भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 61-80

61

सव्ये पुंसः स्त्रियो वामे कृष्णे शुक्ले विपर्ययः ।
ऊर्द्ध्वं प्रतिपदादौ च कृष्णे चाधः प्रचक्षते

62

एवं चैव वसेत् कामः स्थाने चैव विशेषतः ।
पादे जङ्घे ऊरुदेशे स्तने कक्षे गले श्रुतौ

63

नखक्षतं प्रदातव्यं भगे नाभौ च मर्दनम् ।
गण्डे नेत्रे ललाटे च चुम्बनं कामुकैर् इह ।
हृदये ताडनं हस्ताद् दन्तेनाधरपीडनम्

64

आत्मास्येन्दुशरद्विसप्ततिथयः ख्यातं नलिन्या रते पौलस्त्याब्धिरसाष्टभास्करतिथौ प्रीता भवेच् चित्रिणी ।
रुद्रानङ्गगणेशशम्भुतिथयः स्युः शङ्खिनीभुक्तये शेषाः स्युः सुरतोत्सवेषु करिणां जातां स्त्रियः प्रीतये

65

अङ्गुष्ठे चरणे च गुल्फनिचये जानुद्वये बास्तिके नाभौ वक्षसि कक्षयोर् निगदिता कण्ठे कपोले ऽधरे ।
नेत्रे कर्णयुगे ललाटफलके धौतं च वामभ्रुवाम् ऊर्ध्वाधश्चलनक्रमेण तिथयश् चान्द्रीकलापक्षये

66

सीमन्ते नयने ऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटे पिण्डके ।
गुल्फे पादतले तदङ्गुलितले ऽङ्गुष्ठे च तिष्ठत्य् असौ वृद्धक्षीणसमं तदा शशिकलापक्षद्वये योषिताम्

67

मौलौ कुन्तलकर्षणं नयनयोर् आचुम्बनं गण्डयोः दन्तेनाधरपीडनं हृदि हतिम् मुष्ट्या च नाभौ शनैः ।
कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते शिखरं नखैर् उरसिजौ गृह्णीत गाढं ततः

68

कुर्वाणो विरतिं मनोभवगृहे मातङ्गलीलायितं जान्वङ्गुष्ठपदोरुगुल्फहननं चान्योन्यतः कामिनाम् ।
इत्य् एवं गदितं प्रदेशकलनाद् इन्दोः कलारोपणं कर्तव्यं च नरैस् तु स्त्रीषु रभसाद् उक्तः प्रबोधाधिकः

69

इति कामुकसंघातैः कर्तव्यं कामचालनम् ।
द्रवत्य् अनेन कामो हि घृतभाण्डम् इवाग्निना

70

आलिङ्गनं चुम्बनं च दन्तक्षतनखक्षते ।
मर्दनं नखचाटुश् चाधरपानं कुचग्रहः

71

चुम्बनं संप्रहरणं नारीक्षोभणम् एव च ।
एतद् बाह्यरतं कुर्यात् कामप्रकटहेतवे

72

अधरे गण्डयोर् भाले कपोले गलके हृदि ।
स्तने च कक्षयोर् हस्ते नाभिमूले भगस्थले

73

कुक्षौ जघनयोर् मूले हृदयोर् नेत्रयोर् मुखे ।
कट्यां च चुम्बनं दन्तक्षतं नेत्रे तु वर्जितम्

74

भगे मर्दनम् आपूर्य ततो मैथुनम् आचरेत् ।
कृत्वा विवस्त्रां कान्तां तु मेढ्रं तत्र प्रवेशयेत्

75

वक्षसा स्तनयुग्मं तु सम्पीड्य बाहुबन्धनम् ।
अन्योन्यं दृढम् आक्रम्य कुर्याद् आलिङ्गनं स्त्रियः

76

रसिकेन रसज्ञेन सततं रतिम् इच्छता ।
गाढम् आलिङ्गनं देयं तत्सख्या ह्य् अनुरागतः

77

गले वक्षःस्थले कुक्षौ कण्ठपार्श्वे भगे तथा ।
जघनोरुनितम्बेषु पृष्ठे हस्ते शिरःसु च

78

कण्ठमूले कपोले च नखक्षतम् अथाचरेत्

79

कक्षाकण्ठकपोलेषु नाभिश्रोणिकुचौ तथा ।
भगस्कन्धौ कर्णमूलौ त्रयोदश नखालयः

80

स्थानेष्व् एतेषु कुक्षौ च नखचाटुं समाचरेत् ।
रोमाञ्चहेतुसुखदं मदनोद्दीपनं मतम्

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc