स्मरदीपिका · श्लोक 1-20
हरकोपानलेनैव भस्मीभूयाकरोत् स्मरः ।
अर्द्धं नारीशरीरं हि यश् च तस्मै नमो ऽस्तु ते
सम्यग् आराधितः कामः सुगन्धिकुसुमादिभिः ।
विदधाति वरस्त्रीणां मानग्रन्थिविमोचनम्
स्मरन् निर्जित्य रुद्रेण पश्चाद् उद्दीपितः स्मरः ।
तेन तन्नामधेयेन निर्मिता स्मरदीपिका
अनेककामशास्त्राणां सारम् आकृष्य यत्नतः ।
बालव्युत्पत्तये स्त्रीणां चित्तसन्तोषणाय च ।
प्रबोधाय वरस्त्रीणां तुष्ट्यै रतिसुखाय च
गर्गेणाभाषितां सम्यग् वक्ष्यामि स्मरदीपिकाम् ।
यस्य विज्ञानमात्रेण मूर्खो ऽपि रतिरङ्गधीः
बालिका तरुणी प्रौढा वृद्धा चेति विशेषतः ।
ज्ञातव्यो ह्य् अन्वितः कामो ध्रुवं शृङ्गारम् इच्छता
कामशास्त्रस्य तत्त्वज्ञा जायन्ते सुन्दरीप्रियाः ।
कामशास्त्रम् अजानन्तो रमन्ते पशुवत् स्त्रियम्
नानानिबन्धैः सुरतोपचारैः क्रीडासुखं जन्मफलं नराणाम् ।
किं सौरभेयीशतमध्यवर्ती वृषो ऽपि संभोगसुखं न भुङ्क्ते
स्वनारीरक्षणं पुंसां परनार्यनुरञ्जनम् ।
बन्धभेदेङ्गितज्ञानम् एतत् फलम् उदाहृतम्
येन संवत्सरो दृष्टः सकृत् कामः सुसेवितः ।
तेन सर्वम् इदं दृष्टं पुनर् आवर्तितं जगत्
प्रथमं लक्षणं पुंसां स्त्रीणां च तदनन्तरम् ।
ध्वजस्य लक्षणं प्रोक्तं भगलक्षणसंयुतम्
कामस्थानानि संलक्ष्य पुनः सम्यक्प्रचालनम् ।
पुनः षोडश बन्धाश् च तथैवाधोमुखाश् च षट्
द्वौ बन्धौ सुन्दरीणां च पश्चान् मुखरतं तथा ।
बाह्यं रतं ततः कुर्याद् रतं देशविशेषजम्
इङ्गितस्य परिज्ञानं दूत्याश् च तदनन्तरम् ।
तथाष्टनायिकायाश् च मन्त्रौषधिसुतोदयः
शशो मृगो वृषश् चैव चतुर्थस् तु हयस् तथा ।
कथयामि क्रमात् पुंसाम् एतज् जातिचतुष्टयम्
मृदुचपलसुशीलः कोमलाङ्गः सुवेषः सकलगुणनिधानं सत्यवादी शशो ऽसौ
वदति मधुरवाणीं नृत्यगीतानुरक्तः ।
द्विजसुरगुरुभक्तो बन्धुयुक्तो धनाढ्यः
स्त्रीजितो गायनश् चैव नारीसत्त्वपरः सुखी ।
षडङ्गुलो भवेन् मेढ्रः श्रीमांश् च शशको मतः
वदति मधुरवाणीं रक्तनेत्रः सुशीलः चलमतिरतिभीरुः शीघ्रगामी मृगो ऽसौ
उदरकटिकृशः स्याद् दीर्घबिम्बाधरौष्ठो दशनवदनदीर्घो दीर्घबाहुः प्रतापी
मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0