भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 21-40

21

अल्पभुग् धार्मिकश् चैव सत्यवादी प्रियंवदः ।
अष्टाङ्गुलो भवेन् मेढ्रो रूपयुक्तो मृगो मतः

22

वृषो यथा उदरकटिकृशास्यः शीघ्रगामी नतांसः कनकरुचिरदेहः कष्टवादी वृषो ऽसौ

23

व्यसनकृपणबुद्धिः स्त्रीवशः स्त्रीविलासो बहुगुणबहुतेजाः दीर्घनेत्रो ऽभिमानी

24

उपकारपरो नित्यं स्त्रीवशी श्लेष्मलस् तथा ।
लुब्धश् च कृपणश् चैव मिथ्यावादी च निर्भयः ।
दशाङ्गुलशरीरस् तु मेदस्वी वृषभो मतः

25

हयो यथा उदरकटिकृशास्यो दीर्घकण्ठाधरोष्ठः ।
दशनवदननेत्रं तस्य दीर्घो ऽपि नाभिः

26

लुब्धश् च कृपणश् चैव मिथ्यावादी च निर्भयः

27

द्वादशाङ्गुलमेढ्रस् तु कुशलो ऽपि हयो मतः

28

इति पुरुषलक्षणानि चत्वारि

29

अथ स्त्रीणां जातिचतुष्टयप्रकरणम् ।
पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
प्रत्येकं च वरस्त्रीणां ख्यातं जातिचतुष्टयम्

30

पद्मिनी यथा भवति कमलनेत्रा नासिकाद् ऊर्ध्वरन्ध्रा अविरलकुचयुग्मा दीर्घकेशा कृशाङ्गी

31

मृदुगमनसुशीला नृत्यगीतानुरक्ता सकलगुणसुवेषा पद्मिनी पद्मगन्धा

32

शशिवदना बिम्बौष्ठी तन्वी ताम्रनखी तथा ।
मन्दगा लज्जिता श्यामा रक्तप्रान्तविलोचना

33

गायनी सुरताढ्या च पारावतकलस्वना ।
स्वल्पाहारा सुकेशी च पद्मगन्धा च पद्मिनी

34

चित्रिणी यथा भवति विपुलकेशा नातिदीर्घा न खर्वा तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी

35

कठिनघनकुचाढ्या सुन्दरी बन्धशीला निखिलगुणविचित्रा चित्रिणी चित्रवेषा

36

गौराङ्गी त्यक्तलज्जा च बाह्यसंभोगसंरता ।
उत्तानशायिनी चोष्णा पारावतकलस्वना

37

स्निग्धाङ्गी मांसगन्धा च स्वल्पकामा कृशोदरी ।
धूर्ता गुरुनितम्बा च चित्रिणी श्रीफलस्तनी

38

दीर्घाकृतिदीर्घसुवर्णनेत्रा दीर्घाधरा दीर्घनितम्बबिम्बा ।
लेषातपालङ्कृतकण्ठदेशा पुंसैकचित्ता खलु शङ्खिनी स्यात्

39

शोभना कोमला चोष्णा दीर्घा दीर्घशिरोरुहा ।
मृद्वङ्गी क्षारगन्धा च नातिस्थूला न दुर्बला

40

गौराङ्गी तीक्ष्णनासा च पीनस्तनी विचक्षणा ।
विशालजघना क्रूरा सुरताढ्या च शङ्खिनी

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc