भाषा

ENहिગુ
ग्रंथ पाठ

स्मरदीपिका · श्लोक 222-230

222

यस् तूपानहम् आकुञ्च्य समानेन नियोजयेत् ।
पादाङ्गुष्ठेन भूमौ तां पीडयेत् तु समाहितः

223

भक्षयेद् अथवा दग्धैश् चम्पकीकदलीयुतम् ।
अत्यग्रभागसंयुक्तः पुना ऋद्धिं प्रयच्छति

224

कल्लोलिनीकाननकन्दरादौ दुःखाश्रये चार्पितचित्तवृत्तिः ।
समृद्धम् आबद्धम् अभिन्नधैर्यः श्लथो ऽपि दीर्घं रमते रते

225

पारदं टङ्कनं व्योषा काकमाची तथा मधु ।
क्षिप्तलिङ्गश् चिरं नारीं द्रावयेद् रमणः सदा

226

तुम्बीपत्रं च लोध्रं च समभागेन लेपयेत् ।
भगलेपप्रदत्ते ऽस्मिन् प्रसूताप्य् अक्षता भवेत्

227

पलाशोदुम्बरं चापि तैलं कुसुमसम्भवम् ।
मधुना योनिसंलेपाद् गाढीकरणम् उत्तमम्

228

स्वीयेष्टदेवतामन्त्रो जप्तः स्वार्थम् अहिंसकः ।
यथाविभूतिदानं हि ब्रह्मचर्ये च तिष्ठति

229

कृत्वादौ तत्र शुद्धिं तु पुनः क्षेत्रे शुभेक्षणे ।
सूर्योदयप्रदोषाभ्यां विशेषाच् च स्वयं बली

230

कृत्वा चैकमना विज्ञो यदि बीजं विमुञ्चति ।
सूते मासोदये नूनं गुणवन्तं यशस्विनम्

मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc