भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 41-60

41

हस्तिनी यथा स्थूलाकृतिः स्थूलपयोधरा च स्थूलाधरा स्थूलनितम्बबिम्बा ।
कामोत्सुका गाढरतिप्रिया च मध्ये च पुष्टा करिणी मता च

42

स्थूला कठिनकुचा क्रूरा नात्युष्णा नातिशीतला ।
गौराङ्गी क्षीणनासा च पीनस्तनविलक्षणा

43

विशालजघना क्रूरा फुल्लनासातिशीतला ।
खर्वा च खर्वनासा च बहुलोमा च कामुकी

44

मदगन्धतनुर् नित्यं मत्तमातङ्गगामिनी ।
लुब्धा पीनस्तनी क्रुद्धा हस्तिनी सा प्रकीर्तिता

45

पद्मिनी पिकवाणी च स्निग्धवाणी च चित्रिणी ।
शङ्खिनी क्रूरवाणी च मेघवाणी च हस्तिनी

46

पद्मिनी पादशोभा च केशशोभा च चित्रिणी ।
शङ्खिनी मुखशोभा च कटिशोभा च हस्तिनी

47

पद्मिनी पद्मगन्धा च क्षीरगन्धा च चित्रिणी ।
शङ्खिनी मीनगन्धा च मदगन्धा च हस्तिनी

48

पद्मिनी पद्मनिद्रा च दीर्घनिद्रा च चित्रिणी ।
शङ्खिनी घोरनिद्रा च गजनिद्रा च हस्तिनी

49

पद्मिनी पद्मबन्धेन नागबन्धेन चित्रिणी ।
शङ्खिनी मीनबन्धेन गजबन्धेन हस्तिनी

50

पद्मिनी स्वल्पभोगा च लघुभोगा च चित्रिणी ।
शङ्खिनी बहुभोगा च गजभोगा च हस्तिनी

51

शशकः पद्मिनीं चैव चित्रिणीं च मृगस् तथा

52

शङ्खिनीं वृषभश् चैव हस्तिनीं तु हयस् तथा ।
रमते तुल्यभावेन तदा समरतं भवेत्

53

उच्चनीचातिनीचं च तथात्युच्चं च वर्जितम्

54

ख्यातं समरतं चैव तद् विरहत्य् अन्यथा स्त्रियः

55

इति स्त्रीणां जातिचतुष्टयम् ।
अथ ध्वजलक्षणप्रकरणम् ।
मुसलं रङ्गवीरं च द्विविधं ध्वजलक्षणम् ।
स्थूलं मुसलम् इत्य् आहुर् दीर्घं तद् रङ्गवीरकम्

56

नातिह्रस्वं नातिदीर्घं स्थूलं स्थूलान्तिकं वरम् ।
क्षत्रशीर्षे प्रसन्नं च लिङ्गानि स्युः शुभानि षट्

57

अथ भगलक्षणप्रकरणम् ।
कूर्मपृष्ठा गजस्कन्धा पद्मनाभिसमा तथा ।
अलोमा मृदुविस्तीर्णा षड् एते सुभगा भगाः

58

शीतलं चोष्णम् अत्युष्णं गोजिह्वासदृशं खरम् ।
इत्य् उक्तं कामशास्त्रज्ञैर् भगचिह्नचतुष्टयम्

59

शीतलं सुखदं प्रोक्तम् उष्णं च मध्यमं स्मृतम् ।
अत्युष्णम् असुखं चैव खरं प्राणहरं स्मृतम्

60

अथ कामचालनप्रकरणम् ।
अङ्गुष्ठे चरणे गुल्फे भगे नाभौ कुचे हृदि ।
कक्षे कण्ठे ऽधरे नेत्रे कपोले च श्रुताव् अपि ।
शीर्षे सर्वशरीरे तु वसेत् कामस् तिथिक्रमात्

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc