स्पन्दकारिका (टीका सहित) · अध्याय 3
* [<स्पन्दकारिकानिर्णय>
* इह शिवो भूत्वा शिवं यजेत् इति यद् उद्घोष्यते तत्र ध्यायिनश् चेतसि संवेदने तस्येति न सावस्था न या शिवः इति प्रतिपादितशिवस्वभावस्य ध्येयस्य अन्यस्य वा कस्यचित् तत्तत्सिद्धिहेतोर् मन्त्रदेवताविशेषस्य अयम् एवोदयः प्रकटीभावः या साधकस्य ध्यातुराचार्यादेः ।
* तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः ॥ व्स्प्क्च्_2.6-7:1
* इति प्रतिपादितरूपा तदात्मतासमापत्तिः शिवैक्यावेशो न तु पञ्चवक्त्रादेर्व्यतिरिक्तस्याकारस्य दर्शनं न तु निश्चयमात्रेण तदात्मतासमापत्तिः अपि तु इच्छतो ऽविकल्पविश्वाहंतात्मकशिवैक्यरूपेच्छापरामर्शाधिरूढस्य ॥ व्स्प्क्च्_2.6-7:2
* एतद् उक्तं भवति अहमेव तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितो विश्वशरीरश् चिदानन्दघनः शिव इति संकल्पो यस्याविकल्पशेषीभूतत्वेन फलति तस्य ध्येयमन्त्रदेवतादि किं न नाम अभिमुखीभवति सर्वस्यैतदद्वयप्रथालग्नत्वात् ॥ व्स्प्क्च्_2.6-7:3
* यथोक्तमस्मत्परमेष्ठिपादैः ।
* साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे ।
* किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिध्यति ॥ व्स्प्क्च्_2.6-7:4
* इति ॥ व्स्प्क्च्_2.6-7:5
* इयमेव च समापत्तिः परमाद्वयरूपस्यामृतस्य प्राप्तिः अन्यस्मिंस् त्व् अमृते कतिपयकालशरीरदार्ढ्यदायिनि प्राप्तेऽपि साधकैर्मरणमवश्यमवाप्यत एवेत्य् एवकाराशयः ॥ व्स्प्क्च्_2.6-7:6
* एवं सर्वत्रानेनैवाशयेन श्रीस्वच्छन्दे स्थूलदृष्ट्यामृतप्राप्तिप्रकरणे ।
* नैव चामृतयोगेन कालमृत्युजयो भवेत् ॥ व्स्प्क्च्_2.6-7:7
* इत्युक्त्योपसंहृत्य तात्त्विकस् तत्प्राप्तिप्रकारः ।
* अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते ॥ व्स्प्क्च्_2.6-7:8
* इत्यादिना ॥ व्स्प्क्च्_2.6-7:9
* सर्वं शिवशक्तिमयं स्मरेत् ॥ व्स्प्क्च्_2.6-7:10
* इति मध्येन ।
* जीवन्न् एव विमुक्तो ऽसौ यस्येयं भावना सदा ।
* यः शिवं भावयेन् नित्यं न कालः कलयेत्तु तम् ।
* योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा ।
* स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् ।
* स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत् सदा ॥ व्स्प्क्च्_2.6-7:11
* इत्यनेन सहजसंदर्भेण सप्रशंसं पश्चादुपदिष्टः ॥ व्स्प्क्च्_2.6-7:12
* अयमेवात्मनो ग्रहो ज्ञानं यदुच्यते आत्मा ज्ञातव्य इति तत्रेदम् एव सर्वज्ञसर्वकर्तृस्वतन्त्रशिवस्वरूपतया प्रत्यभिज्ञानम् आत्मनो ज्ञानं न तु ।
* पुरुष एवेदं सर्वम् ॥ व्स्प्क्च्_2.6-7:13
* इति श्रुत्यन्तविदुक्तम् ।
* त आत्मोपासकाः सर्वे न गच्छन्ति परं पदम् ॥ व्स्प्क्च्_2.6-7:14
* इत्याम्नायोक्तेः ॥ व्स्प्क्च्_2.6-7:15
* तथा दीक्षावसरे योजनिकाद्यर्थमयमेव शिष्यात्मनोऽनुग्रहः इमामेव समापत्तिं विद्वानाचार्यः शिष्यात्मानं शिवे योजयन्नाचार्यो भवतीत्यर्थः ॥ व्स्प्क्च्_2.6-7:16
* इयं स्वप्रत्ययसिद्धा पुत्रकादेः शिवात्मनः सद्भावस्य पारमार्थिकस्वरूपस्य दायिनी निर्वाणदीक्षा ॥ व्स्प्क्च्_2.6-7:17
* यथोक्तम् ।
* एवं यो वेद तत्त्वेन तस्य निर्वाणदायिनी ।
* दीक्षा भवत्यसंदिग्धा तिलाज्याहुतिवर्जिता ॥ व्स्प्क्च्_2.6-7:18
* इति ॥ व्स्प्क्च्_2.6-7:19
* हौत्री दीक्षापि दीक्षैव तत्र मा भूत् कस्यचिद् अनाश्वास इत्याशयेनात्रैवकारो न कृतः श्रीमहागुरुप्रवरेणेति शिवम् ॥ व्स्प्क्च्_2.6-7:20]
स्पन्दकारिका, तृतीयो निःष्यन्दः
यथेच्छाभ्यर्थितो धाता जाग्रतो ऽर्थान् हृदि स्थितान् ।
सोमसूर्योदयं कृत्वा सम्पादयति देहिनः
तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् ।
नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत्
* [<स्पन्दकारिकानिर्णय>
* धत्ते सर्वमात्मनीति धाता शंकरात्मा स्वभावः स यथा जाग्रतः जागरायामभिव्यक्तस्वस्वातन्त्र्यस्य देहिनो देहभूमिकामेव प्रकटीभूतपिण्डस्थज्ञानस्य योगिनः सम्बन्धिन्येच्छयाभ्यर्थितो ऽन्तर्मुखस्वरूपविमर्शबलेन प्रसादितो हृदि चेतसि स्थितानर्थानिति बिन्दुनादादिज्ञानपुरः क्षोभप्रतिभाचालनबोधस्तोभज्ञानसंचारादिप्रयोजनानि सम्पादयति ॥ व्स्प्क्च्_3.1-2:1
* कथं सोमसूर्ययोर् ज्ञानक्रियाशक्त्योर् उदयं कृत्वा ज्ञानशक्त्या भास्यमानं हि तत्तत्क्रियाशक्त्योन्मील्यते ॥ व्स्प्क्च्_3.1-2:2
* समावेशोन्मिषत्प्रतिभात्मकमूलावष्टम्भयुक्तिस्फारितज्ञानक्रियाव्याप्तिसारसव्येतरमरीचिविस्फारणक्रमेण तत्तद्वेधसंक्रमणादि सम्पादयति योगिशरीरानुप्रविष्टः परमेश्वरः ॥ व्स्प्क्च्_3.1-2:3
* यथा चैवं तथा ।
* अनागतायां निद्रायां विनष्टे बाह्यगोचरे ।
* सावस्था मनसा गम्या परा देवी प्रकाशते ॥ व्स्प्क्च्_3.1-2:4
* इति ॥ व्स्प्क्च्_3.1-2:5
* पीनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे ।
* प्रविश्य हृदये ध्यायन् स्वप्नस्वातन्त्र्यम् आप्नुयात् ॥ व्स्प्क्च्_3.1-2:6
* इति सम्प्रदायस्थित्या वमनग्राससक्ततदुभयविसर्गारणिचितिशक्तिपरामर्शमुखेन नित्यं प्रणयम् अनतिक्रामतो भगवत्प्रार्थनापरस्य योगनिद्रारूढस्य स्फुटतरम् अनाच्छादितरूपतया मध्ये सौषुम्नधामनि स्थितो धाता स्वप्ने ऽप्यभीष्टान् एवाणवशाक्तशाम्भवसमावेशादीन् अन्यान् अपि समावेशाभ्यासरसोन्मृष्टमतिमुकुरस्य जिज्ञासितान् अर्थान् अवश्यं प्रकटीकरोति नास्य योगिनः स्वप्नसुषुप्तयोर् व्यामोहो भवतीत्यर्थः ॥ व्स्प्क्च्_3.1-2:7
* स्वप्नेन सौषुप्तम् अप्युपलक्षितम् ॥ व्स्प्क्च्_3.1-2:8
* अत्राभीष्टार्थप्रकाशे आवृत्त्या अयमेव हेतुः प्रणयस्य प्रार्थनाया अन्तर्मुखस्वरूपपरिशीलनोपासासंपाद्यस्य मायाकालुष्योपशमलक्षणस्य प्रसादस्य भगवतानतिक्रमात् ॥ व्स्प्क्च्_3.1-2:9
* परमेश्वरो हि चिदात्मा यद्य् अन्तर्मुखोचितसेवाक्रमेणार्थ्यते तत् तत् संपादयत एव जाग्रतः इति परतत्त्वे जागरूकस्य जागरावस्थास्थस्य चेति श्लेषोक्त्या व्याख्येयम् ॥ व्स्प्क्च्_3.1-2:10
* यदि पुनरेवं सावधानो न भवति तदा नास्य योगितेत्याह ॥ व्स्प्क्च्_3.1-2:11]
अन्यथा तु स्वतन्त्रा स्यात् सृष्टिस् तद्धर्मकत्वतः ।
सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये
* [<स्पन्दकारिकानिर्णय>
* यद्युक्तयुक्त्या नित्यं नाराध्यते धाता तदा स्वस्वरूपस्थित्यभावे सततं प्रत्यहं लौकिकस्येव चास्य योगिनो ऽपि जागरायां स्वप्ने च साधारणासाधारणार्थप्रकाशनतन्निश्चयनादिस्वभावा पारमेश्वरी सृष्टिः स्वतन्त्रा स्याल्लौकिकवद्योगिनम् अपि संसारावट एवासौ पातयेद् इत्यर्थः ॥ व्स्प्क्च्_3.3:1
* यथोक्तम् ।
* प्रवृत्तिर् भूतानामैश्वरी ।
* इति ॥ व्स्प्क्च्_3.3:2
* तद्धर्मकत्वतः इति स्वप्नजागरादिपदप्रकाशने भगवत्सृष्टेः स्वातन्त्र्यस्वभावाद् इत्यर्थः ॥ व्स्प्क्च्_3.3:3
* एवं स्वप्नसौषुप्तनिर्दलनोपायं स्वप्रबुद्धतायै संसाध्य स्पन्दतत्त्वसमावेशोपायं सुप्रबुद्धस्य दृष्टान्तयुक्तिपूर्वकं निरूपयति जिज्ञासितार्थज्ञप्तिर् अपीत्थं भवतीत्यादिशति ॥ व्स्प्क्च्_3.3:4]
यथा ह्य् अर्थो ऽस्फुटो दृष्टः सावधानेऽपि चेतसि ।
भूयः स्फुटतरो भाति स्वबलोद्योगभावितः
तथा यत्परमार्थेन येन यत्र यथा स्थितम् ।
तत्तथा बलमाक्रम्य न चिरात् सम्प्रवर्तते
* [<स्पन्दकारिकानिर्णय>
* हिशब्दः किलशब्दार्थे ॥ व्स्प्क्च्_3.4-5:1
* सावधानेऽपि चेतसि दूरत्वादिदोषैर् यथा किलार्थो ऽस्फुटो दृष्टो भूयो ऽध्यक्षनिरीक्षणात्मना स्वबलोद्योगेन भावितो भृशम् आलोकितो न केवलं स्फुटो यावत् स्फुटतरोऽपि भाति तथा यत्स्पन्दतत्त्वात्मकं बलं येनानन्दघनतात्मना परमार्थेन यत्रेति शंकरात्मनि स्वस्वभावे यथेति अभेदव्याप्त्या स्थितं तत्कर्तृ तथेति स्वबलोद्योगेन अन्तर्मुखतदेकात्मतापरिशीलनप्रयत्नेन संभावितं शीघ्रमेव स्फुटतरत्वेन प्रवर्तते अभिव्यज्यते ॥ व्स्प्क्च्_3.4-5:2
* कथमाक्रम्याराधकस्य कल्पितदेहादिप्रमातृभूमिं स्वात्मन्येव निमग्नां कृत्वाथ च स्पन्दात्मकं बलमाक्रम्य स्थितस्य कल्पितदेहबुद्धिप्रमातृभूमिम् असकृद् उत्तेजयतः साधकस्य योगिनो यज्जिज्ञासितं निधानादि यत्र देशादौ येन हेमादिना परमार्थेन यथा संनिवेशेन स्थितं तथा तदचिराद् एव प्रकाशते ॥ व्स्प्क्च्_3.4-5:3
* कर्तृशक्त्यादिर् अप्यमुत एव बलात् प्रादुर्भवतीत्याह ॥ व्स्प्क्च्_3.4-5:4]
दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते ।
आच्छादयेद्बुभुक्षां च तथा यो ऽतिबुभुक्षितः
* [<स्पन्दकारिकानिर्णय>
* यथा क्षीणधातुर् ऋषिप्रायः सो ऽपि स्पन्दात्मकं बलम् आक्रम्य स्पन्दसमावेशबलेन प्राणप्रमातृभूमिम् असकृद् उत्तेज्य कार्ये ऽवश्यकर्तव्ये कर्मणि प्रवर्तते अशक्यम् अपि वस्तु तद्बलाक्रमणेनैव करोतीत्यर्थः ॥ व्स्प्क्च्_3.6:1
* तथा यो ऽप्यतिबुभुक्षितः सो ऽपि तद्बलाक्रान्त्या क्षुत्पिपासादि शमयति ॥ व्स्प्क्च्_3.6:2
* न हि चिद्घनां भूमिम् अनुप्रविष्टस्य द्वंद्वाभिभवः कश्चित् प्राणादिभुव एव तदाश्रयत्वात्तस्याश् चेह चिद्भूमौ निमग्नत्वात् ॥ व्स्प्क्च्_3.6:3
* यत एवम् उक्तसूत्रोपपत्तिक्रमानुसारेणेदृक् सिद्धिसमुदायो ऽस्माद् भवतीत्यतः ॥ व्स्प्क्च्_3.6:4]
अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः ।
तथा स्वात्मन्यधिष्ठानात् सर्वत्रैवं भविष्यति
* [<स्पन्दकारिकानिर्णय>
* अनेन स्वस्वभावात्मना स्पन्दतत्त्वेनाधिष्ठिते व्याप्ते देहे सति यथा तदवस्थोचितार्थानुभवकरणादिरूपाः सर्वज्ञतासर्वकर्तृतादयो धर्मा आविर्भवन्ति देहिनः तथा यद्ययं कूर्माङ्गसंकोचवत् सर्वोपसंहारेण महाविकासयुक्त्या वा स्वस्मिन्ननपायिन्यात्मनि चिद्रूपे अधिष्ठानं करोति उक्ताभिज्ञानप्रत्यभिज्ञाते तत्रैव समावेशस्थितिं बध्नाति तदा सर्वत्रेति शिवादौ क्षित्यन्ते एवम् इति शंकरतदुचितसर्वज्ञतासर्वकर्तृतादिरूपो भविष्यति ॥ व्स्प्क्च्_3.7:1
* इदम् अप्येतत्प्रसादेनेत्याह ॥ व्स्प्क्च्_3.7:2]
ग्लानिर् विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः ।
तदुन्मेषविलुप्तं चेत् कुतः सा स्यादहेतुका
* [<स्पन्दकारिकानिर्णय>
* म्ना सर्वकेशानामास्पदं ततश्च देहे या ग्लानिः अर्थाद्देहाभिमानिनः पुंसो यो हर्षक्षयोऽसौ विलुण्ठिका परसंविद्द्रविणापहारेण पारिमित्यदौर्गत्यप्रदा तस्याश्च ग्लानेर् अज्ञानतश् चिदानन्दघनस्वस्वरूपाप्रत्यभिज्ञानात् सृतिर् उद्भवो ऽवस्थितिश्च ॥ व्स्प्क्च्_3.8:1
* तदज्ञानं प्रदर्शयिष्यमाणस्वरूपेणोन्मेषरूपेण चेद्विलुप्तं निकृत्तं तदासौ ग्लानिरज्ञानात्मनो हेतोरभावात् कुतः स्यान्न भवेद् इत्यर्थः ॥ व्स्प्क्च्_3.8:2
* ग्लान्यभावे च देहे ऽवश्यम्भाविन्यो व्याध्यादिसंतापावस्था अपि यथा यथा योगिनो ऽपकृष्यन्ते तथा तथा हेम्न इवातिताप्यमानस्य कालिकापगमे स्वस्वरूपं देदीप्यत एव ॥ व्स्प्क्च्_3.8:3
* एवं च देहावस्थितस्यापि सर्वदा ग्लान्यभाव एव परयोगिनो विभूतिः ॥ व्स्प्क्च्_3.8:4
* यथोक्तं परमयोगिन्या मदालसया बालदारकान् प्रयोगीकुर्वत्या ।
* त्वं कञ्चुके शीर्यमाणे निजेऽस्मिन् देहे हेये मूढतां मा व्रजेथाः ।
* शुभाशुभैः कर्मभिर् देहमेतन्मदादिभिः कञ्चुकस्ते निबद्धः ॥ व्स्प्क्च्_3.8:5
* इति मितसिद्ध्यभिलाषिणो योगिनः समावेशाभ्यासरसेन देहं विध्यतो वलीपलितादिव्याधिजयो भवतीत्यपि भङ्ग्यानेन प्रतिपादितम् ॥ व्स्प्क्च्_3.8:6
* अथ यो ऽयम् उन्मेषः स किंस्वरूपः किम् उपायलभ्यश् चेत्य् आकाङ्क्षायाम् आह ॥ व्स्प्क्च्_3.8:7]
एकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत्
* [<स्पन्दकारिकानिर्णय>
* भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
* तदा तन्मध्यभावेन विकसत्यतिभावना ॥ व्स्प्क्च्_3.9:1
* इति नीत्या एकस्यां कस्यांचिद् आलम्बनविशेषनिभृतविकारात्मिकायां चिन्तायां प्रसक्तस्य एकाग्रीभूतस्य योगिनो यत इति तदेकाग्रताप्रकर्षोल्लसत्संवित्स्फारतस् तदालम्बननिमीलनाज्झटिति ग्रस्तसमस्तचिन्तासंततेर् अग्नीषोमाविभेदात्मनः स्पन्दतत्त्वादपर एवोदयश्चिच्चमत्कारात्मान्य एव लोकोत्तर उल्लासः स्यात् स तच्चमत्कारोन्मेषकत्वाद् एवोन्मेषो विज्ञातव्यो ऽन्वेषणीयः इत्थम् एव योगिना ज्ञातुं शक्यः ततश्च स्वयमिति इदंताविषयत्वाभावाद् अकृतकप्रयत्नात्मनावधानेनाहंतयैवोपेत्यात्मनि लक्षयेत् असाधारणेन चमत्कारात्मना प्रत्यभिजानीयात् ॥ व्स्प्क्च्_3.9:2
* यत एकस्यां विषयविचारादिचिन्तायां प्रसक्तस्य अपरस्याश् चिन्ताया झटित्युदयः स्यात् स चिन्ताद्वयव्यापक उन्मेषः इत्यन्ये ॥ व्स्प्क्च्_3.9:3
* इदानीं मितयोगिजनप्रयत्नसाध्यास्वपि तासु तासु सिद्धिषून्मेषणपरिशीलनमात्रोदितासु परयोगिनो हेयत्वम् एव मन्तव्यम् इत्यादिशति ॥ व्स्प्क्च्_3.9:4]
अतो बिन्दुर् अतो नादो रूपम् अस्माद् अतो रसः ।
प्रवर्तन्ते ऽचिरेणैव क्षोभकत्वेन देहिनः
* [<स्पन्दकारिकानिर्णय>
* अत उन्मेषाद् उपलक्ष्यमाणाद् अप्रलीयमानस्थूलसूक्ष्मादिदेहाहम्भावस्य योगिनो ऽचिरेणैव भ्रूमध्यादौ तारकाप्रकाशरूपो बिन्दुर् अशेषवेद्यसामान्यप्रकाशात्मा नादः सकलवाचकाविभेदिशब्दनरूपो ऽनाहतध्वनिरूपो रूपमन्धकारे ऽपि प्रकाशनं तेजः रसश्च रसनाग्रे लोकोत्तर आस्वादः क्षोभकत्वेन स्पन्दतत्त्वसमासादनविघ्नभूततावत्संतोषप्रदत्वेन वर्तन्ते ॥ व्स्प्क्च्_3.10:1
* यदाहुः ।
* ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ।
* इति ॥ व्स्प्क्च्_3.10:2
* एवमुन्मेषनिभालनोद्युक्तस्यापि देहात्ममानिनो योगिनो बिन्दुनादादयः क्षोभका भवन्तीत्युक्तम् ॥ व्स्प्क्च्_3.10:3
* इदानीमत्रोन्मेषात्मनि स्वभावे देहप्रमातृतां निमज्जयति तदाकारामपि परप्रमातृतां लभत इत्याह ॥ व्स्प्क्च्_3.10:4]
दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयम् एवावभोत्स्यते
* [<स्पन्दकारिकानिर्णय>
* यथा पश्यन्तीरूपाविकल्पकदिदृक्षावसरे दिदृक्षितो ऽर्थो ऽन्तरभेदेन स्फुरति तथैव स्वच्छन्दाद्यध्वप्रक्रियोक्तान् धरादिशिवान्तान्तर्भाविनो ऽशेषानर्थान् व्याप्येति सर्वम् अहम् इति सदाशिववत् स्वविकल्पानुसंधानपूर्वकम् अविकल्पान्तम् अभेदविमर्शान्तःक्रोडीकारेणाच्छाद्य यदावतिष्ठते अस्याः समापत्तेर्न विचलति तावद् अशेषवेद्यैकीकारेणोन्मिषत्तावद्वेद्यग्रासीकारिमहाप्रमातृतासमावेशचमत्काररूपं यत् फलं तत् स्वयम् एवावभोत्स्यते स्वसंविदेवानुभविष्यति किम् अत्र बहुना प्रतिपादितेन ॥ व्स्प्क्च्_3.11:1
* तस्योपलब्धिः सततम् इति प्रतिज्ञाय तदनन्तरम् उपपादितम् उपायजातं परिशीलयतः सततं स्पन्दतत्त्वसमाविष्टत्वं सुप्रबुद्धस्य भवतीति तदनन्तप्रमेयसंभिन्नत्वाद् उपदेश्यहृदये स्मारयन्न् अनुप्रवेशयुक्त्युपसंहारभङ्ग्याह ॥ व्स्प्क्च्_3.11:2]
प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोक्य गोचरम् ।
एकत्रारोपयेत्सर्वं ततो ऽन्येन न पीड्यते
* [<स्पन्दकारिकानिर्णय>
* सर्वदा जागरास्वप्नसुषुप्तसंविदादिमध्यान्तपदेषु प्रबुद्धस् तिष्ठेत् उन्मीलितस्पन्दतत्त्वावष्टम्भदिव्यदृष्टिः सुप्रबुद्धताम् एव भजेत ॥ व्स्प्क्च्_3.12:1
* कथं ज्ञानेन बहिर्मुखेनावभासेन सर्वं गोचरं नीलसुखादिरूपं विषयम् आलोक्य ।
* तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः ।
* इत्युपपादितदृशा विमृश्य एकत्र स्रष्टरि शंकरात्मनि स्वभावे सर्वम् आरोपयेत् निमीलनोन्मीलनदशयोस् तदभेदेन जानीयात् पूर्वापरकोट्यवष्टम्भदार्ढ्यान् मध्यभूमिम् अपि चिद्रसाश्यानतारूपतयैव पश्येद् इत्यर्थः ॥ व्स्प्क्च्_3.12:2
* एवं च न केनचिद् अन्येन व्यतिरिक्तेन वस्तुना बाध्यते सर्वस्मिन् स्वात्मनः स्वीकृतत्वात् ॥ व्स्प्क्च्_3.12:3
* यथोक्तं श्रीप्रत्यभिज्ञाकारेण ।
* यो ऽविकल्पम् इदम् अर्थम् अण्डजं पश्यतीश निखिलं भवद्वपुः ।
* स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ।
* इति ॥ व्स्प्क्च्_3.12:4
* ततो ऽन्येन न पीड्यते इति यदुक्तं तत्र को ऽसाव् अन्यः पीडकः कश् च पीड्यो यतः शिवात्मकम् एव विश्वमुक्तम् इत्याशङ्क्य पाशानां पशोश्च स्वरूपं निर्णेतुम् आह ॥ व्स्प्क्च्_3.12:5]
शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् ।
कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः
* [<स्पन्दकारिकानिर्णय>
* इह यो ऽयं प्रकाशात्मा स्वस्वभावः शांकर उक्तः असौ ।
* व्यवस्थितः करोत्येष विश्वकारणम् ईश्वरः ।
* सृष्टिं स्थितिं च संहारं तिरोधानमनुग्रहम् ॥ व्स्प्क्च्_3.13:1
* इति श्रीस्वच्छन्दशास्त्रदृष्ट्या निजशक्त्याश्लिष्टः सदा पञ्चविधकृत्यकारी स्वतन्त्रः स्पन्दललितेश्वरादिशब्दैर् आगमेषूद्घोष्यते ॥ व्स्प्क्च्_3.13:2
* स्वातन्त्र्यशक्तिर् एवास्य सनातनी पूर्णाहंतारूपा परा मत्स्योदरी महासत्ता स्फुरत्तोर्मिः सारं हृदयं भैरवी देवी शिखा इत्यादिभिर् असंख्यैः प्रकारैस् तत्र तत्र निरुच्यते ॥ व्स्प्क्च्_3.13:3
* पूर्णाहंतैव चास्यानुत्तरानाहतशक्तिसंपुटीकारस्वीकृतादिक्षान्तवर्णभट्टारिका तत एव स्वीकृतानन्तवाच्यवाकरूपषडध्वस्फारमयाशेषशक्तिचक्रक्रोडीकारान्तः कृतनिःशेषसर्गप्रलयादिपरम्पराप्यक्रमविमर्शरूपैव नित्योदितानुच्चार्यमहामन्त्रमयी सर्वजीवितभूता परा वाक् ॥ व्स्प्क्च्_3.13:4
* एषैव भगवत इयद्विश्ववैचित्र्यचलत्ताम् इव स्वात्मनि प्रथयन्ती स्पन्दते इत्यर्थानुगमात् स्पन्द इति इहोच्यते ॥ व्स्प्क्च्_3.13:5
* एवं चेयद् विश्वशक्तिखचितपराशक्तिसुन्दरस्य स्वात्मनः स्वरूपगोपनक्रीडया स्वात्मभित्ताव् एवांशांशिकया निर्भासनं भगवान् यावच्चिकीर्षति तावदेकैवाभिन्नाप्यसौ तदीया विमर्शशक्तिरिच्छात्वं प्रतिपद्य ज्ञानक्रियारूपतया स्थित्वा शिवशक्तिपरामर्शात्मकबीजयोनिभेदेन द्विधा भूत्वा वर्गभेदेन तत्कलाभेदेन च नवधा पञ्चाशद्धा च स्फुरन्ती तद्विमर्शसारैर् अघोरघोरघोरतरैः संवित्तिदेवतात्मभिः रूपैः प्रथमाना भगवतः पञ्चविधकृत्यकारितां निर्वहति ॥ व्स्प्क्च्_3.13:6
* यथोक्तं श्रीमालिनीविजयोत्तरे ।
* या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।
* इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ॥ व्स्प्क्च्_3.13:7
* सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु ।
* एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ॥ व्स्प्क्च्_3.13:8
* ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ।
* एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ॥ व्स्प्क्च्_3.13:9
* जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते ।
* एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम् ॥ व्स्प्क्च्_3.13:10
* अर्थोपाधिवशाद् याति चिन्तामणिरिवेश्वरी ।
* तत्र तावत्समापन्ना मातृभावं विभिद्यते ॥ व्स्प्क्च्_3.13:11
* द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी ।
* बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः ॥ व्स्प्क्च्_3.13:12
* कादयश्च स्मृता योनिर्नवधा वर्गभेदतः ।
* पृथग्वर्णविभेदेन शतार्धकिरणोज्ज्वला ॥ व्स्प्क्च्_3.13:13
* बीजमत्र शिवः शक्तिर् योनिर् इत्यभिधीयते ।
* वर्गाष्टकमिति ज्ञेयमघोराद्यमनुक्रमात् ॥ व्स्प्क्च्_3.13:14
* तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् ।
* शतार्धभेदभिन्ना च तत्संख्यानां वरानने ॥ व्स्प्क्च्_3.13:15
* रुद्राणां वाचकत्वेन कल्पिता परमेष्ठिना ।
* तद्वदेव च शक्तीनां तत्संख्यानामनुक्रमात् ॥ व्स्प्क्च्_3.13:16
* इत्यादि ॥ व्स्प्क्च्_3.13:17
* तथा ।
* विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् ।
* रुद्राणून्याः समालिङ्ग्य घोरतर्यो ऽपरास्तु ताः ॥ व्स्प्क्च्_3.13:18
* मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः ॥ व्स्प्क्च्_3.13:19
* मुक्तिमार्गनिरोधिन्यस्ताः स्युर् घोराः परापराः ॥ व्स्प्क्च्_3.13:20
* पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः ।
* पराः प्रकथितास् तज्ज्ञैर् अघोराः शिवशक्तयः ॥ व्स्प्क्च्_3.13:21
* इति ॥ व्स्प्क्च्_3.13:22
* एवं शब्दराशेः समुत्थितो वर्गनवकरूपो यो ब्राह्म्यादिदेवतावर्गः शिवसहितस्तस्य भोग्यतां पाश्यतां गतः सन्स एव शंकरात्मा स्वभावः पशुः स्मृतः आगमेषु तथोक्तः ॥ व्स्प्क्च्_3.13:23
* ननु कथं भोक्ता महेश्वर इमामवस्थां प्राप्तः इत्याशङ्काशान्त्यै विशेषणद्वारेण हेतुमाह कलाविलुप्तविभव इति ॥ व्स्प्क्च्_3.13:24
* कलयति बहिः क्षिपति पारिमित्येन परिच्छिनत्तीति कला मायाशक्तिः तया विलुप्तविभवः स्वमायया गूहितैश्वर्यः स्थित इत्यर्थः ॥ व्स्प्क्च्_3.13:25
* अथ च कलया किंचित्कर्तृत्वोपोद्बलनात्मना शक्त्या तदुपलक्षितेन कलाविद्याकालनियतिरागात्मना कञ्चुकेन विलुप्तविभवः स्थगितपूर्णत्वकर्तृत्वादिधर्मः ॥ व्स्प्क्च्_3.13:26
* भवत्वेवं भोग्यतां तु कथमसौ शक्तिवर्गस्य गतः इत्यत्रैतद् एवोत्तरम् ॥ व्स्प्क्च्_3.13:27
* कलाभिर् अकारादिवर्गाधिष्ठायिकाभिर् ब्राह्म्यादिभिस् तद्वर्णभट्टारकाधिष्ठातृभूताभिश् च श्रीमालिनीविजयोक्तदेवतारूपाभिः कलाभिर् अकारादिवर्णैर् विलुप्तविभवः संकुचितोऽस्मि अपूर्णो ऽस्मि करवाणि किंचिदिदम् उपाददे इदं जहामि इत्यादिविचित्रविकल्पकाविकल्पकप्रतिपत्तिकदम्बकान्तरनुप्रविष्टस्थूलसूक्ष्मशब्दानुवेधकदर्थितो हर्षशोकादिरूपतां नेनीयमान इव क्षणम् अपि स्वरूपस्थितिं न लभते यतः अतोऽसाव् उक्तरूपः शक्तिवर्गेण भुज्यमानः पशुर् उक्तः ॥ व्स्प्क्च्_3.13:28
* कलया अख्यात्यात्मनांशेन विलुप्तविभवः संकुचित इव न तु तत्त्वतः शिवात्मा स्वभावो ऽस्य क्वापि गतः तदभावे हि स एव न स्फुरेत् ॥ व्स्प्क्च्_3.13:29
* तथावभासमानैरेव कलाभिः संकुचितैः शब्दैर् ज्ञानैश् च विलुप्तविभवस् तथारूपम् आत्मानं न विम्रष्टुं क्षम इत्यर्थः ॥ व्स्प्क्च्_3.13:30
* अधुना पशुः संकुचितदृक्शक्तिबाध्यः पाश्यश् चेत्येतद् विभजति ॥ व्स्प्क्च्_3.13:31]
परामृतरसापायस् तस्य यः प्रत्ययोद्भवः ।
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः
* [<स्पन्दकारिकानिर्णय>
* तस्य पशोर्यः प्रत्ययानां लौकिकशास्त्रीयविकल्पानां तदधिवासितानां भिन्नार्थज्ञानानां विकल्पानाम् अप्युद्भवः विनाशाघ्रात उत्पादः स परस्यामृतरसस्य चिद्घनस्यानन्दप्रसरस्यापायो निमज्जनम् ॥ व्स्प्क्च्_3.14:1
* उदितेषु भिन्नार्थेषु प्रत्ययेषु चिद्भूमिः स्थिताप्य् अपरामृश्यमानत्वाद् अस्थितेव लक्ष्यते तत एवम् उक्तम् ॥ व्स्प्क्च्_3.14:2
* तेन च प्रत्ययोद्भवेनायम् अस्वतन्त्रताम् एति तद्वशः सम्पद्यते ॥ व्स्प्क्च्_3.14:3
* यदुक्तं श्रीशिवसूत्रेषु ज्ञानं बन्धः इति ॥ व्स्प्क्च्_3.14:4
* श्रीमद्व्यासमुनिनापि मातापितृमयो बाल्ये इति ॥ व्स्प्क्च्_3.14:5
* श्रीमदालसयापि ॥ व्स्प्क्च्_3.14:6
* तातेति किंचित्तनयेति किंचित् अम्बेति किंचिद्दयितेति किंचित् ।
* ममेति किंचिन् न ममेति किंचित् भौतं संघं बहुधा मा लपेथाः ॥ व्स्प्क्च्_3.14:7
* इति ॥ व्स्प्क्च्_3.14:8
* प्रत्ययस्योद्भवस्तन्मात्राणि तीव्रातीव्रभेदसामान्यवृत्तयो गोचरो यस्य तथाभूतो भिन्नवेद्यविषय इत्यर्थः ॥ व्स्प्क्च्_3.14:9
* अनेनेदमाह यावदियं भिन्नवेद्यप्रथा तावद् बद्ध एव यदा तूक्तोपदेशयुक्त्या सर्वम् आत्ममयम् एवाविचलप्रतिपत्त्या प्रतिपद्यते तदा जीवन्मुक्त इति ॥ व्स्प्क्च्_3.14:10
* यथोक्तम् इति वा यस्य संवित्तिः इत्यादि ॥ व्स्प्क्च्_3.14:11
* एवं च यत् पूर्वम् उक्तं तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः इत्यादि न तेन सह परामृतरसापायस् तस्य यः प्रत्ययोद्भवः इत्यस्य वैषम्यं किंचित् ॥ व्स्प्क्च्_3.14:12
* ननु यदि प्रत्ययोद्भवो ऽप्यस्य परामृतरसापायः तत्कथम् उक्तं शक्तिवर्गस्य भोग्यतां गत इत्याशङ्कां परिहरति ॥ व्स्प्क्च्_3.14:13]
स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः
* [<स्पन्दकारिकानिर्णय>
* चः शङ्कां द्योतयन् तत्परिहाररूपं प्रमेयान्तरं समुच्चिनोति ॥ व्स्प्क्च्_3.15:1
* अस्य पशोः स्वस्य शिवात्मनो रूपस्यावरणे भित्तिभूतत्वेन प्रथमानस्यापि सम्यगपरामर्शने तन्निमित्तं व्याख्यातरूपाः शक्तयः सततम् उत्थिताः यावद्धि परामृतरसात्मकस्वस्वरूपप्रत्यभिज्ञानम् अस्य न वृत्तं तावद् एताः स्वस्वरूपावरणायोद्यच्छन्त्येव ॥ व्स्प्क्च्_3.15:2
* यतोऽस्य यः प्रत्ययोद्भवो विकल्पकाविकल्पकज्ञानप्रसरः स शब्दानुवेधेन अहमिदं जानामि इत्यादिना सूक्ष्मान्तःशब्दानुरञ्जनेन स्थूलाभिलापसंसर्गेण च विना न भवति इति तिरश्चाम् अप्यसांकेतिकः निर्देशप्रख्यः स्वात्मनि च शिरोनिर्देशप्रख्यो ऽन्तरभ्युपगमरूपः शब्दनविमर्शो ऽस्त्येव अन्यथा बालस्य प्रथमसंकेतग्रहणं न घटेत अन्तरूहापोहात्मकविमर्शशून्यत्वात् ।
* स्थूलशब्दानुवेधमयस् तु विकल्पः सर्वस्य स्वानुभवसिद्धः ॥ व्स्प्क्च्_3.15:3
* श्लोकत्रयोक्तम् अर्थम् उपसंहरन्नियतः प्रमेयस्य सामान्यस्पन्दतत्त्वादभिन्नतां प्रागुक्ताम् अनुबध्नन् तत्प्रत्यभिज्ञानाप्रत्यभिज्ञानमयौ बन्धमोक्षौ इति लक्षयति ॥ व्स्प्क्च्_3.15:4]
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका
* [<स्पन्दकारिकानिर्णय>
* सेति श्लोकत्रयनिर्णीतत्वात् इयमिति प्रमेयपर्यन्तेन रूपेण स्फुरन्ती स्वस्वभावरूपस्य चिदात्मनः शिवस्य सम्बन्धिनी स्पन्दतत्त्वात्मिका पराभट्टारिकैव विश्ववैचित्र्यावस्थितिकारित्वात् क्रियाशक्तिः प्राङ्निर्णीतदृशा शिव एव गृहीतपशुभूमिके वर्तमाना प्राणपुर्यष्टकरूपम् अमुं कर्तृतात्मनाहंताविप्रुषा प्रोक्षितं कुर्वाणा तथारूपेणाप्रत्यभिज्ञाय स्वरूपावारकत्वाद् धानादानादिपरिक्लेशहेतुत्वाच्च बन्धयित्री भवति ॥ व्स्प्क्च्_3.16:1
* यदा तु स्वस्य शिवात्मनो रूपस्य यो मार्गः ।
* शक्त्यवस्थां प्रविष्टस्य निर्विभागेन भावना ।
* तदासौ शिवरूपी स्याच्छैवी मुखम् इहोच्यते ॥ व्स्प्क्च्_3.16:2
* इति श्रीविज्ञानभट्टारकोक्तनीत्या प्राप्त्युपायः पराशक्तिस्तदात्मतयासौ क्रियाशक्तिर्ज्ञायते योगिना यदा वा विकल्पकाविकल्पकप्रसरे ऽपि शिवस्वरूपस्य स्वात्मनो ऽंशभूतम् एवाशेषवेद्यम् अनेनेक्ष्यते तदास्यासौ परानन्दमयीं परां सिद्धिम् उपपादयति ॥ व्स्प्क्च्_3.16:3]
तन्मात्रोदयरूपेण मनोऽहम्बुद्धिवर्तिना ।
पुर्यष्टकेन संरुद्धस् तदुत्थं प्रत्ययोद्भवम्
भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः ।
संसृतिप्रलयस्यास्य कारणं सम्प्रचक्ष्महे
* [<स्पन्दकारिकानिर्णय>
* पुर्यष्टकोत्थितं भोगं भुङ्क्ते ॥ व्स्प्क्च्_3.17-18:1
* यत एव प्रत्ययेषु सुखादिप्रत्ययोद्भवः अत एवासौ प्रत्ययोद्भवात् पशुः परवशः शब्दानुवेधक्रमेण पदे पदे ब्राह्म्यादिदेवीभिर् आक्षिप्यमाणः न तु सुप्रबुद्धवत् स्वतन्त्रः तस्य पुर्यष्टकस्य भावादेव पुनःपुनरुद्बोधितविचित्रवासनः संसरेत् तत्तद्भोगोचितभोगायतनानि शरीराण्यर्जयित्वा गृह्णाति चोत्सृजति च ॥ व्स्प्क्च्_3.17-18:2
* यतश् चैवम् अतो ऽस्य पुर्यष्टकसंरुद्धस्य या संसृतिस् तस्या यः प्रकृष्टो लयः पुर्यष्टकात्मकमलोच्छेदेन विनाशः तस्य कारणं सम्यक् सुखोपायं प्रचक्ष्महे समनन्तरम् एव ब्रूमः तथा सम्प्रचक्ष्महे प्रकरणे ऽस्मिन् स्वयं प्रतिपादितवन्तः ॥ व्स्प्क्च्_3.17-18:3
* वर्तमानसामीप्ये वर्तमानवद् वा ॥ व्स्प्क्च्_3.17-18:4
* इति वर्तमानप्रयोगः ॥ व्स्प्क्च्_3.17-18:5
* एतत् प्रतिपादयन् आद्यसूत्रोक्तमर्थं निगमयति ॥ व्स्प्क्च्_3.17-18:6]
यदा त्व् एकत्र संरूढस् तदा तस्य लयोदयौ ।
नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत्
मूल पाठ: Spandakārikā with the commentary by Kṣemarāja · Edition: M. K. Shastri Srinagar: Kashmir Pratap Steam Press, 1925 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0