भाषा

ENहिગુ
ग्रंथ पाठ

स्पन्दकारिका (टीका सहित) · अध्याय 1

1.1

स्पन्दकारिका, प्रथमो निःष्यन्दः
यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ ।
तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः

1.2

* [<स्पन्दकारिकानिर्णय>
* शम् उपशान्ताशेषोपतापपरमानन्दाद्वयमयस्वचैतन्यस्फारप्रत्यभिज्ञापनस्वरूपम् अनुग्रहं करोति यस् तम् इमं स्वस्वभावं शंकरं स्तुमस् तं विश्वोत्कर्षित्वेन परामृशन्तस् तत्कॢप्तकल्पितप्रमातृपदनिमज्जनेन समाविशामः तत्समावेश एव हि जीवन्मुक्तिफल इह प्रकरण उपदेश्यः ॥ व्स्प्क्च्_1.1:1
* बहुवचनम् अनुग्रहदृष्टिकटाक्षिताशेषानुग्राह्याभेदप्रथनाय ॥ व्स्प्क्च्_1.1:2
* तम् इत्य् अनेन यद् अस्य असामान्यत्वम् अपि ध्वनितं तत् प्रथयति यस्येत्य् अर्धेन ॥ व्स्प्क्च्_1.1:3
* इह परमेश्वरः प्रकाशात्मा महादेवः शब्दराशिपरमार्थपूर्णाहन्तापरामर्शसारत्वात् सदैवानन्दघनस्फुरत्तात्मकोभयविसर्गारणिपराशक्त्यात्मकपूर्णस्वातन्त्र्यस्वरूपस् तत एव चित्स्वाभाव्याद् अचलस्यापि श्रीभगवतः स्वातन्त्र्यशक्तिर् अविभक्ताप्य् अशेषसर्गसंहारादिपरम्परां दर्पणनगरवत्स्वभित्ताव् एव भावियुक्त्यानधिकाम् अप्य् अधिकाम् इव दर्शयन्ती किंचिच् चलत्तात्मकधात्वर्थानुगमात् स्पन्द इत्य् अभिहिता तेन भगवान् सदास्पन्दतत्त्वसतत्त्वो न त्व् अस्पन्दः यद् आहुः केचित् अस्पन्दं परं तत्त्वम् इति ॥ व्स्प्क्च्_1.1:4
* एवं हि शान्तस्वरूपत्वाद् अनीश्वरम् एवैतद् भवेत् ॥ व्स्प्क्च्_1.1:5
* स्फुरत्तासारस्पन्दशक्तिमयशंकरात्मकस्वस्वभावप्रतिपादनायैव चेदं शास्त्रं समुचितस्पन्दाभिधानं महागुरुभिर् निबद्धम् ॥ व्स्प्क्च्_1.1:6
* एतच् च व्यक्तीभविष्यति ॥ व्स्प्क्च्_1.1:7
* सा चैषा स्पन्दशक्तिर् गर्भीकृतानन्तसर्गसंहारैकघनाहन्ताचमत्कारानन्दरूपा निःशेषशुद्धाशुद्धरूपामातृमेयसंकोचविकासाभासनसतत्त्वा सर्वोपनिषदुपास्या युगपद् एवोन्मेषनिमेषमयी ॥ व्स्प्क्च्_1.1:8
* तथा हि शिवादेः क्षित्यन्तस्याशेषस्य तत्त्वग्रामस्य प्राक्सृष्टस्य संहर्तृरूपा या निमेषभूर् असाव् एवोद्भविष्यद्दशापेक्षया स्रष्टुरूपोन्मेषभूमिस् तथा विश्वनिमेषभूश् चिद्घनतोन्मेषसारा चिद्घनतानिमज्जनभूमिर् अपि विश्वोन्मेषरूपा ॥ व्स्प्क्च्_1.1:9
* यद् आगमः ।
* लेलिहाना सदा देवी सदा पूर्णा च भासते ॥ व्स्प्क्च्_1.1:10
* ऊर्मिर् एषा विबोधाब्धेः शक्तिर् इच्छात्मिका प्रभोः ॥ व्स्प्क्च्_1.1:11
* इति ॥ व्स्प्क्च्_1.1:12
* श्रीमान् महेश्वरो हि स्वातन्त्र्यशक्त्या शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रविज्ञानाकलप्रलयाकलसकलान्तां प्रमातृभूमिकां तद्वेद्यभूमिकां च गृह्णानः पूर्वपूर्वरूपतां भित्तिभूततया स्थिताम् अप्य् अन्तःस्वरूपावच्छादनक्रीडया निमेषयन्न् एवोन्मेषयति उत्तररूपताम् अवरोहक्रमेण आरोहक्रमेण तूत्तरोत्तररूपतां निमेषयन्न् एव ज्ञानयोगिनाम् उन्मेषयति पूर्वपूर्वरूपताम् अत एवोत्तरम् उत्तरं पूर्वत्र पूर्वत्र संकोचात्मतां जहद्विकसितत्वेनासाव् आभासयति पूर्वं पूर्वं तु रूपं यथोत्तरं विकसिततां निमज्जयन् सङ्कुचितत्वेन दर्शयति ॥ व्स्प्क्च्_1.1:13
* एवं च सर्वं सर्वमयम् एव प्रथयति केवलं तदवभासितसंकोचमात्रत इयं भेदप्रतिपत्तिर् इव यद् उद्दलनायेहत्य उपदेश इत्य् आस्तां तावद् एतत् ॥ व्स्प्क्च्_1.1:14
* नीलसुखाद्याभासोन्मेषमय्य् अपि च संवित् प्रमात्रेकात्मकतत्स्वरूपनिमेषरूपावभातचरपीताद्याभासोपसंहाररूपा चेति स्वसंवेदनसिद्धाम् इमां युगपद् एवोन्मेषनिमेषोभयरूपां प्रतिभां भगवतीं विचिन्वन् तु महाधियः संसारविच्छेदाय ॥ व्स्प्क्च्_1.1:15
* अत एवोन्मेषनिमेषाभ्याम् इत्येतत्पदं निजवृत्तौ भट्टश्रीकल्लटेन संकल्पमात्रेणा इत्य् अविभक्तम् एवेच्छशक्तिरूपतया व्याख्यायि ॥ व्स्प्क्च्_1.1:16
* संग्रहकृतापि एकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः ॥ व्स्प्क्च्_1.1:17
* उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत् ॥ व्स्प्क्च्_1.1:18
* इत्य् अत्र प्रारब्धचिन्तासंहरणम् एव परस्वरूपोदयहेतुर् उन्मेष इत्य् अभिधास्यते प्रवृत्तचिन्तासंहारं विना परस्वरूपोदयाभावात् ॥ व्स्प्क्च्_1.1:19
* एतच् च तत्रैव वितनिष्यामः ॥ व्स्प्क्च्_1.1:20
* परामृतरसापायस् तस्य यः प्रत्ययोद्भवः ॥ व्स्प्क्च्_1.1:21
* तेनास्वतन्त्रताम् एति स च तन्मात्रगोचरः ॥ व्स्प्क्च्_1.1:22
* इत्य् अत्राप्य् उदयः प्रलयपरमार्थ इति स्पष्टम् एव वक्ष्यते ॥ व्स्प्क्च्_1.1:23
* यदा क्षोभः प्रलीयेत तदा स्यात् परमं पदम् ॥ व्स्प्क्च्_1.1:24
* इत्य् अत्रापि क्षोभप्रलयात्मा निमेषः परपदोन्मेषरूप इत्य् अपि निरूपयिष्यते ॥ व्स्प्क्च्_1.1:25
* तद् एवम् एकैवोभयरूपापि शक्तिः कदाचिद् उन्मेषप्रधानतया व्यवह्रियते कदाचिन् निमेषप्रधानतया ॥ व्स्प्क्च्_1.1:26
* ततश् च यस्य संबन्धिन्याः स्वरूपनिमेषात्मनः कार्योन्मेषप्रधानायाः शक्तेर् हेतोर् जगतो विश्वस्य शिवादेर् धरण्यन्तस्योदयो ऽभेदसारतानिमज्जनसत्त्वो नानावैचित्र्यशाली भेदरूपः सर्गः स्वरूपोन्मेषात्मनश् च बाह्यतानिमेषप्रधानायाः शक्तेर् जगतः प्रलयो ऽभेदमयतोदयात्मा विचित्रभेदरूपतासंहार इत प्रलयो ऽप्य् उदयरूप उदयो ऽपि च प्रलयरूप इति व्याख्येयम् वस्तुतस् तु न किंचिद् उदेति व्ययते वा केवलं स्पन्दशक्तिर् एव भगवत्य् अक्रमापि तथातथाभासरूपतया स्फुरन्त्य् उदेतीव व्ययत इव चेति दर्शयिष्यामः ॥ व्स्प्क्च्_1.1:27
* स्थितिविलयानु ग्रहाणां विशिष्टप्रलयोदयरूपत्वान् नाधिक्यम् इति प्रलयोदयाभ्याम् एव पञ्चविधं पारमेश्वर्यं कृत्यं संगृहीतम् ॥ व्स्प्क्च्_1.1:28
* निर्णीतं चैवंप्रायं मयैव प्रथमसूत्रमात्रविवरणे स्पन्दसंदोहे ॥ व्स्प्क्च्_1.1:29
* ननु श्रीमन्महार्थदृष्ट्या सृष्ट्यादिदेवताभिर् एव विचित्रा जगतः प्रलयोदयाः संपाद्यन्ते तत् कथम् एतद् उक्तं यस्येत्यादि इत्याशङ्क्याह तं शक्तिचक्रविभवप्रभवाम् इति ॥ व्स्प्क्च्_1.1:30
* शक्तीनां सृष्टिरक्तादिमरीचीदेवीनां चक्रं द्वादशात्मा समूहस् तस्य यो विभव उद्योगावभासनचर्वणविलापनात्मा क्रीडाडम्बरस् तस्य प्रभवं हेतुम् ॥ व्स्प्क्च्_1.1:31
* एता हि देव्यः श्रीमन्मन्थानभैरवं चक्रेश्वरम् आलिङ्ग्य सर्वदैवजगत्सर्गादिक्रीडांसंपादयन्तीत्य् आम्नायः ॥ व्स्प्क्च्_1.1:32
* अथ च कस्मात् परमेश्वरस्य जगत्सर्गसंहारादिहेतुत्वम् इत्य् आशङ्कायाम् एतद् एवोत्तरं शक्तिचक्रेति ॥ व्स्प्क्च्_1.1:33
* यावद्धि किंचिद् विश्वं संभवति तत्प्रकाशमानत्वेन प्रकाशमयत्वात् स्वामिनश् चात्मसंस्थस्य भावजातस्य भासनम् ॥ व्स्प्क्च्_1.1:34
* अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते ॥ व्स्प्क्च्_1.1:35
* इति विपश्चिन्निश्चितनीत्या परमेश्वरस्यान्तःप्रकाशैकात्म्येन प्रकाशमानं स्थितं सच्छक्तिचक्रम् इत्य् उच्यते यतः परमेश्वरस्यागमेष्व् अनन्तशक्तित्वम् उद्धोष्यते ॥ व्स्प्क्च्_1.1:36
* तस्य शक्तिचक्रस्याभासपरमार्थस्य विश्वस्य यो विभवः परस्परसंयोजनावियोजनावैचित्र्यम् अनन्तप्रकारं तस्य प्रभवं कारणम् ॥ व्स्प्क्च्_1.1:37
* स एव हि भगवान् विज्ञानदेहात्मकान् स्वात्मैकात्म्येन स्थितान् विश्वान् आभासान् अन्योन्यं नानावैचित्र्येण संयोजयन् वियोजयंश् च विश्वोदयप्रलयहेतुः ॥ व्स्प्क्च्_1.1:38

* तद् उक्तं श्रीभट्टकल्लटेन विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्योत्पत्तिहेतुत्वम् ॥ व्स्प्क्च्_1.1:39
* इत्य् एतद् वृत्त्यक्षराणाम् अत्र व्याख्याद्वये ऽप्य् आनुरूप्यम् ॥ व्स्प्क्च्_1.1:40
* अपि च शक्तयो ऽस्य जगत् कृत्स्नम् ॥ व्स्प्क्च्_1.1:41
* इत्य् आगमदृष्ट्या तस्माच् छब्दार्थचिन्तासु न सावस्था न या शिवः ॥ व्स्प्क्च्_1.1:42
* इतीहत्यस्थित्या च जगदात्मनः तत्खेचर्यूर्ध्वमार्गस्थं व्योम वामेशिगोचरम् ॥ व्स्प्क्च्_1.1:43
* इति रहस्यनीत्या च वामेश्वरीखेचरीगोचरीदिक्चरीभूचरी रूपस्य मयैव स्पन्दसन्दोहे सम्यङ् निर्णीतस्य अप्रबुद्धधियस् त्व् एते स्वस्थितिस्थगनोद्यताः ॥ व्स्प्क्च्_1.1:44
* इत्य् अत्रापि निर्णेष्यमाणस्यैतद्व्याख्याद्वयव्याख्यातशक्तिचक्रप्रपञ्चभूतस्य च यतः करणवर्गो ऽयं ॥ व्स्प्क्च्_1.1:45
* इति स्थित्येन्द्रियग्रामात्मनः तदाक्रम्य बलं मन्त्राः ॥ व्स्प्क्च्_1.1:46
* इति नित्यमन्त्रात्मनः शब्दराशिसमुत्थस्य शक्तिवर्गस्य ॥ व्स्प्क्च्_1.1:47
* इति नीत्या ब्राह्म्यादिदेवतास्वभावस्यैवम् आदेर् अनन्तप्रकारस्यापि मयैव स्पन्दसन्दोहे वितत्य निर्णीतस्य शक्तिचक्रस्य यो विभवो माहात्म्यं तत्र प्रभवतीति प्रभवं स्वतन्त्रं न तु पशुवत् परतन्त्रम् ॥ व्स्प्क्च्_1.1:48
* शक्तिचक्रस्य रश्मिपुञ्जस्य यो विभवो ऽन्तर्मुखो विकासस् ततः प्रभव उदयो ऽभिव्यक्तिर् यस्येति बहुव्रीहिणान्तर्मुखतत्स्वरूपनिभालनाद् अयत्नेन परमेश्वरस्वरूपप्रत्यभिज्ञानं भवतीत्य् अर्थः ॥ व्स्प्क्च्_1.1:49
* किं च यस्य चिदानन्दघनस्यात्मन उन्मेषनिमेषाभ्यां स्वरूपोन्मीलननिमीलनाभ्यां यद् अन्तस् तद् बहिः इति युक्त्या जगतः शरीररूपस्य तदनुषङ्गेण बाह्यस्यापि विश्वस्य प्रलयोदयौ यथासंख्यं मज्जनोन्मज्जने भवतस् तं शक्तिचक्रविभवस्य परसंविद्देवतास्फारस्य प्रभवं भक्तिभाजाम् एतत्स्वरूपप्रकाशकं शंकरं स्तुमः ॥ व्स्प्क्च्_1.1:50
* तथा यस्य स्वात्मनः संबन्धिनो बहिर्मुखताप्रसररूपाद् उन्मेषाज् जगत उदयो ऽन्तर्मुखतारूपाच् च निमेषात् प्रलयस् तं विश्वसर्गादिकार्युन्मेषादिस्वरूपसंविद्देवीमाहात्म्यस्य हेतुं शंकरं स्तुम इति यथासंभवम् अपि योज्यम् ॥ व्स्प्क्च्_1.1:51
* देहाद्याविष्टो ऽपि परमेश्वरः करणोन्मीलननिमीलनाभ्यां रूपादिपञ्चकमयस्य जगतः सर्गर्संहारौ करोति ॥ व्स्प्क्च्_1.1:52
* यद् उक्तं रहस्यतत्त्वविदा तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् ॥ व्स्प्क्च्_1.1:53
* भान्तम् एवान्तरर्थौघम् इच्छया भासयेद् बहिः ॥ व्स्प्क्च्_1.1:54
* एवंविधार्थपरिग्रहायापि यस्य स्वातन्त्र्यशक्त्या इति त्यक्त्वा यस्योन्मेषनिमेषाभ्याम् इति न्यरूपि गुरुणा ॥ व्स्प्क्च्_1.1:55
* अत्र च शंकरस्तुतिः समावेशरूपा प्राप्यत्वेनाभिधेया शक्तिचक्रविभवात् प्रभवो यस्येति बहुव्रीहिणा शक्तिचक्रविकासस् तत्प्राप्ताव् उपाय उक्तः शक्तिचक्रविभवस्य परसंविद्देवतास्फारस्य भक्तिभाजां प्रभवं प्रकाशकम् इति तत्पुरुषेण फलम् उक्तम् ॥ व्स्प्क्च्_1.1:56
* यद् वक्ष्यति ततश् चक्रेश्वरो भवेत् ॥ व्स्प्क्च्_1.1:57
* इत्य् अभिधेयोपाययोर् उपायोपेयभावः संबन्ध इत्य् अभिधेयोपाय संबन्धप्रयोजनान्य् अनेनैव सूत्रेण सूत्रितानि ॥ व्स्प्क्च्_1.1:58
* नन्व् एवंभूतशंकरस्वरूपसत्तायां किं प्रमाणं कुतश् चोपादानादिहेतुं विना जगद् असौ जनयति तस्यैवोपादानत्वे मृत्पिण्डस्येव घटेन जगता तिरोधानं क्रियेत तिरोहितातिरोहिततायां च भगवतः स्वभावभेदः स्यात् पुनर् उन्मज्जने च हेतुश्चिन्त्यो जगदुदयेच द्वेएतप्रसङ्ग इत्येताः शङ्का एक प्रहारेणापहर्तुमाह ॥ व्स्प्क्च्_1.1:59]
यत्र स्थितमिदं सर्वं कार्यं यस्माच् च निर्गतम् ।
तस्यानावृतरूपत्वान् न निरोधोऽस्ति कुत्रचित्

1.3

* [<स्पन्दकारिकानिर्णय>
* तस्यास्य शंकरात्मनः प्रकाशानन्दघनस्य स्वस्वभावस्य न कुत्रचिद्देशे काल आकारे वा निरोधः प्रसरव्याघातो ऽस्ति अनावृतरूपत्वाद् अस्थगितस्वभावत्वात् ॥ व्स्प्क्च्_1.2:1
* अयं भावः इह यत्किंचित्प्राणपुर्यष्टकसुखनीलादिकं चित्प्रकाशस्यावरकं संभाव्यते तद्यदि न प्रकाशते न किंचित् प्रकाशमानं तु प्रकाशात्मकशंकरस्वरूपमेवेति किं कस्य निरोधकं को वा निरोधार्थः ॥ व्स्प्क्च्_1.2:2
* एतदेव तस्येत्येतद्विशेषणेन यत्रेत्यादिनोपपादयति ॥ व्स्प्क्च्_1.2:3
* यत्र यस्मिंश्चिद् रूपे स्वात्मनि इदं मातृमानमेयात्मकं सर्वं जगत्कार्यं स्थितं यत्प्रकाशेन प्रकाशमानं सत्स्थितिं लभते तस्य कथं तेन निरोधः शक्यस् तन्निरोधे हि निरोधकाभिमतमेव न चकास्यादित्य् आशयशेषः ॥ व्स्प्क्च्_1.2:4
* यथोक्तम् ।
* तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा ॥ व्स्प्क्च्_1.2:5
* इत्यजडप्रमातृसिद्धौ ॥ व्स्प्क्च्_1.2:6
* ननूत्पन्नस्य स्थित्यात्मा प्रकाशे भवति उत्पत्तिरेव त्व् अस्य कुत इत्याह यस्माच् च निर्गतमिति ॥ व्स्प्क्च्_1.2:7
* स्मृतिस्वप्नसंकल्पयोगिनिर्माणदृष्टया चितः स्वानुभवसिद्धं जगत्कारणत्वम् उज्झित्वा अप्रमाणकम् अनुपपन्नं च प्रधानपरमाण्वादीनां न तत्कल्पयितुं युज्यते ॥ व्स्प्क्च्_1.2:8
* कार्यपदेन चेदमेव ध्वनितं कर्तुः क्रियया निष्पाद्यं हि कार्यमुच्यते न तु जडकारणानन्तरभावि जडस्य कारणत्वानुपपत्तेः ईश्वरप्रत्यभिज्ञोक्तनीत्या ॥ व्स्प्क्च्_1.2:9
* भविष्यति चैतत् ॥ व्स्प्क्च्_1.2:10
* अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ॥ व्स्प्क्च्_1.2:11
* इत्यत्र ।
* सर्वशब्देनोपादानादिनैरपेक्ष्यं कर्तुर्ध्वनितम् ॥ व्स्प्क्च्_1.2:12
* न च कार्यं घटादि कर्तुः कुम्भकारादेः कदाचित्स्वरूपं तिरोदधद् दृष्टम् ॥ व्स्प्क्च्_1.2:13
* ननु निर्गतिर् अवस्थितस्य भवति तत्किमेतत् क्वचिद् आदाव् एव स्थितं नान्यत्र स्थितमपितु तत्रैव चिदात्मनीत्याह यत्र स्थितमिति ॥ व्स्प्क्च्_1.2:14
* आवृत्त्या चैतद्योज्यम् ॥ व्स्प्क्च्_1.2:15
* अयमर्थः यदि चिदात्मनि जगदहंप्रकाशाभेदेन न भवेत् तत् कथम् उपादानादिनिरपेक्षं तत उदियात् ॥ व्स्प्क्च्_1.2:16
* यतस्तु यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
* तथा हृदयबीजस्थं जगद् एतच् चराचरम् ॥ व्स्प्क्च्_1.2:17
* इत्याम्नायस्थित्या ॥ व्स्प्क्च्_1.2:18
* स्वामिनश्चात्मसंस्थस्य ॥ व्स्प्क्च्_1.2:19
* इति पूर्वोक्तयुक्त्या च तत्रैतद् अभेदेन स्फुरत्स्थितं ततो ऽयं चिदात्मा भगवान्निजरसाश्यानतारूपं जगद् उन्मज्जयतीति युज्यते ॥ व्स्प्क्च्_1.2:20
* एवं च यत्र स्थितमेव सद् यस्मान् निर्गतमित्यत्र योजना जाता ॥ व्स्प्क्च्_1.2:21
* च एवार्थे भिन्नक्रमः ॥ व्स्प्क्च्_1.2:22
* ननु यदि तस्मात् प्रकाशवपुष इदं जगन् निर्यातं तन् न प्रथेत न हि प्रथाबाह्यं च प्रथते चेति युक्तम् इत्याशङ्क्य यस्मान् निर्गतमपि सद्यत्र स्थितम् इत्य् आवृत्त्या संगमनीयम् ॥ व्स्प्क्च्_1.2:23
* चो ऽप्यर्थे भिन्नक्रमः ॥ व्स्प्क्च्_1.2:24
* एतदुक्तं भवति न प्रसेवकादिवाक्षोटादि तत् तस्मान् निर्गतमपि तु स एव भगवान् स्वस्वातन्त्र्याद् अनतिरिक्ताम् अप्यतिरिक्तामिव जगद्रूपतां स्वभित्तौ दर्पणनगरवत् प्रकाशयन् स्थितः ॥ व्स्प्क्च्_1.2:25
* ननु च भवत्वेवं सर्गस्थित्यवस्थयोर् जगतास्यानिरुद्धत्वं संहारावस्थया त्व् अभावात्मना सुषुप्तदेशीयया जगतः सम्बन्धिन्या कथं नैतत् तिरोधीयते नहि ग्राह्यं जगद्विना ग्राहकश्चिदात्मा कश्चिदित्य् आवृत्त्यैतद् एवोत्तरं यस्मान् निर्गतमपि सद्यत्रैव स्थितमुत्पन्नम् अपि जगत्संहारावस्थायां तदैकात्म्येनैवास्ते न त्व् अस्यान्यः कश्चिदुच्छेदः शून्यरूपस्तस्य वक्ष्यमाणयुक्त्या प्रकाशं भित्तिभूतं विनानुपपत्तेरित्यर्थः ॥ व्स्प्क्च्_1.2:26
* यथोक्तं श्रीस्वच्छन्दशास्त्रे ।
* अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते ।
* देव्यभावः स विज्ञेयो यत्र भावाः क्षयं गताः ॥ व्स्प्क्च्_1.2:27
* इति ॥ व्स्प्क्च्_1.2:28
* एवं सर्वं यस्य कार्यं यत्प्रकाशेनैव प्रकाशते संहृतमपि च सद्यत्प्रकाशैकात्म्येन तिष्ठति न तस्य देशकालाकारादि किंचिन् निरोधकं युज्यते इति व्यापकं नित्यं विश्वशक्तिखचितं स्वप्रकाशमादिसिद्धं चैतत्तत्त्वमिति नास्य सिद्धाव् अज्ञातार्थप्रकाशरूपं प्रमाणवराकमुपपद्यत उपयुज्यते सम्भवति वा प्रत्युतैतत्तत्त्वसिद्ध्यधीना प्रमाणादिविश्ववस्तुसिद्धिः ॥ व्स्प्क्च्_1.2:29
* तदुक्तमस्मद्गुरुभिस् तन्त्रालोके ।
* प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते ।
* तेषामपि परो जीवः स एव परमेश्वरः ॥ व्स्प्क्च्_1.2:30
* इति ॥ व्स्प्क्च्_1.2:31
* यस्मान् निर्गतमपीदं जगद्यत्र स्थितं यत्प्रकाशेन प्रकाशमानं तथाभूतमपि यत्र स्थितं यत्प्रकाशैकरूपं यत्प्रकाश एव यस्य सिद्ध्यै न्यक्षेणेक्ष्यमाणं भवति न त्व् अन्यज् जगन् नाम किंचित् ॥ व्स्प्क्च्_1.2:32
* अत्र यत्र स्थितमित्यावर्त्य द्विर् योज्यम् ॥ व्स्प्क्च्_1.2:33
* एवं च स्वानुभवसिद्धमेवास्य तत्त्वस्य सृष्टिस्थितिसंहारमेलनावभासिनो ऽतिदुर्घटकारिणः सर्वदा सर्वत्रानिरुद्धत्वम् ॥ व्स्प्क्च्_1.2:34
* यथोक्तं श्रीमदुत्पलदेवाचार्यैः ।
* परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या ।
* अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ व्स्प्क्च्_1.2:35
* इति ॥ व्स्प्क्च्_1.2:36
* अत्रहिभासमानमेव जगद् भासनैकशेषीभूतत्वाद् भासनातिरिक्तं न किंचिद्भातीत्यर्थः ॥ व्स्प्क्च्_1.2:37
* किंच यत्र स्थितम् इत्युक्त्योपशमपदे यस्माच् च निर्गतमिति प्रसरपदे यतोऽस्य न निरोधस् ततो निमीलनोन्मीलनसमाधिद्वयेऽपि योगिना स्वस्वभावसमावेशपरेणैव भवितव्यम् ॥ व्स्प्क्च्_1.2:38
* यद्वक्ष्यते ।
* यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥ व्स्प्क्च्_1.2:39
* इति ॥ व्स्प्क्च्_1.2:40
* तथा ।
* तस्माच् छब्दार्थचिन्तासु न सावस्था न या शिवः ॥ व्स्प्क्च्_1.2:41
* इत्यपि च ॥ व्स्प्क्च्_1.2:42
* कुत्रचिदनात्मवादिनि सौगतादौ प्रमातरि कुत्रचिच् च बाधकाभिमते प्रमाणे सति न तस्य निरोधः प्रतिषेधोऽस्ति यतो यस्तस्य प्रतिषेधको यच् च तस्य प्रतिषेधकं प्रमाणं तद्यदि न सिद्धम् अभित्तिकम् एतच् चित्रं सिद्धिश्चास्य प्रकाशते इति तत्सिद्ध्यैव भगवानादिसिद्धस्वप्रकाशमूर्तिर् अस्तीत्य् एतत् प्रतिषेधायोदितेनाप्य् अनक्षरमुक्तम् ॥ व्स्प्क्च्_1.2:43
* भविष्यति चैतत् ।
* न तु यो ऽन्तर्मुखो भावः ॥ व्स्प्क्च्_1.2:44
* इत्यत्रान्तरे ॥ व्स्प्क्च्_1.2:45
* एवं चानेन विश्वोत्तीर्णं विश्वमयं विश्वसर्गसंहारादिकारि शांकरं स्वस्वभावात्मकं तत्त्वम् इत्यभिदधता सर्वेषु पारमेश्वरेषु यदुपास्यं तदितः स्पन्दतत्त्वान् नाधिकं केवलमेतत्स्वातन्त्र्यवशेनैव तदुपासावैचित्र्यम् आभास्यते ॥ व्स्प्क्च्_1.2:46
* वस्तुतस्तु एतद्वीर्यसारम् एवाशेषम् ॥ व्स्प्क्च्_1.2:47
* यद्वक्ष्यति ।
* तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥ व्स्प्क्च्_1.2:48

* इत्येतदपि भङ्ग्या प्रतिपादितम् ॥ व्स्प्क्च्_1.2:49
* एवं च न कश्चिद् उक्तचोद्यावकाशः ॥ व्स्प्क्च्_1.2:50
* एवमेतादृशेषु चिन्तारत्नप्रायेषु श्रीस्पन्दसूत्रेषु यदन्यैः सर्वैर् विवृतिकृद्भिर् व्याख्यायि यच् चास्माभिः किंचिद् व्याक्रियते तत्रान्तरममत्सरा अनवलिप्ताश् च स्वयमेव विचिन्वन्तु सचेतसो न तु तद् अस्माभिर् उद्घाट्य प्रतिपदं प्रदर्श्यते ग्रन्थगौरवापत्तेः ॥ व्स्प्क्च्_1.2:51
* ननु जागरादिदशस्व् ईदृशः स्वभावो नानुभूयते यदि चायमुक्तयुक्तिभिर्न केनचित् निरुध्यते तत् जागराद्यवस्था स्वयमेव निरोत्स्यते इति शङ्कात उक्तमप्यर्थम् अप्रतिपद्यमानं प्रतिबोधयन्न् उपदिशति ॥ व्स्प्क्च्_1.2:52]
जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति ।
निवर्तते निजान् नैव स्वभावादुपलब्धृतः

1.4

* [<स्पन्दकारिकानिर्णय>
* जागरापरपर्यायो जाग्रच्छब्दः शिष्टप्रयुक्तत्वात् ॥ व्स्प्क्च्_1.3:1
* लोकप्रसिद्धे जाग्रत्स्वप्नसुषुप्तानां भेदे योगिप्रसिद्धे ऽपि वा धारणाध्यानसमाधिरूपे प्रसर्पति अन्यान्यरूपे प्रवहति सति अर्थात् तत्तत्त्वं निजादनपायिनः सर्वस्यात्मभूताच् चानुभवितृरूपात् स्वभावान् नैव निवर्तते ॥ व्स्प्क्च्_1.3:2
* यदिहिस्वयंनिवर्तेत तज् जाग्रदाद्य् अपि तत्प्रकाशविनाकृतं न किंचित्प्रकाशेत ॥ व्स्प्क्च्_1.3:3
* उपलब्धृता चैतदीया जागरास्वप्नयोः सर्वस्य स्वसंवेदनसिद्धा सौषुप्ते यद्यपि सा तथा न चेत्यते तथाप्य् औत्तरकालिकस्मृत्यन्यथानुपपत्त्या सिद्धा उपलब्धृत एव च स्वभावान् न निवर्तते उपलभ्यं त्व् अवस्थादि तन्माहात्म्यान् निवर्ततां कामं कात्र क्षतिः ॥ व्स्प्क्च्_1.3:4
* एवकारोऽप्यर्थे भिन्नक्रमस् तदभावेऽपि न निवर्तत इत्यर्थः ॥ व्स्प्क्च्_1.3:5
* जागरादिविभेदस्य विशेषणद्वारेण हेतुस्तदभिन्ने इति तस्माच् छिवस्वभावादभेदेन प्रकाशमानत्वात् प्रकाशरूपे इत्यर्थः ॥ व्स्प्क्च्_1.3:6
* यच् च यदेकात्मकं तत्कथं तन्निवृत्ताव् अवतिष्ठते ॥ व्स्प्क्च्_1.3:7
* यद्वा तदिति कर्तृपदम् ॥ व्स्प्क्च्_1.3:8
* अभिन्न इति तु केवलमभिन्नत्वं जागरादेः शिवापेक्षमेव ॥ व्स्प्क्च्_1.3:9
* अर्थात्तत्तत्त्वं जागरादिभेदेऽपि सति प्रसर्पति प्रसरति वैचित्र्यं गृह्णाति तन् नैव स्वभावान् निवर्तत इति योज्यम् ॥ व्स्प्क्च्_1.3:10
* किंचायं जाग्रदादिभेदः परिणामो विवर्तो वेति यत् सांख्यपाञ्चरात्रशाब्दिकादयो मन्यन्ते तद्व्युदासायाप्युक्तं तदभिन्न इति ॥ व्स्प्क्च्_1.3:11
* अवस्थाप्रपञ्चोऽपि यदि चिन्मात्रात् मनागप्य् अतिरिच्येत चिद्रूपं वा तत्परिणतौ मनाग् अतिरिच्येत तन् न किंचिच् च का स्याद् इति तावन् न परिणामोऽस्ति ॥ व्स्प्क्च्_1.3:12
* यथोक्तम् ।
* परिणामोऽचेतनस्य चेतनस्य न युज्यते ॥ व्स्प्क्च्_1.3:13
* इति श्रीकिरणे ॥ व्स्प्क्च्_1.3:14
* न च भासमानो ऽसाव् असत्यो ब्रह्मतत्त्वस्यापि तथात्वापत्तेः इत्य् असत्यविभक्तान्यरूपोपग्राहिता विवर्त इत्यपि न संगतम् ॥ व्स्प्क्च्_1.3:15
* अनेन चातिदुर्घटकिरत्वम् एव भगवतो ध्वनितम् ॥ व्स्प्क्च्_1.3:16
* यस्माज् जागरादिविभेदं च प्रकाशयति तत्रैव च स्वाभेदमिति भेदात्मना तदभेदात्मनोभयात्मना च रूपेणापरापरापरापराशक्तित्रयस्वरूपेण स्फुरतीत्य् अनुत्तरषडर्धतत्त्वात्मतया भगवान् एव स्फुरति ॥ व्स्प्क्च्_1.3:17
* अतश्चजागरादिदशावस्थितो ऽपि एवमिमं स्वस्वभावं परिशीलयन् यश्चिनुते स शंकर एवेत्युपदिष्टं भवति ॥ व्स्प्क्च्_1.3:18
* अथ ये एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्याम इत्युक्त्या ज्ञानसंतान एव तत्त्वमिति सौगता मन्यन्ते ये चाहंप्रतीतिप्रत्येयः सदैव सुखाद्युपधितिरस्कृत आत्मेति मीमांसकाः प्रतिपन्नास् तानेकेनैव श्लोकेनापवदति ॥ व्स्प्क्च्_1.3:19]
अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः ।
सुखाद्यवस्थानुस्यूते वर्तन्ते ऽन्यत्र ताः स्फुटम्

1.5

* [<स्पन्दकारिकानिर्णय>
* य एवाहं सुखी स एव दुःखी सुखानुशायिना रागेण युक्तत्वाद् रक्तो दुःखानुशायिना द्वेषेण सम्बन्धाद् द्विष्टेत्यादयः संविदो ज्ञानानि ता अन्यत्रेति अवस्थातर्य् आत्मतत्त्वे वर्तन्ते तत्रैवान्तर्मुखे विश्राम्यन्ति स्फुटं स्वसाक्षिकं कृत्वा ॥ व्स्प्क्च्_1.4:1
* अन्यथा क्षणिकज्ञानानां स्वात्ममात्रक्षीणत्वात् तत्संस्कारजन्मनाम् अपि विकल्पानामनुभवागोचरे प्रवृत्त्यभावादनुसंधानम् इदं न घटेत ॥ व्स्प्क्च्_1.4:2
* चकारास् तुल्ययोगितापरा अनुसंधानं द्योतयन्ति ॥ व्स्प्क्च्_1.4:3
* कीदृशेऽन्यत्र सुखाद्यवस्था उदयप्रलयिन्यो ऽनुस्यूता दृब्धा यस्मिंस् तस्मिन् सुखाद्यवस्थानुस्यूते ऽन्तःस्रक्सूत्रकल्पतया स्थिते ॥ व्स्प्क्च्_1.4:4
* ता इत्य् अनेनानुसंधीयमानावस्थानां स्मर्यमाणताम् अभिदधत्क्षणिकज्ञानवादिमते ऽनुभवसंस्कारोत्पन्नत्वाद् अर्थाकारारूषितत्वे ऽपि स्मृतेः कामम् अनुभवसदृशत्वं भवतु न त्व् अनुभवानुभूतातीतकालार्थव्यवस्थापकत्वं घटते सर्वसंविदन्तर्मुखे तु प्रमातरि सति सर्वं युज्यत इति सूचितवान् इत्य् अलं सुकुमारहृदयोपदेश्यजनवैरस्यदायिनीभिर् आभिः कथाभिः ॥ व्स्प्क्च्_1.4:5
* एतदर्थिभिः प्रत्यभिज्ञा परीक्ष्या ॥ व्स्प्क्च्_1.4:6
* ग्रन्थकृतैव तु यत इह युक्तिर् आसूत्रिता ततोऽस्माभिः किंचिद् उद्घाटितम् इति सचेतोभिर् नास्मभ्यम् असूययितव्यम् ॥ व्स्प्क्च्_1.4:7
* मीमांसकपरिहाराय तु एतद् इत्थं व्याख्यातव्यम् ॥ व्स्प्क्च्_1.4:8
* अहं सुखीत्यादिसंविदो यास् ता अन्यत्रेति पुर्यष्टकस्वरूपे प्रमातरि सुखाद्यवस्थाभिर् अनुस्यूते ओतप्रोतरूपे स्फुटं लोकप्रतीतिसाक्षिकं वर्तन्ते तिष्ठन्ति न त्व् अस्मदभ्युपगते ऽस्मिंश् चिदानन्दघने शंकरात्मनि स्वस्वभावे इति न सर्वदा सुखाद्युपाधितिरस्कृतो ऽयमात्मापि तु चिन्मयः ॥ व्स्प्क्च्_1.4:9
* यदा तु निजाशुद्धया वक्ष्यमाणयायं स्वस्वरूपं गूहयित्वा तिष्ठति तदा पुर्यष्टकाद्यवस्थायां सुखित्वादिरूपतास्य तत्रापि न निरोधस् तैः सुखादिभिर् अस्येत्य् उक्तम् एवेति न तत्तिरस्कृतो ऽयं कदाचिदपि ॥ व्स्प्क्च्_1.4:10
* अहं कृशो ऽहं स्थूल इत्यादिप्रतीतिपरिहारेण अहं सुखी दुःखीत्यादि वदतो ऽयमाशयः सुखित्वादिप्रतीतिसंभिन्नां पुर्यष्टकभूमिम् अन्तर्मुखे पदे निमज्जयंस् तदनुषङ्गेण बाह्यस्यापि देहघटादेर् गलनात् प्रत्यभिजानात्य् एव स्वं शिवस्वभावत्वम् इति सर्वथा पुर्यष्टकशमनायैव यत्न आस्थेय इति ॥ व्स्प्क्च्_1.4:11
* उक्तोपपत्तिसिद्धां समस्तवादानाम् अनुपपन्नताम् अनुवदन्न् उपपत्तिसिद्धं स्पन्दतत्त्वम् एवास्तीति प्रतिजानाति युक्त्यनुभवागमज्ञो रहस्यगुरुप्रवरः ॥ व्स्प्क्च्_1.4:12]
न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च ।
न चास्ति मूढभावोऽपि तदस्ति परमार्थतः

1.6

* [<स्पन्दकारिकानिर्णय>
* इह यत्किंचिद्दुःखसुखाद्यान्तरं नीलपीतादिकं बाह्यं ग्राह्यं यच् चैतद् ग्राहकं पुर्यष्टकशरीरेन्द्रियादि तत्तावत्सौषुप्तवद् असंचेत्यमानं स्फुटमेव नास्तीति वक्तुं शक्यम् ॥ व्स्प्क्च्_1.5:1
* यदापि तु संचेत्यते तदा संचेत्यमानस्याप्य् अस्य चैतन्यमयत्वाच् चैतन्यम् एवास्तीत्य् आयातम् ॥ व्स्प्क्च्_1.5:2
* यदाहुः ।
* प्रकाशात्मा प्रकाश्यो ऽर्थे नाप्रकाशश् च सिध्यति ॥ व्स्प्क्च्_1.5:3
* इति रहस्यतत्त्वविदोऽस्मत्परमेष्ठिनः श्रीमदुत्पलदेवपादाः श्रीमदीश्वरप्रत्यभिज्ञायाम् ॥ व्स्प्क्च्_1.5:4
* इहापि वक्ष्यते ।
* तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ॥ व्स्प्क्च्_1.5:5
* इत्यतो दुःखसुखादि नीलादि तद्ग्राहकं च यत्र नास्ति तत्प्रकाशैकघनं तत्त्वमस्ति ॥ व्स्प्क्च्_1.5:6
* नन्वेवं सर्वग्राह्यग्राहकोच्छेदे शून्यात्मैव तत्त्वमित्यायातं नेत्याह न चास्ति मूढभावो ऽपि इति ॥ व्स्प्क्च्_1.5:7
* मूढभावो मूढत्वं शून्यरूपतापि यत्र नास्ति सो ऽपि हि न प्रथते कथमस्ति प्रथते चेत् तर्हि प्रथात्मकत्वान् नासौ कश्चित् प्रथैवास्ति न च प्रथायाः कदाचिद्भावो भवति तदभावे प्रथाभावस्याप्यसिद्धेः ॥ व्स्प्क्च्_1.5:8
* भविष्यति चैतत् ।
* न तु यो ऽन्तर्मुखो भावः ॥ व्स्प्क्च्_1.5:9
* इत्यत्र ॥ व्स्प्क्च्_1.5:10
* अपि च मूढभाव ऐश्वर्यात्मकविमर्शशून्यप्रकाशमात्रतत्त्वो ब्रह्मरूपो ऽपि यत्र नास्ति यच् छ्रुत्यन्तविदः प्रतिपन्नाः विज्ञानं ब्रह्म इति तस्यापि स्वातन्त्र्यात्मकस्पन्दशक्तिं विना जडत्वात् ॥ व्स्प्क्च्_1.5:11
* यथोक्तं प्रत्यभिज्ञायाम् ।
* स्वभावमवभासस्य विमर्शं विदुर् अन्यथा ।
* प्रकाशो ऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥ व्स्प्क्च्_1.5:12
* इति ॥ व्स्प्क्च्_1.5:13
* भट्टनायकस्तोत्रे ऽपि ।
* नपुंसकमिदं नाथ परं ब्रह्म फलेत् कियत् ।
* त्वत्पौरुषी नियोक्त्री चेन् न स्यात्त्वद्भक्तिसुन्दरी ॥ व्स्प्क्च्_1.5:14
* इति ॥ व्स्प्क्च्_1.5:15
* एवं च यत्र स्थितम् इत्यतः प्रभृति यत्तत्त्वं विचारितं तदेवास्ति तच् चास्त्येव परमार्थतो युक्त्यनुभवागमसिद्धेन रूपेण परमार्थत एव चाकल्पितेन पूर्णेन रूपेणास्ति न तु नीलादिवत् कल्पितेन ।
* यथोक्तं महागुरुभिः ।
* एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्य् अमी ।
* जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ॥ व्स्प्क्च्_1.5:16
* इति ॥ व्स्प्क्च्_1.5:17
* तत्रभवद्भर्तृहरिणापि ।
* यदादौ च यदन्ते च यन्मध्ये तस्य सत्यता ।
* न यद् आभासते तस्य सत्यत्वं तावदेव हि ॥ व्स्प्क्च्_1.5:18
* इति ॥ व्स्प्क्च्_1.5:19
* सावधारणत्वात् सर्ववाक्यानाम् एवकारो ऽत्र त्रिर् योज्यः ।
* एवमनेन सूत्रेण सुखाद्याकारसंवित्संतानवादिनां सुखादिकलुषितप्रमातृतत्त्ववादिनां ग्राह्यग्राहकनानात्ववादिनां सर्वेषाम् अभाववादिनां निष्परामर्शप्रकाशब्रह्मवादिनां च मतम् अनुपपन्नत्वाद् असत्त्वेनानूद्य पारमार्थिकं स्पन्दशक्तिरूपमेव तत्त्वम् अस्तीति प्रतिज्ञातम् ॥ व्स्प्क्च्_1.5:20
* अथ च यस्मिन्न् अस्मिन् सोपदेशसावधानमहानुभावपरिशील्ये स्फुरत्तासारे स्पन्दतत्त्वे स्फुरति दुःखसुखग्राह्यग्राहकतदभावादिकम् इदं सद् अपि न किंचिद् एव सर्वस्यैतच् चमत्कारैकसारत्वात् तद् एवैतद् अस्तीत्य् उपदिष्टम् ।
* यन्महागुरवः ।
* दुःखान्यपि सुखायन्ते विषम् अप्य् अमृतायते ।
* मोक्षायते च संसारो यत्र मार्गः स शांकरः ॥ व्स्प्क्च्_1.5:21
* इति ॥ व्स्प्क्च्_1.5:22
* शांकरो मार्गः शंकरात्मस्वभावप्राप्तिहेतुः पराशक्तिरूपः प्रसरः ॥ व्स्प्क्च्_1.5:23
* एवम् उपपत्तिपरिघटिततत्त्वप्रत्यभिज्ञानाय साभिज्ञानम् उपायं निरूपयति ॥ व्स्प्क्च्_1.5:24]
यतः करणवर्गो ऽयं विमूढो ऽमूढवत् स्वयम् ।
सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः

1.7

लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् ।
यतः स्वतन्त्रता तस्य सर्वत्रेयम् अकृत्रिमा

1.8

* [<स्पन्दकारिकानिर्णय>
* तन्निर्णीतं तत्त्वम् आदरात् श्रद्धया प्रयत्नेन च ।
* उद्यमो भैरवः ।
* इति शिवसूत्रप्रतिपादितेन सर्वभेदोपसंहारात्मना निजौजोवृत्तिस्फारणरूपेण परिपूर्णान्तर्मुखस्वरूपसेवनात्मना भैरवरूपेणोद्यमेन परीक्ष्यम् ॥ व्स्प्क्च्_1.6-7:1
* यत इयमिति सर्वस्य स्वसंविदिता तस्य शंकरात्मनः स्वस्वभावस्याकृत्रिमा सहजा स्पन्दतत्त्वरूपा स्वतन्त्रता सर्वत्र जडाजडविषये स्फुरन्ती स्थितेति शेषः ।
* किं तत् तत्त्वम् इत्याह यत इत्यादि लभत इत्यन्तम् ॥ व्स्प्क्च्_1.6-7:2
* अयमिति लोकप्रसिद्धो गोलकादिरूपो न तु शास्त्रितस्तस्य नित्यपरोक्षत्वेनायमिति निर्देशाभावात् करणवर्गस् त्रयोदशेन्द्रियाणि विशेषेण मूढो मायावशाज् जडाभासीभूतो ऽणोर् मूढाद् अप्यधिकं मूढत्वं प्राप्तो ऽमूढवच् चेतनवत् स्वयं प्रवृत्तिस्थितिसंहृतीर् लभते विषयोन्मुखीभवति तत्र रज्यते ततश्च निवर्तत इत्यर्थः ॥ व्स्प्क्च्_1.6-7:3
* कथं सहान्तरेण चक्रेण इहान्तरं चक्रं करणेश्वर्यो नान्तःकरणानि तेषां वर्गशब्देन स्वीकारात् न वक्ष्यमाणं पुर्यष्टकं तत्स्थस्यान्तःकरणत्रयस्य वर्गशब्देनैव गृहीतत्वात् तन्मात्राणां च वासनामात्ररूपाणाम् उपदेश्यम् अयोगिनं प्रति साक्षात् प्रवृत्त्यादिकर्तृत्वेनासिद्धेः योगिनस्तु साक्षात् कृततन्मात्रस्य स्वयमेव परतत्त्वपरिशीलनावहितस्योपदेश्यत्वाभावात् तस्माद् एतदेकीयमतम् असत् ॥ व्स्प्क्च्_1.6-7:4
* विमूढो ऽमूढवद् इत्यनेन करणवर्ग एव संबन्ध्यो नत्वन्तरमपि करणेश्वरीचक्रं तस्य चिच्चमत्काररूपत्वात् ॥ व्स्प्क्च्_1.6-7:5
* एवम् अभिदधानस्यायम् आशयः यदयं शंकरात्मा स्वस्वभावो ऽतिदुर्घटकरिणः स्वातन्त्र्याद् युगपदेव संवित्तिसारं च करणेश्वरीचक्रं जडाभासरूपं च करणवर्गम् एकतयैव निर्भासयन् प्रवृत्तिस्थितिसंहृतीः कारयति येन भगवत्यः करणेश्वर्यो यथा तत्तद्भावसृष्ट्यादि विदधति तथा करणवर्गो जडो ऽपि तत्कारीव लक्ष्यते ॥ व्स्प्क्च्_1.6-7:6
* यद्यपि रहस्यदृष्टौ न कश्चिज् जडः करणवर्गो ऽस्ति अपितु विज्ञानदेहाः करणेश्वर्य एव विजृम्भन्ते तथापीह सुप्रसिद्धप्रतीत्यनुसारेणोपदेश्यः क्रमेण रहस्यार्थोपदेशे ऽनुप्रवेश्य इत्येवम् उक्तम् ॥ व्स्प्क्च्_1.6-7:7
* एवं च गोलकादिरूपकरणवर्गाप्रवृत्त्यादिक्रमेण तदधिष्ठातृरूपं निजमरीचिचक्रं चिन्वानेनैव तदुभयप्रचोदकं श्रीमच्छंकरात्मकं स्वस्वरूपं परीक्षणीयं यतस् तत्प्राप्तौ तदीयाकृत्रिमा स्वतन्त्रतास्य योगिनः स्याद् इत्य् अप्य् अनेनैवोक्तं भवति ॥ व्स्प्क्च्_1.6-7:8
* तदेतदेव परीक्षणार्हं परमोपादेयत्वाद् एतदेव च परीक्षितुं शक्यमुक्तयुक्त्या सुखोपायत्वात् अत एवादरेणाभिलषितविषयोपभोगानिरोधात्मना बहुमानेन ॥ व्स्प्क्च्_1.6-7:9
* अत्र परीक्षणस्येहत्योपदेशानुसारेण प्राप्तकालता ॥ व्स्प्क्च्_1.6-7:10
* यथोक्तं रहस्यगुरुभिः ।
* निजनिजेषु पदेषु पतन्त्व् इमाः करणवृत्तय उल्लसिता मम ।
* क्षणम् अपीश मनागपि मैव भूत् त्वद्विभेदरसक्षतिसाहसम् ॥ व्स्प्क्च्_1.6-7:11
* इति ॥ व्स्प्क्च्_1.6-7:12
* परीक्ष्यम् इत्य् अर्हे शक्ये प्राप्तकालतायां प्रैषादौ च कृत्यः ॥ व्स्प्क्च्_1.6-7:13
* अथ च जडः करणवर्गो यद् बलाद् अमूढवत् प्रवृत्त्यादि लभते इति सर्वस्यानुभवसाक्षिकम् अभिदधदिन्द्रियादिचैतन्यवादिचार्वाकमतम् अप्यनेन व्युदस्तवान् ॥ व्स्प्क्च्_1.6-7:14
* अथ कथमुक्तं ततस् तत्त्वाच् चेतनताम् इवासाद्येन्द्रियाणि स्वयं प्रवृत्त्यादि लभन्त इति यावतायम् एव ग्राहक इच्छया दात्रादीनीव करणानि प्रेरयति ॥ व्स्प्क्च्_1.6-7:15
* यद् अप्युक्तं तत् तत्त्वं प्रयत्नेन परीक्ष्यम् इति तदपि कथं यतो ऽस्माकम् इच्छा बहिर् एवानुधावति न तु तत्त्वपरीक्षायां प्रवर्तितुम् उत्सहत इत्य् आशङ्क्याह ॥ व्स्प्क्च्_1.6-7:16]
न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते ।
अपि त्व् आत्मबलस्पर्शात् पुरुषस् तत्समो भवेत्

1.9

* [<स्पन्दकारिकानिर्णय>
* अयं लौकिकः पुरुष इच्छैव नोदनं प्रतोदस्तस्य प्रेरकत्वेन करणप्रवर्तनार्थव्यापारणाय यस्मान् न प्रवर्तते अपि तु आत्मनश् चिद्रूपस्य यद् बलं स्पन्दतत्त्वात्मकं तत्स्पर्शात् तत्कृतात् कियन्मात्राद् आवेशात् तत्समो भवेत् अहंतारसविप्रुडभिषेकादचेतनो ऽपि चेतनताम् आसादयत्येव ॥ व्स्प्क्च्_1.8:1
* ततस् तत् तत्त्वं न केवलं करणानि यावत् तत्प्रेरकत्वेन शङ्कितं कल्पितमपि प्रमातारं चेतनीकृत्य स्वयं प्रवृत्त्यादिपात्रं करोति येनास्यायम् अभिमानो ऽहं करणानि प्रेरयामीति ॥ व्स्प्क्च्_1.8:2
* स्पन्दतत्त्वानुवेधं विनापि तु स एव न किंचिदिति करणानां ग्राहकस्य च स्वरश्मिचक्रप्रसरानुवेधेन चेतनीभावापादकं तत्त्वं परीक्ष्यमिति युक्तमेव ॥ व्स्प्क्च्_1.8:3
* यदि पुनर् इच्छाख्येन प्रतोदरूपेण करणान्तरेण करणानि प्रेरयेत् तद् अपीच्छाख्यं करणं प्रेर्यत्वात् करणान्तरं स्वप्रेरणायापेक्षेत तदप्य् अन्यद् इत्य् अनवस्था स्यात् ॥ व्स्प्क्च्_1.8:4
* यत् तूक्तम् अस्माकमिच्छा न तत्र प्रवर्तितुम् उत्सहते इति तत्राप्याद्यं श्लोकार्धम् अभ्युपगमेन परं तूत्तरतया योज्यम् ॥ व्स्प्क्च्_1.8:5
* सत्यं नायं पुरुषस्तत्त्वपरीक्षार्थम् इच्छां प्रवर्तयितुं शक्नोति नेच्छया तत्त्वं विषयीकर्तुं क्षमस् तस्याविकल्प्यत्वाद् अपि तु विषयान् अनुधावन्तीम् इच्छां तदुपभोगपुरःसरं प्रशमय्य यदा त्व् अन्तर्मुखमात्मबलं स्पन्दतत्त्वं स्वकरणानां च चेतनावहं स्पृशति तदा तत्समो भवेत् तत्समावेशात् तद्वत् सर्वत्र स्वतन्त्रताम् आसादयत्येव यस्माद् एवं तस्मात् तत्त्वं परीक्ष्यम् इत्यर्थः ॥ व्स्प्क्च्_1.8:6
* शक्तिभूमेः स्पर्शाप्रधानत्वाद् आत्मबलस्पर्शादित्य् उक्तम् ॥ व्स्प्क्च्_1.8:7
* ननु चायं क्षेत्री परमेश्वरमयो ऽपि किं न सदा पारिपूर्ण्येन स्फुरति कस्माद् अन्तर्मुखात्मबलस्पर्शम् अपेक्षत इत्य् आशङ्क्याह ॥ व्स्प्क्च्_1.8:8]
निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः ।
यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम्

1.10

* [<स्पन्दकारिकानिर्णय>
* निजा स्वात्मीया स्वस्वातन्त्र्योल्लासिता येयं स्वरूपाविमर्शस्वभावा इच्छाशक्तिः संकुचिता सत्यपूर्णंमन्यतारूपा अशुद्धिर् आणवं मलं तन्मलोत्थितकञ्चुकपञ्चकाविलत्वात् ज्ञानशक्तिः क्रमेण भेदसर्वज्ञत्वकिंचिज्ज्ञत्वान्तःकरणबुद्धीन्द्रियतापत्तिपूर्वम् अत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलमशुद्धिर् एव क्रियाशक्तिः क्रमेण भेदसर्वकर्तृत्वकिंचित्कर्तृत्वकर्मेन्द्रियरूपसंकोचग्रहणपूर्वम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् अप्यशुद्धिः तयासमर्थस्य पूर्यज्ञत्वकर्तृत्वविकल्पस्य तत एव कर्तव्येषु लौकिकशास्त्रीयानुष्ठानेष्व् अभिलाषिणो ऽभीष्टानवाप्तेर् नित्यम् अभिलाषव्याकुलस्य तत एव क्षणम् अप्य् अलब्धस्वरूपविश्रान्तेः यदा उक्तवक्ष्यमाणोपपत्त्यनुभवावष्टम्भतो ऽभिलाषविवशग्राहकाभिमानात्मा क्षोभः प्रलीयेत अनात्मन्य् आत्माभिमाननिवृत्तिपुरःसरम् आत्मन्य् अनात्माभिमानोपशान्तिपर्यन्तेन प्रकर्षेण लीयेत तदा परमं स्पन्दतत्त्वात्मकं पदं स्याद् अस्य प्रत्यभिज्ञाविषयतां यायाद् इत्यर्थः ॥ व्स्प्क्च्_1.9:1
* न तु तदैव भवति तस्य नित्यत्वात् ॥ व्स्प्क्च्_1.9:2
* उक्तं च विज्ञानभैरवे ।
* मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् ।
* यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः ॥ व्स्प्क्च्_1.9:3 ॥
* इति ॥ व्स्प्क्च्_1.9:4
* निजाशुद्धिशब्देनमलं नाम द्रव्यं पृथग्भूतम् अस्तीति ये प्रतिपन्नास्ते दूष्यत्वेन कटाक्षिताः ॥ व्स्प्क्च्_1.9:5
* ननु च ग्राहकाहम्भावात्मनि क्षोभे क्षीणे निस्तरङ्गजलधिप्रख्यम् अस्पन्दमेव तत्त्वं प्रसक्तम् इत्याशङ्कां शमयति ॥ व्स्प्क्च्_1.9:6]
तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः ।
यतस् तदेप्सितं सर्वं जानाति च करोति च

1.11

* [<स्पन्दकारिकानिर्णय>
* तदेत्युपदेश्यापेक्षया अकृत्रिमः सहजो धर्मः प्राङ् निर्दिष्टस्वतन्त्रतारूपः परमेश्वरस्वभावो ज्ञत्वकर्तृत्वे सामरस्यावस्थितप्रकाशानन्दात्मनी ज्ञानक्रिये लक्षणमव्यभिचारि स्वरूपं यस्य तादृक् तदा क्षोभोपशमे ऽस्य पुरुषस्य स्याद् अभिव्यज्यत इत्यर्थः ॥ व्स्प्क्च्_1.10:1
* कुत एतद् अभिव्यज्यत इत्याह यतस्तदा परमपदप्रवेशसमये सर्वम् ईप्सितमिति यद्यज् जिज्ञासितं चिकीर्षितं वास्य तत् प्रविविक्षायाम् अभूत् तत्तज् जानाति च करोति च ॥ व्स्प्क्च्_1.10:2
* चकाराव् अत्र यौगपद्यम् आहतुः न तु यथैके चकाराभ्यां ज्ञानक्रिययोर् ऐकात्म्यं सूचयतीति तद्धि ज्ञत्वकर्तृत्वलक्षण इत्य् अनेनैवैकधर्मविशेषणेन सम्बन्धिनिर्देशेन वास्तवस्वरूपाभिधायिनोक्तम् ॥ व्स्प्क्च्_1.10:3
* अथ यतः करणेति निजाशुद्धीति सूत्रप्रतिपादितोन्मेषक्रमसमाधानसाक्षात्कृतस्य स्पन्दतत्त्वस्य दृढावष्टम्भाद् व्युत्थानमपि समाध्येकरसं कुर्वतो भवोच्छेदो भवतीत्याह ॥ व्स्प्क्च्_1.10:4]
तमधिष्ठातृभावेन स्वभावमवलोकयन् ।
स्मयमान इवास्ते यस् तस्येयं कुसृतिः कुतः

1.12

* [<स्पन्दकारिकानिर्णय>
* उक्तोपपत्त्युपलब्ध्यनुशीलनप्रत्यभिज्ञातं तं स्पन्दतत्त्वात्मकं स्वभावम् आत्मीयम् अधिष्ठातृभावेन व्युत्थानदशायाम् अपि व्याप्नुवन्तम् अवलोकयंश् चिन्वानः ।
* न व्रजेन् न विशेच्छक्तिर् मरुद्रूपा विकासिते ।
* निर्विकल्पतया मध्ये तया भैरवरूपधृक् ॥ व्स्प्क्च्_1.11:1
* इति तथा ।
* सर्वाः शक्तीश् चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् ।
* क्षिप्त्वा मध्ये हाटकस्तम्भभूतस् तिष्ठन् विश्वाकार एको ऽवभासि ॥ व्स्प्क्च्_1.11:2
* इति श्रीविज्ञानभैरवकक्ष्यास्तोत्रनिर्दिष्टसम्प्रदाययुक्त्या निमीलनोन्मीलनसमाधिना युगपद्व्यापकमध्यभूम्यवष्टम्भाद् अध्यासितैतदुभयविसर्गारणिविगलितसकलविकल्पो ऽक्रमस्फारितकरणचक्रः ॥ व्स्प्क्च्_1.11:3
* अन्तर्लक्ष्यो बहिर् दृष्टिनिमेषोन्मेषवर्जितः ।
* इयं सा भैरवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ व्स्प्क्च्_1.11:4
* इत्य् आम्नातभगवद्भैरवमुद्रानुप्रविष्टो मुकुरान्तर्निमज्जदुन्मज्जन्नानाप्रतिबिम्बकदम्बकल्पमनल्पं भावराशिं चिदाकाश एवोदितम् अपि तत्रैव विलीयमानं पश्यन् जन्मसहस्रापूर्वपरमानन्दघनलोकोत्तरस्वस्वरूपप्रत्यभिज्ञानात् झटिति त्रुटितसकलवृत्तिः स्मयमानो विस्मयमुद्राप्रविष्ट इव महाविकासासादनाच् च सहसैव समुदितसमुचिततात्त्विकस्वभावो यो योगीन्द्र आस्ते तिष्ठति न त्व् अवष्टम्भाच् छिथिलीभवति तस्येयमिति सकलजगत्कम्पकारिणी कुत्सिता जननमरणादिप्रबन्धरूपा सृतिः प्रवृत्तिः कुतो निजाशुद्धिलक्षणस्य तद्धेतोर् अभावान् नैव भवतीत्यर्थः ॥ व्स्प्क्च्_1.11:5
* यथोक्तं श्रीपूर्वशास्त्रे ।
* तत्त्वे निश्चलचित्तस् तु भुञ्जानो विषयान् अपि ।
* नैव संस्पृश्यते दोषैः पद्मपत्त्रम् इवाम्भसा ॥ व्स्प्क्च्_1.11:6
* विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ।
* विषं न मुह्यते तेन तद्वद्योगी महामतिः ॥ व्स्प्क्च्_1.11:7
* इति ॥ व्स्प्क्च्_1.11:8
* अथ ये श्रुत्यन्तविदक्षपादमाध्यमिकादयः क्षोभप्रलये विश्वोच्छेदरूपम् अभावात्मकमेव तत्त्वम् अवशिष्यत इत्य् उपादिक्षन् तान् प्रतिबोधयितुं तदुपगततत्त्वप्रातिपक्ष्येण लोकोत्तरतां प्रकरणशरीरस्य स्पन्दतत्त्वस्य निरूपयति ॥ व्स्प्क्च्_1.11:9]
नाभावो भाव्यतामेति न च तत्रास्त्य् अमूढता ।
यतो ऽभियोगसंस्पर्शात् तदासीद् इति निश्चयः

1.13

अतस् तत् कृत्रिमं ज्ञेयं सौषुप्तपदवत् सदा ।
न त्व् एवं स्मर्यमाणत्वं तत् तत्त्वं प्रतिपद्यते

1.14

* [<स्पन्दकारिकानिर्णय>
* असद् एवेदम् अग्र आसीत् ॥ व्स्प्क्च्_1.12-13:1
* इत्याद्युक्त्या श्रुत्यन्तविदाद्यभिमतो ऽभावो भाव्यतां नैति भावनाया भाव्यवस्तुविषयत्वाद् अभावस्य न किंचित्त्वाद् भाव्यमानतायां वा किंचित्त्वे सत्यभावत्वाभावात् किंच भावकस्यापि यत्राभावः स विश्वोच्छेदः कथं भावनीयः भावकाभ्युपगमे तु न विश्वोच्छेदो भावकस्यावशिष्यमाणत्वाद् इति न विश्वाभाव एव तत्त्वम् ॥ व्स्प्क्च्_1.12-13:2
* अथ कल्पितो ऽयं भावको विश्वोच्छेदं विकल्पकल्प्यमानं भावयन् भावनापरिनिष्पत्तौ भाव्यतादात्म्याद् अभावरूपः सम्पद्यत इति पक्षः ॥ व्स्प्क्च्_1.12-13:3
* तत्रोच्यते तत्राभावभावनायां नामूढता न च तत्रास्त्य् अमूढता अपि तु मोह एवास्ति ।
* यद्यद् एवातिभाव्यते ।
* भावनापरिनिष्पत्तौ तत्स्फुटं कल्पधीफलम् ॥ व्स्प्क्च्_1.12-13:4
* इति न्यायाद् विश्वोच्छेदात्मन्यभावे भाव्यमाने न कदाचित् परमार्थाप्तिर् भवति ॥ व्स्प्क्च्_1.12-13:5
* अथोच्यते ।
* सर्वालम्बनधर्मैश् च सर्वतत्त्वैर् अशेषतः ।
* सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥ व्स्प्क्च्_1.12-13:6
* इति नागार्जुनोक्तम् ईदृशं तच् छून्यमिति ॥ व्स्प्क्च्_1.12-13:7
* सत्यं यदि चिदानन्दघना स्वतन्त्रा पारमार्थिकी भित्तिभूता भूर् अभ्युपेयते यथा विज्ञानभैरवादौ पारमेश्वरीं दिक्कालकलनातीता ॥ व्स्प्क्च्_1.12-13:8
* इत्यादिना पारमार्थिकीं भित्तिभूतां चिद्भूमिम् अवस्थाप्य शून्यभावनोक्ता अन्यथा न शून्यम् इति शून्यैवेयम् उक्तिः यद्यद् एवातिभाव्यते इति प्रतिपादितत्वात् ॥ व्स्प्क्च्_1.12-13:9
* यत्तु ॥ व्स्प्क्च्_1.12-13:10
* सावस्था काप्य् अविज्ञेया मादृशां शून्यतोच्यते ।
* न पुनर् लोकरूढ्येव नास्तिक्यार्थानुपातिनी ॥ व्स्प्क्च्_1.12-13:11
* इत्यालोकमालायाम् उक्तं तत् तु सत्यं त्वादृशाम् अविज्ञेया अविज्ञेयत्वाद् वक्तुम् अशक्येत्य् उच्यतां शून्यतेति तु कुतः शून्यतापि च यावद् भाव्यते तावद् विकल्पोल्लिखितत्वाद् असौ विवेज्ञैय ॥ व्स्प्क्च्_1.12-13:12
* यदि च त्वादृशां सा ज्ञातुमशक्या तत् तत्पदसाक्षात्काराभिज्ञसद्गुरुसपर्या कार्या न तु शून्यतेति स्वमनीषिकयैव व्यवहृत्यात्मा परश् चागाधे महामोहे निक्षेप्तव्य इत्यलम् ॥ व्स्प्क्च्_1.12-13:13
* अथ कुतो ज्ञातं तत्र मूढतास्तीत्यत्रानेनोत्तरम् आह यत इति ॥ व्स्प्क्च्_1.12-13:14
* अभियोगः समाधानोत्थितस्य कीदृगहम् आसमिति तदवस्थाभिमुखविमर्शात्माभिलापस् तत्संस्पर्शात् तद्वशाद्धेतोस् तद् आसीद् इति यतो निश्चयः गाढमूढो ऽहम् आसम् इति यतो ऽस्ति प्रतिपत्तिः अतो मोहावस्थैव सा कल्पिता तथा स्मर्यमाणत्वात् सा चानुभूयमानत्वाद् अनुभवितुः प्रमातुर् अवस्थातृरूपस्य प्रत्युत सत्ताम् आवेदयते न त्व् अभावमिति विश्वाभावावस्थायां चिद्रूपस्याखण्डितमेव रूपं तिष्ठतीति नामुष्याभावो जातुचिद् वक्तुं शक्यत इत्युक्तं भवति ॥ व्स्प्क्च्_1.12-13:15
* ननु दृष्टं निश्चितं नीलादि स्मर्यते न च शून्यभूतस्य न्यग्भूतबुद्धिवृत्तेर् निश्चयो ऽस्ति तत् कथमुक्तं तद् आसीद् इत्यौत्तरकालिकान् निश्चयान् मूढता सेति ॥ व्स्प्क्च्_1.12-13:16
* उच्यते वेद्यस्यैषा गतिः यस्मात् तदिदंतासारमिदंतया यावत्प्रमात्रा स्वात्मोपारोहेण न निश्चितं तावन् न स्मर्यते वेदकस्तु कल्पितशून्याद्यवस्थासु संकुचितो ऽप्य् असांकेतिकाहंतापरमार्थ एवेति न तस्य स्वात्मनि पृथक्तास्तीति तन्निश्चायको विकल्पः इत्यहंविमृश्यमेव तदा स्वसंवेदने नैव सिद्धं शून्यप्रमातृरूपं विश्वप्रतियोगित्वाच् च संकोचसार ॥ व्स्प्क्च्_1.12-13:17
* सदुत्तरकालं स्मर्यत इति न काचिद् अनुपपत्तिर् यस्माद् एवमतस् तच् छून्यात्मकं पदं कृत्रिमम् तस्माद् भूतमभूतं वा यद् यद् एवातिभाव्यते ।
* इति तदुक्तयैव नीत्या अभूतभावनयैवोत्थापितं परमेश्वरेणैव ज्ञानगोपनायै मूढानाम् उपेयतया तथा भासितमित्यर्थः ॥ व्स्प्क्च्_1.12-13:18
* ज्ञेयं ज्ञातव्यं ज्ञेयरूपं च सदा सुषुप्तवदिति दृष्टान्तः ॥ व्स्प्क्च्_1.12-13:19
* अयं भावः सदा सुषुप्तं मोहरूपमप्रयाससिद्धं सर्वस्यास्त्येव तत् किम् अनेन समाधिप्रयत्नोपार्जितेनान्येन शून्येन कृत्यं द्वयस्याप्यवस्तुत्वाविशेषाद् इति ॥ व्स्प्क्च्_1.12-13:20
* प्रायश्चास्मिन् शून्ये दुरुत्तरे महामोहार्णव एव वेदान्तविदक्षपादसांख्यसौगतादिप्राया बहवो ऽनुप्रविष्टाः ॥ व्स्प्क्च्_1.12-13:21
* स्पन्दतत्त्वसमाविविक्षूणाम् अपि च शिथिलीभूतप्रयत्नानां शून्यम् एतद् विघ्नभूतम् ॥ व्स्प्क्च्_1.12-13:22
* यद्वक्ष्यति ।
* तदा तस्मिन्महाव्योम्नि ॥ व्स्प्क्च्_1.12-13:23
* इत्यारभ्य ।
* सौषुप्तपदवन्मूढः ॥ व्स्प्क्च्_1.12-13:24
* इति ॥ व्स्प्क्च्_1.12-13:25
* अत एतदुच्छेदे ग्रन्थकारस्य महान् संरम्भो लक्ष्यते ॥ व्स्प्क्च्_1.12-13:26
* तथा चेह हेयतयैव तन् निर्णीयापि पुनरपि निर्णेष्यते ।
* कार्योन्मुखः प्रयत्नो यः ।
* इत्यत्र ॥ व्स्प्क्च्_1.12-13:27
* ततो ऽस्माभिर् एतद्दूषणारम्भः कृत इति न नः कोपः कार्यो ऽत्रभवद्भिर् उपदेशनिभालनदत्तकर्णैः ॥ व्स्प्क्च्_1.12-13:28
* सौगतेषु दूषितेषु श्रुत्यन्तवादादयो दूषिता एव तुल्यन्यायत्वाद् इति नाभ्यधिकम् उक्तम् ॥ व्स्प्क्च्_1.12-13:29
* तदिदानीं प्रकृतमेव ब्रूमहे तत्तु स्पन्दाख्यं तत्त्वमेवमिति शून्यवन् न स्मर्यमाणत्वं प्रतिपद्यते तस्य सर्वदानुस्यूतोपलब्ध्रेकरूपस्य कदाचिद् अप्य् अनुपलभ्यत्वायोगात् ॥ व्स्प्क्च्_1.12-13:30
* तथा चाहुः ।
* विज्ञातारम् एरे केन विजानीयात् ॥ व्स्प्क्च्_1.12-13:31
* इति ॥ व्स्प्क्च्_1.12-13:32
* यद्यपि च समावेशदशा व्युत्थितेन प्राणादिसंस्कारवशात् स्मर्यते तथापि न तावदेव स्पन्दतत्त्वमपि तु सर्वानुस्यूतानवच्छिन्नप्रकाशानन्दसारपरप्रमातृरूपम् एव तत् ॥ व्स्प्क्च्_1.12-13:33
* यद्वक्ष्यति ।
* तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः ॥ व्स्प्क्च्_1.12-13:34
* इति ॥ व्स्प्क्च्_1.12-13:35
* अतोऽस्यानवच्छिन्नचमत्काररूपस्य न जातुचित्स्मर्यमाणत्वं मूढत्वं वा ॥ व्स्प्क्च्_1.12-13:36
* यस्तु तत्तत्त्वमितीह तच्छब्देनास्य निर्देशः कृतः स ॥ व्स्प्क्च्_1.12-13:37
* स्वातन्त्र्यामुक्तम् आत्मानम् ॥ व्स्प्क्च्_1.12-13:38
* इति श्रीप्रत्यभिज्ञाकारिकोक्तनीत्या कल्पितस्यैवापारमार्थिकस्वरूपस्य न तु तत्त्वतः पारमार्थिकस्य ॥ व्स्प्क्च्_1.12-13:39
* न प्रतिपद्यत इत्यनेनेदम् आह अस्य तत्त्वस्य स्मर्यमाणत्वेन प्रतीतिर् एव नास्तीति ॥ व्स्प्क्च्_1.12-13:40
* ननु यत्र स्थितमित्यादौ चिद्रूपस्यैव विश्वकार्यरूपताग्राहित्वमुक्तं तद्ध्यानोत्थापितं कृत्रिममभावात्मकं रूपं ते नैव गृहीतमिति कथम् अस्यानवच्छिन्नचमत्काररूपम् अमूढत्वम् इत्याशङ्कायाम् आह ॥ व्स्प्क्च्_1.12-13:41]
अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ।
कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम्

1.15

कार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते ।
तस्मिंल् लुप्ते विलुप्तो ऽस्मीत्यबुधः प्रतिपद्यते

1.16

न तु यो ऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् ।
तस्य लोपः कदाचित्स्याद् अन्यस्यानुपलम्भनात्

1.17

* [<स्पन्दकारिकानिर्णय>
* अत्र स्पन्दतत्त्वे कार्यत्वं कर्तृत्वमिति च शब्दितं शब्दव्यवहारमात्रेण भेदितमवस्थायुगलमस्ति वस्तुतो हि तदेकमेव स्वतन्त्रप्रकाशघनशंकररूपं तत्त्वं कर्तृसत्त्वाव्यतिरिक्तया प्रकाशात्मना क्रियया व्याप्तं तदभेदेन प्रकाशमानं तत्त्वभुवनशरीरतदभावादिरूपत्वं स्वीकुर्वत्कार्यम् इत्युच्यते तदन्यस्य कस्यापि कारणत्वायोगात् ॥ व्स्प्क्च्_1.14-16:1
* यथोक्तं श्रीप्रत्यभिज्ञायाम् ।
* जडस्य तु न सा शक्तिः सत्ता यदसतः सतः ।
* कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ व्स्प्क्च्_1.14-16:2
* इति ॥ व्स्प्क्च्_1.14-16:3
* तस्य चेदमेव कार्यत्वं यदयं विचित्रदेशकालाद्याभाससंयोजनवियोजनक्रमेणानन्तान् देहनीलाद्याभासांश् चिदात्मनः स्वरूपाद् अनतिरिक्तान् अपि मुकुरप्रतिबिम्बवद् अतिरिक्तान् इवाभासयति यावच् च किंचिदाभासयति तत् सर्वम् आभास्यमानत्वादेव बहिर्मुखेन रूपेण क्षयधर्मकं क्षयश् चास्येदंताभासनिमज्जनेनाहंतारूपतयावस्थानम् अत एव देहादेर्ग्राहकस्य यो वेद्यांशः स एव भगवता सृज्यते संह्रियते च न त्व् अहंताप्रकाशात्मकं कर्तृरूपं तस्य देहाद्यावेशे ऽपि भगवदेकरूपत्वात् अतस्तत्र तयोः कार्यकर्तृत्वयोर् मध्यात् कार्यता क्षयिणी कर्तृत्वं चित्स्वातन्त्र्यरूपं पुनरक्षयं जगदुदयापाययोर् अपि तस्य स्वभावाद् अचलनात् ॥ व्स्प्क्च्_1.14-16:4
* चलने तु जगदुदयापायाव् अपि न कौचिच् चकास्याताम् इति मूढाद्यवस्थायाम् अप्य् अखण्डितचमत्कारसारम् अमूढम् एवैतत् ॥ व्स्प्क्च्_1.14-16:5
* नन्व् अभावसमाधाननिष्पत्तौ सुषुप्तादौ चास्य कर्तृत्वं नोपलभामहे क्वचिदपि प्रवृत्त्यदर्शनात् ॥ व्स्प्क्च्_1.14-16:6
* सत्यं कार्योन्मुख इन्द्रियादिप्रेरणात्मकव्यापारप्रवणो यः प्रयत्नः संरम्भः सो ऽत्र कार्यक्षयपदे लुप्यते विच्छिद्यते तस्मिंल् लुप्ते सति अबुधो ऽभावसमाध्यपहारितात्मरूपो मूढो विलुप्तो ऽस्मीति मन्यते ॥ व्स्प्क्च्_1.14-16:7
* यः पुनरन्तर्मुखो ऽहंताप्रकाशरूपः स्वभावो ऽत एव सर्वज्ञत्वगुणस्यास्पदम् उपलक्षणं चैतत् सर्वकर्तृत्वादेर् अपि तस्य लोपो न कदाचित् स्याद् भवतीति न कदाचिदपि संभावनीयो ऽन्यस्य तल्लोपम् उपलब्धुः कस्याप्य् अनुपलम्भात् यदि स कश्चिद् उपलभ्यते स एवासाव् अन्तर्मुखश् चिद्रूपो न चेद् उपलभ्यते तर्हि सा लोपदशास्तीति कुतो निश्चयः ॥ व्स्प्क्च्_1.14-16:8
* अथ चान्यः कश्चित् तल्लोपं नोपलभते ऽपितु स एव प्रकाशात्मा तत्कथं तस्याभावः ।
* एवं चान्यस्यानुपलम्भनाद् इत्य् अत्रान्यकर्तृकस्योपलम्भस्याभावाद् इत्यर्थः ॥ व्स्प्क्च्_1.14-16:9
* अथ च घटाभावो यथा घटविविक्तभूतलाद्युपलम्भनान् निश्चीयते तथैवात्माभावो ऽप्यात्मविविक्तस्य कस्यचिद् उपलम्भान् निश्चीयेत तदुपलम्भकसत्तावश्यम्भाविनीति तदुपलम्भकस्वात्मनास्तिता न सिध्यति ॥ व्स्प्क्च्_1.14-16:10
* यदि च कार्योन्मुखप्रयत्नलोपे स लुप्येत तदोत्तरकालम् अन्यस्य कस्याप्युपलम्भो न भवेत् अन्योपलम्भाभावः प्रसज्येतेत्य् अर्थः ॥ व्स्प्क्च्_1.14-16:11
* अपि चान्यस्य बहिर्मुखस्य प्रयत्नस्य सौषुप्तादाव् अनुपलम्भात् कथम् अन्तर्मुखस्य तत्त्वस्य बालिशैर् लोप आशङ्कितो यतो ऽन्यस्य लोपे ऽन्यस्य किं वृत्तम् ॥ व्स्प्क्च्_1.14-16:12
* अथ चान्यस्य कार्योन्मुखप्रयत्नस्यानुपलम्भाद् अनुपलम्भप्रकाशनान् न कदाचित् प्रकाशात्मनो ऽन्तर्मुखस्य तस्योपलब्धुर् लोपः यतो ऽसाव् अन्तर्मुखोभावः सर्वज्ञत्वगुणस्यास्पदं ताम् अप्यभावदशां वेत्त्येव अन्यथा सैव न सिध्येदिति ॥ व्स्प्क्च्_1.14-16:13
* अन्यस्येति कर्तरि कर्मणि च षष्ठी ॥ व्स्प्क्च्_1.14-16:14
* अन्तर्मुखे कार्यत्वप्रतियोगिताम् इव कर्तृत्वस्य सम्भाव्यावस्थात्वम् उक्तं वस्तुतस्तु उक्तयुक्त्या तस्यावस्थातृत्वम् एव ॥ व्स्प्क्च्_1.14-16:15
* अन्तर्मुख इति अन्तः पूर्णाहंतात्मकं मुखं प्रधानं यस्येति योज्यम् ॥ व्स्प्क्च्_1.14-16:16
* एवम् अप्रबुद्धो बहिर्मुखव्यापारनिरोधे ग्राहकस्याप्यात्मनो ऽनुपपन्नम् अप्यभावं निश्चिनुत इति प्रतिपाद्य सुप्रबुद्धाप्रबुद्धयोर् यादृग् आत्मोपलम्भस्तं निरूपयति ॥ व्स्प्क्च्_1.14-16:17]
तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी ।
नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु

1.18

* [<स्पन्दकारिकानिर्णय>
* तस्य प्राकरणिकस्वभावस्य योपलब्धिः अनवच्छिन्नः प्रकाशः सा कथितयुक्त्यवष्टम्भात् सुष्ठु प्रबुद्धस्याप्रबुद्धतासंस्कारेणापि शून्यस्य सततं त्रिष्वपि जागरस्वप्नसौषुप्तपदेषु नित्यमिति आदौ मध्येऽन्ते चाव्यभिचारिणी अनपायिनी स्याद्भवत्येव सदासौ शंकरात्मकस्वस्वभावतया स्फुरतीत्य् अर्थः ॥ व्स्प्क्च्_1.17:1
* परस्याप्रबुद्धस्य पुनस्तासां दशानां स्वोचितसंविद्रूपाणां प्रत्येकम् आदाव् उद्बुभूषायाम् अन्ते च विश्रान्त्यात्मकान्तर्मुखत्वे न तु स्वोचितार्थावभासावस्थितिरूपे मध्यपदे ॥ व्स्प्क्च्_1.17:2
* यदुक्तं श्रीशिवदृष्टौ ।
* यावत् समग्रज्ञानाग्रज्ञातृस्पर्शदशास्व् अपि ।
* स्थितैव लक्ष्यते सा तु तद्विश्रान्त्याथवा फले ॥ व्स्प्क्च्_1.17:3
* भट्टलोल्लटेनापि तदाद्यन्त इत्येवमेव व्याख्यायि स्ववृत्तौ ॥ व्स्प्क्च्_1.17:4
* भट्टश्रीकल्लटवृत्त्यक्षराण्यपेक्ष्य वयमपि तद्वृत्त्यक्षरानुरोधेन सौत्रम् अर्थम् अतिविमलमपि क्लिष्टकल्पनया व्याकर्तुमशिक्षिताः यत एवासुप्रबुद्धस्य तदाद्यन्ते ऽस्ति तदुपलब्धिः अत एवायम् इहाधिकारी स्पन्दोपदेशैः सुप्रबुद्धीक्रियते ॥ व्स्प्क्च्_1.17:5
* यद्वक्ष्यति ।
* अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये ।
* जाग्रत् ।
* इत्यादि ।
* सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ।
* इति ।
* तथा स्वप्नेऽपि ।
* इत्यादि ।
* प्रबुद्धः सर्वदा तिष्ठेत् ॥ व्स्प्क्च्_1.17:6
* इत्यादि च ॥ व्स्प्क्च्_1.17:7
* अत्र हि जागरादित्रिषु पदेषु आद्यन्तकोटिवन् मध्यमप्य् अर्थावसायात्मकं पदं तुर्याभोगमयं कर्तुं प्रबुद्धस्य सुप्रबुद्धतापादनायोपदेशः प्रवृत्तः एतच् च निर्णेष्यामः ॥ व्स्प्क्च्_1.17:8
* तथा च शिवसूत्रम् ।
* जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ व्स्प्क्च्_1.17:9
* तथा ।
* त्रिषु चतुर्थं तैलवद् आसेच्यम् ।
* इति ।
* त्रितयभोक्ता वीरेशः ।
* इति ॥ व्स्प्क्च्_1.17:10
* सुप्रबुद्धस्य त्रिषु पदेषु यादृश्य् उपलब्धिस् तां विभागेन दर्शयति ॥ व्स्प्क्च्_1.17:11]
ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ।
पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः

1.19

* [<स्पन्दकारिकानिर्णय>
* सुप्रबुद्धस्य भूम्ना ज्ञानज्ञेयस्वरूपया मध्यमे पदे ज्ञानाग्रपर्यन्तयोस् तु स्वस्वरूपयैव स्पन्दतत्त्वात्मना पराशक्त्या युक्तो विभुः शंकरात्मा स्वभावो जागरास्वप्नरूपे पदद्वये भाति ॥ व्स्प्क्च्_1.18:1
* तत्र हि विश्वमसौ सदाशिवेश्वरवत्स्वाङ्गवत् पश्यति तदन्यत्र तु सुषुप्ते न तु यथान्ये सुषुप्ततुर्ययोर् इति त्रिपदाव्यभिचारिणी इति प्रक्रान्ते तुर्यस्याप्रस्तुतत्वात् तदुपलब्धेर् एव च तुर्यरूपत्वात् असौ विभुश् चिन्मय एवास्य भाति अशेषवेद्योपशमाद् इत्य् एतत् सुप्रबुद्धाभिप्रायम् एव न तु वस्तुवृत्तानुसारेण तदन्यत्र तु चिन्मयः इत्य् अस्यानुपपन्नत्वापत्तेः लोके सौषुप्तस्य मोहमयत्वात् शिवापेक्षया तु जाग्रत्स्वप्नयोरपि चिन्मयत्वात् एवमपि च प्रकृतानुपयुक्तत्वात् ॥ व्स्प्क्च्_1.18:2
* इतः प्रभृति प्रथमनिःष्यन्दान्तो ग्रन्थः प्रबुद्धस्य सुप्रबुद्धतायै स्थितो यथा टीकाकारैर्न चेतितस् तथा परीक्ष्यतां स्वयमेव कियत्प्रतिपदं लिखामः ॥ व्स्प्क्च्_1.18:3
* यथेयं जागरादिमध्यदशापि प्रबुद्धं न प्रतिबध्नाति तथोपपादयति ॥ व्स्प्क्च्_1.18:4]
गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् ।
लब्धात्मलाभाः सततं स्युर् ज्ञस्यापरिपन्थिनः

1.20

* [<स्पन्दकारिकानिर्णय>
* गुणाः सत्त्वरजस्तमांसि येषां प्रकृतितत्त्वं विभवभूते मायातत्त्वावस्थिता इहाभिप्रेताः ॥ व्स्प्क्च्_1.19:1
* यथोक्तं श्रीस्वच्छन्दे मायामसूरकविन्यासे ।
* अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ।
* मध्ये तमो विजानीयाद्गुणास् त्व् एते व्यवस्थिताः ॥ व्स्प्क्च्_1.19:2
* इति ॥ व्स्प्क्च्_1.19:3
* त आदयो येषां कलादीनां क्षित्यन्तानां स्पन्दानां विशेषप्रसराणां तेषां ये निःष्यन्दास्तनुकरणभुवनप्रसराः नीलसुखादिसंविदश् च तथा योग्यपेक्षया बिन्दुनादादयस् ते सततं ज्ञस्य सुप्रबुद्धस्य कस्यचिद् एवापश्चिमजन्मनो ऽपरिपन्थिनः स्वस्वभावाच्छादका न भवन्तीति निश्चयः यतस् ते सामान्यस्पन्दमुक्तरूपम् आश्रित्य यत्र स्थितम् इत्यत्र निर्णीतदृशा लब्धात्मलाभास् तत एवोत्पन्नास् तन्मयाश् चेत्यर्थः ॥ व्स्प्क्च्_1.19:4
* तथाहि ।
* स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
* मायातृतीये त एव पशोः सत्त्वं रजस्तमः ॥ व्स्प्क्च्_1.19:5
* इति श्रीप्रत्यभिज्ञोक्तदृशा चितिशक्तिरेव पारमेश्वरी ज्ञानक्रियामायाशक्तित्रितयतया श्रीसदाशिवादिपदे स्फुरित्वा संकोचप्रकर्षात्सत्त्वरजस्तमोरूपं क्रीडाशरीरं श्रयति यतो निजचिच्छक्तिस्फारमयत्वात् तदधिष्ठितमेव सर्वदा सर्वं जानन् सुप्रबुद्धो गुणादिविशेषस्पन्दान् अनुच्छिन्दन्न् अपि स्पन्दतत्त्वावेशमय एव ॥ व्स्प्क्च्_1.19:6
* यथा त्व् अप्रबुद्धान् बध्नन्त्य् एते तत् प्रतिपादयति ॥ व्स्प्क्च्_1.19:7]
अप्रबुद्धधियस् त्व् एते स्वस्थितिस्थगनोद्यताः ।
पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि

1.21

* [<स्पन्दकारिकानिर्णय>
* अप्रबुद्धधियः प्रायः सर्वान् अप्रत्यभिज्ञातपारमेश्वरीशक्त्यात्मकनिजस्पन्दतत्त्वान् देहात्ममानिनो लौकिकान् प्राणाद्यात्माभिमानिनश् च मितयोगिनस् त्व् एते पूर्वोक्ता गुणादिस्पन्दनिःष्यन्दाः स्वस्याः स्पन्दतत्त्वात्मनः स्थितेः स्थगनायोद्यता नित्यं तदुद्यमैकसाराः दुःखेनोत्तार्यन्ते ऽस्माद् दैशिकैर् जन्तुचक्रमिति दुरुत्तारे लङ्घयितुम् अशक्ये घोरे दुःखमये संसरणमार्गे पातयन्ति ॥ व्स्प्क्च्_1.20:1
* यथोक्तं श्रीमालिनीविजये ।
* विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् ।
* रुद्राणून्याः समालिङ्घय घोरतर्यो ऽपराः स्मृताः ॥ व्स्प्क्च्_1.20:2
* इति ॥ व्स्प्क्च्_1.20:3
* तथा हि पूर्वं प्रतिपादिता येयं स्पन्दतत्त्वात्मा पराशक्तिः सैव विश्वस्यान्तर्बहिश् च वमनात् संसारवामाचारत्वाच् च वामेश्वरीशक्तिः तदुत्थापितानि तु खेचरीगोचरीदिक्चरीभूचरीरूपाणि चत्वारि देवताचक्राणि सुप्रबुद्धस्य परभूमिसंचारीणि अप्रबुद्धानां तु अधराधरसरणिप्रेरकाणि ॥ व्स्प्क्च्_1.20:4
* तथा हि या एव सुप्रबुद्धस्य खे बोधगगने चरन्त्यः खेचर्यो ऽकालकलितत्वाभेदसर्वकर्तृत्वसर्वज्ञत्वपूर्णत्वव्यापकत्वप्रथाहेतवस् ता एवाप्रबुद्धस्य शून्यप्रमातृपदचारिण्यः कञ्चुकरूपतया स्थिताः कालकलितत्वकिंचित्कर्तृताकिंचिज्झताभिष्वङ्गनियमहेतवः ॥ व्स्प्क्च्_1.20:5
* गौर् वाक् तदुपलक्षितासु संजल्पमयीषु बुद्ध्यहंकारमनोभूमिषु चरन्त्यो गोचर्यः सुप्रबुद्धस्य स्वात्माभेदमयाध्यवसायाभिमानसंकल्पाञ् जनयन्ति मूढानां तु भेदैकसारान् ॥ व्स्प्क्च्_1.20:6
* दिक्षु दशसु बाह्येन्द्रियभूमिषु चरन्त्यो दिक्चर्यः सुप्रबुद्धस्याद्वयप्रथासाराः अन्येषां द्वयप्रथाहेतवः ॥ व्स्प्क्च्_1.20:7
* भूरूपादिपञ्चकात्मकं मेयपदं तत्र चरन्त्यो भूचर्यस् तदा भोगमय्या आश्यानीभावतया तन्मयत्वमापन्नाः भूचर्यः सुप्रबुद्धस्य चित्प्रकाशशरीरतयात्मानं दर्शयन्त्य इतरेषां सर्वतो ऽप्य् अवच्छिन्नतां प्रथयन्त्यः स्थिताः इत्य् एवं प्रमात्रन्तःकरणबहिष्करणप्रमेयरूपतयैव तानि चत्वारि चक्राणि गुणादिस्पन्दमयान्य् अप्रबुद्धबुद्धींल् लौकिकांस् तथा बिन्दुनादादिप्रथामात्रसंतुष्टान् योगिनस् तत्तत्त्वप्रसररूपे संसारे पातयन्ति ॥ व्स्प्क्च्_1.20:8
* यत एवम् ॥ व्स्प्क्च्_1.20:9]
अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये ।
जाग्रदेव निजं भावम् अचिरेणाधिगच्छति

1.22

* [<स्पन्दकारिकानिर्णय>
* उक्तवक्ष्यमाणरूपस्य स्पन्दतत्त्वस्य विविक्तये विमर्शनाय सततम् उद्युक्तः ।
* मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ॥ व्स्प्क्च्_1.21:1
* इति गीतोक्तदृशा सततम् एवान्तर्मुखस्वरूपनिभालनप्रवणो यः स जाग्रदेव जागरावस्थास्थित एव निजमात्मीयं शंकरात्मकं स्वस्वभावम् अचिरेणाधिगच्छति तथा अस्य शंकरात्मा आन्तरः स्वभावः स्वयम् एवोन्मज्जति येन प्रबुद्धो नित्योदितसमावेशासादनात् सुप्रबुद्धो जीवन्मुक्तो भवतीत्यर्थः ॥ व्स्प्क्च्_1.21:2
* यथास्योद्युक्तस्य बलवदालम्बनवशोदितानायासतदन्यसकलवृत्तिक्षयमयीषु नियतासु यास्ववस्थासु स्पन्दनिधानम् उन्मुद्रितम् अभिमुखीभूतम् आस्ते ता एताः प्रथमम् उद्योगस्य विषया इत्युपदेष्टुम् आह ॥ व्स्प्क्च्_1.21:3]
अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन्वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः

1.23

* [<स्पन्दकारिकानिर्णय>
* सर्वत्र तावद् उपायमार्गे समस्तेतरवृत्तिप्रशमपूर्वम् एकाग्रीभवन्ति योगिनः एतास्वतिक्रोधाद्यवस्थासु स्वरसत एव समस्तापरवृत्तिक्षयमयीषु यदि स्पन्दतत्त्वविविक्तये सततम् उद्युक्तो झटित्य् अन्तर्मुखीभवन्ति योगिनस् तत्समीहितम् अचिरेणैव लभन्ते ॥ व्स्प्क्च्_1.22:1
* अयोगिनस्त्वत्र मूढा एवेति तात्पर्यम् ॥ व्स्प्क्च्_1.22:2
* तथाहि समनन्तरविहितदारुणोपघातशत्रुदर्शनान् मर्मस्पर्शितत्तद्वचनाकर्णनाद् वा प्रथमम् एवोन्मिषत्संजिहीर्षादेवताबलाद् अन्तर्मुखीभवद्रश्मिचक्रो ऽतिक्रुद्धः चिरप्रार्थितप्राणेशीवदनेन्दुदर्शनाद् एव तत्क्षणम् एवोन्मज्जत्पूर्णाभिलाषदेवतावशविकासितानुधावत्समस्तकरणचक्रः प्रहृष्टो वा बलवदाततायिबलेन सर्वतो वलितत्वात् कान्दिशीकः किं करोमीति मृशन् विकल्पयन् संशयधाराधिरोहात्मनि पदे ऽनुप्रविष्टः क्षीणसकलालम्बनविकसत्संशयसंविन्निरालम्बनीकृतवृत्तिप्रसरो वा मत्तवारणाद्यनुबध्यमानो धावन् शरीरनिरपेक्षम् एव स्वात्मप्रवणीकृतेतरवृत्तिप्रसरदुद्योगदेवीप्रेरणयातित्वरितपलायनक्रियाविष्टो वा एवम् अन्यास्व् अप्य् एवम्प्रायासु सिंहाजगराद्यवलोकनजनितमहात्रासाद्यवस्थासु यद् वृत्तिक्षयात्मकं पदं गच्छेद् अधितिष्ठेत् स्पन्दतत्त्वविविक्तये सततम् उद्युक्तो यो योगिजनस् तस्य तत्र वृत्तिक्षयात्मके पदे ऽवस्थाविशेषे स्पन्दः प्रतिष्ठितः स्पन्दतत्त्वम् अभिमुखीभूतमेव तिष्ठति ॥ व्स्प्क्च्_1.22:3
* तस्माद् एतद् वृत्तिक्षयपदं संचेत्य झटिति कूर्माङ्गसंकोचयुक्त्या क्रोधसंशयवृत्तीः प्रशमय्य महाविकासव्याप्तियुक्त्या वा प्रहर्षधावनवृत्तीर् विस्फार्याभिमुखीभूतनिजस्पन्दशक्तिविमर्शवता योगिना भयम् ॥ व्स्प्क्च्_1.22:4
* यथोक्तं श्रीविज्ञानभैरवे ।
* कामक्रोधलोभमोहमदमात्सर्यगोचरे ।
* बुद्धिं निस्तिमितां कृत्वा तत् तत्त्वम् अवशिष्यते ॥ व्स्प्क्च्_1.22:5
* आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ॥ व्स्प्क्च्_1.22:6
* आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत् ॥ व्स्प्क्च्_1.22:7
* क्षुताद्यन्ते भये शोके गह्वरे वारणद्रुते ।
* कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा ॥ व्स्प्क्च्_1.22:8
* इति ॥ व्स्प्क्च्_1.22:9
* एवम् एतास्व् अवस्थासूक्तयुक्त्या प्रथमं स्पन्दशक्तिं परिशील्य तदनु ताम् एवानुसंदधत् सर्वास्ववस्थासु तद्दार्ढ्यानुप्रवेशमयीं जीवन्मुक्तताम् आहरेत् सततोद्युक्त इत्युपदिशति ॥ व्स्प्क्च्_1.22:10]
यामवस्थां समालम्ब्य यदयं मम वक्ष्यति ।
तदवश्यं करिष्ये ऽहमिति संकल्प्य तिष्ठति

1.24

तामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्याव् उभाव् अपि ।
सौषुम्नेऽध्वन्य् अस्तमितो हित्वा ब्रह्माण्डगोचरम्

1.25

तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे ।
सौषुप्तपदवन् मूढः प्रबुद्धः स्याद् अनावृतः

मूल पाठ: Spandakārikā with the commentary by Kṣemarāja · Edition: M. K. Shastri Srinagar: Kashmir Pratap Steam Press, 1925 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc