स्पन्दकारिका (टीका सहित) · अध्याय 2
* [<स्पन्दकारिकानिर्णय>
* अयं शंकरात्मा स्वभावो यन् मम वक्ष्यति अभिव्यक्तं सत् यच् चिदानन्दघनम् अनुभूतपूर्वं स्वरूपं मां विमर्शयिष्यति तदवश्यमहं करिष्ये बहिर्मुखतां हित्वा तत्प्रवण एव भविष्यामि इति संकल्प्य निश्चित्य याम् अतिक्रोधाद्यवस्थास्व् अनुभूतचरीं चिदानन्दघनां स्पन्दात्मिकाम् अवस्थाम् अवलम्ब्य प्राप्यत्वेनाभिसंधाय तिष्ठति शमितविकल्पगतिम् अविकल्पाम् अवस्थाम् अविचलत्वेन भजते यो योगी तदीयां तामवस्थां समाश्रित्य चन्द्रसूर्यौ अपानः प्राणश् चोभाव् अपि हृदयभूमौ मिलित्वा युगपदेव सौषुम्नेऽध्वनि ब्रह्मनाड्याम् ऊर्ध्वमार्गेणोदानपथेनास्तमितः शाम्यतः कथं ब्रह्माण्डलक्षणं गोचरं हित्वा ब्रह्मबिलाधिष्ठातृब्रह्माधिष्ठितमण्डं मुक्त्वा ऊर्ध्वकवाटान्तां देहव्याप्तिं त्यक्त्वा तदा चोल्लङ्घितदेहव्याप्तिके ऽत एव प्रकर्षेण लीनाव् उक्तरूपौ शशिभास्करौ यत्र तस्मिन् महाव्योम्नि निःशेषवेद्योपशमरूपे परमाकाशे प्राप्ते ऽपि यः शिथिलप्रयत्नतया खेचर्याद्यात्मना गुणादिस्पन्दनिःष्यन्देन व्यामोहितत्वात् सौषुप्तपदवद् भवति सौषुप्तेन च सुप्तमप्य् उपलक्षितं तेन च स्वप्नसुषुप्तवत् यः शून्यादिभूमिम् एवाधितिष्ठति स योगी सम्यगनभिव्यक्तस्वस्वभावो मूढ इत्य् उच्यते ॥ व्स्प्क्च्_1.23-35:1
* यथोक्तं श्रीभट्टकल्लटेन ।
* यां स्पन्दात्मिकाम् अवस्थाम् अवलम्ब्य ।
* इति योगिनः ॥ व्स्प्क्च्_1.23-35:2
* इति च ।
* यस्य स्वस्वभावाभिव्यक्तिर् न सम्यक् वृत्ता स स्वप्नादिना मुह्यमानो ऽप्रबुद्धो निरुद्धः स्यात् ।
* इति ॥ व्स्प्क्च्_1.23-35:3
* यस्तु तत्रापि प्रयत्नपाटवाद् उद्यन्तृताबलात् क्षणमपि न शिथिलीभवति स तमसानभिभूतत्वात् चिदाकाशमयत्वेनैवावस्थितः प्रबुद्ध उच्यते अत एव सततोद्योगवतैव योगिना भवितव्यम् इत्यादिष्टं गुरुभिः इति शिवम् ॥ व्स्प्क्च्_1.23-35:4]
स्पन्दकारिका, द्वितीयो निःष्यन्दः
तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ।
प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम्
तत्रैव सम्प्रलीयन्ते शान्तरूपा निरञ्जनाः ।
सहाराधकचित्तेन तेनैते शिवधर्मिणः
* [<स्पन्दकारिकानिर्णय>
* तत् स्पन्दतत्त्वात्मकं बलं प्राणरूपं वीर्यमाक्रम्य अभेदेन आश्रयतयावष्टभ्य भगवन्तो ऽनन्तव्योमव्याप्यादयो मन्त्राः सर्वज्ञबलेन सर्वज्ञत्वादिसामर्थ्येन श्लाघमाना जृम्भमाणा अधिकाराय देहिनां प्रवर्तन्ते सृष्टिसंहारतिरोधानानुग्रहादि कुर्वन्तीत्यर्थः ॥ व्स्प्क्च्_2.1:1
* सर्वज्ञशब्दो भावप्रधानः सर्वकर्तृत्वाद्य् उपलक्षयति ॥ व्स्प्क्च्_2.1:2
* यथा देहिनां करणान्य् उपपादितदृशा तद्बलमाक्रम्य विषयप्रकाशादौ प्रवर्तन्ते इति दृष्टान्तः ॥ व्स्प्क्च्_2.1:3
* तथा निरञ्जनाः कृतकृत्यत्वान् निवृत्ताधिकारमलाः शान्तविशिष्टवाचकात्मस्वरूपास् तत्रैव स्पन्दात्मके बले सम्यगभेदापत्त्या प्रकर्षेणापुनरावृत्त्या लीयन्ते अधिकमलान्मुच्यन्ते आराधकचित्तेन उपासकलोकसंवेदनेन सह ॥ व्स्प्क्च्_2.1:4
* यथोक्तम् ।
* अनुगृह्याणुसंघातं याताः पदम् अनामयम् ॥ व्स्प्क्च्_2.1:5
* इति ॥ व्स्प्क्च्_2.1:6
* यतश्च तत एवोदितास्तद्बलेन विसृष्टास् तत्रैव लीयन्ते तेनैते मन्त्रमन्त्रेश्वरादयः शिवस्य परमेश्वरस्य सम्बन्धी धर्मः स्वभावो विद्यते येषां ते तथा सामान्यस्पन्दसारा इत्यर्थः ॥ व्स्प्क्च्_2.1:7
* ननु करणानां मन्त्राणां च तत् उदयादौ तुल्ये किमिति करणानि न सर्वज्ञादिरूपाणि ॥ व्स्प्क्च्_2.1:8
* उच्यते परमेश्वरो मायाशक्त्या शरीरकरणानि भेदमयानि निर्मिमीते विद्याशक्त्या त्व् आकाशीयविचित्रवाचकपरामर्शशरीरान् मन्त्रान् ॥ व्स्प्क्च्_2.1:9
* वाचकस्य मायापदे ऽपि ॥ व्स्प्क्च्_2.1:10
* घटो ऽयम् इत्यध्यवसा नामरूपातिरेकिणी ।
* परेशशक्तिरात्मेव भासते न त्व् इदंतया ॥ व्स्प्क्च्_2.1:11
* इति प्रत्यभिज्ञोक्तनीत्या प्रमातृभूम्यनतिक्रान्तेर् न शरीरपुर्यष्टकादिवद्बोधसंकोचकत्वम् अस्तीति युक्तमेवैषां सर्वज्ञत्वादि ॥ व्स्प्क्च्_2.1:12
* एतच् च ।
* भेदे त्व् एकरसे भाते ॥ व्स्प्क्च्_2.1:13
* इति श्रीप्रत्यभिज्ञाकारिकाटीकायां वितत्य दर्शितम् ॥ व्स्प्क्च्_2.1:14
* एवं विद्यापदावस्थितसृष्ट्यादिकार्यनन्तभट्टारकाद्यपेक्षयैतद् व्याख्येयम् ॥ व्स्प्क्च्_2.1:15
* तथा दीक्षादिप्रवृत्तानाम् आचार्यादीनां करणरूपाः सर्वे मन्त्रास् तत्स्पन्दतत्त्वरूपं बलम् आक्रम्य अनुप्राणकत्वेन अवष्टभ्य आचार्यादीनाम् एव सम्बन्धिनाराधकचित्तेन सह मोक्षभोगसाधनाद्यधिकाराय प्रवर्तन्ते तत्रैव शान्तवाचकशब्दात्मकशरीररूपा अत एव च निरञ्जनाः शुद्धाः सम्यक् प्रलीयन्ते विश्राम्यन्ति ॥ व्स्प्क्च्_2.1:16
* अत्र व्याख्याने सहाराधकचित्तेन इति पूर्वश्लोकेन योज्यम् ॥ व्स्प्क्च्_2.1:17
* एवं च मन्त्राणामुदयप्रलयकोटिव्यापि प्रवृत्ताव् अपि भित्तिभूतमिति अभिहितम् ॥ व्स्प्क्च्_2.1:18
* एवं च दशाष्टादशादिभेदेन भिन्ने शैवे मन्त्राणां स्पन्दतत्त्वसारतैवेत्युक्तं भवति ॥ व्स्प्क्च्_2.1:19
* एवं मन्त्रमन्त्रेश्वरादिरूपा शुद्धाभिमता सृष्टिः शिवस्वभावेति प्रतिपाद्याधुना अशुद्धाभिमतापि सा मायादिरूपा शिवस्वरूपैव इति उपपादयन् श्रीमतशास्त्रादिरहस्यदृष्टिम् अपि उपक्षिपति ॥ व्स्प्क्च्_2.1:20]
यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् ।
तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः
तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः ।
भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः
* [<स्पन्दकारिकानिर्णय>
* यतो जीवो ग्राहकः सर्वमयः शिववद् विश्वरूपः तेन हेतुना शब्देषु वाचकेषु अर्थेषु वाच्येषु चिन्तासु विकल्पज्ञानादिरूपासु आदिमध्यान्तरूपा सावस्था नास्ति या शिवो न भवति सर्वमेव शिवस्वरूपम् इत्यर्थः ॥ व्स्प्क्च्_2.3-4:1
* यतश् चैवमतो भोक्तैव चिदात्मा ग्राहको भोग्यभावेन देहनीलादिरूपेण सदा नित्यं सर्वत्र विचित्रतत्त्वभुवनादिपदे सम्यगनूनाधिकतया स्थितः न तु भोग्यं नाम किंचिद्भोक्तुर् भिन्नम् अस्ति ॥ व्स्प्क्च्_2.3-4:2
* जीव इत्युपक्रम्य शिव इत्युपसंहारेण जीवशिवयोर्वास्तवो न को ऽपि भेदः इति देहाद्यवस्थासु न कासुचिद् अप्यपूर्णमन्यता मन्तव्या अपि तु चिद्घनशिवस्वभावतैवेति भङ्ग्योपदिशति ॥ व्स्प्क्च्_2.3-4:3
* यथोक्तम् शरीरमपि ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति च ते सिध्यन्ति घटादिकम् इव तथाभिनिविश्य पश्यन्ति अर्चयन्ति च ते ऽपीति नास्त्यत्र विवादः इति श्रीप्रत्यभिज्ञाटीकायाम् ॥ व्स्प्क्च्_2.3-4:4
* भट्टश्रीवामनेनाप्युक्तम् ।
* आलम्ब्य संविदं यस्मात् संवेद्यं न स्वभावतः ।
* तस्मात्संविदितं सर्वमिति संविन्मयो भवेत् ॥ व्स्प्क्च्_2.3-4:5
* इति ॥ व्स्प्क्च्_2.3-4:6
* कस्मात् जीवः सर्वमयः इत्यत्र हेतुः सर्वभावानां समुद्भवाद् उत्पत्तिहेतुत्वात् अपादानभावप्रधानश्च निर्देशः ॥ व्स्प्क्च्_2.3-4:7
* प्रमातृमितिमानमेयमयभेदजातस्य ते विहार इह हेतुतां समुपयाति यस्मात् त्वयि ।
* निवृत्तविवृतौ क्वचित् तद् अपयाति तेनाध्वाधुना नयेन पुनरीक्ष्यते जगति जातुचित्केनचित् ॥ व्स्प्क्च्_2.3-4:8
* इति श्रीज्ञानगर्भस्तोत्रोक्तनीत्या संविद्येव प्रसृतायां जगतः सद्भावात् सर्वभावसमुद्भवत्वं जीवस्य यतश्च जीवादेव उदयति विश्वमतोऽयं सर्वमयो विश्वशक्तिरिति यावत् ॥ व्स्प्क्च्_2.3-4:9
* निर्णीतं चैतद् द्वितीयसूत्रवृत्तौ ॥ व्स्प्क्च्_2.3-4:10
* सर्वमयत्वे हेत्वन्तरमाह तत्संवेदन इत्यर्धेन ॥ व्स्प्क्च्_2.3-4:11
* तस्य सर्वस्य नीलसुखादेर्यत्संवेदनं प्रकाशस्तेन रूपेण स्वभावेन तादात्म्यप्रतिपत्तेः सर्वमयत्वस्योपलम्भात् ॥ व्स्प्क्च्_2.3-4:12
* एवमनेन श्लोकद्वयेन रहस्यचर्याः सर्वभेदपादपोन्मूलोपपत्तिपरिघटिताश् च ज्ञानोपदेशकथाः प्रथमचरमसूत्राभ्यां महार्थतत्त्वं जाग्रदादिसूत्रेण षडर्धपरमार्थः तदाक्रम्य इत्य् अनेन सर्वोपासासारतेत्याद्युपक्षिप्तम् इति स्पन्दतत्त्वेनैव विश्वोपदेशाः स्वीकृताः ॥ व्स्प्क्च्_2.3-4:13
* अथैतत्प्रतिपत्तिसारतैव मोक्ष इत्यादिशति ॥ व्स्प्क्च्_2.3-4:14]
इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः
* [<स्पन्दकारिकानिर्णय>
* वाशब्दः प्रथमनिःष्यन्दोक्तनिमीलनसमाधिप्रकारं विकल्पयन् अस्याः समापत्तेर् दुर्लभतां ध्वनयति ॥ व्स्प्क्च्_2.5:1
* तेनायमर्थः ईदृशी तावत्संवित्तिः दुर्लभा यस्य कस्यचिद् एवापश्चिमजन्मनो भवति सो ऽखिलं जगत्क्रीडात्वेन पश्यन् निजसंविदुन्मेषनिमेषाभ्यां सृजन् संहरंश् च ।
* मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ॥ व्स्प्क्च्_2.5:2
* इति स्थित्या सततसमाविष्टो महायोगी जीवन्न् एव प्राणादिमान् अपि विज्ञानाग्निनिर्दग्धाशेषबन्धनो देहपाते तु शिव एव जीवंश्चेदृङ्मुक्त एव न तु कथंचिद् अपि बद्धः ॥ व्स्प्क्च्_2.5:3
* न संशयः इत्यनेन इदं ध्वनयति दीक्षादिना गुरुप्रत्ययतो मुक्तिः ईदृशात् तु ज्ञानात् समाचाराद्वा स्वप्रत्ययत एवेति ॥ व्स्प्क्च्_2.5:4
* इयमेव महासमापत्तिः साधकाचार्यादीनाम् अभीष्टप्राप्तिहेतुः इति श्लोकद्वयेनाह ॥ व्स्प्क्च्_2.5:5]
अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि ।
तदात्मतासमापत्तिर् इच्छतः साधकस्य या
यमेवामृतप्राप्तिर् अयम् एवात्मनो ग्रहः ।
इयं निर्वाणदीक्षा च शिवसद्भावदायिनी
मूल पाठ: Spandakārikā with the commentary by Kṣemarāja · Edition: M. K. Shastri Srinagar: Kashmir Pratap Steam Press, 1925 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0