भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 202-221

202

अथ शुद्धं तथाशुद्धं समासादिततत्क्रियः ।
मन्त्रो गुरुमुखाल् लब्धः सिध्यत्य् अत्र न संशयः

203

त्रिचामुण्डे इति पदं ततः क्वनु क्वनु स्मृतम् ।
ततः पदं छनु छनु स्वकीयं वशम् आनयेत्

204

साध्यानाम द्वितीयान्तं दत्त्वा स्वाहेति योजयेत् ।
सामान्येनामुकीनामजपं कृत्वा वशं नयेत्

205

ह्रीं स्वाहेति मन्त्रेण साध्यानामान्वितेन च ।
सप्ताभिमन्त्रितं पुष्पं यैव गृह्णाति सा वशा

206

काकजिह्वालिपक्षौ च सुवर्णमलम् अश्रु च ।
रक्तं रतेश् च लेपेन वशीकुर्युर् मनीषिणः

207

सम्भोगजं वचाबीजं जिह्वा चार्कदलं सितम् ।
संचूर्ण्याञ्जितनेत्राणां भार्यापि वशतां नयेत्

208

हरितालं मनःशिला रक्तचन्दनम् एतत् सर्वं चूर्णीकृत्य ।
पुष्पेण सह यस्याः शिरसि दीयते सा पशुवद् वश्या भवति ।
पेचकस्य हृदयं कुङ्कुमेन सह सम्पिष्य तिलकं कुर्यात् तेन लोको वश्यो भवति

209

अश्वगन्धा वचा कुष्ठं बला नागबला तथा ।
माहिषं नवनीतं च गजपिप्पलीसंयुतम्

210

पिष्ट्वा तेषां विलेपेन गाढीकरणम् उत्तमम् ।
सम्पिष्टं छागमूत्रेण शूकशिम्बीसमुद्भवम्

211

नूनं तस्य प्रलेपेन लिङ्गं लौहोपमं भवेत् ।
नीलोत्पलसिताम्भोजकेसरं मधु शर्करा

212

अमीषां नाभिलेपेन रमते कामुकश् चिरम् ।
क्षीरेण कमलं पिष्ट्वा सलिलं गुटिकाकृतम्

213

उपस्थे निहितं कुर्यात् प्रकीर्णम् अपि च क्वचित् ।
अस्थि कृष्णबिडालस्य दक्षिणपार्श्वसम्भवम्

214

बद्धं कटितटे बीजं विबन्धं कुरुते ध्रुवम् ।
सप्तपर्णस्य बीजं हि स्तम्भयेच् छुक्रम् आत्मगम्

215

सितशरपुंषामूलं पारदसहितं करे धृत्वा ।
करञ्जबीजं मध्यस्थं समूलं बन्धयेद् बीजम्

216

केतकीभूमिलतासनमूलीबन्धविपक्वं कुसुम्भतैलम् ।
पादतले लेपेनावश्यं बीजस्तम्भं नयति पुंसाम्

217

माहिषदधिसहदेवीतिलमधुसितपद्मकेसरं मिलितम् ।
चूर्णं नाभिविलेपाद् वीर्यस्तम्भं करोत्य् अवश्यम्

218

बृहत्करञ्जबीजस्थं पारदं पद्मवेष्टितम् ।
मुखे क्षिप्तम् इदं बीजं स्तम्भयत्य् एव निश्चितम्

219

कुर्याद् आदौ परिच्छेदं मर्दनं च विशेषतः ।
सप्ताहं भावयेन् माषं निस्तुषं विदलं ततः

220

नालिकेरोदकेनाथ पुनस् तेषां च भावना ।
तत्पश्चाद् घनभ्रष्टं च भक्षयेत् क्षीरसाधितम्

221

वधूशतसहस्राणि कामी कामयते ततः

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc