्यवहारपराजितेन संघः स्त्रियो यूयम् इति समुदाचरितः. तस्य दृष्ट एव धर्मे पुरुषव्यंजनम् अंतर्हितं. स्त्रीव्यंजनं च प्रादुर्भूतम् इति. तद् इदं क्षेत्रविशेषाद् दृष्टधर्मवेदनीयं भवति. आशयविशेषाद् इति. शंठेन गवाम् अपुंस्त्वं करिष्यमाणम् अभिवीक्ष्य ममेदृशम् अपुंस्त्वे दुःखम् इति तीव्रेणाशयेन तेषां गवाम् अपुंस्त्वं प्रतिमोक्षितं. तस्य दृष्ट एव धर्मे पुरुषेन्द्रियं प्रादुर्भूतम्. इदम् आशयविशेषाद् दृष्टधर्मवेदनीयं कर्म संवृत्तं.
तद्भूम्यत्यंतवैराग्याद्
इति. ततो भूमेर् अत्यंतवैराग्यात् तद् अदृष्टधर्मवेदनीयम् अपि कर्म दृष्टधर्मवेदनीयं संपद्यते. यथानागाम्यर्हताम् अवीतरागावस्थाकृतं. पुनर् अधरभूम्यनागमनाद् अनुपादाय च परिनिर्वाणात्. न त्व् अवस्थायाम् इति. यद् अनियतं दृष्टधर्माद्यवस्थासु. न चानियतं विपाके. नियतत्वात्. तद् एव दृष्टधर्मवेदनीयं भवति. अत एवाह. यत् पुनर् अवस्थांतरे दृष्टधर्मादिके नियतम्. तस्य तत्रैववस्थांतरे विपाकः. [तिब्. 56अ] तद्वतो ऽत्यंतवैराग्यासंभवाद् इति. एवम् अवस्थांतरनियतविपाकेन कर्मणा तद्वत्पुद्गलस्यात्यंतं तस्या भूमेर् वैराग्यासंभवाद् इत्य् अर्थः.
(इव्.57) क्षेत्रविशेषाद् इत्य् उक्तम् अतः पृच्छति. कीदृशं पुनः क्षेत्रम् इति. अरणाव्युत्थितस्येति विस्तरः. अप्रमाणेषु सत्त्वेषु अरणया हितो ऽध्याशयो ऽभिप्रायः. तेनानुगता. अत्युदग्रेण तीक्ष्णेन. अप्रमाणेन पुण्येन परिभावितानुगता च संततिर् वर्तते. अरणाम् उत्तरत्र वक्ष्यति.
अरणाप्रणिधिज्ञानम्
इत्य् अत्र. मैत्रीव्युत्थितस्येति विस्तरः. अप्रमाणेषु सत्त्वेषु सुखम् उत्पद्यताम् ( अभिध्-क्-व्य् 395 ) इत्य् अध्याशयः. तेनानुगता. अत्युदग्रेति सर्वं पूर्ववत्. प्रत्यग्राश्रयपरिवृत्तिनिर्मलेति. प्रत्यग्राभिनवा. अचिरव्युत्थितत्वात्. प्रत्यग्राश्रयस्य शरीरस्य परिवृत्त्या निर्मला संततिः. एतेषु पुद्गलेषु कृतानां करापकाराणाम् उपकारापकाराणां कुशलाकुशलानां. फलं दृष्ट एव धर्म इहैव जन्मनि प्राप्यत इति. सद्योऽर्थं दर्शयति. सद्य इवेति कृत्वा. शेषस्य त्व् इति विस्तरः. शेषो भावनामार्गः सकृदागाम्यनागामिफलप्रापकः. अपरिपूर्णः स्वभावः फलं वास्येत्य् अपरिपूर्णस्वभावफलः. तस्य भावः. [तिब्. 56ब्] तस्मात्. अपरिपूर्णस्वभावफलत्वात्. का पुनस् तस्य परिपूर्णस्वभावता परिपूर्णफलता च. अशैक्षत्वं परिपूर्णस्वभावता. स हि मार्गो ऽशैक्षस्वभावः. येनार्हत्त्वं प्राप्यते. परिपूर्णफलताप्य् अर्थत्त्वप्राप्तिः. स हि फलमार्गस् त्रिभिः फलैः फलवान् इति. अथ वा क्षयज्ञानसंगृहीतो मार्गः परिपूर्णस्वभावफलः. परिपूर्णस्वभावो यस्माद् अशैक्षमार्गः. परिपूर्णफलो निरवशेषफलत्वात्. तद्व्युत्थितानाम् इति. शेषभावनामार्गव्युत्थितानां. न ते तद्व्युत्थितास् तथा पुण्यक्षेत्रं भवंति. यथार्हत्त्वव्युत्थिताः. प्राग् एव लौकिकमार्गव्युत्थिताः. भावनाप्रहातव्यानां हि क्लेशानां सावशेषनिरवशेषप्रहाणाद् अयं विशेष उक्त इत्य् अवगंतव्यं.
(इव्.58) तस्या अवश्यं सवितर्कसविचारत्वाद् इति.
सवितर्कविचारा हि पंच विज्ञानधातव
इति नियमात्. वितर्कविचारयोश् चाध्यानांतरादिस्वभावात्. न चावितर्कस्य कर्मणः सवितर्क विचारो ऽधरभूमिको विपाको युज्यत इति. तस्य हि दुःखा वेदना विपाक इति विस्तरः. तस्याकुशलस्य दुःखा वेदना विपाक इष्यते. तस्यानिष्टफलत्वात्. [तिब्. 57अ] चैतसिकी च दुःखा वेदना दौर्मनस्यं नान्यद् अस्ति. न च दौर्मनस्यं विपाक इति व्याख्यातम् एतद् इति. इन्द्रियनिर्देशे
विपाको जीवितं द्वेधा द्वादशांत्याष्टकाद् ऋते
दौर्मनस्याच् चेति.
(इव्.59) दौर्मनस्यं न विपाक इत्य् एतद् अमृष्यन्न् आह. यत् तर्हीति विस्तरः. यदि दौर्मनस्यं न विपाकः. यत् तर्हि सत्त्वानां चित्तक्षेपो भवति. कतमस्मिन्न् असौ चित्ते भवति केन वा कारणेनेति. तस्यायम् अभिप्रायः. चित्तक्षेपो न पंचसु विज्ञानकायेषु. तेषाम् अविकल्पकत्वात्. स चाकुशलकेतुको ऽनिष्टत्वात्. इत्य् अतो विपाकेन दौर्मनस्येन भवितव्यम् इति. अविकल्पकत्वाद् इति. अभिनिरूपणानुस्मरणविकल्पाभ्याम् अविकल्पकत्वात् पंचानां विज्ञानकायानां ( अभिध्-क्-व्य् 396 ). चित्तक्षेपस्य चासद्विकल्पलक्षणत्वात्. अग्निं वा दावेषूत्सृजंतीति. दावस् तृणादिगहनांवितो देशविशेषः. अन्येन वा केनचिद् इति. अनिष्टवेदनादिना. वासिष्ठीप्रभृतीनाम् इति. भगवान् मिथिलिकायां विहरति स्म. मिथिलाम्रवणे. तेन खलु पुनः समयेन वसिष्ठसगोत्राया ब्राह्मण्याः षट् पुत्राः कालगताः. सा तेषां कालक्रियया नग्नोन्मत्ता क्षिप्तचित्ता तेनतेनानुहिण्डंती येन मिथिलाम्रवणं तेनोपसंक्रांता. तेन खलु पुनः समयेन भगवान् अनेकशताया भिक्षुपर्षदः पुरस्तान् निषण्णो धर्मं देशयति स्म. अद्राक्षीद् वसिष्ठसगोत्रा [तिब्. 57ब्] ब्राह्मणी भगवंतं दूराद् एव. दृष्ट्वा च पुनर् जेह्रीयमाणरूपा उत्कुटकास्थात्. स्मृतिं च लब्धवती. अद्राक्षीत् भगवान् वसिष्ठसगोत्रां ब्राह्मणीं दूराद् एव. दृष्ट्वा च पुनर् आयुष्मंतम् आनन्दम् आमंत्रयते स्म. अनुप्रयच्छानन्द वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगं. धर्मम् अस्यै देशयिष्यामि. आयुष्मान् आनन्दो वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगम् अदात्. अथ वसिष्ठसगोत्रा ब्राह्मणी उत्तरासंगं प्रावृत्य येन भगवांस् तेनोपसंक्रांता. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकंते निषण्णा. एकांतनिषण्णां वसिष्ठसगोत्रां ब्राह्मणीं धर्म्यया कथया संदर्शयति. समादापयति. समुत्तेजयति. संप्रहर्षयतीत्य् एवमादि. विस्तरग्रंथभयात् सर्वसूत्रं न लिखितं. अयं तत्रार्थः भगवांस् तस्यै दानकथादि कृत्वा. चत्वार्य् आर्यसत्यानि देशितवान्. यावत् तया स्रोतआपत्तिफलम् अधिगतम्. अधिगम्य च भगवतो ऽंतिकात् प्रक्रान्ता. तस्या अपरेण समयेन सप्तमः पुत्रः कालगतः. सा तत्कालक्रियया न शोचति. ताम् अशोचंतीं स्वभर्ताब्रवीत्. त्वं पूर्वं पुत्रमरणेन परितप्तासि. इदानीं नासि परितप्ता. नूनं ते पुत्रास् त्वया भक्षिताः. यतो न परितप्यस इति. सा तं प्रत्युवाच.
पुत्रपौत्रसहस्राणि ज्ञातिसंघशतानि च
दीर्घे ऽध्वनि मया ब्रह्मं खादितानि तथा त्वया.
पुत्रपौत्रसह्स्राणां परिमाणं न विद्यते

अन्योन्यं खाद्यमानानां [तिब्. 58अ] तासुतासूपपत्तिषु.
कः शोचेत् परितप्येत परिदेवेत वा पुनः
ज्ञात्वा निःसरणं लोके जातेश् च मरणस्य च.
साहं निःसरणं ज्ञात्वा जातेश् च मरणस्य च
न शोचामि न तप्यामि कृते बुद्धस्य शासन
इत्य् एवमादि. कथं न चैतसिकी वेदना विपाकः प्राप्नोति. तस्याकुशलस्य कर्मण इति वाक्यशेषः. महाभूतानां प्रकोपो विपाक इति. विपक्तिर् विपाकः. तस्माज् जातम् अतो विपाकजं चित्तम्. अत एव स च कर्मविपाकज इत्य् उक्तं. ( अभिध्-क्-व्य् 397 ) न तूक्तं. स च कर्मज इति. एवं चेदं इति विस्तरः. यस्मात् कर्मजेन यावत् भ्रष्टस्मृतिकं चित्तं वर्तते. तस्माद् इदं चतुष्कोटिकं युज्यत इति. उभयं क्षिप्तचित्तस्य क्लिष्टं चित्तम् इत्य् एव तत्रोदाहरणं. न हि क्लिष्टं चित्तं विपाको युज्यते.
विपाको ऽव्याकृतो धर्म
इति वचनात्. अभिनुन्ना अभिपीडिताः. हाचित्तपरिदेवकश् चात्र नारक इहोदाहार्यः. क्षिप्तचित्ता नारका भवंतीति. अन्यत्र बुद्धाद् इति. महापुण्यसंभारत्वान् न बुद्धस्य. तद्वत् भूतवैषम्येनापि चित्तं क्षिप्यते. न कर्मणेति. किं. आर्याणां क्षिप्यते चित्तं अन्यत्र भूतवैषम्याद् एव. किं कारणम् इत्य् आह. नियतस्य कर्मणः पूर्वं पृथग्जनावस्थायाम् [तिब्. 58ब्] एव विपाकात्. अनियतस्याविपाकाद् आर्यावस्थायां. अत एव चैतद् अनियतम् इत्य् उच्यते. पंचभयसमतिक्रमाद् इति. पंच भयानि. आजीविकाभयम् अश्लोकभयं परिषच्छारद्यभयं मरणभयं दुर्गतिभयं च. तत्राश्लोकभयम् अकीर्तिभयं. पर्षच्छारद्यभयं सभायां सांकुचित्यं. अप्रसादिकस्येति. अप्रसदनीयस्य कर्मणः. धर्मताभिज्ञत्वाद् इति. सर्वं सास्रवं दुःखं. सर्वे संस्कारा अनित्याः. सर्वा धर्मा अनात्मान इति. धर्मस्वभावाभिज्ञत्वात्.
(इव्.60अब्) कुटिलान्वयत्वाद् इति. कुटिलहेतुकत्वात्. साध्यम् हि कौटिल्यं. रंजनान्वयत्वाद् इति यथा कषायो रंजनहेतुः. तथापीत्य् अतस् तत्साधर्म्याद् एवम् उक्तं.
(इव्.60च्द्, 61) कामाप्तम् इत्य्
अनेन शुभं विशेष्यते. नाशुभं. तस्यावश्यं कामाप्तत्वात्. आरूप्याप्तं कस्मान् नोच्यत इति. तद् अपि ह्य् अकुशलेन न व्यतिभिद्यते. न व्यतिमिश्र्यत इत्य् अर्थः. यत्र किलेति विस्तरः. किलशब्दः परमते. यत्र किलांतराभविको अंतराभवे भवो विपाकः. एवम् औपपत्तिभविको ऽपि. त्रिविधस्य च कायवाङ्मनस्कर्मणो विपाको ध्यानसंवरसंगृहीतयोः कायवाक्कर्मणोः द्वितीयादिष्व् अपि ध्यानेषु सद्भावाद् अस्ति. तत्रैवोक्तं शुक्लं शुक्लविपाकम् [तिब्. 59अ] इति. तद् अपि तूक्तं सात्रांतर इति. तद् अप्य् आरूप्याप्तं. अस्ति कर्म शुक्लं शुक्लविपाकं. तद्यथा प्रथमे ध्याने. एवं यावत् भवाग्र इति. अनेन स्वाभिप्रायं दर्शयति. येन किलशब्दं प्रयुक्तवान्. संतानत एतद् व्यवस्थापितम् इति. एकस्मिन् संताने कुशलं चाकुशलं च समुदाचरतीति कृत्वा कुशलम् अकुशलेन व्यवकीर्यते. अन्योन्यविरोधाद् इति. कुशलम् अकुशलेन विरुध्यते. अकुशलं च कुशलेनेति. द्विरूपता न ( अभिध्-क्-व्य् 398 ) युज्यते.
नावश्यम् अकुशलं कुशलेन व्यवकीर्यत इति विस्तरः. व्यवकीर्यते न त्व् अवश्यं. यस्मात् कामधातौ प्रतिपक्षभूतस्य समाधेर् अभावाद् अकुशलस्य बलवत्त्वं. अत एव च कुशलस्य दुर्बलत्वं. तथा हि कामधातौ मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो भवति. न तु सम्यग्दृष्ट्या मिथ्यादृष्टिसमुच्छेदो भवति.
आभिप्रायिको ह्य् एषो ऽशुक्लशब्द इति. विपाकशुक्लताभावाद् अशुक्लं. न तु नैव शुक्लम् इत्य् अर्थः. अपि च यच् छुक्लम् उक्तं. तन् न भवतीत्य् अशुक्लं. महत्यां शून्यतायाम् इति. महाशून्यतार्थसूत्रे. अनिवृताव्याकृताश् च शुक्लाः. अक्लिष्टत्वात्. अविपाकं धात्वपतितत्वाद् [तिब्. 59ब्] इति. अनास्रवा धर्माः न धातुपतिताः. धातुपतितश् च विज्पाक इत्य् अतो ऽनास्रवं कर्मविपाकं. कस्माद् इत्य् आह. प्रवृत्तिविरोधत इति. अनास्रवं हि कर्म धातुपतितानां धर्माणां प्रवृत्तिं विरुणद्धि. न तु जनयतीत्य् अविपाकं.
(इव्.62, 63) कर्मकर्मक्षयायेति. द्विः कर्मग्रहणं यत् तत् कर्मास्तीत्य् अपदिष्टं. तत् कर्म सत् संविद्यमानम् अप्रच्युतस्वभावं कर्मक्षयाय संवर्तत इत्य् अस्य चतुर्थस्य कर्मणो द्योतनार्थं. अथ वा. वीप्साप्रयोग एषः. कर्मणः कर्मणः क्षयाय संवर्तत इत्य् अर्थः. एअतसृष्व् इति विस्तरः. धर्मक्षांतिग्रहणं कामवैराग्ये चानंतर्यमार्गग्रहणं कामावचरस्य कृष्णस्य कर्मणः प्रहाणमार्गत्वात्. अनास्रवमार्गस्यैवेहाधिकृतत्वाल् लौकिका आनंतर्यमार्गास् तत्प्रहाणभूता अपि न गृह्यंते.
शुक्लस्य ध्यानवैराग्येष्व्
इति. कुशलस्यैवेत्य् अवधार्यते. तत्र कृष्णाभावात्. क्लिष्टसंस्कारप्रहाणम् अष्टाभिः. नवमेन तु कुशलस्यापि.
न हि तस्य स्वभावप्रहाणम् इति. प्राप्तिच्छेदप्रहाणं. प्रहीणस्यापि कुशलस्य संमुखीभावात्. तदालम्बनक्लेशप्रहाणाद् इति. तदालंबनस्य क्लेशस्य प्रहाणात् तस्य कुशलस्य प्रहाणं भवति. तदालंबनक्लेशप्रहानं च नवमस्य तदालंबनक्लेशप्रकारस्य प्रहाणे सति भवतीति. नवमानंतर्यमार्गचेतनैव कृष्णशुक्लस्य [तिब्. 60अ] कर्मणः क्षयाय भवति. तदा हि नवमस्य क्लेशप्रकारस्य प्राप्तिच्छेदे विसंयोगप्राप्तिर् उत्पद्यते. तस्य च कृष्णशुक्लस्य कर्मणो ऽन्यस्यापि चानिवृतव्याकृतस्य सास्रवस्य धर्मस्य विसंयोगप्राप्तिर् उत्पद्यत इति वर्णयंति. एवं चतुर्ध्यानवैराग्येष्व् अपि वक्तव्यं.
तेन तद्वेदनीयम् इति. तेन नरकगतिनैयम्यकारणेन. तद्वेदनीयं ( अभिध्-क्-व्य् 399 ) नरकवेदनीयम् अर्थः. अतो ऽन्यत्रेति विस्तरः. ततो नरकगतेर् अन्यत्र कामधातौ मनुष्यादिगतौ अकुशलस्य कुशलस्य च कर्मणो विपाकस् तेन गतिनैयम्यकारणेन. तदन्यकामधातुवेदनीयम् उभयम् अप्य् अविशेष्य मिश्रीकृत्य कृष्णशुक्लम् इत्य् उक्तं. न पुनर् एवं ग्रहीतव्यं. कुशलम् अपि कृष्णशुक्लम्. एवम् अकुशलम् अपीति.
कुशलेनामिश्रत्वाद् इति. न हि कुशलं दर्शनप्रहातव्यम् अस्ति.
न दृष्टिहेयम् अक्लिष्टम्
इति नियमात्. अत्र चोद्यते. कामावचरं
दृग्घेयं कृष्णम्
इति विशेष्यं वक्तव्यम्. इतरथा हि रूपारूप्यावचरस्यापि दर्शनहेयस्य कृष्णविपाकत्ववचनप्रसंग इति. न वक्तव्यम्.
अन्यत्
कृष्णशुक्लं तु कामजम्
इति. कामजम् इत्य् अस्योभयविशेषणत्वात्. कामजं दृग्घेयं कृष्णं. कामजम् अन्यत् कृष्णशुक्लम् [तिब्. 60ब्] इति. तद् धीति विस्तरः. तद् धि कामावचरं भवनाप्रहातव्यं. कुशलं चाकुशलं च संभवति. तन् मिश्रीकृत्योभयम् अपि कृष्णशुक्लम् इत्य् उक्तं. न पुनः प्रत्येकं.
(इव्.65) त्रीणि मौनेयानीति. मुनिता वा मुनिकर्म वा मौनेयं कापेयवत्.
मौनत्रयम्

इति. मुनेर् इदम् मौनं. अशैक्ष इति विस्तरः. अशैक्षं कायकर्माविज्ञप्तिस्वभावं कायमौनम्. एवं वाङ्मौनं. अथ कस्माद् अविज्ञप्तिर् एव गृह्यते. न पुनर् विज्ञप्तिर् अपि. विज्ञप्तेः सास्रवत्वेनाशैक्षत्वासंभवात्. मन एव मनोमौनम् इति. स्वार्थे वृद्धिविधानात्. चित्तं हि परमार्थमुनिर् इति. सर्वक्लेशजल्पोपरतेर् इति कारणं वक्ष्यते. तत् किलकायवाक्कर्मभ्याम् अशैक्षाभ्याम् अनुमीयते अशैक्षाम् इति. कथं तथागतो ऽनुमातव्यः. प्रशांतेन कायकर्मणा प्रशांतेन वाक्कर्मणेति सूत्रे वचनात्. किलशब्देन वैभाषिकमतं द्योतयित्वाचार्यः स्वमतं आह. अपि खल्व् इति विस्तरः. चित्ताविज्ञप्त्यभावाद् इति. यस्माच् चित्तस्यविज्ञप्तिर् नास्त्य् अतो न मनस्कर्म विरतिस्वभावं. विरमार्थेन च मौनम् इति. विरमो विरतिः. सर्वाकुशलविरमार्थेन [तिब्. 61अ] मौनम् इत्य् अभिप्रायः. अतो मनो एव सर्वाकुशलेभ्यो विरतं मौनम् इत्य् उच्यते. सर्वक्लेशजल्पोपरतेर् इति. वितथालंबनजल्पनात् क्लेशा जल्पा इत्य् उच्यंते. ते चार्हत उपरता इत्य् अर्हन् परमार्थमुनिः.
शौचेयानीति.
शुचिभावः शौचेयं. शौचम् इत्य् अर्थः.
सर्व-
ग्रहणं सास्रवानास्रवसुचरितपरिग्रहार्थं. तावत्कालम् अत्यंतं चेति. तावत्कालदुश्चरितमलापकर्षकं सास्रवेण सुचरितत्रयेण. अत्यंतम् अनास्रवेण. तद् धि भिक्षवः प्रहीणं यद् आर्यया प्रज्ञयेति सूत्रात्. मिथ्यामौनशौचाधिमुक्तानां विवेचनार्थम् इति. तूष्णींभावमात्रेण शुद्धिदर्शिनो मिथ्यामौनाधिमुक्ताः. कायमलापकर्षणमात्रेण शुद्धिदर्शिनो मिथ्याशौचाधिमुक्ताः. तेषां विवेचनं ततो दर्शनात् प्रच्यावनं. तदर्थम् एतानीति
(इव्.66) संचेतनीयसूत्रे वचनाद् इति. संचेतनीयं कर्म कृत्वोपचित्य नरकेषूपपद्यते. कथं च भिक्षवः संचेतनीयं कर्म कृतं भवत्य् उपचितं. इह भिक्षव एकत्यः संचिंत्य त्रिविधं कर्म कायेन कर्म करोत्य् उपचिनोति चतुर्विधं वाचा त्रिविधं मनसेति विस्तरेणोक्त्वाह [तिब्. 61ब्]. कथं भिक्षवस् त्रिविधं मनसा संचेतनीयं कर्म कृतं भवत्य् उपचितं. यथापीहैकत्यो ऽभिध्यालुर् भवति. व्यापन्नचित्तः. यावन् मिथ्यादृष्टिः. खलु भिक्षव इहैकत्यो भवति विपरीतदर्शीति विस्तरः. न चान्यद् अभिध्यादिव्यतिरिक्तं तत्र मनस्कर्मोक्तम् इत्य् अभिद्यादय एव मनस्कर्मेति दार्ष्टांतिकाः सौत्रांतिकविशेषा इत्य् अर्थः.
एवं तु सति कर्मक्लेशयोर् ऐक्यं स्याद् इति. अभिध्याव्यापादमिथ्यादृष्टयः क्लेशाः. त एव कर्मेति. तद् ऐक्यं स्यात्. नैतद् अस्ति. कश्चित् क्लेशो ऽपि कर्म स्याद् इति. चेतना कर्म चेतयित्वा चेति वचनात्. यद्य् एवं संचेतनीयसूत्रं कथं नीयत इत्य् आह. सूत्रे त्व् इति विस्तरः. सूत्रे तु चेतनायास् तन्मुखेनाभिध्यादिमुखेन प्रवृत्तेस् तैर् अभिध्यादिभिस् तां चेतनां दर्शयति. अभिध्यालुः खलु भिक्षवो भवतीति विस्तरेण. अन्यथा चेतनामतं भिक्षवः कर्म वदामि चेतयित्वा चेत्य् एतद् विरुध्यते. कर्मक्लेशयोश् चैक्ये अभिधर्मविरोधः स्यात्. परानुग्रहोपघाभिसंध्यभाव इति विस्तरः. परेषाम् अनुग्रहोपघातयोर् अभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्ट्योर् यथाक्रमं [तिब्. 62अ] कुशलाकुशलत्वम् इति. अतो ब्रवीति. तन्मूलत्वाद् इति. यस्मात् परानुग्रहाभिसंधेः परोपघाताभिसंधेश् च सम्यग्दृष्टिमिथ्यादृष्टी मूलं कारणम् इत्य् अर्थः. अतस् तयोः कुशलाकुशलत्वं.
(इव्.67) यथायोगम् इति यथासंभवं. कथम् इत्य् आह. कुशलाः सुचरितेध्यः अकुशला दुश्चरितेभ्यश् चेति. क्लिष्टश् चान्यो ऽपीति. वधबंधनादि. तस्य नात्यौदारिकत्वाद् इति. तस्य प्रयोगपृष्ठभूतस्य क्ल्ष्टस्यान्यस्यापि ( अभिध्-क्-व्य् 401 ) अनत्यौदारिकत्वात्. मनोदुश्चरितस्य च प्रदेशश् चेतना. न संगृहीतेति वर्तते. मद्यादिविरतिदानेज्यादिक इति. प्रथमेनादिशब्देन ताडनबंधनादिविरतिर् गृह्यते. द्वितीयेनापि स्नपनोद्वर्तनविषमहस्तप्रदानादिर् गृह्यते. प्रियवचनादिक इत्य्. आदिशब्देन धर्मदेशनामार्गकथनादिर् गृह्यते. मनःसुचरितस्य चेतना न संगृहीतेति वर्तते.
(इव्.68) षड् अविज्ञप्तिर्
इति. षड् अविज्ञप्तिर् अवश्यं. न त्व् अविज्ञप्तिर् एव षड् इत्य् अवधारणं. मौलविज्ञप्त्यभावाद् इति. यस्मान् मौली कर्मपथसंगृहीता विज्ञप्तिर् नास्ति. आज्ञापनविज्ञप्तिस् त्व् अस्ति प्रयोगसम्गृहीतेति वैभाषिकसिद्धांतः.
[तिब्. 62ब्] द्विधैक
इति. द्विधैवैक इत्य् अवधारणार्थ आरंभः. तत्कालमरण इति. विज्ञप्तिकालमरणे. कालांतरमरणे त्व् अविज्ञप्तिर् एव भवति.

द्विविधाः सप्त कुशला
इति. द्विविधा एवेत्य् अवधारणं. विज्ञप्त्यधीनत्वात् समादानशीलस्येति. शीलं हि द्विविधं. समादानशीलं प्रातिमोक्षसंवरो धर्मताशीलं च ध्यानानास्रवसंवरौ. समादानशीलं विज्ञप्त्यधीनं. तद् धि परस्माद् आदीयते. धर्मताशीलं तु न विज्ञप्त्यधीनं. चित्तमात्रधीनत्वात्. अत एवाह.
अविज्ञप्तिः समाधिजा
इति.
(इव्.69अब्च्) सामंतकास् तु विज्ञप्तिर्
इति. कामावचरकर्मपथप्रयोगा अवश्यं विज्ञप्तिः. न त्व् अवश्यम् अविज्ञप्तिर् इत्य् अत एवाह.
अविज्ञप्तिर् भवेन् न वेति.
पर्यवस्थानेनेति. आह्रीक्यादिना. घनरसेनेति. घनवेगेन. तस्यानुधर्मं चेष्टेतेति. तस्य कर्मपथस्यानुधर्मम् अनु सदृशं कर्म. तद्यथा मृते ऽपि प्राणिनि पुनः प्रहारदानं कोषणं मान्सच्छेदनम् इत्य् एवमादि. द्वौ क्षिणातीति शब्दौ. परस्य चर्मापनयनम् अर्थः. पूर्वस्यार्थांतरं द्रष्टव्यं. फलपरिपूरितश् चेति. प्रयोगस्य मौलः कर्मपथः फलपरिपूरिः. यो ह्य् प्रयुज्यते मौलं कर्मपथं [तिब्. 63अ] न जनयति. तस्य प्रयोगफलम् अस्ति न तु फलपरिपूरिः. एवम् अन्येष्व् अपीति. यथा तावद् इह कश्चित् परस्वं हर्तुकामो मंचाद् उत्थिष्ठति शस्त्रं गृह्णाति. परगृहं गच्छति. सुप्तो न वेत्य् आकर्णयति. परस्वं स्पृशति. यावन् ( अभिध्-क्-व्य् 402 ) न स्थानात् प्रच्यावयति. तावत् प्रयोगः. यस्मिंस् तु क्षणे स्थानात् प्रच्यावयति. तत्र या विज्ञप्तिस् तत्क्षणिका चाविज्ञप्तिर् अयं मौलः कर्मपथः. द्वाभ्याम् हि कारणाभ्याम् अदत्तादानावद्येन स्पृश्यते प्रयोगतः फलपरिपूरितश् च. ततः परम् अविज्ञप्तिक्षणाः पृष्ठं भवंति. यावत् तत्परस्वं विभजते. विक्रीणीते. गोपायति. अनुकीर्तयति वा तावद् अस्य विज्ञप्तिक्षणा अपि पृष्ठं भवंतीति. एवम् अन्येष्व् अपि पंचसु यथासंभवं योज्यं.
मरणभवस्थ इति. अमृत एव. न चैष सिद्धांत इति.
समं प्राक् च मृतस्यास्ति न मौलो ऽन्याश्रयोदयाद्
इति सिद्धांतात्. तन् न वक्तव्यम् इति. व्यपरोपयतीति. विप्रकृतावस्थायाम् अयोगात्. एवं तु वक्तव्यं स्यात्. मृते प्राणिनि या विज्ञप्तिस् तत्क्षणिका चाविज्ञप्तिः. स्यं मौलः कर्मपथ इति. यच् चापीदम् इति विस्तरः. वैभाषिकैर् अस्य शास्त्रवाक्यस्यैवम् अर्थो व्याख्यातः. अत्र शास्त्रे प्रयोगशब्देन पृष्ठम् उक्तम् इति. प्रयोग इव प्रयोगः. प्रयोगसदृशी क्रियेत्य् अर्थः. अस्यार्थस्य विरोधः. [तिब्. 63ब्] कस्मात्. मौलस्यैव तदानीम् अनिरुद्धात्. मृते प्राणिनि मौलकर्मपथव्यवस्थापनाद् इत्य् अत्राभिप्रायः. वैभाषिक आह. यथा न दोषस् तथास्त्व् इति. कथं च न दोष इत्य् आचार्यः. वैभाषिकः पुनर् आह. मौल एवात्र प्रयोगशब्देनोक्त इति. कुत्र. यो ऽयं प्रश्नः स्यात् प्राणी हतः प्रानातिपातश् चानिरुद्ध इत्य् अत्र. पृष्ठं प्रयोगशब्देनोक्तम् इति किम् अयं पक्षः परित्यक्त एव. स च न परित्यक्त एव. उभयम् अपि हि संभवति. यदि मरणभवानंतरक्षणवर्ती प्राणी भवत्य् अत्र प्रयोगशब्देन मौल उक्त इतीष्यते. ततः परेण तु पृष्ठ इति. आचार्य आह. विज्ञप्तिस् तर्हि तदा कथं मौलः कर्मपथो भवतीति. मृते हि प्राणिनि विज्ञप्तिर् अकिंचित्करी. न हि तेन विज्ञप्तिप्रहारेण मृतस्य मारणं पुनर् अस्तीति मन्यामानो ऽयं पृच्छति. कस्माद् अव्ज्ञप्तिं न पृच्छति. यस्माद् असाव् अनिदर्शनत्वाद् अप्रतिघत्वाच् च प्रहाराख्या न भवति. कथं च न भवितव्यम् इति वैभाषिकेणोक्ते. स्वाभिप्रायम् आचार्यो विवृणोति. असामर्थ्याद् इति. प्राणिनि मृते तस्याः सामर्थ्यं न दृश्यत इति वैभाषिक आह. अविज्ञप्तिर् इदानीं कथं भवत्य् असति सामर्थ्ये मौलः कर्मपथ इति. यस्माद् एवम् अविज्ञप्तिर् असामर्थ्ये ऽपि मौलः कर्मपथो भवति. तस्मात् प्रयोगफलपरिपूरिकाले मौलकर्मपथपरिसमाप्तिकाले प्राणिनो मृतत्वावस्थायां. तद् उभयं विज्ञप्त्यविज्ञप्त्याख्यं [तिब्. 64अ] कर्मपथः स्याद् युज्येतेत्य् अर्थः.
एवम् अन्येष्व् अपि यथायोगं योज्यम् इति. यथा परस्वं हर्तुकामः कार्यसिद्धये परकीयं हृत्वा तेन पशुना बलिं कुर्यात्. दारेषु चास्य विप्रतिपद्येत ( अभिध्-क्-व्य् 403 ) तैर् एव तदपहारार्थं. अनृतपिशुनपरुषसांत्वभेदैश् चास्य मित्रभेदं कुर्यात्. यान्य् अस्य परित्राणाय कल्पेरन्. अभिध्यां च तत्स्वे कुर्यात्. तद्द्रव्यस्वामिनि च व्यापादं मिथ्यादृष्टिं बृंहयेत्. एवं काममिथ्याचारादिषु यथासंभवं योज्यं. एषा दिक्.
(इव्.69द्, 70अब्) नात्र सर्वेषां कर्मपथानाम् लोभादिभिर् निष्टेति. न च सर्वेषां लोभेन. किं तर्हि. केषांचिद् एव काममिथ्याचारादीनां. नापि सर्वेषां व्यापादेन. किं तर्हि. केषांचिद् एव प्राणातिपातादीनां. एवं न सर्वेषां मोहेन. किं तर्हि. केषांचिद् एव मिथ्यादृष्ट्यादीनाम् एवेति. त्र्यंबुकाः वरताः. आदिशब्देन व्याघ्रादयः. यश् च मिथ्यादृष्टिप्रवर्तित इति. नास्ति परलोक इति कृत्वा निरपेक्षो हंति. अयम् अपि मोहजः. अन्यलाभसत्कारयशोऽर्थम् इति. अन्यलाभस्यार्थे परस्वं हरति. यथाश्वहारिकः. सत्कारस्य यशवो वार्थं हरति. इदम् अपि लोभजम् अदत्तादानं. [तिब्. 64ब्] यच् च मिथ्यादृष्टिप्रवर्तितं. तद् अपि मोहजम् अदत्तादानं. तत्र मोहप्राधान्यात्. उपैति मातरम् अब्रह्मचर्यार्थे. उपस्वसारम् उपैतीति वर्तते. उपस्वसारं भगिनीम् इत्य् अर्थः. उपसगोत्राम् उपैति. समानगोत्राम् इत्य् अर्थः. उपहायजमानः. ये चाहुर् इति विस्तरः. उदूखलादितुल्यो मातृग्रामः. यथोदूखलादयः साधारणा उपभोग्याः. एवं स्त्रीजनः. तस्मान् न दोषो ऽस्त्य् अभिगच्छताम् इति. मृषावादादयो लोभजाः द्वेषजाश् च पूर्ववद् इति. मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापाः लोभजाः अन्यलाभसत्कारयशोऽर्थं वा. आत्मसुहृत्परित्राणार्थं वा. द्वेषजाः वैरनिर्यातनार्थं.
न मर्मयुक्तं.
न परिहासयुक्तं. मिथ्यादृष्टिप्रवर्तित इति. नास्ति परलोक इति निर्मर्यादय यो मृषावादो ऽयं मोहजः. पैशुन्यादयस् तु. पैशुन्यपारुष्याबद्धप्रलापाः मृषावादवन् मोधजाः. यश् चेति विस्तरः. यश् च वेदसांख्यवैशेषिकाद्यसत्प्रलापः. स चापि मोहजः संभिन्नप्रलापः.

(इव्.70च्द्) तस्य चेति. कुशलचित्तस्य. नानावासं प्रविशतीति. [तिब्. 65अ] मण्डलं प्रविशतीत्य् अर्थः. नानावासा हि तस्मिन् महासीमामण्डले भवंति. तृतीये कर्मवाचन इति. ज्ञप्तिचतुर्थेन कर्मणा श्रामणेर उपसंपाद्यते. तत्र ज्ञप्त्या इदंनामानम् उपसंपादयेत् संघ इति. लिङ्ङर्थ उच्यते. कर्मवाचनेन लडर्थ उच्यते. इमं संघ उपसंपादयतीति. तत्र कर्मवाचनं त्रिर् उच्यते. तृतीयस्य कर्मवाचनस्यापरिसमाप्तेः प्रयोगः कर्मपथस्यावगंतव्यः. तस्यावसाने तु या विज्ञप्तिस् तत्क्षणिका वाविज्ञप्तिर् ( अभिध्-क्-व्य् 404 ) अयं मौलः कर्मपथः. तत ऊर्ध्वं यावन् निश्रया आरोच्यंत इति. चत्वारो निश्रयाश् चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यलक्षणा यथोक्तेन विधिना तस्योपसंपादितस्यारोच्यंते. तदधिष्ठानं च विज्ञपयति. निश्रयाधिष्ठानं च विज्ञप्तिं करोतीत्य् अर्थः. अविज्ञप्तिश् च यावद् अनुवर्तते. यावत् संवरो न त्यज्यत इत्य् अर्थः. इदं पृष्ठं.
(इव्.71, 72अब्) वधव्यापादपारुष्यनिष्ठा द्वेषेणेति.
द्वेषेणैवेत्य् अवधारणं. परित्यागपरुषचित्तसंमुखीभावाद् इति. परित्यागचित्तसंमुखीभावात् प्राणातिपातस्य निष्ठा द्वेषेण. परुषचित्तसंमुखीभावात् तु व्यापादपारुष्ययोः.
[तिब्. 65ब्] (72च्द्) चतुर्भिः काण्डैर् उक्ता इति. चतुर्भिर् भागैर् उक्ताः. कथं.
वधव्यापादपारुष्यनिष्ठा द्वेषेणेत्य्
एकः काण्डः.
लोभतः
परस्त्रीगमनाभिध्यादत्तादानसमापनम्
इति द्वितीयः.
मिथ्यादृष्टेस् तु मोहेनेति
तृतीयह्.
शेषाणां त्रिभिर् इष्यत
इति चतुर्थः काण्डः. भोगाधिष्ठाना इति. विषयाधिष्ठानाः. नामरूपाधिष्ठानेति. पंचस्कन्धाधिष्ठानेत्य् अर्थः. नाम हि वेदनादयः स्कंधाः रूपं रूपस्कंधः. अधिष्ठानम् अधिकरणं विषय इत्य् अनर्थांतरं. नामकायाधिष्ठाना मृषावादादयो वाग्नाम्नि प्रवर्तत इति कृत्वा.
(इव्.73अब्) न मौल
इति प्रतिषेधात् पृष्ठम् अपि न भवतीति गम्यते. मौलपूर्वत्वात् पृष्ठस्य. न च प्राणातिपातावद्येन स्पृश्यत इति. न मौलेनेत्य् अभिप्रायः.
अन्याश्रयोदयाद्
इति. विसभागाश्रयोदयाद् इत्य् अर्थः.
(इव्.73च्द्) अर्थतो हि ते ऽन्योन्यं प्रयोक्तार इति. न वाचा ते ऽन्योन्यं प्रयोक्तारः. किं तर्हि. प्राणातिपातकरणाभ्युपगमाद् [तिब्. 66अ] अर्थत इति एककार्यत्वात्.
(इव्.74अब्) संज्ञाय परिच्छिद्येत्य् अर्थः. नान्यं भ्रमित्वेति. न भ्रांत्यान्यं मारयतीत्य् अर्थः.
क्षणिकेषु स्कंधेष्व् इति. स्वरसेनैव विनश्वराणां स्कंधानां कथम् ( अभिध्-क्-व्य् 405 ) अन्येनैषां निरोधः क्रियत इत्य् अभिप्रायः. प्राणो नाम वायुः. कायचित्तसंनिश्रितो वर्तत इति. कथं चित्तसंनिश्रितो वायुः प्रवर्तते. चित्तप्रतिबद्धवृत्तित्वात्. तथा हि निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते. शास्त्रे ऽप्य् उक्तं. य इमे आश्वासप्रश्वासाः. किं ते कायसंनिश्रिता वर्तंत इति वक्तव्यं. चित्तसंनिश्रिता वर्तंत इति वक्तव्यं. नैव कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यं. कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम्. आह. कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यम् इति विस्तरः. तम् अपि पातयतीति. तं प्राणं विनाशयतीत्य् अर्थः. उत्पन्नस्य स्वरसनिरोधाद् अनागतस्योत्पत्तिं प्रतिबध्नन् निरोधयतीत्य् उच्यते. यथा प्रदीपं निरोधयति. घण्टास्वनं वा. क्षणिकम् अपि संतं. कथं च स निरोधयति. अनागतस्योत्पत्तिप्रतिबंधात्. जीवितेन्द्रियं वा प्राण इति. चित्तविप्रयुक्तस्वभावम् एनं दर्शयति.
कस्य तज् जीवितं. यस् तदभावान् मृत इति. यः प्राणी जीवितस्याभावान् मृतो भवति. स बौद्धानां नास्ति नैरात्म्यवादित्वात्. [तिब्. 66ब्] अत एवं पृच्छति. कस्येति षष्ठीं. पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे. असत्य् आत्मनि कस्येयं स्मृतिः. किम् अथैषा षष्ठीत्य् अत्र प्रदेशे चिंतयिष्यामि. आस्तां तावद् एतत् सामान्यासिकम् इत्य् अभिप्रायः. तस्मात् सेन्द्रियः कायो जीवतीति. सेन्द्रियस्यैव कायस्य तज् जीवितं. नात्मन इति दर्शयति. स एव चानिन्द्रियो मृत इति.
अबुद्धिपूर्वाद् इति विस्तरः. असंचिन्त्यकृताद् अपि प्राणिपातात् कर्तुर् अधर्मो यथाग्निसंस्पर्शाद् अबुद्धिपूर्वाद् असंचिंत्यकृताद् दाह इति. निर्ग्रंथा नग्नाटकाः. तेषां निर्ग्रंथानाम् एवं वादिनां अबुद्धिपूर्वे ऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसंगः. पापप्रसंग इत्य् अर्थः. अग्निदृष्टांतात्. निर्ग्रंथशिरोलुंचने च निर्ग्रंथशिरःकेशोत्पाटने च. दुःखोत्पादनबुद्ध्यभावे ऽप्य् अधर्मप्रसंगः. अग्निदाहवत्. कष्टतपोदेशने च. निर्ग्रंथशास्तुर् अधर्मप्रसंगो बुद्ध्यनपेक्षायां. परस्य दुःखोत्पादनम् अधर्माय भवतीति कृत्वा. तद्विषूचिकामरणे च. निर्ग्रंथानां विषूचिकया अजीर्णेन मरणे. दातुर् अन्नदातुर् अधर्मप्रसंगः. अन्नदानेन मरणकारणात्. अबुद्धिपूर्वो ऽपि हि प्राणिवधः कारणम् अधर्मस्येति. मातृगर्भस्थयोश् च. मातुर् गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वाद् अधर्मप्रषंगः. तत एवाग्निदृष्टांतात्. वध्यस्यापि च तत्क्रियासंबंधात्. प्राणातिपातक्रियासंबंधात् [तिब्. 67अ]. अधर्मप्रसंगः. वध्ये हि सति प्राणातिपातक्रिया वधकस्य भवति. अग्निस्वाश्रयदाहवत्. अग्निर् हि न केवलम् अन्यजनं दहति. किं तर्हि. स्वाश्रयम् अपि इन्धनं दहतीति. तद्वत्. न हि तेषां चेतनाविशेषो ऽपेक्ष्यते. कारयतश् च परेण वधादि ( अभिध्-क्-व्य् 406 ) अधर्मस्याप्रसंगः. परेणाग्निं सपर्शयतः स्पर्शयितुस् तेनादाहवत्. आग्नेयधर्माभ्युपगमात्. अचेतनानां च काष्ठादीनां काष्ठलोष्टवंशादीनां. गृहपाते तत्रांतःस्थितानां प्राणिनां वधात्. पापप्रसंगः. न हि बुद्धिविशेषः प्रमाणीक्रियते. न वा दृष्टांतमात्राद् अहेतुकात्. सिद्धिर् अस्यार्थस्येति.
(इव्.74च्द्) अन्यत्र संज्ञाविभ्रमाद् इति. यदि देवदत्तद्रव्यं हरामीत्य् अभिप्रायमाणो यज्ञदत्तद्रव्यं हरति. नादत्तादानम् इत्य् अभिप्रायः.
परिनिर्वाणकाले परिगृहीतम् इति. दातृजनपुण्यानुग्रहार्थं. अपरिग्रहे हि स्तूपे दानम् अफलं स्यात्. प्रतिग्राहकाभावात्. परिवर्तकं मृतस्य भिक्षोश् चीवरादिद्रव्यं. कृते कर्मणि ज्ञप्तिकर्मणि.
(इव्.75अब्) गर्भिणीगमने गर्भोपरोधः. पाययंती स्तन्योपभोगावस्थापुत्रिका स्त्री. अब्रह्मचर्यकरणे हि तस्याः स्तन्यं क्षीयते. बालकस्य वा पुष्टये तत् स्तन्यं न भवतीति.

[तिब्. 67ब्] प्राणातिपातवद् इति. यथा देवदत्तं मारयामीत्य् अभिप्रायेण यज्ञदत्तं मारयतो न प्राणातिपातो भवति. तद्वद्. इहान्यस्मिं वस्तुनि प्रयोगो ऽभिप्रेतो ऽन्यच् च वस्तु परिभुक्तम् इति. न स्यात् काममिथ्याचार इत्य् अपरे.
अंततो राज्ञ इति. यद्य् अन्यः कश्चिद् रक्षिता नास्ति. अंततः सर्वपश्चाद् राज्ञो ऽंतिकात् स काममिथ्याचारः. तस्य हि तन् न मर्षणीयम् इति.
(इव्.75च्द्) आहोस्विद् अभिज्ञातुं समर्थ इति. यो ऽपि ह्य् अर्थम् अभिज्ञातुं समर्थः. सो ऽप्य् अर्थाभिज्ञ इति शक्यते वक्तुम्. अर्थम् अभिजानीत इति विप्रकृतावस्थायाम् अभिप्रेतत्वात्. मनोविज्ञानविषयत्वाद् वाक्यार्थस्येति. नास्त्य् अत्र देवदत्तो ऽस्ति वेत्य् उच्यमाने शब्दः श्रोत्रा विज्ञायते. तदनंतरं तु चक्षुरादिसमूहो देवदत्तो वाक्यार्थो विकल्पेन मनोविज्ञानेन विज्ञायते. तेनाविज्ञप्तिर् एव मौलः कर्मपथः स्यात्. वाग्विज्ञप्तेः श्रोत्रविज्ञानेन सह निरोधात्. इष्यते च विज्ञप्त्यविज्ञप्तिस्वभावो मौलः कर्मपथ इति.
(इव्.76) मृतकल्पानि. अत एतेषु मताख्येति. नैरुक्तं विधिम् आलंभ्य वैभाषिका व्याचक्षते. स्वेन्द्रियैः प्राप्ता मता इत्य् आचार्यसंघभद्रः. विस्तरेण यावन् मनसा धर्मा इति. ये त्वया घ्राणेन गन्धा न घ्राताः. जिह्वया रसा नास्वादिताः. कायेन स्प्रष्टव्यानि [तिब्. 68ब्] न स्पृष्टानि. यावद् ये त्वया मनसा धर्मा न विज्ञाता इति. त्रिषु विषयेषु रूपशब्दधर्मेषु दृष्टश्रुतविज्ञातापदेशाद् यथाक्रमं. गन्धादिषु गंधरसस्प्रष्टव्येषु मताख्या गम्यते. ते मतशब्देनोच्यंते. एवं चानिष्यमाणे गंधादिषु मताख्येत्य् अनिष्यमाणे. दृष्टादिभावबाह्यत्वात्. गन्धादीनाम् अरूपलक्षणत्वेन ( अभिध्-क्-व्य् 407 ) दृष्टभावबाह्यत्वाद् अशब्दधर्मायतनलक्षणत्वेन च श्रुतविज्ञातभावबाह्यत्वात्. गंधादिषु व्यवहारो न स्यात्. दृष्ट इति वा यावद् विज्ञात इति वेत्य् एषा युक्तिः. तेषु मताख्येति. आचार्य आह. सूत्रं तावद् इति विस्तरः. अन्यार्थत्वाद् इति. यस्मात् सूत्रस्यान्य एवार्थः. सूत्रार्थं ब्रवीति. अत्र च ते तव षड्विधे विषये रूपादौ. चतुर्षु दृष्टादिव्यवहारेषु. दृष्टश्रुतमतविज्ञातव्यवहारेषु. दृष्टादिव्यवहारमात्रं भविष्यतीति. रूपे दृष्टम् इति व्यवहारो भविष्यति. यावद् विज्ञातम् इति. एवं शब्दाडिषु. अत्र च ते मालकीमातर् दृष्टे विषयषट्के दृष्टमात्रं भविष्यति. श्रुते विषयषट्के. मते विज्ञाते विषयषट्के एव विज्ञातमात्रम् इत्य् एवं तत् सूत्रपदं व्याख्यायत इत्य् अभिप्रायः. न हि प्रियाप्रियनिमित्ताध्यारोपस् तव भविष्यतीति सूत्रार्थः. [तिब्. 68ब्] ननु च यानि त्वया चक्षुषा रूपाणि न दृष्टानीत्य् एवोक्तानि. न तु न श्रुतानि यावन् न विज्ञातानीत्य् एवोक्तानि. एवं शब्दा न श्रुता इत्य् एवोक्ताः. न तु न दृष्टा यावन् न विज्ञाता इत्य् उक्ताः. एवं यावद् धर्मा न विज्ञाता इत्य् एवोक्ताः. न तु न दृष्टा यावन् न स्पृष्टा इति. नैष दोषः. उदाहरणरूपम् एतद् उक्तं भगवता. यथा हि रूपाणि न दृष्टानीत्य् उक्तानि. तथा न श्रुतानि. यावन् न विज्ञातानीति वक्तव्यानि. एवं शब्दादिषु वक्तव्यं. तेनैव लक्षणम् उच्यते. यत् पंचभिर् इन्द्रियैर् इति विस्तरः. यत् पंचभिर् इन्द्रियैः प्रत्यक्षं रूपादि तद् दृष्टं. यत् परत आगमितं विषयषट्कं तच् छ्रुतं. यद् युक्त्यनुमानतो रुचितम् अभिप्रेतं तन् मतं युक्त्यनुमानम् इति. अव्यभिचार्यनुमानं. तच् च षड्विषयगोचरं. षष्ठो ऽन्यत्र दृष्टाद् इति. षष्ठो विषयो धर्माः. स दृष्टव्यवहारं वर्जयित्वा त्रिभिः श्रुतादिभिर् व्यवहारैर् व्यवह्रियते. अतो नास्ति गन्धादिषु व्यवहाराभावप्रसंगः. तस्माद् युक्तिर् अप्य् एषा न युक्तिर् भवति. या वैभाषिकैर् [तिब्. 69अ] उक्ताः एवं चानिष्यमाण इत्य् एवमादिका. यस्माद् अन्यथापि गंधादिषु व्यवहारो भवतीति.
यत् प्रत्यक्षीकृतं चक्षुषेति. न पंचभिर् इन्द्रियैः. यच् छ्रोत्रेण श्रुतं परतश् चागमितम् इति उभयम् अप्य् अभीष्टं. प्रत्यात्मं प्रतिसंवेदितं सुखाद्य् असमाहितेन चित्तेन. अधिगतं तु समाहितेन. लौकिकेनैव. न लोकोत्तरेण. लौकिकं व्यवहाराधिकारात्. तद् एवं योगाचारनयेनापि षड् अप्य् एते विषयाः प्रत्येकं यथासंभवं दृष्टा इति वा व्यवह्रियंते. श्रुताः. मताः. विज्ञाता इत्य् एवेत्य् अतो नास्ति गंधादिषु व्यवहाराभावप्रसंग इति.
यः कायेनान्यथेति. कायसंज्ञया यो ऽर्थं गमयति. तस्यापि मृषावादः. पराक्रमेत व्यायच्छेत. वाचा पराक्रमेतेति. वाचा परं मारयेद् इत्य् अर्थः. इह तु प्राणातिपातस्य कायिकत्वात् कायिक्य् एवाविज्ञप्तिर् मौलसंगृहीता. न वाचिकी. नाप्य् अत्र कायिकी विज्ञप्तिः स्यात्. कायेन पराक्रमेतेति. अत्र मृषावादस्य वाचिकत्वाद् वाचिक्य् एवाविज्ञप्तिर् मौलसंगृहीतेत्य् अवगंतव्यं. उभयावद्येन वेति. [तिब्. 69ब्] कायवागवद्येन. ऋषीणां मनःप्रदोषेण कायावद्येन योगो भवति. पोषधनिदर्शनं चात्रेति. वागवद्येन योगो भवति. भिक्षुपोषधे हि कच्चि ऽत्थ परिशुद्धा इति विनयधरेणानुश्राविते. यदि कश्चित् भिक्षुः सतीम् आपत्तिं नाविष्कुर्यात्. तूष्णींभावेनैवाधिवासयेत् स मृषावादी भवेद् इति. कथं तयोः कर्मपथः सिध्यतीति. कथं तयो ऋषिभिक्ष्वोः कायवाग्भ्याम् अपराक्रममाणयोः प्राणातिपातो मृषावादश् च यथाक्रमं कर्मपथः सिध्यतीति. कर्तव्यो ऽत्र यत्नः. वैभाषिकैः कर्तव्यः समाधिर् इत्य् अर्थः. अत्राचार्यसंघभद्रः समाधिम् आह. ऋषयो ऽर्थत आज्ञापयितारो भवंति. तेषां हि सत्त्वपरित्यागप्रवृत्तं पापाशयम् अवेत्यामनुष्यास् तदभिप्रसन्नाः कायेन पराक्रमंते. येन तेषां ऋषीणां कर्मप्थ उत्पद्यते. कथं. परविज्ञप्त्येति. अवश्यं तथाविधस्य कायवाग्विकारा भवंति. अपि च शपंति ते तथा. तत्र चावश्यं कायवाक्चेष्टया भवितव्यं अन्ये त्व् आहुः. न कामधाताव् अवश्यम् अविज्ञप्तिः सर्वैव विज्ञप्त्यधीना भवति. फलप्राप्त्यैव सह पंचकादीनां प्रातिमोक्षसंवरोत्पत्तिसंभावात्. इत्य् अकुशलाप्य् एवंजातीया काचिद् विज्ञप्तिम् अंतरेणापि स्यात्. पूर्वविज्ञप्तं तैर् इति [तिब्. 70अ] अवश्यम् इतरत्रापि भविष्यति. ऋषीणां तावद् उक्तं पोषधमृषावादे ऽपि. यद् अपरिशुद्धः संघमध्यं प्रविशैत्. निषीदति. स्वम् ईर्यापथंकल्पयति. तत्संबद्धं वा यत्किंचिद् भाषते. सास्य पूर्वविज्ञप्तिर् इति.
(इव्.77, 78अब्) सर्वं क्लिष्टं वचनं संभिन्नप्रलाप इति. मृषावादादित्रयम् अपि. न केवलम् अन्यं क्लिष्टं. सैव च संभिन्नप्रलापितेति. यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः. तस्य. तदभिधाने त्वतलाव् इति. तत्प्रत्ययेन क्लिष्टवचनलक्षणः संभिन्नप्रलाप उच्यते. तद्योगेन हि. संभिन्नप्रलापयोगेन हि. स पुद्गलः संभिन्नप्रलापी भवति.
मृषावादादित्रयाद् यद् अन्यक्लिष्टं वचनं. स संभिन्नप्रलाप इत्य् उक्त्वोदाहरणं दर्शयन्न् आह.
लपनागीतनाट्यवत् कुशास्त्रवच् चेति.

लपनां करोतीति. लाभयशस्कामतया सेवाभिद्योतिकां वाचं निश्चारयतीत्य् ( अभिध्-क्-व्य् 409 ) अर्थः. परिदेवसंगणिकादिकम् इति. आदिशब्देन परिदेवसंगणिकाभ्यां यो ऽन्यः क्लिष्टचित्तानां कश्चिद् आलापः.
आवाहविवाहाद्यभिलापसद्भावाद् इति. आवाहो दारिकाया दारकगृहागमनं. विवाहो दारकस्य दारिकागृहागमनं. आवाहः प्रवेशनकः. विवाहः परिणयनम् इत्य् अपरे. आदिशब्देन रक्तचित्तानाम् आलापः.
(इव्.78च्द्, 79अब्) विषमेणान्यायेनेति. [तिब्. 70ब्] उद्देशनिर्देशरूपौ पर्यायौ.
तथा हीति विस्तरः. यस्मात् पंचानां निवरणानाम् अधिकारेण. कामच्छन्दं कामतृष्णास्वभावम् अधिकृत्योक्तं. सो ऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति. व्यापादं स्त्यानमिद्धम् औद्धत्यकौकृत्यं विचिकित्सां लोके प्रहाय तीर्णकांक्षो भवति. तीर्णविचिकित्सः. अकथंकथी कुशलेषु धर्मेषु. स पंच निवरणानि प्रहायेत्य् एवमादि. अतो ज्ञायते सर्वैव कामावचरी तृष्णाभिध्येति.
औदारिकदुश्चरितसंग्रहाद् इति. दशस्व् अकुशलेषु कर्मपथेषु यद् औदारिकम् दुश्चरितं. तत् संगृहीतं. न सर्वम्. एवं कुशलेषु. अतो न सर्वाभिध्या कर्मपथः. किं तर्हि. या परस्वे विषमस्पृहा. सा कर्मपथ इत्य् अपरेषाम् अभिप्रायः. मा भूच् चक्रवर्तिनां उत्तरकौरवाणां चाभिध्या कर्मपथ इति. न हि तत्र कामावचरी तृष्णा नास्ति. न च तत्राकुशलाः कर्मपथा इष्यंते.
सैषा साकल्येन कर्मफलार्यापवादिकेति. तथा ह्य् एषा पठ्यते. नास्ति दत्तम्. नास्तीष्टं. नास्ति हुतं. नास्ति सुचरितं. नास्ति दुश्चरितं. नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः. नास्त्य् अयं लोकः. नास्ति परलोकः. नास्ति माता. [तिब्. 71अ] नास्ति पिता. नास्ति सत्त्व
उपपादुकः. न संति लोके ऽर्हंत इति. तत्र नास्ति दत्तं. यावन् नास्ति दुष्चरितम् इति कर्मापवादिका. तथा नास्ति माता. नास्ति पितेति कर्मापवादिकैव. नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः. नास्त्य् अयं लोकः. नास्ति परलोकः. तथा नास्ति सत्त्व उपपादुक इति फलापवादिका. न संति लोके ऽर्हंत इत्य् आर्यापवादिका. आदिमात्रं तु श्लोके दर्शितम् इति.
नास्तिदृष्टिः शुभशुभ
इति उदाहरणमात्रत्वात्.
(इव्.79च्द्) कर्मणः पंथान इति. चेतनाख्यस्य कर्मणः पंथानः. कथम् इत्य् आह. तत्संप्रयोगिणी हि चेतना. अभिध्यादिसंप्रयोगिणी तेषाम् अभिध्यादीनां वाहेन गत्या वहति. गच्छतीत्य् अर्थः. तद्वशेन तथाभिसंस्करणात्. यस्माद् अभिध्यादीनां यथाक्रमं सक्तिप्रतिकूलमिथ्यानितीरणाकाराणां ( अभिध्-क्-व्य् 410 ) वशेन. तदनुरूपा चेतनाभिसंस्करोति. चेतयत इत्य् अर्थः. अतस् तेषां वाहेन वहति. कर्म च. कायवाक्कर्मस्वभावत्वात्. कर्मणश् च चेतनाख्यस्य पंथान इति कर्मपथाः. तत्समुत्थानचेतनायाः [तिब्. 71ब्] कायवाक्कर्मसमुत्थानचेतनायाः. तान् अधिष्ठाय तान् प्राणातिपातादीन् अधिष्ठाय प्रवृत्तेः. असरूपाणाम् अप्य् एकशेषसिद्धेर् इति. शब्दसरूपाणाम् अर्थसरूपाणां वा एकशेष इष्यते. यथा वृक्षश् च वृक्षश् च वृक्षौ. वक्रष् च कुटिलश् च वक्राव् इति. इह तु कर्म च कर्मपथाश् चेति न कर्मशब्दस्य कर्मपथशब्दस्य च सारूप्यं शब्दतः नाप्य् अर्थतः. कर्मार्थस्य कर्मपथार्थस्य च भिन्नत्वाद् एकशेषो न प्राप्नोति. यस्मात् त्व् असरूपाणां साकल्येनैकदेशेन तु सरूपाणाम् एकशेषः सिध्यति. इष्यत इत्य् अर्थः. तद्यथा गुणो यङ्लुकोर् इति. यङ् च यङ्लुक् यङ्लुकौ. तयोर् इति. न शक्यते वक्तुं. यङ् च लुक् च यङ्लुकाव् इति अयं लुको ऽनिष्टत्वात्. एकदेशसारूप्यात् तु. यङो यङ्लुगेकदेशस्य च यङ् इति सारूप्यात् सिध्यत्य् एकशेषो यङ्लुकोर् इति. अतो ज्ञापकाद् अयम् अपि सिध्यति. कर्म च कर्मपथाश् च कर्मपथा इति. पश्चात् पुनः सरूपैकशेषः. कर्मपथाश् चाभिध्यः कर्मपथाश् च प्राणातिपातादय इति कर्मपथाः. अथ वैवं योजना. कर्मणः पंथानः कर्मपथाः. कर्म च ते कर्मपथाश् च कर्मकर्मपथाः. कर्मपथाश् चाभिध्यादयः. कर्मकर्मपथाश् च प्राणातिपातादयः. [तिब्. 72अ] कर्मपथा इति. एवम् अनभिध्यादय इति विस्तरः. कुशला अपि कर्मपथा एवम् एव योज्याः. अनभिध्यादयो हि कर्मणः पंथान एव. प्राणातिपातविरत्यादयश् च कर्म च कर्मणश् च पंथान इति.
यस्मात् तदर्थ इति विस्तरः यस्मान् मौलकर्मपथार्थं तेषं तत्प्रयोगाणां प्रवृत्तिः. यस्माच् च मौलकर्मपथमूलिका तेषां तत्पृष्ठानां प्रवृत्तिः. अतो न तानि कर्मपथाः. यद्य् अपि कर्मपथो ऽपि कर्मपथस्य प्रयोग उक्तः. स तु मौलत्वात् कर्मपथः. न तु प्रयोगपृष्ठभूतत्वाद् इति. यथौदारिकसंग्रहाद् इत्य् उक्तं प्राग् इति.
तदौदारिकसंग्रहाद् दशकर्मपथा उक्ता
इति वचनात्. यानि प्रयोगपृष्ठानि. तानि न संगृहीतानि. येषां चेति विस्तरः. येषां मौलानाम् उत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानाम् उत्कर्षाप्कर्षौ लोके भवतः. न तु प्रयोगपृष्ठानां. अतस् त एव कर्मपथाः. तेषां चोत्कर्षापकर्षेण तदुत्कर्षापकर्षं वक्ष्यति.
सर्वे ऽधिपतिनिष्यन्दविपाकफलदामता
इत्य् अत्र. अतो न तानि प्रयोगपृष्ठानि कर्मपथाः.
तेषां ते कथं कर्मपथा इति. न हि तेषाम् अभिध्यादिभ्यो ऽन्यन् मनस्कर्मास्ति चेतना. यस्य कर्मणस् ते ऽभिध्यादयः पंथान इति कर्मपथाः स्युः. [तिब्. 72ब्] त एव प्रष्टव्या इति. तैर् एव परिहारो वक्तव्यः. य एवं मन्यंते. अपि तु शक्यम् इति विस्तरः. स्वमतेन तत्पक्षं समर्थयति. इतरेतरावाहनाद् वेति. किं. ते ऽभिध्यादयः कर्मपथा इति प्रकृतं. अभिध्या व्यापादमिथ्यादृष्टी आवाहयति. ते च ताम् इति. कर्म च ते. कर्मणश् चैषाम् एकतरस्य पन्थान इति कर्मपथाः.
(इव्.80, 81) मिथ्यादृष्ट्या कुशलमूलसमुच्छेद इत्य् एतम् अर्थं वक्तुकाम उपोद्घातं ब्रवीति. सर्व एते ऽकुशलानाम् इति विस्तरः. अधिमात्रपरिपूर्णयेति. अधिमात्राधिमात्रयेत्य् अर्थः. किं तर्हि शास्त्र उक्तम् इति. यदि मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो नाकुशलमूलैः. यत् तच् छास्त्र उक्तं. यैर् अकुशलमूलैः कुशलमूलानि समुच्छिनत्तीत्यादि. तानि हि लोभादिस्वभावानि. न मिथ्यादृष्टिस्वभावानीत्य् अर्थः. अकुशलमूलाध्याहृतत्वाद् इति विस्तरः. अकुशलमूलैर् लोभादिभिर् अधिमात्रैर् मिथ्यादृष्टिर् अध्याहृतापनीता. तस्मात्. अकुशलमूलाध्याहृतत्वान् मिथ्यादृष्टेः. तेष्व् एव तत्कर्मोपदेशः. तेष्व् एवाकुशलमूलेषु. मिथ्यादृष्टेः कुशलमूलसमुच्छेदकं यत् कर्म. तस्योपदेशः [तिब्. 73अ].

प्रज्ञप्तिभाष्यं तर्हि कथं नीयते. यदि कामावचराणि कुशलमूलानि समुच्छिद्यंते. रूपारूप्यावचरैर् असमन्वागतत्वाद् इति वर्ण्यंते. तत्प्राप्तिदूरीकरंअम् इति. रूपारूप्यावचराणां प्राप्तेर् दूरीकरणम् अभिप्रेत्य तस्य पुद्गलस्य. एतद् उक्तं त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति. कथं च पुनस् तत्प्राप्तिदूरीकरणं. संततेस् तदभाजनत्वापादनात्. यस्माद् असौ तत्संततिः पूर्वं भाजनभूता तत्प्राप्तीनां. कुशलमूलसमुच्छेदाद् इदानीं तत्प्राप्तीनाम् अभाजनम् आपादितेति. अतस् तत्प्राप्तिर् दूरीकृता भवति.
प्रायोगिकेभ्यः पूर्वं परिहीणत्वाद् इति. श्रुतचिंताभावनामयेभ्यः प्रायोगिकेभ्यः पूर्वम् एवासौ मृदुमृद्व्यवस्थायां तेभ्यः परिहीणः. तदैव तस्य प्राप्तिच्छेद इत्य् अर्थः.
आनंतर्यविमुक्तिमार्गस्थानीये इति. हेत्वपवादिनी आनंतर्यमार्गस्थानीया. फलापवादिनी विमुक्तिमार्गस्थानीया. तद् उक्तं भवति. उभे अप्य् एते हेतुफलापवादिन्यौ मिथ्यादृष्टी कुशलसमुच्छेदे व्याप्रियेते. नैकैवेति.
अपरः पक्षः सास्रवालंबनयैवेति. दुःखसमुदयालंबनया. नानास्रवालंबनया ऽनिरोधमार्गालंबनयेत्य् [तिब्. 73ब्] अर्थः. सभागधात्वालंबनयैव ( अभिध्-क्-व्य् 412 ) चेति. कामधात्वालंबनयैवेत्य् अर्थः. न विसभागधात्वालंबनया न रूपारूप्यधात्वालंबनया. कुशलमूलानि समुच्छिद्यंत इत्य् अधिकृतं कस्माद् इत्य् आह. संप्रयोगमात्रानुशायित्वेन दुर्बलत्वाद् इति. अनास्रवालंबना विसभागधात्वालंबना च या मिथ्यादृष्टिः. सा संप्रयोगमात्रेण संप्रयुक्तेषु धर्मेष्व् अनुशेते नालंबनतः. तस्माद् असौ दुर्बला भवति. अतो न तया समुच्छिद्यंते.
एवं तु वर्णयंति वैभाषिकाः. सर्वयेति. या च हेतुम् अपवदते या च फलं. या च सभागं धातुम् आलंबते या च विसभागं. या च सास्रवं या चानास्रवम् आलंबते. सर्वयैव तया समुच्छिद्यंते.
दर्शनप्रहातव्या इवेति. यथा दुःखादिदर्शनहेयाः क्लेशा नव प्रकारा अपि दुःखादिसत्यदर्शनात् सकृत् प्रहीयंते. तद्वन् नव प्रकाराण्य् अपि कुशलमूलानि सकृत् समुच्छिद्यंत इत्य् एते.
भावनाहेयक्लेशवद् इति. यथा नवप्रकारेण मार्गेण नवप्रकारः क्लेशः प्रहीयते. मृदुमृदुना मार्गेण अधिमात्राधिमात्रक्लेशप्रकारः प्रहीयते. यावद् [तिब्. 74अ] अधिमात्राधिमात्रेण मृदुमृदुः. एवं नवप्रकारयापि मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यंते. ऋदुमृद्व्या मिथ्यादृष्ट्या अधिमात्राधिमात्रः कुशलमूलप्रकारः समुच्छिद्यते. यावद् अधिमात्राधिमात्रया मृदुमृदुः कुशलमूलप्रकार इति. एवम् अयं ग्रंथः परिपालितो भवति. यदि भावनाहेयक्लेशवद् यथोक्तं तानि समुच्छिद्यंते. अणुसहगतानि मृदुमृदूनि. यैर् अकुशलमूलैः कुशलमूलानि समुच्छिनत्तीति. अधिमात्राधिमात्रैर् अकुशलमूलैः कुशलमूलसमुच्छेद उक्तः. न मृदुमृद्वादिभिर् इत्य् अभिप्रायः. यदि क्रमशः समुच्छिद्यंते ऽस्य तर्हीत्यादि. कथं. समाप्तिम् एतत् संधायोक्तम् इति. कुशलमूलसमुच्छेदसमाप्तिं संधाय कतमान्य् अधिमात्राणीति विस्तरेण एतद् उक्तं. मृदुमृद्वादिसमुच्छेदस् त्व् अनुक्तो ऽपि ग्रहीतव्यः. तस्मात् समाप्तिम् एव संधायैतद् उक्तं. तैर् निरवशेषच्छेदात्. यस्मात् तैर् नवभिर् मिथ्यादृष्टिप्रकारैः कुशलमूलानां निरवशेषच्छेदो भवति. एको ऽपि हि प्रकारस् तेषाम् असमुच्छिन्न इति. मृदुमृदुनवमः प्रकारः सर्वेषां नवानाम् अपि प्रकाराणां पुनरुत्पत्तौ हेतुः स्याद् इति. अतः समाप्तिम् एतत् संधायोक्तं.
उभयेनेति. व्युत्थानेन चाव्युत्थानेन च.
तत्त्यागात् [तिब्. 74ब्] तस्य त्याग इति. यो मृदुमृदुना चित्तेन संवरः समात्त आसीत्. तस्य मृदुमृदोश् चित्तस्य मृदुमृदुकुशलमूलसंप्रयुक्तस्य ( अभिध्-क्-व्य् 413 ) त्यागे समुच्छेदे तस्य संवरस्य त्यागो भवति. एवं यावद् यो ऽधिमात्राधिमात्रेण चित्तेन समात्तः संवरः. तत्त्यागात् तस्य त्याग इति.
कर्मफले प्रत्यक्षत्वाद् इति. अचिरोपपन्नस्य देवपुत्रस्य त्रीणि चित्तानि समुदाचरंति. कुतो ऽहं च्युतः. कुत्रोपपन्नः. केन कर्मणेत्य् एवं कर्मफलप्रत्यक्षत्वान् न देवेषु कुशलमूलानि समुच्छिद्यंते. जंबूद्वीप एवेति. तत्र विशेषेण तार्किकत्वाद् इत्य् अभिप्रायः. सर्वाल्पैर् अष्टाभिर् इन्द्रियैः समन्वागतः पंचभिर् वेदनेन्द्रियैः कायजीवितमनैन्द्रियैश् च. समुच्छिन्नकुशलमूल एव. तस्य हि श्रद्धादीनि समुच्छिन्नानि. पृथग्जनत्वाच् च नाज्ञास्यामीन्द्रियादीनि संति. चक्षुरादीन्य् अपि न संति. वैकल्ययोगे. क्रममरणावस्थायां वा. एवं पौर्वविदेहको गौदानीयक इति. अतिदेशाद् अस्त्य् अनयोर् अपि कुशलमूलसमुच्छेद इति दर्शयति.
छिनत्ति स्त्री पुमान्
इति. स्त्री पुमांश् चेति चशब्दो लुप्तनिर्दिष्टः. यः स्त्रीन्द्रियेण समन्वागतो नियतम् असाव् अष्टाभिर् इन्द्रियैः समन्वागतः. चतुर्भिर् वेदनेन्द्रियैस् त्रिभिश् च कायजीवितमनैन्द्रियैः [तिब्. 75अ] स्त्रीन्द्रियेणाष्टमेन. श्रद्धादीनि समुच्छिन्नकुशलमूलावस्थायां व्यभिचार्यंत इत्य् अभिप्रायः. अयम् एव चात्रार्थो विरुध्यते. चक्षुरादीन्य् अपि व्यभिचार्यंते पूर्ववत्.
तेषाम् अपीति. तेषाम् अपि समुच्छेत्तॄणाम् उक्तानां. तृष्णाचरितो न समुच्छिनत्ति. दृढगूढपापाशयत्वाद् इति. दृढो गूढः पापश् चाशयो ऽभिप्रायो ऽस्येति समासः. दृढः स्थिरः. गूढः प्रच्छन्नः. पापो ऽकल्याणः. तृष्णाचरितपक्षत्वाद् इति. तृष्णाचरितजातीयत्वाद् इत्य् अर्थः. यथा तृष्णाचरितश् चलाशयः. तद्वत् ते षण्ढादय इति. आपायिकवच् च. यथापायिकाः क्लिष्टाक्लिष्टयोः प्रज्ञयोर् अदृढत्वान् न कुशलमूलानि समुच्छिन्दंति. एवं षण्धादयः.
प्रतिसंधितानीति. प्रतिसंधिकृतानि प्रतिसंधितानि. प्रातिपदिकधातुः. प्रतिसंहितानीत्य् अपरे पठंति. आरोग्यबललाभवद् इति. यथारोग्यं पूर्वं भवति. क्रमेण तु बललाभो भवति. तद्वत्.

मूल पाठ: Sphuṭārthā abhidharmakośavyākhyā · Edition: Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936. · Data entry Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc