स्मरदीपिका · श्लोक 182-201
उद्यानोत्सवतीर्थेषु अध्ववाटीवनेषु च ।
अनिष्टयुवतीसङ्गे क्षेत्रे पितृगृहे तथा
देवागारे कुटौ चैव तथा वाप्यादिसेवने ।
नटने गोगृहे चैव तथा बन्धुगृहोत्सवे ।
रक्षितव्या सदा नार्यः सद्भिर् आत्मप्रयत्नतः
सत्यप्रदानैर् मधुरैर् वचोभिः संरक्षितव्या तरुणी सदैव ।
अरक्षिता चापि कुलस्य नाशं कुर्याद्धि वै बाह्यजनानुरागात्
अग्राम्यमण्डनः प्राज्ञः शुचिः श्रीमांश् च गायनः ।
नर्मगोष्ठीप्रविष्टश् च षड्गुणो नागरो मतः
त्यागी विवेकी कुशलः कुलीनः कलाभिविज्ञः सुमतिर् धनाढ्यः ।
भवक्षमः सर्वसहः सुखी च श्रीमान् सुशीलः स हि नायकः स्यात्
रजकी मालिनी धात्री योगिनी प्रतिवेशिनी ।
सखी गोपालिका चेटी नापिता विधवा नटी
सैरन्ध्री कन्यका चैव दैवज्ञा दूतिका मता ।
विचित्राभरणा दक्षा परिज्ञातपरेङ्गिता
प्रवीणा स्थिरभावा च प्रगल्भा दूतिका मता ।
दूती नियुज्यते कार्ये बहुभाषाविभूषिता
रोषानुरूपकोपा या अनुनीता च तुष्यति ।
लक्ष्यते सा भृशं नाथगुणहार्यमनोज्ञया
अहरहर् अनुरागा दूतिकां प्रेष्य पूर्वं सरभसम् उपयाति क्वापि संकेतदेशे ।
न मीलति खलु यस्या वल्लभो दैवयोगान् निगदति भरतस् तां नायिकां विप्रलब्धाम्
यस्या रतिगुणाकृष्टः पतिः पार्श्वे न मुञ्चति ।
विचित्रविभ्रमासक्ता सा स्यात् स्वाधीनभर्तृका
या नित्यं प्रियविच्छेदे कान्तसौन्दर्यचेष्टिते ।
ध्यायेद् एकमना भूत्वा स्यात् सा विरहिणी मता
उद्दाममन्मथशरज्वरवेपमाना रोमाञ्चकर्णकुसुमं कुशलं वहन्ती ।
निःशङ्किनी व्रजति या प्रियसंगमाय सा नायिका खलु भवेद् अभिसारिकेति
या निर्लज्जा कृता गाढं मदेन मदनेन च ।
अभियाति प्रियं साभिसारिका कथिता बुधैः
अज्ञानान् न गतो यस्याः संकेतम् उचितप्रियः ।
तदनागमसंतप्ता खण्डिता सा प्रकीर्तिता
निरस्तो मन्युना कान्तः समर्थो हि यया पुनः ।
अवस्थिता विना तेन कुपिता कथिता बुधैः
भवेद् वासकसज्जा सा दूतीद्वारेण निर्जने ।
निश्चित्यागमनं भर्तुर् द्वारेक्षणपरायणा
दुर्वारदारुणमनोभवयोगम् आप्य पर्याकुलाकलितमानसमुद्वहन्तीम् ।
दुर्वारमन्मथशरज्वरवेपमानाम् उत्कण्ठितां वदति तां भरतः कवीन्द्रः
प्रियैकवर्तिनी चोष्णा धावत्युन्मादिनी तथा ।
तत्रैवावस्थिते कान्ते विरहोत्कण्ठिता मता
असाध्यायाः सुखं सिद्धिः साध्यायाश् चानुरञ्जनम् ।
स्वेच्छया वर्धते सम्यक्कामशास्त्रप्रयोजनम्
मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0