भाषा

ENहिગુ
ग्रंथ पाठ

स्पन्दकारिका (टीका सहित) · अध्याय 4

4.1

* [<स्पन्दकारिकानिर्णय>
* यदा पुनरयमुक्ताः परतत्त्वसमावेशोपदेशयुक्तीः परिशीलयन् एकत्र पूर्णाहंतात्मनि स्पन्दतत्त्वे सम्यगविचलत्वेन रूढः समाविष्टस् तन्मयो भवति तदा तस्येति पूर्वसूत्रनिर्दिष्टस्य पुर्यष्टकस्य तद्द्वारेणैव विश्वस्य निमीलनोन्मीलनसमावेशाभ्यां लयोदयौ नियच्छन् प्रथमसूत्रनिर्णीतदृशा एकस्माद् एव शंकरात्मनः स्वभावात् संहारं सर्गं च कुर्वन् भोक्तृताम् एति धरादिशिवान्तसमग्रभोग्यकवलनेन परमप्रमातृतां सतीम् एव प्रत्यभिज्ञानक्रमेणावलम्बेत ॥ व्स्प्क्च्_3.19:1
* ततश् च प्रथमसूत्रनिर्णीतस्य शक्तिचक्रस्य स्वमरीचिनिचयस्येश्वरो ऽधिपतिर् भवेत् ॥ व्स्प्क्च्_3.19:2
* अनेनैव च देहेन महेश्वरत्वम् अवाप्नोत्येवेति यावत् ॥ व्स्प्क्च्_3.19:3
* एवं चोपक्रमोपसंहारयोर् महार्थसंपुटीकारं दर्शयन् तत्सारतया समस्तशांकरोपनिषन्मूर्धन्यताम् अस्याविष्करोति शास्त्रस्य श्रीमान् वसुगुप्ताचार्यः इति शिवम् ॥ व्स्प्क्च्_3.19:4]
स्पन्दकारिका, चतुर्थो निःष्यन्दः
अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् ।
वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम्

4.2

* [<स्पन्दकारिकानिर्णय>
* तामसामान्यां भगवतीं गुरुं शैवी मुखम् इहोच्यते इति स्थित्या शिवधामप्राप्तिहेतुत्वाद् आचार्यरूपाम् ॥ व्स्प्क्च्_4.1:1
* अथ च गुरुं पश्यन्त्यादिक्रोडीकारात् महतीं भारतीं परां वाचम् तथा गुरोर् आचार्यस्य सम्बन्धिनीम् उपदेष्ट्रीं गिरं चित्रां लोकोत्तरचमत्काररूपां वन्दे सर्वोत्कृष्टत्वेन समाविशामि ॥ व्स्प्क्च्_4.1:2
* अथ च सर्वावस्थासु स्फुरद्रूपत्वाद् अभिवदन्तीम् उद्यन्तृताप्रयत्नेनाभिवादये स्वरूपविमर्शनिष्ठां तां समावेष्टुं संमुखीकरोमि ॥ व्स्प्क्च्_4.1:3
* कीदृशीम् अगाधो दुरुत्तरो यः संशयः पूर्णाहंतानिश्चयाभावात्मा विचित्रः शङ्काकलङ्कः स एव विततत्वेनाम्भोधिस् तस्य सम्यगुत्तरणे या तारिणी नौर् इव ताम् इत्युभयत्रापि योज्यम् ।
* तथा विचित्रार्थानि नानाचमत्कारप्रयोजनानि पदानि विश्रान्तयो यस्यां परस्यां वाचि तां विचित्राणि रम्यरचनानुप्रविष्टानि अर्थपदानि वाच्यवाचकानि यस्यां गुरुवाचि ताम् ॥ व्स्प्क्च्_4.1:4
* प्रसिद्धप्रभावस्वनामोदीरणात् सम्भावनाप्रत्ययेनार्थिनः प्रवर्तयन् गूहनीयतया महाफलताम् अस्य शास्त्रस्य निरूपयति शास्त्रकारः ॥ व्स्प्क्च्_4.1:5]
लब्ध्वाप्यलभ्यम् एतज्ज्ञानधनं हृद्गुहान्तकृतनिहितेः ।
वसुगुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य

मूल पाठ: Spandakārikā with the commentary by Kṣemarāja · Edition: M. K. Shastri Srinagar: Kashmir Pratap Steam Press, 1925 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc